तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
६ प्रपाठके ७ अनुवाक । ६८७
माता पृ॑थि॒वी म॒ही । वै॒व॒स्वत॑ꣳ हि गच्छा॑सि य॒मरा॒ज्ये॒ वि॒राज॑सि^{(९)}। ^{(१०)}नलं॑ प्ल॒वमा॒रोहैतन्न॒लेन॒ पथो॒ऽन्वि॑हि । स त्वं न॑ल॒प्ल॒वो भू॒त्वा सन्त॑र॒ प्रत॑रो॒त्तर॑^{(१०)} ॥ २ ॥ ^{(११)}स॒वि॒तैतानि॑ श॒रीरा॑णि पृथि॒व्यै मा॒तुरुप॑स्थ॒-
परिधिरूपावेतो, 'मा सम्बाधेयां' सम्बाधितं मा कुरुतां । 'माता' मातृस्थानीया, 'मही' महतो, 'पृथिवी', मा बाधिष्ट । 'हि' प्रसिद्धं, 'वैवस्वतं' सूर्य्यपुत्रं यमं, 'गच्छासि' प्राप्नुहि । 'यमराज्ये' यमस्य देशे, 'विराजसि' विशेषेण राजमानो भव ॥
कल्पः । मध्ये नलेषीकान् निदधाति, नलं प्लवमिति । पाठस्तु । ^{(१०)}"नलं प्लवमारोह ॰ सन्तर प्रतरोत्तर"^{(१०)} इति । नल- शब्देन जलमध्ये समुत्पन्नः तृणविशेष उच्यते । हे प्रेत त्वं 'नलं' 'प्लवं' तृणविशेषरूपं प्लवनहेतुं, 'एतं' 'आरोह' । तेन 'नलेन', 'पथः' मार्गान्, 'अन्विहि' त्वं अनुक्रमेण प्राप्नुहि । 'सः' तादृशः, 'त्वं', 'नलप्लवः' नलरूपेण प्लवेन युक्तः, 'भूत्वा', 'सन्तर' पितृलोक- मार्गरूपं समुद्रं सम्यक् तर, 'प्रतर' प्रकर्षेण तर, 'उत्तर' उत्कर्षेण तर । मार्गे नानाविधोपद्रवपरिहाराभिप्रायेण नानाविधन्तरण- मुच्यते ॥
कल्पः । पुराणेन सर्पिषा शरीराणि सुसन्तृप्तानि सन्तर्प्य उत्त- रत आसीनः अनन्वीक्षमाणो दर्भेषु निवपति, सवितैतानि शरीराणि इति । पाठस्तु । ^{(११)}"सवितैतानि शरीराणि ॰ तेभ्यः पृथिवि
4P2
६६८ तैत्तिरीये आरण्यके
आद॑धे । तेभ्य॑: पृथि॒वि॒ शम्भ॑व^(११) । ^(१२)षड्ढोता॒ सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्याञ्च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॒ गच्छ॒ यदि॑ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रै:^(१२) । ^(१३)परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां॒ यस्ते॑ स्व-
शम्भव”^(११) इति । ‘एतानि’ ‘शरीराणि’ शरीरावयवरूपाणि अस्थीनि, मातृस्थानीयाया: पृथिव्या: ‘उपस्थे’ उत्सङ्गे, ‘सविता’ प्रेरको देव:, ‘आदधे’ सर्वत: स्थापयति । हे ‘पृथिवि’, ‘तेभ्य:’ अस्थिभ्य:, ‘शं’ सुखहेतु:, ‘भव’ ॥
कल्प: । अथैनमुपतिष्ठन्ते, षड्ढोता सूर्यन्ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतिष्ठा शरीरै: इति । (१२मन्त्र: ।) य: षड्ढोतृसञ्ज्ञको मन्त्राभिमानी देव: अस्ति तदनुग्रहेण हे प्रेत त्वदीयं ‘चक्षु:’, ‘सूर्यङ्गच्छतु’, इति योजनीयं । अयञ्च मन्त्र: प्रथमानुवाके व्याख्यातः ॥
कल्प: । भुक्तभोगेन वाससा अस्थिकुम्भन्निमृज्योपर्य्युपरि शिरो दक्षिणा व्युदस्यति, परं मृत्यो अनुपरेहि पन्थामिति, अथास्य कपालानि सुसभिन्नानि सम्भिनत्ति यथा एषु उदकन्न तिष्ठेत्, इति । पाठस्तु । ^(१३)“परम्मृत्यो अनुपरेहि०रीरिषो मोत वीरान्”^(१३) इति । हे ‘मृत्यो’, ‘देवयानादितर’, ‘य:’ पन्था:, ‘ते स्व:’ तव
६ प्रपाठके ७ अनुवाकः। ६६
इत॑रो दे॒वयाना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान्^{(१३)}} । ^{(१४)}शं वातः॑ शꣳ हि ते॑ घृ॒णिः शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्तां मे॒ दिशः॑
खभूतः, तं, ‘परं पन्थां’ देवयानात् इतरं तं मार्गं, ‘अनुपरेहि’ अनुक्रमेण प्राप्नुहि । ‘चक्षुष्मते’ साधुदर्शिने, ‘शृण्वते’ अस्मद्विज्ञप्तीनां श्रोत्रे, ‘ते’ तुभ्यं, एकं वचनं ‘ब्रवीमि’ । ‘नः’ अस्मदीयां, ‘प्रजां’ पुत्रादिरूपां, ‘मा रीरिषः’ मा विनाशय, ‘उत’ अपिच, ‘वीरान्’ शूरान् भृत्यानपि, मा रीरिषः, ॥
कल्पः । भुक्तभोगेन वाससा शरीराणि प्रच्छाद्य उदपात्रेण उदुम्बरशाखया वोक्षति, शं वात इति । पाठस्तु । ^{(१४)}“शं वातः शꣳ हि ते घृणिः ० कल्पन्ताम्मे दिशः शग्माः”^{(१४)} इति । ‘वातः’ वायुः, ‘ते’ तव, ‘शं’ सुखं, करोतु । ‘घृणिः’ दीप्यमानः आदित्यः, ‘हि’ प्रसिद्धः, ‘ते’ तव, ‘शं’ सुखं, करोतु । ओषध्यश्च ‘ते’ तव, शं, सुखं प्रति हेतवः, ‘सन्तु’ । ‘दिशः’, सर्वाः, ‘मे’ मम, ‘शग्माः’ सुखप्रापिकाः,* ‘कल्पन्तां’ समर्था भवन्तु ॥
कल्पः । इष्टकाः प्रतिदिशमन्वन्वीक्षमाणां उपदधाति, पृथिव्यास्त्वा
* सुखदायिका इति E चिह्नितपुस्तकपाठः ।
† प्रतिदिशमन्वीक्षमाण इति F चिह्नितपुस्तकपाठः ।
७०० तैत्तिरीये आरण्यक
श॒र्माः^{(१४)}} । ^{(१५)}पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दया॒म्यमुष्य॑ श॒र्माऽसि॒ पितरौ॑ दे॒वतं॑ । प्र॒जाप॑तिस्त्वा॒ सा॑दयतु तया॑ दे॒वत॑या^{(१५)}} ॥ ^{(१६, २०)}अ॒न्तरि॑क्षस्य त्वा दि॒वस्त्वा॑ दि॒शां त्वा॒ नाक॑स्य त्वा पृ॒ष्ठे ब्र॒ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॑ श॒र्मा-
लोके सादयामि इत्येतैः प्रतिमन्त्रं प्रतिदिशं मध्ये पञ्चमोन्तां दक्षिणेन षष्ठीमिति । तत्र प्रथममन्त्रमाह । ^{(१५)}"पृथिव्यास्त्वा लोके ० तया देवतया"^{(१५)} इति । हे इष्टके त्वां 'पृथिव्याः', 'लोके' स्थाने, 'सादयामि' स्थापयामि । 'अमुष्य' प्रेतस्य, 'शर्मासि' सुखहेतुरसि । 'पितरः', तव 'देवताः' स्वामिभूताः, 'प्रजापतिः', देवः, त्वां अत्र 'सादयतु' स्थापयतु । 'तया' प्रजापति'देवतया' स्थापिता सती, ध्रुवा सीद, यथाङ्गिरोभिः स्थापिता, तद्वत् । अत्राङ्गिरस्वद्ध्रुवा सीदेत्येतावदध्याहर्त्तव्यं ॥
अथ द्वितीयादीन् षष्ठ्यन्तान् पञ्चमन्त्रानाह । ^{(१६, २०)}"अन्तरिक्षस्य त्वा दिवस्त्वा ० प्रजापतिस्त्वा सादयतु तया देवतया"^{(१६, २०)} इति । हे द्वितीयेष्टके त्वां 'अन्तरिक्षस्य', लोके सादयामीत्यनुषज्य पूर्ववद्व्याख्येयं । हे तृतीयेष्टके त्वां 'दिवः', लोके सादयामि । हे चतुर्थ्येष्टके त्वां 'दिशां', लोके सादयामि । हे पञ्चमेष्टके त्वां 'नाकस्य पृष्ठे' स्वर्गस्योपरि, साद-
६ प्रपाठके ८ अनुवाकः । ७०१
ऽसि॑ पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या^(१६, २०) ॥ ३ ॥ अन॑पस्फुरन्तीः, उत्त॑र, दे॒वत॑या, दे च॑ ॥ अनु० ७ ॥
अथाष्टमोऽनुवाकः ।
^(१)अपू॑पवान् घृ॒तवाँ॑श्च॒रुरे॒ह सी॑दतू॒त्तम्भुवन् पृ॑थि-
यामि । हे षष्ठेष्टके त्वां ‘ब्रध्नस्य’ आदित्यस्य, ‘विष्टपे’ स्थाने, ‘साद- यामि’ । सर्वत्रानुषङ्गद्योतनाय सादयामीत्यादेः पुनः पाठः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके षष्ठप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
अथाष्टमोऽनुवाकः ।
कल्पः । एवं चरून्, अपूपवानिति, प्रतिमन्त्रमिति । तत्र प्रथममन्त्रमाह । ^(१, ४)“अपूपवान् घृतवाँश्चरुरेह सीदतूत्तम्भुवन्० प्रजापतिस्त्वा सादयतु तया देवतया^(१, ४) । पक्वा भक्ष्याः पिष्टविका- राः अपूपाः, ते यस्य चरोः सन्ति सः अयं ‘अपूपवान्’ । तथा ‘घृतवान्’ प्रभूतघृतयुक्तः, तादृशः ‘चरुः’, ‘इह’ अस्मिन् स्थाने, पूर्वस्यां दिशि ‘आसीदतु’ उपविशतु, । किं कुर्वन्, ‘पृथिवीं’, एतां
७०२ तैत्तिरीये आरण्यके
वीं द्यामु॒तोप॑रि॑ । यो॒नि॒कृतः॑ पथि॒कृतः॑ सप॒र्यत॒ ये दे॒वानां॑ घृत॒भागा इ॒ह स्थ॑ । ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हैंऽसौ । दशा॑क्षरा ताꣳ रक्ष॑स्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑ददामि॒ तस्यां॑ त्वा॒ मा द॑भन् पि॒तरो॑ दे॒वता॑ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या^(१) । (२, ५)
'उत्तभ्नुवन्' ऊर्ध्वं स्तम्भां कुर्वन्, 'उत अपि च, 'द्यां' द्युलोकं, 'उपरि' ऊर्ध्वभागे, उत्तभ्नुवन् । 'देवानां', मध्ये ये देवविशेषा यूयं 'इह' अस्मिन् उपधाने, 'घृतभागाः स्थ' घृतसेविनो भवत । ये यूयं 'योनिकृतः' स्थानकारिणः, 'पथिकृतः' मार्गकारिणश्च, सन्तः 'सपर्यत' परिचरत । 'असौ' देवदत्तादिनामक हे प्रेत, 'ते' तव, 'यमसादने' यमस्य स्थाने, 'गृहे', 'एषा स्वधा' एतच्चरुरूपमन्नं, 'निधीयते' नितरां स्थाप्यते । दशसङ्ख्याकानि अक्षराणि मन्त्रविशे-षरूपेण प्रतिपादकानि यस्याश्चरुरूपायाः स्वधायाः सन्ति, सा इयं 'दशाक्षरा', तादृशी या स्वधा विद्यते, 'तां' स्वधां, हे प्रेत 'रक्षस्व' । 'तां गोपायस्व' । स्वरूपस्योपद्रवाभावः, रक्षणं । भोगदशायामपि उपद्रवाभावः, गोपायेत्यनेनोच्यते । 'तां' तादृशीं स्वधां, 'ते' तुभ्यं, 'परिददामि' । अत्र देवतारूपा ये पितरः ते सर्वे 'तस्यां' स्वधायां, त्वां प्रेतं, 'मा दभन्' हिंसितं मा कुर्वन्तु । प्रजापतिरित्यादि पूर्ववत् ॥
६ प्रपाठके ८ अनुवाकः। ७०३
अपू॒पवा॒ञ्छृतवा॒न् क्षी॒रवा॒न् दधि॑वा॒न् मधु॑माग्ँश्च॒- रु॒रेह सी॑दतूत्त॒म्भुव॑न् पृ॑थि॒वीं द्यामु॒तोप॑रि । योनि॑- कृतः पथि॒कृतः॑ सपर्यत॒ । ये दे॒वानाग्ँ॑ शृतभागाः॑ क्षी॒र- भा॒गा द॑धिभा॒गा मधु॑भागा॒ इ॒ह स्थ॑ । ए॒षा ते॑ यमसा॒दने॑ स्व॒धा नि॒धीय॑ते गृ॒हैः सौ॑ । श॒ताक्ष॑रा स॒हस्रा॑क्षरा॒ऽयुता॑- क्षरा॒ऽच्युता॑क्षरा॒ ताग्ँ र॑क्षस्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑- ददा॒मि तस्यां॑ त्वामाद॑भन् पि॒तरौ॑ । दे॒वता॑ । प्र॒जा- प॑तिस्त्वा॒ साद॑यतु॒ तया॑ दे॒वत॑या^{(१, ४)} ॥ १ ॥ अ॒पू॒पवा॑न॒सौ, दश॑* ॥ अनु० ८ ॥
अथ दक्षिणादिमध्यान्तचतुर्दिक्षु चरूपधानविषयान् मन्त्रा- नाह। (१, ४) "अपूपवान् शृतवान् क्षीरवान् ० सादयतु तया देवतया" (१, ५) इति। अत्र शृतवानित्यादिपदचतुष्टयेन मन्त्रभेदो द्रष्टव्यः। शृतभागा इत्यादीन्यपि चत्वारि पदानि, शताक्षरे- त्यादीन्यपि चत्वारि पदानि, चतुर्ष्वपि मन्त्रेषु विभज्य योजनीयानि। 'शृतं' सम्यक् पक्वं पयः, 'क्षीरं' पयोमात्रं। अन्यत् पूर्ववत्॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके षष्ठप्रपाठके अष्टमोऽनुवाकः॥ ८॥
* अपूपवान् दश इति J चिह्नितपुस्तकपाठः।
4 Q
७०४ तैत्तिरीये आरण्यके
अथ नवमोऽनुवाकः ।
^((१))ए॒तास्ते॑ स्व॒धा अ॒मृता॑: करोमि॒ यास्ते॑ धा॒नाः परि॑किरा॒म्यत्रे॑। तास्ते॑ य॒मः पि॒तृभि॑: संविदा॒नोऽत्र॑ धे॒नूः का॑मदु॒घाः क॑रोतु^((१)) । ^((२))त्वाम॑र्जुनैषधी॒नां पयो॒ ब्रह्म॑ण इ॒द्विदु॑: । तासां॑ त्वा॒ मध्या॒दाद्दे॑* च॒रुभ्यो॒ अपि॑धातवे^((२)) ।
अथ नवमोऽनुवाकः ।
कल्पः । तिलाभिमिश्राभिर्धानाभिस्त्रिः प्रसव्यं परिकिरति, एतास्ते स्वधा अमृताः करोमि इति । पाठस्तु । ^((१))“एतास्ते स्वधा अमृताः ० कामदुघाः करोतु”^((१)) इति । हे प्रेत ‘ते’ त्वदर्थं, ‘अत्र’ अस्यां चितौ, ‘या धानाः’ भृष्टतण्डुलरूपाः, ‘परिकिरामि’ परितो विक्षिपामि । ‘एताः’ धानाः, ‘ते’ त्वदर्थं, ‘अमृताः’ विनाशरहिताः, ‘स्वधाः’ अन्नरूपाः, ‘करोमि’ । ‘यमः’, देव, ‘ते’ त्वदर्थं, ‘पितृभिः’, ‘संविदानः’ ऐकमत्यङ्गतः सन्, ‘ताः’ धानाः, ‘अत्र’ स्थाने, ‘कामदुघाः’ कामप्रापिकाः, ‘धेनूः’ धेनुरूपाः, ‘करोतु’ ॥
कल्पः । ओषधिस्तम्बान् प्रतिदिशमन्वोचमाण उपदधाति, त्वामर्जुनेति, प्रतिमन्त्रमिति । तत्र प्रथमामाह । ^((२))“त्वामर्जुनौषधीनां० चरुभ्यो अपिधातवे”^((२)) इति । तेषु मन्त्रेषु अर्जुनदूर्वाकाण-दर्भशब्दाः तृणविशेषवाचिनः, प्रसिद्धाः । हे ‘अर्जुना’ख्यतृण,
* आददे इति A, B, G, J, I, चिह्नितपुस्तकपञ्चकपाठः ।
६ प्रपाठके ६ अनुवाकः। ७०५
^(२)दूर्वा॑णाँ स्त॒म्बमाह॑रै॒तां प्रि॒यत॑मां॒ मम॑ । इ॒मां दिशं॑ मनु॒ष्या॑णां॒ भूयि॑ष्ठा॒ऽनु विरो॑हतु^(३)। ^(४)काशा॑नाँ स्त॒म्बमाह॑र॒ रक्ष॑सामप॑हत्यै । य ए॒तस्यै॒ दिशः परा॑भवन्नघायव॒ो यथा॒ ते नाभव॒न्पुनः॑^(४)। ^(५)दर्भा॑णाँ स्त॒-
,त्वां,’ ‘ब्रह्माणः’ अभिज्ञा विप्राः, ‘ओषधीनां पय इत्’ सर्वासा- मोषधीनां सारमेव, ‘विदुः’ जानन्ति । ‘तासां’ ओषधीनां,‘मध्यात्’ सकाशात्, त्वां ‘आदधे’ आनीय स्थापयामि । किमर्थं, ‘चरुभ्यः’ ‘अपिधातवे’ चरूणामपिधानार्थं ॥
अथ द्वितीयामाह । ^(३)“दूर्वाणाँ स्तम्बमाहर ० भूयिष्ठाऽनु विरोहतु”^(३) इति। हे प्रेत ‘दूर्वाणां’, सम्बन्धिनं ‘स्तम्बं’, ‘आहर’ स्वीकुरु । ‘एतां’ दूर्वां, ‘मम’ स्वस्य, ‘प्रियतमां’, विद्धीति शेषः । ‘मनुष्याणां’, सम्बन्धिनीं ‘इमां’ दक्षिणां, ‘दिशं’, ‘अनु’, सा दूर्वा ‘भूयिष्ठा’ प्रभूता, ‘विरोहतु’ विविधमङ्कुरमुत्पादयतु ॥
अथ तृतीयामाह । ^(४)“काशानाँ स्तम्बमाहर ० यथा ते नाभवन् पुनः”^(४) इति । हे प्रेत ‘काशा’ख्यानां तृणानां ‘स्तम्बं’, ‘आहर’ स्वीकुरु । किमर्थं, ‘रक्षसामहत्यै’ । ‘एतस्यै’ पश्चिमायाः, ‘दिशः’, ‘अघायवः’ अघं पापमुपद्रवमिच्छन्तः, ‘ये’ वैरिणः, ‘पराभवन्’ पराकर्त्तारः आसन् । ‘ते’ वैरिणः, ‘यथा’, ‘पुनः’, ‘नाभवन्’ न भविष्यन्ति, तथा काशस्तम्बं स्वीकुरु ॥
अथ चतुर्थीमाह । ^(५)“दर्भाणाँ स्तम्बमाहर ० काण्ड-
4 Q 2
७०६ तैत्तिरीये आरण्यके
म्बमाह॑र पितॄणामोष॑धीं प्रि॒यां । अन्व॑स्यै॒ मूलं॑ जीवा॒- दनु॒ काण्ड॒मथो॒ फलं॑^{(५)} ॥ १ ॥ ^{(६, ७)}लो॒कं पृ॑णता॒ अ॑स्य सू॒ददो॑हसः^{(६, ७)}। ^{(८)}शं वा॒तः॑ शग्ं हि॒ते घृणिः॑ शर्मु॑ते सन्वोष॑धयः कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑^{(८)}। ^{(९)}इदमे॒व मेतोऽप॑रामात्ति॒माराम॒ काञ्चन॑
मथो फलं”^{(५)} इति । हे प्रेत दर्भसम्बन्धिनं ‘स्तम्बं’, स्वीकुरु । इमां ‘ओषधीं’, ‘पितॄणां’, ‘प्रियां’, विद्धीति शेषः । ‘अस्यै’ दर्भ- रूपाया ओषध्याः, ‘मूलं’, ‘अनुजीवात्’ अनुक्रमेण जीवतु । तथा ‘काण्डं’, ‘फलं’, च ‘अनु’ क्रमेण, जीवतु, वर्धतामित्यर्थः ॥
कल्पः । लोकं पृणेति लोकम्पृणा उपदधाति, उत्तरया पुरीषेणा- नुविकिरति इति । तयोर्मन्त्रयोः प्रतीके दर्शयति । ^{(६, ७)}“लोकं पृण- ता अस्य सूददोहसः”^{(६, ७)} इति । लोकं पृण च्छिद्रं पृणेत्येको मन्त्रः। ता अस्येति द्वितीयः । एतौ चोभौ अपेत वीत इत्यनुवाके व्याख्यातौ ॥
कल्पः । उदपात्रेण उदुम्बरशाखया वा उक्षति, शं वात इति । पाठस्तु । ^{(८)}“शं वातः शग्ं हि०ते दिशः सर्वाः”^{(८)} इति । अयं मन्त्रः सप्तमानुवाके व्याख्यातः । ते सर्वा इत्येतावानेव विशेषः ॥
कल्पः । उपतिष्ठते, इदमेवेति । पाठस्तु । ^{(९)}“इदमेव मेतोप- रां • मित्रेण वरुणेन च”^{(९)} इति । इदानीं वर्त्तमानं ‘इदमेव’ एकं राष्ट्रं सम्पन्नं, ‘इतः’, ‘अपरां’, ‘कां’, चिदपि ‘आर्त्तिं’, ‘माराम’
६ प्रपाठके ६ अनुवाकः। ७०७
तथा॒ तद॒श्विभ्यां॑ कृ॒तं मि॒त्रेण॒ वरु॑णेन च॒^{(९)}} । ^{(१०)}वरु॑णो वार॑यादि॒दं दे॒वो वन॒स्पति॑: । आ॒त्य निॠ॑त्यै॒ द्वेषा॑च्च॒ वन॒स्पति॑:^{(१०)} । ^{(११)}वि॒धृ॑तिरसि विधा॒रया॒स्मद॒घा द्वेषा॑ꣳसि^{(११)} । ^{(१२)}श॒मि॒ श॒मयस्मद॒घा द्वेषा॑ꣳसि^{(१२)} ।
मा प्राप्नुताम् । 'तत्' अस्मदभीष्टं, 'अश्विभ्यां', देवाभ्यां, 'मित्रेण', 'वरुणेन', 'च', 'तथा कृतं' सम्पादितं ॥
कल्पः । वारुणशाखां पुरस्तान्निदधाति, वरुणो वारयादिति । पाठस्तु । ^{(१०)}“वरुणो वारयादिदं ० द्वेषाच्च वनस्पतिः”^{(१०)} इति । अयं 'वरुणा'ख्यः 'वनस्पतिर्देवः', 'इदं' कष्टं, 'वारयात्' निवारयतु । तथा सः 'वनस्पतिः', 'आर्त्यै' अन्यस्या अपि बाधायाः, 'निर्ऋत्यै' पापदेवतायै, 'द्वेषाच्च', वैरिकृतात्, पालयत्विति शेषः ॥
कल्पः । विधृतिलोष्टमुत्तरतः, विधृतिरसि इति । पाठस्तु । ^{(११)}“विधृतिरसि ० द्वेषाꣳसि”^{(११)} इति । हे लोष्ट त्वं 'विधृतिः' विधारकः, 'असि' । अतः 'अस्मत्तः सकाशात्, 'अघा' पापानि, 'द्वेषांसि' वैराणि च, 'विधारय' वियुज्यान्यत्र स्थापय ॥
कल्पः । शमीशाखां पश्चात्, शमि शमयेति । पाठस्तु । ^{(१२)}“शमि शमय ० द्वेषाꣳसि”^{(१२)} इति । हे 'शमि' एतन्नामकवृक्ष, 'अस्मत्' अस्मत्तः, 'अघा' पापानि, 'द्वेषांसि' वैराणि च, 'शमय' ॥
७०८ तैत्तिरीये आरण्यके
(१३)य॒व य॒वया॒स्मद्द्वेषा॒ꣲसि॑(१३) । (१४)पृथि॒वीं ग॑च्छा॒- न्तरि॑क्षं गच्छ॒ दिवं॑ गच्छ॒ दिशो॑ गच्छ॒ सुव॑र्ग- ञ्च॒ सुव॑र्गञ्च॒ दिशो॑ गच्छ॒ दिवं॑ गच्छान्तरि॑क्षं गच्छ पृ- थि॒वीं ग॑च्छा॒पो वा॑ गच्छ॒ यदि॒. तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः(१४) । (१५, १६)अ॒श्मन्व॑ती रेवती॒र्यद्दे॒ दे॒वस्य॑ सवि॒तुः प॒वित्रं॒ या रा॒ज्ञात्पन्नादुद्वयन्त॒मस॒स्परि॑ धा॒ता पु॑नातु(१५, १६) ॥ २ ॥ अ॒थो फलं॑, धा॒ता पु॑नातु ॥ अनु० ९ ॥
कल्पः । यवं दक्षिणतः, यव यवयेति । पाठस्तु । (१३)“यव यवय ॰ द्वेषाꣲसि”(१३) इति । पूर्ववद्व्याख्येयं ॥
कल्पः । अथैनमुपतिष्ठते, पृथिवीमिति । पाठस्तु । (१४)“पृथिवीं गच्छान्तरिक्षं ॰ प्रतिष्ठा शरीरैः”(१४) इति । आरोहावरोहाभ्यां पृथिव्यादिस्वर्गपर्यन्तप्राप्तिवाक्यानि स्पष्टानि। अपोवेत्यादिस्तु प्रथमानुवाके व्याख्यातः ॥
कल्पः । जघनेन चितिं कर्मादि समानमिति । तन्मन्त्राणां प्रतीकानि दर्शयति । अश्मन्वतीरेवतीः, यद्दे देवस्य सवितुः पवित्रं, या राज्ञात्पन्नात्, उद्वयन्तमसस्परि, धाता पुनाविति। (१५, १६-मन्त्राः ।) एते च मन्त्रास्तृतीयानुवाके व्याख्याताः ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
६ प्रपाठक १० अनुवाकः । ७०६
अथ दशमोऽनुवाकः ।
(१)आरो॑हतायु॒र्जरसं॑ गृणा॒ना अनु॑पू॒र्वं यत॑माना॒ यति॑ष्ट । इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ कर-
तु जी॒वसे॑ वः^{(१)} । ^{(२)}यथाऽहा॑न्यनुपू॒र्वं भव॑न्ति यथ॒र्तव॑
अथ दशमोऽनुवाकः ।
कल्पः । नवम्यां व्युष्टायां यज्ञोपवीतो अन्तरा ग्रामं श्मशान-
ञ्चाग्निमुपसमाधाय सम्परिस्तीर्य अपरेणाग्निं लोहितं चर्म आनडुहं
प्राचीनग्रीवमुत्तरलोमास्तीर्य तद्धेतसमालिनो ज्ञातीनारोहयति,
आरोहत इति । पाठस्तु । $^{(१)}$"आरोहतायुर्जरसङ्गृणानाः ० करतु
जीवसे वः" $^{(१)}$ इति । हे ज्ञातयः यूयं 'जरसं गृणानाः' जराव-
स्थां प्रार्थयमानाः, 'आयुः' आयुषो हेतुभूतं चर्म, 'आरोहत' ।
'अनुपूर्वं' ज्येष्ठमनु कनिष्ठो यथा भवति तथा, 'यतमानाः' प्रयत्नं
कुर्वन्तः, 'यतिष्ट' आरोहणप्रयत्नं कुरुत, 'इह' कर्मणि, 'त्वष्टा'
हविषां पापानां तनूकर्त्ता, अयमग्निः, 'सुजनिमा' शोभ-
नजन्मा, 'सुरत्नः' भक्तेभ्यो देयैः शोभनै रत्नैरुपेतः, 'वः' युष्मभ्यं,
'दीर्घमायुः' करोतु । 'जीवसे' जीवनाय*॥
कल्पः । अथैताननुपूर्वान् प्रकल्पयति, यथाऽहानि इति ।
पाठस्तु । $^{(२)}$"यथाहान्यनुपूर्वं ० आयूंषि कल्पयैषां" $^{(२)}$ इति ।
* 'इह' अस्मिन् कर्मणि, 'वः' युष्माकं, जीवनाय, 'सुजनिमा' शो-
भनजननोपेतः, 'सुरत्नः' शोभनाभरणोपेतः, 'त्वष्टा' प्रजापतिः, 'दीर्घमा-
युः', 'करतु' करोतु, 'जीवसे' जीवनाय । इति F चिह्नितपुस्तकपाठः ।
७१० तैत्तिरीये आरण्यके
ऋ॒तुभि॒र्यन्ति॑ क्लृ॒प्ताः । यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑- त॒रायूग्ं॑षि कल्पयैषां॑(२) । ⁽²⁾न हि॑ ते अग्ने तनु॒वै क्रूरं च॒- कार॒ मर्त्यः॑ । क॒पिर्ब॑भस्ति॒ तेज॑नं॒ पुन॒र्जरा॒युर्गौरि॑व । अप॑ नः शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिं । अप॑ नः शोशु॑च-
'यथा', लोके 'अहानि' दिनानि, 'अनुपूर्वं' 'भवन्ति' प्रतिपद् द्वितीयातृतीया चेत्येवमनुक्रमेणैव वर्त्तन्ते । 'यथा', च वसन्ता'द्यृतवः', 'ऋतुभिः', उत्तरोत्तरैः, 'क्लृप्ताः' सम्बद्धाः, 'यन्ति' गच्छन्ति, वर्त्तन्ते । 'यथा', च 'पूर्वं' पितरं, ज्येष्ठं वा, 'अपरः' पुत्रः, कनिष्ठो वा, 'न जहाति' न परित्यजति । हे 'धातः' प्रजापते, 'एव' एवं, अनेनैव प्रकारेण, 'एषां' ज्ञातीनां, 'आयूंषि', 'कल्पय' सम्पादय ॥
कल्पः । अथ वारुणेन स्रुवेण वारुण्यां सुचि चतुर्गृहीतमाज्यं गृहीत्वा जुहोति । न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति तेजनं पुनर्ज्जरायु गौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिं । अप नः शोशुचदघं मृत्यवे स्वाहेति । (३ मन्त्रः ।) हे 'अग्ने', 'ते' तव, 'तनुवै' शरीरार्थं, 'मर्त्यः' मनुष्यः, 'क्रूरं' उग्रं व्यापारं, 'न हि चकार' । 'कपिः' 'कपित्वच्चेष्टाकारी मनुष्यः, 'पुनः', 'तेजनं' उत्तेजनं यथा भवति तथा, 'बभस्ति' दीपयति । तत्र दृष्टान्तः, 'गौरिव जरायुः' यथा गौः स्वगर्भस्य रक्षार्थं जरायुपटं सम्पादयति, न तु क्रूरं करोति, तद्वत् । 'नः' अस्मदीयं, 'अघं'
६ प्रपाठके १० अनुवाकः। ७११
द॒घं मृ॒त्यवे॒ स्वाहा॑^(३)। ^(४)अ॒न॒ड्वाह॒मन्वा॑रभामहे स्व॒स्तये॑। स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्निः॑ सम्पा॑र॒णो भ॑व^(४)॥१॥ ^(५)इ॒मे जीवा वि मृ॒तैरा॒ववृ॑र्त्तिन्नभू॒द्भद्रा दे॒वहू॑तिर्नो अ॒द्य। प्राञ्चो॑ऽगामा नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्र-
पापं, 'अपशोशुचत्' अपगतं यथा भवति तथा दीप्यतां, दह्यतां । हे 'अग्ने', 'रयिं' धनं, 'शुशुग्धि' अतिशयेन शुद्धं कुरु । पुनरपि 'नः' अस्माकं, पापं अपगतं यथा भवति तथा दह्यतां । तदर्थं 'मृत्यवे', देवाय, स्वाहुतमिदमस्तु ॥
कल्पः । उत्तरेणाग्निं रोहितोऽनड्वान् प्राङ्मुखोऽवस्थितो भवति तं ज्ञातयोऽन्वारभन्ते, अनड्वाहमिति । पाठस्तु । ^(४)"अनड्वाहमन्वारभामहे ० सम्पारणे भव"^(४) इति । 'स्वस्तये' क्षेमाय, एतं 'अनड्वाहं', वयं 'अन्वारभामहे' हस्तेन स्पृशामहे । हे अनड्वन् 'सः' त्वं, 'देवेभ्यः' देवार्थं, 'इन्द्र इव', 'नः' अस्मदर्थं, 'वह्निः' दाहकः,* 'सम्पारणः' सम्यक् पारं प्रति नेता च, 'भव' ॥
कल्पः । प्राञ्चो गच्छन्ति, इमे जीवा इति । पाठस्तु । ^(५)"इमे जीवाः ० प्रतरान्दधानाः"^(५) इति । 'इमे जीवाः' ज्ञातयः, 'मृतैः', वियुज्य 'आववर्त्तिन्' आवृत्ताः । केनाभिप्रायेणेति तदुच्यते, 'अद्य' अस्मिन् दिने, 'नः' अस्माकं, 'भद्रा' कल्याणरूपा, 'देव-
* वाहक इति K चिह्नितपुस्तकपाठः ।
४ R
७१२ तैत्तिरीये आरण्यके
तरां॑ दधा॒नाः॥^(५)।। ^(६)मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैम॒ द्रा-
घीय॒ आयुः॒ प्रत॒रां दधा॑नाः। आप्या॑यमानाः प्र॒जया॒
धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः॥^(६)।। ^(७)इ॒मं जी॒वेभ्यः॒
परि॒धिं द॑धामि॒ मा नो॒ऽनुगा॒दप॑रो॒ अर्द्धमे॒तं। श॒तं
ह्वतिः' देवानामाह्वानक्रिया, 'अभूत्' भवति । 'नृतये'* मनुष्यजय-
निमित्तं, 'हसाय' हास्यार्थं, हर्षार्थमित्यर्थः । 'प्राञ्चः' प्राञ्चः,
प्राङ्मुखाः सन्तः, 'अगाम' वयं गच्छामः । कीदृशा वयं, 'द्राघीय
आयुः' अत्यन्तं दीर्घमायुः, 'प्रतरां' इति, प्रकर्षेण, 'दधानाः'
धारयन्तः ॥
कल्पः । जघन्यः शमीशाखया पदानि लोपयते,† मृत्योः पद-
मिति । पाठस्तु । ^(६)“मृत्योः पदं योपयन्तः ० भवथ यज्ञियासः”^(६)
इति । 'मृत्योः' मृत्युरूपस्य अनडुहः, 'पदं'‡ स्थानं, 'यो लोपयन्तः'
रजसा प्रच्छाद्यमानाः सन्तः, 'यदा', 'एम' गच्छामः, तदा वयं
पूर्ववत् 'द्राघीय आयुः', 'प्रतरां' प्रकर्षेण, 'दधानाः', 'प्रजया ध-
नेन', च 'आप्यायमानाः' वर्द्धमानाः सन्तः, 'यज्ञियासः' यज्ञयोग्याः,
'शुद्धाः' शरीरशुद्धियुक्ताः, 'पूताः' द्रव्यशुद्धियुक्ताः, च 'भवथ' । हे
ज्ञातय इति द्रष्टव्यं ॥
कल्पः । अथ एभ्यः अध्वर्युर्दक्षिणतो अश्मानं परिधिं दधाति,
इमं जीवेभ्यः परिधिं दधामि इति । पाठस्तु । ^(७)“इमं जीवेभ्यः ०
* मृजये मनुष्यजयनिमित्तं इति F चिह्नितपुस्तकपाठः ।
† शमीशाखया अनडुत्पदानि संलोपयन्नेति इति E चिह्नितपुस्तकपाठः ।
‡ भूरूपमिति E चिह्नितपुस्तकपाठः ।
६ प्रपाठके १० अनुवाकः। ७१३
जीव॑न्तु श॒रदः॑ पु॒रूची॒स्तिरो मृ॒त्युं द॑द्महे॒ पर्व॑तेन^{(७)}। ^{(\८)}इ॒मा नारी॑रवि॒धवाः॑ सुपत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सम्मृ॑शन्ताम्। अन॒श्रवो॑ अनमी॒वाः सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑^{(\८)}। ^{(\९)}यद॒ञ्जनं॑ त्रैककु॒दञ्जा॒तःँ हिम-
दद्महे पर्वतेन”^{(७)} इति। ‘इमं’ अश्मानं, ‘जीवेभ्यः’ जीवानाम्अर्थे, ‘परिधिं’ परिधानहेतुं, ‘दधामि’ स्थापयामि। ‘नः’ अस्माकं मध्ये, ‘अपरः’ यः कोऽपि, ‘एतं’ ‘अर्द्धं’ आयुषो भागं, ‘माऽनुगात्’ माऽनुगच्छतु। किन्तु ‘पुरूचीः’ विस्तृतिं गताः, ‘शरदः’ संवत्सरान्, ‘शतं जीवन्तु’। ‘पर्वतेन’ पर्वतसदृशेन पाषाणेन, ‘मृत्युं’, ‘तिरोदद्म- हे’ तिरोभूतं कुर्मः॥
कल्पः। अथैताः पत्नयो नयने सर्पिषा सम्मृशन्ति, इमा नारी- रिति। पाठस्तु। ^{(८)}“इमा नारीः ० योनिमग्रे”^{(८)} इति। ‘इमा नारीः’ एतास्त्रियः, ‘अविधवाः’ वैधव्यरहिताः, ‘सुपत्नीः’ शोभनप- तियुक्ताः सत्यः, ‘आञ्जनेन’ अञ्जनहेतुना, ‘सर्पिषा’, ‘सम्मृशन्तां’ चक्षुषी संस्पृशन्तु। ‘अनश्रवः’ अश्रुरहिताः, ‘अनमीवाः’ रोगरहिताः, ‘सुशेवाः’ सुष्ठु सेवितुं योग्याः, ‘जनयः’ जायाः, ‘अग्रे’ इतः परं, ‘योनिं’ स्वस्थानं, ‘आरोहन्तु’ प्राप्नुवन्तु॥
कल्पः। कुशतरुणकैस्त्रैककुदेनाञ्जनेनाङ्क्ते, यदाञ्जनमिति। पाठस्तु। ^{(९)}‘यदाञ्जनं त्रैककुदं ० अरातोर्जम्भयामसि’^{(९)} इति।
4 R 2
७१४ तैत्तिरीये आरण्यके
व॒तस्परि॑। तेनामृ॑तस्य मूले॒नारा॑तीर्जम्भयामसि^(९)॥
(१०)यथा॒ त्वमु॑द्भिन॒त्स्योष॑धे पृथि॒व्या अधि॑ ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑^(१०)। (११)अ॒जोऽ-
‘हिमवतस्परि’ हिमवत्पर्वतस्योपरि, ‘जातं’ उत्पन्नं, ‘त्रैककुदं’ त्रिककुत्पर्वतसम्बन्धि, ‘यत्’ ‘आञ्जनं’, विद्यते। ‘अमृतस्य मूलेन’ सुखस्य कारणेन, ‘तेन’ अञ्जनेन, ‘अरातीर्जम्भयामसि’ शत्रून्विनाशयामः॥
कल्पः। अथैतानि कुशतरुणकानि समुच्चित्य दर्भस्तम्बे निदधाति, यथा त्वमिति। पाठस्तु। (१०)‘यथा त्वमुद्भिनत्स्योषधे ० यशसा ब्रह्मवर्चसेन’^(१०) इति। हे ‘ओषधे’ दर्भस्तम्ब, ‘पृथिव्याः’, उपरि ‘यथा त्वं’, ‘उद्भिनत्सि’ उत्पद्यसे, ‘एवं’, ‘इमे’ कुशाः, ‘कीर्त्यादिभिः सह ‘उद्भिन्दन्तु’ उत्पद्यन्तां। कीर्त्तियशसोः, लोकद्वयगतत्वेन भेदः॥
कल्पः। अजश्चैतदहः पचते यवौदनञ्च, अजोसीत्यजस्य प्राश्नीयात् इति। पाठस्तु। (११)“अजोसि ० द्वेषाꣳसि”^(११) इति। हे पक्वद्रव्य, त्वं ‘अजोसि’ अजसम्बन्ध्यसि, अतः ‘अस्मत्’, सकाशात्, ‘अघा’ पापानि, ‘द्वेषांसि’ वैराणि च, ‘अज’ ‘अपगमय’॥
कल्पः। यवौदनञ्च च प्राश्नाति, यवोसि इति। पाठस्तु।
६ प्रपाठके ११ अनुवाकः । ७१५
स्य॒जाऽस्म॒द्घा द्वेषाꣳ॑सि^{(११)}। ^{(१२)}यवो॑ऽसि यव॒याऽस्म॒द्घा द्वेषाꣳ॑सि^{(१२)}॥ २ ॥ स॒म्यार॑णे भव, जम्भयामसि॒, ची॒र्णि च॑ ॥ अनु० १० ॥
अथ एकादशोऽनुवाकः ।
^{(१)}अप॑ न॒: शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिं । अप॑ न॒:
^{(१२)}"यवोऽसि ॰ द्वेषाꣳसि^{(१२)} इति । हे ओदन त्वं 'यवोऽसि' यवसम्बन्ध्यसि, अतः 'अस्मत्तः सकाशात्, अघा' पापानि, 'द्वेषांसि' वैराणि च, 'यवय' पृथक् कुरु ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके दशमोऽनुवाकः ॥ १० ॥
अथ एकादशोऽनुवाकः ।
पूर्वानुवाके मृत्यवे स्वाहेति यो होम उक्तः, तदनन्तरमेवैतैर्मन्त्रैर्द्वादश सुवाहुतीर्जुहुयात् । तत्र प्रथमं मन्त्रमाह । ^{(१)}"अप नः शोशुचत् ॰ शोशुचदघं"^{(१)} इति । पूर्वानुवाके व्याख्यातो मन्त्रः ॥
| ७१६ | तैत्तिरीये आरण्यके |
|---|
शोशु॑चद॒घं⁽१⁾ । ⁽२⁾सु॒क्षे॒त्रिया सु॑गा॒तुया व॑सू॒या च॑ यजामहे । अप॑ नः शोशु॑चद॒घं⁽२⁾ । ⁽३⁾प्र यद्भन्दि॑ष्ठ ए॒षां प्रास्माका॑सश्च सू॒रय॑ः । अप॑ नः शोशु॑चद॒घं⁽३⁾ । ⁽४⁾प्र यद॑ग्नेः सह॑स्वतो॒ विश्व॑तो यन्ति सू॒रय॑ः । अप॑ नः शोशु॑चद॒घं⁽४⁾ । ⁽५⁾प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यं । अप॑ नः शोशु॑चद॒घं⁽५⁾ ॥ १ ॥
अथ द्वितीयमाह । ⁽२⁾"सुक्षेत्रिया सुगातुया ॰ शोशुचदघं"⁽२⁾ इति । 'सुक्षेत्रिया' शोभनक्षेत्रयोग्यया, 'सुगातुया' शोभनगतियोग्यया, 'वसूया च' धनप्राप्तिहेतुभूतयापि, अनया आहुत्या 'यजामहे' पूजयामः । अप न इत्यादि पूर्ववत् ॥
अथ तृतीयमाह । ⁽३⁾"प्र यद्भन्दिष्ठ ॰ शोशुचदघं"⁽३⁾ इति । 'यत्' यदा, 'एषां' ज्ञातीनां, 'भन्दिष्ठः' अतिशयेन भद्रः पुरुषार्थः, प्राप्यते, तदानीं 'आस्माकासः' अस्मत्सम्बन्धिनः, 'सूरयश्च' विद्वांसोऽपि, पुत्रपौत्रादयः, प्राप्नुवन्तां ॥
अथ चतुर्थमाह । ⁽४⁾"प्र यदग्नेः ॰ शोशुचदघं"⁽४⁾ इति । यच्छब्दः प्रसिद्धवाची । 'यत्' प्रसिद्धाः, 'सूरयः' विद्वांसः, 'सहस्वतः' बलवतः, 'अग्नेः', सकाशात्, 'प्रयन्ति' प्रकर्षेण प्राप्नुवन्ति ॥
अथ पञ्चममाह । ⁽५⁾"प्र यत्ते अग्ने ॰ शोशुचदघं"⁽५⁾ इति । हे 'अग्ने', वयं 'ते' तव, 'यत्' प्रसिद्धाः, 'सूरयः', 'ते' त्वदीयाः,