तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
६४ श्रीतन्त्रालोकः । ज्ञानस्य हि मोचनमेव धर्मः, किंतु संकुचितस्यासं- कुचितत्वम् ॥ ३२ ॥ एतदेव दर्शयति रागाद्यकलुषोऽस्म्यन्तः- शून्योऽहं कर्तृतोज्झितः । इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥ ३३ ॥ 'इत्थं' प्रथमार्धनिरूपितस्वरूपं 'ज्ञानं' 'तावतः' परिमिताद् बन्धात्, अर्थात् बौद्धादीन्मुञ्चति इति संबन्धः । तत्र 'रागाद्यकलुषोऽहं भवामि' इति ज्ञानं योगाचाराणाम् । यदाहुः 'रागादिकलुषं चित्तं संसारस्तद्विमुक्तता । संक्षेपात्कथितो मोक्षः प्रहीनावरणैर्जिनैः ॥' इति । तथा 'प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः । तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ॥' पं० १ क० पु० किं तु पदं नास्ति, पं० १२ ख० पु० संसारस्तद्विविक्तता इति पाठः । पं० १४ ख० ग० पु० प्रकृत्या तनवो मला इति पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६५ इति । अयमत्रार्थः - प्रकृतिप्रभास्वरस्य चित्तस्य अनाद्यविद्यावशाद्रागादिभिरागन्तुकैर्मलैरावृतत्वेन संसाराविर्भावेपि भावनाद्यात्मकमार्गानुष्ठानबलात्- त्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्त्या अविनश्वर- ज्योतीरूपस्वरूपाभिव्यक्तिर्मोक्ष इति तदयुक्तं,-भा- वना ह्यत्र भवद्भिः कारणमिष्यते, सा क्षणक्षयिणां चित्तक्षणानां विशेषमाधातुं नोत्सहते, तस्याः स्थि- रैकाश्रयगतत्वेन विशेषाधानक्षमत्वात् । तथाहि- स्थायिनस्तिलादयो भावाः स्थायिभिरेव सुमनोभि- र्वास्यन्ते, तथेयमपि स्यात्, अतश्च प्रतिक्षणमपूर्वत्वेन उपजायमानस्य निरन्वयविनाशिलङ्घनाभ्यासवत् अनासादितातिशयस्य चित्तक्षणस्य प्रभास्वरचित्त- क्षणोपजननाय भावना न प्रभवेत् इत्यनया कोऽर्थः । समलाश्च चित्तक्षणाः स्वारसिक्याः सदृशारम्भ- णशक्तेः स्वसदृशानेव चित्तक्षणानुत्पादयितुं क्षमन्ते, न विसदृशान् प्रभास्वरान् । एवं च चित्तक्षण- भङ्गुरत्वान्मलप्रहाणायैव भावना न प्रगल्भेत पं० ७ ख० पु० विशेषमभिधातुमिति पाठः । पं० १७ ख० पु० न भावना प्रगल्भते इति पाठः । ६
६६ श्रीतन्त्रालोकः । इत्याश्रयपरावृत्तेः का वार्त्ता इति कृतं क्षणिकवा- दिनां मोक्षेण । बन्धमोक्षौ च स्थिरैकादिपक्षे युज्येते, बद्धो हि मोक्षाय प्रवर्तते, प्राप्य च निवृत्तो भवति इति, सन्तानश्चैको न विद्यते, तस्य भेदा- भेदविकल्पोपहृतत्वात् । 'अन्तः' संविद्रूपतायामपि 'शून्यो ऽ हं' भवामि इति ज्ञानं माध्यमिकानाम् । ते खलु सर्वभावनैःस्वाभाव्यवादिनः संविदोऽपि नैःस्वा- भाव्यान्मिथ्यात्वमभिदधतस्तच्छून्यतायामेव मोक्ष- माचक्षीरन् । यदाहुः 'चित्तमात्रमिदं विश्वमिति यादेशना मुनेः । तत्रासपरिहारार्थं बालानां सा न तत्त्वतः ॥ सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः ।' इति, तदप्ययुक्तं,-संविदो हि मिथ्यात्वेन स्वतन्त्र- रूपापाकरणेऽपि मिथ्यात्वे सत्तैव न भवेत्, तस्याः नीलादिवत् परतन्त्ररूपत्वाभावात्, नीलादीनां हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणे ऽ पि संविदात्मत- पं० १ ग० पु० आशयपरावृत्तेरिति पाठः । पं० ४ ख० पु० संतानश्चैकेन विद्यते इति पाठः । पं० ७ ख० पु० स्वभाववादिन इति, नैःस्वभावादिति च पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६७ याऽस्त्यवस्थानं, संविदि तु स्फुरत्तामात्रसारायां मिथ्यात्वादसत्त्वमेव स्यात् इति न किंचित्स्फुरेत् इति मूर्च्छैव स्यात् इति। न च संविदः स्फुरत्तामात्र- साररूपाया अपह्नवः शक्यक्रियः इति यत्किंचिदेतत्। अथ 'सर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेषतः । सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥' इत्याद्युक्तयुक्त्या ग्राह्यग्राहकभावादिना कल्पि- तेन रूपेण शून्यं, न तु संविदापि इति चेत्, एवं ह्युच्यमाने विज्ञानवादे एवाभ्युपगमः स्यात्, सोऽपि हि कल्पितपरतन्त्रादिरूपशून्यत्वेन 'इत्यन्तःकरणस्यैव विचित्रात्मावभासिनः । अविभाविततत्त्वस्य विस्फूर्जितमिदं जगत् ॥' इत्याद्युक्तैर्विज्ञप्तिमेव परमार्थसतीमभ्युपागमत् इति पं० ३ क० पु० सूत्कैव स्यादिति, ग० पु० स्फुरत्तासाररूपाया इति च पाठः । पं० ८ क० पु० भावनादिना इति पाठः । पं० १३ क० पु० अवभासिततत्त्वस्येति पाठः । पं० १४ क० पु० परमार्थमभ्युपागमदिति पाठः । ग० पु० विज्ञप्तमेव परमार्थ- सत्त्वमभ्युपगतमिति पाठः ।
६८ श्रीतन्त्रालोकः । न नवं किंचिदायुष्मतोत्प्रेक्षितम् । तत्र चोक्तो दोषः ‘अकर्ताहं भवामि’ इति ज्ञानं सांख्यानाम् । ते हि निष्क्रियमेवात्मानमभ्युपागमन्, अन्यथा हि तस्य चैतन्यं न स्यात्-अचेतनानामेव क्षीरादीनां क्रिया- वत्त्वोपलब्धेः । अयुक्तं चैतत्,-अकर्तृत्वे हि पुरुषस्य अनिर्मोक्षः स्यात्, अकिंचित्करत्वे हि पुरुषस्योत्प- न्नेऽपि विवेकदर्शने स्वरूपेणावस्थानं न स्यात्,- प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात्, तं प्र- त्यपि पुनः संभावनायाः संभवात् । न च प्रकृतेः ‘दृष्टाहमनेन’ इति ‘न पुनरेतदर्थमहं प्रवर्ते’ इत्य- नुसन्धानमस्त्याचैतन्यादस्याः - प्रेक्षाकारित्वाभा- वात् । एवं चेयं कृतेऽपि शब्दाद्युपलम्भे यथा पुनस्तदर्थं प्रवर्त्तते, तथा कृतायामपि विवेकख्यातौ पुनरपि तदर्थं प्रवर्त्तिष्यते,-स्वभावस्यानपेतत्वात् । एवमपि कृतमकृतं न भवति - इति संकुचितमपि पं० १ क० पु० चोक्तदोष इति समस्तः पाठः । पं० ६ क० पु० उत्पन्नेऽपि प्रकृतिपुरुषविवेकेति पाठः । पं० १२ क० पु० अकृतं भवति इति पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६९ ज्ञानं बौद्धादीनां निजोचितार्थक्रियां विदध्यात् । तथाहि बौद्धाः 'एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः॥' इत्याद्युक्तयुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रति- पन्नाः इति बुद्धितत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं 'ब्रह्मा तत्राधिपत्वेन बुद्धितत्त्वे व्यवस्थितः । सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम् ॥' इति । अत एवैषां बुद्धितत्त्वाधोवर्तिनः संसारस्य शान्तिः । एवं च 'ज्ञानं मुञ्चति तावतः' इति युक्तमुक्तम् । सांख्याश्च सुखदुःखाद्यात्मकप्रकृतिपृथ- ग्भावेन पुंस एव स्वरूपेणावस्थानं तत्त्वं प्रतिपन्नाः इति पुंस्तत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं 'पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम्।' इति । नैरात्म्यदृष्टेश्चात्मदृष्टिर्विशिष्यते, इति सां- ख्यानां बौद्धेभ्यः पूर्णप्रथात्मकं ज्ञानम् इत्येषां बुद्धि- तत्त्वोर्ध्ववर्तिपुंस्तत्त्वप्राप्तिः । एवं च पूर्णप्रथात्मकमु- पं० ५ क० पु० प्राप्तिरेषां इति पाठः । पं० ६ ख० पु० ब्रह्मैवात्राधिपत्येनेति पाठः ।
७० श्रीतन्त्रालोकः । त्रोत्तरं ज्ञानम्, इत्यादिः पूर्वसूत्रप्रतिज्ञातोऽर्थो निर्वाहितः । एवं सांख्यपातञ्जलयोः प्रकृतिपृथग्भा- वेन पुंज्ञानस्य साम्येऽपि सांख्येभ्यः पातञ्जलानामी- श्वरप्रणिधानात् तद्विशिष्यते, इति तेषां पुंस्तत्त्वो- र्ध्ववर्तिनियतितत्त्वप्राप्तिरुक्ता । ‘षड्विंशकं तु देवेशि योगशास्त्रे परं पदम् ।’ इति । एवं च मौसुलपाशुपतादीनामपि यथायथं ज्ञानातिशयादूर्ध्वोर्ध्वतत्त्वावाप्तिः परं पदम् इति । तदुक्तं ‘मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ।’ इति । तथा ‘व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ।’ इति । तत्रैवं बौद्धादीनां मायीयादेव मलादंशां- शिकया, मौसुलानां कार्मादपि, पाशुपतानाम् अनात्मनि आत्माभिमानात् आणवादपि मलान्मो- चकं ज्ञानम् इत्युक्तं ‘समासव्यासाभ्याम्’ इति ३३॥ पं० ४ क० पु० प्रणिधानाद्विशिष्यते इति पाठः । पं० ६ क० पु० षड्विंशकं महादेवीति पाठः । पं० १५ ख० पु० आत्मताभिमानादिति पाठः ।
श्लोकः ३४ ] प्रथमाह्निकम् । ७१ ननु स्वदर्शनौचित्येन एवं बन्धविगलनेऽपि किमिति नासौ मुक्तः इत्याशंक्याह तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः । अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ ३४ ॥ ‘......अध्वा बन्धस्य कारणम् ।’ इत्युक्तेः अध्वा तावद्वन्धकः । तत्र बौद्धादयो बुद्धि- तत्त्वान्तबन्धविगलनात् तन्मुक्ता अपि तदूर्ध्ववर्त्य- ध्वान्तरावच्छेदस्थितेरमुक्ता एव, अत एवैषां पुनरपि सर्गारम्भे सृज्यमानत्वात् संसाराविर्भावो,– बन्धकारणस्य निःशेषेणाप्रक्षयात् । यद्वक्ष्यति ‘सांख्यवेदादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे । सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥’ इति । श्रीस्वच्छन्दशास्त्रेऽपि पं० ६ ख० पु० इत्याद्युक्तेरिहाध्वा तावदिति पाठः । पं० ७ ख० पु० तत्त्वान्तर्बन्धविगलनात् इति पाठः । क० पु० विगलनान्मुक्ता इति पाठः । पं० ८ ख० पु० अवच्छेदावस्थितेरिति पाठः । पं० १० ख० पु० निःशेषेणाक्रमात् इति प्रथमपाठः संदृश्यते । पं० १२ क० पु० पुनस्तस्मादिति, ख० पु० न सङ्घन्मुक्तिरिति पाठः ।
७२ श्रीतन्त्रालोकः 'लौकिकानां पुनः सृष्टिः पुनः संहार एव च । संसारचक्रमारूढा भवन्ति घटयन्त्रवत् ॥' इत्यादि सामान्येनाभिधाय 'मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः । बन्धः संसारतो भूयो यावद्देवं न विन्दति ॥' इति बौद्धाद्यवान्तरदर्शनमुक्तोपलक्षणपरतया विशे- षेणोक्तम् । यः पुनर्निःशेषप्रक्षीणसर्वाध्वबन्धः स एव साक्षान्मुक्तः इत्याह 'मुक्तस्तु सर्वाविच्छेद- वर्जितः' इति । यदुक्तं 'सर्वाध्वनो विनिष्क्रान्तं शैवानां तु परं पदम् ।' इति । तथा 'शैवः सिद्धो भाति मूर्ध्नातिरेषां मुक्तः सृष्टौ पुनरभ्येति नाथः ।' इति ॥ ३४ ॥ अत्र चैवं-विधमेव पूर्णं ज्ञानं निमित्तम् इत्याह यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् । अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥३५॥ पं० १ क० पु० पुनः संसार इति पाठः । पं० ५ ख० पु० यावद्देहं न विन्दति इति पाठः । पं० ६ क० पु० बद्धयातयेति पाठः ।
श्लोकः ३८ ] प्रथमाह्निकम् । ७३ 'अवच्छेदैः' संकोचाधायिभिरिदन्तापरामर्शैः 'सर्वा- त्मना' सर्वप्रकारं वासनामात्रेणापि यत् 'उज्झितं' पराहन्तापरामर्शसारमित्यर्थः । अत एव च पूर्णा- प्रथात्मकत्वात् 'न तत् कुत्राप्यज्ञानम्' अतश्च 'सत्यां' मुक्त्याभासविलक्षणां 'मुक्तिं' ददाति, अहंपरामर्श- सारप्रमात्रैकात्म्येन स्फुरति इत्यर्थः ॥ ३५ ॥ इदानीमुद्दिष्टयोर्ज्ञानाज्ञानयोरेव स्वरूपं विभजति ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः । द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥३६॥ 'शिवशासने' इति पञ्चस्रोतो Maxime:रूपे पारमेश्वरदर्शने इत्यर्थः । एतद्धि सर्वत्रैवाविशेषेणोक्तम् ॥ ३६ ॥ तदेव लक्षयति तत्र पुंसो यद
७४ श्रीतन्त्रालोकः । अथ-शब्द आनन्तर्ये, उद्देशानन्तरं हि लक्षणपरी- क्षयोरवसरः इत्याशयः। 'तत्र' द्विविधयोर्ज्ञानाज्ञान- योर्मध्यात् '.........पुंसः प्रादुर्भवत्परम्।' इत्यस्यात्मनोऽपि यत्समनन्तरोक्तस्वरूपं मला- ख्यमनन्यसाधारणानवच्छिन्नज्ञानक्रियायोगि पर- प्रमातृरूपाच्छिवादेव जातमुद्भूतमित्यर्थः । परमे- श्वर एव हि स्वस्वातान्त्र्यात्पूर्णज्ञत्वकर्तृत्वाद्यपह- स्तनेन अख्यात्यात्मकाणवमलाविर्भावेन स्वात्मान- मावृणुयात् । तदुक्तं 'परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य । देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥ ( प० सा० १५ का० ) मायापरिग्रहवशाद्- बोधो मलिनः पुमान्पशुर्भवति ।' ( प० सा० १६ का० ) इति । वक्ष्यति च ७ नाममात्रेण वस्तुसंकीर्तनमुद्देशः, सजातीयविजातीयासाधारणनिरूपकं कारणं लक्षणम्, युक्त्ययुक्तिविवेकः परीक्षा इति ।
श्लोकः ३८ ] प्रथमाह्निकम् । ७५ ‘तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम्।’ इति। तदेव पशोराणवादिमलत्रययोगिनोऽपि तस्य मातुर्देशकालाद्यवच्छिन्नत्वान्नियतदृक्क्रियास्वाभासा- लोचनात्मकं ज्ञानम् । परमेश्वर एव हि सर्वज्ञताद्यप- हस्तनेन अणुतां प्रापितस्य स्वात्मनः पुनरपि कला- दियोगं कृतवान्, येनास्य नियतं ज्ञत्व-कर्तृत्वाद्य- भियुक्तं । तदुक्तं ‘असूत सा कलातत्त्वं यद्योगादभवत्पुमान् । जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत् ॥ विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे । रागोऽपि रञ्जयत्येनं स्वभोगेष्वशुचिष्वपि ॥ नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् । कालोऽपि कलयत्येनं त्रुट्यादिभिरवस्थितः ॥’ इति। ज्ञानस्वरूपस्य प्रथममुद्देशेऽपि अवश्योच्छेद्यत्व- प्रतिपादनार्थमादावज्ञानस्वरूपं निरूपितम् ॥ ननु पुंसो बुद्धिवृत्त्यात्मकं ज्ञानं निर्विकल्पकम् पं० ८ क० पु० अभवत्पुन इति पाठः । पं० ६ ख० पु० ज्ञातकर्तृत्वेति पाठः । पं० १० ख० पु० विवेदयत्यस्येति पाठः । पं० १४ क० पु० अवच्छेद्यत्वेति पाठः ।
७६ श्रीतन्त्रालोकः । इत्युच्यते, तत् कथमेतत् बुद्ध्यंशोपनिपाति न स्यात् इत्याशंक्याह तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः ३८॥ एवमपि हि बुद्धेः 'अध्यवसायो बुद्धिः' इत्याद्युक्तेरध्यवसाय एव मुख्यं रूपं, कथमस्य एतदभावे तद्धर्मत्वं स्यात् ॥ ३८ ॥ अत एवाह अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी । षट्कञ्चुकाबिलागूत्थप्रतिबिम्बनतो यदा ॥३६॥ धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् । बौद्धं तस्य च तत्पौंसं पोषणीयं च पोष्टृ च ४०॥ अस्याश्चैवमध्यवसाययोगित्वे हेतुः 'षट्कञ्चुक' इति । षट्कञ्चुकैः 'कालकलानियतिबलाद्रागाविद्यावशेन संबद्धः ।
पं० ३ ख० पु० बुद्ध्यंशो व्यवसायेति पाठः । पं० ११ ख० पु० धीर्जायेतेति पाठः । पं० १५ क० पु० सम्बन्ध इति पाठः ।
श्लोकः ४० ] प्रथमाह्निकम् । ७७ अधुनैव किंचिदेवेदमैव सर्वात्मनैव जानामि । मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥' ( प० सा० १६ उ० १७ ) इत्यादिना निरूपितस्वरूपैः 'आबिलः' प्रतिनियत- ज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो योऽसौ 'अणुः' परि- मितात्मा, ततो जातात् 'प्रतिबिम्बनात्' 'चिच्छायासं- क्रमणात् इत्यर्थः । एवं ह्यस्याः पुंबोधव्यक्तिभूमित्वा- देवंस्वभावो भवेत् इति भावः । 'तादृक्' इति एव- मव्यवसायरूपम् । अनयोश्च परस्परं कार्यकारणभावं दर्शयितुमाह 'तस्य' इत्यादि, 'तस्य' इति बौद्धस्य, 'पौस्नं' पुंसि भवं पौरुषम् इत्यर्थः । 'पोषणीयं ' कार्यम् इत्यर्थः । कामशोकाद्यावेशभाजो हि तन्मय- तानुसंधानादिना तत्तदर्थसाक्षात्कारात्मकमविकल्पकं ज्ञानमुदियात् । यदाहुः 'कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥' इति । 'पोष्टृ' इति कारणम् । स्वप्नादावपि अनुभव पं० १६ क० पु० पुरतोऽवस्थितानि वेति पाठः ।
७८ श्रीतन्त्रालोकः । एव हि प्राच्यो निमित्तं, नहि नारिकेलद्वीपवासिनो वह्निविकल्पादाविच्छापि भवेत् ॥ ३६ ॥ ४० ॥ एवमज्ञानं निरूप्य, ज्ञानमपि द्विविधं निरूपयितु- माह क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरास्थितेः । विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥४१॥ विकस्वराविकल्पात्मज्ञानौचित्येन यावसा । तद्बौद्धं यस्य तत्पौरुसं प्राग्वत्पोष्यं च पोष्टृ च ॥ ४२ ॥ पशोराणवस्यापि वासनामात्रक्षयाभिधानात् 'नि- मित्ताभावे नैमित्तिकस्याप्यभावः' इति न्यायेन कार्म- मायीयोरपि प्रक्षयान्निवृत्त निखिलबन्धस्य 'पुंसः' अत एव प्राप्तपरमचिदैकात्म्यस्य 'विकस्वरं' पराहन्ता- विमर्शात्मकं 'निर्विकल्पकं' कृत्रिमाहंकारादिविकल्प- पं० ५ ख० पु० प्राप्तपुरस्थितिरिति पाठः । पं० १० क० पु० पशोरावरकस्यापि इति पाठः । पं० १३ ख० पु० प्राप्तपरसंविदैकात्म्यस्य इति पाठः ।
श्लोकः ४३ ] प्रथमाह्निकम् । ७९ विलक्षणं ज्ञानं पौरुषं भवति इति वाक्यार्थः । 'औचित्येन' इति तद्द्रूपूर्णेनात्मना इत्यर्थः । अतश्च 'सर्वो ममायं विभवः' इत्येवंरूपत्वमस्याः । 'यस्य' इति बौद्धज्ञानस्य । 'प्राग्वत्' इति यथैवाज्ञानयोः परस्परं पोष्यपोषकभावस्तथैव इत्यर्थः । तथैव पूर्णा- पूर्णात्वेन पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञाना- ज्ञानयोः स्वरूपमेवाभिहितं न स्यात् ॥ ४१ ॥ ४२ ॥ नन्वेवंविधमज्ञानं तावदनाद्येवावस्थितम् इति नास्ति विवादः, एतद्भावात्मकं ज्ञानं पुनः कदा समुदियात्, एतद्भावे च किं निमित्तम् ? इत्याश- ङ्क्याह तत्र दीक्षादिना पौंसमज्ञानं ध्वंसि यद्यपि । तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥ ४३ ॥ यद्यप्युक्तस्वरूपं 'पौंसमज्ञानं' पं० ३ क० पु० सर्वोऽयं मम विभव इत्येवंरूपः पाठः । पं० १३ क० पु० तथापि तु शरीरान्ते इति पाठः ।
८० श्रीतन्त्रालोकः । 'दीयते ज्ञानसद्भावः क्षीयन्ते पशुवासनाः । दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ।।' इत्याद्युक्तस्वरूपया दीक्षया नश्यत्येव 'तथापि' 'तत्' अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि '..................प्रारब्धेकं न शोधयेत् ।' इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात् 'तस्य' वर्तमानशरीरस्य 'अन्ते स्फुटं व्यज्यते' '..................देहपाते शिवं व्रजेत् ।' इत्याद्युक्त्या साक्षात्कारात्म स्फुरति इत्यर्थः । आदिशब्दाच्च शेषवृत्त्या ग्रहणं, न तु तीव्रतरशक्ति- पातादेः, तद्धि दीक्षायां निमित्तम् इति तद्दहनेनै- वास्य ग्रहः सिद्धः, न चास्मिन्दीक्षातोऽन्यत्किंचि- न्मुक्तौ निमित्तम् । तदुक्तं 'तस्मात्प्रवितताद्बन्धात्परस्थानविरोधकात् । दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ।।' पं० ५ क० पु० प्रारब्धं केन शोधयेदिति पाठः । पं० १० ख० पु० तीव्रतमशक्तिपातादेव इति पाठः । पं० ११ ख० ग० पु० तद्दहनेनैवास्य ग्रह इति, न चान्यस्मिन्दीक्षेति च पाठः ।
श्लोक ४४] प्रथमाह्निकम् । ८१ इति । तीव्रतमशक्तिपातादौ पुनरनुपायादिक्रमेण दीक्षा भवेत्, येनास्य तत्कालमेवापवर्गः । तदुक्तं 'तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ।' इति दीक्षानिरपेक्षमेव पुनरेतत् मुक्तौ निमित्तम् इति न संभाव्यम्, एवं श्रुतिविरोधः स्यात् । 'तस्य दीक्षां विनैवात्मसंस्कारपरिणामतः । सम्यग्ज्ञानं भवेत्सर्वशास्त्रेषु परिनिष्ठितम् ॥' इत्यादौ पुनर्बाह्यक्रियादीक्षाभिप्रायेण तन्निषेधो विवक्षितः, अन्यथा ह्यत्रात्मसंस्कारशब्दार्थ एव कथं संगच्छताम् इत्यलं बहुना ॥ ४३ ॥ ननु यद्येवं दीक्षया देहान्त एव मुक्तिर्भवेत्, तत्कथं 'जीवन्नेव विमुक्तोऽसौ' इत्याद्युक्तम् इत्या- शङ्क्याह बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् । विलीयते तदा जीवन्- मुक्तिः करतले स्थिता ॥ ४४ ॥ पं० ३ क० पु० तत्क्षणादपव्यज्यत इति पाठः । पं० ६ ख० पु० संस्कारपरिपाकत इति पाठः । पं० ८ क० पु० पुनर्वाक्यक्रियेति ख० पु० पुनर्वाक्ये क्रिया इत्यादिरूपः पाठः । ११
८२ श्रीतन्त्रालोकः । 'बौद्धज्ञानेन' इति परमेश्वराद्वयशास्त्रश्रवणाद्यु- द्भूतेन । तदुक्तं 'गुरुणैव यदा काले संप्रदायो निरूपितः । तदाप्रभृति मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् ॥' इति । एतच्च दीक्षिताधिकारेणैव ज्ञेयम्, नहि अकृतदीक्षस्य शास्त्रश्रवणेऽप्यधिकारः इति कुतस्त- दवबोधनिमित्तकोऽपि तज्ज्ञानाविर्भावः स्यात् । तदुक्तं 'अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् ।' इति । न च अप्रध्वस्तपौरुषाज्ञानस्य अनेन किंचि- द्भवति इत्युक्तप्रायम्, अन्यथा हि प्रेक्षावतां दीक्षायां प्रवृत्तिरेव न स्यात्-साध्यस्यार्थस्य अत एव स्रष्टुरभावात्, अत एव दीक्षायां शिथिला- स्थत्वं न वाच्यं, तस्या एव मुक्तिं प्रति मूलकारण- त्वात् । एवं दीक्षादिना पौंस्नं ज्ञानमभिव्यक्त्युन्मु- खमपि न तदैव मुक्तिप्रदं - देहान्ते तदभिव्यक्तेरुक्त- त्वात्, इदं पुनस्तदैव इति ततोऽस्य प्राधान्यमपि कटाक्षितम् ॥ ४४ ॥ पं० ५ क० पु० दीक्षाधिकारेणैवेति पाठः ।
श्लोक ४५ ] प्रथमाह्निकम् । ८३ न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं याव- दन्यदपि इत्याह दीक्षापि बौद्धविज्ञान- पूर्वा सत्यं विमोचिका । तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥४५॥ इह ‘सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः ।’ इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायाम् अधिकारः, अत एव तस्य ‘शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् ।’ इति लक्षणं प्राधान्येनोक्तं, अन्यथा पुनः ‘शास्त्रहीने न सिद्धिः स्याद्दीक्षायां वीरवन्दिते ।’ इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्, तेन इति दीक्षायां बौद्धस्य ज्ञानस्य कारणत्वात्, नहि तेन विना तस्या निष्पत्तिरेव स्यात् ॥ ४५ ॥ न चैतदस्मदुपज्ञमेव इत्याह पं० ३ ग० पु० दीक्षापि चात्र विज्ञानपूर्वा सद्योविमोचिकेति पाठः । पं० ६ क० पु० शास्त्रस्यैव गुरोरिति, दीक्षायामेवेति एव शब्दाधिकश्च पाठः ।