तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.१.४) २१ अथ चतुर्थोऽनुवाकः । तृतीये देवयजनदेशे प्रक्षेप्सव्याः संभारा उक्ताः । अथ चतुर्थे तैः संभारैर्युक्तेष्वायतनेषु वह्न्याधानमभिधीयते । यदुक्तं सूत्रकारेण- “प्राचीनप्रवणं देवयजनमुद्धृत्य तस्मिन्नुदीचीनव ँश ँशरणं करोति तस्याग्रेण मध्यमं व ँ गार्हपत्यायतनं भवति । तस्मात्प्राचीनमष्टासु प्रक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादशसु राजन्यस्य द्वादशसु वैश्यस्य चतुर्वि ँ शत्यामपरिमिते वा यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ” इति । तत्रैकं पक्षं विधत्ते- द्वाद॑शसु॒ विक्र॑मेष्व॒ग्निमाद॑धीत । द्वाद॑श॒ मासा॑: सं॑वत्स॒रः । सं॑वत्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति । विक्रमः प्रक्रमः । स च द्विपदः । तथा चोक्तम्- “प्रक्रमो द्विपदस्त्रिपदो वा” इति । गार्हपत्याद्द्वादशसु विक्रमेषु समाप्तेष्वाहवनीयायतनं कृत्वा तत्राऽग्निमादध्यात् । संख्यासाम्येन मासद्वारा संवत्सरबलादेनमग्निमवरुध्याऽऽधानं कृतवान् । पक्षान्तरं विधत्ते- यद्द्वाद॑शसु॒ विक्र॑मेष्वाद॒धीत॑ । परी॑मित॒मव॑रुन्धीत । चक्षु॑र्निमि॒त आद॑धीत । इ॒यद्द्वाद॑शविक्रा॒मा ३ इति॑ । परि॑मितं चै॒वाप॑रिमितं॒ चार्व॑रुन्द्धे, इति । द्वादशसु विक्रमेष्वाधाने सति देशस्य पादेन परिमितत्वात्फलमपि परिमितमेव भवति । तस्माद्देशो न पादेन परिमातव्यः । किंतु चक्षुषा दृष्ट्वा प्रायेणैतावान्देशो द्वादशविक्रामः संभवतीति निश्चित्य तत्राऽऽद- धीत । एवं सति पादेन परिमितत्वाभावात्परिमितदोषोऽपि न भविष्यति। चक्षुषा परिमितत्वात्तदीयगुणश्च भविष्यति । चाक्षुषनिश्चयद्योतनार्था प्लुतिः । इममेव पक्षं पुनः प्रशंसति- अनृ॑तं॒ वै वा॒चा व॑दति । अनृ॑तं॒ मन॑सा ध्यायति (१) । चक्षु॒र्वे स॒त्यम् । अ॒द्रा॒गित्या॑ह । अदर्श॒मिति॑ । तत्स॒त्यम् । यश्चक्षु॑र्निमिते॒ऽग्निमाध॑त्ते । स॒त्य ए॒वैन॒माध॑त्ते, इति ।
२२ (१.१.४) तैत्तिरीयब्राह्मणम् वाङ्मनसयोरनृतविषयत्वमपि क्वचिद् दृष्टम् । चक्षुस्तु पुरोवर्तिवस्तुनो याथात्म्यमेव पश्यतीति तत्सत्यस्वरूपम् । अत एव लोकेऽपि दूरदेशवृत्तान्तं पुरुषमुखादाकर्ण्य किं त्वमेव दृष्टवानुत श्रुतवानसीत्येवं सत्यत्वनिश्चयाय पृच्छन्ति । विचारार्था प्लुतिः । सोऽप्यहमेव दृष्टवानस्मीति यदा ब्रूते तदा तत्सत्यमिति निश्चिन्वन्ति । तस्माच्चक्षुर्निमित्तस्य सत्यत्वात्सत्यदेशेऽग्निराहितो भवति । यत्तु लोके शुक्तिरजतादिदर्शनं तच्च काचकामलादिदोषकृतमिति न कदाचिदपि चक्षुः सत्यं व्यभिचरति । इदानीं प्रसङ्गादाहिताग्नेः कंचिद्धर्मं दर्शयति- तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं वदेत् । नास्य॑ ब्राह्म॒णोऽना॑श्वान्गृ॒हे व॑सेत् । स॒त्ये ह्य॑स्या॒ग्निराहि॑तः, इति । यस्माच्चक्षुर्निमित्तत्वेनसत्यभूतेदेशेऽ यमग्निराहितस्तस्मादाहिताग्निः सत्यमेव वदेत् । न त्वनृतम् । सत्यानृतयोरेकत्र विरोधात् । गृहस्थस्य गृहे ब्राह्मणस्यानश्नतो यो निवासः सोऽप्यनृतसमानः । तस्मात्तं भोजयेदेव । देशविशेषं विधाय कालविशेषं विधत्ते- आ॒ग्ने॒यी वै रात्रिः॑ (२) आ॒ग्ने॒याः प॒शवः॑ । ऐ॒न्द्रमहः॑ । नक्तं॒ गार्ह॑पत्य॒माद॑धाति । प॒शूने॒वाव॑रुन्द्धे । दिवा॑ऽऽह॑वनी॒यम् । इ॒न्द्रि॒यमे॒वाव॑रुन्द्धे इति । रात्रावग्नेः प्रकाशाधिक्याद्रात्रिराग्नेयी । एतच्चाग्निहोत्रब्राह्मण एवोपपादितम्-“अग्निं वावाऽऽदित्यः सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृशे” इति । अग्नेः पशुप्रदत्वात्पशूनामाग्नेयत्वम् । एतच्चाग्न्युपस्थानब्राह्मणे देवैरभिहितम्“इममेवाग्नि ँ स्तवाम स नः स्तुतः पशून्पुनर्दास्यतीति । तेऽग्निमस्तुवन्स एभ्यः स्तुतो रात्रिया अध्यहरभिपशून्निराजत् ” इति । एवमिन्द्रस्याहः संबन्धो ब्राह्मणान्तराद् द्रष्टव्यः । तस्माद्रात्रौ गार्हपत्याधानेन पशून्प्राप्नोति । अहन्याहवनीयाधानेन्द्रियं प्राप्नोति । अहन्यपि विशेषं विधत्ते- अ॒र्धोदि॑ते॒ सूर्ये॑ आहवनी॒यमाद॑धाति । ए॒तस्मि॒न्वै लो॒के प्र॒जाप॑तिः प्र॒जा असृ॑जत । प्र॒जा ए॒व तद्यज॑मानः सृजते । अथो॑ भू॒तं चैव भवि॑ष्यच्च॒र्वरु॑न्द्धे (३), इति ।
तैत्तिरीयब्राह्मणम् (१.१.४) २३ लोक्यतऽवगम्यत इति व्युत्पत्त्या लोकशब्दः कालपरः । अर्धोदयकाले प्रजानां सृष्टत्वात्तत्राऽऽधानं प्रजाथं भवति । अपि चोदयस्यासंपूर्णत्वाद्वृतमतीतं रात्रिरूपं च भविष्यदागाम्यहश्चेत्युभयं प्राप्तं भवति । अथाऽऽधातव्यानामग्नीनां क्रमं निर्णेतुमाहवनीयस्य प्राथम्यं निराचष्टे- इडा॒ वै मान॒वी य॒ज्ञानूका॒शिन्या॑सीत् । साऽशृ॑णोत् । असु॑रा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आह॑व॒नीय॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑न्वाहार्य॒पच॑नम् । साऽब्र॑वीत् प्रती॒च्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा परा॑भविष्य॒न्तीति॑ (४) । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्रती॒च्य॑स्य॒ श्रीरे॑ति । भ॒द्रोभू॒त्वा परा॑भवति॒, इति॑ । इडा नाम गोरूपा काचिद्देवता । सा च मनुसंबन्धिनी । तत्संबन्धश्च मानवी घृतपदी मैत्रावरुणीतीडोपाव्हानस्य ब्राह्मणे स्पष्टमाम्नातः- “मानवीत्याह मनुह्येतामग्रेऽपश्यत्” इति । सा चेडा यज्ञानूकाशिनी यज्ञतत्त्वप्रकाशनसमर्थाऽऽसीत् । सा कदाचिदसुराणामग्न्याधानवार्तां श्रुत्वा द्रष्टुं गता । दृष्ट्वा मनोः पार्श्वे समागत्यैवमुवाच-“असुराः प्रथमं पूर्वदिगवस्थितमाहवनीयमाधाय ततः पश्चिमदिगवस्थितं गार्हपत्यमाधाय दक्षिणदिगवस्थितमन्वाहार्यपचनं चाऽऽहितवन्तः । तथा चाऽऽधानस्कृतेन कंचित्कालं धनिका भूत्वा पश्चाद्विनाशं प्राप्स्यन्ति । एतेषां पश्चिमभिमुखत्वे प्रवृत्तत्वादेषां श्रीरपि प्रतीची प्रतिकूलगमना सती तेभ्योऽसुरेभ्यो निवर्तिष्यते' इति । अतोऽसुरवदिदानींतनस्या- ऽऽहिताग्नेरप्यन्तं पराभवो भवति । अथान्वाहार्यपचनस्य प्राथम्यं निराचष्टे-. साऽशृ॑णोत् । दे॒वा अ॒ग्निमार्द॑धत॒ इति॑ । तद॑गच्छत् । तैऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑ऽऽहव॒नीय॑म् । साऽब्र॑वीत् (५) । प्राच्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गं लो॒कमै॑ष्यन्ति । प्र॒जां तु न वैत्स्य॒न्त इति॑ । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्राच्य॑स्य॒ श्रीरे॑त्ति । भ॒द्रो
२४ (१.१.४) तैत्तिरीयब्राह्मणम् भू॒त्वा सु॑व॒र्गं लो॒कमै॑ति । प्र॒जां तु न वि॑न्दते , इति । पूर्ववद्व्याख्येयम् । अत्र गार्हपत्यादूर्ध्वं प्राङ्मुखप्रवृत्तेर्देवानां श्रीरपि प्राची प्रवृत्ता । प्रकृष्टं पूर्वदिगवस्थितं स्वर्गमञ्चति गच्छतीति प्राची । तस्माद्देवानां स्वर्गप्राप्तिर्भविष्यति, किंतु प्रजाहेतोर्गार्हपत्यस्य पूर्वमाधानाभावात्प्रजां न लप्स्यन्ते । एवं तादृगाधानकर्तरि यजमानेऽपि द्रष्टव्यम् । अथ गार्हपत्यस्य प्राथम्यं विधत्ते- साऽब्र॑वीदि॒डा मनु॑म् । तथा॒ वा अ॒हं त्वा॒ग्निमधा॑स्यामि । यथा॒ प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे॑ (६) । प्रत्य॒स्मिँल्लो॒के स्था॒स्यासि॑ । अ॒भि सु॑व॒र्गं लो॒कं जे॑ष्यसीति॑ । गार्ह॑पत्य॒मग्र॑ आद॑धात् । गार्ह॑पत्यं॒ वा अनु॑ प्र॒जाः प॒शवः॒ प्रजा॑यन्ते । गार्ह॑पत्येनै॒वास्मै॑ प्र॒जां प॒शून्प्रार्ज॑नयत् । अथा॑न्वाहार्य॒पच॑नम् । ति॒र्यङ्ङि॑व॒ वा अ॒यं लो॒कः । अ॒स्मिन्ने॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् । अथा॑ऽऽहव॒नीय॑म् । तेनै॒व सु॑व॒र्गं लो॒कम॒भ्यज॑यत् (७) । यस्यै॒वम॒ग्निरा॑धी॒यतै॑ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जायते । प्रत्य॒स्मिँल्लो॒के ति॑ष्ठति । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति, इति । गार्हपत्यस्य प्रजापशुस्वामित्वात्तस्य प्रथमाधानेन तत्प्राप्तिः। गार्हपत्यस्य दक्षिणभागे स्थितो योऽ यमन्वाहार्यपचनस्तस्य तिर्यक्त्वेन वर्तमानस्योर्ध्वगमनाभावेन मनुष्यलोकसदृशत्वात्तदाधानेन मनुष्यलोके प्रतिष्ठा। तत ऊर्ध्वमाहवनीयाधानाय प्राङ्मुखप्रवृत्तेः स्वर्गस्य च प्राग्वर्तित्वात्तत्प्राप्तिः । अथाधिकारिभेदेनाऽऽधानमन्त्रविशेषान्विधत्ते- यस्य॑ वा अय॑थादेवत॒मग्निरा॑धी॒यते॑ । आ दे॒वता॑भ्यो वृ॒श्च्यते॑ । पापी॑यान्भवति । यस्य॑ यथादे॒वत॑म् । न दे॒वता॑भ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति । भृगू॒णां त्वाऽङ्गिर॑सां व्रतपते व्र॒तेनाऽऽद॑धामीति॑
तैत्तिरीयब्राह्मणम् (१.१.४) २५ भृ॒ग्वङ्गि॑रसा॒माद॑ध्यात् । आ॒दि॒त्यानां॑ त्वा दे॒वानां॑ व्रतपते व्र॒तेनाऽऽद॑धामी॒ त्यन्यासां॑ ब्राह्म॑णीनां॑ प्र॒जाना॑म् । वरु॑णस्य त्वा॒ राज्ञो॑ व्र॒तप॑ते व्र॒तेनाऽऽद॑धामी॒ति राज्ञः॑ । इन्द्र॑स्य त्वे॒न्द्रिये॑ण व्रतपते व्र॒तेनाऽऽद॑धामीति॑ रा॒जन्य॑स्य । मनौ॑स्त्वा ग्राम॒ण्यो॑ व्रतपते व्र॒तेनाऽऽद॑धामी॒ति वैश्य॑स्य । ऋ॒भूणां॑ त्वा॑ दे॒वानां॑ व्रतपते व्र॒तेनाऽऽद॑धामीति॑ र॒थ॒का॒रस्य॑ । य॒थादे॒व॒तम॒ग्निनाधी॑यते । न दे॒वता॑भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति (८), इति । ध्यायति रात्रिञ्चावरुन्द्धे भविष्यन्तीत्य॑ब्र॒वाञ्ज॒निष्य॒सें- ऽज्जय॒द्वसी॑यान्भवति नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ यस्य पुरुषस्य याऽभिमानिनी देवता तामनतिक्रम्याऽऽधानं तस्य पुरुषस्य यथादैवतमित्युच्यते । तदतिक्रमे सति देवताद्रोहो दारिद्र्यं च भवति । अनतिक्रमे तु देवताप्रसादो धनसंपत्तिश्च भवति । ये मनुष्या भृगुगोत्रोत्पन्ना ये चाङ्गिरोगोत्रोत्पन्नास्तेषामुभयेषां तत्प्रतिपादकं भृगू णामिति मन्त्रेणाऽऽधानम् । हे व्रतपते कर्मस्वामिन्नग्ने (ग्न) भृगूणामङ्गिरसां च संबन्धिना व्रतेन कर्मविशेषेण निमित्तभूतेन त्वामाधामीहाऽऽयतने स्थापयामीति मन्त्रार्थः । एवमुत्तरत्रापि योज्यम् । गोत्रान्तरगतानां ब्राह्मणानामादित्या एव देवताः । अभिषिक्तस्य राज्ञो वरुणो देवता । इतरस्य क्षत्रियस्येन्द्रो देवता । इन्द्रियेण व्रतेनेन्द्रियाभिवृद्धिहेतुना कर्मणेत्यर्थः । वैश्यस्य ग्रामनिर्वाहको मनुर्देवता । रथकारोऽनुलोमजः संकीर्णजातिः । तस्य ऋभवो देवता । एतैर्मन्त्रैर्यथादेवतमाधानं संपद्यते । अत्र मीमांसा । षष्ठाध्यायस्य प्रथमपादे चिन्तितम् - विप्रादिरेव रथकृदन्यो वाऽऽद्योऽस्तु योगतः । रूढवर्णान्तरं तस्याऽऽधाने वर्षर्तुरुच्यते ॥ (इति) । आधाने श्रूयते- “वर्षासु रथकार आदधीत” इति । तत्र रथं करोतीति व्युत्पत्या त्रैवर्णिको रथकार इति चेत् । मैवम् । संकीर्णजातिविशेषे रूढत्वात् । वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः । शूद्रायां वैश्यादुत्पन्ना
२६ (१.१.५) तैत्तिरीयब्राह्मणं करिणी तस्यां करिण्यां माहिष्यादुत्पन्नो रथकारः । तथा च याज्ञवल्क्यः- माहिष्येण करिण्यां तु रथकारः प्रजायते । इति । तस्य च रथकारस्याऽऽधानकालो वर्षर्तुः ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।। अथ पञ्चमोऽनुवाकः चतुर्थे त्रयाणामाहवनीयादीनामाधानमुक्तम् । पञ्चमे तत्रैव कंचिद्विशेषं पवमानहवींषि चाभिदधाति । तत्राऽऽदौ व्याहृतिमन्त्रान्विधत्ते- प्र॒जाप॑तिर्वा॒चः स॒त्यम॑पश्यत् । तेना॒ग्निमार्ध॑त् । तेन॒ वै स आर्ध्नो॑त् । भूर्भुव॒: सुव॒रित्या॑ह । ए॒तद्वै वा॒चः स॒त्यम् । य ए॒तेना॒ग्निमा॒धत्ते॑ । ऋ॒ध्नोत्ये॒व । अथो॑ स॒त्यप्रा॑शूरे॒व भ॑वति । अथो॒ य ए॒वं वि॒द्वान॒भिचर॑ति । स्तृ॒णुत ए॒वैन॑म् (१), इति । वाचः संबन्धि यत्सत्यमवश्यंभाविफलसाधनं मन्त्ररूपं तच्छास्त्रमुखेन (ण) दृष्ट्वा प्रजापतिस्तेनाग्निमाधाय समृद्धोऽभूत् । किं तत्सत्यमिति पृच्छद्द्यः शिष्येभ्यो भूर्भुवः सुवरिति मन्त्रस्वरूपं प्राह । एतस्य वाक्संबन्धिसत्यत्वादेतेनाग्निमादधानः समृद्धो भवति । अपि चासौ सत्याप्राशूर्भवत्येव । प्रकर्षेणाश्यते व्याप्यतेऽभिमतमनेनेति प्राशूः पराक्रमः। सत्यः कदाचिदप्यविसंवादी प्राशूः । अपि चैवं व्याहृतिमहिमानं विद्वान् शत्रुं मारयितुमभिचरन्नेनं हिनस्त्येव । सामर्थ्यप्रदर्शनेन व्याहृतित्रयं प्रशंसति-- भूरित्या॑ह । प्र॒जा ए॒व तद्यज॑मानः सृजते । भुव॒ इत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठत । सुव॒रित्या॑ह । सु॒व॒र्ग ए॒व लो॒के प्रति॑तिष्ठति, इति । योऽयं भूरिति मन्त्रमुच्चारयत्यसौ तन्मन्त्रसामर्थ्येन प्रजाः पुत्रपौत्रादिका उत्पादयति । एवमुत्तरयोरपि योज्यम् ।
तैत्तिरीयब्राह्मणम् (१.१.५) २७ सामान्येन विहितं व्याहृतित्रयं पुनर्विशेषाकारेण विधत्ते - त्रि॒भि॒र॒क्षरै॒र्गा॑ह॑'पत्य॒माद॑धाति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॒वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । सर्वैः॑ प॒ञ्चभि॑राहव॒नीय॑म् (२) । सु॒वर्गा॑य॒ वा ए॒ष लो॒काया॒ऽधीय॑ते । यदा॑हव॒नीयः॑ सु॒वर्ग॑ ए॒वास्मै॑ लो॒के, वाचः॑ स॒त्य ँस॑र्ठमा॒प्नोति॑, इति । भूर्भुव इत्येतानि त्रीण्यक्षराणि तैराधीयमानस्त्रित्वसाम्याल्लोकत्रये प्रतिष्ठितोऽग्निराहितो भवति । भूर्भुवः सुवरिति पञ्चाक्षराणि तैराधीयमानस्याऽऽहवनीयस्य स्वर्गाश्रयत्वात्स्वर्गे वाक्संबन्धि कृत्स्नं सत्यमस्मै प्राप्नोति । अथ त्रयं पञ्चकं च मिलित्वा प्रशंसति- त्रि॒भिर्गा॑र्हपत्य॒माद॑धाति । प॒ञ्चभि॑राहव॒नीय॑म् । अ॒ष्टौ संप॑द्यन्ते । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः॑ । यावा॑ने॒वाग्निः॑ । तमाध॑त्ते (३), इति । अग्नेर्मुखजत्वेन गायत्रीसंबन्धित्वम् । यदुक्तं सूत्रकारेण-“गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति । सिकताश्चोपयमनीरुपकल्पयंते तमुद्यच्छति” इति । तदेतद्विधत्ते- प्र॒जाप॑तिः प्र॒जा असृ॑जत । ता अ॑स्मात्सृ॒ष्टाः परा॑चीरायन् । ताभ्यो॒ ज्योति॒रुद॑गृह्णात् । तं ज्योतिः॒ पश्य॑न्तीः प्र॒जा अ॒भिस॒माव॑र्तन्त । उ॒परी॑वा॒ग्निमुद॑गृ॒हीया॒दुद्धर॑न् । ज्योति॑रेव॒ पश्य॑न्तीः प्र॒जा यज॑मानम॒भिस॒माव॑र्तन्ते, इति । प्रजापतिना सृष्टाः प्रजाः पराच्यः पुनरावृत्तिरहिता यदा गतास्तदा प्रजापतिस्ताभ्यो ज्योतिरुदगृह्णात् । अन्धकारे पलायमानानां प्रजानां दर्शनार्थं कंचिद्दीपमूर्ध्वं धृतवान् । ताश्च प्रजा ज्योतिर्दृष्ट्वा तं प्रजापतिमभिलक्ष्य समावृत्ताः । अतो गार्हपत्यादाहवनीयं प्रत्यग्निमुद्धरन्नूर्ध्वमेव गृह्णीयान्नतत्त्वधो धारयेत् । तेन सर्वाः प्रजा ज्योतिः पश्यन्त्यो यजमानं प्रत्यावर्तन्ते । यदुक्तं सूत्रकारेण-“प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति” इति । तदेतद्विधत्ते-
२८ (१.१.५) तैत्तिरीयब्राह्मणम् प्र॒जाप॑तेर॒क्ष्य॑श्वयत् । तत्परा॑पतत् । तदश्वो॑ऽभवत् । तदश्व॑स्याश्व॒त्वम् (४) । ए॒ष वै प्र॒जाप॑तिः । यद॒ग्निः । प्रा॒जा॒प॒त्योऽश्वः॑ । यदश्वं॑ पुर॒स्तान्नय॑ति । स्वमे॒व चक्षु॑- र्पश्य॑न्प्र॒जाप॑तिर॒नूदै॑ति, इति । पुरा कदाचित्प्रजापतेरक्षिगोलकं केनापि व्याधिनोच्छूनं भूत्वा भूमौ पतितं सदश्वरूपेणोद्भूत् । अश्वयदश्वमिति व्युत्पत्या तस्याश्वनाम संपन्नम् । अग्निश्च प्रजापतिसृष्टत्वात्प्रजापतिरेव । अश्वश्चोक्तरीत्या प्राजापत्यः । तस्मादाहवनीयं प्रति गच्छन्नश्व पुरस्तान्नयेत् । तथा सति स्वकीयमेव चक्षुः पश्यन्प्रजापतिरूपोऽग्निरनुगच्छति । एतदेवाश्वस्य पुरोगमनं पुनः प्रशंसति- व॒ज्री वा ए॒षः । यदश्वः॑ । यदश्वं॑ पु॒रस्तान्नय॑ति । जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते, इति । वज्रिवद्युद्धेशत्रुविनाशहेतुत्वादश्वो वज्री । स च पुरस्तान्नीयमानो यजमानस्य पूर्वमुत्पन्नान्भ्रातृव्यान्विनाशयति । वज्रसमानदन्तो- पेतत्वाद्वाऽस्य वज्रित्वम् । एतदेवाभिप्रेत्याग्निब्राह्मणे समाम्नातम्-“वज्री वा एष यदश्वो दद्भिरन्यतो दद्ध्यो भूयान्” इति । आहवनीयपर्यन्तं नीतस्याश्वस्य तेनैव पथा पुनरावृत्तिं विधत्ते- पु॒न॒रा॒वर्त॑यति (५) । ज॒नि॒ष्यमा॑णानेव प्रति॑नुदते, इति । आहवनीयात्पुनरावृत्या भविष्यतः शत्रून्प्रतिबध्नाति । यदुक्तं सूत्रकारेण-“पूर्ववाडश्वो भवति ” इति । तदिदं विधत्ते- न्या॑ह॒वनी॑यो॒ गार्ह॑पत्यमकामयत । नि गार्ह॑पत्य आह॑व॒नीय॑म् । तौ वि॒भाजं॒ नाश॑क्नोत् । सोऽश्व॑: पूर्व॒वाड् भू॒त्वा । प्राञ्चं॑ पूर्व॒मुद॑वहत् । तत्पूर्व॒वाह॑: पूर्व॒वाट् त्वम् । यदश्वं॑ पुर॒स्तान्नय॑ति । वि॒भक्ति॑रे॒वैन॑योः॒ सा । अथो॒ नाना॑वीर्या॒वे॒वैनौ॑ कुरुते (६), इति । पुरा कदाचिदाहवनीयो गार्हपत्य नितरामकामयत । गार्हपत्यधर्मं धृतवानित्यर्थः । गार्हपत्यश्च नितरामाहवनीयधर्मं धृतवान् ।
तैत्तिरीयब्राह्मणम् (१.१.५) २९ ततस्तावूभावग्नी संकीर्णधर्मतया प्रजापतिर्विभाजं विभक्तुं नाशक्नोत् । ततस्तद्विभागाय स्वयं पूर्ववाडश्वो भूत्वा धर्मसांकर्यं परिहृत्य प्राञ्चं प्राग्देशनिवासयोग्यमाहवनीयं पूर्वमुद्वहत् । पूर्वदेशं प्रत्युद्धृत्य नीतवान् । पूर्ववाडित्यश्वविशेषः । सेनामध्य इतरेभ्योऽश्वेभ्यः । पूर्वं वहतीति वा पूर्वस्मिन्वयस्यत्यन्तबाल्य एव वहतीति वा पूर्ववाट् । अतस्तादृशमश्वमत्र पुरस्तान्नयेत् । तस्य च विभागक्षमत्वादेनयोरग्न्योः सैव विभक्तिर्विभागः संपद्यते । पूर्वदेशेऽवस्थित आहवनीयः पश्चिमदेशेऽवस्थितो गार्हपत्य इति विभागः । अपि च य धर्मसांकर्यपरिहारादेनावूभावग्नी भिन्नवीर्यावेव करोति । पत्नीसंयाजहोमाधारत्वलक्षणं वीर्यं गार्हपत्यस्यैव । आग्नेयादि- हविराधारत्वलक्षणमाहवनीयस्यैव । यदुक्तं सूत्रकारेण-“न कर्णदघ्नमत्युद्गृह्णाति” इति । तदिदं विधत्ते- यदु॑र्पर्युप॒रि शिरो॒ हरे॑त् । प्रा॒णान्वि॑च्छिन्द्यात् अधो॒ऽधः शिरो॑ हरति । प्रा॒णानां॑ गोपी॑थाय, इति । हस्तेनोद्धृत्याऽऽहवनीयं प्रति नीयमानमग्निं शिर उपर्युपरि शिरःसमीपवर्तिन्यूर्ध्वभागे धृत्वा यदि हरेत्तदा प्राणा विच्छिद्येरन् । अतः प्राणरक्षणाय शिरसः समीपवर्तिन्यधः प्रदेशे धृत्वा नयेत् । यदुक्तं सूत्रकारेण-“जानुदघ्न धारयमाणस्तृतीयमध्वनोऽग्नि ँ हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम्” इति । तदेतदङ्गुल्याऽभिनयन्विधत्ते- इ॒यत्यग्रे॑ हरति । अथे॒यत्यथेय॑ति । त्रय इ॒मे लो॒काः । ए॒ष्वेवैनं॑ लो॒केषु॒ प्रति॑ष्ठितमाधत्ते, इति । इयति जानुदघ्ने । एवं नाभिदघ्नास्यदघ्नयोरपि । एतस्मादग्निप्रणयनात्पूर्वमग्नेर्विभागं विधत्ते- प्र॒जाप॑तिर॒ग्निम॑सृजत । 'सोऽबि॑भेत्प्र मां ध॑क्ष्य॒तीति॑ (७) । तस्य॑ त्रे॒धा म॑हि॒मानं॒ व्यौ॑हत् । शान्त्यै॒ अप्र॑दाहाय । यत्रे॒धाऽग्निराधी॒यते॑ । म॒हि॒मान॑मेवास्य॒ तद्व्यू॑हति । शान्त्यै॒ अप्र॑दाहाय, इति ।
३० (१.१.५) तैत्तिरीयब्राह्मणम् अग्निं सृष्ट्वा तदीयदाहाद्बिभ्यत्प्रजापतिस्तदीयसामर्थ्यं त्रेधा व्यभजत् । सोऽयं विभागो ज्वालायाः शान्त्यै स्वविषये दाहाभावाय च संपन्नः । एवमत्राऽऽधित्सुरपि गार्हपत्यादग्नेरेकं भागमाहवनीयार्थमपरं भागं दक्षिणाग्न्यर्थं च विभज्य शान्त्यर्थमपदाहार्यं च त्रेधा कुर्यात् । तत्राऽऽहवनीयार्थस्याग्नेराहवनीयायतनं प्रति नयनं विधत्ते- पुन॒राव॑र्तयति । म॒हिमान॑मे॒वास्य॒ संद॑धाति, इति । विभागेन योऽग्नेर्महिमा शान्तस्तं महिमानं पुनः संधातुं विभक्तमग्निमाहवनीयायतने स्थापयेत् । तत्र स्थापने कंचिद्विशेषं विधत्ते- प॒शुर्वा ए॒षः। यदश्व॑ः । ए॒ष रु॒द्रः (८) । यद॒ग्निः । यदश्व॑स्य प॒दैऽग्निमा॒दध्या॑त् रु॒द्राय॑ प॒शूनपि॑दध्यात् । अ॒प॒शुर्यज॑मानः स्यात् । यन्नाऽऽक्र॒मये॑त् । अन॑वरुद्धा अस्य प॒शव॑: स्युः । पा॒र्श्वत॒ आक्र॑मयेत् । यथाऽऽहि॑तस्या॒ग्नेर॒ङ्गारा॑ अ॒भ्यव॒वर्तेर॑न् । अवरु॑द्धा अस्य प॒शवो॑ भवन्ति । न रु॒द्रायापि॑दधाति (९), इति । अत्रेदं चिन्त्यते । पुरस्तादानीतमश्वं किमाहवनीयायतनमाक्रमयेन्न वेति । उभयमप्येतदनुपपन्नम् । अश्वस्य पशुत्वात् । अग्नेः क्रूरदेवतावत्वाच्च । अश्वपदलाञ्छिते प्रदेशेऽग्निस्थापने सति क्रूरदेवाय पशून्समर्पयेत् । ततो यजमानः पशुरहितः स्यात् । अनाक्रमणे तु यजमानस्य पशवो न संभवेयुः । अत उभयदोषपरिहारार्थमायतनस्य कस्मिंश्चित्पार्श्वे तमश्वमाक्रमयेत् । स्वायतने स्थापितस्य प्रज्वाल्यमानस्याग्नेरङ्गारा येन प्रकारेण तदश्वपदमभिलक्ष्य स्वत एव प्रवृत्ता भवन्ति तथा समीपवर्तिप्रदेशमाक्रमयेत् । एवं सत्यङ्गाराणामश्वपदे प्रविष्टत्वात्पशवोऽपि लभ्यन्ते । स्वयं बुद्धिपूर्वकमश्वपदेऽग्नेरप्रतिष्ठापनादुग्रदेवाय पशवोऽपि न समर्पिता भवन्ति । इत्थमाधानगतो विशेषो निरूपितः । अथ पवमानहवींषि विधत्ते- त्रीणि॑ ह॒वी * षि॒ निर्व॑पति । वि॒राज॑ ए॒व वि॒क्रांतं॒ यज॑मा॒नोऽनु॒विक्र॑मते, इति ।
तैत्तिरीयब्राह्मणम् (१.१.५) ३१ विशेषेण राजत इति विराडग्निरस्तस्य विक्रान्तं सामर्थ्यमनु यजमानोऽपि विक्रमते समर्थो भवति । सामान्येन विहितानां हविषां देवताविशेषान्विधत्ते- अ॒ग्नये॑ प॒वमा॑नाय । अ॒ग्नये॑ पाव॒काय॑ । अ॒ग्नये॒ शुच॑ये । यद॒ग्नये॑ प॒वमा॑नाय॒ निर्व॑पति । पु॒नात्ये॒वैन॑म् । यद॒ग्नये॑ पाव॒काय॑ । पू॒त ए॒वास्मि॒न्नन्नाद्यं॑ दधाति । यद॒ग्नये॑ शुच॑ये । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति (१०), इति । ए॒न॒मा॒ह॒व॒नी॒यं ध॑त्ते॒ऽश्व॒त्वं व॑र्तयति कुरुत॒ इति॑ रु॒द्रो द॑धाति॒ यद॒ग्नये॒ शुच॑य॒ एकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ पवमानः स्वयं शुद्धः । पावकोऽन्यस्य शोधकः । शुचिर्दीप्यमानः । तत्र प्रथमं यजमानशुद्धिः। द्वितीयेनान्नप्राप्तिः । तृतीयेन फलद्वयस्योपरिष्टाद्ब्रह्मवर्चसप्राप्तिः । अत्र मीमांसा । तृतीयाध्यायस्य षष्ठपादे चिन्तितम्- संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्ट्यः । वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः ॥ चोदकः पवमानेष्टौ न ता प्रापयितु प्रभुः । अनङ्गत्वेष्यसिद्धिभ्यामिष्ट्यस्तदसंस्कृते ॥ (इति ) ॥ पवमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते । संस्कृतेष्वग्निहोत्रदर्शपूर्णमासादिक्रतवः प्रवर्तन्ते । तथा सति विमताः पवमानेष्ट्यस्ताभिरिष्टिभिः संस्कृते वह्नौ कर्तव्या इष्टत्वादितरेष्टिवत् । चोदकोऽप्येवं सत्यनुगृहीतो भवति । एताभिरिष्टिभिः संस्कृते वह्नौ प्रकृत्यनुष्ठानादिति प्राप्ते ब्रूमः । यद्यपि पवमानेष्टेर्विकृतिस्तथाऽपि चोदको न तस्यां पवमानेष्टौ तां पवमानेष्टिमतिदेष्टुं प्रभवति । प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वभावात् । किंचेतरस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थं पवमानेष्ट्यन्तराङ्गीकारं तत्रापि तथेत्यनवस्थायामिष्टिरेव न सिध्येत् । तस्मात्ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः। दशमाध्यायस्य द्वितीयपादे चिन्तितम्-
३२ (१.१.६) तैत्तिरीयब्राह्मणम् लुप्यते पवमानेष्टौ निर्वापः क्रियतेऽथवा । लुप्यते साधनः भावात्तेन मुख्यो न लुप्यते ॥ (इति) । आधानप्रकरणाग्नाताया पवमानेष्टौ निर्वापसाधनं नास्ति । अग्निहोत्रहवणी हि प्रकृतौ निर्वापसाधनं सा चाऽऽधानकाले न संभवति । अग्निहोत्रस्याऽऽधानोत्तरकालीनत्वेन तद्धोमसाधनभूता- यास्तस्या अपि तथात्वादिति प्राप्ते ब्रूमः। मुख्यो निर्वापस्तं प्रति गुणभूताऽग्निहोत्रहवणी । न हि गुणलोपेन मुख्यो लोप्तुमर्हति । किञ्चाऽधानकाले स्वरूपेणैवाविद्यमानाया अग्निहोत्रहवण्याः साधनत्वं दूरापेतम् । ततः साधनाभावादित्यनुपन्यासः । तस्मान्निर्वापो न लुप्यते । पञ्चमाध्यायस्य तृतीयपादे- चिन्तितम्- आहिते पवमानेष्टिसंस्कृते वाऽग्निहोत्रकम् । आधानेनाग्निनिष्पातेस्तन्मात्रे कर्म संभवेत् ॥ आधानस्यानपेक्षस्य नाप्युत्पादकता मता । समुच्चितस्य हेतुत्वात्कर्म स्यादिष्टिसंस्कृते ॥ (इति)। अग्न्याधानादूर्ध्वं विलम्ब्य पवमानेष्टयः क्रियन्ते । द्वादशसु रात्रीष्वनुनिर्वपेदितीष्टिकालविधानात् । ताभ्यः पुरा द्वादशसु दिनेष्वग्निहोत्रमनुष्ठेयम् । आधानमात्रेणाऽऽहवनीयाद्यग्नेर्निष्पन्नत्वादिति प्राप्ते ब्रूमः । आधानेन पवमानेष्टिनिरपेक्षेण नाऽऽहवनीयाद्यग्निरुत्पद्यते । अन्यथा पवमानेष्टिवैयर्थ्यप्रसङ्गात् । न च .विकल्पः । आधानमुपजीव्य तस्मादुत्तरकाले विधानात् । तत इष्टिभिः समुच्चित्यैवा · ऽऽधानमग्न्युत्पादकमितीष्टिभिः संस्कृते वह्नौ पश्चादग्निहोत्रानुष्ठानम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ अथ षष्ठोऽनुवाकः । पञ्चमे पवमानहवींषि संक्षिप्योक्तानि । अथ षष्ठे तद्विस्तारो हविरन्तराणि दक्षिणाश्चोच्यन्ते। तत्र प्रथमं तावत्पवमानहविषां देवताविशेषस्य पूर्वमुक्तत्वानदनुवादेन हविर्विशेषं विधत्ते- दे॒वा॑सु॒रा संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमुप॑यन्तः॒ अ॒ग्नौ वा॒मं वसु॒ संन्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो
तैत्तिरीयब्राह्मणम् (१.१.६) ३३ जे॒ष्यन्तीति॑ । तद॒ग्निनो॑त्स॒हम॑शक्नोत् । तत्त्रे॒धा वि॒न्य॑दधात् । प॒शुषु तृतीय॑म् । अ॒प्सु तृतीय॑म् । आ॒दि॒त्ये तृतीय॑म् । (१) । तद्दे॒वा वि॒जित्य॑ । पुन॑रवा॑रुत्सन्त । ते॑ऽ ग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन् । प॒शवो॒ वा अ॒ग्निः पव॑मानः। यदे॒व प॒शुष्वासी॑त् । ततेनावा॑रुन्धत । ते॑ऽग्नये॒ पाव॒काय॑ । आपो॒ वा अ॒ग्निः पा॑व॒कः । यदे॒वाप्स्वा॑सी॑त् । ततेनावा॑रुन्धत (२) । ते॑ऽग्नये॒ शुच॑ये । अ॒सौ वा आ॑दि॒त्योऽग्निः शुचिः॑ । यदे॒वाऽऽदि॒त्य आसी॑त् । ततेनावा॑रुन्धत, इति । यदा देवासुराः परस्परं युद्धोद्युक्तास्तदानीं विजयमपेक्षमाणा देवाः स्वकीयं वामं वमनीयं वसु धनमग्नौ सम्यक्स्थापितवन्तः । तेषामयमभिप्रायः । यद्यस्मानसुरा जेष्यन्ति तदानीमा- पत्कालेऽस्माकमिदमेव धनं जीवनाय भविष्यतीति । अग्निस्तद्भाराधिक्येन तद्धनमुद्धृत्य सोढुं नाशक्नोत् । तत्त्रेधा विभज्य पश्वादिषु स्थापितवान् । तदानीं देवाश्चासुरान्विजित्य पुनः स्वकीयं धनं प्राप्तुमैच्छन् । तदा पश्वाद्यभिमानिदेवतासु स्थापितं धनं बलादवरोद्धुमशक्ताः सन्तस्तदुत्कोचार्थं पवमानगुणकायाग्नये पुरोडाशं निरवपन् । पशवश्च पवमानाग्न्यधीनत्वात्तत्स्वरूपाः । तेन च हविषा पवमानमग्निं तर्पयित्वा पशुष्ववस्थितं धनं स्वीकृतवन्तः । एवं ते देवाः पावकगुणकायाग्नये पुरोडाशं निरवपन्नित्यमनुवर्तते । अपां पावकाग्न्यधीनत्वात्तन्मुखेनाप्सु स्थितं धनं प्राप्नुवन् । तथा शुचिगुणकायाग्नये पुरोडाशं तस्याग्नेरादित्यरूपत्वादादित्ये स्थापितं धनमवाप्नुवन् । तस्मादेताभ्यो देवताभ्यः प्रत्येकमष्टाकपालं पुरोडाशं निर्वपेदिति द्रव्यविधिरुन्नेयः । अथैतेषां हविषामाग्नेयेन हविरन्तरेण सह निर्वापं विधत्ते- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । त॒नुवो॒ वावै॒ता अ॑ग्न्य॒ाधेय॑स्य । आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्य॒ाधेय॒मिति॑ । यत्तं निर्व॑पेत् । नैतानि॑ । यथाऽऽत्मा स्यात् (३) । नाङ्गा॑नि । ता॒दृगे॒व
३४ (१.१.६) तैत्तिरीयब्राह्मणम् तत् । यदे॒तानि॒ निर्वपे॑त् । न तम् । यथा॑ऽङ्गानि॒ स्युः । नाऽऽत्मा । ता॒दृगे॒व तत् , उ॒भया॑नि॒ सह॒ निरू॑प्याणि । य॒ज्ञस्य॒ सात्म॒त्वाय॑, इति । याः पूर्वोक्ताः पवमानाग्न्यादिदेवतास्तिस्रस्ता अग्न्याधेयरूपस्य देवविशेषस्य शरीराणि। यस्तु ताभ्योऽतिरिक्तोऽष्टाकपाल आग्नेयः सोऽग्न्याधेयस्य स्वरूपभूतः पूर्वोक्तशरीरत्रयस्वामी । एवं सत्याग्नेयं निरूप्य पवमानहविषामनिर्वापेऽवयवरहितः केवल आत्मैव स्यात् । अथ तानि हवींषि निरूप्याऽऽग्नेयस्य निर्वापो न क्रियेत् तदानीमात्मरहिताः केवला अवयवा एव स्युः । तस्मादाग्नेयेन सह पूर्वाणि त्रीणि हवींषि निरूप्याणि । तथा सति यज्ञस्य सावयवत्वं सात्मत्वं च संपद्यते । अथानुनिर्वाप्यहविर्द्वयं विधत्ते- उ॒भयं॒ वा ए॒तस्ये॑न्द्रि॒यं वी॒र्य॑माप्यते (४) । यो॑ऽग्निमाध॒त्ते । ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒निर्व॑पेत् । आ॒दि॒त्यं च॒रुम् । इ॒न्द्रा॒ग्नी वै दे॒वाना॑मयात॒यामा॑नौ । ये ए॒व दे॒वते॑ अया॑तयाम्नी । ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यं वी॒र्य॑मव॑रुन्द्धे । आ॒दि॒त्यो भ॑वति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति, इति । अग्निमादधानस्येन्द्रियवीर्यस्य प्राप्त्या भवितव्यम् । अतस्तत्सिद्ध्यर्थमिन्द्राग्निदेवताकं पुरोडाशमनिर्वपेत् । देवानां मध्य इन्द्राग्न्योरगतसारत्वात्तत्प्रसादेनेन्द्रियवीर्यप्राप्तिर्भवति । अगतसारत्वं चानयोर्जेतृत्वlinkत्वात्तदवगन्तव्यम् । जयश्च राजसूयप्रकरणे पठ्यते - “देवा वा ओषधीष्वाजिमयुः । ता इन्द्राग्नी उदजयताम्” इति । आदित्यचरुनिर्वापेन भूम्यां प्रतितिष्ठति । भूमेरखण्डनीयत्वेनादितित्वात् । अस्य चरोः सहकारि द्रव्यं घृतं विधत्ते- धे॒न्वै वा ए॒तद्रेतः॑ (५) यदाज्य॑म् । अन॒डुह॑स्तण्डुलाः॑ । मि॒थु॒नमे॒वाव॑रुन्द्धे । घृ॒ते भ॑वति । य॒ज्ञस्यालू॑क्षान्तत्वाय, इति ।
तैत्तिरीयब्राह्मणम् (१.१.६) ३५ आज्यस्य धेनुनिष्पाद्यत्वात्तद्रेतस्त्वम् । तण्डुलानां चानडुहाकृष्टायां भूमौ निष्पाद्यत्वात्तद्रेतस्त्वम् । अत उभयमेलने सति मिथुनं संपद्यते । तस्माद्ङ्गरूनिष्पत्तये घृते तण्डुलाः प्रक्षेप्सव्याः । एतेन घृतेन यज्ञस्यालूक्षान्तत्वं संपद्यते । लूक्षो रुक्षः स्नेहरतिः परुषः । तद्वैपरीत्याञ्चालूक्षः । तादृशोऽन्तः समीपवर्ती द्रव्यविशेषो यज्ञस्य सोऽयमलूक्षान्तस्तस्य भावोऽलूक्षान्तत्वं तत्सिद्धये घृतस्वीकारः । यदुक्तं सूत्रेण-(सूत्रकारेण) “चतुर्धाकरणकाल आदित्यं ब्रह्मणे परिहरित , तं चत्वार आर्षेयाः प्राश्नन्ति ” इति । तदिदं विधत्ते- च॒त्वार॑ आर्षे॒याः प्राश॑नन्ति । दि॒शामे॒व ज्योति॑षि जुहोति, इति । योऽयमादित्यस्यश्वरुस्तस्यैतद्धविषश्चतुर्धाकरणं नास्ति, किंतु ब्रह्मणे हस्ते सर्वं दत्वा चत्वार ऋत्विजः प्राश्नीयुः। तेषां श्रुताध्ययनसंपन्नत्वादार्षेयत्वम् । अत एवान्यत्राऽऽम्नातम्-“आर्षेयो यः शुश्रुवान्’’ इति । चतुःसंख्यासाम्येन दिशां चतसृणां संबन्धिनि ज्योतिषि हुतं भवति । उक्तानां हविषां कालविशेषं विधत्ते- प॒शवो॒ वा ए॒तानि॑ ह॒वी ँषि॑ । ए॒ष रुद्रः॑ । यद॒ग्निः (६) । यत्स॒द्य ए॒तानि 'ह॒वी ँषि॑ निर्व॑पेत् । रु॒द्राय॑ प॒शूनपि॑ द॒ध्यात् । अ॒प॒शुर्यज॑मानः स्यात् । यन्नानु॒निर्व॑पेत् अन॑वरुद्धा अस्य प॒शवः॑ स्युः । द्वाद॑शसु रात्री॒ष्वनु॒निर्व॑पेत् । सं॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒व॒त्स॒रेणै॒वास्मै॑ रु॒द्र ँ श॑म॒यित्वा॑ । प॒शूनव॑रुन्द्धे, इति । अत्रेदं विचिन्त्यते-यस्मिन्दिनेऽग्नय आहितास्तस्मिन्दिने किमेतानि हवींषि निर्वपेत्किंवा नेति । तत्र निर्वापो न युक्तः । एतेषां हविषां पशुसाधनत्वेन पशुरूपत्वात् । आहितस्य चाग्नेः क्रूरदेवत्वात्तस्मै क्रूराय पशुसमर्पणप्रसङ्गाद्यजमानोऽप्यपशुः स्यात् । अनिर्वापपक्षे तु पशवो न संपादिताः स्युः । अतो दोषद्वयपरिहारायाऽऽधानादूर्ध्वं द्वादशसु रात्रीषु गतासु पश्चाद्धवींषि निर्वपेत् । द्वादशसंख्याया मासद्वारेण तासां संवत्सरसदृशत्वादेतद्यजमानार्थं संवत्सरेणैवाग्निं शान्तं कृत्वा पशून्प्राप्नोति ।
३६ (१.१.६) तैत्तिरीयब्राह्मणम् तन्निर्वापे कंचिद्विशेषं विधत्ते- यदेक॑मे॒कमे॒तानि॑ ह॒वीꣳषि॒ निर्व॑पेत् (७) । यथा॑ त्रीण्या॑वप॑नानि पू॒रये॑त् । ता॒दृक्तत् । न प्र॒जन॑न॒मुच्छि॑- ॑षेत् । एकं॒ निरू॑प्य । उत्तरे॒ सम॑स्येत् । तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छि॑ꣳ'षति प्र॒जन॑नाय । तं प्र॒जया॑ प॒शुभि॒रनुप्रजा॑यते । अथो॑ य॒ज्ञस्यै॒वैषाऽभि॑क्रा॒न्तिः, इति । एतानि त्रीणि पवमानहवींषि पृथक्पृथगेव निर्वपेदिति केषांचिन्मन्दानां पक्षः । तस्मिन् पक्षे यथा लोके त्रीणि बीजावापस्थानानि । क्षेत्राणि बीजैः पूरितानि भवन्ति तथा लोकत्रयस्यापि त्रिभिर्हविर्भिः पूरितत्वाद्यजमानस्य स्वातन्त्र्येण प्रजोत्पत्तिस्थानं किमपि नावशिष्येत । तस्मात्प्रथममेकं हविः पृथङ् निरूप्य द्वितीयतृतीये हविषी संभूय निर्वपेत् । तथा सति निर्वापद्वयेन लोकद्वयस्यैव पूरितत्वात्तृतीयो लोको यजमानस्य प्रजोत्पादनायावशेषितो भवति । ततस्तं लोकमनुयजमानः प्रजापशुसमृद्धो भवति । अपि च यत्तृतीयलोकावशेषणमेषा यज्ञस्यैवाभिक्रान्तिरभितो व्याप्तिः । प्रजापशुरूपस्य तत्फलस्य निष्पन्नत्वात् । यदुक्तं सूत्रकारेण-“प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति दक्षिणतो ब्रह्मा रथं रथचक्रं वा प्रवर्तयति यावच्चक्रं त्रिः परिवर्तते” इति । तदेतद्विधत्ते- रथ॑च॒क्रं प्र॒वर्त॑यति । म॒नु॒ष्य॒रथे॑नैव दे॑व॒रथं॒ प्रत्यव॑रोहति (८), इति । गार्हपत्यादाहवनीयं प्रत्यग्नेः प्रणयनकाले रथचक्रस्य प्रवर्तनम् । अनेन मनुष्यरथप्रवर्तनेन नीयमानांग्न्यर्थं देवरथ एव प्रवर्तितो भवति । अथ मीमांसामुखेन होमनिर्णयं करोति- ब्रह्म॒वा॒दिनो॑ वदन्ति । होत॒व्यम॒ग्नि॒हो॒त्रा३ न होत॒व्या३मिति । यद्यजुषा जुहुयात् । अय॑थापूर्व॒माहु॑तीजु (तीर्जु) हुयात् । यन्न जु॑हुयात् । अ॒ग्निः परा॑भवेत् । तूष्णीमे॒व होत॑व्यम् । यथा॑पूर्व॒माहु॑ती जु (तीर्जु) होति । नाग्निः परा॑भवति, इति ।
तैत्तिरीयब्राह्मणम् (१.१.६) ३७ नेयं नित्याग्निहोत्रविषया मीमांसा । तस्य पवमानेष्टिभ्य ऊर्ध्वं प्रवर्तिष्यमाणत्वात् । किंवाधानाङ्गमेतत्किंचित्कर्म । पूर्णाहुतेः प्राक्प्रवर्तमानत्वात् । “पूर्णाहुत्यन्तमग्न्याधेयम्” इत्याश्वलायनेनोक्तम् । अस्य चाऽऽधानाङ्गस्याग्निहोत्रस्य मन्त्रेण होमे सत्ययथापूर्वत्वं प्रसज्येत । तथा हि अग्निहोत्रशब्दोऽत्र नित्याग्निहोत्रधर्मानतिदिशति । नित्याग्निहोत्रे च- “सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा” इति । अयमहनि पठितो होममन्त्रः सोऽत्र प्रसक्तः । अहन्येव हूयमानत्वात् । प्रकृतिभूते त्वग्निहोत्रे रात्रावेवोपक्रमात् । “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा” इति मन्त्रस्य रात्रिहोमाङ्गत्वात्तेन मन्त्रेण प्रथममनुष्ठाय पश्चात्प्रातः काले “सूर्यो ज्योतिः” इति मन्त्रेणानुष्ठानमित्येव क्रमः । इह त्वादावेव “सूर्यो ज्योतिः” इति मन्त्रेणानुष्ठानं प्रकृतिवैलक्षण्यादयथापूर्वत्वम् । अहोमपक्षे त्वाधानेनोत्पन्नोऽग्निराहाराभावात्पराभूतो भवेत् । अतो दोषद्वयं परिहर्तुं मन्त्रं परित्यज्य तूष्णीमेव होतव्यम् । तथा सति मन्त्रवैपरीत्याभावादयथापूर्वत्वदोषो न भवति । होमस्यानुष्ठितत्वादग्नेः पराभवोऽपि न भवति । यदुक्तं सूत्रकारेण-“आग्नेयस्य दक्षिणाकाले दक्षिणां ददात्यजं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीध उपबर्हणं ददात्यश्वं ब्रह्मणेऽध्वर्यवे वाऽऽ हवनीयदेशेऽनड्वाहमध्वर्यवेऽपरं गार्हपत्यं धेनु ँ होत्रे वासो गावौ मिथुनौ गावौ नवं च रथं ददाति तानि साधारणानि सर्वेषामा द्वादशभ्यो ददातीत्युक्त्वाऽऽ ह काममूर्ध्वं देयमपरिमितस्यावरुद्ध्या इति विज्ञायते । ऊर्ध्वमादिष्टदक्षिणाभ्यो वदति षड् देया द्वादश देयाश्चतुर्विंशतिर्देया इति ता विकल्प्यन्ते ” इति । तदेतत्सर्वं क्रमेण विधत्ते- आ॒ग्नीधे॑ ददाति (९) । अ॒ग्निमु॑खाने॒वर्तूंन्प्री॑णाति । उ॒प॒ब॒र्ह॒णं द॑दाति । रू॒पाणा॒मव॑रुद्ध्यै । अश्वं॑ ब्र॒ह्मणे॑ । इ॒न्द्रि॒यमे॒वाव॑रुन्द्धे । धे॒नु ँ होत्रे॑ । आ॒शिष॑ ए॒वाव॑रुन्द्धे । अ॒न॒ड्वाह॑मध्व॒र्यवे॑ । व॒हिर्र्वा अ॑न॒ड्वान् । व॒हिर्ह्य॑ध्व॒र्युः (१०) । वह्नि॑नैव वह्निं॑य॒ज्ञस्याव॑रुन्द्धे । मि॒थु॒नौ गावौ॑ ददाति । मि॒थु॒नस्याव॑रुन्द्ध्यै (द्ध्यै) । वासौ॑ ददाति । स॒र्व॒दे॒व॒त्यं॒ वै वास॑:। सर्वा॑ ए॒व दे॒वता॑: प्रीणाति । आ द्वा॒द॒श॑भ्यो ददाति । द्वाद॑श॒ मासा॑: संवत्स॒रः । सं॒व॒त्स॒र
३८ (१.१.६) तैत्तिरीयब्राह्मणम् ए॒व प्रति॑तिष्ठति । कार्ष्ममूर्ध्नं देय॑म् । अप॑रिमितस्याव॑रुद्ध्यै (११) इति । आदित्ये तृतीयमप्स्वा॑सी॒त्तत्तेनाव॑रुन्धत स्यादा॑प्यते॒ रेतो॒ऽग्निरे- क॑मे॒कमे॑तानि ह॒वीग्ँ॑षि॒निर्व॑प॒त्प्रत्यव॑रोहति ददात्यध्व॒र्युर्दे॒यमेक॑ च । इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ आग्नीध्रेण तत्तदृतावग्नेरिध्यमानत्वात्तस्मै दत्तेन द्रव्येणाग्निसहितानामृतूनां प्रीतिः । तस्मै यद्देयमुपबर्हणं शिरसः पृष्ठस्य वाऽऽधारभूतं तस्य कार्पासाशाणोर्णादिमयैः शुक्लनीलपीतादिवर्णैः सर्वैः सूत्रैर्निष्पन्नत्वात्तेन रूपाणां प्राप्तिः। अश्वस्य प्रजापतिचक्षुर्जजन्यत्वात्तेनेन्द्रियप्राप्तिः । दातव्याया धेनोः कामधेनु- रूपत्वादाशिषां प्राप्तिः । अनड्वाञ्छकटं वहति । अग्निश्च द्रव्यं वहति । अध्वर्युरप्यनुष्ठानं वहति । ततः समानत्वाद्बलीवर्दरूपेणाध्वर्यु रूपेण च वह्निर्नैव यज्ञस्य वह्नियज्ञसंबन्धिहविर्वाहनमग्निं प्राप्नोति । गोमिथुनेन मनुष्यमिथुनं प्राप्तिः । वाससः सर्वदेवत्यत्वं दीक्षा- प्रकरणे-“अग्नेस्तूर्षाधानं वायोर्वातपानम्” इत्यादिवाक्येन प्रति- पादितम् । आ द्वादशभ्यो गोभ्य इति शेषः । उक्तदक्षिणाभ्य ऊर्ध्वं-“षड् देया द्वादश देयाः” इत्यादिशाखान्तरोक्तं बहुपक्षानुसारेण स्वाभिमतं यावत्तावद्देयम् । तेनापरिमितफलप्राप्तिः । अत्र मीमांसा । एकादशाध्यायस्य चतुर्थपादे चिन्तितम्- पवमानेष्टिहविषां तन्त्रं भेदोऽथ वाऽग्रिमः । साध्यदेशाद्यभेदान्नो काम्ये भेदोक्तितोऽन्तिमः ॥ इति । आधानप्रकरणे पठ्यते-“अग्नये पवमानायाष्टाकपालं निर्वपेदग्नये पावकाथाग्नये शुचये” इति । तैरेतैर्हविर्भिः साध्यस्याग्नेरेकत्वाद्देशाद्यभेदाच्चाङ्गानां तन्त्रमिति प्राप्ते ब्रूमः-“यः कामयेतोत्तरं वसीयाञ्छ्रेयान्स्यामिति तस्याग्नये पवमानाय निरूप्याथ पावकाय शुचये चोत्तरे हविषी समानबर्हिषी निर्वपेत्” इति वचनात्काम्यप्रयोगे प्रथमस्य हविषोऽङ्गभेदः । उत्तरयोस्तन्त्रम् । नित्यप्रयोगे तु त्रयाणां तन्त्रम् । द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्-
तैत्तिरीयब्राह्मणम् (१.१.७) ३९ एका देया समुच्चेयं विकल्प्यं वाऽऽद्य आनतेः । सौलभ्यादन्तिमौ नैरपेक्ष्यात्संख्यान्तरादपि ॥ इति । आधाने श्रूयते- “एका देया षड् देया द्वादश देयाः” इत्यादि । तत्र सोमक्रयन्यायेनाऽऽनतेः सौलभ्यात्समुच्चय इति चेत् । मैवम् । संख्यानां व्रीह्यादिवत्परस्परनैरपेक्ष्यावगमात् । समुच्चये तु श्रूयमाणाभिः संख्याभिः संख्यान्तरस्य दुर्वारत्वाच्च । तस्माद्विकल्पः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथम प्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ सप्तमोऽनुवाकः । षष्ठे हविर्विशेषा दक्षिणाश्चोक्ताः । अथ सप्तम आधानमन्त्रा उच्यन्ते । तत्राऽऽदौ गार्हपत्यविषयं मन्त्रमाह- घ॒र्मः शिर॒स्तदय॒म॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । छ॒- र्दिस्तो॒काय॒ तन॑याय॒ यच्छ॑, इति । घर्मो दीप्तिज्वाला स च घर्मोऽग्निशरीरस्य शिरः स्थानीयः । तच्च शिरोऽयं पुरोवर्ती गार्हपत्योऽग्निः । तादृश हे गार्हपत्याग्ने त्वमस्मदीयैः पशुभिः सहसंप्रियो भुवत्सम्यक्प्रीतियुक्तो भव । ततोऽस्मदपत्याय तदीयापत्याय च च्छर्दैर्यच्छ तेजो देहि । अथान्वाहार्यपचनविषयं मन्त्रमाह- वातः॑ प्रा॒णस्तदय॒म॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॑च, इति । योऽयमग्निसखो वायुः सोऽग्नेः प्राणस्तत्प्राणरूपमयमाधीय- मानोऽन्वाहार्यपचनोऽग्निः । हेऽन्वाहार्यपचन त्वमस्मदीयैः पशुभिः सह संप्रियो भव । अस्मत्पुत्राय तत्पुत्राय च स्वदितं स्वादुयुक्तं पितुमन्नं पच पक्वं कुरु । अथाऽऽहवनीयदेशं प्रति गमनमन्त्रमाह- प्राची॒मनु॑प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् अ॒ग्नेर॒ग्ने पु॒रो अ॒ग्निर्भ॑वे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि । ऊर्जं॑ नो धेहि । द्वि॒पदे॒ चतु॑ष्पदे (१), इति । हेऽग्ने त्वं विद्वान्मागं जानन्प्राचीं प्रदिशमनु प्रागाख्यां प्रकृष्टां दिशमनु लक्ष्य प्रेहि प्रकर्षण गच्छ । गत्वा चेहाऽऽयतने प्रथममाहितस्य गार्हपत्यस्याग्नेः पुरोऽग्निः पूर्वदिग्वर्ती वह्निर्भव । ततो॑ दीद्यानः प्रकाशमानो विश्वाआशाः सर्वा दिशो विभाहि विशेषेण प्रकाशय । नोऽस्मदीयाय द्विपदे मनुष्याय चतुष्पदे पशवे चोर्जं धेहि देह्यन्नरसं संपादय । अथाऽऽहवनीयविषयं मन्त्रमाह- अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तदयम॒ग्निः । संप्रि॒यः प॒शुभ॑र्भुवत् । यत्ते॑ शु॒क्रं शु॒क्रं वर्च॑: शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा, इति । अर्कोऽर्चमानो मण्डलात्मा वह्निशरीरस्य चक्षुःस्थानीयस्तच्चक्षुः स्वरूपमसौ दिवि दृश्यमानः सूर्यरूपः स सूर्योऽयमाधीयमान आहवनीयोऽग्निः । ह आहवनीयास्मदीयैः पशुभिः संप्रियो भव । हे शुक्र ऽऽहवनीय ते त्वदीयं यच्छुक्रं वर्चो बहिः प्रसृतं दीप्तिरूपं तेजो या च शुक्रा तनूर्ज्वालाः रूपं शरीरं यदप्यजस्रं शुक्रं ज्योतिः सर्वदा वर्तमानो भारूपशरीरगतप्रकाशस्तेन सर्वेण मे दीदिहि मां प्रकाशय । हेऽग्ने परिवृढेन-“अर्कश्चक्षुः” इति मन्त्रेण तेन पूर्वोक्तगुण- युक्तेनाग्निनाऽऽहवनीयरूपेण त्वामिहाऽऽदधे । अथाऽऽहितस्याग्नेरभिमन्त्रणमन्त्रमाह- आन॑शे॒ व्यान॑शे॒ सर्व॒मायु॒र्व्यान॑शे, इति । अयमग्निरानशे जाठराग्निरूपेण भोक्तृशरीरं व्याप्तवान् । तथा व्यानशे विविधं भोग्यजातं व्याप्तवान् । तथा सर्वमायुर्व्यानशेऽपमृत्युपरिहारेण संपूर्णमायुः संपादितवान् । ये ते॑ अग्न शिवे॒ तनुवौ॑ । वि॒राट् च॑ स्व॒राट् च॑ । त मा॑ विश॑तां॒ ते मा॑ जिन्वताम् (२) । ये ते॑ अग्ने शिवे॒ तनुवौ॑ । स॒म्राट् चा॑भि॒भूश्च॑ । ते मावि॑शतां॒ ते मा॑ जिन्वताम् । ये