तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
३५४ तैत्तिरीये आरण्यके
प्रास्मा॒ आशा॑ अ॑शृण्वन् । कामे॑नाजनयन् पुन॑:^{(३)} । ^{(४)}कामे॑न मे॒ काम॒ आगा॑त् । हृदया॒द्धृद॑यं मृत्योः । यद॒मीषा॑म॒दः प्रि॒यं । तदै॒तूपमा॒मभि॑^{(४)} । ^{(५)}परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्था॑म् । यस्ते॒ स्व इत॑रो दे॒वया॑नात् । चक्षु
दिग्वर्त्तिनः प्राणिनो मृत्युदेवस्य महिमानं शास्त्रेभ्यः प्रकर्षेण शृण्वन्ति । 'कामेन' मृत्योरिच्छया, 'पुनरजनयन्' पुनः पुनरपत्यानि जनयन्ति । मृत्यौ प्रतिकूले सत्युत्पादितान्यप- त्यानि तदानीमेव म्रियन्ते अतो मृत्युमाराध्य तदिच्छामनुव- र्त्तिनोपत्यान्युत्पादयन्ति ॥
अथ चतुर्थीमाह । ^{(४)}“कामेन मे • तदैतूपमामभि”^{(४)} इति । 'कामेन' मृत्योरिच्छया, 'मे काम आगात्' मदी- यमभीष्टं वस्वागच्छत्* । मदीयं 'हृदयं', 'मृत्योः', 'हृद- यात्' मृत्युचित्तानुकूलेन वर्त्ततामिति शेषः । अतः 'मृत्योः' अनुग्रहे सति 'अमीषां' मदीयानामिन्द्रियाणां 'यददः प्रियं' यदिदं वस्त्वभीष्टं तद्वस्तु मामभिलक्ष्य 'उप' समीपे, 'एतु' आगच्छतु ॥
अथ पञ्चमीमाह । ^{(५)}“परं मृत्यो • प्रजा ऽरीरिषोमोत वीरान्”^{(५)} इति । हे 'मृत्यो', 'देवयानादितरः', 'यः' पन्थाः, 'ते स्वः' तव स्वभूतः, यः तं 'परं पन्थां' देवयानादितरं तं मार्गं, 'अनुपरेहि' अनुक्रमेण प्राप्नुहि । 'चक्षुष्मते' साधुदर्शिने, 'शृण्वते'
* वस्वागच्छतु इति F, G चिह्नितपुस्तकद्वयपाठः
३ प्रपाठके १५ अनुवाकः । ३५५
ष्मते॒ म्रृखते॒ ते॑ ब्रवीमि । मा न॒: प्रजां॑ रीरिषो॒ मोत-
वी॒रान्⁽५⁾ ॥ ⁽६⁾प्र पू॒र्व्यं मन॑सा वन्द॑मानः । नाध॑मानो
वृष॒भं च॑र्षणी॒नां । यः प्र॒जाना॒मेकराण्मानु॑षीणां । मृ॒त्युं
य॑जे प्रथम॒जामृतस्य॑ ॥ २ ॥
मृत्यवे॑, वी॒रान्, च॒त्वारि॑ च ॥ अनु ० १५ ॥
अस्मद्विज्ञप्तीनां श्रोत्रे, 'ते' तुभ्यं, एकं वचनं 'ब्रवीमि', 'नः'
अस्मदीयां, 'प्रजां' पुत्रादिरूपां, 'मारीरिषः' मा विनाशय,
'उत' अपि च, 'वीरान्' शूरान् भृत्यानपि, 'मारीरिषः' ॥
अथ षष्ठमाह । ⁽६⁾"प्र पूर्व्यं ० प्रथमजामृतस्य"⁽१⁾ इति ।
यो मृत्युः 'मानुषीणां' मनुष्यजातियुक्तानां, 'प्रजानां', 'एक राट्'
एक एव राजा, तादृशं 'मृत्युं' अहं 'यजे' पूजयामि । कीदृ-
शोऽहं, 'मनसा वन्दमानः' प्रकर्षेण नमस्कुर्वाणः, 'नाधमानः'
अपेक्षितं फलं याचमानः । कीदृशं मृत्युं, 'प्रपूर्व्यं' प्राणिभ्यः
पूर्वस्मिन् कल्पे भवं । 'चर्षणीनां' मनुष्याणां, 'वृषभं' कामादि-
वर्षणक्षमं । 'ऋतस्य प्रथमजां' सत्यस्य परब्रह्मणः प्रथमोत्पन्न-
कार्यं ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके तृतीयप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥
३५६ तैत्तिरीये आरण्यके
अथ षोडशोऽनुवाकः ।
(१)तरणि॒र्विश्वद॑र्शतॊ॒ ज्योति॑ष्कृदसि सूर्य । विश्व॒माभा॑सि रोच॒नं । उ॒पया॒मगृ॑हीतोसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते(१)॥
अनु० १६॥
अथ षोडशोऽनुवाकः ।
अथ सूर्योपस्थाने विनियुक्तं मन्त्रमाह । (१)“तरणिर्विश्वदर्शत०त्वा भ्राजस्वते”(१) इति । हे ‘सूर्य’, त्वं ‘तरणिः’ अन्धकारोत्तरणहेतुः, ‘विश्वदर्शतः’ विश्वैः सर्वैः प्राणिभिः दर्शनीयः, ‘ज्योतिष्कृत्’ सर्वस्मिँल्लोके प्रकाशकृच्चासि । ‘विश्वं’ सर्वं जगत्, ‘रोचनं’ दीप्यमानं यथा भवति तथा, ‘आभासि’ सर्वतः प्रकाशयसि । अग्निष्टोमे योऽयमतिग्राह्यरूपो ग्रहोऽस्ति तादृश हे ग्रह* ‘भ्राजस्वते’ दीप्तियुक्ताय यथोक्तमहिमोपेताय, ‘सूर्याय’, ‘त्वां’, गृह्णामि अतस्त्वं तदर्थं ‘उपयामगृहीतः’ उपयामेन पृथिवीकार्येण पात्रेण गृहीतः, ‘असि’ । ‘एषः’ हविर्धानमण्डपस्थः खरप्रदेशः ‘ते’ तव, ‘योनिः’ स्थानं, अतः ‘भ्राजस्वते’ दीप्तिमते सूर्याय, ‘त्वां’, तत्र प्रदेशे सादयामि ईदृशोऽयमतिग्राह्यो यस्मै सूर्याय गृह्यते किमु वक्तव्यं तस्य मा-
* तादृशं ग्रहमिति G चिह्नितपुस्तकपाठः ।
३ प्रपाठके १७ अनुवाकः । ३५७
अथ सप्तदशोऽनुवाकः ।
⁽१⁾आप्याय॑स्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ ।
भवा॑ नः स॒प्रथ॑स्तमः⁽१⁾ ॥ अनु० १७ ॥
हात्ममित्येवमुपस्थानकाले स्तुत्यर्थो ग्रहोपन्यासो लिङ्गबला- त्तस्य अतिग्राह्यस्य ग्रहणेऽप्ययं मन्त्रो विनियुज्यते ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥
अथ सप्तदशोऽनुवाकः ।
प्रेतदाहस्थानसमीपे अवटं खात्वा जलं प्रक्षिप्य तेन सेचनं सङ्गाहनं तत्र विनियुक्तां सौमीमृचमाह । ⁽१⁾"आप्यायस्व० स प्रथस्तमः"⁽१⁾ इति । हे 'मदिन्तम' अतिशयेन हर्षयुक्तसोम, 'विश्वाभिरूतिभिः' सर्वप्रकारैरस्मदीयरक्षणैः, 'आप्यायस्व' सर्वतो वर्धस्व । 'नः' अस्मान् प्रति, 'सप्रथस्तमः' अतिशयेन प्रथा- युक्तः, 'भव' ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥
३५८ तैत्तिरीये आरण्यके
अथाष्टादशोऽनुवाकः ।
(१)ई॒युष्टे ये पूर्व॑तरामप॑श्यन्॒ व्युच्छ॑न्तीमु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒नु प्रति॑च॒क्ष्याभू॒दोते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ^{(१)} ॥ अनु० १८ ॥
अथाष्टादशोऽनुवाकः ।
अवगाहनेष्टादशीमाह* । (१)“ईयुष्टे ये ० अपरीषु पश्यान्” (१) इति । ‘ये’, ‘मर्त्यासः’ मनुष्याः, ‘व्युच्छन्तीं’ प्रभातं कुर्वन्तीं, ‘उषसं’ उषःकालदेवतां, ‘पूर्वतरां’ इतरेभ्योत्यन्तं पूर्वां, ‘अपश्यन्’ पश्यन्ति, ‘ते’ मनुष्याः, ‘ईयुः’ तां देवतां प्राप्नुवन्ति, ‘अस्माभिरूनु’ अस्माभिरनु क्षिप्रं,† ‘प्रतिचक्ष्याभूत्’ प्रत्यक्षं दर्शनीयाभूत् । ‘ये’ अन्येपि, ‘अपरीषु’ अपररात्रिषु, रात्रीणामवसानेषु, ‘पश्यान्’ पश्यन्ति । ‘ते ओ यन्ति’ तेपि तां देवतां सर्वथा प्राप्नुवन्ति ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके अथाष्टादशोऽनुवाकः ॥ १८ ॥
* अवगाहने विनियुक्तामौषसीं द्वितीयामृचमाहेति G चिह्नितपुस्तकपाठः ।
† अस्माभिः सा अनुक्षप्रमिति G चिह्नितपुस्तकपाठः ।
३ प्रपाठके १६ अनुवाकः । ३५६
अथ एकोनविंशोऽनुवाकः ।
$^{(१)}$ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सा- दयामि ज्योति॒र्विदं॑ त्वा सादयामि॒ भास्व॑तीं त्वा साद- यामि॒ ज्वल॑न्तीं त्वा सादयामि म॒ल्मला॒ भव॑न्तीं त्वा सा- दयामि दी॒प्यमा॑नां त्वा सादयामि॒ रोच॑मानां त्वा सा- दया॒म्यर्ज॑सां त्वा सादयामि बृ॒हज्ज्योति॑षं त्वा सादया- मि बो॒धयं॑तीं त्वा सादयामि॒ जागृ॑तीं त्वा सादया- मि$^{(१)}$ ॥ अनु० १९ ॥
अथ एकोनविंशोऽनुवाकः ।
अथोपोषणे दाहे विनियुक्तानि यजूंष्याह । $^{(१)}$"ज्योतिष्मतीं • जागृतीं त्वा सादयामि"$^{(१)}$ इति । प्रेतं दग्धुं या समित् प्रक्षिप्यते तां सम्बोध्योच्यते । हे समित् त्वां अस्य प्रेतस्योपरि 'सादयामि' स्थापयामि । ज्योतिष्मतीत्यादिभिर्विशेषणैस्तत् समिधनिष्ठाया ज्वालायाः उत्तरोत्तराभिवृद्ध्या अवस्थाविशेषा उच्यन्ते । अत्यल्पप्रकाशोपेता 'ज्योतिष्मती' । ईषदधिकप्रकाशोपेता 'ज्योतिष्कृत्' । अतोप्यधिकप्रकाशोपेता 'ज्योतिर्वित्' । एवं भास्वत्यादिषु योजनीयं । मल्मलेति दह्यमानकाष्ठध्वनेरनुकरणं । लिङ्गानुसारेणायं मन्त्र इष्टकोपधानेऽपि विनियोक्तव्यः ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके एकोनविंशोऽनुवाकः ॥ १९ ॥
2 x
३६० तैत्तिरीये आरण्यके
अथ विंशोऽनुवाकः ।
^(१)प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप॒त्यै स्वाहा॒ तप॑ते॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑^(१) ॥ अनु० २० ॥
अथ विंशोऽनुवाकः ।
अथ स्रुवाहुतिमन्त्रा उच्यन्ते । तत्र द्वादश मन्त्रानाह । (१)“प्रयासाय ० सर्वस्मै स्वाहा”(१) इति । प्रेतस्य यमलोके बाधका देवताविशेषाः प्रयासादिशब्दवाच्याः, तन्निर्वचनानि तु यथायोगमन्नेयानि । तस्मै तस्मै देवतायै स्रुवेण गृहीतमिदमाज्यं स्वाहुतमस्तु ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके विंशोऽनुवाकः ॥ २० ॥
३ प्रपाठके २१ अनुवाकः । ३६१
अथ एकविंशोऽनुवाकः ।
$^{(२)}$चित्तँ॒ सन्ता॑नेन॒ भवं॑ य॒क्ना रु॒द्रन्त॑र्न्नि॒म्ना प॒शुप॒तिँ॑ स्थूलहृदयेना॒ग्निँ॑ हृद॑येन रु॒द्रं लोहि॑तेन॒ शर्वँ॑
अथ एकविंशोऽनुवाकः ।
अथ राजगवीयो होमार्थोऽयमनुवाक उच्यते । तत्र नवमन्त्रानाह । (१)“चित्तँ सन्तानेन ॰ शिङ्गीनिकोशाभ्यां”(१) इति। अत्र द्वितीयान्ताश्चित्तादिशब्दा देवताविशेषवाचिनः, तृतीयान्ताः सन्तानादिशब्दाः पशोर्मांसविशेषवाचिनः, सन्तानाख्येन मांसविशेषेण चित्ताख्यं देवताविशेषं परितोषयाम इति वाक्यशेषः । एवं सर्वत्र योजनीयं । तदेवमस्मिन् प्रपाठके ब्रह्मचितिब्रह्ममेधयोरङ्गभूता मन्त्रा उक्ताः । चातुर्होत्रीयचितिर्ब्रह्मचितिः । ब्रह्म वै चतुर्होतार इत्याम्नातत्वात् । तस्यां ब्रह्मचितौ चित्तिस्स्रुगित्यादयः सुवर्शं घर्ममित्येवमन्ता अनुवाका विनियुक्ताः । ब्रह्ममेधे तु कृत्स्नोऽपि प्रपाठको विनियुक्तः । आहिताग्नेर्यो दहनादिसंस्कारः सोऽयं पितृमेधः । आहिताग्नित्वे सति यो ब्रह्मतत्त्वं जानाति तस्य दहनादिसंस्कारो ब्रह्ममेध इत्युच्यते । तस्मिन् ब्रह्ममेधेऽस्य प्रपाठकस्य विनियोगं भरद्वाज आह, अथात उत्तरं पितृमेधं व्याख्या-
2 x 2
३६२ तैत्तिरीये आरण्यके
मत॑स्ताभ्यां म॒हादे॒वम॒न्तःपा॒र्श्वेना॑पिष्ठह॒न्ग् शि॑ङ्गीनि- को॒शाभ्या॑म्^(१) ॥ १ ॥
चि॒त्तमेक॑म् ॥ अनु० २१ ॥
चित्ति॑:, पृथि॒वी, अ॒ग्निः, सूर्य॑न्ते॒ चक्षु॑:, म॒हा- ह॒विर्होता॑, वाग्धोता॑, ब्रा॒ह्म॒ण एक॑होता, अ॒भि- र्यजु॑र्भिः, सेनेन्द॑स्य, दे॒वस्य॑, सु॒वर्ग्णं घ॒र्मं, स॒हस्र॑शी॒र्षा,
ख्यामो ब्रह्ममेध इत्याचक्षते । तथाप्युदाहरन्ति द्विजातीनामप- वर्गार्थः तत्त्वदर्शिभिः, ऋषिभिः तपसो योगाद्दिष्टितं पुरुषो- त्तमं । दोह्यञ्च* पितृमेधञ्च संसृत्य विधिरुत्तरः । विहितस्तु समासेन ऋतूनामुत्तमः क्रतुरिति । तस्य सप्तर्द्विहोतृभिर्होमो भर्तृसूक्तेन भरणं पत्नीभिरुपसादनं दक्षिणप्रतिग्रहैर्निर्मार्गै- र्हृदयैर्हिरण्यशलाकान् सम्भारयजुर्भिः पाचचयनं ज्योतिष्म- तीभिरुपोषणं नारायणाभ्यामुपस्थानं ब्राह्मण एकहोतृभि- श्चानुमन्त्रणं चित्तिः सन्तानेनेति हविराहुतोः प्रणामाय स्वाहेति स्रुवाहुतीर्मृत्युसूक्तेनानुशसनं सौम्या सङ्काचनं सौर्येणा- दित्योपस्थानमीयुष्णावगाहनं† समानमत ऊर्ध्वं‡ पैतृमेधिक-
* दोह्यंञ्चेति G चिह्नितपुस्तकपाठः ।
† -मीयुष्कावगाहनमिति G चिह्नितपुस्तकपाठः ।
‡ समानमेतदूर्ध्वं इति G चिह्नितपुस्तकपाठः ।
३ प्रपाठके २१ अनुवाकः । ३६३
अ॒ङ्गाः, भ॒र्त्ता, ह॒रिं, त॒र॑णिः, आ॒प्या॑यस्व, ई॒युष्टे ये, ज्योति॑ष्मतीं, प्र॒यासा॑य, चि॒त्तं, एक॑विꣳश॒तिः ॥ ११ ॥ चि॒त्तिः, अ॒ग्निर्यजुर्भिः, अ॒न्तःप्रवि॑ष्टः, प्र॒जाप॑तिः प्र॒जया॑, भ॒र्त्ता*, प्र॒यासा॑य॒, द्विपञ्चा॒शत् ॥ ५२ ॥ तच्छं॒ योरावृ॑णीमहे गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मा॑नु॒षेभ्यः॑ । ऊ॒र्ध्वं जि॑गातु भेष॒जं । शन्नो॑ अस्तु द्विपदे᳚ । शं चतु॑ष्पदे । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ । हरिः॒ ओ३म् ॥ तत् सत् ॥
मायवोदनप्राशनात्परं ब्रह्मेत्याचक्षते तानसाधारणे श्मशाने प्रयुञ्जीत तानाचार्याय† द्विजातीनामेवं सन्तिष्ठते ब्रह्ममेधः ॥ वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके एकविंशोऽनुवाकः ॥ २१ ॥
समाप्तश्च तृतीयप्रपाठकः ।
* भर्त्तेत्यादिपाठस्थाने संविदानस्तस्य धीरा ज्योतिष्मतीं द्विपञ्चा- शत् इति पाठः B चिह्नितपुस्तके वर्त्तते । परन्तु दशतिगणनया द्वि- पञ्चाशत्सङ्ख्या नोपलभ्यते । दशमानुवाकस्य चतुर्थदशत्यामुद्धृत्तनव- कण्डिका अपि एकदशतित्वेन ग्राह्याः । † तानाचार्यो य इति G चिह्नितपुस्तकपाठः ।
तैत्तिरीये आरण्यके
चतुर्थप्रपाठकं प्रथमोऽनुवाकः ।
श्रीगणेशाय नमः ।
(१)नमो॑ वा॒चे या चोदि॑ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒-
तैत्तिरीये आरण्यके
चतुर्थप्रपाठके प्रथमोऽनुवाकः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
तृतीये कथिता मन्त्रा ब्रह्माग्निब्रह्ममेधयोः ।
प्रवर्ग्यमन्त्राः प्रोच्यन्ते चतुर्थेऽस्मिन् प्रपाठके ॥
तद्ब्राह्मणं पञ्चमे स्यात्तावन्योन्याभिकाङ्क्षिणौ ।
तेन प्रपाठकावेतौ व्याख्यास्ये सह सर्वशः ॥
तत्र चतुर्थस्य प्रथमेऽनुवाके शान्तिपाठार्थो मन्त्रोऽभिधीयते, तस्य च प्रवर्ग्यकर्मादौ महावीरनिष्पत्तेः पूर्वं पाठं बो-
४ प्रपाठके १ अनुवाकः । ३६५
नमो॑ मन्त्र॒पति॑भ्यो॒ मा मामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः परा॑दु॒र्माहमृषी॒न् मन्त्र॒कृतो॑ मन्त्र॒पती॒न् परा॑दा॒म्^(१) ।
ध्यायन् आह। अथामावास्येन वो हविर्ज्ज्येष्ठानक्षत्रे वा *पूर्वां शान्तिमुपयन्ति नमो वाच इति। आपस्तम्बस्तु प्रवर्ग्यप्रचारादौ महावीरनिष्पत्तेरूर्ध्वं शान्तिपाठमाह। प्रवर्ग्येण प्रचरिष्यन्तः प्रवणन्ति† द्वाराणि परिश्रयन्ति पत्न्याः पश्चाद्धोतोपविशति पुरस्तादध्वर्युर्दक्षिणतो ब्रह्मा यजमानः प्रस्तोता चोत्तरतः प्रतिप्रस्थाताग्नीध्रश्च मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कुर्व्वन्ति। तस्यानुवाकस्य प्रथमभागे स्वाभीष्टानां देवतानामृषीणाञ्च नमस्कारमाह। "(१)नमो वाचे ० परादां"^(१) इति। अनुष्ठेयस्य कर्म्मणो मन्त्राधीनत्वान्मन्त्राणाञ्च वाग्देवताशरीरस्वरूपत्वात् तस्यै देवतायै प्रथमं नमस्काराः क्रियन्ते। वाक् च द्विविधा, काचित् पूर्व्वमुदिता व्यवहृता काचित् अनुदिता व्यवहरिष्यमाणा, तयोर्मध्ये 'या च वागुदिता', तस्या अपि 'नमः', अस्तु। 'या च', पूर्व्वं 'अनुदिता', तस्यै वाचे ऽपि 'नमः', अस्तु। विभज्य नमस्कृत्य पुनः समुदायाकारेण नमस्क्रियते। 'वाचे' भागधेयेऽप्यनुगदितायै वाग्देवतायै 'नमः', अस्तु। सेयं वाग्देवता येन बृहस्पत्तिरूपेण पात्यते तस्मै 'वाचस्पतये', 'नमः', अस्तु। यथा देवतानमस्कारः, तद्वत्
* अमावास्येन वा हविषेष्ट्वा नक्षत्रे वा इति E, G चिह्नितपुस्तकद्वयपाठः।
† संवृण्वन्ति इति E चिह्नितपुस्तकपाठः।
३६६ तैत्तिरीये आरण्यके
(२)वै॒श्व॒दे॒वीं वाच॑मुद्यास॒ग्॒ शिवामद॑स्तां॒ जुष्टां॑ दे॒वेभ्यः॑ ।(१) ।
(३)शर्म॑ मे॒ द्यौ शर्म॑ पृथि॒वी शर्म॑ वि॒श्वमि॒दं जग॑त् । शर्म॑
‘ऋषिभ्यः’, अपि नमस्कारोऽस्तु । कीदृशेभ्यः, ‘मन्त्रकृद्भ्यः’ मन्त्रं कुर्वन्तीति मन्त्रकृतः, यद्यप्यपौरुषेये वेदे कर्त्तारो न सन्ति, तथापि कल्पादावीश्वरानुग्रहेण मन्त्राणां लब्धारो मन्त्रकृत इत्युच्यन्ते । तल्लाभश्च स्मर्य्यते । ‘युगान्ते तर्हि तान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाता स्वयम्भुवेति’ । त एव महर्षयः सम्प्रदायप्रवृत्त्या मन्त्राणां पालनात् ‘मन्त्रपतयः’, इत्युच्यन्ते । तथाविधा महर्षयः ‘मां’ यजमानं, ‘मा परादुः’ परादानमवज्ञां मा कुर्वन्तु, किन्त्वनुगृह्णन्तु । ‘अहं’, अपि तान् महर्षीन् ‘मा परादां’ अवज्ञां न करोमि, किन्त्वादरेण भजामि ॥
द्वितीयभागेन नमस्कारप्रयोजनं दर्शयति । (२)“वैश्वदेवीं ० देवेभ्यः”(१) इति । अहं ‘वाचमुद्यासं’ तत्तद्रूपाया वाचो* वदिता भूयासं । कीदृशीं वाचं, ‘वैश्वदेवीं’ सर्वदेवविषयां, ‘शिवां’ स्तुतिरूपेण देवेभ्यः सुखप्रदां, ‘अदस्तां’ अनुपक्षीणां, सम्पूर्णां, ‘देवेभ्यो जुष्टां’ देवानां प्रियां ॥
तृतीयभागे देवतानुग्रहप्रार्थनारूपामष्टचं दर्शयति । (३)“शर्म मे द्यौः ० प्रजापती”(३) इति । द्यौर्लोकात्मको देवः ‘मे’ मम, ‘शर्म’ सुखरूपः, भवतु, अनुष्ठेये कर्मणि विघ्नपरिहारेण अनुग्र-
* मन्त्ररूपाया वाच इति तै० पाठः ।
४ प्रपाठके १ अनुवाकः । ३६७
चन्द्र॑श्च॒ सूर्य्य॑श्च॒ शर्म॑ ब्र॒ह्मप्र॒जाप॑ती^(३)। ^(४)भू॒तं व॑दिष्ये॒ भुव॑नं वदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒ ब्रह्म॑ व- दिष्ये स॒त्यं व॑दिष्ये^(४)। ^(५)तस्मा॑ अ॒हमि॒दमु॑पस्त॒रण॒मुप॑- स्तृण॒ उप॑स्तर॑णं मे प्र॒जायै॑ पशू॒नां भू॑यादुपस्तर॑णम॒हं
द्वातु इत्यर्थः । एवं पृथिव्यादिषु योज्यं । 'ब्रह्म' जगत्कारणं वस्तु, 'प्रजापतिः' चतुर्मुखः ॥
यदुक्तं पूर्वत्र वैश्वदेवीं वाचमुद्यासमिति तस्या वाचो वि- षयभूतानर्थांस्तस्य चतुर्थभागे* दर्शयति । ^(४)“भूतं वदिष्ये ॰ सत्यं वदिष्ये”^(४) इति । 'भूतं' आकाशादिपञ्चमहाभूतरूपं, 'भुवनं' पृथिव्यादिलोकस्वरूपं, 'तेजः' शरीरकान्तिः, 'यशः' कीर्त्तिः, 'तपः' व्रतादिनियमविशेषः, 'ब्रह्म' स्वाध्यायः, 'सत्यं' यथार्थकथनं, एतत् सर्वं 'वदिष्ये' ममानुकूलं भवत्वित्येतत् प्रार्थयिष्ये ॥
यथोक्तं मन्त्राभिवदनसिद्ध्यर्थं तदाधारभूतं कर्म पञ्चम- भागेन प्रार्थ्यते^(†) । ^(५)“तस्मा अहमिदमुपस्तरणं ॰ पशूनां भूयासं”^(५) इति । 'तस्मै' पूर्वोक्तभूतादिवेदनसिद्ध्यर्थं, 'अहं', 'इदं' प्रवर्गाख्यं कर्म, 'उपस्तरणं' महदाधारभूतं, 'उपस्तृणे'
* विषयभूतानस्मिंश्चतुर्थभागे इति तै० पाठः † पञ्चमभागेऽभिप्रार्थ्यते इति तै० पाठः । 2 z
३६८ तैत्तिरीये आरण्यके
प्र॒जायै॑ पशू॒नां भू॑यासं॑^(५) । ^(६)प्रा॒णा॒पा॒नौ मृ॒त्योर्मा॑ पातं प्रा॒णा॒पा॒नौ मा मां हा॑सिष्टं॑^(६) । ^(७)मधु॑ मनिष्ये॒ मधु॑ ज- निष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रूषे॒ण्यां॑ मनु॒ष्ये॑भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु
सम्पादयामि। 'मे' मदीयानां प्रजानां, 'पशूनां', च 'उप- स्तरणं' आधारभूतं वस्तु, 'भूयात्'। अन्याधारामम्भवेऽपि 'अहं', एव प्रजानां 'पशूनां', च 'उपस्तरणं' आधारः, 'भूयासं' ॥
यथोक्तकर्मसिद्ध्यर्थं विघ्नरूपात् मृत्योः परिपालनं षष्ठ- भागे प्रार्थयते। ^(६)“प्राणापानौ ० मा मा हासिष्टं”^(६) इति। हे 'प्राणापानौ' उभौ वायू, 'मृत्योः', सकाशात् 'मां', पाल- यतं। तस्मिन् पालनेऽयमुपायः, हे 'प्राणापानौ', 'मां' यज- मानं, 'मा हासिष्टं' मा परित्यजतं ॥
अथ मृत्युपरिहारे सति प्रयोजनं सप्तमभागे दर्शयति। ^(७)“मधु मनिष्ये ० पितरोऽनुमदन्तु”^(७) इति। अपमृत्युपरि- हारेण लब्धायुरहं 'मधु' मधुरं समीचीनफलसाधनं प्रवर्गाख्यं कर्म, 'मनिष्ये' मनसि सङ्कल्पयिष्ये। सङ्कल्पादूर्ध्वं 'मधु' तन्म- धुरं कर्म, 'जनिष्ये' प्रादुर्भावयिष्ये, अनुष्ठातुं प्रारप्स्ये, प्रारम्भा- दूर्ध्वं तत् मधुरं कर्म 'वक्ष्यामि' वहनं करिष्यामि, समाप्तिपर्यन्तं निर्वहिष्यामि। तत्सिद्धयर्थं 'मधु' मधुरं, मन्त्रजातं, 'वदिष्या-
४ प्रपाठके १ अनुवाकः । ३६६
शो॒भायै॑ पि॒तरोऽनु॑मदन्तु^{(७)} ॥ ^{(८)}ओम्॒ शान्ति॒ः शान्ति॒ः शान्तिः॑^{(८)} ॥ हरिः ओम् ॥ अनु० १ ॥
मि' कथयिष्यामि। न केवलं मन्त्रपाठं किन्तु 'वाचं' अपि उद्देशत्यागरूपां, 'उद्यासं' वाचो वदिता भूयासं। कीदृशीं वाचं, 'देवेभ्यो मधुमतीं' देवानामतिप्रियां, 'मनुष्येभ्यः शुश्रूषेण्यां' मनुष्योपलक्षितानां पितॄणां श्रोतुमत्यन्तमधुरां, 'तं' एतादृशं, 'मां' यजमानं, 'शोभायै' शोभनफलप्राप्त्यर्थं, 'देवाः', सर्वे 'अवन्तु' रक्षन्तु। 'पितरः', अपि 'अनुमदन्तु' अनुजानन्तु ॥
अथाष्टमभागेन स्वाभीष्टसिद्धिहेतुं परमात्मानं प्रणवेनानुस्मृत्य विघ्नत्रयपरिहारार्थंन्त्रिः शान्तिं पठति । ^{(८)}“ओम् शान्तिः शान्तिः शान्तिः”^{(८)} इति। आध्यात्मिकानां विघ्नानां ज्वरादिरूपाणां 'शान्तिः', अस्तु। आधिभौतिकानां रोगोपद्रवादीनां 'शान्तिः', अस्तु। आधिदैविकानां यक्षराक्षसोपद्रवादीनां 'शान्तिः', अस्तु ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
2 z 2
| ३७० | तैत्तिरीये आरण्यके |
|---|
अथ द्वितीयोऽनुवाकः ।
(१)यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धिय॑: । विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: । विहोत्रा॑दधे वयु॒ना विदेक॒ इत् । म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः^(१) ।—
अथ द्वितीयोऽनुवाकः ।
प्रथमानुवाके शान्त्यर्थं मन्त्रमुक्त्वा द्वितीयानुवाके महावीरनिर्माणार्था मन्त्रा उच्यन्ते । कल्पः । प्रवर्ग्यं सम्भरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे तूष्णीं काष्टीं समिधमाधाय युञ्जते मन इति चतुर्गृहीतं जुहोत्यथ यदिदीक्षितः काष्टकीमेवैतया समिधमादध्याद्यजुरेव वदेदित्येक इति । पाठस्तु । (१)“युञ्जते मन ० परिष्टुतिः”(१) इति । ‘विप्रस्य’ ब्राह्मणस्य यजमानस्य, सम्बन्धिनः ‘विप्राः’ ऋत्विजः, ‘मनो युञ्जते’ प्रथमं स्वकीयं मनो विषयेभ्यो निवर्त्त्य समाहितं कुर्व्वन्ति, ‘उत’ अपि च, ‘धियः’ प्रवर्ग्यविषयाणि ज्ञानानि, ‘युञ्जते’ सम्पादयन्ति । कीदृशस्य विप्रस्य, ‘बृहतः’ प्रभूताग्निचयनाद्योगेन प्रवर्ग्ययोगाच्चातिवृद्धस्य, ‘विपश्चितः’ विदुषः प्रयोगाभिज्ञस्य । कीदृशा विप्राः, ‘होत्राः’ होमशीलाः, कर्म्मण्यालस्यरहिता इत्यर्थः । ‘एकइत्’ एक एव सवि-
४ प्रपाठके २ अनुवाकः । ३७१
ता, ‘विदधे’ सर्व्वमिदं निर्मितवान् । कीदृशः, ‘वयुनावित्’ ऋत्विग्यजमानाभिप्रायाभिज्ञः । कथमेक एव सर्व्वमिदं कृत- वानिति न विस्मेतव्यं । ततः ‘सवितुः’, ‘देवस्य’, ‘परिष्टुति- र्महो’ परितः सर्वेषु वेदेषु श्रूयमाणा स्तुतिर्महती ॥
अथ ब्राह्मणप्रपाठकस्य द्वितीयानुवाके सोऽयं मन्त्रो वि- नियुज्यते । तस्योपोध्दातेन प्रथमानुवाके प्रवर्ग्यनिष्पत्तिर्नि- रूप्यते । तत्रादौ स्तुत्यर्थमुपाख्यानमाह । “देवा वै सत्रमासत । ऋद्धिपरिमितं यशस्कामाः । तेऽब्रुवन् । यन्नः प्रथमं यश ऋच्छात् । सर्वेषान्नस्तत्सहासदिति । तेषां कुरुक्षेत्रं वेदिरा- सीत् । तस्यै खाण्डवो दक्षिणार्द्ध आसीत् । तूर्घ्नमुत्तरार्द्धः । परी- णज्जघनार्द्धः । मरव उत्करः ॥ १ ॥ तेषां मखं वैष्णवं यश आर्च्छत्” । (५ प्र० । १ अ० । १ म०) इति । पुरा कदाचित् ‘देवाः’, ‘यशस्कामाः’, सन्तः ‘ऋद्धिपरिमितं’ साधनद्रव्यसमृद्ध्या परितो निर्मितं, प्रौढं ‘सत्रं’, अनुष्ठितवन्तः, अनुष्ठातुं प्रवर्त्त- मानाः ‘ते’ देवाः, परस्परं समयरूपमिदं वाक्यं ‘अब्रुवन्’ । ‘प्रथमं’ यज्ञफलस्योपक्रमे, ‘यद्यशः’ कीर्त्तिरूपं, ‘नः’ अस्मान्, ‘ऋच्छात्’* प्राप्नुयात् । ‘तत्’ यशः, ‘नः’ अस्माकं, ‘सर्वेषां’, ‘सहासत्’ साधारणमेवास्तु, नत्वेकस्यैव साधारणम्, ‘इति’ एवं परस्परं भाषां कृत्वा, प्रवृत्तानां ‘तेषां’ देवानां, यत् ‘कुरुक्षेत्रं’ पुराणप्रसिद्धं, सैव ‘वेदिरासीत्’ । ‘तस्यै’ कुरुक्षेत्र-
* नोऽस्मानाच्छेद् इति तै० पाठः
३७२ तैत्तिरीये आरण्यके
रूपायास्तस्या वेदेः, ‘खाण्डव’तूर्घ्नपरीणच्छन्दवाच्याः,* पुण्य-
देशविशेषाः दक्षिणदिग्भागाः अभवन्, ‘मरवः’ जलरहिता
भूप्रदेशाः, उत्कररूपा अभवन् । वेदेरुत्तरभागे पांशुतृणा-
दयो यत्र प्रक्षिप्यन्ते† सोऽयम् ‘उत्करः’, तस्यां वेद्यामुपतिष्ठतां
‘तेषां’ देवानां मध्ये, ‘वैष्णवं मखं’ विष्णुस्वामिकं सत्रं, ‘यशः’,
प्राप्नोत् । तस्मिन् सत्रे विष्णुशब्दवाच्यो यज्ञाभिमानी देवो
गृहपतित्वेन दीक्षितः, अतो विष्णुसत्रं कृतवानित्येवं विष्णु-
नाम्ना यश आसीत् ॥
तस्मिन् सत्रे विष्णुनामकस्य पुरुषस्येतरदेवैः सह ‡यशो-
निमित्तं कलहं दर्शयति । “तन्व्यकामयत । तेनापाक्रामत् ।
तं देवा अन्वायन् । यशोऽवरुरुत्समानाः । तस्यान्वागतस्य ।
सव्याद्धनुरजात । दक्षिणादिषवः । तस्मादिषुधन्वं पुण्यजन्म ।
यज्ञजन्मा हि ॥ २ ॥ तमेकꣳ सन्तं । बहवो नाभ्यधृष्णुवन् ।
तस्मादेकमिषुधन्विनं । बहवोऽनिषुधन्वा नाभिधृष्णुवन्ति” ।
(५ प्र० । १ अ० । २ म०) इति । विष्णुः सत्रं कृतवानित्येतादृशं
यद् यशस्तस्मिन् सत्र आसीत् । ‘तत्’ यशः, ममैवास्तु ना-
न्येषामित्येवं विष्णुनितरां ‘अकामयत’ । कामयित्वा च ‘तेन’
यशसा, सहेतरदेवसकाशात् स्वयं ‘अपाक्रामत्’, तदानीमन्ये
‘देवाः’, तत् ‘यशः’, अवरोद्धुमिच्छन्तः, ‘तं’ विष्णुं, अन्वग-
* तूर्त्तो॑ध्वपरीणच्छ्न्दवाचा इति तै० पाठः ।
† परित्यज्यन्ते इति तै० पाठः ।
‡ यज्ञनिमित्तमिति तै० पाठः ।
४ प्रपाठके २ अनुवाकः। ३७३
च्छन्। तदैवैः 'अन्वागतस्य', विष्णोः सव्यहस्तादेकं 'धनुः' उत्पन्नं, दक्षिणहस्ताद् बहवो बाणा उत्पन्नाः, विष्णोः सङ्क- ल्पमात्रेण तदुत्पत्तिः। यस्मात् कारणात् 'यज्ञजन्मा' य- ज्ञाज्जन्म उत्पत्तिर्यस्येषुधन्वसमूहस्य सोऽयं यज्ञजन्मा। यज्ञो वै विष्णुरिति श्रुतेः, यज्ञस्यैव विष्णुरूपत्वात् विष्णोरुत्पन्न- द्यज्ञादेवोत्पन्नं भवति। 'तस्मात्' यज्ञजन्मत्वात्, 'इषुधन्व'स्व- रूपं 'पुण्यजन्मा', इत्युच्यते यज्ञस्य पुण्यरूपत्वात्। वामहस्ते दध- द्धनुर्दक्षिणहस्ते बाणान् धृत्वावस्थितं 'तं' यज्ञपुरुषं, 'एकं', एव 'सन्तं', इतरे इषुधन्वरहिता देवाः'बहवः', सन्तोऽपि 'ना- भ्यधृष्णुवन्' अभिभवितुन्नाशक्नुवन्, यस्मादेवमत्र 'तस्मात्', लोकेपीषुभिर्धनुषा चोपेतं 'एकं' पुरुषं, तद्रहिताः 'बहवः' पुरुषाः, अभिभवितुं न शक्नुवन्ति ॥
अथ यज्ञपुरुषस्य गर्वप्रभङ्गेन दीक्षितनियमं विधत्ते ।
“सोऽस्मयत । एकं मा सन्तं बहवो नाभ्यधर्षिषुरिति । तस्य स्मियमाणस्य तेजोऽपाक्रामत् । तद्देवा ओषधीषु न्यमृजुः । ते श्यामाका अभवन् । स्मायाका वै नामैते ॥ ३ ॥ तत् स्मायाका- नां स्मायाकत्वं । तस्माद्दीक्षितेनापि गृह्य स्रोतव्यं । तेजसो धृत्यै” (५ प्र० । १ अ० । ३ म०) इति । 'सः' धन्वी यज्ञपुरुषः, 'अस्मयत' स्वयं हास्यं कृतवान् । हास्याभिप्रायश्च तेनैवोच्यते । अहमेक एव एते तु देवाः शतसहस्रशङ्ख्याकाः तथापि मा- मभिभवितुं न शक्ताः, 'इति' एवं, 'स्मियमाणस्य' गर्वेण स्मयं कृतवतः, 'तस्य' यज्ञपुरुषस्य सकाशात्, तदीयं 'तेजोपा-