भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

६ प्रपाठके १० अनुवाकः। ७११

द॒घं मृ॒त्यवे॒ स्वाहा॑^(३)। ^(४)अ॒न॒ड्वाह॒मन्वा॑रभामहे स्व॒स्तये॑। स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्निः॑ सम्पा॑र॒णो भ॑व^(४)॥१॥ ^(५)इ॒मे जीवा वि मृ॒तैरा॒ववृ॑र्त्तिन्नभू॒द्भद्रा दे॒वहू॑तिर्नो अ॒द्य। प्राञ्चो॑ऽगामा नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्र-


पापं, 'अपशोशुचत्' अपगतं यथा भवति तथा दीप्यतां, दह्यतां । हे 'अग्ने', 'रयिं' धनं, 'शुशुग्धि' अतिशयेन शुद्धं कुरु । पुनरपि 'नः' अस्माकं, पापं अपगतं यथा भवति तथा दह्यतां । तदर्थं 'मृत्यवे', देवाय, स्वाहुतमिदमस्तु ॥

कल्पः । उत्तरेणाग्निं रोहितोऽनड्वान् प्राङ्मुखोऽवस्थितो भवति तं ज्ञातयोऽन्वारभन्ते, अनड्वाहमिति । पाठस्तु । ^(४)"अनड्वाहमन्वारभामहे ० सम्पारणे भव"^(४) इति । 'स्वस्तये' क्षेमाय, एतं 'अनड्वाहं', वयं 'अन्वारभामहे' हस्तेन स्पृशामहे । हे अनड्वन् 'सः' त्वं, 'देवेभ्यः' देवार्थं, 'इन्द्र इव', 'नः' अस्मदर्थं, 'वह्निः' दाहकः,* 'सम्पारणः' सम्यक् पारं प्रति नेता च, 'भव' ॥

कल्पः । प्राञ्चो गच्छन्ति, इमे जीवा इति । पाठस्तु । ^(५)"इमे जीवाः ० प्रतरान्दधानाः"^(५) इति । 'इमे जीवाः' ज्ञातयः, 'मृतैः', वियुज्य 'आववर्त्तिन्' आवृत्ताः । केनाभिप्रायेणेति तदुच्यते, 'अद्य' अस्मिन् दिने, 'नः' अस्माकं, 'भद्रा' कल्याणरूपा, 'देव-


* वाहक इति K चिह्नितपुस्तकपाठः ।

४ R

७१२ तैत्तिरीये आरण्यके

तरां॑ दधा॒नाः॥^(५)।। ^(६)मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैम॒ द्रा-
घीय॒ आयुः॒ प्रत॒रां दधा॑नाः। आप्या॑यमानाः प्र॒जया॒
धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः॥^(६)।। ^(७)इ॒मं जी॒वेभ्यः॒
परि॒धिं द॑धामि॒ मा नो॒ऽनुगा॒दप॑रो॒ अर्द्धमे॒तं। श॒तं

ह्वतिः' देवानामाह्वानक्रिया, 'अभूत्' भवति । 'नृतये'* मनुष्यजय-
निमित्तं, 'हसाय' हास्यार्थं, हर्षार्थमित्यर्थः । 'प्राञ्चः' प्राञ्चः,
प्राङ्मुखाः सन्तः, 'अगाम' वयं गच्छामः । कीदृशा वयं, 'द्राघीय
आयुः' अत्यन्तं दीर्घमायुः, 'प्रतरां' इति, प्रकर्षेण, 'दधानाः'
धारयन्तः ॥

कल्पः । जघन्यः शमीशाखया पदानि लोपयते,† मृत्योः पद-
मिति । पाठस्तु । ^(६)“मृत्योः पदं योपयन्तः ० भवथ यज्ञियासः”^(६)
इति । 'मृत्योः' मृत्युरूपस्य अनडुहः, 'पदं'‡ स्थानं, 'यो लोपयन्तः'
रजसा प्रच्छाद्यमानाः सन्तः, 'यदा', 'एम' गच्छामः, तदा वयं
पूर्ववत् 'द्राघीय आयुः', 'प्रतरां' प्रकर्षेण, 'दधानाः', 'प्रजया ध-
नेन', च 'आप्यायमानाः' वर्द्धमानाः सन्तः, 'यज्ञियासः' यज्ञयोग्याः,
'शुद्धाः' शरीरशुद्धियुक्ताः, 'पूताः' द्रव्यशुद्धियुक्ताः, च 'भवथ' । हे
ज्ञातय इति द्रष्टव्यं ॥

कल्पः । अथ एभ्यः अध्वर्युर्दक्षिणतो अश्मानं परिधिं दधाति,
इमं जीवेभ्यः परिधिं दधामि इति । पाठस्तु । ^(७)“इमं जीवेभ्यः ०


* मृजये मनुष्यजयनिमित्तं इति F चिह्नितपुस्तकपाठः ।
† शमीशाखया अनडुत्पदानि संलोपयन्नेति इति E चिह्नितपुस्तकपाठः ।
‡ भूरूपमिति E चिह्नितपुस्तकपाठः ।

६ प्रपाठके १० अनुवाकः। ७१३

जीव॑न्तु श॒रदः॑ पु॒रूची॒स्तिरो मृ॒त्युं द॑द्महे॒ पर्व॑तेन^{(७)}। ^{(\८)}इ॒मा नारी॑रवि॒धवाः॑ सुपत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सम्मृ॑शन्ताम्। अन॒श्रवो॑ अनमी॒वाः सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑^{(\८)}। ^{(\९)}यद॒ञ्जनं॑ त्रैककु॒दञ्जा॒तःँ हिम-

दद्महे पर्वतेन”^{(७)} इति। ‘इमं’ अश्मानं, ‘जीवेभ्यः’ जीवानाम्‌अर्थे, ‘परिधिं’ परिधानहेतुं, ‘दधामि’ स्थापयामि। ‘नः’ अस्माकं मध्ये, ‘अपरः’ यः कोऽपि, ‘एतं’ ‘अर्द्धं’ आयुषो भागं, ‘माऽनुगात्’ माऽनुगच्छतु। किन्तु ‘पुरूचीः’ विस्तृतिं गताः, ‘शरदः’ संवत्सरान्, ‘शतं जीवन्तु’। ‘पर्वतेन’ पर्वतसदृशेन पाषाणेन, ‘मृत्युं’, ‘तिरोदद्म- हे’ तिरोभूतं कुर्मः॥

कल्पः। अथैताः पत्नयो नयने सर्पिषा सम्मृशन्ति, इमा नारी- रिति। पाठस्तु। ^{(८)}“इमा नारीः ० योनिमग्रे”^{(८)} इति। ‘इमा नारीः’ एतास्त्रियः, ‘अविधवाः’ वैधव्यरहिताः, ‘सुपत्नीः’ शोभनप- तियुक्ताः सत्यः, ‘आञ्जनेन’ अञ्जनहेतुना, ‘सर्पिषा’, ‘सम्मृशन्तां’ चक्षुषी संस्पृशन्तु। ‘अनश्रवः’ अश्रुरहिताः, ‘अनमीवाः’ रोगरहिताः, ‘सुशेवाः’ सुष्ठु सेवितुं योग्याः, ‘जनयः’ जायाः, ‘अग्रे’ इतः परं, ‘योनिं’ स्वस्थानं, ‘आरोहन्तु’ प्राप्नुवन्तु॥

कल्पः। कुशतरुणकैस्त्रैककुदेनाञ्जनेनाङ्क्ते, यदाञ्जनमिति। पाठस्तु। ^{(९)}‘यदाञ्जनं त्रैककुदं ० अरातोर्जम्भयामसि’^{(९)} इति।

4 R 2

७१४ तैत्तिरीये आरण्यके

व॒तस्परि॑। तेनामृ॑तस्य मूले॒नारा॑तीर्जम्भयामसि^(९)॥
(१०)यथा॒ त्वमु॑द्भिन॒त्स्योष॑धे पृथि॒व्या अधि॑ ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑^(१०)। (११)अ॒जोऽ-

‘हिमवतस्परि’ हिमवत्पर्वतस्योपरि, ‘जातं’ उत्पन्नं, ‘त्रैककुदं’ त्रिककुत्पर्वतसम्बन्धि, ‘यत्’ ‘आञ्जनं’, विद्यते। ‘अमृतस्य मूलेन’ सुखस्य कारणेन, ‘तेन’ अञ्जनेन, ‘अरातीर्जम्भयामसि’ शत्रून्विनाशयामः॥

कल्पः। अथैतानि कुशतरुणकानि समुच्चित्य दर्भस्तम्बे निदधाति, यथा त्वमिति। पाठस्तु। (१०)‘यथा त्वमुद्भिनत्स्योषधे ० यशसा ब्रह्मवर्चसेन’^(१०) इति। हे ‘ओषधे’ दर्भस्तम्ब, ‘पृथिव्याः’, उपरि ‘यथा त्वं’, ‘उद्भिनत्सि’ उत्पद्यसे, ‘एवं’, ‘इमे’ कुशाः, ‘कीर्त्यादिभिः सह ‘उद्भिन्दन्तु’ उत्पद्यन्तां। कीर्त्तियशसोः, लोकद्वयगतत्वेन भेदः॥

कल्पः। अजश्चैतदहः पचते यवौदनञ्च, अजोसीत्यजस्य प्राश्नीयात् इति। पाठस्तु। (११)“अजोसि ० द्वेषाꣳसि”^(११) इति। हे पक्वद्रव्य, त्वं ‘अजोसि’ अजसम्बन्ध्यसि, अतः ‘अस्मत्’, सकाशात्, ‘अघा’ पापानि, ‘द्वेषांसि’ वैराणि च, ‘अज’ ‘अपगमय’॥

कल्पः। यवौदनञ्च च प्राश्नाति, यवोसि इति। पाठस्तु।

६ प्रपाठके ११ अनुवाकः । ७१५

स्य॒जाऽस्म॒द्घा द्वेषाꣳ॑सि^{(११)}। ^{(१२)}यवो॑ऽसि यव॒याऽस्म॒द्घा द्वेषाꣳ॑सि^{(१२)}॥ २ ॥ स॒म्यार॑णे भव, जम्भयामसि॒, ची॒र्णि च॑ ॥ अनु० १० ॥


अथ एकादशोऽनुवाकः ।

^{(१)}अप॑ न॒: शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिं । अप॑ न॒:


^{(१२)}"यवोऽसि ॰ द्वेषाꣳसि^{(१२)} इति । हे ओदन त्वं 'यवोऽसि' यवसम्बन्ध्यसि, अतः 'अस्मत्तः सकाशात्, अघा' पापानि, 'द्वेषांसि' वैराणि च, 'यवय' पृथक् कुरु ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके दशमोऽनुवाकः ॥ १० ॥


अथ एकादशोऽनुवाकः ।

पूर्वानुवाके मृत्यवे स्वाहेति यो होम उक्तः, तदनन्तरमेवैतैर्मन्त्रैर्द्वादश सुवाहुतीर्जुहुयात् । तत्र प्रथमं मन्त्रमाह । ^{(१)}"अप नः शोशुचत् ॰ शोशुचदघं"^{(१)} इति । पूर्वानुवाके व्याख्यातो मन्त्रः ॥

७१६तैत्तिरीये आरण्यके

शोशु॑चद॒घं⁽१⁾ । ⁽२⁾सु॒क्षे॒त्रिया सु॑गा॒तुया व॑सू॒या च॑ यजामहे । अप॑ नः शोशु॑चद॒घं⁽२⁾ । ⁽३⁾प्र यद्भन्दि॑ष्ठ ए॒षां प्रास्माका॑सश्च सू॒रय॑ः । अप॑ नः शोशु॑चद॒घं⁽३⁾ । ⁽४⁾प्र यद॑ग्नेः सह॑स्वतो॒ विश्व॑तो यन्ति सू॒रय॑ः । अप॑ नः शोशु॑चद॒घं⁽४⁾ । ⁽५⁾प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यं । अप॑ नः शोशु॑चद॒घं⁽५⁾ ॥ १ ॥


अथ द्वितीयमाह । ⁽२⁾"सुक्षेत्रिया सुगातुया ॰ शोशुचदघं"⁽२⁾ इति । 'सुक्षेत्रिया' शोभनक्षेत्रयोग्यया, 'सुगातुया' शोभनगतियोग्यया, 'वसूया च' धनप्राप्तिहेतुभूतयापि, अनया आहुत्या 'यजामहे' पूजयामः । अप न इत्यादि पूर्ववत् ॥

अथ तृतीयमाह । ⁽३⁾"प्र यद्भन्दिष्ठ ॰ शोशुचदघं"⁽३⁾ इति । 'यत्' यदा, 'एषां' ज्ञातीनां, 'भन्दिष्ठः' अतिशयेन भद्रः पुरुषार्थः, प्राप्यते, तदानीं 'आस्माकासः' अस्मत्सम्बन्धिनः, 'सूरयश्च' विद्वांसोऽपि, पुत्रपौत्रादयः, प्राप्नुवन्तां ॥

अथ चतुर्थमाह । ⁽४⁾"प्र यदग्नेः ॰ शोशुचदघं"⁽४⁾ इति । यच्छब्दः प्रसिद्धवाची । 'यत्' प्रसिद्धाः, 'सूरयः' विद्वांसः, 'सहस्वतः' बलवतः, 'अग्नेः', सकाशात्, 'प्रयन्ति' प्रकर्षेण प्राप्नुवन्ति ॥

अथ पञ्चममाह । ⁽५⁾"प्र यत्ते अग्ने ॰ शोशुचदघं"⁽५⁾ इति । हे 'अग्ने', वयं 'ते' तव, 'यत्' प्रसिद्धाः, 'सूरयः', 'ते' त्वदीयाः,

६ प्रपाठके ११ अनुवाकः। ७१७

(६)त्वꣳ हि वि॑श्वतो॑मुख वि॒श्वतः॑ परि॒भूरसि॑ । अ॒प॒ नः॒ शोशु॑चद॒घं(६) । (७)द्विषो॑ नो वि॒श्वतो॑मुखाऽति॑ ना॒वेव॑ पारय । अ॒प नः॒ शोशु॑चद॒घं(७) । (८)स नः॑ सिन्धु॑मि- व ना॒वयाऽति॑पर्षा स्व॒स्तये॑ । अप॑ नः॒ शोशु॑चद॒घं(८) ।


प्राप्ताः, अतः, 'वयं', अपि, 'ते' त्वदीयाः, 'प्रजायेमहि' 'प्रक- र्षेण भूयास्म* ॥

अथ षष्ठमाह । ^{(६)}“त्वꣳहि विश्वतोमुख ॰ शोशुचदघं”^{(६)} इति । हे 'विश्वतोमुख' सर्वतो ज्वालायुक्त अग्ने, 'त्वं', 'विश्वतः' सर्वत्र, 'परिभूरसि' वैरिणां परिभवसि ॥

अथ सप्तममाह । ^{(७)}“द्विषो नो विश्वतोमुख ॰ शोशुचदघं”^{(७)} इति । हे अग्ने 'नः' अस्माकं, 'द्विषः' द्वेषिणः, 'मुखा' मुखानि, 'वि- श्वतः' सर्वस्माद्देशात्, 'अतिपारय' अतीत्य परतो नय। तत्र दृष्टान्तः। 'नावेव' यथा नावा परतस्तारयन्ति तद्वत् । यद्वा हे 'विश्वतोमुख' अग्ने, 'द्विषः' शत्रून्, 'अतिपारय', इति व्याख्येयं ॥

अथाष्टममाह । ^{(८)}“स नः सिन्धुमिव ॰ शोशुचदघं”^{(८)} इति । हे अग्ने 'सः' त्वं, 'नः' अस्माकं, 'स्वस्तये' क्षेमाय, 'अतिपर्ष' दुः- खजातमतीत्य परतः प्रापय । तत्र दृष्टान्तः, 'नावया सिन्धुमिव' यथा लोके नावा समुद्रन्तारयन्ति तद्वत् ॥


* हे अग्ने ये वयं ते तव सूरय स्तोतृनामैतत् प्रकर्षेण स्तोतारः । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहर्त्तव्यः । ते वयं प्रजायेमहि प्रजां प्राप्नुयाम,तव प्रसादेन तव स्वभूता इति K चिह्नितपुस्तकपाठः ।

७१८ तैत्तिरीये आरण्यके

$^{(९)}$आपः॑ प्रव॒णादि॑व य॒तीर॒पास्मत्स्य॑न्दताम॒घं । अप॑ नः शोशु॑चद॒घं$^{(९)}$। $^{(१०)}$उ॒द॒नादु॑दका॒नीवा॒पास्मत्स्य॑न्दताम॒घं । अप॑ नः शोशु॑चद॒घं$^{(१०)}$॥ $^{(११)}$आन॒न्दाय॑ प्रमो॒दाय॑ पुनरागाँ॒स्वान् गृ॒हान् । अप॑ नः शोशु॑चद॒घं$^{(११)}$। $^{(१२)}$न वै तच् प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः ।


अथ नवममाह। $^{(९)}$“आपः प्रवणादिव ॰ शोशुचदघं”$^{(९)}$ इति। ‘प्रवणात्’ निम्नदेशात् निमित्तभूतात्, ‘यतीः’ गच्छन्त्यः, * ‘आप इव’, ‘अस्मत्तः सकाशात्, ‘अघं’ पापं, ‘अपैत्य’ ‘स्यन्दन्तां’ प्रवाहरूपेण गच्छतु॥

अथ दशममाह। $^{(१०)}$“उदनादुदकानीव ॰ शोशुचदघं”$^{(१०)}$ इति। ‘उदनात्’ उन्नतप्रदेशस्थादनात् सकाशात्, अधः कुल्यया समागतानि ‘उदकानि’, यथा निम्नदेशं प्रति स्यन्दन्ते। तथा अस्मत्तः सकाशात्, ‘अघं’ अपेत्य ‘स्यन्दतां’ ॥

अथैकादशमाह। $^{(११)}$“आनन्दाय ॰ शोशुचदघं”$^{(११)}$ इति। ‘आनन्दाय’ मरणाभावनिमित्तसन्तोषाय, ‘प्रमोदाय’ विषयभोगनिमित्तप्रकृष्टहर्षाय, ‘पुनः’, अपि स्वकीयान् ‘गृहान्’, प्रति ‘आगां’ आगतोऽस्मि ॥

अथ द्वादशमाह। $^{(१२)}$“नवै तत्र प्रमीयते ॰ शोशुचदघं”$^{(१२)}$इति। ‘यत्र’ यस्मिन् देशे, ‘इदं ब्रह्म’ पूर्वोक्तं होममन्त्रजातं,


* निर्गता इति K चिह्नितपुस्तकपाठः ।

६ प्रपाठके १२ अनुवाक । ७१६

यचे॒दं ब्रह्म॑ क्रिय॒तै परि॑धिर्जी॒वना॑य॒ कमप॑ न॒ः
शोशु॑चद॒घं^(१९) ॥ २ ॥
अ॒घं, अ॒घं, च॒त्वारि॑ च ॥ अनु० ११ ॥


अथ द्वादशोऽनुवाकः ।

^(१)अप॑श्याम यु॒वति॒माच॑रन्तीं मृ॒ताय॑ जी॒वां परि॑णी-


'जीवनाय' जीवनार्थं, 'कं' सुखं, यथा भवति तथा, 'परिधिः' परिधानं क्रियते। 'तत्र' देशे, 'गौः', 'अश्वः', वा 'पुरुषः', अन्यो वा 'पशुः', 'न' एव 'प्रमीयते' सर्वथा न म्रियते। अतस्तदर्थं 'नः' अस्मदीयं, 'अघं', 'अपशोशुचत्' अपेत्य दग्धं भवतु ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥

अथ द्वादशोऽनुवाकः ।

राजगव्या हननमुत्सर्गश्चेति द्वौ पक्षौ, तत्र हननपक्षे मन्त्राः पूर्वमेवोक्ताः, अथोत्सर्गपक्षे मन्त्रा उच्यन्ते । कल्पः । यद्युत्सृजन्ति, अपश्याम युवतिमाचरन्तीं, सस्वा नः स्वस्तये इत्येताभिः तिसृभिः प्रसव्यं राजगवीमग्नीन् प्रेतं दारुचितिं च परिणीयेत । तत्र प्रथमामाह । ^{(१)}“अपश्याम युवतिमाचरन्तीं ०

७२० तैत्तिरीये आरण्यके

यमा॑नां॑ । अन्धे॑न॒ या तम॑सा॒ प्रावृ॑ता॒ऽसि॒ प्राची॑म॒वा- ची॑मवयन्नरि॑ष्यै ॥ १) । ⁽२⁾मयै॒तां मा॑ꣳस्तां॑ भ्रियमा॑णा दे॒वी स॒ती पि॑तृलो॒कं यदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ संव्य॑यन्त्यु-


अवाचीमवयन्नरिष्यै"⁽१⁾ इति । 'मृताय' मृतपुरुषार्थं, 'परिणीय- मानां', 'जीवां' जीवन्तीं, 'युवतीं' यौवनवत्पुष्टाङ्गीं, युवतिलेन भावितां वा वृद्धां, 'आचरन्तीं' आगच्छन्तीं, राजगवीं वयं 'अ- पश्याम'। 'या' राजगवी त्वं, 'अन्धेन तमसा' जरातिशयेन* मरणभीत्या वा दृष्टिप्रसारणाभावेन अत्यन्तनिबिडेन तमसा, 'प्रा- वृता', भवसि। 'अरिष्यै' अहिंसार्थं, 'प्राचीं' प्राङ्मुखीं, 'अवाचीं' अवाङ्मुखीं, तां राजगवीं, 'अवयन्' वयं अवैमः, जानीमः ॥

अथ द्वितीयामाह । ⁽२⁾"मयैतां माꣳस्तां ० पयसा वृणीहि"⁽२⁾ इति । 'मया', 'भ्रियमाणा' प्रपोष्यमाणा, राजगवी, 'एतां' रक्षितां त्वां, 'माꣳस्तां' मन्यतां, अहमनेन रक्षिता नतु मरिष्यामि इ- त्येवं निश्चिनोत्वित्यर्थः । हे राजगवि 'यत्' यस्मात्कारणात्, अनेनोपाकरणमात्रेण 'देवी' देवतात्मिका, 'सती', 'पितृलोकं', प्रति 'ऐषि' आगच्छसि । 'विश्ववारा' सर्वैर्वरणीया, प्रार्थनीया, 'नभ- सा' आकाशमार्गेण, 'संव्ययन्ती' द्युलोकं संवृण्वती, हे राजगवि तथाविधा त्वं 'नः' अस्माकं, 'उभौ लोकौ' एतल्लोकपरलोकौ,


* अन्धकारातिशयेनेति K चिह्नितपुस्तकपाठः ।

६ प्रपाठके १२ अनुवाकः। ७२१

भौ नौ लो॒कौ पय॑सा पृणीहि॑^(२) । ^(३)र॒यिष्ठाम॒ग्निं मधु॑म- न्तमु॒र्मिण॑मू॒र्जस्व॑न्तं त्वा॒ पय॑सोपसँसदेम । सँ र॒य्या समु॒ वर्च॑सा सच॑स्वा नः स्व॒स्तये॑^(३) । ^(४)ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्या॑: । तेभ्यो॑ घृ॒तस्य॑ धार-


'पयसा' क्षीरेण, उभा'पृणीहि' आवृत्तौ कुरु, क्षीरपूर्णौ कुरु इत्यर्थः ॥

अथ तृतीयामाह । ^(३)“रयिष्ठामग्निं ० सचस्वा नः स्वस्तये”^(३) इति । हे अग्ने, वयं त्वां 'अग्निं', 'पयसा' पयोमु- ख्यभोग्यद्रव्यनिमित्तं, 'उपसँसदेम' समीपे सम्यक् प्राप्नुयाम । कीदृशमग्निं, 'रयिष्ठां' धने अवस्थितं, धनप्रदमित्यर्थः । 'मधुमन्तं' मधुरद्रव्ययुक्तं, 'ऊर्मिणं' उत्कर्षयुक्तं, 'ऊर्जस्वन्तं' बलवन्तं । हे अग्ने 'स्वस्तये' क्षेमार्थं, 'नः' 'अस्मान्,' 'रय्या' धनेन, 'संसृजख' सम्य- ग्योजय, 'वर्चसा' कान्त्यापि, सँसचस्व ॥

कल्पः । ये जीवा इत्यभिमृश्य, इति। पाठस्तु । ^(४)“ये जीवा ये च ० मधुधारा व्युन्दतो”^(४) इति । 'ये जीवाः' अस्मत्कुले जीवन्तो ये पुरुषाः सन्ति, 'ये च मृताः', सन्ति, 'ये', अपि इदानीं 'जाताः' उत्पन्नाः, 'ये च जन्याः' इतः परं जनयितव्याः, 'तेभ्यो धारयितुं' तान् सर्वान् पोषयितुं, 'घृतस्य', सम्बन्धिनी 'मधुधारा'

482

७२४ तैत्तिरीये आरण्यक

प्र॒व॒णात्, उ॒द॒नात्, आ॒न॒न्दाय॑, न व॒ तच्च॑, चतु॑र्विꣳश- तिः(११) ॥ अप॑श्याम्, ईणी॒हि, द्वाद॑श। द्वाद॑श (१२) ॥ परे॑ यु॒वाꣳसं॑,आया॑तुः ए॒तास्ते॑ स॒प्तवि॑ꣳशतिः (२७) ॥ ॐ तत्सत्। सन्त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑। हरिः ॐ॥

भक्षयतु । 'ओम्' वयमङ्गीकुर्मः । 'उत्सृजत' हे जनाः बद्धामेनां राजगवीं परित्यजत ॥

यो दर्शपूर्णमासादिपितृमेधान्त ईरितः।
कर्मकाण्डः समग्रोयं व्याख्यातो बालबुद्धये ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके षष्ठप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥

समाप्तश्च षष्ठप्रपाठकः ॥

तैत्तिरीयं आरण्यके

सप्तमप्रपाठके प्रथमोऽनुवाकः ॥


हरिः ॐ ।

शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्र-
ह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दि-
ष्यामि । स॒त्यं व॑दिष्यामि ॥ तन्माम॑वतु । तद्व॒क्तार॑म-
वतु । अव॑तु॒ मां । अव॑तु व॒क्तारं॑ । ॐ शा॒न्तिः शा॒न्तिः॒
शा॒न्तिः॑ ॥ १ ॥

सत्यं वदिष्यामि, पञ्च च ॥ अनु० १* ॥


अथ द्वितीयोऽनुवाकः ।

ॐ शीक्षां व्या॑ख्यास्यामः॑ । वर्णः॒ स्वरः॑ । मा॒त्रा
बल॑म् । साम॑ सन्ता॒नः । इत्युक्तः शीक्षाध्या॒यः ॥ १ ॥


* पूर्व्वपठितानुवाकेषु शान्तिमन्त्रा अनुवाकेषु न गणिताः । अत्र तु तद्विपरीतम् ॥

७२६ तैत्तिरीये आरण्यके

शीक्षां, पञ्च॑ ॥ अनु० २ ॥


अथ तृतीयोऽनुवाकः ।

सह॒ नौ॒ यशः॑ । सह॒ नौ ब्र॑ह्मव॒र्चसं॑ । अथातः॒ सꣳहि॑ताया उपनिषदं॑ व्याख्यास्यामः॑ । पञ्चस्वधिक॑रणे॒षु । अधिलोकमधिज्यौतिष*म॑धिविद्यमधिप्र॒जम॑ध्यात्मं । ता महासꣳहिता इत्याच॑क्षते । अथा॑धिलो॒कं । पृथि॒वी पूर्वरू॒पं । द्यौरुत्त॑ररू॒पं । आ॒काशः॑ स॒न्धिः ॥ १ ॥

वा॒युः स॒न्धानं॑ । इत्य॑धिलो॒कं । अथाधिज्यौतिषं॑* । अ॒ग्निः पूर्वरू॒पं । आदित्य उत्त॑ररू॒पं । आपः॑ स॒न्धिः । वैद्यु॒तः स॒न्धानं॑ । इत्य॑धिज्यौतिषं॑* । अथा॑धिवि॒द्यं । आचार्यः पूर्वरू॒पं ॥ २ ॥

अन्तेवास्युत्त॑ररू॒पं । वि॑द्या स॒न्धिः । प्रवच॑नꣳ सन्धानं॑ । इत्य॑धिवि॒द्यं । अथाधिप्र॒जं । माता पूर्वरू॒पं । पि॒तोत्त॑ररू॒पं । प्र॒जा स॒न्धिः । प्र॒जननं॑ꣳ स॒न्धानं॑ । इत्य॑धिप्र॒जं ॥ ३ ॥

अथा॑ध्या॒त्मं । अध॑रा॒ हनुः पूर्वरू॒पं । उत्तरा॒ हनुरुत्त॑ररू॒पं । वाक् स॒न्धिः । जिह्वा॑ स॒न्धानं॑ । इत्य॑ध्या-


* अधिज्यौतिषमिति सर्वत्र B, J, चिह्नितपुस्तकद्वयपाठः।

७ प्रपाठके ४ अनुवाकः । ७२७

न्तं । इतीमा म॑हासँ॒हिताः । य एवमेता महासँ॒- हिता व्याख्याता वे॑द । सन्धीयते प्र॒जया॑ प॒शुभिः॑ । ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण॑ लो॒केन॑ ॥ ४ ॥

सन्धिः, आचार्य्यः पूर्व्वरूपं, इत्यधिप्रजं, लो॒केन, ॥

अनु० ॥ ३ ॥


अथ चतुर्थोऽनुवाकः ।

यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॑भ्योऽध्य॒मृ- तात्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया॑ स्पृणोतु । अ॒मृत॑स्य दे॒व॒ धार॑णो भूयासं । शरी॑रं मे॒ विच॑र्षणं । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णाभ्यां॒ भूरि॒विश्रु॑वं । ब्रह्म॑णः को॒शो॑ऽसि मे॒धयाऽपि॑हितः । श्रुतं मे॑ गोपाय । आ- वह॑न्ती वितन्वा॒ना ॥ १ ॥

कुर्वा॒णाऽचीर॑मा॒त्मनः॑ । वासाँ॑सि॒ मम॒ गाव॑श्च । अन्नपाने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा॑ । आ मा॑ यन्तु ब्रह्मचा॒रिणः॒ स्वाहा॑ । वि मा॑ यन्तु ब्रह्मचा॒रिणः॒ स्वाहा॑ । प्र मा॑ यन्तु ब्रह्म- चा॒रिणः॒ स्वाहा॑ । दम॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा॑ । शम॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा॑ ॥ २ ॥

4 T

७२८ तैत्तिरीये आरण्यके

यशो॒ जने॑ऽसानि॒ स्वाहा॑ । श्रेया॑न् वस्य॑सोऽसानि॒ स्वाहा॑ । तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा॑ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा॑ । तस्मि॑न्स॒हस्र॑शाखे । नि भ॑गा॒ऽहं त्वयि॑ मृजे॒ स्वाहा॑ । यथाऽऽपः॑ प्रव॒ता यन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् । एवं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वतः॒ स्वाहा॑ ॥ प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भा॒हि प्र मा॑ पद्यस्व ॥ ३ ॥

वितन्वाना, शमायन्तु ब्रह्मचारिणः स्वाहा, धातरायन्तु सर्वतः स्वाहा, एकं च ॥ अनु० ४ ॥


अथ पञ्चमोऽनुवाकः ।

भूर्भुवः॒ सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मु ह॒ स्मैतां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आत्मा । अङ्गा॑न्य॒न्या दे॒वताः॑ । भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ॥ १ ॥

मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते । भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः॑ । च॒न्द्रम॑सा

७ प्रपाठके ६ अनुवाकः। ७२६

वाव सर्वाणि॒ ज्योतीꣳ॑षि महीयन्ते। भूरिति॒ वा ऋच॑:। भुव॒ इति॒ सामानि॑। सुव॒रिति॒ यजूं॑षि ॥ २॥

मह॒ इति॒ ब्रह्म॑। ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते। भूरिति॒ वै प्राण॑:। भुव॒ इत्य॑पानः॑। सुव॒रिति॑ व्यानः॑। मह॒ इत्यन्न॑म्। अन्ने॑न॒ वाव सर्वे॑ प्रा॒णा म॑हीयन्ते। ता वा ए॒ताश्चत॑स्रश्चतु॒र्द्धा। चत॑स्रश्चतस्रो॒ व्याहृ॑तयः। ता यो वे॑द॑॥ स वे॑द॒ ब्रह्म॑। सर्वे॑ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥ ३॥

अ॒सौ लो॒कः, यजूं॑षि, वे॒द, दे॒ च॑ ॥ अनु० ५ ॥


अथ षष्ठोऽनुवाकः।

स य ए॒षोऽन्त॑र्हृदय आका॒शः। तस्मि॑न्न॒यं पुरु॑षो मनो॒मय॑:। अ॒मृ॑तो हिर॒ण्मय॑:। अन्त॑रेण ता॒लुके॑। य ए॒ष स्तन॑ इवाव॒लम्ब॑ते। सेन्द्र॑योनिः। यत्रा॒ऽसौ के॒शान्तो॑ वि॒वर्त्त॑ते। व्यपो॒ह्य॑ शीर्षकपा॒ले। भूरित्य॒ग्नौ प्रति॑तिष्ठति। भुव॒ इति॑ वा॒यौ ॥ १॥

सुव॒रित्या॑दि॒त्ये। मह॒ इति॒ ब्रह्म॑णि। आ॒प्नोति॑ स्वारा॑ज्यम्। आ॒प्नोति॒ मन॑स॒स्पति॑म्। वाक्प॑ति॒श्चक्षु॑ष्पतिः। श्रोत्र॑पतिर्विज्ञान॑पतिः। ए॒तत् ततो॑ भवति। आका॒श-

4 T 2

७३० तैत्तिरीये आरण्यके

शरीरं॒ ब्रह्म॑ । स॒त्यं प्रा॒णारामं॒ मन॑ आन॒न्दं । शान्ति॑समृद्धम॒मृतं॑ ॥ इति॑ प्राचीनयो॒ग्योपा॑स्व ॥ २ ॥ वा॒यौ, अ॒मृतं, एक॑ञ्च ॥ अनु० ६ ॥


अथ सप्तमोऽनुवाकः ।

पृ॒थि॒व्य॒न्तरि॑क्षं द्यौर्दिशोऽवान्तरदि॒शः* । अ॒ग्निर्वा॒- युरा॑दि॒त्यश्चन्द्र॑मा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒- स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तं । अथाध्या॒त्मं । प्रा॒णोऽपा॒नो व्या॒न उ॑दा॒नः समा॑नः । चक्षुः॒ श्रोत्रं॒ मनो॒ वाक्त्वक् । चर्म॑ मा॒ꣳ॒सं स्नावास्थि॑ म॒ज्जा । ए॒त- द॑धि॒विधाय॒ ऋषिरवो॑चत् । पाङ्क्तं॒ वा इ॒दꣳ सर्वं॑ ॥ पाङ्क्ते॒नैव पाङ्क्तꣳ॑ स्पृणो॒तोति॑ ॥ १ ॥ सर्व्वं॑, एक॑ञ्च ॥ अनु० ७ ॥


अथ अष्टमोऽनुवाकः ।

ओमिति॒ ब्रह्म॑ । ओमिती॒दꣳ सर्वं॑ । ओमित्ये॒तद॑- नुकृ॒तिर्ह॒ स्म वा अप्योश्रा॑व॒येत्या॑श्रावयन्ति । ओमिति॑ सामा॑नि गायन्ति । ओꣳशोमिति॑ श॒स्त्राणि॑ शꣳस-


* अवान्तरदिश इति B, J, चिह्नितपुस्तकद्वयपाठः ।

७ प्रपाठके ६ अनुवाकः । ५३१

न्ति । ओमित्य॑ध्व॒र्युः प्रति॑ग॒रं प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रम॑नुजानाति । ओ- मिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ . ब्रह्मोपा॑प्नुवानीति॑ । ब्रह्मै॒वोपा॑प्नोति ॥ १ ॥

ओं, दश ॥ अनु० ८ ॥


अथ नवमोऽनुवाकः ।

ऋ॒तञ्च॑ स्वाध्यायप्रव॒चने च॑ । स॒त्यञ्च॑ स्वाध्यायप्र- व॒चने च॑ । तप॑श्च स्वाध्यायप्रव॒चने च॑ । दम॑श्च स्वा- ध्यायप्रव॒चने च॑ । शम॑श्च स्वाध्यायप्रव॒चने च॑ । अग्न- य॑श्च स्वाध्यायप्रव॒चने च॑ । अ॒ग्निहो॒त्रञ्च॑ स्वाध्याय- प्रव॒चने च॑ । अ॒तिथ॑यश्च स्वाध्यायप्रव॒चने च॑ । मा- नु॒षञ्च॑ स्वाध्यायप्रव॑चने च । प्रजा च स्वाध्यायप्रव॑- चने च ॥ प्र॒जन॑श्च स्वाध्यायप्रव॒चने च॑ । प्र॒जाति॑श्च स्वाध्यायप्रव॒चने च॑ । स॒त्यमिति॑ स॒त्यव॑चा राथी॒तरः॑ । तप॒ इति॑ तपो॒ नित्यः॑ पौ॑रुशि॒ष्टिः । स्वाध्यायप्रव॒चने ए॒वेति॑ नाको॑ मौद्ग॒ल्यः । तद्धि तप॑स्तद्धि तपः ॥ १ ॥

प्रजा च स्वाध्यायप्रव॑चने च, षट् च॑ ॥ अनु० ९ ॥

७३२ तैत्तिरीये आरण्यके

अथ दशमोऽनुवाकः ।

अ॒हं वृक्षस्य॒ रेरि॑वा । की॒र्त्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्व-
प॑वि॒त्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑णꣳ सुवर्च॒सम् ।
सु॒मे॒धा अ॒मृतो॒क्षितः॑ । इति त्रिशङ्कोर्वेदानुव॒चन॑म् ॥१॥
अ॒हꣳ, षट् ॥ अनु० १० ॥


अथ एकादशोऽनुवाकः ।

वे॒दमनू॒च्याचा॒र्योऽन्ते॒वासि॑नम॑नु॒शास्ति॑ । स॒त्यं व॑द ।
धर्मं॑ चर । स्वाध्या॑यान्मा प्रम॑दः । आचार्याय प्रियं ध-
नमाहृत्य प्रजातन्तुं मा व्य॒वच्छेत्सीः । सत्यान्न प्रम॑दित॒-
व्य॑म् । धर्मा॑न्न प्रम॑दित॒व्य॑म् । कुश॒लान्न प्रम॑दित॒व्य॑म् ।
भू॒त्यै न प्रम॑दित॒व्य॑म् । स्वाध्यायप्रवचना॒भ्यां न प्रम॑-
दित॒व्य॑म् ॥ १ ॥
दे॒वपि॒तृका॒र्याभ्यां॑ न प्रम॑दित॒व्य॑म् । मातृ॑दे॒वो भ॑व ।
पि॒तृदे॑वो भव । आचा॑र्यदे॒वो भ॑व । अ॑तिथिदे॒वो
भ॑व । यान्य॑नव॒द्यानि॒ कर्मा॑णि । तानि सेवि॑तव्या॒-
नि । नो इत॑राणि । यान्य॒स्माक॑ꣳ सु॒चरि॑तानि ।
तानि त्वयो॒पास्या॑नि ॥ २ ॥