वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५७ उभे-( अपवार्य । आत्मगतम् ) सान्तं पावम् । पडिहदं अमङ्गलम् । ( प्रकाशम् । ) तदो तदो । ( शान्तं पापम् , प्रतिहतममङ्गलम् । ततस्ततः । ) भानुमती--अदिसदावोव्विगहिअए विसुमरिदं मए । ता पुणोवि सुमरिअ कहइस्सम् । ( अतिसंतापोद्विग्नहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये । ) राजा--( आत्मगतम् ' अहो, देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु । अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रम्भालापम् । ( तथा स्थितः । ) सखी-सहि अलं संदावेण । कहेदु पिअसही । ( सखि, अलं संतापेन । कथयतु प्रियसखी । ) राजा-( आत्मगतम् ) किं नु खल्वस्याः संतापकारणम् । अथवाऽना- मन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति, अविषयः खलु दुर्योधनो भवत्याः कोपस्य । उभे = सखीचेट्यो अपवार्य = अन्यस्य रहस्यमप्रकाशय, आत्मगतं = परस्य श्रव- णायोग्यम्, तदुक्तं दर्पणे-अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् । इति । शान्तमिति = 'शान्तं पापमनिर्देश्ये' इति वचनात् । न वाच्यमित्यर्थः । प्रकाशं सर्वश्राव्यम् । तदुक्तं तत्रैव-'सार्वश्राव्यं प्रकाशं स्यात्' इति । अतिसन्तापोद्विग्नहृदयया=अतिसन्तापेन उद्विग्नम् सम्भ्रान्तं हृदयं यस्याः तया । सन्तापेन, अलम्=निरर्थकम् । 'अलं भूषणपर्याप्तिवारणेषु निरर्थके' इति विश्वः । दोनों सखियों-( छिपाकर अपने आप ) पाप और अमङ्गल का नाश हो ( प्रकट रूप से ) अच्छा फिर क्या हुआ ? भानुमती-सन्ताप ने मेरे हृदय पर अपना अधिकार जमा लिया। फिर मैं भूल गई, याद करके कहूँगी । राजा-( देख कर ) अरे ! श्रीमती भानुमती सुवदना और तरलिका के साथ कुछ वार्तालाप करती हुई बैठी हैं। अच्छा झाड़ी के पीछे छिप कर पहले इनके विश्वस्त वार्तालाप को सुनूँ । सखी-शोक करने से क्या लाभ, सखी ! कहें तो । राजा-अरे इनके खेद का क्या कारण है ? अथवा आज ये मुझ से आज्ञा लिये बिना घर से चली आई हैं इससे प्रतीत होता है कि ये मुझ पर क्रुद्ध हैं, अयि भानुमती ! यह दुर्योधन आपके क्रोध का पात्र नहीं है । देखिये :-
५८ वेणीसंहारं नाटकं किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखी नाद्यासि सम्भाविता । अन्यस्त्रीजनसंक्थालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि किं प्रिये परिजनोपालम्भयोग्ये मयि ॥ ९ ॥ ( विचिन्त्य । ) अथवा । इयमस्मदुपाश्रयैकचित्ता मनसा प्रेमविवृद्धमत्सरेण । अन्वयः — मया, प्रमादात्, कण्ठे, भुजलतापाशः, किम्, शिथिलीकृतः, अद्य, निद्राच्छेदविवर्तनेषु अभिमुखी, अद्य न, सम्भाविता ( किम् ) त्वया, अहम्, अन्यस्त्री- जनसङ्कथालघुः, स्वप्ने, लक्षितः, ( हे ) प्रिये, परिजनोपालम्भयोग्ये, मयि, कम्, दोषम्, पश्यसि ? ॥ ९ ॥ मत्तः किमपराधोऽभूदित्याह—किमिति । मया = दुर्योधनेन कण्ठे = मदीयग्री- वायाम्, भुजलतापाशः = त्वत्कृतभुजबन्धनम्, किम्, किं शब्दः प्रश्ने । प्रमादात् = अनवधानात्, सावधानतया न कथमपीदं सम्भाव्यत इति सूचितमनेन । शिथिली- कृतः न तु दूरीकृत इति भावः । किंशब्दस्य द्वितीयतृतीयचरणयोरप्यन्वयः । अद्य, निद्राच्छेदविवर्तनेषु = सुषुप्तिभङ्गेन पार्श्वपरिवर्तनेषु, अभिमुखी = आभिमुख्यं प्राप्ता, न, सम्भाविता = सालिङ्गनं न सम्मानिता, किम् । त्वया—भानुमत्या, अन्यस्त्री- जनसङ्कथालघुः = अन्यनारीजनवार्तालापेन लघुः निःसारः क्षुद्र इत्यर्थः । लघुरगुरौ च मत्ताजे निःसारे वाद्यवत् क्लीबमिति मेदिनी । अहं = दुर्योधनः स्वप्ने = निद्रा- वस्थायाम्, एतेन जागरणे नास्य सम्भावनापीति सूचितम् । लक्षितः = ज्ञातः, हे प्रिये परिजनोपालम्भयोग्ये = परिचारकसदृशपरिभावना । र्हे, मयि, एतेषां मध्ये, कं दोषम् = अपराधं, पश्यसि = अवलोकसे । शार्दूलविक्रीडितं छन्दः ॥ ९ ॥ अन्वयः — अस्मदुपाश्रयैकचित्ता, इयम्, प्रेमविवृद्धमत्सरेण, मनसा, अतिवल्लभ- त्वात्, मम, अपराधलेशम्, स्वयम्, उत्प्रेक्ष्य, नियतम्, कुपिता ॥ १० ॥ कथं क्रुद्धा भानुमतीत्याह—इयमिति । अस्मदुपाश्रयैकचित्ता = मदालम्बन- क्या कभी मैंने ( भूल कर ) कण्ठगत भुजा के बन्धनों को विच्छिन्न तो नहीं किया ? [ अर्थात् आपके प्रेमालिङ्गन का तिरस्कार तो नही किया ? ] अथवा शयनावस्था में करवट बदल कर मेरे सम्मुख होने पर आज मैंने क्या आपका स्वागत नहीं किया ? अथवा आपने स्वप्न में मुझे परस्त्री से बातचीत करने में अनुरक्त तो नहीं देखा फिर सेवाकार्यरहित मुझ में कौन सा अवगुण देखती हैं ? ॥ ९ ॥ ( सोचकर ) इन्होंने अपने चित्त को मेरे आश्रित कर दिया है । प्रेम के कारण इन के मन में
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५९ नियतं कुपितातिवल्लभत्वात्स्वयमुत्प्रेक्ष्य ममापराधलेशम् ॥ १० ॥ तत्रापि शृणुमस्तावत्किन्नु वक्ष्यतीति । भानुमती—तदो अहं तस्स अदिसइददिव्वरूविणो णउलस्स दंसणेण उच्छुआ जादा हिदहिअआ अ । तदो उज्झिअ तं आसणट्ठाणं लदामंडवं पविंसितुं आरद्धा । ( ततोऽहं तस्यातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता हृतहृदया च । तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रवेष्टुमारब्धा । ) राजा—( सवैलक्ष्यं आत्मगतं ) किं नामातिशयितदिव्यरूपिणो नकु- लस्य दर्शनेनोत्सुका जाता हृतहृदया च । तत्किमनया पापया माद्रीसुतानु- मात्रचेताः, इयम् = भानुमती प्रेमविवृद्धमत्सरेण = प्रेम्णा विवृद्धः स्थापितः मत्सरः यस्मिन् तेन कारणाभावेऽपि केवलं प्रेम्णैव मात्सर्यमुत्पादितमिति भावः । प्रीति- बद्धमात्सर्य्येणेत्यर्थः । मनसा = हृदा, अतिवल्लभत्वात् = अतिस्नेहात्, मम, अपराध- लेशम्=अपराधगन्धं 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयो'रिति विश्वः । स्वयम् उत्प्रेक्ष्य=प्रकल्प्य, नियतं कुपिता = क्रुद्धा । एतेन ममापराधलेशोऽपि न वर्तते केवलं कल्पनैव तस्या इति ध्वनितम् । औपच्छन्दसिकं छन्दः 'पड्द्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तरा । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलो गुरुः । तन्नेवान्ते- ऽधिके गुरौ स्यादौपच्छन्दसिकं कवीन्द्रहृद्यमि'ति लक्षणात् ॥ १० ॥ ततः = सर्पशतव्यापादनान्तरं । नकुलस्य = सर्पघातकजन्तुविशेषस्य, दुर्योध- नस्य भ्रान्तिपक्षे—नकुलस्य=माद्रीपुत्रस्य । उत्सुका = उत्कण्ठिता । किमिति - किमिति प्रश्ने तस्य विप्रलब्धः इत्यनेनान्वयः । नामशब्दः, क्रोधे 'नामप्रकाश्यासम्भाव्यक्रोधोपगमकुत्सने' इत्यमरः । सर्पघातजन्तुतात्पर्येणोच्चारि- तनकुलशब्दस्य प्रकरणानभिज्ञो दुर्योधनः नकुलसंज्ञकं माद्रीसुतमर्थं निश्चित्य क्रुद्ध इति भावः । अनया = भानुमत्या, माद्रीसुते = नकुले, पाण्डुपुत्रे इत्यर्थः । अनुर- नाम मात्र का भी क्रोध नहीं है । ऐसा प्रतीत होता है कि प्रेमाधिक्य से मेरे लवमात्र अपराध की कल्पना करके क्रुद्ध हैं ॥ १० ॥ तो भी क्या कहेंगी सुनें तो । भानुमती—अरी सखि, इसके अनन्तर दिव्यरूप के तिरस्कर्ता उस नकुल के दर्शन से मैं उत्कण्ठित हो उठी । मेरा हृदय उस पर आसक्त हो गया फिर उस स्थान को छोड़ कर लताकुंज में जाने लगी । राजा—क्या देवताओं के स्वरूप के तिरस्कर्ता नकुल के दर्शन से यह उत्कण्ठित हो उठी है ? क्या माद्री के पुत्र में आसक्त इसके द्वारा मैं वञ्चित हो गया ? ( पहली बातों का
६० वेणीसंहारं नाटकं रक्तया वयमेवं विप्रलब्धाः । ('सोत्प्रेक्षम्, इयमस्मत्-' (२।१०) इति पठित्वा ।) मूढ दुर्योधन, कुलटाविप्रलभ्यमात्मानं बहुमन्यमानोऽधुना किं वक्ष्यसि । किं ( कण्ठे-( २।९ ) इत्यादि पठित्वा । दिशोऽवलोक्य ।) अहो, एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसंकथासु च पक्षपातः । दुर्योध- नस्तु मोहादविज्ञातबन्धकीहृदयसारः क्वापि परिभ्रान्तः । आः पापे मत्प- रिग्रहपांसुले । तद्भीरुत्वं तव ममः पुरः साहसानीदृशानि क्तया = स्नेहवत्या माद्रीसुतं कामयमानयेत्यर्थः । विप्रलब्धाः = वञ्चिताः । 'विप्रल- ब्धस्तु वञ्चित' इत्यमरः । सोत्प्रेक्षम् = स्नेहप्रयुक्तपूर्वविषयस्मरणपूर्वकम् । कुलटा- विप्रलभ्यम् = पुंश्चलीवञ्चनीयम् स्मरसीत्यध्याहृत्य वक्ष्यसि इत्यत्र अभिज्ञावचने लुटिती भूते लुट्, तेन किं किमब्रवीमित्यर्थः । विविक्तस्थानाभिलाषः = निर्जनस्था- नेच्छा, मोहात् = वैचित्त्यात् , अविज्ञातबन्धकीहृदयसारः=अनवगतकुलटाहृदयतत्त्वः, 'पुंश्चली घर्षणी बन्धक्यसती कुलटेत्वरी' इत्यमरः । मत्परिग्रहपांसुले = परिग्रहः पत्नी सा चासौ पांसुला कुलटा तस्याः सम्बोधने । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । अन्वयः—मम, पुरः, तव, तत्, भीरुत्वम्, ईदृशानि साहसानि, अस्मद्वपुषि, सा, श्लाघा, विनयव्युत्क्रमे, अपि, एषः, रागः, जडमतौ, मयि, तव, औदार्यम्, चाप- ले च, कोऽपि, पन्थाः, वितमसि, ख्याते, तस्मिन्, कुले, जन्म, एतत् कीलोनम् ॥ अत्रप्रयुक्तकुलट'त्वं मन्यमानस्तदनुगुणं विरुद्धक्रियां दर्शयति=मद्भीरुत्वमिति । मम, पुरः = अग्रे, तव, तत् = पूर्वप्रसिद्धम्, भीरुत्वं = भयम्, ईदृशानि = पर- पुरुषप्रेमरूपाणि, साहसानि = दुष्करकर्माणि । एतेन निर्भयता सूचिता । 'साहसं तु नमे दुष्करकर्मणि' इति हैमः । भयनिर्भयतारूपविरुद्धधर्मद्वयं दृश्यते त्वयीति स्मरण करता हुआ ) ( इयमस्मद् २ श्लोक १० को पढ़कर ) मूर्ख दुर्योधन ! व्यभिचारिणी से प्रतारित होकर अपने को बहुत कुछ समझता हुआ अब क्या कहोगे ? किं कण्ठे० इत्यादि श्लोक ९ को पढ़ता हुआ दिशाओं को देखते हुए ) अहा ! कारण समझ में आ गया । इसी- लिए प्रभात में ही एकान्त स्थान के लिए इसकी उत्कट इच्छा थी । सखियों के साथ बातचीत करने से भलीभाँति अस्तव्यस्त हैं ! दुर्योधन को मोह में पड़े रहने के कारण व्यभिचारिणी के हृदय की बात क्या मालूम ? अयि दुराचारिणि ! मेरी अधम रमणी ! मेरे समक्ष तुम्हारी वह भीरुता और इस प्रकार साहस । मेरे शरीर में वह प्रीति और उतनी विनम्रता तथा शील के विरुद्ध यह प्रेम, मुझ मूर्ख में वह उदारता और यह
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ६१ श्लाघा सास्मद्वपुषि विनयव्युत्क्रमेऽप्येष रागः। तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतत् ॥ ११ ॥ सखी—तदो तदो। ( ततस्ततः । ) भानुमती—तदो सोवि मं अणुसरन्तो एव्व लदामण्डवं पविट्ठो। (ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः ।) राजा—(आत्मगतम्) अहो, कुलटोचितमस्याः पापाया अशालीनत्वम् । महदाश्चर्यमिति भावः । अस्मद्वपुषि = अस्माकं शरीरे, सा = प्रसिद्धा, श्लाघा=प्रशंसा प्रेमातिशय इत्यर्थः । विनयव्युत्क्रमे = सदाचारातिक्रमणे, अपि एषः=अन्यपुरुषविष- यकः, रागः = अनुरागः, यदेवाहं न श्लाघनीयस्तदैव त्वयाऽन्यत्र रागः कर्तव्य इति मम शरीरे श्लाघा तदभावमूलकोऽन्यत्र राग इति विरुद्धमिति भावः । जडमतौ = तत्त्वाज्ञातारि, मयि, तत् = प्रसिद्धम्, औदार्यम् = उदारता महत्त्वमित्यर्थः । शुद्ध- स्वभाव इति यावत् । चापले पुंश्चलीत्वे, च, कोऽपि, पन्थाः = अनुसरणमार्गः, शुद्ध- स्वभावता पुंश्चलीत्वानुसरणम् विरुद्धमिति भावः । 'मीनेऽपि चपला तु स्यात् विप्प्लयां विद्युति स्त्रियां । पुंश्चल्याम्'ति हैमः । वितमसि = विशुद्धे, ख्याते=सर्वजन- वेद्ये, तस्मिन् = दोषरहिते, कुले = वंशे, जन्म = उत्पत्तिः, एतत् =परपुरुषसङ्गम- पम्, कौलीनम् = लोकवादः 'स्यात्कौलीनं लोकवादः' इत्यमरः । तथा च कुलटोचित- मेव सर्वं तवेति भावः । अत्र विरुद्धयोः सङ्घटनातो विषमालङ्कारः । मन्दाक्रान्ता छन्दः, लक्षणमुक्तमष्टमश्लोके ॥ ११ ॥ लतामण्डपम् = निकुञ्जम् । अनुसरन् = पश्चादागच्छन् । पापायाः=पापमस्ति अस्या इति अर्श आदित्वान्मत्वर्थेऽच्प्रत्ययः । अशालीनत्वं= धृष्टता, उस शुभ निष्कलङ्क कुल में जन्म और यह दुराचार [ अर्थात् मेरे सामने तो बड़ी डरपोक सी बनी रहती थी और अब दूसरे पति के साथ इस प्रकार सम्बन्ध करने का यह साहस कर रही हो । मेरे रूप और लावण्य की खूब प्रशंसा करती थी और अब यह भोलेपन के विरुद्ध कार्य कर रही हो, मुझ मूर्ख के प्रति बड़ी उदारता प्रकट करती थी परन्तु अब इस प्रकार के कुमार्ग पर चलो जा रही हो, जन्म तो तुम्हारा विशुद्धकुल में हुआ है परन्तु यह नीच कर्म कर रही हो ] ॥ ११ ॥ सखी—तो फिर क्या हुआ ? भानुमती—तो फिर मैं शीघ्र ही लताकुञ्ज में चली गई, वह भी मेरा अनुसरण करता हुआ उसी लतानिकुञ्ज में प्रवेश कर गया। राजा—अहो, इस दुराचारिणी में व्यभिचारिणियों की सी निर्लज्जता भी है।
६२ . वेणीसंहारं नाटकं यस्मिंश्चिरप्रणयनिर्भरबद्धभाव- मावेदितो रहसि मत्सुरतोपभोगः । तत्रैव दुश्चरितमद्य निवेदयन्ती ह्रीणासि पापहृदये न सखीजनेऽस्मिन् ॥ १२ ॥ उभे—तदो तदो ( ततस्ततः । ) भानुमती--तदो तेण सप्पगब्भप्पसारिअकरेण अवहिदं मे त्थणं सुअम् ( ततस्तेन सप्रगल्भप्रसारितकरेणापहृतं मे स्तनांशुकम् । ) लज्जाराहित्यम् । शालाप्रवेशमर्हतीति शालीना 'शालीनकौपीने अधृष्टाकार्ययो'रिति निपातनात्प्रत्ययः । अत्रावयवार्थस्तु न विवक्षितः, रूढिशब्दत्वात् । अन्वयः--यस्मिन्, रहसि, मत्सुरतोपभोगः, चिरप्रणयनिर्भरबद्धभावम्, आवे- दितः, अत्रैव, अस्मिन्, सखीजने, दुश्चरितम्, अद्य, निवेदयन्ती, हे पापहृदये ! न, ह्रीणा, असि ॥ १२ ॥ लज्जाकारणसत्त्वेऽपि लज्जाराहित्यं दर्शयति--यस्मिन्निति । यस्मिन्=सखीजने, रहसि = एकान्ते, मत्सुरतोपभोगः=मदीयरतिजन्यभोगः, चिरप्रणयनिर्भरबद्धभा- वम् = बहुकालिकप्रेमातिशयेन कृतबन्धनाभिप्रायम्, यथा स्यात्तथा आवेदितः = कथितः, तत्रैव = तस्मिन्नेव एव शब्दोऽवधारणे । अस्मिन् = उपस्थिते, तदिदं शब्दा- भ्यां प्रत्यभिज्ञां दर्शयति । सखीजने = आलिसङ्घे, दुश्चरितम् = परपुरुषसङ्गम रूपदु- राचारम्, अद्य = इदानीम्, 'इदानीमद्ये'ति कलापसूत्रेण निष्पन्नं सम्प्रत्यर्थे अद्येति । निवेदयन्ती=कथयन्ती, हे पापहृदये ! न ह्रीणा=न लज्जिता असि ? । लज्जास्थानेऽपि कथं न लज्जस इति भावः । अत्रैकस्मिन्नेव सखीजने अनेकयोः स्वामिसुरतोपभोग- दुश्चरितयोः, स्थापनात्पर्यायालंङ्कारः । वसन्ततिलका छन्दः ॥ १२ ॥ ततः--मत्कृतंकलतामण्डपप्रवेशानन्तरम्, सप्रगल्भप्रसारितकरेण = सप्रगल्भं यथा स्यात्तथा प्रसारितः करः हस्तः येन तेन सप्रगल्भप्रसारितशब्दयोः स्तोकनम्रा इतिवत्समासः । तेन = नकुलेन, मे, स्तनांशुकं = कुचयोपरि स्थितं वस्त्रम्, अप- हृतम् = आकृष्टम् । अरी पापचित्ते, जिन सहेलियों से चिरकाल के प्रेम और अत्यन्त आसक्ति के साथ मेरे रमणक्रिया की वार्ता की आज वही उन सखियों से अपने दुष्कृत्यों की वार्ता करते हुए तुम्हें लज्जा नहीं उत्पन्न होती ? दोनों सखियाँ-तो आगे क्या हुआ ? भानुमती-तब उसने बड़ी धृष्टता से हाथ फैलाकर मेरे स्तनावरण को दूर हटा दिया !
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ६३ राजा--(सक्रोधम्, आत्मगतम् ) अलमिदानीमतः परमाकर्णनेन । भवतु तावत्तस्य परवनितावस्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपह- रामि । ( किञ्चिद्गत्वा । विचिन्त्य ) अथवा इयमेव तावत्पापशीला प्रथममनु- शासनीया । ( इति निवर्तते । ) उभे--तदो तदो (ततस्ततः ।) भानुमती-तदा अज्जउत्तस्स पहादमङ्गलतूररवमिस्सेण वारविलासि- णीजणसंगीदरवेण पडिवोधिदह्मि । (तत आर्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण- वारविलासिनीजनसङ्गीतरवेण प्रतिबोधितास्मि ।) राजा--( सवितर्कम्, आत्मगतम् ।) किं नाम प्रतिबोधितास्मीति स्वप्न- दर्शनमनया वर्णितं भवेत् । अथवा सखीवचनादेव व्यक्तिर्भविष्यति । सुवदना--ज एत्थ अच्छाहिदं तं भाईरहीप्पमुहाणं णइणं सलिलेण अवहारिअदु । बह्माणं वि आसीसाए हुदाहुदिसुअन्धिणा ज्जलणेण अव- आर्यपुत्रस्य = पत्युः, प्रभातमङ्गलतूर्यरवमिश्रेण, राज्ञः प्रभाते जागरणार्थं वाद्य- वादने गणिकासंगीतञ्च भवत इत्याकूतम् । वारविलासिनी = वेश्या । प्रतिबोधिता = जागरिता । नामेति-नामशब्दोऽत्र विस्मये । प्रतिबोधितास्मीति-किमुक्तं प्रतिबोधिता- स्मीति, यन्मयाऽवगतं तन्नास्यास्तात्पर्यं किन्तु स्वप्नदर्शनम् । राजा--(क्रुद्ध होकर, स्वगत ) बस, अब इससे अधिक सुनने की कोई आवश्यकता नहीं । अच्छा अब परदार लम्पटशठ उस हतभाग्य माद्रीपुत्र को यमराज के घर का अतिथि बनाता हूँ । ( थोड़ा आगे बढ़कर फिर ठहर कर ) अथवा सर्वप्रथम इसी दुराचारिणी को दण्ड देना चाहिए । ( पीछे लौट आता है । ) दोनों सखियाँ-फिर क्या हुआ ? भानुमती-इसके अनन्तर आर्यपुत्र के उद्बोधननिमित्त प्रभातकालिक मृदङ्गध्वनि के साथ वैश्याओं के सङ्गीत से मैं जाग पड़ी । राजा-(तर्कित होकर ) क्या कहा-'मैं जाग पड़ी' ? स्वप्न का वर्णन इन्होंने किया होगा अथवा सखियों की बात से ही स्पष्ट हो जायगा । सुवदना-जो कुछ भी अमङ्गल हो उसे गङ्गाप्रभृति नदियों के जल से दूर कीजिए;
६४ वेणीसंहारं नाटकं . हारिअदु । (यदिहात्याहितं तद्भागीरथीप्रमुखानां नदीनां सलिलेनापह्रियताम् । ब्राह्मणानामप्याशिषा हुताहुतिसुगन्धिना ज्वलनेन (च) अपह्रियताम् । राजा--(आत्मगतम्) अलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितम् । मया पुनर्मन्दधियाऽन्यथैव सम्भावितम् । दिष्ट्यार्धश्रुतविप्रलम्भजनितक्रोधादहं नो गतो दिष्ट्या नो परुषं रुषार्थकथने किञ्चिन्मया व्याहृतम् । इह = स्वप्ने, यत्, अत्याहितम् = महाभयम्, तत् भागीरथीप्रमुखानां = गङ्गा प्रधानानां नदीनां = सरिताम्, सलिलेन = जलेन, अपह्रियताम् = निराक्रियताम् । ब्राह्मणानाम् आशिषा = हिताशंसया, 'आशीर्हिताशंसा' इत्यमरः । हुताहुतिसुग- न्धिना = शोभनः गन्धः अस्येति सुगन्धिः हुता या आहुतिः तया सुगन्धिः, तेन, ज्वलनेन = अग्निना, अपह्रियतामिति, अत्याहितमित्येनेनान्वेति । स्वप्नदर्शनमिति--अनया स्वप्नदर्शनमेवैतद् वर्णितमित्यन्वयः । एवकारेण दुर्योधनावगतमाद्रीसुतसङ्गस्य व्यवच्छेदः । अन्वयः- कर्णश्रुतविप्रलम्भजनितक्रोधात्, अहम्, नो गतः, दिष्ट्या, अर्धकथने, रुषा मया, किञ्चित् परुषम्, नो व्याहृतम्, दिष्ट्या, विमूढहृदयम्, माम्, प्रत्याय- यितुम्, कथा, अन्तम् गता, दिष्ट्या, मिथ्यादूषितया, अनया, विरहितम् जगत् न, जातम्, दिष्ट्या ॥ १३ ॥ आनन्दोऽयं यन्मया चाञ्चल्यं न कृतमित्याह-दिष्ट्येति । अर्धश्रुतविप्रलम्भज- नितक्रोधात् = अर्धश्रुतो यो विप्रलम्भः अन्यथागतवाक्यम् तेन जनितो यः क्रोधः तस्मात्, अहं नो = न, गतः माद्रीसुतहननार्थमिति भावः । दिष्ट्या = आनन्दोऽयम् 'दिष्ट्या समुपतोषं चेत्यानन्दे' इत्यमरः । दिष्ट्येत्यस्याग्रेऽपि एवमेवार्थः । अर्धकथने = अर्धोक्तौ, रुषा = क्रोधेन, मया, किञ्चित्, परुषं = कर्कशवचनम् नो, व्याहृतम् = उक्तम्, दिष्ट्या, विमूढहृदयम् = विमूढं मोहाच्छन्नं हृदयं यस्य तम्, मां = दुर्योधनम्, एवं ब्राह्मणों के आशीर्वाद से तथा आहुतिप्रक्षेप से प्रज्वलित अग्निदेव के द्वारा अमङ्गल का नाश कीजिए । राजा--सन्देह करना व्यर्थ है-इसने स्वप्न का ही यह वर्णन किया है और मैं मूर्ख इसे दूसरे ही रूप में समझा । अच्छा हुआ आधा ही सुनकर आत्मवञ्चना से उत्पन्न क्रोध के वश में न हुआ, सौभाग्य की बात है कि मैंने सब बात पूरी नहीं हो पायी थी तभी क्रोध से कटुवचन का प्रयोग नहीं किया, भाग्य से ही मुझे श्रीमती के प्रति विश्वास दिलाने के लिए ही उनकी
२. द्वितीय अङ्क: भानुमती-स्वप्न दर्शन एवं दुर्योधन विलास
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ६५
माम्प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता ।
मिथ्यादूषितयानया विरहितं दिष्ट्या न जातञ्जगत् ॥ १३॥
भानुमती - हला, कहेहि किं एत्थ जिं वा असुहसूअअं त्ति । ( हंला,
कथय किमत्र प्रशस्तं किं वाऽशुभसूचकमिति । )
सखी चेटी च-( अन्योन्यमवलोक्य । अपवार्यं ) एत्थ णत्थि त्योअं वि
सुहसुअअम् । तदो अलोअं कधअन्ती पिअसहीए अवराहिणी भविस्सम् ।
सो दाणीं सिणिद्धो जणो जो पुच्छिदो परुसं वि हिदं भणादि । ( प्रकाशम् )
सहि, सव्वं एव्वं एदं असुहणिवेदनम् । ता देवदाणं पणामेण दुज्जादि-
जणपडिग्गहेण अ अन्तरीअदु । ण हु दाठिणो णउलस्स वा दंसणं अहि
सदवहं अ सिविणेय पसंसन्ति विअक्खणाओ। ( अत्र नास्ति स्तोकमपि
शुभसूचकम् । ततोऽलीकं कथयन्ती प्रियसख्या अपराधिनी भविष्यामि : स इदानीं
स्निग्धो जनो यः पृष्टः परुषमपि हितं भणति । सखि, सर्वमेवैतदशुभनिवेदनम् ।
-----------------------------------------------------------------------------------
प्रत्याययितुम् = बोधयितुम्, कथा = वार्तालापः, अन्तं = समाप्तिम्, गता, दिष्ट्या
मिथ्यादूषितया = मिथ्याव्यभिचाररूपदोषयुक्तया, अनया, विरहितम् = शून्यं, जगत्=
संसारः न जातम् मया भ्रमात्सा न हतेति भावः । भाग्येनैतत्सर्वं जातमिति गूढाभि-
प्रायः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्रथमश्लोके ॥ १३ ॥
अत्र = स्वप्ने, प्रशस्तम् = शुभसूचकम् ।
स्तोकम् = अल्पम् । अलीकं = मिथ्या । अशुभसूचकमपि शुभसूचकमिति, कथ-
विष्यामि तदा मिथ्याकथनादपराधभागिनी भविष्यामीत्यर्थः । । स्निग्धः = स्नेहो
हितेच्छुरित्यर्थः । पृष्टः = स्वामिनेति शेषः । परुषं = निष्ठुरम् । साम्प्रतं श्रवणमात्रेण
बातचीत समाप्त हो गई, और यह भी पुण्य की बात है नहीं तो मुझसे यह व्यर्थ ही
कलङ्कित हो अपने प्राण विसर्जन कर देती और इससे वियुक्त होकर मैं अपने लिये संसार
को शून्य समझता ॥ १३ ॥
भानुमती-ऐ सखि कहो इस स्वप्न में कितना अंश अशुभ और कितना शुभ है ?
सखी और दासी-( एक दूसरे को देखकर और छिपाकर ) उसमें कुछ भी शुभ-
सूचक नहीं है, यदि असत्य भाषण करूंगी तो प्रिय सहेली की अपराधिनी हो जाऊँगी ।
अतः सुहृज्जन जो पूछे यदि उसके उत्तर में हित की बाते चाहे श्रोत्राभिराम न हो तो भी
कहनी चाहिए । सखि, यह स्वप्न तो सब रीति से अमंगल का हो सूचक है अतः देवताओं
के नमस्कार से दूर्वादल इत्यादि मांगलिक वस्तुओं के स्पर्श से अमंगल का शमन करना
चाहिए, क्योंकि दाँत वाले प्राणियों में चाहे न्यौला हो चाहे दूसरा कोई हो उसका स्वप्न
५ वे०
६६ वेणीसंहारं नाटकं तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यताम् ! न खलु दंष्ट्रिणो नकुलस्य वा दशनंमहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः । ) राजा— ( आत्मगतम् ) अवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमानिष्टोदर्कं तर्कयामि । पर्यायेण हि दृश्यन्ते स्वप्नाः काम शुभाशुभाः । शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥ १४ ॥ दुःखकरमपि अग्रे शुभकरमवश्यं वक्तव्यमित्यर्थः । प्रकाशम् = सर्वश्राव्यम् , तदुक्तं दर्पणे- 'सर्वश्राव्यं प्रकाशं स्यात् ।' इति । देवतानां = देवानां, प्रणामेन, 'द्विजातिजनप्रतिग्रहेण = ब्राह्मणोद्देश्यकदानेन, 'चतुर्थी तदर्थार्थे'ति सूत्रे चतुर्थीति योगविभागात्स मासः । अन्तर्यताम् = व्यवहितं क्रियताम् । स्वप्नदर्शनजन्यप्राप्ताशुभं विनाश्यतामिति यावत् । दंष्ट्रिणः = दंशकस्य सर्पस्येत्यर्थः । अहिः = सर्पः । विचक्षणाः=विद्वांसः, प्रशंसन्ति = शुभं कथयन्ति । सुवदना, अवितथम् = सत्यम् , आहेत्यन्वयः । नियतम् = निश्चयम् क्रियावि- शेषणं भावप्रत्ययान्तोऽयम् । अनिष्टोदर्कम् = अनिष्टम् उदर्कम् , उत्तरकालिकफलं यस्य तत् । तर्कयामि=अनुमिनोमि । अन्वयः-हि, पर्यायेण, शुभाशुभाः, स्वप्नाः, कामम्, दृश्यन्ते, इमम् , पुनः, शतसंख्या, सानुजम् , माम्, स्पृशति, इव ॥ १४ ॥ उत्तरकाले सम्भाव्यमशुभमाह—पर्यायेणेति । हि = यतः, पर्यायेण = अनुक्रमेण, शुभाशुभाः = शुभा अशुभाश्च, शोभत एमिरिति शुभाः, 'करणे घञ्' । स्वप्नाः = शयनकालेऽन्तकरणपरिणामविशेषः, कामम् = यथेष्टम्, दृश्यन्ते = विलोक्यन्ते, इयं = अहिगता, शतसंख्या = शतत्वसंख्या, पुनः, सानुजम् = कनिष्ठभ्रातृसहितम्, मां = दुर्योधनम् , स्पृशति = विषयीकरोति इव, वयमपि शतं भ्रातरः सर्पाश्च शतं, तथा च संख्यासामान्यादस्माकं भयमित्यर्थः । पथ्यावक्त्रं छन्दः । लक्षणमुक्तं तृतीयश्लोके ॥ में दंशं होना अथवा एक सौ सर्पों का स्वप्न में वध होना स्वप्न के शुभाशुभ-कथनकर्त्ता पण्डित लोग अच्छा नहीं कहते । राजा— (स्वयं) सुवदना सत्य कहती है; 'नकुल के द्वारा सौ सर्पों का वध और स्तन के वस्त्र का अपहरण करना हम लोगों के भविष्य के लिये अच्छा नहीं है'—यह मानी हुई बात है-इस प्रकार मैं समझता हूँ । स्वप्न तो कभी शुभ और कभी अशुभ क्रमपूर्वक दिखाई पड़ते रहते हैं, परन्तु यह सौ की संख्या मेरे आप्तवर्गों के प्रति मुझे मर्मविद्ध कर रही है ॥ १४ ॥
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ६७ ( वामाक्षिस्पन्दनं सूचयित्वा । ) आः ममापि नाम दुर्योधनस्यानिमित्तानि हृदयक्षोभमावेदयन्ति । ( सावष्टम्भम् । ) अथवा भीरुजनहृदयप्रकम्पनेषु का गणना दुर्योधनस्यैवं- विषेषु । गीतश्चायमर्थोऽङ्गिरसा — 'ग्रहाणां चरितं स्वप्नोऽनिमित्तोत्पातिकं तथा । फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति' ॥ १५ ॥ तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि । भानुमती—हला सुवअणे, पेक्ख दाव उदअगिरिसिहरन्तरविमुक्करह- वामाक्षिस्पन्दनमिति—वामनेत्रस्पन्दनं पुरुषाणामशुभसूचकं लोके ख्यातमिति । अनिमित्तानि = अशुभसूचकानि, हृदयक्षोभ = मनोदुःखम् । अन्वयः—ग्रहाणाम्, चरितम्, स्वप्नः तथा, अनिमित्तोत्पातिकम्, ( एते ) काकतालीयं यथा स्यात्तथा, फलन्ति, तेभ्यः, प्राज्ञाः, न बिभ्यति ॥ १५ ॥ पूर्वोक्तेऽर्थे प्रमाणमाह = ग्रहाणामिति । ग्रहाणां = सूर्यादीनाम्, चरितं = सञ्च- रणम् , राश्यन्तर इति भावः । स्वप्नः, तथा, अनिमित्तोत्पातिकं = आकस्मिकमहा- वायुप्रवहणम्, एते, काकतालीयम् = अतर्कितागतं यथा स्यात्तथा । फलन्ति = फल- दायका भवन्ति । यथा तालवृक्षाधः सञ्चरतः काकस्योपरि तालफलपतनेन कदाचि- देव मृत्युर्भवति तथैव कदाचिदेव तैरपि फलवन्तो भवन्तीति भावः । तेभ्यः = स्वप्ना- दिभ्यः, प्राज्ञाः = विद्वांसः न, बिभ्यति = भयं प्राप्नुवन्ति । 'अदभ्यस्तादि'ति झस्या- तादेशः । अत्र प्राकरणिकस्य स्वप्नस्याप्राकरणिकयोरन्ययोश्चैकस्मिन्फले सम्बन्धाद्दीप- कालंङ्कारः । पथ्यावक्त्रं छन्दः ॥ १५ ॥ स्त्रीस्वभावसुलभां = नारीणां स्वभावतः प्राप्तियोग्याम्, अलीकाशङ्काम् = मिथ्या- संशयम्, स्वप्नदर्शनजन्यामिति भावः । अपनयामि = निवर्तयामि । ( वाम नेत्र के स्पन्दन का अभिनय करके ) ओह, क्यों ये अपशकुन दुर्योधन के भी हृदय को क्षुब्ध कर रहे हैं ? ( अभिमान के साथ ) ऐसे अपशकुन जो कायरों के हृदय को क्षुब्ध कर देते हैं उनमें दुर्योधन की क्या बात ? इस अर्थ की पुष्टि अङ्गिरा के वचन से होती है— ग्रहोंका शुभाशुभ फल, स्वप्न, अपशकुन तथा उत्पात काकतालीयन्याय से फल देते हैं अर्थात् फल देते भी हैं नहीं भी देते हैं अतः बुद्धिमान् व्यक्ति इससे भयभीत नहीं होते ॥१५॥ अतः भानुमती के स्त्री स्वभावके लिये स्वाभाविक इस अमङ्गलकी आशंका दूर करूँगा । भानुमती—सखी सुवदने, देखो तो उदयाचल के शिखर के प्रान्त भाग का परित्याग
An accurate, line-by-line transcription of the image text in Devanagari:
६८ वेणीसंहारं नाटकं बरो विअलन्तसंझाराअपसण्णदुरालोकमण्ड्लोजादो भअवं दिवहणाहो । ( हला सुवदने, पश्य तावदुदयगिरिशिखरान्तरविमुक्तस्थवरो विगलत्सन्ध्यारागप्रसन्न- दुरालोकमण्डलो जातो भगवान् दिवसनाथः । ) सखी—सहि, रोसाणिदकणअपत्तसरिसेण लदाजालन्तरापडिकिरण- णिवहेण पिञ्जरिदोञ्जाणभूमिभाओ पूरिदपदिण्णो विअरिउदुप्पेक्खणिज्जो जादो भअवं सहस्सकिरणो । ता समओ दे कुसुमचन्दणगब्भेण अग्घेण पज्जुवट्टादुम् । ( सखि, रोषानितकनकपत्रसदृशेन लताजालान्तरापतितकिरण- निवहेन पिञ्जरितोद्यानभूमिभागः पूरितप्रतिज्ञ इव रिपुदुःप्रेक्षणीयो जातो भगवान्सह- स्त्रकिरणः । तत्समयस्ते कुसुमचन्दनगर्भेणार्येण पर्युपस्थातुम् । ) भानुमती—हज्जे तरलिए, उवणहि मे अग्घभाअणं जाव भअवदी सहस्सरस्सिणो अवरिअं णिव्वट्टेमि । ( हञ्जे तरलके, उपनय मेऽर्घभाजनं उदयगिरिशिखरान्तरविमुक्तरथवरः = उदयःचलस्य यः शिखरः शृङ्गं तस्यान्त- रात् मध्याद् विमुक्तः प्रचलितः रथवरः स्यन्दनश्रेष्ठः यस्य सः । विगलितसन्ध्याराग- प्रसन्नदुरालोकमण्डलः = विगलितः सन्ध्यारागः सन्ध्याकालिकरक्तिमा यस्य सः अत एव प्रसन्नं दुरालोकमण्डलं प्रकृष्टप्रकाशविम्बः यस्य सः, 'बहुव्रीहिगर्भकर्मधारय- समासः' । जातः, भगवान्, दिवसनाथः = सूर्यः । रोषानितेति—परीक्षितस्वर्णतुल्येनेत्यर्थः । लताजालान्तरपतितकिरणनिवहेन = लतासमूहमध्यप्रविष्टरश्मिसमुदायेन । पिञ्जरितोद्यानभूमिभागः = पिञ्जरितः पीतीकृत उद्यानभूमिभागो येन सः । पूरितप्रतिज्ञ इव, रिपुदुःप्रेक्षणीयः = प्रचण्डातपः जातः, भगवान्, सहस्रकिरणः = सूर्यः । पर्युपस्यातुम् = अर्चितुम् । अर्घभाजनम् = अर्घदानार्थं पात्रम् । सहस्त्ररश्मेः = सूर्यस्य, सपर्य्याम् = पूजाम्, करते हुए सुवर्णमय रथ से, उषाकाल की लालिमा के दूर हो जाने से भगवान् भास्कर (सूर्य) का आलोकमण्डल प्रकाशित हो उठा । सखी—तपाये हुए सुवर्ण की दीप्ति के सदृश किरणों के पुञ्ज से, जो लताओं के कुञ्जों के अवकाश भाग से छन-छन कर नीचे आ रही हैं, वाटिका की भूमि पिङ्गल वर्ण की बनाते हुए सहस्रांशु (सूर्य) मानों अपनी प्रतिज्ञा पूर्ण करके शत्रुओं के लिये दुष्प्रेक्ष्य बन गए हैं अर्थात् सूर्य भगवान् ऊँचे आ गये हैं जिससे उनकी तरफ शत्रु वर्ग आँख उठा कर देख भी नहीं सकता अतः पुष्प-चन्दन-विमिश्रित अर्घ के द्वारा उपस्थान करने के लिये आपका समय हो गया है । भानमती—अरी तरलिके, मेरा अध्यपात्र ला दो जिससे मैं भगवान् भास्कर का पूजन
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ६९ यावद्भगवतः सहस्ररश्मेः सपर्यां निर्वर्त्तयामि ।) चेटी—जं देवी आणवेदि । (इति निष्क्रम्य पुनः प्रविशन्ती । देवि एदं अग्घभाअणम् । ता णिव्वट्टीअदु भअवदो सहस्सरस्सिणो सवरिआ (यद्देवी आज्ञापयति । देवि एतदर्घभाजनम् । तन्निर्वर्त्यतां भगवतः सहस्ररश्मेः सपर्या ।) राजा—(आत्मगतम्) अयमेव साधुतरोऽवसरः समीपमुपगन्तुं देव्याः । (प्रविशति) (राजोपसृत्य संज्ञया परिजनमुत्सार्य स्वयमेवार्घपात्रं गृहीत्वा ददाति ।) सखी—(स्वगतम् ।) कहं महाराओ समाअदो । हन्त, किदो से पिअसहीए णिअमभङ्गो रण्णा । (कथं महाराजः समागतः । हन्त, कृतोऽस्याः प्रियसख्या नियमभङ्गो राज्ञा ।) भानुमती—(दिनकराभिमुखी भूत्वा) भअव, अम्बरमहासरेक्कस- हस्सपत्त, पुव्वदिसावहूमुहमण्डलकुङ्कुमविसेसअ, सअलभुवणाङ्गणदीवअ, एत्थ सिविणअदंसण जं कि वि अच्छाविदं तं भअवदो पणामेण कुसलपरि- णामि ससदवभादुअस्स अज्जउत्तस्स होदु । (अर्घ्यं दत्त्वा ।) हला, उवणेहि मे कुसुमाई जाव अवराणं वि देवदाणं सवरिअं णिव्वट्टेमि । (हस्तौ प्रसारयति ।) (भगवन्, अम्बरमहासरेकसहस्रपत्र, पूर्वदिगावधूमुखमण्डलकुङ्कुम- 'निर्वर्त्तयामि = सम्पादयामि । सुयोधनो मनसि विचारयति कथयति वा-अयमेवेति । संज्ञया = सङ्केतेन, परिजनम् = सखीचेटीचो, उत्सार्य = पृथक्कृत्वा । अम्बरमहासरेकसहस्रपत्र = अम्बरम् आकाशमेव महासरः सरोवरम् । तस्मिन् चेटी-अच्छा, जो आज्ञा श्रीमती यह पात्र लीजिए और सविता देवताका पूजन कीजिए। राजा-यह प्रिया के पास जाने का अच्छा अवसर है । (समीप जाकर इशारे से सखियों को हटाकर अर्घपात्र लेकर भानुमती के हाथ में देना चाहता है ।) सखी-(देखकर अपने आप) अरे ! महाराज क्यों आ गए ? खेद ! इनका नियमो- ल्लङ्घन हो गया । भानुमती-(सूर्याभिमुख होकर) हे आकाश सरोवर के कमल, पूर्व दिशारूपी वधूटी के मुख-मण्डनार्थ कुङ्कुम विशेष तथा समस्त संसार के लिये मात्र रत्नप्रदीप जो कुछ इस स्वप्न में विघ्न हो आपके प्रणाम से भ्रातृवर्गो के साथ आर्यपुत्र के लिए परिणाम में
७० वेणीसंहारं नाटकं विशेषक, सकलभुवनाङ्गनदीपक, अत्र स्वप्नदर्शने यत्किमप्यत्याहितं तद्भगवतः प्रणामेन कुशलपरिणामि सशत्तभ्रातृकस्यार्य्यपुत्रस्य भवतु । हला, उपनय मे कुसुमानि यावदपरासामपि देवतानां सपर्यां निर्वर्त्तयामि । ) राजा पुष्पाण्युपनयति । स्पर्शसुखमभिनीय कुसुमानि भूमो पातयति । भानुमती— ( सरोषम् । ) अहो पमादो परिअणस्स । ( परिवृत्य दृष्ट्वा ससम्भ्रमम् ) कथ अज्जउत्तो ( अहो प्रमादः परिजनस्य । कथमार्थपुत्रः । ) राजा—देवी अनिपुणः परिजनोऽयमेवंविधे सेवावकाशे । तत्प्रभवत्यनु- शासने देवी । अयि प्रिये । विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः- परिजनपथवर्त्तिन्यत्र किं सम्भ्रमेण । यदेकं सहस्रपत्रम् तस्य सम्बोधने । पूर्वदिशावधूमुखमण्डलकुङ्कुमविशेषक=पूर्वदिशैव वधूः तस्याः मुखमण्डलस्य कुङ्कुममेव विशेषकः तिलकम् तत्सम्बोधने । अत्याहितम् = महाभीतिः 'अत्याहितं महाभीति'रित्यमरः । अपरासाम् = अन्यासां । प्रसादः = अनवधानता । परिवृत्य = सङ्घूर्ण्य । आर्य्यपुत्र. = पतिः । प्रभवत्यनुशासने = अनुशासितुं समर्था । अन्वयः—परिजनपथवर्तिनि अत्र धवलदीर्घापाङ्गसंसर्पि, चक्षुः, विकिर, सम्भ्र- मेण, किम् स्मितमधुरम्, उदारम् माम्, उच्चैः, आलप, हे देवि, मम्, पाण्योः अञ्जलिः, प्रभवति, ( अत एव ) त्वम्, अस्याम् स्पृश ॥ १६ ॥ परिजनपथवर्तिनि = परिजनस्य पन्थाः परिजनपथः सेचकमार्गः तत्र वर्तमाने, अत्र = मयि, धवलदीर्घापाङ्गसंसर्पि— धवलश्चासौ दीर्घः धवलदीर्घः 'स्वच्छायतः' मङ्गलकारी हो । ( अर्घ देकर ) अरी तरलिके मुझे पुष्प ला दे जिससे मैं और भी देवताओं का पूजन सम्पादन करूं ( यह कह कर हाथ फैलाती है । ) ( राजा [दुर्योधन] ) नौकर-चाकरों को संकेत से दूर भगाकर स्वयं पुष्प प्रदान करते हैं, अङ्गस्पर्श के सुखों का अनुभव करके फूलों को नीचे गिरा देते हैं । ) भानुमती— (क्रुद्ध होकर) वाह रे, भृत्यों को असावधानता ( पीछे मुड़कर राजा को देख व्याकुल हो जाता है। राजा—देवि, यह भृत्य इस प्रकार की सेवा के विषय में अनभ्यस्त है । अतः श्रीमती दण्ड प्रदान कर सकती हैं । अयि स्नेहास्पदे । सेवा कार्य के लिए उद्यत इस दास की ओर कर्णमूल पर्यन्त विश्राम करनेवाले अत एव विशाल तथा निर्मल नेत्र के द्वारा अवलोकन कीजिए [ व्रतादि नियमों के कारण
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ७१ स्मितमधुरमुदारं देवि मामालपोच्चैः प्रभवति मम पाण्योरञ्जलिस्त्वं स्पृशास्मान् ॥ १६ ॥ भानुमती — अज्जउत्त, अब्भणुण्णादाए दुह अत्थि न कस्सि विणिअमे अहिलासो । ( आर्यपुत्र, अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमेऽभिलाषः । ) राजा — श्रुतविस्तर एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेवं प्रकृतिसुकुमारमात्मानं खेदयितुम् । स च अपाङ्गः नेत्रप्रान्तः तं संसर्पति गच्छतीति धवलदीर्घापाङ्गसंसर्पि, चक्षु=नेत्रम्, विकिर = विक्षिप । सम्भ्रमेण = उद्वेगेन, किम् ? न किमपीत्यर्थः, उद्वेगो न कार्य इति भावः । स्मितमधुरं = स्मितेन ईषद्धासेन मधुरम् सुन्दरम् उदारम् = दक्षिणम् यथा स्यात्तथा हे देवि, माम् उच्चैः = तारस्वरेण, आलप = आलापं कुरु । हे देवि, मम पाण्योः = हस्तयोः, अञ्जलिः, प्रभवति = प्रकर्षेण वर्तते, अञ्जलिबद्धोऽस्मीति भावः । अत एव त्वम्, अस्मान्, स्पृश = छूउ 'प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वामि'ति पाठः सुगमः । अत्र पक्षे प्रभवतीत्यस्य समर्थोऽस्तीत्यर्थः । अत्र 'यद्वा कारकमेकं स्यादनेकासु क्रियासु चेदि'ति लक्षणाद् एकस्यैव त्वमिति कारकस्यानेक- क्रियासु सम्बन्धात्कारकदीपकालङ्कारः । मालिनीच्छन्दः । न न म य य युतेयं मालिनी भोगिलोकैरिति लक्षणात् ॥ १६ ॥ त्वया, अभ्यनुज्ञातायाः=आज्ञापितायाः, मे=मम्, कस्मिन्नपि, नियमे, अभिलाषः= इच्छा अस्तीत्यन्वयः । भवत्याः, स्वप्नवृत्तान्तम्, प्रति, श्रुतविस्तरः=श्रुतः, विस्तरः येन सः, एव, अस्मीत्यन्वयः । तत् = तस्मात् प्रकृतिसुकुमारम् = स्वभावतः कोमलम् आत्मानम् = अन्तःकरणम्, एवं, खेदयितुम्-परितापयितुम्, अलम् = व्यर्थम् वासरूपन्यायेन आँख में कज्जल नहीं लगाया था इसलिए नेत्र धवल थे ] व्याकुल होने से क्या लाभ ? मुझसे मन्दहास्यपूर्वक उच्च स्वर से चित्ताकर्षक तथा मधुर भाषण कीजिये । यह मेरे साञ्जलि हस्त आपकी सेवा के लिए उद्यत हैं अर्थात् हाथ जोड़कर यह दास आपकी सेवा के लिए तय्यार है । यदि इसने अपराध किया है तो आप क्रोध भरी आँखों से देखें और डाँट- फटकार कर दण्ड दें अथवा ये हाथ अञ्जलि बाँधकर अपने अपराधों के लिए क्षमा प्रार्थी हैं । भानुमती — महाराज, मुझे आज्ञा प्रदान करें, किसी एक नियम (व्रत) के सम्पादन करने में मेरी बलवती इच्छा है । राजा — मैं श्रीमती के स्वप्नीय वृत्तान्तों को पूर्णतया सुन चुका हूँ अतः सहज सुकोमल चित्त को कष्ट देने की कोई आवश्यकता नहीं है ।
७२ वेणीसंहार नाटकं भानुमती—अज्जउत्त, मे सङ्का बाहेइ। ता अणुमण्णदु मं अज्जउत्तो। (आर्यपुत्र, मां शङ्का बाधते। तदनुमन्यतां मामार्यपुत्रः।) राजा—(सगर्वम्।) देवि, अलमनया शङ्कया। पश्य— किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि। भीरु भ्रातृशतस्य मे भुजवनच्छायासुखोपस्थिता 'अलं खल्वे'रिति क्त्वाऽभावे तुमुन्प्रत्ययः। अन्वयः—नः व्याप्तदिशाम् (अत एव) प्रकम्पितभुवाम् अक्षौहिणीनाम्, किम्, फलम्, द्रोणेन, किम्, अङ्गराजविशिखैः किम्, (हे) भीरु, एवम्, यदि, क्लाम्यसि, मे भ्रातृशतस्य भुजवनच्छायासुखोपस्थिता, त्वम्, दुर्योधनकेसरीन्द्र गृहिणी (वर्तसे) तव, शङ्कास्पदम् किम्।। १७।। शङ्काया अभावे हेतुमाह—किन्नो व्याप्तदिशामिति। नः = अस्माकम् व्याप्तदिशाम् = व्याप्ता दिक् याभिः तासाम्, सर्वत्र विस्तृताना- मित्यर्थः, अत एव प्रकम्पितभुवाम् = कम्पितभूमीनाम्, अक्षौहिणीनाम् = दशानीकि- नीनाम्, तदुक्तममरे— एकमेकरथा त्र्यश्वा पत्तिः पञ्चपदातिका। पत्यङ्गैरित्रगुणैः सर्वैः क्रमादाख्या यथोत्तरम्। सेनामुखं गुल्मगणो वाहिनी पृतना चमूः। अनीकिनी दशानीकिन्यक्षौहिणीति॥ अयमर्थः—एकगजैकरथत्र्यश्वानां समूहः पञ्च पदातयश्च यत्र सा पत्तिः। तिसृभिः पत्तिभिः सेनामुखं, त्रिभिः सेनामुखैः गुल्मः, त्रिभिर्गुल्मैर्गणः, त्रयो गणाः वाहिनी, तिस्रो वाहिन्यः पृतना, तिस्रः पृतनाः चमूः, तिस्रश्चम्वोऽनीकिनी दशानीकिन्य- क्षौहिणी इति सेनाविशेषस्य संज्ञा। किं फलम् = कोऽर्थः न किमपीत्यर्थः। इदं, यदि क्लाम्यसीत्यनेनान्वेति, एवमग्रेऽपि। द्रोणेन = आचार्येण, किम् अङ्गराजवि- शिखैः = कर्णबाणैः, किम्, हे भीरु = भययुक्ते, एवं त्वं यदि क्लाम्यसि = परितपसि, एतादृशवीरसेनासत्त्वे त्वया तापो न कार्य इति भावः। मे = मम भ्रातृशतस्य = भानुमती—आर्यपुत्र, मैं गम्भीर सन्देह सागर में डूब रही हूँ अतः मुझे आशा प्रदान कर ही दें। राजा—(अहङ्कार के साथ) देवि, इस सन्देह पर, ध्यान न दीजिए देखिये— यदि आप इस प्रकार की शङ्का से विचलित हो रही हैं तो हम लोगों की अक्षोहिणी सेना की जो समस्त दिशाओं तक प्रसिद्ध है तथा जिसके बल से भूमि कम्पित हो जाती है, क्या आवश्यकता! अथवा द्रोणाचार्य की क्या उपयोगिता तथा कर्ण के बाणों से क्या?
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् . ७३ त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तत्र ॥ १७ ॥ भानुमती—अज्जउत्त, ण हु मे किं वि आसङ्काकारणं तुम्हेसु सण्णि- हिदेसु । किन्तु अज्जउत्तस्स एव्व मणोरहसम्पत्ति अहिणन्दामि । (आर्यपुत्र, न खलु मे किमप्याशंकाकारणं युष्मासु सन्निहितेषु । किन्त्वार्यपुत्रस्यैव मनोरथसम्प- त्तिमभिनन्दामि ।) राजा—अयि सुन्दरि, एतावन्त एव मनोरथा यदहं दयितया सङ्गतः स्वच्छया विहरामीति । पश्य— प्रेमाबद्धस्तिमितनयनापीयमानाव्जशोभं लज्जायोगादविशदकथं मन्दमन्दस्मितं वा । शतसंख्याकभ्रातॄणाम्, भुजवनच्छायासुखोपस्थिता = बाहुरूपवनच्छायायां सुखेनॊप- विष्टा, त्वम् दुर्योधनकेशरीन्द्रगृहिणी, वर्तसे इति शेषः । यतस्त्वमेतादृशी अतः, तव= भानुमत्याः, शङ्कास्पद = सन्देहस्थानं किम् न किमपीत्यर्थः । अत्र रूपकालङ्कारो लुप्तोपमा च । शार्दूलविक्रीडितं छन्दः ॥ १७ ॥ दयितया = प्रिया, सङ्गतः = युक्तः । विहरामि = विहारङ्करोमि । अन्वयः—दुर्योधनस्य, ते प्रेमाबद्धस्तिमितनयनापीयमानाव्जशोभम्, लज्जायो- गात् अविशदकथम्, मन्दमन्दस्मितम्, नियममुषितालक्तकाग्राधरम्, वा, परम्, असु- लभम्, वक्त्रेन्दुम्, पातुम्, वाञ्छा, किम् न ॥ १८ ॥ प्रेमाबद्धेति । दुर्योधनस्य, ते=तव, इदं वक्त्रेन्दुमित्यनेनान्वेति । प्रेमाबद्धस्ति- मितनयनापीयमानाब्जशोभम्-प्रेम्णा आबद्धम्, युक्तम् अतएव स्तिमितं सान्द्रम् नयनम् नेत्रम्, तेन आपीयमाना आक्रान्ता अब्जशोभा ( कमलसौन्दर्यम् ) येन तम्, इदं वक्त्रेन्दुविशेषणम्, एवमग्रिममपि । लज्जायोगात् = त्रपावत्त्वात्, अवि- ऐ भीरु ! मेरे सौ भाइयों के भुजारूपी कानन की छाया में आनन्द से विश्राम करती हुई आप सिंह दुर्योधन की धर्मपत्नी हैं आपके लिए शङ्का का स्थान कैसा ? ॥ १७ ॥ भानुमती—आर्य, आप लोगों के होते हुए मुझे सन्देह का कोई कारण ही नहीं है किन्तु आर्यपुत्र के ही मङ्गल की कामना करती हूँ । राजा—अयि मनोरमे, मैं अपनी वल्लभा के साथ स्वच्छन्द बिहार कर रहा हूँ यही हम लोगों के मनोरथ हैं देखिये— आपके मुख चन्द्र ने स्नेहाधिक्य से निश्चल नेत्रों के द्वारा कमल को पराजित कर दिया है तथा लज्जा के कारण उससे स्पष्ट शब्द नहीं निकल रहे हैं और अधरपुट से व्रत पालन के कारण लाक्षारस के चिह्न दूर हो गये हैं इस तरह के तथा मन्द
७४ वेणीसंहारं नाटकं वक्त्रेन्दुं ते नियममुषितालक्तकाग्राधरं वा पातुं वाञ्छा परमसुलभं किं न दुर्योधनस्य ॥ १८ ॥ ( नेपथ्ये महान् कलकलः ! सर्वे आकर्णयन्ति । ) भानुमती-( सभयं राजानं परिष्वज्य । ) परित्ताअदु परित्ताअदु अज्ज- उत्तो । ( परित्रायताम् परित्रायतामार्यपुत्रः । ) राजा-( समन्तादवलोक्य । ) प्रिये, अलं सम्भ्रमेण । पश्य· दिक्षु व्यूढाङ्घ्रिप्राङ्गस्तृणजटिलचलत्पांसुदण्डोऽन्तरिक्षे शदकथम् = अवृद्धवाचम्, मन्दमन्दस्मितम् = ईषद्सितम्, नियममुषितालक्तकाग्राधरं= नियमेन व्रतेन मुषितम् त्यक्तम् अलक्तकं लाक्षा येन अग्राधरेण तत् अग्राधरम्, ऊर्ध्वोष्ठम्, यस्मिन् तम् वा परम् = अत्यन्तम्, असुलभम् = अप्राप्यम् नियमे स्थितत्वा- दिति भावः । वक्त्रेन्दुम् = मुखचन्द्रम्, पातुं, वाञ्छा, किन्न, अस्त्येवेति भावः । मन्दाक्रान्ता छन्दः । लक्षणमुक्तं ८ श्लोके ॥ १८ ॥ कलकलो बहुभिः कृतो महाध्वनिः । परिष्वज्य = गाढं सङ्गृह्य आलिङ्ग्येत्यर्थः । अन्वयः-(हे) भीरु, दिक्षु, व्यूढाङ्घ्रिप्राङ्गः, अन्तरिक्षे, तृणजटिलचलत्पांसु- दण्डः, पथिषु, शर्करालः झाङ्कारी, विटपिनाम्, स्कन्धकार्षेः, सधूमः, प्रासादानाम्, निकुञ्जेषु, अभिनवजलोद्गारगम्भीरधीरः चण्डारम्भः, समीरः परिदिशम् , वहति । सम्भ्रमेण, किम् ॥ १९ ॥ आकस्मिकमहावायुप्रवहणेन भीताया भानुमत्या धैर्यायाह-दिक्षु इति । हे भीरु, दिक्षु=दिशासु, व्यूढाङ्घ्रिप्राङ्गः = विक्षिप्तवृक्षशाखादिः, वेगवाद्वायुप्रव- हणात् प्रतिदिशम् वृक्षशाखापत्रादयो भ्राम्यन्तीत्यर्थः । अन्तरिक्षे -आकाशे, तृण· जटिलचलत्पांशुदण्डः = तृणेन जटिलः जटाकः चलन् पांशुदण्डः दण्डाकारः पांशुः हासकारी आपके मुख चन्द्र के पान की [ अर्थात् अधर-रस पान की ] ही दुर्योधन की उत्कट इच्छा है उसके लिए और कौन पदार्थ है जो अलभ्य है ॥ १८ ॥ ( नेपथ्य की ओर कलकल ध्वनि होती है और सब लोग सुनते हैं । ) भानुमती-( डर जाती है और राजा का आलिङ्गन करती है । ) रक्षा कीजिए आर्यपुत्र ! रक्षा कीजिये । राजा-( चारों तरफ देखकर) दयिते, व्याकुल होने की कोई आवश्यकता नहीं देखिए- यह बड़े वेग के साथ वायु (बवण्डर) चल रहा है, वह वृक्षों की शाखा,टहनियों तथा पत्र-पुष्पों को लेकर इधर-उधर दिग्विदिशाओं में प्रक्षिप्त कर रहा है। यह आकाशपथ में
द्वितीयोऽङ्कः ] . प्रबोधिनी-प्रकाशद्वयोपेतम् ७५ झङ्कारी शर्करालः पथिषु विटपिनां स्कन्धकार्षैः सधूमः । प्रासादानां निकुञ्जेष्वभिनवजलदोद्गारगम्भीरघोर- श्चण्डारम्भः समीरो वहति परिदिशं भीरु किं सम्भ्रमेण ॥ १९ ॥ सखी - महाराज, आरोहीअदु एदं दारुपव्वअप्पासादम् । उव्वेअ- कारी क्खु अअं उत्थिदपरुसरअकलुसीकिदणअणो उन्मूलिदतरुवरसद्दवित्त- त्थ्मन्दुरापरिव्भट्टवल्लहतुलङ्गमपज्जउलीकिदजणपद्धई भीषणसमारणो । ( महाराज, आरुह्यतामेतद्दारुपर्वतप्रासादम् । उद्वेगकारी खल्वयमुत्थितपरुषरजः कलुषीकृतनयन उन्मूलिततरुवरशब्दवित्रस्तमन्दुरापरिभ्रष्टवल्लभतुरङ्गमपर्याकुलीकृत- धूलिः, ( विइडो इति प्रसिद्धः ) । यस्मात् सः, पथिषु, =मार्गेषु, शर्करालः=शर्करा अश्मप्राया मृत् तद्वान्, झाङ्कारी =अव्यक्तशब्दकारी, विटपिनां स्कन्धकार्षैः=वृक्षाणां प्रकाण्डकर्षणैः सधूमः=धूमयुक्तः प्रासादानां = हर्म्याणाम्, निकुञ्जेषु=अन्तःस्थानेषु, अभिनवजलदोद्गारगम्भीरघोरः = अभिनवः नूतनो यो जलदः ( मेघः ) तस्य य उद्गारः ( शब्दः ) तद्वद्गम्भीरोऽतएव घोरः, चण्डारम्भः=प्रचण्डोपक्रमः, समीरः= वायुः, पूर्वोक्तं सर्वमस्यैव विशेषणम्, परिदिशं = सर्वदिक्षु, वहति=वाति, स्वाभाविक- मेव प्रवहणमतः किं सम्भ्रमेण=उद्वेगेन किम् उद्वेगो न कार्यम् इति भावः । स्रग्धरा- छन्दः । म्रम्नेर्यानां त्रयेण त्रिमुनियुतियुता स्रग्धरा कीर्तितेयमिति लक्षणात् ॥ १९ ॥ एतद्, दारुपर्वतप्रासादम् = क्रीडापर्वतस्थगृहम् । आरुह्यताम् । आलम्ब्यताम्, इत्यन्वयः । उत्थितपरुषरजःकलुषीकृतनयनः=उत्थितं यत्परुषं कठिनं रजः धूलिः तेन कारणभूतेन कलुषीकृतं नयनं येन सा, उन्मूलिततरुवरशब्दवित्रस्तमन्दुरापरि- भ्रष्टवल्लभतुरङ्गमपर्याकुलीकृतजनपद्धतिः = उन्मूलितः उत्पादितो यस्तरुवरः तस्य शब्देन वित्रस्ता भीता या मन्दुरा वाजिहाला, ( यद्यपि मन्दुराया भयन्न सम्भवति तृणों के साथ धूल एकत्रित कर घुमाता हुआ लम्बे दण्डे के आकार बना रहा है । यह झंझाता हुआ मार्गों में छोटी-छोटी कंकड़ियों को बिखेर रहा है। धनिकों के भवनों के पास की वाटिकाओं के वृक्षों की शाखाओं के परस्पर संघर्ष से निकली हुई अग्नि से जलने के कारण धूयें के समान इसका वर्ण मालूम पड़ रहा है। इसके अतिरिक्त वर्षाकाल के प्रारम्भ काल के मेघों की घटा की भाँति वह गम्भीर गर्जन करता हुआ चला आ रहा है। अयि भीरु ! इसमें व्याकुल होने की क्या आवश्यकता है ? ॥ १९ ॥ सखी—महाराज ! आप इस दारु पर्वत के महल में चलें। यह भीषण झंझावात हृदय को विक्षुब्ध करता हुआ, उड़नेवाली कंकड़ियों से भरी हुई धूलों को आँखों में झोंकता हुआ, चला जा रहा है। इसके झकोरे से उखड़ते, अरराते, महराते हुए वृक्षों की अरराहट
७६ वेणीसंहारे नाटकं जनपद्धतिर्भीषणः समीरणः । ) राजा—( सहर्षम् ) उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य प्रसादादयत्नपरित्यक्तनियमया देव्यां सम्पादितोऽस्मन्मनोरथः । कथमिति । न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः । तन्व्या लग्नपयोधर भयवशादाबद्धमालिङ्गितं भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो नु मे ॥ २० ॥ तथाप्युपवारात्तप्रत्यश्वानां भय युक्तम् ) तस्याः परिभ्रष्टाः ये वल्लभतुरङ्गमाः श्रेष्ठाश्वाः तैः करणैः पर्याकुलीकृता अत्यन्त विदलिता जनपद्धतिः मनुष्यमार्गः येन सः, भीषणः = भयावहः समीरणः = वायुः । वात्याचक्रम् = वायुसमूहः । अयत्नपरित्यक्तनियमया = अनायासेन त्यक्तव्रतया । अन्वयः—तन्व्या, भयवशात्, भ्रुकुटिः, न, न्यस्ता, बाष्पसलिलैः, लोचने, न, आच्छादिते, अन्यतः, आननम् न, नीतम्, स्पृशन्, अहम्, सशपथम्, न वारितः, लग्नपयोधरम्, आलिङ्गितम् आबद्धम्, ( अतः ) अस्याः, नियमस्य, भङ्क्ता, अयम् भीषणमरुत्, न ( किन्तु ) मे, वयस्यः नु ॥ २० ॥ कथं मनोरथः सम्पादित इत्याह— न्यस्तेति — तन्व्या = भानुमत्या, भयवशात्, भ्रुकुटिः = भ्रकुटिः, न, न्यस्ता = कृता, नियमस्थाया अलिङ्गने भ्रूभङ्गादिकरणं युक्तं तन्न कृतमिति भावः । बाष्पसलिलैः = अश्रुभिः, लोचने = नेत्रे, न, आच्छादिते = व्यापिते द्विवचनान्तमेतत् । अन्यतः = अन्यत्र 'सार्वविभक्तिकस्तसिल्' आननं = मुखम, न, नीतम् = प्रापितं मुखपरिवर्त्तनं न कृतमिति भावः । स्पृशन् = अङ्गस्य और झहराहट के शब्द से डरे हुए श्रेष्ठ घोड़े घुड़शाल से बन्धन तोड़कर मार्गों पर इधर- उधर भाग रहे हैं। राजा—( प्रसन्नता के साथ ) यह झञ्झावात दुर्योधन के लिये महान् उपकारक बन गया है जिसकी अनुकम्पा से बिना किसी परिश्रम के व्रतनियमों को छोड़ देवी मेरे अभि- लषित मनोरथ को सफल बनाई है । किस प्रकार — इन्हें भौंह तिरछी भी न करना पड़ा अथवा न तो अश्रुविन्दुओं से आँखों को भरना पड़ा, इन्हें मेरी ओर से मुख भी न मोड़ना पड़ा, स्पर्श करते समय शपथपूर्वक इन्हें मेरा निषेध भी नहीं करना पड़ा, स्वयं भयवश होकर इस कोमलाङ्गी ने अपने स्तनों को दबा- कर गाढ आलिंगन करना प्रारम्भ कर दिया । यह वायु इनके नियमों के उल्लंघन का अपराधी भी न हुआ यह भीषण झन्झावात नहीं है, किन्तु यह मेरा परममित्र है ॥२०॥