तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
३०४ श्रीतन्त्रालोकः । इत्यादिदृष्ट्या ज्ञेयस्य अवश्यज्ञातव्यस्य पारमार्थि- कस्य चिदात्मनो रूपस्य समापत्तिर्न स्यात्, विकल्पो हि अभ्यासबलात् स्वतुल्यविकल्पान्तराविर्भावकतया विगलदस्फुटत्वादिना यथायथं सातिशयविकल्पजन- नाक्रमेण अविकल्पात्मकसंवित्तादात्म्यम् अभ्येति । यद्वक्ष्यति 'प्रविविञ्चुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ।' इत्याद्युपक्रम्य 'संविदभ्येति विमलामविकल्पस्वरूपताम् ।' इति । अत एव शाक्तोपायादस्य भेदः ॥ १७१ ॥ ननु कथं विकल्पानुपयोगितयैव एतत् स्यात् ? इत्याशङ्कां दर्शयितुमाह सा कथं भवतीत्याह गुरुणातिगरीयसा । ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना ॥ १७२ ॥ पं० १ ख० पु० ज्ञातव्या पारमार्थिकस्येति पाठः । पं० ४ क० पु० विकल्पजननाक्रमेणाविकल्पात्मकेति पाठः । पं० १३ क० पु० स कथं भवतीति पाठः ।
श्लोक १७३ ] प्रथमाह्निकम् । २०५ प्रतिः आभिमुख्ये, आभिमुख्यं च वस्त्वन्तरा- पेक्षं, तच्च अत्र औचित्यात् चिन्मात्रम् इत्युक्तं 'ज्ञेयाभिमुखेति' । अतिगरीयस्त्वमेव व्याख्यातुं द्राक्प्ररूढत्वेत्याद्युक्तम्, द्राक् इत्यनेन यथोक्तवि- कल्पक्रमोपारोहाभावः सूचितः ॥ १७२ ॥ ननु कथमनयोर्भिन्नविभक्तिकयोः सामानाधिक- रण्यम् ? इत्याशङ्क्याह तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः । तृतीयार्थे तसि, इति तसि इत्यनुबन्धलोपे प्रयोगः । तृतीयार्थे इति सर्वविभक्त्यन्तात् प्रातिपदिकात् तस्येष्टेः । वा शब्दः पक्षान्तरे । वैयधिकरण्यतः इति गुरुणा कृतो यः प्रतिबोधः ततः इत्यर्थः ॥ आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥ १७३ ॥ परतद्रूपता शम्भो- राद्याच्छक्त्यविभागिनः । पं० ७ ख० पु० इत्याह इति पाठः । पं० १० क० पु० तृतीयार्थे तस् तसीति पाठः । पं० १३ क० ग० पु० यो बोध इति पाठः । पं० १६ ख० पु० तद्रूपमिति शोधितः पाठः ।
२०६ श्रीतन्त्रालोकः । अस्वतन्त्रस्य जडस्य बुद्ध्यादेर्मितस्य प्रमातुः, स्वम् असाधारणं, तत् संकुचितं यत् रूपं तस्य निमज्जनं - गुणीभावः, तदवलम्ब्य परेण स्वतन्त्रेण बोधेन या तद्रूपता - तादात्म्यं, स आवेशः इति संबन्धः । यदुक्तं 'मुख्यत्वं कर्तृतायास्तु बोधस्य च चिदात्मनः । शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥' इति । कुतः पुनरयमागतः ? इत्याह शम्भोः इति । न पुनः शक्तेरणोर्वा । आद्यात् इति - तत एव हि शक्तेरणोश्च प्रभवः इति भावः । अत एव शक्तिरत्र इच्छा, न तु ज्ञानं क्रिया वा - तयोः समावेशान्तर- गतत्वेन अभिधास्यमानत्वात् ॥१७३॥ इह पदार्थावगमपुरःसरीकारेण वाक्यार्थावगमः इति पदार्थयोजनानन्तरं वाक्यार्थमपि योजयितुमाह तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् ॥१७४॥ विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् ॥ पं० ६ क० पु० तद्गुणज्ञानमिति समस्तः पाठः । पं० ११ क० पु० गतत्वेन व्याख्यास्यमानत्वात् इति पाठः ।
श्लोक १७५ प्रथमाह्निकम्। २०७ मातारमधरीकुर्वन् स्वां विभूतिं प्रदर्शयन् ॥१७५॥ आस्ते हृदयनैर्मल्या- तिशये तारतम्यतः ॥ विज्ञेयं – चिन्मात्राख्यं पारमार्थिकं रूपं, माता – सकलकरणग्रामप्रसवनिमित्तत्वाद् बुद्धिः, सैव चिच्छायासंक्रान्तिसहिष्णुत्वाद् दर्पणः, तत्र प्रति- बिम्बितं गृहीतात्मग्रहं परिमितं प्रमातारम् अधरी- कुर्वत् – बुद्ध्यादौ आत्माभिनिवेशनं गुणीभावमापा- दयत् । एवं तरतमभावेन अनन्यसाधारणां विभूतिं – बोधात्मताप्रधानतां रचयत्, समनन्तरोक्तयुक्त्या विकल्पोपारोहमन्तरेण अनन्यापेक्षित्वात् झटिति 'सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः।' इत्याद्युक्तेः हृदयं – विमर्शः, तस्य नैर्मल्यम् – अन- न्योन्मुखत्वादपरिम्लानत्वं, तस्य अतिशयः – परा पं० ५ ख० पु० चिन्मात्रात्म पारमार्थिकेति पाठः । पं० ६ ख० पु० आत्माभिनिवेशमिति पाठः । पं० १२ क० पु० नन्यापेक्षत्वादिति पाठः । पं० १४ क० ग० पु० हृदयं विसर्ग इति पाठः ।
प्रकाशते इत्यर्थः ॥१७४॥१७५॥
२०८ श्रीतन्त्रालोकः । काष्ठा, तत्र स्वयं प्रोन्मिषदास्ते-स्वप्रकाशतया प्रकाशते इत्यर्थः ॥१७४॥१७५॥ ननु ज्ञेयं तावत् जडाजडात्म द्विधा संभवति, तत्र संविदि जडेन नीलादिनापि आवेशोऽस्ति इति कथं 'बोधात्मैव समावेशः' इत्युक्तम् ? इत्याह ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् ॥१७६॥ इतरत्तु तथा सत्यं तद्विभागोऽयमीदृशः ॥ जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥१७७॥ चैतन्येन समावेश- स्तादात्म्यं नापरं किल ॥ ननु कथं स्वप्रकाशायाः चितोऽपरप्रकाश्यत्वं ज्ञेयत्वं नाम ? इत्याशङ्क्योक्तम् 'आद्यं च कल्पितम्' इति। चः शङ्काद्योतकः, परमेश्वर एव हि स्वातन्त्र्याद् अपरिहृतवेदकभावमपि स्वात्मानं भावनोपदेशादौ पं० ५ क० पु० बोधैकात्मेति पाठः ।
श्लोक १७८ ] प्रथमाह्निकम् । २०६ शिव एव सर्वक्रियाणां कर्ता विज्ञेयः इत्यादि परामर्शैः अहंप्रतीतिम् अन्तरीकृत्य वेद्यतया प्रतिपादयति । इदमेव हि परं स्वातन्त्र्यं-यत् स्वं स्वरूपं वेदकमेव सत् वेद्यत्वेन अवभासयति । अत एव कल्पितं वस्तुशून्यम् इत्युक्तम् । इतरत् इति जडं नीलादि । तथा इति ज्ञेयतया । तत्र नीलज्ञानम् इत्यादौ चितो नीलादिना दर्पणमुखन्यायेन प्रतिबिम्बन- मात्रमेव समावेशार्थो न तु तादात्म्यं, तथात्वे हि नीलादेर्ज्ञानात्मभूतत्वात् ज्ञानमेव अवशिष्यते इति प्रतिच्छन्दव्यवस्थैव न स्यात् । संकुचितायाः चितः पुनरसंकुचितया चितैकात्म्यमेव तस्या एव वस्तुतो भावात्, तेन बोधैकात्म्यमेव समावेशार्थः इति युक्तमुक्तम् अस्वतन्त्रस्य परतद्रूपता नामावेशः इति ॥ १७६ ॥ १७७ ॥ तदेवोपसंहरति तेनाविकल्पा संवित्ति- र्भावनाद्यनपेक्षिणी ॥ १७८ ॥ पं० २ क० पु० अधरीकृत्येति पाठः । पं० १० क० ख० पु० प्रतिकर्मव्यवस्थैवेति पाठः । पं० ११ क० पु० असंकुचितचिदैकात्म्यमेवेति पाठः । २७
२१० श्रीतन्त्रालोकः । शिवतादात्म्यमापन्ना समावेशोऽत्र शांभवः । संवित्तिः अर्थात् संकुचितरूपा ॥ १७८ ॥ ननु अत्र उत्पत्तौ विकल्पापेक्षितत्वं मा भूत् तथात्वे हि शाक्तोपायादस्य भेदो न स्यात्, औत्त- रकालिकाः पुनर्विकल्पाः किमत्र अपेक्ष्यन्ते न वा ? इत्याशङ्क्याह तत्प्रसादात्पुनः पश्चा- द्भाविनोऽत्र विनिश्चयाः ॥ १७६ ॥ सन्तु तादात्म्यमापन्ना न तु तेषामुपायता । तच्छब्देन निर्विकल्पकपरामर्शः । अविकल्प- कयैव संवित्त्या शिवात्मताधिगमः कृतः इति कृतस्य करणायोगात् तत्पृष्ठभाविनां विकल्पानां तत्र अकिंचित्करत्वम् इत्याह न तु 'तेषामुपायता' इति ॥ १७६ ॥ पं० ४ ख० पु० विकल्पापेक्षत्वमिति पाठः । पं० ६ क० ख० पु० अपेक्षन्ते इति पाठः । पं० १३ क० पु० शिवात्मनाभिगम इति पाठः ।
श्लोक १८० ] प्रथमाह्निकम् । २११ अत एव च अविकल्पस्य विकल्पापेक्षं प्रामाण्यं वदन्तो निरस्ताः इत्याह विकल्पापेक्षया मान- मविकल्पमिति ब्रुवन् ॥ १८० ॥ प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते । अनधिगतार्थविषयं खलु प्रमाणम् । यदाहुः ‘अनधिगतविषयं प्रमाणम् अज्ञातार्थप्रकाशो वा ।’ इति । निर्विकल्पकगृहीतमेव वस्तु च तत्पृष्ठभावी विकल्पः परिच्छिनत्ति इति, तस्य गृहीतग्राहकत्वात् स्वात्मन्येव प्रामाण्यं नास्ति - इति कथमन्यस्यापि प्रामाण्ये निमित्ततां यायात् । अत आह ‘सिद्धं हि विकल्पेनानुगम्यते' इति । सिद्धम् इति अधिगतम् । अनुगम्यते इति अनु पश्चात् गम्यते अधिगम्यते इत्यर्थः ॥ १८० ॥ ननु प्रवर्ततां नाम गृहीतेऽर्थे विकल्पः, तन्न पुनरध्यवसायात्मकत्वादस्य ग्राहकत्वं न युज्यते पं० ८ क० ख० पु० अज्ञातार्थविषयो वा इति पाठः ।
२१२ श्रीतन्त्रालोकः । इति 'गृहीतं गृह्णामि' इति प्रतिपत्तिरस्य कथं स्यात् ? इत्याशङ्क्याह गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥ १८१ ॥ गृह्णामीत्यविकल्पैक्य- बलात्तु प्रतिपद्यते । गृहीतमिति प्रथा हि विकल्पस्य भावादौपपत्तकी- गृहीत एवार्थे अस्य प्रवृत्तेः, यत्तु गृह्णामि इति प्रति- पद्यते तत् दृश्यविकल्प्यार्थैकीकारादिना निर्विकल्पकै- कात्म्यावलम्बनबलात् इति युक्तमुक्तं 'विकल्पेन गृहीतं गृह्यते' इति ॥ १८१ ॥ ननु ज्ञानं खलु ज्ञापकं न तु कारकम् इति, तेन वस्तुनो ज्ञप्तिः स्यात् न तु सिद्धिः इति कथमुक्तं 'सिद्धं विकल्पेनानुगम्यते' ? इत्याशङ्क्याह अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः ॥ १८२ ॥ पं० ४ ग० पु० यथा प्रथेति पाठः । पं० ७ क० पु० प्रथा हि विकल्पभावादौ प्रतिपत्तिगृहीत एवार्थे इति पाठः । पं० ८ क० पु० अस्याः प्रवृत्तेर्यत्तु गृह्णामीत्यविकल्पैकबलात्तं प्रतीति पाठः ।
श्लोक १८३ ] प्रथमाह्निकम् । २१३ सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् । आभासवादे हि आभासमानतैव सिद्धिः इत्युक्तं स्फुरत्तैव वस्तुनः सिद्धिः । ननु विकल्पानामपि स्वात्मनि अविकल्पकत्वात् स्फुरद्रूपता अस्ति इति किमिति न ततोऽपि वस्तुनः सिद्धिः स्यात्? इत्या- शङ्क्याह 'न विकल्पात्' इति, 'सर्वो विकल्पः स्मृतिः' इति नीत्या विकल्पानां तावत् स्मृतिरेव रूपं, सा च असंनिहिते पूर्वानुभूत एव अर्थे प्रवर्तते इति विक- ल्पानां वस्त्वनपेक्षितत्वं, यद्यपि च स्वतन्त्रविकल्पादौ क्षेत्रज्ञनिर्मितानां योजनास्ति तथपि पूर्वानुभवसं- स्कारजा एव तेऽर्थाः इत्युक्तं 'वस्त्वपेक्षाविवर्जितात्' इति । यस्य च यदपेक्षा नास्ति स कथं तत्सिद्धौ निमित्ततां यायात् इति भावः ॥ १८२ ॥ यद्येवं निर्विकल्पकसिद्ध एव अर्थे विकल्पः प्रव- र्तते न अधिकं किंचित्करोति तत्किमिति तेन स क्वचिदपेक्ष्यते इत्याह केवलं संविदः सोऽयं नैर्मल्येतरविभ्रमः ॥१८३॥
२१४ श्रीतन्त्रालोकः । यद्विकल्पानपेक्षत्व- सापेक्षत्वे निजात्मनि ॥ एवं संविदः सर्ववादिसिद्धं व्यवहारादौ विकल्प- सापेक्षत्वं परिहृत्य विकल्पानपेक्षत्वमेव स्फुटीकर्तु- मुदाहरति निशीथेऽपि मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥१८४॥ तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि ॥ वैकटिको हि अचिरस्थायिनि परिमितेऽपि आलोके भूयसामपि रत्नानाम् अतिसूक्ष्मान् परस्पर- विशेषान् अवसायं विनापि अनुभवातिशयादेव जानीते, येन 'इदमल्पम्, इदं महत्,' इदमितोऽपि महद्रत्नम्' इत्यस्य विवेकः स्यात् ॥ १८४ ॥ किं चात्र अनुभवातिशये निमित्तं, येन विकल्प- नैरपेक्ष्येणापि वस्तुनः सिद्धिः स्यात् ? इत्याह नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो ॥ १८५ ॥
श्लोक १८६ ] प्रथमाह्निकम् । २१५ अनियन्त्रेश्वरेच्छात्त इत्येतच्चर्चयिष्यते । पूर्वाभ्यासो जन्मान्तरीयः इति, अत एव चर्चयि- ष्यते त्रयोदशाह्निकादौ ॥ १८५ ॥ न केवलमस्य आवेशस्य त्रैविध्यमेव अस्ति, यावद्वान्तरप्रकारत्वमपि इत्याह पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥ १८६ ॥ तत्त्वषट्त्रिंशकैतत्स्थ- स्फुटभेदाभिसन्धितः । वर्णिता इति श्रीपूर्वशास्त्रे । यदुक्तं तत्र 'रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते । भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने ॥ पञ्चधा भूतसंज्ञोऽत्र त्रिंशद्धा तु तथापरः । आत्माख्यस्त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः ॥ द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः । पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः ॥' पं० ५ ग० पु० अस्याविशेषस्य इति पाठान्तरं च । पं० ६ ख० पु० प्रकारत्वमेवाहेति पाठः ।
२१६ श्रीतन्त्रालोकः । इति । अत्र च हेतुः - तत्त्व इति । तत्त्वषट्त्रिंशकं च एतत्स्थानि तत्त्वषट्त्रिंशन्मध्यपतितानि पुमादीनि पृथग्व्याख्यास्यमानानि तत्त्वानि च, तेषां यो वक्ष्यमाणप्रकारः स्फुटो भेदः तस्य अनुसंधा- नम् ॥१८६॥ तमेव भेदं निरूपयति एतत्तत्त्वान्तरे यत्पुं- विद्याशक्त्यात्मकं त्रयम् ॥१८७॥ अम्भोधिकाष्ठाज्वलन- संख्यैर्भेदैर्यतः क्रमात् । तद्भिन्नम् इत्यध्याहारः, अतस्तत्र पुमान् ' आत्मा चतुर्विधो ज्ञेयः । ' इत्याद्युक्त्या अम्भोधिभिः - सकलप्रलयाकल- विज्ञानाकलशुद्धलक्षणैः चतुर्भिः भेदैर्भिन्नः, तथा विद्या काष्ठाभिः - वर्णबिन्द्वर्धचन्द्रनिरोधिनीनादना- दान्तशक्तिव्यापिनीसमनोन्मनात्मभिर्दशभिः भेदै- र्भिन्ना, तथा शक्तिः ज्वलनैः - इच्छाज्ञानक्रिया- त्मभिः त्रिभिर्भेदैः ॥१८७॥ पं० १ ख० पु० अत्रैव हेतुरिति पाठः ।
श्लोक १९८ ] प्रथमाह्निकम् । २१७ ननु किमिति इदमेव तत्त्वत्रयं भेदेन निर्दिष्टम् ? इत्याशङ्क्याह पुंविद्याशक्तिसंज्ञं य- तत्सर्वव्यापकं यतः ॥१९८॥ अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल । अव्यापकेभ्यः इति व्याप्येभ्यस्तत्त्वान्तरेभ्यः इत्यर्थः । मायान्तं हि आत्मतत्त्वस्य, सदाशिवान्तं विद्यातत्त्वस्य, शिवान्तं च शक्तितत्त्वस्य व्याप्तिः । यदुक्तं 'माया-सदाशिव-शिवप्रान्तव्याप्तयो ननु क्रमात् ।' इति ॥१९८॥ न केवलमेतत् तत्त्वान्तरेभ्यो भिद्यते, यावदन्यो- न्यमपि इत्याह अशुद्धिशुद्ध्यमानत्व- शुद्धितस्तु मिथोऽपि तत् ॥१९६॥ पुमान् अशुद्धो — भेदमयत्वात्, विद्या शुद्ध्यमाना— पं० ११ ख० पु० व्याप्तीन्यनुक्रमादिति पाठः । २८
२१८ श्रीतन्त्रालोकः । भेदाभेदमयत्वात्, शुद्धा शक्तिः-अभेदमयत्वा त् ॥१८६॥ ननु अस्तु एवं, भूतानां पुनः पृथक् निर्देशे किं- निमित्तम् ? इत्याशङ्क्याह भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः । तत्त्ववर्गात्पृथग्भूत- समाख्यान्यत एव हि ॥१९०॥ भूतानि तावत् प्रत्यक्षसिद्धानि इति, तदेव एषां तत्त्वान्तरेभ्यो भेदेन उपादाने निमित्तं, तानि हि नित्यानुमेयान्येव, तदाह 'कार्यहेत्वनुमेयतः तत्त्व- वर्गात्' इति । तथा चात्र भूतानि कारणपूर्वकाणि अचैतन्ये सति अनेकसंख्यायोगित्वात् घटादिवत् इत्यनुमानम् । यच्चैषां कारणं तानि ‘तन्मात्रेभ्यश्च भूतानि .............।’ इत्याद्युक्तेः तन्मात्राणि इति, स्वकार्येभ्यो भूतेभ्य एषाम् अनुमेयत्वम् । एवम् अनेनैव अनुमानेन मा- यान्तः सकलतत्त्ववर्गोऽनुमातव्यः । एतच्च तत्त्वाध्वनि
श्लोक १६१ ] प्रथमाह्निकम् । २१६ भविष्यति इति नेहायस्तम् । अत एव इति प्रत्यक्ष- सिद्धत्वात् ॥१६०॥ ननु भूतानां प्रत्यक्षसिद्धत्वम् अनुमेयात् तत्त्व- वर्गात् पृथक्त्वेऽस्तु निमित्तं, कथं पुनर्भूतत्वेऽपि तदेव ? इत्याशङ्क्याह सर्वप्रतीतिसद्भाव- गोचरं भूतमेव हि । विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् ॥१६१॥ सर्वेषां विदुषामविदुषां वा प्रतीतौ सता पारमा- र्थिकेन सत्ताया गोचरमेव हि भूतम् उच्यते । भूतं हि सत्यं, तच्च सत्यं, यत्र न कदाचिदपि कस्यचि- दपि विप्रतिपत्तिः, अनुमेये पुनरविदुषां तावत् प्रती- तिर्नास्त्येव, विदुषां च प्रतीतावपि बहुप्रकारं परस्परं विप्रतिपत्तिः इति तत्र असत्यत्वसंभावनापि भवेत् इति भावः । चो हेतौ, अतश्च सर्व एवात्र अव- काशः तद्धातृत्वादाकाशः, तत्सहिते वाय्वन्ते चतुष्टये प० १७ ग० पु० तत्तादृक्त्वादाकाश इति पाठान्तरं च वर्तते ।
२२० श्रीतन्त्रालोकः । पृथिव्यादिभूतपञ्चके सर्वप्रतीतिसद्भावगोचरत्वात् तस्य भूतत्वस्य आस्थितिम् अवस्थानं विदुः इति युक्तमुक्तं 'भूतसमाख्यान्यत एव' इति । एवं भौत आवेशः पञ्चधा, आत्मावेशश्च त्रिधा । एकोऽपि पुंस्तत्त्वरूप आत्मभेदः तत्त्वमध्येऽवस्थाप्यः, अ- न्यथा हि तात्त्व आवेशः त्रिंशद्धा न स्यात् । विद्या- याश्च समनन्तरोक्तेन सामान्यात्मना मान्त्रेण रूपेण दशधावेशः । विशिष्टेन तु मन्त्र-मन्त्रेश-मन्त्रमहे- शात्मना रूपेण अस्यास्तत्त्वमध्ये परिगणनम् । एवं शक्तेरपि एकं भेदं तत्त्वमध्ये व्यवस्थाप्य तदीय आ वेशो द्विधा । शिवस्तु समावेश्य एव इति न तत्रा- वेशोऽस्ति - तस्य परमाद्वयस्वभावत्वात्, तदपेक्षया समावेश्यसमावेशकलक्षणभेदानुपपत्तेः तद्युक्तमुक्त- म् 'अस्य समावेशस्य पञ्चाशद्विधत्वम्' इति ॥१६१॥ ननु श्रीपूर्वशास्त्रे रुद्रशक्तिसमावेशस्य पञ्चधात्व- चर्चनं प्रतिज्ञाय भूतादीनां स्वरूपनिरूपणं कृतम्? इत्याह । प० २ क० ख० पु० भूततत्त्वस्थितिमिति पाठः । प० १० ग० पु० तत्त्वमध्ये अवस्थापि इति पाठः ।
श्लोक १६३ ] प्रथमाह्निकम् । २२१ रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते । कोऽवकाशो भवेत्तत्र भौतावेशादिवर्णने ॥१६२॥ प्रसंगादेतदितिचे- त्समाधिः संभवन्नयम् । नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः ॥१६३॥ कोऽवकाश इति—भौतावेशादीनाम् अप्रस्तुतत्वात्, इदमेव हि तदप्रस्तुताभिधानं यदन्यदुपक्रम्य अन्य- दभिधीयते इत्यतश्चोदितं 'कोऽवकाशो भौतावेशा- दिवर्णने' इति । अथ रुद्रशक्तिसमावेशवर्णने प्रति- ज्ञातेऽपि प्रसंगादेतदुक्तम्, इति पुनस्तदप्ययुक्तम् इत्याह 'प्रसंगादेतत्' इति । निर्णीतप्राये प्रक्रान्तेऽर्थे यत्किंचिदनुषक्तत्वेन अप्रकृतम् अभिधीयते तत्रायं समाधिः 'प्रसंगादेतदुक्तम्' इति । इह तु उद्दिष्टेऽपि प्रकृते लक्षणपरीक्षादि अनुक्त्वैव भूतावेशादीनाम् पं० ११ ख० ग० पु० भौताद्यावेशवर्णने इति पाठः । पं० १२ ग० पु० प्रस्तुतेऽपि प्रसङ्गादित्युक्तम् ।
२२२ श्रीतन्त्रालोकः । आकस्मिकमेव अभिधानं कृतम् इति को नामायं प्रसंगः । एवं हि अप्राकरणिकानां प्रमेयाणामान- न्त्यात् अनन्तान्तरङ्गप्रमेयप्रतिपादनप्रसंगः स्यात् ? इत्युक्तं 'नास्माकं मानसावर्जी' इति ॥ १६२ ॥ १६३॥ यद्येवं तर्हि किं प्रतिपत्तव्यम् ? इत्याह उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता । भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥१६४॥ अत्र इति अद्वयशास्त्रे श्रीश्रीपूर्वे। सा इति विभि- न्नता । तन्निषेधे तु द्वयवर्जितत्वं हेतुः ॥१६४॥ ततश्च किं स्यात् ? इत्याशङ्क्याह यावान्षट्त्रिंशकः सोऽयं यदन्यदपि किंचन । एतावती महादेवी रुद्रशक्तिरनर्गला ॥१६५॥ अन्यत् इति-तद्भेदा एव भुवनाद्याः । अनर्गला इति-व्यापकत्वादप्रतिहता इत्यर्थः । यदुक्तं
श्लोक १६६ ] प्रथमाह्निकम् । २२३ 'तच्छक्तिचक्रात्मकमेव विश्वं ग्राह्यग्रहीतृग्रहणात्मनैतत् । अन्तादिमध्येषु सदा विभाति नान्यन्तभिन्नं भवतोऽस्ति किंचित् ॥' इति ॥१६५॥ एतच्च तत्रत्येनैव अर्थेन संवादयति तत एव द्वितीयेऽस्मि- न्नधिकारे न्यरूप्यत । धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥१६६॥ तत एव इति - रुद्रशक्तेरेव तावत्स्फाररूपत्वात् । अस्मिन् इति - श्रीपूर्वशास्त्रे । यदुक्तं तत्रैव 'शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते । स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा ॥' इत्यादि ...........'शिवः साक्षान्न भिद्यते ।' इत्यन्तम् । एतच्च तत्त्वभेदने भविष्यति, इति ग्रन्थविस्तरभयात् नेह आयस्तम् ॥१६६॥ ननु यद्येवं तर्हि रुद्रशक्तावेवं-समावेशोऽभिधीयतां किं भूताद्यावेशेन इति स एव दोषः ? इत्याशङ्कां