तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
| १५६ | तैत्तिरीये आरण्यके |
|---|
दधा॑ति । तपो॒ वै पु॑ष्करप॒र्णम् । स॒त्यꣳ रुक्मः॑ । अ॒मृतं॒ पुरु॑षः । ए॒ताव॒द्वावास्ति॑ । याव॑दे॒तत् । याव॑दे॒वास्ति॑ ॥ ॥ १ ॥ तदव॑रुन्धे^(२) । ^{(३)}कू॒र्ममुप॑दधाति । अ॒पामे॒व मेध॒मव॑रुन्धे । अथो॑ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै^(३) । ^{(४)}आप॑- मापा॒मपः॒ सर्वाः॑ । अ॒स्माद॒स्मादितो॒ऽमृत॑: । अ॒ग्निवी॒-
माणेन खातायामुत्तरवेद्यां गुल्फपरिमाणेन पूरितमुदकं यदस्ति तेन 'अपां', सर्वत्वं सम्पादितं भवति । यस्मात् खातस्याप्युदकमयत्वमपेक्षितं तस्मादितरस्य वस्तुनो जलमयत्वं किमु वक्तव्यमित्यभिप्रायः ॥
(२)“पुष्करपर्णं ० तदवरुन्धे”^(२) इति । पुष्करपर्णस्य पवित्रत्वेन तपोरूपत्वाद्रुक्मस्याग्निसंयोगेऽपि विनाशाभावेन सत्यत्वात् । हिरण्मयपुरुषस्यापि । अत एवामृतत्वात् त्रयाणामुपधानेन 'यावत्', सारं 'अस्ति', तत् सर्वं प्राप्तं भवति ॥
उक्तचितयादनन्तरं कूर्मोपधानं विधत्ते । (३)“कूर्ममुपदधाति ० लोकस्य समष्ट्यै”^(३) इति । 'अपां', सम्बन्धी मेधः सारः कूर्मः तदुपधानेन सारं प्राप्नोति । किञ्च स्वर्गोऽपि प्राप्यते ॥
अथाभीष्टकाविधिं सूचयितुं तन्मन्त्रान् पूर्वमेवाम्नातान् प्रदर्शयितुं लेशतः पठति । (४)“आपमापामपः ० रश्मिप-
१ प्रपाठके २५ अनुवाकः । १५७
यु॒ञ्च॒ ह्य॑र्य॒ञ्च । स॒ह सं॑ञ्चस्कर॒र्धिया॒ इति॑ । वा॒क्व॑श्चा र॒श्मि- प॑तयः(४) । (५)लो॒कं पृ॑ण छि॒द्रं पृ॑ण ॥ २ ॥ यास्ति॒स्रः प॑र॒म॒जाः(५) । (६)इन्द्र॑घोषा वो॒ वसु॑भि- रे॒वा ह्ये॑वेति॑(६) । (७)पञ्च॒ चित॑य उप॑दधाति । पा॒ङ्क्तोऽग्निः॑।
तयः”(४) इति । आपमापमित्यारभ्य वाक्यश्चा इत्यादिभिर- बीष्टका उपधेया इति तात्पर्यार्थः ॥
लोकं पृणेष्टकोपधानमन्त्रं दर्शयति । (५)“लोकं पृण छिद्रं ० परमजाः”(५) इति । हे इष्टके ‘लोकं’ पूर्वमुपधान- रहितं स्थानं, ‘पृण’ पूरय, तत्पूरणेन चित्याग्नेः ‘छिद्रं’, ‘पृण’ पूरय । ‘याः’ च ‘तिस्रः’ स्वाहागणाः, प्रथममध्यमोत्तरचिति- षूपधेयतया ‘परमजाः’ प्रकृष्टमुत्पन्नाः, ता अपि पूरय ॥
मन्त्रान्तरमपि पूर्वमाम्नातमेवोपधानविध्यभिप्रायेण पुनः प्रदर्शयति । (६)“इन्द्रघोषा ० एवा ह्येवेति”(६) इति । इन्द्र- घोषेत्यादयो ये मन्त्राः एवा ह्येवेत्यादयश्च ये मन्त्राः, ‘इति’ शब्दप्रदर्शिताः, अन्ये च ये मन्त्रास्तैः सर्वैरुपदध्यादित्यर्थः ॥
चितीनां सङ्ख्यां विधत्ते । (७)“पञ्च चितय ० तं चिनुते”(७) इति । जानुप्रमाणेन खातस्य मध्ये पञ्चसङ्ख्याकाश्चितीरुप- दध्यात् । गुल्फदघ्नमुदकं पूरयित्वा पर्णैर्दण्डैः कृत्स्नपुष्करैश्च सञ्छाद्य मृण्मयपात्रेष्वधो धृत्वा ता अबीष्टका उपदध्यात् । तत
पादः॑ । परो॒ रजाः॒ पादः॑⁽८⁾ । ⁽९⁾वि॒राज्ये॒व प्रति॑तिष्ठ-
१५८ तैत्तिरीये आरण्यके
यावा॑ने॒वाग्निः॑ । तं चि॑नुते⁽७⁾ । ⁽८⁾लो॒कंपृ॑णया द्वि॒ती- या॒मुप॑दधाति । प॒ञ्चप॑दा॒ वै वि॒राट् । तस्या॒ वा इ॒यं पादः॑ । अ॒न्तरि॑क्षं॒ पादः॑ ॥ द्यौः पादः॑ । दिशः॒ पादः॑ । परो॒ रजाः॒ पादः॑⁽८⁾ । ⁽९⁾वि॒राज्ये॒व प्रति॑तिष्ठ-
उपर्य्यपि पूर्ववत्यचैर्दण्डैः कृत्स्नपुष्करैश्च छादयित्वा पुनर- प्यबीष्टका उपदध्यात् । एवं पञ्चकस्थाभिरुत्तरवेद्यां पूरयि- तायां तत्र पञ्चचितयः सम्पद्यन्ते । तत्रोर्ध्वैः काष्ठैः मञ्चकं कृत्वा तस्योपरि पुरीषं प्रसार्य पुरीषस्योपर्यग्निं प्रणीयोपसमा- धाय तस्याग्रेऽसुतर्दिक्षु तत्तन्मन्त्रैरबीष्टका उपदध्यात् । एवं कृतेऽग्निः पञ्चचितियुक्तो भवति । आहवनीयगार्हपत्यदक्षिणा- ग्निसभ्यावसथ्यरूपेण पञ्चसङ्ख्यायोगात् ‘पाङ्क्तः’, ‘अग्निः’, सर्वो- ऽपि चितो भवति ॥
द्विश्चितौ विशेषं विधत्ते । ⁽८⁾“लोकंपृणया ० परो रजाः पादः”⁽८⁾ इति । येयं द्वितीया चितिः, सेयं ‘लोकंपृणया’, एव इष्टकोपधेया, सर्वपूरकत्वादियं ‘लोकंपृणा’ विराट्- देहरूपी, सा च विराट्मूर्त्तिः पञ्चपादोपेता । लोकत्रयं चत- र्द्दिशश्च पादचतुष्टयं । रजोगुणात्मकस्य संसारस्य परस्ता- द्वाह्ये योऽयं चिदात्मा वर्त्तते अपरो ‘रजाः’, स च पञ्चमः ‘पादः’, एवं प्रशस्ता लोकंपृणा ॥
तच्चयनवेदने प्रशंसति । ⁽९⁾“विराज्येव ० य ङ्वेन-
१ प्रपाठके २६ अनुवाकः । १५६
ति । य ए॒तद॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं वेद॑^(६) ॥ ३ ॥
अ॒स्ति, पृ॒ण, अ॒न्तरि॑क्षं॒ पाद्ः, षट् च॑ ॥ अनु०।२५॥
अथ षड्विंशोऽनुवाकः ।
(१)अ॒ग्निं प्र॒णीयोप॑समा॒धाय॑ । तम॒भित॑ ए॒ता अ॒वी-
ष्ट॑का उप॑दधाति । अ॒ग्नि॒हो॒त्रे दर्श॑पूर्णमा॒सयोः॑ । प॒शु-
ब॒न्धे चा॑तुर्मा॒स्येषु॑ । अथो॒ आहुः॑ । सर्वे॑षु य॒ज्ञक्रतु॑-
ष्विति॑^(१) । (२)अथो॑ ह॒ स्माहा॑रु॒णः स्वा॑यम्भु॒वः॑ । सा॒वि॒त्रः
मेवं वेद"^(६) इति । 'विराञ्जैव' अन्नं एव, विराड्देह एव,
वा ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ॥ २५ ॥
अथ षड्विंशोऽनुवाकः ।
पूर्वानुवाके पुष्करपर्णाद्युपधानमुक्तं । इह फलविशेषा
व्रतविशेषाश्चोच्यन्ते । पूर्वं विहितमेवार्थं पुनर्विशेषकथनाया-
दावनुवदति । (१)"अग्निं प्रणीयो • क्रतुष्विति"^(१) इति ।
एतत् सर्वं योऽपां पुष्पं वेदेत्यनुवाके व्याख्यातं ॥
१६० तैत्तिरीये आरण्यके
सर्वो॒ग्निरित्य॑न॒नुष॒ङ्गं म॑न्यामहे । नाना॒ वा ए॒तेषां॒ वीर्या॑णि^(२) । ^(३)कम॒ग्निं चि॑नुते ॥ १ ॥
अस्यारुणकेतुकस्य स्वातन्त्र्येण क्रत्वङ्गत्वमाक्षेपसमाधाना- भ्यामुपपादयितुं मतद्वयमुपन्यस्यति । ^(२)“अथ ह स्माहारुणः • एतेषां वीर्याणि”^(२) इति । स्वयम्भुवः पुत्रः कश्चित् ‘अरुण- नामको मुनिरेवं ‘आह स्म’, काठकेषु योऽयं विचितः ‘अग्निः’, सावित्रादिरारुणकेतुकान्तः सः ‘सर्वः’, अपि ‘सावित्रः’, एव उत्तरोत्तरेषु पूर्वपूर्वानुषङ्गस्य विद्यमानत्वात् । यो नाचिकेतः स सावित्रपूर्वक एवानुष्ठेयः । चातुर्होत्रीयस्तदुभयपूर्वकः । वैश्व- सृजस्तत्त्रितयपूर्वकः । आरुणकेतुकस्तच्चतुष्टयपूर्वकः । एवमनु- षङ्गे सत्यारुणकेतुकस्येतरनिरपेक्षस्य स्वातन्त्र्यं नास्ति । सावित्रस्य तु तद्विद्यते । तस्मात् सर्वेष्वनुषक्तत्वात् सर्वोऽपि सावित्र इत्येव व्यवहार्यः । अतस्तस्यैव क्रत्वङ्गत्वं न त्वारुणकेतुकस्य स्वतन्त्रस्येत्यारुणस्य मुनेर्मतं तदिदं दूष्यते । ब्रह्मवादिनो वदन्ति ‘सावित्रः सर्वोऽग्निरित्यनुषङ्गं मन्यामहे’, न कोऽप्यग्निरितर- त्रानुषज्जति । ‘एतेषां’ अग्नीनां, ‘वीर्याणि’ फलानि, ‘नाना’- पृथगुक्तान्येव, तानि च योऽपां पुष्पमित्यनुवाके संवत्सरं प्रत्य- क्षेणामुमादित्यं प्रत्यक्षेणेत्यादिना निरूपितानि ॥
तदेतत्फलनानात्वं प्रपञ्चेन प्रदर्शयति । ^(३)“कमग्निं चिनुते • चिन्वान इति”^(३) इति । द्वादशाहादिसत्त्राङ्गत्वेन
१ प्रपाठके २६ अनुवाकः । १६१
स॒त्रि॒यम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । सा॒वि॒त्रम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । ना॒चि॒के॒तम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । चा॒तु॒र्हो॒त्रि॒यम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । वै॒श्व॒सृ॒जम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते ॥ २ ॥
उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नः । कम॒ग्निं चि॑नुते । इ॒ममा॑रु॒णके॒तुकम॒ग्निं चि॑न्वा॒न इति॑⁽३⁾ । ⁽४⁾वृषा॒ वा अ॒ग्निः । वृषा॑णौ॒ सᳲस्फो॑लयेत् । हन्ये॑तास्य य॒ज्ञः ।
चीयमानो योऽयं महाग्निः सोऽयं 'सत्रियः' सञ्चिन्वानः पुमान् 'कमग्निं' किम्फलकमग्निं, 'चिनुते', इत्येवं भो अरुणाश्रमुने त्वं विचारय । संवत्सरदेवताप्राप्तिस्तस्य फलं, इतरेषां त्वन्यदेव पृथक् पृथक् फलमादित्यप्राप्त्यादिरूपं, अतो नैकफलस्य सम्भावनाप्यस्तीति किंशब्दस्याभिप्रायः । एवमुत्तरत्रापि योज्यं । उपानुवाक्यमाशुमग्निमित्यत्र यदेकेनेत्याद्युपानुवाक्यकाण्डोक्तो महानाग्निर्विवक्षितः । यद्यसौ सत्रियमिति वाक्येनैव गतार्थः, तर्हि शाखान्तरप्रसिद्धं कञ्चिदग्न्यन्तरमस्तु । तदेव फलनानात्वमविसृष्टमिति ब्रह्मवादिनामभिप्रायः ॥
सावित्राग्नेरनुषङ्गपक्षे बाधं दर्शयति । ⁽४⁾"वृषा वा अग्निः • तस्मान्नानुषज्यः"⁽४⁾ इति । योऽयमग्न्यपलक्षितोऽग्निचित् सोऽयं
१६२ तैत्तिरीये आरण्यके
तस्मा॒न्नानु॒षञ्ज्यः॑।^(४)। ^((५))सोऽत्त॑रवे॒दिषु॒ क्रतु॑षु चिन्वीत । उ॒त्त॒र॒वेद्याꣳ॒ ह्य॒ग्निश्ची॒यतै॑।^(५)। ^((६))प्र॒जाका॑मश्चिन्वीत ॥३॥ प्रा॒जा॒प॒त्यो वा ए॒षोऽग्निः॑ । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒- जावा॑न् भवति । य ए॒वं वेद॑।^(६)। ^((७))प॒शुका॑मश्चि-
'वृषा' सेक्ता, रेतःसेचनेन प्रजामुत्पादयितुं समर्थः । तादृशो यद्यनुषङ्गं कुर्यात् तदानीमस्याग्निचितो वृषणद्वयं कसिद्वैरौ 'संस्फात्नयेत्' पीडयेत् । 'अस्य', 'यज्ञः', अपि विनश्येत् । 'तस्मात्', सावित्राग्निरितरत्र नानुषञ्जनीयः, स्वतन्त्रा एवैते सर्वेऽग्नयः । तस्मादारुणकेतुकस्य स्वातन्त्र्येणैव क्रत्वङ्गत्वयुक्तमित्यर्थः ॥
क्रतुविशेषे तत्सम्बन्धं विधत्ते । ^((५))"सोत्तरवेदिषु ह्यग्निश्चीयते"^(५) इति । उत्तरवेदिसहिता ये क्रतवः पशुबन्धा- दयः तेष्वेवारुणकेतुकमग्निं 'चिन्वीत', नतूत्तरवेदिरहितेष्वग्नि- होत्रादिषु । यस्मादयं 'अग्निः,' उत्तरवेदिस्थाने 'चीयते', तस्मात् तद्रहितं तच्चयनं न युक्तं । एवं सत्यस्मदग्निनिषेधात् पूर्वोक्तादग्निहोत्रदर्शपूर्णमासयोरित्यादिविधानाच्चाग्निहोत्रादा- वारुणकेतुकस्य विकल्पो द्रष्टव्यः ॥
अथास्य चयनस्य काम्यप्रयोगाः । तत्रैकं काम्यं दर्शयति । ^((६))"प्रजाकामश्चिन्वीत • य एवं वेद"^(६) इति । अग्नेः प्रजानां च प्रजापतिना सृज्यत्वात् प्राजापत्यत्वम्तेन साम्येन प्रजाफल- कत्वमग्नेः ॥
१ प्रपाठके २६ अनुवाकः । १६३
न्वीत॑ । स॒ञ्ज्ञानं॒ वा ए॒तत् प॑शू॒नां । यदाप॑ः । प॒शू- ना॑मे॒व स॒ञ्ज्ञाने॒ऽग्निं चि॑नुते । प॒शु॒मान् भ॑वति । य ए॒वं वेद॑^(७) ॥ ४ ॥ ^(८)वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टि॑ः । प॒र्जन्यो॑ वर्षुको भवति । य ए॒वं वेद॑^(८) । ^(९)आ॒म॒या॒वी चि॑न्वीत । आ- पो॒ वै भै॑ष॒जं । भै॒ष॒जमे॒वास्मै॑ करोति । सर्व॒मायु॑रेति^(९) । ^(१०)अ॒भिच॑रँश्चिन्वीत । वज्रो॒ वा आप॑ः ॥ ५ ॥ वज्र॑मेव भ्रातृ॑व्येभ्यः प्रह॑रति । स्तृ॒णुत ए॒नं^(१०) ।
अथ द्वितीयकाम्यं दर्शयति । ^(७)“पशुकामश्चिन्वीत • य एवं वेद”^(७) इति । ये तृषार्त्ताः पशवो यत्र क्वाप्योऽन्विष्य जानन्ति तस्मात् ‘आपः,’ पशूनां’, सम्यग्ज्ञानसाधनं अतो- ऽप्सुचयने सति ‘पशूनां’, ज्ञानसाधन ‘एव’, अग्निश्चितो भवति ॥
अथ तृतीयं दर्शयति । ^(८)“वृष्टिकामश्चिन्वीत • य एवं वेद”^(८) इति ॥
चतुर्थं दर्शयति । ^(९)“आमयावी चिन्वीत • सर्वमायुरेति” ^(९) इति । तापशान्तिकरत्वादपां भेषजत्वं ॥
पञ्चमं दर्शयति । ^(१०)“अभिचरँश्चिन्वीत • स्तृणुत एनं” ^(१०) इति । उपरिष्टात् ता आपो वज्रोभूत्वेत्येव वक्ष्यते । तस्मा- दपां वज्रत्वं । अत्रापामेवोपधेयत्वात् सर्वतः फलसाधनत्वेना- पामेवोपप्रशंसं ॥
I 2
| १६४ | तैत्तिरीये आरण्यके |
|---|
(११)तेज॑स्कामो॒ यश॑स्कामः। ब्र॒ह्म॒व॒र्च॒सका॑मः स्वर्गका॑म- श्चिन्वीत। ए॒ताव॒द्वावा॑स्ति। याव॑दे॒तत्। याव॑दे॒वास्ति॑। तदव॑रुन्धे^(११)। ^(१२)तस्यै॒तद्व्र॒तं। वर्ष॑ति॒ न धावे॑त् ॥६॥ अ॒मृतं॒ वा आप॑:। अ॒मृत॒स्यान॑न्तरित्यै^(१२)। ^(१३)ना- प्सुमूत्र॑पुरी॒षं कु॑र्यात्। न निष्ठी॑वेत्। न वि॒वसं॑नः स्ना- यात्। गुह्यो॒ वा ए॒षोऽग्निः। ए॒तस्याग्ने॒रन॑तिदाहाय^(१३)।
षष्ठसप्तमाष्टमनवमफलानि दर्शयति । ^(११)“तेजस्कामो ० तदवरुन्धे”^(११) इति । तत् प्रजापश्वादिकं स्वर्गान्तं ‘यावत्’, फलमुक्तं ‘एतावत्’, एव लोकेऽपि विद्यमानमुत्तमं फलं, अतः ‘यावत्’, उत्तमं फलं ‘अस्ति’, ‘तत्’, सर्वमनेन चयनेन प्राप्नोति ॥
अथारुणकेतुकाग्निचितो नियमविशेषं विधत्ते । ^(१२)“तस्यै- तद्व्रतं ० अमृतस्यानन्तरित्यै”^(१२) इति । पर्जन्ये ‘वर्षति’, सति यदा मार्गे गच्छति तदा क्लेदनभीत्या धावनं न कुर्यात् । तत्र करणे चामृतरूपाणामपां परित्यागेन स्वर्गसुखरूपममृतम- न्तरितं भवेत् । तन्माभूदिति ‘न धावेत्’ ॥
नियमान्तराणि विधत्ते । ^(१३)“नाप्सु मूत्रपुरीषं ० एत- स्याग्नेरनतिदाहाय”^(१३) इति । ‘एषः’ आरुणकेतुकः, ‘अग्निः’, अबीष्टकाभिर्निष्पाद्यत्वादप्सु गूढो वर्त्तते । तादृशो मूत्रादि- कारिणमतिशयेन दहति । स दाहो माभूदिति मूत्रादिकं ‘न कुर्यात्’,। पुरुषार्थत्वेन शास्त्रेषु निषिद्धस्यापि अत्र पुनर्निषेधः॥
१ प्रपाठके २६ अनुवाकः। १६५
(१४)न पुष्क॑रप॒र्णानि॒ हिर॑ण्यं॒ वाधि॑तिष्ठेत् । ए॒तस्या॒ग्ने- रन॑भ्यारोहाय^(१४) । ^(१५)न कू॒र्मस्या॑श्नीयात् ॥ नोद॒कस्या॑- घा॒तुका॑न्येनेमोद॒कानि॑ भवन्ति । अघा॑तुका॒ आप॑: । य ए॒तम॒ग्निं चि॑नु॒ते । य उ॑चैनमे॒वं वेद॑^(१५) ॥ ७ ॥ चि॒नु॒ते, चि॒नु॒ते, प्र॒जाका॑मश्चिन्वीत, य ए॒वं वेद॑, आप॑:, धावेत्, अ॒श्नी॒यात्, च॒त्वारि॑ च ॥ अनु० २६ ॥
अत्रप्रायश्चित्तार्थं नियमान्तरं विधत्ते । ^(१४)“न पुष्कर- पर्णानि ० एतस्याग्नेरनभ्यारोहाय”^(१४) इति । पुष्करपर्णस्य हिरण्यस्य वा पादेनाक्रमणे सति तमग्निमारूढवान् भवेत् । अतस्तदुभयं ‘नाधितिष्ठेत्’ ॥
नियमान्तरं विधत्ते । ^(१५)“न कूर्मस्याश्नीयात् ० य उच्चै- नमेवं वेद”^(१५) इति । ‘कूर्मस्य’, अङ्गं किञ्चिदपि न भुञ्जीत । उदकशब्देन तत्रत्यो मीनादिरूपो लक्ष्यते, तदीयमध्यङ्गं ‘नाश्नीयात्’ । ‘यः’, ‘एतं’ आरुणकेतुकं, ‘अग्निं’, ‘चिनुते’, ‘यः’, च ‘एवं’, ‘वेद’, तं ‘एनं’, प्रति ‘ओदकानि’ उदकवर्त्तीनि मीनादीनि, ‘अघातुकानि’ अहिंसकानि, ‘भवन्ति’ ‘आपः’, अपि ‘अघातुकाः’ उदकमरणं न भवेदित्यर्थः ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके प्रथमप्रपाठके षड्विंशोऽनुवाकः ॥ २६ ॥
१६६ तैत्तिरीये आरण्यके
अथ सप्तविंशोऽनुवाकः ।
(१)इ॒मा नु कं॒ भुव॑ना सीषधेम॑ । इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः(१) । (२)य॒ज्ञं च॑ नः स्त॒न्वं॑ च प्र॒जां च॑ । आ॒दि॒त्यैरिन्द्रः॑ स॒ह सी॑षधातु(२) । (३)आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भिः॑ । अ॒स्माकं॑ भूत्ववि॒ता त॒नूनां(३) । (४)आस्र॑वस्व॒
अथ सप्तविंशोऽनुवाकः ।
कल्पः । इमा नु कमिति चतस्र इति । तत्र प्रथमामाह ।
(१)“इमा नु कं ॰ विश्वे च देवाः”(१) इति । ‘इन्द्रश्च विश्वे देवाश्च’, वयञ्च ‘इमाः’ ‘भुवनानि’, ‘नु कं सीषधेम’ सुखनामसु नु कमितिपठितं सुखं यथा भवति तथा साधयाम ॥
अथ द्वितीयामाह । (२)“यज्ञं च न ॰ सह सीषधातु”(२) इति । अयं ‘इन्द्रः’, ‘आदित्यैः सह’, ‘नः’ अस्माकं, ‘यज्ञं’, शरीरं ‘प्रजाञ्च’, साधयतु ॥
अथ तृतीयामाह । (३)“आदित्यैरिन्द्रः ॰ तनूनां”(३) इति । ‘आदित्यैर्मरुद्भिः’, च युक्तत्वात् ‘सगणः’, अयं ‘इन्द्रः’, अस्माकं ‘तनूनां’, ‘अविता भूत्’ रक्षिता भवतु* ॥
कल्पः । आस्रवस्वेति सप्तदशच्छपण्ड इति । तत्र प्रथमामाह । (४)“आस्रवस्व ॰ खां पुरं”(४) इति । अस्रशब्देन जन्मवान्
* अत्र चतुर्थी नास्ति ।
१ प्रपाठके २७ अनुवाकः । १६७
मास्र॑वस्व । आ॒ण्डीभ॑व॒ ज्ञ मा मु॑हुः । सुखादौ दुः॑ख- निधनां । प्रति॑मुञ्चस्व॒ स्वां पुरं॑⁽४⁾ ॥ १ ॥ ⁽५⁾मरी॑चयः स्वायम्भु॒वाः । ये शरी॑राण्यक॑ल्पयन् । ते ते॑ दे॒हं क॑ल्पयन्तु । मा च॑ ते॒ ख्यास्म॑तीरिषत्⁽५⁾ । ⁽६⁾उत्ति॑ष्ठत मा स्व॑प्त । अ॒ग्निमि॑च्छध्वं भार॑ताः । रा॒ज्ञः
यजमान उच्यते । आस्रवं नाम गमनं जन्म, स्रवनं प्रापणं, यज- मानं जन्मोपेतमाङः । 'आस्रवस्व' पुनः पुनर्जन्मलक्षणमागमनं, मा कुरु, मुहुः 'मास्रवस्व' पुनः पुनर्मरणलक्षणं स्रवनं मा कुरु । 'मा 'मुहुराण्डीभव' आण्डः ब्रह्माण्डमध्य इत्यर्थः आण्डी- त्यभूततद्भाव उच्यते । पूर्वमनाण्डा इदानीमाण्डीभव तस्य निषेधो माशब्देनोच्यते, पुनः पुनर्ब्रह्माण्डवर्त्तित्वं तव माभू- दित्यर्थः । खशब्देनावश्यकत्वं द्योतयति । संसारोत्तरणविषया तवाख्यातिः सर्वथा विनश्यत्वित्यर्थः ॥
अथ द्वितीयामाह । ⁽५⁾"मरीचयः स्वायम्भुवाः • मा च ते ख्यास्मतीरिषत्"⁽५⁾ इति ॥
अथ तृतीयामाह । ⁽६⁾"उत्तिष्ठत मा स्वप्त • सूर्येण सयु- जोषसः"⁽६⁾ इति । हे ऋत्विजो यूयं 'उत्तिष्ठत', उत्थिता भवत, उत्साहं कुरुतेत्यर्थः । 'मा स्वप्त' स्वप्नं मा कुरुत, अल- सा मा भूतेत्यर्थः । 'भारताः' हविरादिभरणशीलाः सन्तः,
१६८ तैत्तिरीये आरण्यके
सोम॑स्य तृ॒प्तास॑ः । सूर्य्ये॑ण॒ सयुजो॑षसः^{(६)} । ^{(७)}युवा॑सु॒ वासा॑:^{(७)} । ^{(८)}अ॒ष्टाच॑क्रा नव॑द्वा॒रा ॥ २ ॥ दे॒वानां॒ पूरयो॑ध्या । तस्याँ॑ हिर॑ण्मयः॒ कोश॑ः । स्व॒र्गो लो॒को ज्योति॑षाऽऽवृ॑तः^{(८)} । ^{(९)}यो वै तां ब्रह्म॑णो
'अग्निं' आरुणकेतुकं, 'इच्छध्वं' । कीदृशा ऋत्विजः, 'राज्ञः' राजमानस्य, 'सोमस्य', पानेन 'तृप्ताः', 'सूर्येण', 'सयुजोषसः' समानप्रीतयः, यद्यप्येवंविधो मन्त्र अनुष्ठेयार्थस्येष्टकोपधानस्य प्रकाशको न भवति तथाप्येतदर्थानुस्मरणेन कश्चिददृष्टातिशयो द्रष्टव्यः ॥
अथ चतुर्थ्याः प्रतीकं दर्शयति। ^{(७)}“युवा सुवासाः”^{(७)} इति। सोऽयं मन्त्रो यजन्ति त्वामध्वरे देवयन्त इत्यनुवाके व्याख्यातः ॥
अथ पञ्चमीमाह । ^{(८)}“अष्टाचक्रा • ज्योतिषावृतः”^{(८)} इति। पूरिति शरीरमुच्यते, 'देवानां' इन्द्रादीनां, 'पूः,' 'अष्टाचक्रा' चक्रवदावरणभूतास्त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रो- जोरूपाः अष्टौ धातवो यस्याः सेयं 'अष्टाचक्रा', शिरोवर्त्तिभिः सप्तभिर्द्वारैरधोवर्त्तिभ्यां द्वाराभ्यामुपेता 'नवद्वारा', 'अयोध्या' कर्मगतिमन्तरेण केनापि प्रहर्त्तुमशक्या, 'तस्यां' पुरि, 'हि- रण्मयः' सुवर्णनिर्मितपदार्थसदृशः, 'कोशः', अवकाशरूपः, 'स्वर्गः' सुखमयः, 'लोकः' स्थानविशेषः, 'ज्योतिषा' भासकेन जीवचैतन्येन, 'आवृतः' परिवेष्टितः, वर्त्तते ॥
१ प्रपाठके २७ अनुवाकः। १६६
वे॑द। अ॒मृते॑नावृ॒तां पु॑री॓म्। तस्मै॒ ब्रह्म॑ च॒ ब्रह्मा॑ च। आयु॑: की॒र्तिं प्र॒जां द॑दुः॥^(९)। ^(१०)वि॒भ्राज॑माना॒ꣳ ह॒रि- णी॓म्। यश॑सा॒ सम्परी॑वृताम्। पुर॑ꣳ हिर॒ण्मयी॓ं ब्र॒ह्मा॥ ३॥ वि॒वेशा॑परा॒जिता॓म्^(१०)। ^(११)परा॑ङेत्य॒ ज्याम॑यी। परा-
अथ षष्ठीमाह। ^(९)"यो वै तां ० प्रजां ददुः"^(९) इति। 'ब्रह्मणः' सत्यं ज्ञानमनन्तमित्यादिश्रुतिप्रतिपादितस्य वस्तुनः, सम्बन्धिनी 'अमृतेन' परमानन्देन, 'आवृतां', 'तां पुरीं', 'यो वै' यः कोऽपि पुमान्, 'वेद', 'तस्मै' विदुषे, 'ब्रह्म च' परमा- त्मापि, 'ब्रह्मा च' प्रजापतिरपि, चकाराभ्यामन्येऽपि सर्वे देवा आयुरादिकं प्रयच्छन्ति॥
अथ सप्तमीमाह। ^(१०)"विभ्राजमानाꣳ ० विवेशापरा- जिता"^(१०) इति। 'ब्रह्मा' प्रजापतिः, 'पुरं' शरीरं, 'विवेश' प्रविष्टवान्। कीदृशीं पुरं, 'विभ्राजमानां' विशेषेण राजमानां, 'हरिणीं' पापहरणशीलां, 'यशसा' जगत्स्रष्टृत्वलक्षणया कीर्त्या, 'सम्परीवृतां' सम्यक् परिवेष्टितां, 'हिरण्मयीं' सुवर्ण- निर्मितां, कदाचिदपि पराजयरहितां॥
अथाष्टमीमाह। ^(११)"पराङेत्य ज्यामयी ० सुरानुभयान्', ^(११) इति। 'विद्वान्' परब्रह्मतत्त्ववित्, 'पराङ्' पुनरावृत्तिर- हितः, 'एति' ब्रह्मतत्त्वं प्राप्नोति। कीदृशो विद्वान्, 'अज्यामयी'
१७० तैत्तिरीये आरण्यके
डे॒त्य॑नाश॒की । इ॒ह चा॒मुत्र॑ चा॒न्वेति॑ । वि॒द्वान् दे॒वा- सु॒रा॒नु॒भयान्॑⁽¹¹⁾ । ⁽¹²⁾यत्कु॑मा॒री म॒न्द्रय॑ते । यद्योषि॒- त्प॑तिव्र॒ता । अ॒रि॒ष्टं यत्किञ्च॑ क्रि॒यते॑ । अ॒ग्निस्तद॒नु॑- वेधति⁽¹²⁾ । ⁽¹³⁾अ॒शृता॑सः शृ॒तास॑श्च ॥ ४ ॥
ज्या, वयोहानिः आमयः, व्याधिः तद्वान् ज्यामयी तदुभयरा- हित्यादयम्, 'अज्यामयी', नाशकः अपमृत्युबन्धकं कर्म वा, तद्योगात्नाशकी, तद्राहित्यात् 'अनाशकी', देहतादात्म्यभ्रमा- भावात् वयोहानिव्याध्यपमृत्युरहितः पुनरावृत्तिशून्यः सन् ब्रह्म प्राप्नोति । 'इह चामुत्र च', लोकद्वयेऽपि, 'देवासुरानु- भयान्', 'अन्वेति' अनुगच्छति, सर्वात्मको भवतीत्यर्थः ॥
अथ नवमीमाह । ⁽¹²⁾“यत्कुमारी मन्द्रयते ० अग्निस्तद- नुवेधति”⁽¹⁶⁾ इति । 'कुमारी' विवाहरहिता स्त्री, 'यत्' पापं पुरुषसम्भोगरूपमुद्दिश्य,'मन्द्रयते' हर्षं करोति । 'योषित्' युव- तिः च, 'यत्' पापं परपुरुषसम्भोगं रूपम् उद्दिश्य, 'मन्द्रयते' हृष्टा भवति, 'पतिव्रता', अपि स्वभर्त्तृसंयोगाभावेन क्लिष्टा सती 'यत्' पापं देहत्यागरूपमुद्दिश्य, 'मन्द्रयते', 'यत्' अन्यदपि, 'किञ्चित्', 'अरिष्टं' दानादिना रेष्टुं विनाशयितुमशक्यं महत्पापं, अस्य यजमानस्य येन केनापि 'क्रियते' 'तत्' सर्वम्, अयमारुणेके- तुकः 'अग्निः', 'अनुवेधति' अनुक्रमेण विनाशयति ॥
अथ दशमीमाह । ⁽¹³⁾“अशृतासः ० इन्द्रमग्निञ्च ये वि-
१ प्रपाठके २७ अनुवाकः । १३१
य॒ज्वानो॒ येऽप्य॑य॒ज्वानः॑ । स्व॒र्यन्तो॒ नापे॑क्षन्ते । इन्द्र॑म॒ग्निञ्च॒ ये वि॒दुः<sup>(१३)</sup> । <sup>(१४)</sup>सि॒कता॑ इव॒ संय॑न्ति । र॒श्मिभिः॑ समुदीरि॑ताः । अ॒स्माँल्लो॒काद॑मु॒ष्माच्च॑ । ऋ॒षिभि॑रदात् पृश्नि॑भिः<sup>(१४)</sup> । <sup>(१५)</sup>अपै॑त॒ वीत॒ विच॑ सर्पता-
दुः”(१३) इति । ‘अशृतासः’ अपक्वचित्ताः, ‘शृतासश्च’ पक्वचित्ता अपि, ‘यज्वानः’ श्रुतिस्मृतिविहितकर्मानुष्ठायिनः, ‘येऽप्ययज्वानः’ तद्विपरीताः, तेषां मध्ये ‘ये’ पुरुषाः, ‘इन्द्रं’ परमैश्वर्ययुक्तं परमात्मानं, ‘अग्निं’ आरुणकेतुकञ्च, ‘विदुः’ याथात्म्येन जानन्ति, ते ज्ञानिनः ‘स्वर्यन्तः’ स्वर्गं मोक्षं वा प्राप्नुवन्तः, ज्ञानव्यतिरिक्तसाधनान्तरं ‘नापेक्षन्ते’॥
अथैकादशीमाह । <sup>(१४)</sup>“सिकता इव ० पृश्निभिः”(१४) इति । यथा लोके वायुना प्रेरिताः ‘सिकताः’ क्वचित् परस्परं ‘संयन्ति’ राशिरूपेण सङ्गच्छन्ते। तद्वदेते जीवाः ‘रश्मिभिः’ रज्जुस्थानीयैः कर्मभिः, ‘समुदीरिताः’ प्रेरिताः सन्तः, कर्मार्जनस्थानीयात् ‘अस्माल्लोकात्’ कर्मफलभोगरूपात्, ‘अमुष्माच्च’ लोकात्, तदा तदा निर्गत्य क्वचित् क्वचित् संयन्ति तेषां सर्वेषामनुग्रहाय परमेश्वरः ‘पृश्निभिः’ शुक्लैः, तत्त्वप्रकाशकैः, ‘ऋषिभिः’ मन्त्रैः, ‘अदात्’ ज्ञानं प्रयच्छति ॥
अथ द्वादशीमाह । <sup>(१५)</sup>“अपैतं वीत ० वसानमस्तौ”(१५) इति । यमेन नियुक्ताः पुरुषाः पुरातना नूतनाश्च मर्त्यां
१७२ तैत्तिरीये आरण्यके
तः॑ । येऽच॑स्थाः पु॑रा॒णा ये च॒ नूत॑नाः । अहो॑भिर॒द्भिर॒- क्तुभि॒र्व्यक्त॑म् ॥ ५ ॥ य॒मो द॑दात्ववसा॒नम॑स्मै^(१५) । ^(१६)नृ मु॑ण॒न्तु नृ पा॒- त्वर्यः॑ । अ॒कृष्ट॑ा ये च॒ रुष्ट॑जाः । कु॒मारी॑षु क॒नीनी॑षु ।
भूमौ व्याप्य वर्त्तन्ते तान् सम्बोध्येदमुच्यते हेयमदूताः ‘ये’ यूयं, ‘पुराणाः’ अत्र अग्निचेचे ये पूर्वं स्थिताः, ‘ये च नूतनाः’, ‘ये अचस्थाः’, ते सर्वे यूयं ‘अपेत’ अस्मात् स्थानादपगच्छत, ‘वीत’ परस्परं वियुज्य गच्छत, किञ्च ‘अतः’ ‘विसर्पत’ अस्मात् स्थानाद्दिदूरं गच्छत, ‘अहोभिः’ दिवसैः, ‘अक्तुभिः’ रात्रि- भिश्च, ‘अद्भिः’ अबीष्टकाभिः, ‘व्यक्तं’ विशेषेण सम्बद्धं, ‘अव- सानं’ इदं स्थानं, ‘अस्मै’ यजमानाय, ‘यमो ददातु’, यमेन दत्ते सति केषुचिदहोरात्रेष्वत्रावीष्टकोपधानं कुर्म इत्यर्थः ॥
अथ त्रयोदशीमाह । “(१६)नृमुणन्तु ० च ये हिताः”(१६) इति। अविभक्तिको नृशब्दो मनुष्यजातिमात्रे ज्ञेयः, परपोडा- दिना परभृत्यभावादिना जीवन्तो गर्हिताः पुरुषाः ते जातिमा- त्रान्वयवन्तो नृशब्देनात्र विवक्षिताः । तादृशाः पुरुषाः ‘मुण- न्तु’ अस्मात् स्थानादपगच्छन्तु, ‘नृ’ तादृशानां मनुष्याणां, ‘अर्यः’ स्वामी, च ‘पातु’ इतः स्थानादपेत्यास्मान् पातु, ‘अकृष्टाः’ अक- र्मयोग्याः, दुष्कृतप्रसूताः, ‘ये च रुष्टजाः’ विशुद्धवंशजाता एव
१ प्रपाठके २७ अनुवाकः। १७३
जा॒रिणी॑षु च॒ ये हि॒ताः॥(१६)। ।(१७)रेतः॑पीता आ॒ण्डपी॑ताः। अ॒ङ्गारे॑षु च॒ ये हु॒ताः। उ॒भया॑न् पु॒त्रपौ॑त्र॒कान्। यु॒वे- ऽहं य॑म॒राज॑गान्(१७)। ।(१८)श॒तमिन्नु श॒रदः॑(१८)॥ ।(१९)अ्र-
सन्तः, अकर्मयोग्या अन्धादयः पातकिनो वा, ते सर्वेप्यस्मात् स्थानादपयन्तु। तथा 'कुमारीषु' विवाहरहितासु स्त्रीषु, 'ये हिताः' गर्भत्वेन स्थापिताः, तथा 'कनोनीषु' कुमार्याः पु- त्रीषु, विवाहयुक्तास्वपि ये गर्भत्वेन स्थापिताः, तथा 'जा- रिणीषु' उपपतियुक्तासु स्त्रीषु, 'ये हिताः' गर्भत्वेन स्थापिताः। ते दुष्टचेतजाः सर्वेऽप्यस्मादुपधानस्थानादपगच्छन्तु ॥
अथ चतुर्दशीमाह। (१७)“रेतःपीताः ० यमराजगान्” (१७) इति । 'रेतःपीताः' पीतरेतस्काः पुरुषाः। 'आण्डपीताः' अण्डसृष्टोदकाः पापिनः, एवमाद्यभक्ष्यभक्षणाः सर्वेऽपीतो- ऽपगच्छत। तथा 'अङ्गारेषु', 'ये' पश्वादयः, अशास्त्रीयमार्गेण 'हुताः', पिपीलिकादयो वा पिशाचादिभावेन जगति वर्त्तन्ते सर्वेऽप्यस्मात् स्थानादपगच्छन्तु। तथा 'पुत्रपौत्रकान्' श्रुतवृ- त्तहीनताकुत्सितान् पुत्रान् पौत्रांश्च, 'उभयान्', 'अहं युवे' अस्मात् स्थानात् पृथक् करोमि, तथा 'यमराजगान्' यमेन पातयितुं योग्यान्, सर्वानपनयामि ॥
अथ पञ्चदश्याः प्रतीकं दर्शयति। (१८)“शतमिन्नुशरदः” (१८) इति । इयञ्च शाखान्तरीया वैश्वदेवकाण्डे योगे योग
१७४ तैत्तिरीये आरण्यके
दो॒ यद्ब्रह्म॑ विल्वं॑ । पि॒तृणाञ्च॑ य॒मस्य॑ च । वरु॑णस्या- श्विनोरग्नेः । म॒रुतां॑श्च विहा॒यसां॑^(१९) । ^(२०)कामप्रय-
इत्यनुवाके समाम्नाता । तत्पाठस्तु । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसन्तनूनां । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोरिति । हे ‘देवाः’, ‘शतमिन्नु’ शतमपि, ‘शरदः’ संवत्सराः, ‘अन्ति’ अस्माकमन्तिकस्या एवावस्थ्या एव, शतायुः पुरुष इति श्रुत्या शतं, शरद आधि- क्येन तत्र तत्र प्रशस्यन्ते । अस्माकं तु न पर्याप्ता तत्र हेतुरु- च्यते, ‘यत्र’ एषु शतसंवत्सरेषु, ‘नः’ अस्मदीयानां, ‘तनूनां’, ‘जरसं’ शरीराणं वयोहानिलक्षणं शैथिल्यं, ‘चक्रे’ हे देवा यूयं कृतवन्तः । किञ्च ‘यत्र’ यस्यां जरायां, ‘पुत्रासः’ पुत्राः स्वकी- योदरजाताः स्वेन रचिता एव, ‘पितरो भवन्ति’ प्रत्युत पालका भवन्ति । तादृशमायुः कथं पर्याप्तं भवेत्, आस्तां तावदायुषः पर्याप्तिः । हे देवाः यूयं ‘आयुर्गन्तोः’ तादृशम- प्यायुः सर्वं प्राप्तुमिच्छा विद्यते यस्य तस्मात्, ‘मध्या’ तस्यायुषो मध्ये, ‘नः’ अस्मान्, ‘मारीरिष’ तद्धिंसितान् मा कुरुत, इति शाखान्तरीयमन्त्रस्यार्थः ॥
अथ षोडशीमाह । ^(१९)“अदो यत्० विहायसां”^(१९) इति । ‘यत् ब्रह्म’, पूर्वोक्तजगत्कारणमस्ति ‘अदः’ ब्रह्म, पित्रादीनां सर्वेषां ‘विल्बं’ विशेषेणालम्बनं । ‘विहायसाः’ इत्यनेनाकाशव- र्त्तिनो यक्षगन्धर्त्वादय उच्यन्ते ॥
१ प्रपाठके २७ अनुवाकः । १७५
र्वण॑म्मे अस्तु॑ । स॒ह्येवास्म॑ स॒नात॑नः । इति नाको॑ ब्रह्म॑श्र॒वौ रा॒यो धनं॑ । पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता⁽१०⁾ ॥ ॥ ६ ॥
पुरं॑, नव॑द्वारा, ब्र॒ह्मा, च॒, व्यक्ता॑ꣳ, श॒रदः॑, अ॒ष्टौ च॑ ॥ अनु० २७ ॥
अथ सप्तदशीमाह । (१०)“कामप्रयवणं ॰ पुत्रानापोदेवीरिहाहिता”(१०) इति । प्रकर्षेण यवनं मिश्रीकरणं प्रयवणं कामानां प्रयवणं येन ब्रह्मणा भवति तत् ‘कामप्रयवणं’, ‘मे’ मम, ब्रह्मप्रकामप्रापकं ‘अस्तु’ । ‘हि’ यस्मात्, अतः ‘सनातनः’ अनादिसिद्धः, ‘स एव’ परमात्मैव, ‘अस्मि’, इत्यतः कारणात् ‘नाकः’ दुःखरहित स्थानविशेषः, ‘ब्रह्मश्रवः’ ब्रह्मविषयवाक्यश्रवणं, ‘रायः’ हिरण्यादयः, धनं प्रीतिसाधनं स्त्रीपुत्रादिचेत्येतत् सर्वं ममास्तु इति शेषः । ‘देवीः’ देवनशीलाः, ‘आपः’ यूयमोष्टकाः, ‘इह’ अस्मिन् कर्मणि, ‘पुत्रान्’, ‘आहिता’ धत्त सम्पादयत ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके सप्तविंशोऽनुवाकः ॥ २७ ॥