भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

६५४ तैत्तिरीये आरण्यके

मु॒त सो॒म्याना॑म्। ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्तां(१८)।। (१६)अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सम्प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च। नेत् त्वा॑धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षा-


'मा विजोङ्करः' कुटिलं मा कुरु, मा विनाशयेत्यर्थः। 'एषः' चम- सः, 'देवानां प्रियः', देवाश्चमसेन सोमरसम्पातुं वाञ्छन्ति। 'उत' अपि च, 'सोम्यानां' सोमयोग्यानामृत्विग्यजमानानां, 'प्रियः', 'यश्चमसः', 'देवपानः' देवानां पानहेतुः, 'तस्मिन्' चमसे, 'अ- मृताः', 'देवाः', 'मादयन्तां' यजमानं हर्षयन्तां॥

कल्पः। अथैनं चर्मणा सशोर्षवालपादेन उत्तरलोम्ना प्रोर्णोति, अग्नेर्वर्म परि गोभिर्व्ययस्व सम्प्रोर्णुष्व मेदसा पीवसा च। नेत् त्वा धृष्णुर्हरसा जर्हृषाणो दधदिधक्ष्यन् पर्यङ्कयातै इति। (१६ मन्त्रः) हे 'वर्म' कवचस्थानीय चर्मविशेष, 'अग्नेः', 'गोभिः' रश्मिभिः, परितः 'व्ययस्व' एनं प्रेतं संवृतङ्कुरु,। 'पीवसा' स्थूलेन, 'मेदसा' 'च', त्वदी- यावयवेन मेदोभिधेन, 'प्रोर्णुष्व' सम्यगाच्छादय। 'धृष्णुः' धाष्ट्र्येनो- पेतः, अयमग्निः 'त्वा दधत्' हे चर्म त्वां धारयन्, 'हरसा' स्वकीयेन तेजसा, 'जर्हृषाणः' हर्तुमिच्छन्, 'विधक्ष्यन्' विशेषेण दग्धुमि- च्छन्, उद्युक्तः, 'नेत् पर्यङ्कयातै' परितो नैव चालयतु, तवाप- सारणं मा करोतु ।

६ प्रपाठके १ अनुवाकः। ६५५

णो द॒धद्दिध॑क्षन् प॒र्य्यङ्क॑याते॑(१९)। (२०)मैन॑मग्ने॒ वि॑द॒हो॒ माऽभि॑शोचो॒ माऽस्य॒ त्वचं॑ चिक्षिपो॒* मा शरी॑रं । य॒दा शृ॒तं कर॑वो जातवेदोऽथैनं॒ प्रहि॑णुतात् पि॒तृभ्य॑:(२०) । (२१)शृ॒तं य॒दाऽकर॑सि जातवेदोऽथैनं॒ परि॑दत्तात् पि॒तृभ्य॑: । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑


कल्पः । अथैनमादीपयति आदीप्यमानमनुमन्त्रयते, मैनमग्ने विदहो माऽभिशोचो माऽस्य त्वचं चिक्षिपो मा शरीरं । यदा शृतं करवो जातवेदोऽथैनं प्रहिणुतात् पितृभ्यः इति ।

२० मन्त्रः ।) हे 'अग्ने', 'एनं' प्रेतं, 'मा विदहः' विशेषेण (दग्धं मषीरूपं मा कुरु, 'मा अभिशोचः' अभितः शोकेन सन्तापेन युक्तं मा कुरु, 'अस्य', 'त्वचं', 'मा चिक्षिपः' इतस्ततो विक्षिप्तां मा कुरु, 'शरीरं', अपि विक्षिप्तं 'मा', कुरु । हे 'जातवेदः', 'यदा', शरीरं 'शृतं' पक्वं, 'करवः', 'अथैनं' अनन्तरमेवैनं प्रेतं पुरुषं, 'पितृभ्यः' 'प्रहिणुतात्' पितृसमीपे प्रेरय ॥

कल्पः । प्रज्वलितमनुमन्त्रयते, शृतं यदाऽकरसि जातवेदोऽथैनं परिदत्तात् पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति इति ।

(२१ मन्त्रः ।) हे 'जातवेदः', 'यदा', तच्छरीरं 'शृतं' पक्वं, 'अकः' कृतवान्, 'असि', तदानीमेव 'एनं', 'पितृभ्यः', 'परिदत्तात्' प्रयच्छ । 'यदा', अयं प्रेतः 'एतां' अग्निना तया कृतां, 'असुनीतिं' प्राणस्य नयनं, प्राणप्रेरणं, 'गच्छाति'


* विक्षिप इति F चिह्नितपुस्तकपाठः ।
4 K 2

६५६ तैत्तिरीये आरण्यके

व॒शनीर्भव॑ति।(२१)। (२२)सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्याञ्च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॑ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः।(२२)। (२३)अ॒जोऽ-

प्राप्नोति, 'अथा' अनन्तरं, 'देवानां', 'वशनीर्भवति' वशं प्राप्तो भवति ॥

कल्पः । अत्र षष्ठोतारं व्याचष्टे, सूर्यन्ते चक्षुर्गच्छतु वातमात्मा द्याञ्च गच्छ पृथिवीञ्च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति । (१ २ मन्त्रः ।) सूर्यन्ते इत्यादिमन्त्रस्य षष्ठोता इति नामधेयं । हे प्रेत 'ते' त्वदीयं, 'चक्षुः', इन्द्रियं 'सूर्य', 'गच्छतु' । 'आत्मा' प्राणः, बाह्यवायुं 'गच्छतु' । त्वमपि 'धर्मणा' सुकृतेन, तत्फलं भोक्तुं द्युलोकं भूलोकं च 'गच्छ', 'वा', जलं 'गच्छ'* । चक्षुरादीन्द्रियसामर्थ्यं पुनर्देहग्रहणपर्यन्तं, तत्तदधिष्ठातृदेवता तया द्युलोकादिषु शरीरे स्वीकृते पश्चात् त्वामेव प्राप्स्यति । यत्र यस्मिँल्लोके 'ते' तव, 'हितं' सुखमस्ति, 'तत्र', गत्वा 'ओषधीषु', प्रविश्य तद्द्वारा पितृदेहमातृदेहो प्रविश्य तत्र तत्रोचितानि शरीराणि स्वीकृत्य तैः 'शरीरैः', प्रतिष्ठितो भव ।

कल्पः । अत्र एतं अजं चित्यन्ते अबलेन शूल्बेन बध्नाति, अजोऽभागस्तपसा तन्तपस्व । तन्ते शोचिस्तपतु तन्ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमँ सुकृतां यत्र लोकाः इति । (१ ३ मन्त्रः ।) यत्र चितेः पश्चिमभागे समीपे केनचित् अबलेन

* 'अपो वा गच्छ', इति K चिह्नितपुस्तकपाठः

६ प्रपाठके १ अनुवाकः। ६५७

भाग॒स्तप॑सा॒ तन्त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तन्तै॑ अ॒र्चिः यास्तै॑ शि॒वास्त॒नुवो॑ जातवेद॒स्ताभि॑र्वहेम॒ꣳ सु॑कृ॒तां यत्र॑ लो॒काः(२३) । ।(२४) अ॒यं वै त्वम॒स्मादधि॒ त्वमे॒तद॒यं वै


पुङ्खेन अजं बध्नीयात्, ज्वालया सन्तप्तः सः तेजसा सह पुङ्खः यथा द्रवति तथा बध्नीयात्, तदानीं अजोऽभाग इत्येतं मन्त्रं पठेत् । हे अग्ने अयं 'अजः', भागरहितः । 'तं' अजं, 'तपसा' त्वदीयेन तापेन, 'तपस्व' तप्तं कुरु । तथा 'ते', 'शोचिः' शोकहेतुज्वाला-विशेषः, 'तं तपतु' । तथा 'अर्चिः' भासको ज्वालाविशेषः, 'तं' अजं, 'तपतु' । तपःशोचिरर्चिःशब्दानां सन्तापतारतम्येन भेदः । हे 'जातवेदः', 'ते' तव, 'याः तन्वः', 'शिवाः' सुखहेतवः नतु तापप्रदाः, 'ताभिः', 'इमं' प्रेतं, 'वह', 'यत्र' यस्मिन् लोके, 'सुकृतां' पुण्यकृतां, 'लोकाः', सन्ति तत्र प्रापय ॥

कल्पः । अथाऽन्यां जुहोति, अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि । वैश्वानरः पुत्रः पित्रे लोककृज्जातवेदो वहेमꣳ सुकृतां यत्र लोकाः इति । उपरितनानुवाकोक्तैः नवभिर्मन्त्रैः नव हुत्वा अथ अनन्तरं अन्यां एतामृचं जुहुयात् । (२४ मन्त्रः ।) हे 'जातवेदः,' 'अयं' एव प्रेतः पुरुषः, 'त्वं', नतु अस्य तव च भेदोऽस्ति । 'अस्मादधि' अस्य प्रेतस्य शरीरस्योपरि, 'त्वं' अग्निः, 'एतत्', प्रत्यचं यथा भवति तथा वर्त्तसे । 'तत्' तस्मात् अत्यन्त-

4 K

६५८ तैत्तिरीये आरण्यके

तद॑स्य॒ योनि॑रसि । वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॒ककृज्जा॒-
तवे॑दो॒ वहै॒मँ॑ सु॑कृ॒तां यत्र॑ लो॒काः⁽२४⁾ ॥ ४ ॥

वि॒द्वान्, अ॒भ्याव॑र्त्तस्व, अ॒भिमा॑तीर्जयेम॒, शरी॑रैः,
च॒त्वारि॑ च ॥ १ ॥


भेदाभावात् कारणात्, 'अस्य' प्रेतस्य, 'अयं' एव 'वैश्वानरः', त्वं 'योनिरसि' स्थानप्रदोऽसि । सर्वत्र हि 'पुत्रः', 'पित्रे', 'लोककृत्', भवति, पुन्नाम्नो नरकात्त्रायत इति व्युत्पत्तेः । अयञ्च पुरा यजमानदशायां नानाविधैः कर्मभिरग्नेः पालनात्तव पिता । ततः हे 'जातवेदः', 'यत्र', 'सुकृतां' पुण्यकृतां, 'लोकाः' स्थानानि सन्ति, तत्र 'इमं' प्रेतं पुरुषं, 'वह' प्रापय ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥

६ प्रपाठके २ अनुवाकः । ६५६

अथ द्वितीयोऽनुवाकः ।

$^{(१)}$ये ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्यः॒ स्वाहा॒ य ए॒तस्य॑ प॒थो र॑क्षि॒तार॒स्तेभ्यः॒ स्वाहा॒ य ए॒तस्य॑ प॒थोऽभि॑रक्षि॒तार॒स्तेभ्यः॒ स्वाहा॑ ख्या॒त्रे स्वाहा॑ऽपाख्या॒त्रे स्वाहा॑ऽभिला॒लप॑ते॒ स्वाहा॑ऽपलालपते॒ स्वाहा॒ऽग्नये॑ कर्म॒कृते॒ स्वाहा॑


अथ द्वितीयोऽनुवाकः ।

कल्पः । पर्णमयेन स्रुवेणोपघातं जुहोति, य एतस्य पथो गोप्तारः तेभ्यः स्वाहेति नव स्रुवाहुतीरिति । उपघातं उपहत्योपहत्य सकृत् सकृदवदायेत्यर्थः । पाठस्तु । $^{(१)}$“य एतस्य पथो गोप्तारस्तेभ्यः स्वाहा ० यमत्र नाधीमस्तस्मै स्वाहा”$^{(१)}$ इति । ‘एतस्य पथः’ मृतेन गन्तव्यस्य स्वर्गमार्गविषयस्य मार्गस्य, रक्षकाः देवाः त्रिविधाः, गोप्तरक्षितृभिरक्षितनामानः, ते च क्रमेण त्रिषु स्थानेषु तिष्ठन्ति, तादृशाः ये सन्ति ‘तेभ्यः’, स्वाहुतमिदमस्तु । यजमानकीर्त्तेः प्रकटयिता कश्चिद्देवः ‘ख्याता’, तस्मै स्वाहुतमिदमस्तु । सः हि तुष्टः सन् देवलोके ख्यातिं करिष्यति । अपकीर्त्तेः प्रकटयिता कश्चित् ‘अपाख्याता’, तस्मै, स्वाहुतमिदमस्तु । स च तुष्टः अपकीर्त्तिं वर्जयति । देवानामग्रे सुकृतं साकल्येन यः कथयति सः ‘अभिलालपन्’, तत् यः अपलपति सः ‘अपलालपन्’, ताभ्यां स्वाहु-

६६० तैत्तिरीये आरण्यके

य॒मञ्च॒ नाधी॑मस्त॒स्मै॒ स्वाहा॑ । (१) । (२)यस्त॑ इ॒ध्मञ्च॒भर॑त्सि- ष्विदा॒नो मूर्द्धानं॑ वा त॒तप॑ते त्वा॒या । दिवो॒ विश्व॑स्मात् सीम॑घायत उ॒रुष्य॑: । (२) । (३)अ॒स्मात् त्वमधि॑ जा॒तोऽसि॒ त्व-

तमिदमस्तु । पूर्ववदिष्टप्राप्त्यनिष्टपरिहारौ योजनीयौ । पूर्वानुष्ठि- तकर्मणामेतस्य च कर्मणो निष्पादको यः 'अग्निः,' तस्मै 'कर्मकृते', स्वाहुतमिदमस्तु । 'यं' वा अन्यदेवं, 'अत्र', उपयुक्तं वयं 'नाधीमः' न स्मरामः, 'तस्मै', स्वाहुतमिदमस्तु ॥

अनन्तरभाविनोर्मन्त्रयोर्विनियोगो भरद्वाजबौधायनाभ्यां अ- नुक्तत्वाद् ग्रन्थान्तरे द्रष्टव्यः । प्रकरणबलात्तु होमार्थता प्रतीयते* । तत्र प्रथमं मन्त्रमाह । (२)“यस्त इध्मं जभरत् सिष्विदानो ० सीमघायत उरुष्यः”(२) इति । हे अग्ने ‘यः’ राक्षसादिः, ‘ते’ तव, ‘इध्मं’, ‘जभरत्’ अपहरति, अथवा ‘त्वाया’ त्वदीयस्य दग्धव्यस्य प्रेतस्य, ‘मूर्द्धानं’, स्वयं ‘सिष्विदान’ ? खेदं प्राप्तः सन्, ‘ततपते’ अतिशयेन तापं करोति; शास्त्रीयदहनसाधनस्य इध्मस्य अपहारेण वा, स्वकीयखेदेन मूर्धानं द्रवीकुर्वन् वा, शास्त्रीयदाहं विनाश्य स्वर्गं विघ्नन्ति । ‘दिवः’ स्वर्गस्य, ‘अघायतः’ अघं पापं विघ्नं य इच्छति तस्मात्, ‘विश्वस्मात्सीं’ सर्वस्मादपि राक्षसादेः, ‘उरुष्यः’ अयं प्रेतो रक्षणीयः ॥

अथ द्वितीयं मन्त्रमाह । (३)“अस्मात् त्वमधि जातोसि ० लोकाय


* होमार्थतां दर्शयति इति E चिह्नितपुस्तकपाठः ।

६ प्रपाठके ३ अनुवाकः । ६६१

द्यं॒ जा॑यतां॒ पुन॑: । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒- काय॒ स्वाहा॑^(१) ॥ १ ॥ य ए॒तस्य॒ त्वत् पञ्च॑ ॥ २ ॥


अथ तृतीयोऽनुवाकः ।

^(१)प्र के॒तुना॑ बृ॒हता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि वृष॒भो


स्वाहा”(१) इति । हे अग्ने ‘अस्मात्’ यजमानात्, प्रेतं त्वं ‘अधिजातोऽसि’ । अयं हि कर्मानुष्ठानेन त्वां स्वामिनं सम्पादितवान् । अतः फलदशायां ‘अयं’, ‘पुनः’, लत्तः ‘अधिजायतां’ त्वमेव स्वर्गलोके यजमानमुत्पादय, तत्सिद्ध्यर्थं ‘वैश्वानराय’ सर्वपुरुषहिताय, ‘अग्नये’ तुभ्यं, इदं स्वाहुतमस्तु ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥


अथ तृतीयोऽनुवाकः ।

कल्पः । अथैनं नवर्चेन याम्येन सूक्तेनोपतिष्ठते, प्रकेतुनेति । तत्र प्रथमामाह । ^(१)“प्र केतुना वृहता ० महिषो ववर्ध”(१) इति । अयं

६६२ तैत्तिरीये आरण्यके

रौर॑वीति । दि॒वश्चि॒दन्ता॒दुप॑ मा॒मुदा॑न॒ङपामु॒पस्थे॑ म- हि॒षो व॑वर्ध^(१) । ^(२)इदन्त॒ एकं॑ प॒र ऊ॑त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व । सं॒वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां॑ प॑र॒मे स॒धस्थे॑^(२) । ^(३)नाके॑ सुप॒र्णमुप॒ यत् पत॑न्त॒५


'अग्निः', 'बृहता' प्रौढेन, 'केतुना' ध्वजस्थानीयेन, ज्वालाविशेषेण, 'प्रभाति' प्रकर्षेण भासते । स च 'आविर्भूतः, 'वृषभः' कामानां वर्षकः सन्, 'विश्वानि', फलान्युद्दिश्य, 'रौरवीति' अतिशयेन ध्वनिं करोति । 'दिवः अन्तात् चित्' स्वर्गस्यावसानदेशादपि, 'उपेत्य 'मां' मदीयं यजमानं प्रेतं, 'उदानट्' उत्कर्षेण व्याप्तवान्, स्वर्गस्योपरि स्वयं पूर्वमवस्थितोऽपि मदीयं प्रेतमनुग्रहीतुमेवात्रागतवानित्यर्थः । सचाग्निः 'अपां' प्राप्तव्यानां फलानां, 'उपस्थे' समीपे, 'महिषो ववर्ध' अत्यधिको यथा भवति तथा वृद्धिं प्राप्तवान् ॥

अथ द्वितीयामाह । ^(२)“इदन्त एकं पर ऊत एकं ० परमे सधस्थे”^(२) इति । हे अग्ने तव स्वाभाविकं 'इदमेकं' ज्योतिः, 'उत' अपिच, 'परः' परस्तात् प्रेतशरीरे स्थितं, 'ते' त्वदीयं, 'एकं' ज्योतिः, तदुभयमपि 'तृतीयेन' 'ज्योतिषा' परमात्मरूपेण 'संविशस्व' सं- योजयस्व । 'तनुवै' स्वकीयस्य शरीरस्य, 'संवेशनः' परमात्मज्योतिषा संयोजयिता, 'देवानां प्रियः', त्वं 'चारुरेधि' रमणीयो भव । कुत्रेति तदुच्यते, 'परमे' उत्कृष्टे, 'सधस्थे' सहोपवेशनस्थाने ॥

अथ तृतीयामाह । ^(३)“नाके सुपर्णमुपयत् पतन्त५ •

६ प्रपाठके ३ अनुवाकः। ६६३

हृ॒दा वेन॑न्तो अभ्यच॑क्षत त्वा । हिर॑ण्यपक्षं वरु॑णस्य दूतं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम्^(३) । ^{(४)}अति॑द्रव सारमे॒- यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था । अथा॑ पि॒तृन्त् सु॑वि॒दत्राँ॒२ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑-


शकुनं भुरण्युं"^(३) इति। हे अग्ने त्वामृत्विजः 'हृदा' स्वकीयेन मनसा, 'वेनन्तः' कामयमानाः, 'यत्' यदा, 'अभ्यचक्षत' अभितः ख्यापितवन्तः, तदा त्वं तुष्टो भवेति शेषः। कीदृशं त्वां, 'नाके' स्वर्गे, 'उपपतन्तं' समीपे प्रतिगच्छन्तं, अतएव 'सुपर्णं' शोभनपक्षोपेतं, 'हिरण्यपक्षं' सुवर्णमयपक्षोपेतं, 'वरुणस्य दूतं' वरुणेन प्रेर्यमाणं, 'यमस्य', 'योनौ' स्थानविशेषे, 'भुरण्युं' भरणशीलं, भोगसम्पाद- कमित्यर्थः। 'शकुनं' पक्ष्याकारं ॥

अथ चतुर्थीमाह। ^{(४)}"अतिद्रव सारमेयौ श्वानौ ० सधमादं मदन्ति,"^(४) इति। हे अग्ने 'साधुना पथा' समीचीनेन मार्गेण, 'श्वानौ', उभौ 'अतिद्रव' अतिक्रम्य गच्छ, यमसम्बन्धिनौ यौ श्वानौ प्रेतस्य बाधकौ, तौ परित्यज्य समीचीनेन मार्गेण प्रेतं नयेत्यर्थः। कीदृशौ श्वानौ, 'सारमेयौ' सरमा नाम काचित् प्रसिद्धा शुनी, तस्याः पुत्रौ, 'चतुरक्षौ' उपरिभागे पुनरप्यक्षिद्वयं ययोस्तादृशौ, 'अथ' शोभनमार्गेण गमनान्तरं, 'ये' पितरः, 'यमेन', 'सधमादं' सहर्षं, 'मदन्ति' प्राप्नुवन्ति, तान् 'सुविदत्रान्' सुष्ठु अभिज्ञान्, 'पि- तॄन्', 'अपोहि' प्राप्नुहि॥

६६४ तैत्तिरीये आरण्यके

न्नि^{(४)}। ^{(५)}यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒र- क्षी नृ॒चक्ष॑सा। ताभ्याँ॑ राजन्॒ परि॑देह्मेनँ॒ स्व॒स्ति चा॑स्मा॒ अन॑मीवञ्च॑ धेहि^{(५)} १ ॥

^{(६)}उरु॒ण॒साव॑सु॒तृपा॑वुलुम्ब॒लौ। यम॑स्य दू॒तौ च॑रतो॒ऽ- वशाँ॒२ अनु॑। ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य पुन॑र्द॒त्तावसु॑ -


अथ पञ्चमीमाह । ^{(५)}“यौ ते श्वानौ यमरक्षितारौ ० अ- नमीवञ्च धेहि”^{(५)} इति। हे ‘यम’, ‘ते’ त्वदीयौ, ‘श्वानौ’, ‘यौ’, विद्येते, ‘ताभ्यां’ श्वभ्यां, हे ‘राजन्’ यम, ‘एनं’ प्रेतं, ‘परिदेहि’ प्रयच्छ । कीदृशौ श्वानौ, ‘रक्षितारौ’ यमगृहस्य रक्षकौ, ‘चतुरक्षौ’ अक्षिचतुष्टययुक्तौ, ‘पथिरक्षी’ मार्गस्य रक्षकौ, ‘नृचक्षसा’ मनुष्यैः ख्यायमानौ, श्रुतिस्मृतिपुराणाभिज्ञाः पुरुषाः तौ प्रख्यापयन्ति । ताभ्यां श्वभ्यां दत्वा ‘अस्मै’ प्रेताय, ‘स्वस्ति च’ क्षेममपि, ‘अनमी- वञ्च’ रोगाभावमपि, ‘धेहि’ सम्पादय ॥

अथ षष्ठीमाह । ^{(६)}“उरुणसावसुतृपौ ० वसुमद्येह भद्रं”^{(६)} इति । हे यमसम्बन्धिनौ ‘दूतौ’, ‘अवशान्’ अस्वाधीनान् प्राणिनः, ‘अनु’ लक्ष्य, सर्वत्र ‘चरतः’ । कीदृशौ, ‘उरुणसौ’ दीर्घ- नासिकायुक्तौ, ‘असुतृपौ’ स्वकीयान् प्राणान् स्वीकृत्य तैः तृप्यन्तौ, ‘उलुम्बलौ’ प्रभूतबलयुक्तौ, ‘तौ’ उभौ दूतौ, ‘सूर्याय दृशये’

६ प्रपाठके ३ अनुवाकः। ६६५

मद्ये॒ह भ॒द्रं^(६)। । ^(७)सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताꣳश्चि॑दे॒वापि॑ गच्छतात्^(७)। । ^(८)ये युध्य॑न्ते॒ प्रध॑नेषु शूरा॑सो॒ ये त॑नु॒त्यज॑:। ये वा॑ स॒हस्र॑द-


सूर्य्यस्य दर्शनार्थं, 'अद्य' दिने, 'इह' कर्मणि, 'भद्रं असुं' समीचीनं प्राणं, 'पुनः', अपि 'अस्मभ्यं', 'दत्तां' प्रयच्छतां ॥

अथ सप्तमीमाह । ^(७)“सोम एकेभ्यः पवते ० ताꣳश्चिदेवापि गच्छतात्”^(७) इति । 'एकेभ्यः' केषाञ्चित् यजमानानामर्थे, 'सोमः', 'पवते' वस्त्रेण शोधितः पूतो भवति । 'एके' अन्ये केचिद्यजमानाः, 'घृतमुपासते' घृतद्रव्योपलक्षितं हविर्यज्ञमनुतिष्ठन्ति । 'येभ्यः' येषामर्थे, 'मधु प्रधावति' असौ वा आदित्यो देवमध्वित्यादिका मधुविद्या प्रवर्त्तते, यदथर्वाङ्गिरसो मध्वः कूल्या इत्यादि मधु-प्राप्तिफलको ब्राह्मणस्य* येषामर्थे प्रवर्त्तते, 'ताꣳश्चित्' सर्वानपि, अयं प्रेतः 'अपिगच्छतादेव' सर्वथा प्राप्नोत्वेव, सोमयाजिनां दर्श-पूर्णमासादि‍याजिनां ब्रह्मयज्ञमधुविद्याद्यनुष्ठातॄणां यः पुण्यलोकः सोऽयमस्य भवत्वित्यर्थः ॥

अथाष्टमीमाह । ^(८)“ये युध्यन्ते प्रधनेषु ० ताꣳश्चिदेवापि गच्छ-तात्”^(८) इति । 'ये' क्षत्रियाः, 'प्रधनेषु' प्रकृष्टधननिमित्तेषु सङ्ग्रामेषु, 'युध्यन्ते' युद्धं कुर्वन्ति । तत्रापि 'ये' 'शूरासः' शूराः भटाः, 'तनु-


* ब्रह्मयज्ञस्य इति E चिह्नितपुस्तकपाठः ।
4 L 2

६६६तैत्तिरीये आरण्यके

क्षिणास्ताँ॑श्श्विदे॒वापि॑ गच्छतात्^(८)। ^(९)तप॑सा॒ ये अना॑धृष्यास्तप॑सा॒ ये सु॑व॒र्गताः॑ । तपो॒ ये च॑क्रि॒रे मह॒त् ताँश्श्विदे॒वापि॑ गच्छतात्^(९) । ^(१०)अश्म॑न्वती रेवतीः॒ सꣳर॑भध्व॒मुत्ति॑ष्ठत् प्रतर॑ता सखायः । अत्रा॑ जहाम॒ ये अ॒सन्नशे॑वाः शिवा॒न् वयम॒भि वाजा॒नुत्त॑रेम^(१०) ।

त्यजः' युद्धाभिमुख्येन शरीरन्त्यजन्ति । अथवा 'ये' पुरुषाः, 'सहस्रदक्षिणाः' विश्वजिदादिक्रतुषु सहस्रदक्षिणायुक्ताः । तांश्चिदित्यादि पूर्ववत् । युद्धाभिमुख्येन मृतस्योत्तमलोकः स्मर्यते, द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड् योगयुक्तश्च रणे चाभिमुखे हत इति । धर्माद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते इति च ॥

अथ नवमीमाह । ^(९)“तपसा ये अनाधृष्याः • ताँश्चिदेवापि गच्छतात्”^(९) इति । 'ये' पुरुषाः, अस्मिन् लोके 'तपसा', युक्ताः सन्तः 'अनाधृष्याः' केनाप्यतिरस्कार्याः* वर्त्तन्ते । 'ये' च अन्ये, स्वानुष्ठितेन 'तपसा', स्वर्गं 'गताः' । 'ये' च अन्ये, 'महत् तपः चक्रिरे' । अनेन तपस्वित्वमात्रमुक्तं, अनाधृष्या इत्यनेन अणिमादिसिद्धिपर्य्यन्तं तपो विवक्षितं । ताँश्चिदित्यादि पूर्ववत् ॥

कल्पः । जघनेन दहनदेशमुदीचीस्तिस्रः कर्षूः खात्वा अश्मभिः सिकताभिश्च प्रकीर्य अयुग्मैरुदकुम्भैरपः परिस्राव्य तासु ज्ञातयः सङ्गाहन्ते, अश्मन्वती रेवतीरिति । पाठस्तु । ^(१०)“अश्मन्वती


* देवैरप्यतिरस्कार्या इति E चिह्नितपुस्तकपाठः ।

६ प्रपाठके ३ अनुवाकः। ६६७

^(११)यद्वै देव॑स्य सवि॒तुः प॒वित्रं॑ सहस्र॑धारं॒ वित॑तम॒- न्तरि॑क्षे । येना॑पु॒नादिन्द्र॑मना॑र्त्तमार्त्यै॒ तेना॒हं माగ్ं स-


रेवंतीः सरभध्वं० वाजानुत्तरेम''(१०) इति । कर्पूः, कुल्याः, तत्र- त्यासु अप्सु अवगाहनाय ज्ञातयः परस्परं सम्बोध्यन्ते । हे 'सखायः', 'अश्मन्वतीः' पाषाणयुक्ताः, * 'रेवतीः' धनहेतुभूताः आपः 'संरभध्वं' प्रविशत,† 'उत्तिष्ठत' उत्साहवन्तः सन्तः प्रत्युद्गच्छत । अनेन क्रमेण 'प्रतरत' कुल्यात्रयं प्रकर्षेण तरत । 'अत्र' अस्मिन् दहनदेशे, 'अशेवाः' सेवितुमशक्याः दुःखविशेषाः, 'ये' केचित्, 'आसन्' पूर्व- मासन्, तान् सर्वान् 'जहाम' परित्यजाम । 'शिवान्' सुखहेतून, 'वाजान्' गतिविशेषान् अन्नविशेषान् वा, 'अभिलक्ष्य 'वयं', 'उ- त्तरेम' उत्तीर्णा भवाम ॥

• कल्पः । जघनेन कर्पूः पर्णशाखे निहत्य अबलेन शुल्बेन बध्वा विनिःसर्पन्ति, यद्वै देवस्य सवितुः पवित्रं सहस्रंधारं विततमन्त- रिक्षे । ये नापुनादिन्द्रमनात्र्त्तमार्त्यै तेनाहं माగ్ं सर्वतनूं पुनामि इति । (११मन्त्रः ।) 'सवितुः' प्रेरकस्य सूर्यस्य, 'देवस्य', सम्बन्धि 'पवित्रं' शुद्धिकारणं, 'यद्वै' यदेव शुल्वं, 'सहस्रधारं' बहुस- न्धिकं, 'अन्तरिक्षे', 'विततं' प्रसृतं, 'येन' सूर्यरूपेण, शुल्वेन, पुरा 'आर्त्यै' आर्त्तेः सकाशात्, 'इन्द्रं', 'अनार्त्तं'पनात्' आर्त्तो यथा


* पूषायुक्ता इति F, K, चिह्नितपुस्तकद्वयपाठः ।
† निविशतेति F, K, चिह्नितपुस्तकद्वयपाठः ।

६६८ तैत्तिरीये आरण्यके

र्वत॑नुं पुनामि^{(११)} । ^{(१२)}या रा॒ष्ट्रात् प॒न्नाद॒पय॑न्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः। धातु॒स्ताः सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒ऽस्मान् र॒य्या वर्च॑सा॒ सꣳसृ॑जाथ^{(१२)}। ^{(१३)}उ॒द्व॒यन्त॑म॑स॒स्परि॒पश्य॑न्तो॒ ज्योति॒रुत्त॑रं। दे॒वं दे॑व॒त्रा

न भवति तथा शोधितवान् । ‘तेन’ शुल्बेन, ‘अहं’, प्रेतस्य ज्ञातिं ‘मां’ मद्रूपां, ‘सर्वतनुं’ कृत्स्नशरीरं, ‘पुनामि’ शोधयामि ॥

कल्पः । जघन्यो व्युदस्यति, या राष्ट्रात् पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः। धातुस्ताः सर्वाः पवनेन पूताः प्रजयाऽस्मान् रय्या वर्चसा सꣳसृजायेति। (१२ मन्त्रः ।) शुल्बस्याधस्तात् ये ज्ञातयो निर्गच्छन्ति तेषां मध्ये पश्चात् निर्गच्छन् दहनकर्ता पुरुषः शाखाद्वयमनेन मन्त्रेण व्युदस्येत्। ‘अभिमृताः’ अनुक्रमेण पूर्वं मृताः पुरुषाः, ‘नृपतिमिच्छमानाः’ मनुष्याणां पालकं स्वामिनमिच्छन्तः, ‘पन्नात्’ प्राप्तात्, ‘राष्ट्रात्’, ‘याः’ ‘शाखाः’, ‘अपयन्ति’ अपसारयन्ति, ‘ताः’ सर्वाः शाखाः, ‘धातुः’, सम्बन्धिना ‘पवनेन’ शुद्धिहेतुना, ‘पूताः’ शोधिताः । तादृश्यः हे शाखाः, ‘अस्मान्’, प्रजादिभिः संयोजयत ॥

कल्पः । उदयन्तमसस्परीत्यादित्यमुपस्थायेति । पाठस्तु । (१३)“उद्वयन्तमसस्परि ॰ ज्योतिरुत्तमं”(१३) इति । ‘वयं’, ‘तमसः उत्तरं ज्योतिः’ तमसो विनाशकत्वेन उत्कृष्टं सूर्यसम्बद्धं ज्योतिः,

६ प्रपाठके ३ अनुवाकः । ६६६

सूर्य॑मगन्म॒ ज्योति॑रुत्त॒मम्^(१३) । ^{(१४)}धा॒ता पु॑नातु सवि॒ता पु॑नातु । अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा^{(१४)} ॥ २ ॥ धे॒हि॒, उत्त॑रेम॒, अ॒ष्टौ च॑ ॥ ३ ॥


‘उत्परिपश्यन्तः’ उत्कर्षेण सर्वतः अवलोकयन्तः, ‘देवत्रा’ देवेषु मध्ये, ‘सूर्य’, देवं, ‘उत्तमं’, ‘ज्योतिरूपं’, ‘अगन्म’ प्राप्ताः स्म ॥

कल्पः । अनवेक्षमाणाः अपोऽवगाहन्ते, धाता पुनातु सविता पुनात्विति । अग्नेस्तेजसा सूर्यस्य वर्चसेति मन्त्रशेषः। (१४ मन्त्रः ।) ‘धाता’ जगतः स्रष्टा प्रजापतिः, अग्निसम्बन्धेन ‘तेजसा’, ‘पुनातु’ शोधयतु । ‘सविता’ प्रेरको देवः, सूर्यसम्बन्धिना ‘तेजसा’, ‘पुनातु’ ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥

६७० तैत्तिरीये आरण्यके

अथ चतुर्थोऽनुवाकः ।

(१)यन्तै॑ अ॒ग्निमम॑न्थाम वृषभायै॑व पक्तवे॑ । इ॒मन्तꣳ॑ श॑- मयामसि क्षीरे॑ण चोद॒केन॑ च(१) । (२)यं त्वम॑ग्ने॒ समद॑ह॒- स्त्वमु॒ निर्वा॑पया पुन॑: । क्याम्बूरत्र॑ जायतां पाकदू॒र्वा व्य॑ल्कशा(२) । (३)शीति॑के शीति॑कावति ह्लादु॑के ह्लादु॑-


कल्पः । अपरेद्युस्तृतीयास्यां पञ्चम्यां सप्तम्यां वा अस्थीनि सञ्चिन्वन्ति, क्षीरोन्मिक्तेन उदकेन उदुम्बरशाखया प्रकाथयन् श- रीराणि अवोक्षति, यन्ते अग्निममन्थामेति पञ्चभिरिति । तत्र प्रथमामाह । (१)“यन्ते अग्निममन्थाम ॰क्षीरेण चोदकेन च”(१) इति । हे प्रेतशरीर ‘ते’ तव, ‘पक्तवे’ पाकार्थं, ‘वृषभायेव’ यथा पशवे, तथा यं ‘अग्निं अमन्थाम’ । पशुबन्धेषु हि पशोः पाका- र्थमग्निर्मथ्यते, निर्मन्ध्यं वा कुर्यादिति श्रुतेः । ‘तमिमं’ अग्निं, अनेन ‘क्षीरेण चोदकेन च’, ‘शमयामसि’ शान्तं कुर्मः ॥

अथ द्वितीयामाह । (२)“यं त्वमग्ने समदहः ॰पाकदुर्वा व्यल्क- शा”(२) इति । हे ‘अग्ने’, ‘त्वं’, ‘यं’ प्रेतदेहं, ‘समदहः’ सम्यग्द- ग्धवानसि । ‘त्वमु’ तादृशस्त्वमेव, ‘पुनर्निर्वापय’ इतः स्थानात् पुनरपि निःसारय । ‘अत्र’ देशे, ‘क्याम्बूः’ कियताम्बुना युक्ता काचिदोषधिः, ‘पाकदुर्वा’ अल्पया दूर्वया युक्ता, ‘व्यल्कशा’ विवि- धशाखायुक्ता, ‘जायतां’ उत्पद्यतां ॥

अथ तृतीयामाह । (३)“शीतिके शीतिकावति ॰ स्वग्निꣳ

६ प्रपाठके ४ अनुवाकः । ६७१

कावति । म॒ण्डूक्या॑सु सङ्ग॒मयेꣳ॑ स्वे॒मग्निꣳ॑ श॑मय॑^(३) । ^(४)शन्ते॑ ध॒न्व॒न्या आप॑:॒ शमु॑ ते सन्त्वनू॒क्या॑: । शन्ते॑ समु॒द्रि- या आप॑:॒ शमु॑ ते सन्तु वर्ष्या॑:^(४) । ^(५)शन्ते॑ स्रवन्तीस्त॒नु- वे॒ शमु॑ ते सन्तु कूप्या॑: । शन्ते॑ नीहा॒रो वर्षतु॒ शमु॑ पृ- ष्ठाऽव॑शीयतां^(५) ॥ १ ॥


शमय”^(३) इति । शीतेन जलेन युक्ता भूमिः, शीतिका, ह्लादका- रिणा क्षीरेण युक्ता भूमिः, ह्लादुका । हे ‘शीतिके’ भूमे, ‘शीति- कावति’ शीतिकाभूमियुक्ते स्थाने, ‘मण्डूक्यासु’ मण्डूकप्लवनयोग्यासु अप्सु, ‘सङ्गमय’ प्रापय । हे ‘ह्लादुके’, ‘ह्लादुकावति’ ह्लादुकायुक्ते स्थानविशेषे, ‘मण्डूक्यासु’ मण्डूकप्लवनयोग्यासु अप्सु, ‘सङ्गमय’ ‘इमं’ प्रेतदेहं, प्रापय, ‘अग्निं’, च ‘सुष्ठु’ ‘शमय’ ॥

अथ चतुर्थीमाह । ^(४)“शन्ते धन्वन्‍या आपः ० सन्तु वर्ष्याः”^(४) इति । धन्वनि मरुदेशे भवाः ‘धन्वन्‍याः’, तादृश्यः ‘आपः’, हे प्रेतदेह ‘ते’ तव, ‘शं’ ‘सन्तु’ सुखहेतवो भवन्तु । अनूपदेशे भवाः ‘अनूक्याः’, आपः, ‘शं सन्तु’ सुखहेतव एव भवन्तु । तथा समुद्रे भवाः ‘समुद्रियाः’, वर्षे भवाः ‘वर्ष्याः’, ताः सर्वा अपि ‘ते’, सुखहेतवो भवन्तु ।

अथ पञ्चमीमाह । ^(५)“शन्ते स्रवन्तीस्तनुवे ० शमु पृष्ठाऽवशी- यतां”^(५) इति । ‘स्रवन्तीः’ नदीगता आपः हे प्रेत ‘ते’, ‘तनुवे’,

4 M

६७२तैत्तिरीये आरण्यके

(६)अव॑सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभि॑: । आयु॒र्वसा॑न॒ उप॑यातु॒ शेष॒ꣳ सङ्ग॑च्छतां त॒नुवा॑ जातवेदः^{(६)}। ^{(७)}सङ्ग॑च्छस्व पि॒तृभि॑: स॒ꣳ स्व॒धाभि॑: स-

'शं' सुखहेतवः भवन्तु। कूपे भवाः 'कूप्याः', ताश्च 'ते', सुखहेतवः भवन्तु । 'नीहारः' हिमरूपः, 'ते', सुखार्थं 'वर्षतु' दृष्टिवत् स्रवतु । 'पृश्वा' जलविन्दुः, 'शमु' सुखार्थमेव, 'अवश्योतां' अधःपततु ।

कल्पः । अतएवाङ्गारान् दक्षिणान् निर्वर्त्य तिस्रः स्रुवाहुतीर्जुहोति, अवसृजेति, प्रतिमन्त्रमिति। तत्र प्रथमामाह । ^{(६)}"अवसृज पुनरग्ने ० तनुवा जातवेदः"^{(६)} इति । हे 'अग्ने', 'यः' प्रेतः पुमान्, 'आहुतः' चितौ मन्त्रेण समर्पितः सन्, 'स्वधाभिः' स्वधाकारसमर्पितैरुदकादिभिः* सह, 'चरति'। तं प्रेतं 'पितृभ्यः' पितृप्राप्त्यर्थं, 'पुनरवसृज' भूयः प्रेरय । अयं प्रेतः, 'आयुर्वसानः' आच्छादयन् आयुषा युक्त इत्यर्थः । 'शेषं' भोगं, 'उपयातु' प्राप्नोतु । हे 'जातवेदः', सोऽयं प्रेतः 'तनुवा सङ्गच्छतां' शरीरेण सङ्गतो भवतु ॥

अथ द्वितीयामाह । ^{(७)}"सङ्गच्छस्व पितृभिः ० सविता दधातु"^{(७)} इति । हे प्रेत त्वं 'पितृभिः', 'सङ्गच्छ' सङ्गतो भव । 'स्वधाभिः' स्वधाकारसमर्पितैर्द्रव्यैः, सङ्गतो भव । 'परमे व्योमन्,


* उदकाञ्जलिभिरिति E चिह्नितपुस्तकपाठः ।

६ प्रपाठके ४ अनुवाकः । ६७३

मि॒ष्टापू॒र्त्तेन॑ प॒रमे व्यो॑मन्। यत्र॒ भूम्यै॑ वृण॒से तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु^(७)। ^(८)यत्ते॑ कृ॒ष्णः श॑कु॒न आ॒तुतो॑द पि॒पीलः॑ स॒र्प उ॒तवा॒ श्वाप॑दः। अ॒ग्निष्टद्विश्वा॑-


उत्कृष्टे स्वर्गे, ‘इष्टापूर्त्तेन’ श्रौतस्मार्त्तकर्मफलेन, सङ्गतो भव ‘भूम्यै’ भूम्यां, ‘यत्र’ यस्मिन् देशविशेषे, ‘वृणसे’ जन्म प्रार्थयसे, ‘तत्र’, ‘गच्छ’ । ‘सविता देवः’, त्वां ‘तत्र’, ‘दधातु’ स्थापयतु ॥

अथ तृतीयामाह । ^(८)“यत्ते कृष्णः शकुनः ० ब्राह्मण- माविवेश^(८)” इति । हे प्रेत तव देहे ‘कृष्णः’, ‘शकुनः’ पक्षिविशेषः, ‘यत्’ अङ्गं, ‘आतुतोद’ ईषद्व्यथितमकरोत् । ‘पिपीलः’ पिपीलिका वा, ‘सर्पः’, वा ‘यत्’ अङ्गं, ‘आतुतोद’ । ‘उतवा’ अथवा, ‘श्वापदः’* अन्योपि जीवः, व्यापात्तिहेतुः, ‘आतुतोद’ । अयं ‘अग्निः’, देवः ‘तत्’ अङ्गं, ‘विश्वात्’ सर्वस्मादुपद्रवात्, ‘अनृणं’ ऋणरहितं, उपद्रवरहितं, ‘कृणोतु’ करोतु । ‘यस्य सोमः’, ‘ब्राह्मणे’ एतदीये ब्राह्मणशरीरे, ‘आविवेश’ यागकाले प्रविष्टवान्, सोऽपि ‘अनृणं’, करोतु ॥

कल्पः । अथैनत् आदग्धं उदकुम्भैः खवोत्चितमवोक्ष्य या अस्य स्त्रीणां मुख्या सा सव्ये पाणौ नीललोहिताभ्यां सूत्राभ्यां त्रिग्रन्थ्य


* श्ववत्यादा यस्य व्याघ्रादेः सः, अपि वा तुतोद इति E चिह्नितपु- स्तकपाठः ।

४ M २