भारतकोश
संग्रह पर लौटें

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

( ४० ) वेदान्तसार । तन्मात्राण्यपंचीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥४०॥ (सं०टी०) नन्वाकाशादिप्रपंचोत्पादकचैतन्यावच्छेदका- ज्ञाने कुतः तमःप्राधान्यमित्याशंक्याह । तेष्विति । कारण- गुणा हि कार्यगुणानारभंत इति न्यायादिति भावः।ननु त्रिगुणा- त्मकत्वादज्ञानस्य कथं तमोगुणमात्रप्राधान्येनाकाशादिजनक- त्वमित्याशंक्याह।तदानीमिति।तदानीमुत्पत्तिवेलायां सत्वादयः त्रयोपि गुणाः तारतम्येन कारणप्रक्रमन्यायेन तेष्वाकाशादिषु पंचभूतेषूत्तरोत्तराधिक्येन जायंते इत्यर्थः । इमान्येव सूक्ष्म- शरीरादिकारणभूतान्यपंचीकृतानि सूक्ष्मरूपतन्मात्राणीत्युच्यं त इत्याह।एतान्येवेति। “पंचप्राणमनोबुद्धिदशेन्द्रियसन्वितम् अपंचीकृतभूतोत्थंसूक्ष्मांगं भोगसाधनम्”इति वचनादप्यपंची- कृतभूतेभ्यो पंचीकृतसूक्ष्मशरीराणि पंचीकृतस्थूलभूतानि चो- त्पद्यंत इत्याह । एतेभ्य इति ॥ ४० ॥ ( भा०टी० ) उन उत्पन्न आकाशादिमें जड़ताका आ- धिक्य होनेसे उनका कारण तमोगुण प्रधान मालूम होता है उन आकाशादिकी उत्पत्तिके अनन्तर उनके कारण गुणोंके तारतम्यके अनुसार सत्त्वगुण रजोगुण और तमोगुण इनकी उत्पत्ति होती है। एवं पूर्वोक्त अवस्थाको प्राप्त हुए आका- शादिक सूक्ष्मभूत, महाभूत, पश्चतन्मात्रा और अपञ्चीकृत कहे जाते हैं इन्हीं सूक्ष्मभूतसे सूक्ष्मशरीर और स्थूलशरीर- उत्पन्न होते हैं ॥ ४० ॥

संस्कृतटीका-भाषाटीकासमेत । ( ४१ ) सूक्ष्मशरीराणि सप्तदशावयवानि लिंग- शरीराणि। अवयवास्तु ज्ञानेन्द्रियपंचकं- बुद्धिमन्सी कर्मेन्द्रियपंचकं वायुपंचकं- चेति। ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्या- नि। एतान्याकाशादीनांसात्विकांशेभ्यो व्यस्तेभ्यः पृथक्क्रमेणोत्पद्यन्ते। बुद्धिर्नाम निश्चयात्मिकान्तः करणवृत्तिः। मनो नाम संकल्पविकल्पात्मिकान्तः करणवृत्तिः ॥ ४१ ॥ ( सं० टी० ) सूक्ष्मशरीरस्वरूपभूतानवयवानाह। अवय वास्त्विति । ज्ञानेंद्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वघ्राणाख्यानि। सात्विकांशादाकाशाच्छ्रोत्रमुत्पद्यते। सात्विकांशाद्वायोःत्वगिं द्रियम्। सात्विकांशात्तेजसः चक्षुः। सात्विकांशाज्जलाज्जिह्वा। सा त्विकांशायाः पृथिव्याः सकाशात् घ्राणेंद्रियं चेति। क्रमेणोत्प- द्यंत इत्याह। एतानीति । बुद्धेर्लक्षणमाह। बुद्धिरिति। ब्रह्मैवाह- मिति निश्चयात्मिकैवान्तःकरणवृत्तिरेव बुद्धिरित्यर्थः । मनसो लक्षणमाह । मनोनामेति । अहं चिद्रूपो देहो वेति संशया- त्मिकान्तःकरणवृत्तिरेव मन इत्यर्थः ॥ ४१ ॥ ( भा० टी० ) सूक्ष्मशरीर दिखलाते हैं । सप्तदश १७ अवयवयुक्त लिङ्गशरीरको सूक्ष्मशरीर कहते हैं। पञ्च ज्ञाने- न्द्रिय पञ्च कर्म्मेन्द्रिय पञ्चवायु मन और बुद्धि यह सप्तदश- १७ अवयव कहलाते हैं नेत्र कर्ण नासिका जिह्वा और त्वचा यह पांच अवयवही पञ्चज्ञानेन्द्रिय कहाते हैं यह ज्ञा-

( ४२ ) वेदान्तसार । नेन्द्रिय आकाशादिके सात्विक अंशसे उत्पन्न होती हैं। तेज- के सात्विक अंशसे नेत्र अकाशके सात्विक अंशसे कर्ण पृ- थ्वकि सात्विक अंशसे नासिका जलके सात्विक अंशसे जि- ह्वा वायुके सात्विक अंशसे त्वचा उत्पन्न होते हैं। निश्चया- त्मक अन्तःकरणकी वृत्तिका नाम बुद्धि है। संकल्पविकल्पा- त्मक अन्तःकरणकी वृत्तिका नाम मन है ॥ ४१ ॥ अनयोरेव चित्ताहंकारयोरन्तर्भावः । अनुसन्धाना- त्मिकान्तःकरणवृत्तिश्चित्तम् । अभिमानात्मिका- न्तःकरणवृत्तिरहंकारः । एते पुनराकाशादिगतसा- त्विकांशेभ्योमिलितेभ्य उत्पद्येते। एतेषां प्रकाशा- त्मकत्वात्सात्विकांशकार्य्यत्वम् ॥ ४२ ॥ (सं०टी०) स्मरणात्मकचित्तस्य गर्वात्मकाहंकारस्य च बुद्धिमन्सोरंतर्भाव इत्याह । अनयोरेवेति । यद्यप्यंतःक- रणत्वेन चतुर्णामेकत्वं तथाप्येकस्यैव पुरुषस्य पाचकः पा- ठक इत्यादिवृत्तिभेदाद्भेदेवदेकस्याप्यंतःकरणस्य निश्चयसंशय स्मरणाहंकारविषयभेदैर्बुद्ध्यादिभेदइत्यर्थः । बुद्ध्यादीनामुत्प- त्तिप्रकारं दर्शयति । एते पुनरिति । एतेषां चतुर्णां सात्विकां- शेभ्यो भूतेभ्य उत्पत्तौ निमित्तमाह। एतेषामिति । बुद्ध्यादीनां प्रकाशात्मकत्वात्सात्विकांशभूतकार्यत्वमित्यर्थः ॥ ४२ ॥ (भा०टी०) चित्त और अहंकार यह दोनों बुद्धि और मनके अन्तर्गत दो प्रकारकी वृत्ति हैं। अनुसन्धानात्मक अ- न्तःकरणकी वृत्तिका नाम चित्त है। और अभिमानसहित जो

संस्कृतटीका-भाषाटीकासमेत । ( ४३ ) चित्तकी वृत्ति है उसका नाम अहंकार है । बुद्धि और मन यह दोनों मिलकर आकाशादि पञ्चभूतके सात्विक अंशसे उ- त्पन्न होते हैं । पञ्चज्ञानेन्द्रिय बुद्धि और मन यह सब स्व- प्रकाशक स्वभाव हैं।इसी कारण इनका पञ्चभूतके सात्विक अंशसे उत्पन्न होना अनुमान किया जाता है ॥ ४२ ॥ इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता सती विज्ञान- मयकोशोभवति। अयं कर्तृत्वभोक्तृत्वाभि- मानित्वेन इहलोकपरलोकगामी व्याव- हारिको जीव इत्युच्यते ॥ ४३ ॥ (सं०टी० ) बुद्धेर्विज्ञानमयकोशत्वं दर्शयति। इयमि- ति। बुद्धेः सत्वकार्यत्वाज्ज्ञानेन्द्रियसाहित्येन प्रकाशाधिक्या- द्विज्ञानमयत्वं आत्माच्छादकत्वाच्च कोशत्वमित्यर्थः।विशुद्ध- बुद्धिप्रतिबिंबितचिदात्मनो जीवत्वं दर्शयति। अयमिति।त- प्तायःपिंडवद्बुद्ध्यारोपितं चैतन्यं वस्तुतोऽकर्तृभोक्तृनित्यानंदा- परिच्छिन्नमक्रियमपि भोक्तृत्वकर्तृत्वसुखित्वदुःखित्वपरि- च्छिन्नत्वक्रियावत्त्वाद्यभिमानेन स्वर्गादिलोकांतरगामित्वं व्यावहारिकजीवत्वं च लभत इत्यर्थः ॥ ४३ ॥ (भा०टी० ) सम्पूर्ण ज्ञानेन्द्रियोंके सहित मिलकर बु- द्धिको विज्ञानमयकोष कहते हैं। यही विज्ञानमयकोष मैं कर्त्ताहूँ मैं भोक्ता हूँ मैं सुखी हूँ मैं दुःखी हूँ इत्यादि अभि- मानयुक्त इसलोकमें रहनेवाला और परलोकमें जानेवाला,इ- सप्रकार व्यवहारसे इसको जीवकहते हैं ॥ ४३ ॥

( ४४ ) वेदान्तसार । मनस्तु कर्म्मेन्द्रियैः सहितं सन्मनोमयकोशो भवति । कर्म्मेन्द्रियाणि वाक्पाणिपादपायूप स्थानि । एतानि पुनराकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक्क्रमेणोत्पद्यन्ते ॥ ४४ ॥ ( सं०टी० ) मनोमयकोशत्वं निरूपयति।मनास्त्विति। सत्वगुणप्रधानं मनःसत्त्वगुणांशेभ्यो जातेः श्रोत्रादिज्ञानेंद्रियै- रेव सहितं सन्मनोमयकोश इत्यर्थः।अत्र तु मनसः सत्त्वोप- हितरजोविकारेच्छारूपत्वात्संकल्पविकल्पात्मकत्वेन बुद्ध्य- पेक्षया जाड्याधिक्यात् मनोमयत्वं आत्माच्छादकत्वा- त्कोशत्वमिति भावः । कर्मेंद्रियाण्युपदिशति।कर्मेंद्रियाणीति- एतेषामुत्पत्तौ साधनापेक्षायामाह।एतानि पुनरिति।भूतानां त्रि- गुणत्वेपि रजोगुणबहुलेभ्यो व्यस्तभूतेभ्यो वागादीनि पृथक्- पृथक् क्रमेणोत्पद्यंते।भूतानां त्रिगुणत्वेपि रजोगुणप्रधानादाका- शात् वागिन्द्रियमुत्पद्यते रजोगुणप्रधानाद्वायोः पाणींद्रियं र- जोगुणप्रधानादग्नेः पादेंद्रियं रजोगुणप्रधानाज्जलात् शिश्नेन्द्रि- यं रजोगुणप्रधानायाः पृथिव्याः पाय्विंद्रियमुत्पद्यत इत्यर्थः । ( भा०टी० ) पाँच कर्म्मेन्द्रियोंके सहितमिलकर मनो- मयकोष कहाता है वाक् पाणि पाद पायु और उपस्थ इन पाँच अवयवोंका नाम कर्म्मेन्द्रिय है यही पांच कर्म्मेन्द्रिय आकाशादि पञ्चमहाभूतोंके राजस अंशसे उत्पन्न होती हैं । आकाशके रजोभागसे वाक्य वायुके रजोभागसे पाणि जलके रजोभागसे पाद तेजके रजोभागसे पायु पृथ्वीके रजोभागसे उपस्थ उत्पन्न होते हैं ॥ ४४ ॥

संस्कृतटीका-भाषाटीकासमेत । ( ४५ ) वायवः प्राणापानव्यानोदानसमानाः । प्राणो नाम प्राग्गमनवान् नासाग्रस्थानवर्त्ती । अपानो नाम अवाग्गमनवान् पाय्वादिस्थानवर्त्ती। व्यानो नाम विष्वग्गमनवानखिलशरीरवर्त्ती । उदानः कण्ठ- स्थानीयः ऊर्द्धगमनवानुत्क्रमणवायुः।समान शरी- रमध्यगताशितपीतान्नादिसमीकरणकरः । समी- करणन्तु-परिपाककरणं-रसरुधिरशुक्रपुरीषादि- करणम् ॥ ४५ ॥ ( सं०टी० ) वायूनुद्दिशति । वायव इति । यथोद्देशं प्रा- णमाह । प्राणोनामेति । ऊर्द्धगमनशीलो नासाग्रस्थायी वा- युः प्राण इत्यर्थः । अपानस्य लक्षणमाह।अपानो नामेति । अ- धोगमनशीलःपाय्वादिस्थायी वायुरपान इत्यर्थः।व्यानस्य ल- क्षणमाह । व्यानो नामेति । सर्वनाडीगमनशीलोखिलशरीर- स्थायी वायुर्व्यान इत्यर्थः । उदानस्य लक्षणमाह । उदानोना- मेति ऊर्ध्वमुत्क्रमणशीलःकंठस्थायी वायुरुदान इत्यर्थः । स- मानस्य लक्षणमाह । समानोनामेति । शरीरमध्यगतोन्नरसा- दिनेता वायुः समान इत्यर्थः । प्राणादीनां वायुत्वेन रूपेणै- कत्वेपि क्रियाभेदेन भेद इत्यर्थः ॥ ४५ ॥ ( भा०टी० ) प्राण,अपान, व्यान, उदान, और समान इनको पञ्च वायु कहते हैं । ऊपरको चलनेवाला नासिकाके अग्रभागमें रहनेवाले वायुका नाम प्राणवायु है । नीचेको च- लनेवाला गुदास्थानमें रहनेवाले वायुको अपानवायु कहते हैं।

( ४६ ) वेदान्तसार । सब नाडियोंमें चलनेवाला सब शरीरमें रहनेवाले वायुको व्यान कहते हैं । ऊपरको चलनेवाला कण्ठस्थानमें रहनेवाले वायुको उदान कहते हैं । और भोजन कियेहुए अन्नके और पान कियेहुये जलादिके समीकरण करनेवाले वायुको समान वायु कहते हैं । परिपाक क्रियाद्वारा भोजनकरी हुई वस्तुका रुधिर वीर्य्य और पुरीषादि करनेका नाम समीकरण है॥ ४५॥ केचित्तु नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पं- चान्ये वायवः सन्तीत्याहुः। तत्र नागः उद्गिरणकरः। कूर्मः निमीलनादिकरः कृकलः क्षुधाकरः । देव- दत्तः जृम्भणकरः । धनञ्जयः पोषणकरः । एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः पंचैवेति केचित् । इदं प्राणादिपंचकं आकाशादिगतरजोंशेभ्यो मि- लितेभ्य उत्पद्यते ॥ ४६ ॥ (सं०टी० ) कपिलमतानुसारिणः क्रियाभेदेनान्येऽपि पंच वायवः संतीति वदंतीत्याह । केचित्त्विति । तेषामेव नामानि निर्दिशति नागेत्यादिना । नागेति । वेदांतिनस्तु ना- गादीनां प्राणादिष्वंतर्भावं वदंतीत्याह । एतेषां प्राणादिष्विति । प्राणादिवायुनामुत्पत्तौ कारणापेक्षायामाह एतदिति । अपंची- कृतपंचमहाभूतेभ्यो रजःप्रधानेभ्यः प्राणादयो जायन्त इत्यर्थः। ( भा०टी० ) सांख्यमतावलम्बी तो ऐसा कहते हैं कि नाग, कूर्म, कृकल, देवदत्त,धनञ्जय, यह और भी पाँच वायुहैं। उद्गिरण करानेवाले वायुको नाग कहते हैं । जिस वायुसे नेत्र

संस्कृतटीका-भाषाटीकासमेत । ( ४७ ) मिचजाय वह कूर्मवायु कहाता है । जिस वायुसे क्षुधा लगै उसको कृकल कहते हैं । जम्भा करानेवाले वायुको देवदत्त कहते हैं । जिस वायुसे पुष्टि होती है उसको धनञ्जय कहते हैं । परंतु वेदान्तमतके आचार्य केवल प्राणादि पाँच वायुही मानते हैं और अलग कोई वायु नहीं मानते हैं वह प्राणादि पञ्चवायुमें नागादि वायुका अन्तर्भाव मानते हैं । यह प्रा- णादि पञ्च वायु मिलेहुए आकाशादि पञ्चभूतके राजसअं- शसे उत्पन्न होते हैं ॥ ४६ ॥ इदं प्राणादिपंचकं कर्मेन्द्रियसहितं सत् प्राणमय- कोशो भवति। अस्य क्रियात्मकत्वेन रजोंशका- र्य्यत्वम्। एतेषु कोषेषुमध्ये विज्ञानमयो ज्ञानश- क्तिमान् कर्तृरूपः। मनोमयः-इच्छाशक्तिमान् क- रणरूपः।प्राणमयःक्रियाशक्तिमान् कार्य्यरूपः।यो- ग्यत्वादेवमेतेषां विभागः-इति वर्णयन्ति। एतत्- कोशत्रयं मिलितं सत् सूक्ष्मशरीरमित्युच्यते॥४७॥ (सं०टी०) एतेषां प्राणादीनां प्राणप्रचुरत्वात्प्राणमय- त्वं आत्माच्छादकत्वात्कोशत्वं च भवतीत्याह । इदमिति । प्राणादीनां रजःप्रधानभूतकार्य्यत्वे निमित्तमाह। अस्येति। प्रा- णादीनां क्रियात्मकत्वाद्रजःकार्य्यमित्यर्थः।एतेषु पंचसु कोशेषु मध्ये विज्ञानमयमनोमयप्राणमयकोशानां क्रमेण ज्ञानेच्छाक्रि याशक्तिभेदेन कर्तृकरणक्रियारूपत्वं दर्शयति।एतेष्विति।तत्र हेतुमाह । योग्यत्वादिति । इदमेव कोशत्रयं सूक्ष्मशरीरमिति व्यवह्रियत इत्याह । एतदिति ॥ ४७ ॥

( ४८ ) वेदान्तसार । ( भा०टी० ) पूर्व कहेहुए प्राणादि पञ्चवायु और कर्मे- न्द्रियोंका मिलकर प्राणमय कोश होता है गमन आगमन इ- त्यादि क्रिया प्राणादि पञ्चवायुका स्वभाव है इसी कारण यह पञ्चवायु सम्पूर्ण राजसअंशका कार्य्य मालूम होता है । पूर्व कहेहुए कोशोंके मध्यमेंज्ञानशक्तियुक्त विज्ञानमय कोश कर्त्ता है । इच्छाशक्तियुक्त मनोमयकोश करण है । क्रियाशक्ति- युक्त प्राणमय कोश कार्य्य है इसप्रकार तीनों कोशोंका वि- भाग वर्णन करते हैं । यही तीनों कोश मिलकर कोशसमष्टि- का सूक्ष्मशरीर कहलाता है ॥ ४७ ॥ अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषय- तया वनवज्जलाशयवद्वा समष्टिः।अनेक- बुद्धिविषयतया वृक्षवज्जलवद्वा व्यष्टिश्च भवति । एतत्समष्ट्युपहितं चैतन्यं सू- त्रात्मा हिरण्यगर्भः प्राण-इति चोच्यते सर्वानुस्यूतत्वात् । ज्ञानेच्छाक्रियाशक्ति- मदपंचीकृतपंचमहाभूताभिमानित्वाच्च ॥४८॥ ( सं०टी० ) अस्य समष्टित्वे हेतुमाह । अत्रापीति । एकबुद्ध्येति । चराचरप्राणिमात्रस्य यावंत्यनंतानि सूक्ष्मश- रीराणि तेषां सर्वेषां सूक्ष्मशरीराणां सूत्रात्मनाहिरण्यगर्भाख्येन स्वीयकैबुद्ध्या विषयीकृतत्वात्समष्टित्वमित्यर्थः । तत्र दृष्टांतमाह । वनवदित्यादि । अस्यैव सूक्ष्मशरीरस्य व्य- ष्टित्वं दर्शयति । अनेकेति । अनेकेषां जीवानां प्रत्येकं स्वस्व-

संस्कृतटीका-भाषाटीकासमेत । ( ४९ ) लिंगशरीरस्य स्वबुद्धिविषयत्वेनानेकबुद्धिविषयतया व्यष्टित्व मित्यर्थः। तत्र दृष्टांतमाह । वृक्षवदित्यादि । उक्तसमष्ट्यवच्छि- न्नचैतन्यस्य सूत्रात्मत्वादिसंज्ञां दर्शयति । एतदिति । तत्र हेतु- माह । सर्वत्रानुस्यूतत्वादिति। सर्वप्राणिलिंगशरीरेष्वनुस्यूतत्वा- द्विद्यमानत्वादित्यर्थः । हेत्वंतरमाह । ज्ञानेच्छेति । ज्ञानेच्छा- क्रियाशक्तिमत्कोशत्रयोपाध्यवच्छिन्नत्वादित्यर्थः ॥ ४८ ॥ ( भा०टी० ) जैसे वन और तालाब, वृक्ष और जलका समष्टि है। तिसी प्रकार समस्त सूक्ष्मशरीर एकरूपसे शरीर समष्टि है इसी प्रकार जैसे वृक्ष और जल, वन और ताला- वका व्यष्टि है । तिसीप्रकार अनेक रूपद्वारा शरीर व्यष्टि है। इसी सूक्ष्मशरीरका समष्टिरूप उपाधिसे उपहित चैतन्यको सू- त्रात्मा, हिरण्यगर्भ और प्राण कहाजाता है । इसी कारण यही चैतन्य वस्त्रमें स्थित सूत्रकी तरह सबमें परिव्याप्त तथा ज्ञान, इच्छा और क्रियाशक्तिविशिष्ट अपञ्चीकृत पञ्चभूत का अभिमानी होता है ॥ ४८ ॥ अस्यैषा समष्टिः स्थूलप्रपंचापेक्षया सूक्ष्मत्वात् सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासना- मयत्वात् स्वप्नः । अत एव स्थूलप्रपंचलयस्थान- मिति चोच्यते । एतद्व्यष्ट्युपहितं चैतन्यं तैज- सो भवति तेजोमयान्तःकरणोपहितत्वात् ॥ ४९॥ ( सं०टी० ) विज्ञानमयादिकोशत्रयस्य सूक्ष्मशरीरतां ३

( ५० ) वेदान्तसार । दर्शयति । अस्यैषेति । अस्य सूत्रात्मनो हिरण्यगर्भाख्यस्य विज्ञानमयादिकोशत्रयं शरीरं अस्य स्थूलप्रपंचापेक्षया सूक्ष्म- त्वादित्यर्थः। अस्यैव विज्ञानमयादिकोशत्रयस्य स्वप्नत्वे युक्ति- माह । जाग्रदिति । विराट्स्वरूपेणानुभूतस्थूलप्रपंचविषय- वासनामयत्वात्स्वप्नत्वमस्येत्यर्थः । यतः स्वप्नत्वं सूक्ष्मत्वं च । अत एव स्थूलप्रपंचलयस्थानमित्युच्यत इत्यर्थः । विज्ञा- नमयादिसमष्ट्युपाध्यवच्छिन्नचैतन्यस्य हिरण्यगर्भत्वं प्रति- पाद्येदानीं तद्व्यष्ट्युपलक्षितचैतन्यस्य तैजसत्वं निरूपयति । एतदिति । अत्र हेतुमाह तेजोमयेति ॥ ४९ ॥ ( भा०टी० ) हिरण्यगर्भको उपाधिस्वरूप इसी स्थूलश- रीरके समष्टि स्थूल प्रपञ्चसे सूक्ष्म होता है । इसी कारण उस को सूक्ष्मशरीर और कोशत्रय कहते हैं । तथा जाग्रत्अव- स्थाका वासनात्मक हेतु, स्वप्न, और स्थूल, प्रपञ्चका लय- स्थान कहा जाताहै । इसी स्थूलशरीरके व्यष्टिरूप उपाधिसे उपहित चैतन्यको तैजस कहते हैं । इसी कारण तेजोमय अ- न्तःकरण उसका उपाधि है ॥ ४९ ॥ अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वात् सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासना- मयत्वात्स्वप्नः । अत एव स्थूलशरीरलयस्थान- मिति चोच्यते । एतौ सूत्रात्मतैजसौ तदानीं सू- क्ष्माभिर्मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः । “प्रविविक्तभुक्तैजसः” इत्यादिश्रुतेः ॥ ५० ॥

संस्कृतटीका-भाषाटीकासमेत । ( ५१ ) ( सं०टी० ) व्यष्टिरूपं विज्ञानमयादिकोशत्रयं तैजसस्या- पि सूक्ष्मं शरीरमिति दर्शयति । अस्यापीति । सूक्ष्मशरीर- त्वे हेतुमाह । स्थूलेति । अस्यापि स्वप्नत्वेहेतुमाह । जाग्रदि- ति। विश्वचैतन्येनानुभूतस्थूलशरीरविषयवासनामयत्वात्स्वप्न- मित्यर्थः।अस्यैव सूक्ष्मशरीरस्य स्थलशरीरलयस्थानत्वे युक्ति- माह । अत एवेति । यथा पूर्वं प्राज्ञेश्वरावज्ञानवृत्तिभिः सुषु- प्त्यवस्थायामानंदमनुभवतः तथा हिरण्यगर्भतैजसावपि स्व- भावस्थायां मनोवृत्तिभिर्वासनामयान् शब्दादिविषयाननुभ- वत इति दर्शयति । एताविति । अस्मिन्नर्थे श्रुतिमुदाहरति । प्रवि- विक्तेति । प्रविविक्तं भुंक्त इति प्रविविक्तभुक् तैजसः तेजोंतः- करणं कार्यादिभावेन परिणतं तदेव स्थूलशरीरादिहीनं यस्य स तैजसः तेजोंतःकरणस्वामीत्यर्थः ॥ ५० ॥ ( भा०टी० ) पूर्वोक्त तैजसके उपाधिस्वरूप इसी व्यष्टि- भूत सूक्ष्मशरीर स्थूलशरीरकी अपेक्षा अत्यन्त सूक्ष्म है । इसी कारण उसको सूक्ष्मशरीर और कोशत्रय कहते हैं। यह सूक्ष्म शरीर वासनामय है इसको स्वप्न और स्थूलशरीरका लयस्थान कहते हैं। सुषुप्ति अवस्थामें यही हिरण्यगर्भ और तैजस दोनों सूक्ष्म, मनकी वृत्तिद्वारा सूक्ष्म विषयका अनुभव करते हैं। इस विषयमें श्रुतिका प्रमाण है कि “तैजसही सूक्ष्म वस्तुका उपभोग करता है” ॥ ५० ॥ अत्रापिसमष्टिव्यष्ट्योस्तदुपहितसूत्रात्मतैजसयो- श्च वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलव-

( ५२ ) वेदान्तसार । तद्गतप्रतिबिम्बिताकाशवच्चाभेदः।एवं सूक्ष्मशरी- रोत्पत्तिः ॥ ५१ ॥ ( सं०टी० ) इहापि विज्ञानमयादिकोशत्रयस्य समष्टिरू- पस्य तदवच्छिन्नसूत्रात्मनश्च व्यष्टिरूपविज्ञानमयादिकोशत्र- यस्य तदवच्छिन्नतैजसचैतन्यस्य च वनवृक्षादि तदवच्छिन्ना- काशादिदृष्टांतमुखेनाऽभेदं दर्शयति । अत्रापीति । समष्टि- व्यष्ट्युपाध्योर्वनवृक्षवज्जलाशयजलवच्चाभेदः उपाधिद्वयाव- च्छिन्नचैतन्ययोः सूत्रात्मतैजसयोरपि वनवृक्षावच्छिन्नाका- शवज्जलाशयजलगतप्रतिबिंबाकाशवच्चाभेद इत्यर्थः। सूक्ष्मश- रीरोत्पत्तिप्रकरणमुपसंहरति । एवमिति ॥ ५१ ॥ ( भा० टी० ) जैसे वन और वृक्ष यह परस्पर विभिन्न नहीं है जैसे वनावच्छिन्न आकाशसे वृक्षावच्छिन्न आकाश कोई विभिन्न नहीं है जैसे तालावका और जलका कोई भेद नहीं है जैसे जलगत प्रतिबिम्बित आकाशकी और जलाशय के प्रतिबिम्बित आकाशकी कोई विभिन्नता नहीं है इसी प्र- कार सूक्ष्म शरीरकी समष्टि और व्यष्टिकी तथा तदुपहित हि- रण्यगर्भ और तैजसकी परस्पर विभिन्नता नहीं है। इसीप्रकार सूक्ष्मशरीरकी उत्पत्ति है ॥ ५१ ॥ स्थूलभूतानि तु पंचीकृतानि । पंचीकरणं तु आ काशादिपंचस्वेकैकं द्विधा समं विभज्य तेषु दशसु भागेषु प्राथमिकान् पंच भागान् प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्वद्विती-

संस्कृतटीका-भाषाटीकासमेत । ( ५३ ) यार्द्धभागं परित्यज्य भागान्तेषु संयोजनम्। तदु- क्तम् “द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः॥ स्वस्वेतरद्वितीयांशैर्योजनात्पंचपंच ते” इति ५२ ( सं०टी० ) अथेदानीं स्थूलशरीरोत्पत्तिं निरूपयितुमप- क्रमते । स्थूलभूतानि त्विति । तुशब्दः पूर्वस्माद्वैषम्यं द्योत- यति । पंचीकृतानीति । अपंचीकृतसूक्ष्मभूतापेक्षया स्थूलभूता- नि पंचीकृतानीत्यर्थः । पंचीकरणमेव प्रतिपादयितुं प्रतिजानी- ते। पंचीकरणं त्विति। पंचीकरणप्रकारमेवाह। आकाशादीति। अयमर्थः । सृष्टिकाले सकलप्राण्यदृष्टवशादीश्वरप्रेरणयाका- शवायुतेजोबन्नान्यनाद्यविद्यासहायभूतात्परमात्मनः सकाशा- दनुक्रमजातानि तान्यपंचीकृतानि सूक्ष्माणि व्यवहारासमर्था- नीति कृत्वा तदीयस्थौल्यापेक्षायां व्यवहर्तृप्राणिजातधर्मा- धर्मापेक्षयैव तान्येव भूतानि पंचीकृतानि भवंति तानिच प्रत्येकं द्वैविध्यमापद्यंते तेष्वाकाशादिषु दशसु भागेषु प्राथमिका- न्पंचभागान्प्रत्येकं चतुर्धा समं विभज्य स्वार्धभागपरित्यागेन चतुर्णां प्रत्यकं भागांतरेषु संनिवेशेन पंचीकृतानि स्थूलानि भवतीति । अस्मिन्नर्थे वृद्धसंमतिमाह । द्विधेति ॥ ५२ ॥ ( भा०टी० ) इकट्ठेहुए आकाश आदि पञ्चभूतोंको स्थूल भूत कहते हैं इसी आकाशआदि पञ्चभूतोंके मध्यमेंसे प्रत्येक भूतको समान भाग करनेसे दश १० भाग होते हैं तदन्तर उन्ही दश भागके प्रथम पञ्चम भागको प्रत्येक पञ्चभूतके स- मान चार भाग करके उन्ही सम्पूर्ण प्रत्येक चार भागोंके द्वि-

( ५४ ) वेदान्तसार । तीय अर्द्धको छोड़कर और चार भूतके द्वितीयार्द्ध भागके सहित मिलानेको पंचीकरण कहते हैं । इस विषयके प्रमाण स्वरूप अन्यान्य ग्रन्थोंमेंभी लिखा है—“पञ्चभूतके प्रत्येकके समान दो भाग करै फिर उसी पञ्चभूतके प्रत्येक प्रथम भाग के चार भाग करै द्वितीय पञ्चभूतके प्रत्येक प्रथम अंशमें प्र- त्येक चार भागके मिलानेको पञ्चीकरण कहतेहैं” ॥ ५२ ॥ अस्याप्रामाण्यं नाशङ्कनीयं त्रिवृत्करणश्रु तेः पंचीकरणस्याप्युपलक्षणार्थत्वात् । पंचानां पंचात्मकत्वे समानेऽपि “तेषु च वैशिष्ट्यात्तु तद्वादस्तद्वादः” इति न्यायेन आकाशादिव्यपदेशः संभवति ॥ ५३ ॥ (सं०टी०) पंचीकरणस्य त्रिवृत्करणप्रतिपादकश्रुत्यं- तरविरोधमाशंक्य परिहरति । अस्याप्रामाण्यमिति। भूत- त्रयसृष्टिश्रुतौ सृष्टिपरिपूर्णार्थमन्यत्र श्रुतमपि भूतद्वयमाश्रित्य भूतपंचकाभिप्रायेण भूतत्रयसृष्टिप्रतिपादनादविरोध इत्यर्थः । आकाशादीनां पंचभूतानां चतुर्धा विभक्तानामन्योन्यं प्रत्येका- नुप्रवेशेन पंचीकृतानां पंचात्मकत्वाविशेषादाकाशादिव्यपदे- शो न स्यादित्याशंक्य परिहरति । पंचानामिति । आकाशा- दीनां पंचानां पंचात्मकत्वे समानेपि तेषु पंचभूतेषु तत्तद्वि- शेषानुप्रवेशात्तन्नामभिर्व्यवहारः संभवतीत्यर्थः ॥ ५३ ॥ (भा०टी०) कहेहुए पञ्चीकरणके प्रमाणविषयकी शङ्का नहीं करनी क्योंकि त्रिवृत्करणकी श्रुतिसे पञ्चीकरण-

संस्कृतटीका-भाषाटीकासमेत । ( ५५ ) काभी उल्लेख होजाता है पञ्चभूतके पञ्चात्मको रूपमें समान अर्थात् मिलेहुए होनेपर प्रत्येक पञ्चभूतका अलग अलग व्य- वहार होता है इस विषयमें न्याय प्रमाण है-“आकाशादि पञ्चभूतमें अपने अपने अंशके आधिक्य होनेसे सर्व भूतोंका आकाशादि नाम होता है” ॥ ५३ ॥ तदानीमाकाशे शब्दोऽभिव्यज्यते, वायौ शब्दस्पर्शो, अग्नौ शब्दस्पर्शरूपाणि,अ- प्सु शब्दस्पर्शरूपरसाः,पृथिव्यां शब्द- स्पर्शरूपरसगन्धाश्च ॥ ५४ ॥ (सं०टी०) तदानीमिति । यदा पंचीकृतान्याका- शादीनि तदानीं स्थूलत्वेन स्वकार्योत्पादनसमर्थत्वादाकाशेऽ- व्यक्तरूपेण स्थितः शब्दः अभिव्यज्यते व्यक्तो भवतीत्यर्थः॥ (भा०टी०) पञ्चभूतके पञ्चीकरणके समय आकाशमें शब्दगुण, वायुमें शब्द और स्पर्श, अग्निमें शब्द स्पर्श और रूप. जलमें शब्द स्पर्श रूप और रस, पृथवीमें शब्द स्पर्श रूप रस और गन्ध गुण प्रकाशित होतेहैं ॥ ५४ ॥ एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवःस्वर्महर्जन- स्तपःसत्यमित्येतन्नामकानामुपर्युपरि विद्यमाना- नामतलवितलसुतलरसातलतलातलमहातलपा- तालनामकानामधोऽधो विद्यमानानां लोकानां ब्र- ह्माण्डस्य तदन्तर्गतचतुर्विधस्थूलशरीराणामन्न- पानादीनाञ्चोत्पत्तिर्भवति ॥ ५५ ॥

( ५६ ) वेदान्तसार । ( सं०टी० ) उक्तेभ्यो भूतेभ्यः चतुर्दशभुवनोत्पत्तिप्रकारं दर्शयति । एतेभ्य इति । एतेभ्यो भूतेभ्यः समुत्पन्नब्रह्मां- डस्य चतुर्विधशरीराणां च तद्योग्यान्नपानादीनां चोत्पत्तिर्भ- वतीत्यर्थः ॥ ५५ ॥ ( भा०टी० ) इन्हीं सम्पूर्ण पञ्चीकृत आकाशादि भूतोंसे ऊपर ऊपर विद्यमान भूर्लोक भुवर्लोक स्वर्लोक महर्लोक ज- नलोक तपलोक और सत्यलोक उत्पन्न होते हैं. इन्हींसे क्रमसे नीचे नीचे होनेवाले अतल वितल सुतल रसातल तलातल महातल और पाताल ये सम्पूर्ण लोक उत्पन्न होते हैं । इसी प्रकार इनपञ्चभूतोंसेही ब्रह्माण्ड और चार प्रकारकेस्थूलशरीर और शरीरोंके भोज्य अन्नपानादि उत्पन्न होतेहैं ॥ ५५ ॥ चतुर्विधस्थूलशरीराणि जरायुजाण्डजस्वेदजोद्भि- ज्जाख्यानि ॥ जरायुजानि जरायुभ्यो जातानि म- नुष्यपश्वादीनि । अण्डजानि अण्डेभ्यो जातानि पक्षिपन्नगादीनि । स्वेदजानि स्वेदेभ्यो जातानि यू- कमशकादीनि । उद्भिज्जानि भूमिमुद्भिद्य जातानि लतावृक्षादीनि ॥ ५६ ॥ ( सं०टी० ) चतुर्विधशरीराण्युद्दिशति । चतुर्विधेति । तानि च यथोद्देशं विवृणोति । जरायुभ्य इति ॥ ५६ ॥ ( भा० टी० ) स्थूलशरीरके चार भेद हैं । जरायुज, अ- ण्डज, स्वेदज, व उद्भिज्ज । जरायुसे उत्पन्न होनेवाले मनुष्य पशु आदिको जरायुज कहते हैं । अण्डसे उत्पन्न होनेवाले

विषयतया वनवज्जलाशयवद्वा समष्टिः, वृक्षवज्जल-

संस्कृतटीका-भाषाटीकासमेत । ( ५७ ) पक्षी सर्पादिको अण्डज कहते हैं। स्वेद ( पसीना ) से उत्पन्न होनेवाले यूका मशक आदि स्वेदज कहते हैं। पृथिवीको भेदकर उत्पन्न होनेवाले वेल वृक्ष इत्यादिको उद्भिज्ज कहते हैं ॥ ५६ ॥ अत्रापि चतुर्विधस्थूलशरीरम् ॥ एकानेकबुद्धि- विषयतया वनवज्जलाशयवद्वा समष्टिः, वृक्षवज्जल- वद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडिति चोच्यते । सर्वनराभिमानि- त्वाद्विविधं राजमानत्वाच्च अस्यैषा समष्टिः स्थूल- शरीरं अन्नविकारत्वादन्नमयकोशः। स्थूलभोगाय- तनत्वाज्जाग्रदिति चोच्यते ॥ ५७ ॥ ( सं०टी० ) पूर्ववदत्रापि समष्टित्वं व्यष्टिभेदं दर्शयति।अ- त्रापीति । चतुर्विधशरीरजातमपि शरीरमित्येकबुद्धिविषय- तया वनवत्समष्टित्वं प्रत्येकं तत्तच्छरीरविषयतयाऽनेकबुद्धि विषयत्वात् व्यष्टित्वं च लभत इत्यर्थः । अधुना भूरादिचतु- र्दशभुवनांतर्गतचतुर्विधस्थूलशरीरसमष्ट्युपहितचैतन्यस्यवैश्वा नरत्वापरपर्यायं वैराजत्वं दर्शयति । एतदिति । तत्र युक्ति- माह । सर्वनराभिमानित्वादिति । सर्वप्राणिनिकायेष्वहमि- त्यभिमानवत्त्वाद्वैश्वानरत्वं विविधं नानाप्रकारेण प्रकाशमा- नत्वाच्च वैराजत्वं लभत इत्यर्थः । अस्येति । अस्य विरा- ट्चैतन्यस्यैषा पूर्वोक्ता या ब्रह्मांडांतर्गतचतुर्विधस्थूलशरीर- समष्टिरेव स्थूलशरीरमित्यर्थः । अन्नविकारत्वादिति । अन्नवि- कारबाहुल्यादन्नमयत्वं आत्माच्छादकत्वात्कोशत्वं स्थूलशरी

( ५८ ) वेदान्तसार । रादिविषयप्रयुक्तसुखदुःखभोगायतनत्वाच्च स्थूलशरीरत्वं इं- द्रियैरर्थोपलंभाज्जाग्रदवस्थात्वं घटत इत्यर्थः ॥ ५७ ॥ ( भा०टी० ) जैसे वन वृक्षसमूहकी समष्टि है और सं- म्पूर्ण वृक्ष वनकी व्यष्टि हैं और तालाब जलकी समष्टि है और जल तालावकी व्यष्टि हैं । इसीप्रकार यहाँभी चार प्रकारके शरीर एक जगह इकठे हुए समष्टि कहाते हैं और अलग अ- लग व्यष्टि कहाते हैं । इसी स्थूलशरीरकी समष्टिसे उपहित चैतन्य सर्व देहका अभिमानी अनेक प्रकारसे विराजमान वै- श्वानर और विराट्शब्दसे कहा जाता है । इस समष्टिरूप स्थूलशरीरको अन्नके विकारके निमित्त अन्नमयकोश कहते हैं और वही समष्टि स्थूलभोगका स्थान है इसकारण जाग्रत् शब्दसे कहा जाता है ॥ ५७ ॥ एतद्व्यष्ट्युपहितं चैतन्यं विश्वइत्युच्यते । सूक्ष्म- शरीराभिमानमपरित्यज्य स्थूलशरीरादिप्रवेष्टृ- त्वात् । अस्याप्येषा व्यष्टिः स्थूलशरीरं अन्नविका- रत्वात् अन्नमयकोषः । स्थूलभोगायतनत्वात् जाग्रदिति चोच्यते ॥ ५८ ॥ ( सं०टी० ) चतुर्विधं स्थूलशरीरं समष्ट्युपहितं चैतन्यं सप्रपंचमभिधायेदानीं तद्व्यष्ट्युपहितं चैतन्यं अभिधत्ते । एत- दिति । एतेषां चतुर्विधशरीराणां या व्यष्टिः तत्तच्छरीरव्य- क्तिः तदुपहितं चैतन्यं विश्व इत्युच्यत इत्यर्थः। तत्र हेतुमाह । सूक्ष्मशरीराभिमानमिति। सूक्ष्मलिंगशरीराभिमानमपरित्यज्य

संस्कृतटीका-भाषाटीकासमेत । ( ५९ ) स्थूलशरीरेषु प्रविश्य तत्तत्स्थूलशरीरेषु सर्वेषु प्रत्येकमहामि- त्यभिमानवत्त्वाद्विश्वत्वमित्यर्थः। अस्यापीति । अस्य विश्व- चैतन्यस्याप्येषा तत्तच्छरीरव्यक्तिविशेषलक्षणा व्यष्टिः सैव स्थूलशरीरमित्यर्थः। अत्राप्यन्नविकारबाहुल्यादन्नमयत्वं चै- तन्याच्छादकत्वात्कोशत्वंइन्द्रियैरर्थोपलंभाज्जाग्रत्वं चक्रमेण दर्शयति । अन्नविकारत्वादिति ॥ ५८ ॥ ( भा०टी० ) व्यष्टिरूप स्थूलशरीरसे जो उपहित चैतन्य है उसको विश्वशब्दसे कहते हैं । इसी कारण यह चैतन्य सूक्ष्मशरीरके अभिमानको विना छोड़ेही स्थूलशरीरमें प्रवेश करता है पूर्वोक्त व्यष्टिको स्थूलशरीर कहा है इसके अन्नवि- कार स्वरूपको अन्नमयकोश कहते हैं। और वहीं व्यष्टि स्थू- लभोगका स्थान है इसकारण जाग्रत्शब्दसे कहा जाता है ५८ तदानीमेतौ विश्ववैश्वानरौ दिग्वातार्कप्रचेतो- ऽश्विभिः क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन क्रमाच्छब्दस्पर्शरूपरसगन्धान् अग्नीन्द्रोपेन्द्रयम- प्रजापतिभिः क्रमान्नियन्त्रितेन वागादीन्द्रियपञ्च- केन क्रमाद्वचनादानगमनविसर्गानन्दान्चन्द्रचतु- र्मुखशङ्कराच्युतैःक्रमान्नियन्त्रितेनमनोबुद्ध्यहङ्का- रचित्ताख्येनान्तरिन्द्रियचतुष्केन क्रमात् संश- यनिश्चयाहङ्कार्यचैतांश्च सर्वानेतान् स्थूलवि- षयाननुभवतः । “जागरितस्थानो बहिःप्रज्ञः” इत्यादिश्रुतेः ॥ ५९ ॥