भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( ४३ ) व्याख्या पौरुषं पुरुषार्य एव काञ्चनं सुवर्णं तस्य कषोपले शुद्धयशुद्धिपरिचायक- नीलपाषाणरूपे, यशःपाण्डुसरोरुहाणां यशःस्वरूपशुभ्रपद्मानामुत्पत्तिस्थानरूपे पङ्के कृष्णवर्णपङ्करूपाभिषेऽवाप्तः प्राप्तः पाणेर्हस्तस्य प्रणयस्संव्रहणस्नेहो यस्मिन्नेवं भूते कृपाणे सङ्गेऽतिप्रहृष्टामतिप्रसन्नां दृष्टिं व्यापारयन् कुर्वन्—सुभट आबिरासीदि- त्यनेनान्वयः । पौरुषे काञ्चनाभेदस्यारोपस्य कृपाणे कषोपलत्वारोपैकारणत्वाद्य- शसि श्वेतपद्मारोपस्य च खड्गे पङ्कत्वारोपे कारणत्वात्परम्परितरूपकद्वयम् । भाषा पुरुषार्थरूपी सोने की काले कसौटी स्वरूप तथा यशरूपी श्वेत कमलों को उत्पन्न करने वाली तालाब की काली मिट्टी स्वरूप अपने हाथ को प्रिय लगने वाली तलवार को अत्यन्त हर्ष युक्त दृष्टि से देखता हुआ—एक वीर उत्पन्न हुआ । हेमाचलस्येव कृतः शिलाभिरुदारजाम्बूनदचारुदेहः । अथाऽऽविरासीत्सुभटस्त्रिलोक-त्राणप्रवीणश्चुलुकाद्विधातुः ॥५५॥ अन्वयः अथ उदारजाम्बूनदचारुदेहः हेमाचलस्य शिलाभिः कृतः इव त्रिलोक- त्राणप्रवीणः सुभटः विधातुः चुलुकात् आविरासीत् । व्याख्या अथ ब्रह्मणः स्व-चुलुके दृष्टिपातानन्तरं उदारं शुक्लं महत् 'उदारो दातृ- महतोः' इत्यमरः । जाम्बूनदमिव सुवर्णमिव 'रुक्मं कार्तस्वरं जाम्बूनदमष्टा- पदोऽस्त्रियाम्' इत्यमरः । चारुः सुन्दरो देहः शरीरं यस्य स अतएव हेमाचलस्य सुमेरोश्शिलाभिः कृत इव निर्मित इव त्रिलोकस्य त्रैलोक्यस्य त्राणे रक्षणे समुद्धरणे च प्रवीणो निपुणः सुभटः गुग्गोद्धा राजा ब्रह्मणो विधातुश्चुलुकादब्जतेरावि- रासीत्प्रादुर्बभूव । देहस्य जाम्बूनदेन सादृश्यादुपमा । सुभटशरीरे सुवर्णाचल- शिलानिमित्तत्वस्योत्प्रेक्षणात्क्रियोत्प्रेक्षा । इति नवभिः श्लोकैः कुलकम् ।१

१ कुलकादिलक्षणमस्मिन्यन्थे त्रिचत्वारिंशत्तमश्लोकटिप्पण्यां द्रष्टव्यम् ।

( ४४ ) भाषा ब्रह्मा जी के अपनी जल पूरित अञ्जली पर दृष्टिपात करने के बाद शुद्ध सोने के समान सुन्दर देहवाला मानो सुमेरुपर्वत की सोने की चट्टानो से बनाया हुवा और तीनो लोको का रक्षण तथा उद्धार करने में निपुण एक महा योद्धा ब्रह्मा के चुल्लू में से प्रकट हुआ । (जहाँ पाच से अधिक श्लोको में वाक्यपूर्ति हो उसे कुलक कहते हैं ।) प्रस्थाप्य शक्रं धृतिमान्भवेति हर्षाश्रुपारिप्लवदृक्सहस्रम् । स शासनात्पङ्कुरुहासनस्य मरुद्विपक्षक्षयदीक्षितोऽभूत् ॥५६॥ अन्वयः सः हर्षाश्रुपारिप्लवदृक्सहस्रं शक्रं धृतिमान् भव इति प्रस्थाप्य पङ्करुहा- सनस्य शासनात् मरुद्विपक्षक्षयदिदीक्षितः अभूत् । व्याख्या स राजा हर्षाश्रुभिरानन्दाश्रुभि पारिप्लवं चञ्चलं 'चञ्चलं चपलोञ्चलं पारिप्लवपरिप्लवे' इत्यमर । दृशां नेत्राणां सहस्रं यस्य तं शक्रं सहस्राक्ष त्वं धृतिमान् भव धैर्यं धारयेत्याश्वास्येति शेष प्रस्थाप्य पुनस्स्वस्थाने निवर्तनाय नियोज्य पङ्केरुहासनस्य पद्मासनस्य ब्रह्मण 'पङ्केरुहं तामरसं सारसं सरसीरुह- मित्यमरः । शासनादाज्ञया मरुतां देवानां विपक्षाः शत्रवो दैत्यास्तेषां क्षये नाशे दीक्षित गृहीतदीक्ष कृतसङ्कल्पोऽभूत् जातः । भाषा उस वीर ने हर्ष जनित अश्रुओ से चंचल हजार आँखवाले इन्द्र को 'धैर्य रक्खो' ऐसा कह कर और उसको बिदा कर ब्रह्मा की आज्ञा से दैत्यो के नाश करने का बीडा उठाया । क्ष्माभृत्कुलानामुपरिप्रतिष्ठामनाप्य रत्नाकरभोगयोग्यः । क्रमेण तस्मादुदियाय वंशः शौरेः पदाद्भाङ्ग इव प्रनाहः ॥५७॥

[Page ( ४५ )]

अन्वयः तस्मात् क्रमेण क्ष्माभृत्कुलानाम् उपरि प्रतिष्ठां अवाप्य रत्नाकर भोगयोग्यः वंशः शौरेः पदात् गाङ्गः प्रवाहः इव उदियाय ।

व्याख्या तस्मात् राज्ञः क्रमेण क्रमशः क्ष्मां पृथ्वीं बिभ्रतीति क्ष्माभृतो राजानः पर्वताश्च तेषां कुलानि वंशाः समूहाश्च तेषामुपरि प्रतिष्ठां सर्वातिशायिनों स्थितिमवाप्य लब्ध्वा रत्नानामाकरस्य निधेः पक्षे समुद्रस्य भोगे सुखानुभवे पक्षे संयोगे योग्यः समर्थो वंशः कुलं शौरेर्विष्णोः पदाच्चरणाद्गाङ्गो गङ्गासम्बन्धी प्रवाह इव उदियायोदितोऽभूत् । यथा शौरेः पदात् गाङ्गः प्रवाहः पर्वतानामुपरि स्थितिं लब्ध्वा रत्नाकरसङ्गमयोग्य उदेति तथैव तस्माद्राज्ञः पार्थिवानामुपरि स्थानं लब्ध्वा रत्ननिषेभोगे समर्थो वंश उदियायेति भावः । अत्र पूर्णोपमालङ्कारः ।

भाषा उस राजा से, अन्य राजकुलो से अधिक कीर्तिशाली, रत्नो के खजानो का उपभोग करने के योग्य, विष्णु के चरण से पर्वत समूहो पर अपना स्थान बनाता हुआ, समुद्र से जा मिलने में समर्थ गङ्गाप्रवाह के समान, एक बंश आगे चल पढा ।

विपक्षवीराद्भुतकीर्त्तिहारी हारीत इत्यादिपुमान्स यत्र । मानव्यनामा च बभूव मानी मानव्ययं यः कृतवानरीणाम् ॥५८॥

अन्वयः यत्र विपक्षानुतकीर्त्तिहारी हारीतः इति आदिपुमान् बभूव । यः अरीणां मानव्ययं कृतवान् सः मानी मानव्यनामा च बभूव ।

व्याख्या यत्र चालुक्यराजवंशे विपक्षानामरीणामद्भुताऽऽश्चर्यकारिणी या कीर्तिर्यशः 'यशः कीर्तिः समज्ञाचेत्यमरः । तस्या हारी विनाशकारी हारीत इति नाम्ना प्रसिद्धो राजाऽऽदिपुरुषः कुलप्रवर्तको बभूव । यः प्रसिद्धोऽरीणां शत्रूणां मान- स्याहङ्कारस्य व्ययं नाशं कृतवान् चकार स मानी मानयुक्ततो मानव्यनामा

( ४६ ) तन्नाम राजा च बभूव । हारीतो मानव्यश्च तद्वंशमूलपुरुषौ बभूवतुरित्यर्थः । मानं व्ययतः इति मानव्यो, विपूर्वकं अव् गतो धातौर्विचि लोपोव्योर्वलीति वकारस्य लोपे सिद्धम् । भाषा जिस चालुक्य वंश में आदि पुरुष हारीत नाम का हुआ जो विपक्षी राजाओं की आश्चर्यजनक कीर्ति का अपहरण करने वाला था । अभिमानी मानव्य नाम का राजा भी उसी वंश में हुआ जिसने शत्रुओं के अभिमान को तोड़ दिया था । मीलद्विलासालकपल्लवानि विशीर्णपत्रावलिमण्डनानि । मुखानि वैरिप्रमदाजनस्य यद्द्भूततीनां जगदुः प्रतापम् ॥५६॥ अन्वयः मीलद्विलासालकपल्लवानि विशीर्णपत्रावलिमण्डनानि वैरिप्रमदाजनस्य मुखानि यद्द्भूततीनां प्रतापं जगदुः । व्याख्या मीलद्विलासा विलासरून्या सत्कारशून्या अलकपल्लवाः केशपाशा येषां तानि विशोर्णानि जीर्णानि *पत्रावलिरूपमण्डनानि शोभावर्द्धकानि येषु तानि वैरिणां शत्रूणा प्रमदाजनस्य स्त्रीसमूहस्य मुखान्याननानि (कर्तृ) यस्य चालुक्य- वंशस्य भूपतीनां राज्ञां प्रताप प्रभावं जगदुरूचुः । वैरिरत्रीणामलङ्काराभावा- त्यतीनां मरणं सूच्यते । भाषा शत्रुओं की स्त्रियों के सत्कार शून्य केशपाशों से युक्त तथा खण्डित पत्रावलि से युक्त मुख, उस चालुक्य वंश के राजाओं के प्रताप को कह रहे थे । अर्थात् प्रकट कर रहे थे । अर्थात् निकट भूत में पतियों के मारे जाने से विधवा हो

  • शोभा के लिये रंगबिरंगी वस्तुओं से मुखादि अगों पर निकाली हुई चित्रकारी ।

( ४७ ) जाने के कारण फिर अपने को विभूषित करने का अवसर न आने से उनके केशपाश पति की जीवितावस्था के संस्कारों से रहित थे और पत्रावलि रूप मण्डन भी फिर से न ठीक किये जाने से खण्डित हो गया था । उत्खातविश्वोत्कटकण्टकानां यत्रोदितानां पृथिवीपतीनाम् । क्रीडागृहप्राङ्गणलीलयैव बभ्राम कीर्त्तिर्भुवनत्रयेऽपि ॥६०॥ अन्वयः यत्र उदितानाम् उत्खातविश्वोत्कटकण्टकानां पृथिवीपतीनां कीर्त्तिः क्रीडागृहप्राङ्गणलीलया एव भुवनत्रये अपि बभ्राम । व्याख्या यत्र चालुक्यवंशे उदितानां समुत्पन्नानामुत्खातानि समूलमुच्छेदितानि विश्वस्य संसारस्योत्कटाः प्रकाण्डाः कण्टका विघ्नभूता दुष्टा राजान (क्षुद्रशत्रवः) यैस्तेषां पृथिवीपतीनां महीपतीनां कीर्त्तिर्यशः क्रीडागृहस्य लीलागृहस्य यत्प्राङ्गण- माभ्यन्तरभूमिस्तस्मिन् या लीलाऽधिकपरिश्रमं विना सञ्चरणादिविलासस्तयैवाऽना- यासेनैव भुवनत्रयेऽपि लोकत्रयेऽपि बभ्राम सञ्चचाल । भाषा संसार के अत्यन्त भयङ्कर उपद्रव रूपी क्षुद्र राजाओं को समूल नष्ट करने वाले, चालुक्य वंश में उत्पन्न राजाओं की कीर्ति, क्रीडागृह के अँगने में रहने के समान ही तीनों लोकों में अनायास से ही फैल गई । अर्थात् विरोधी राजाओं का नाश कर देने पर तीनों लोकों में निष्कण्टक राज्य हो जाने से विरोधियों के अभाव में सर्वत्र अनायास ही कीर्ति फैल गई । क्योंकि तीनों लोक उनके लिये निर्भय घर के अँगने के समान हो गया था । यत्पार्थिवैः शत्रुकठोरकण्ठ-पीठास्थिनिर्लोठन-कुण्ठधारः । निन्ये कृपाणः पटुतां तदीय-कपालशाणोपलपट्टिकासु ॥६१॥ अन्वयः यत्पार्थिवैः शत्रुकठोरकण्ठपीठास्थिनिर्लोठनकुण्ठधारः कृपाणः तदीय- कपालशाणोपलपट्टिकासु पटुतां निन्ये ।

( ४८ ) व्याख्या यस्य चालुक्यवंशस्य पार्थिवैर्नृपैः शत्रूणामरीणां कठोराः कठिनाः ये कण्ठपीठा ग्रीवास्थलानि तेषामस्थीनि तेषां निर्लोठनेन खण्डनेन कुण्ठा कुण्ठीभूता धारा तीक्ष्णाग्रभागो यस्य सः कृपाणः खड्गः तेषामिदं तदीयं तानि शत्रुसम्बन्धीनि कपालान्येव शिरोस्थीन्येव शाणोपलपट्टिकाः तीक्ष्णताप्रवर्धकयन्त्रविशेषाः 'सान' इति लोके प्रसिद्धम् । तासु पटुतां तीक्ष्णतां निन्ये प्रापितः । कपालेोपरि शाणोपलपट्टिकात्वारोपादूपकम् । कण्ठे पीठाभेदाच्चरूपकम् । भाषा जिस वंश के राजाओ ने, शत्रुओं की कड़ी २ गले की हड्डियों के काटने से कुन्द धार वाली तलवार की धार, शत्रुओं के सिर की हड्डी रूपी सान पर चढ़ा कर तेज की । निरादरश्चन्द्रशिखामणौ यः प्रीतेऽपि लोकत्रितयैकवीरः । क्षिपन्कृपाणं दशमेऽपि मूर्ध्नि स्वयं धृतः क्ष्माधरराजपुत्र्या ॥६२॥ अन्वयः यः लोकत्रितयैकवीरः चन्द्रशिखामणौ प्रीते अपि निरादरः (सन् ) दशमे मूर्ध्नि अपि कृपाणं क्षिपन् क्ष्माधरराजपुत्र्या स्वयं धृतः । व्याख्या यः प्रसिद्धो लोकानां भुवनानां 'लोकस्तु भुवने जने' इत्यमरः । त्रितयं त्रयं तस्मिन्नेकोऽद्वितीयो वीरो रावणश्चन्द्रएव शिखामणिः शिरोभूषणं यस्य सः शिवस्तस्मिन् प्रीतेऽपि प्रसन्नेऽपि निरादरस्सन् शिवस्य प्रसन्नतामगणयन्दशमे मूर्द्धन्यपि शीर्षेऽपि कृपाणं चन्द्रहासं क्षिपन्प्रहरन् क्ष्माधरस्य हिमाचलस्य राजपुत्र्या राजकन्यया पार्वत्या स्वयमेव धृतो निवारितोऽभूत् । भाषा तीनो लोको में अद्वितीय वीर रावण, जिसको, शंकर के प्रसन्न होने पर भी, उनकी प्रसन्नता की परवाह न कर अपने दसवें सिर पर तलवार चलाने से पार्वती जी ने स्वयं रोका था ।

( ५० ) दीक्षाऽभिनिवेशस्तस्या रतिश आकृष्टमनसस्तन्तो विलासेच्छया मनोविनोदाभि- लाषेण नागरखण्डचुम्बिनो नागवल्लीलग्ना पूगद्रुमाः क्रमुकवृक्षा यस्या तस्या दक्षिणस्या दिशि पदं स्वनिवासस्थानं चक्रुः रचयामासुः । भाषा इस चालुक्य वंश के विजय की इच्छा रखने वाले कुछ राजा लोग सम्पूर्ण जगत् का जीत कर विलासिता के रस में पड़कर, पान की बँवर से सटकर जहाँ सुपाड़ी के पेड़ लगे रहते हैं, एसी दक्षिण दिशा में राज्य करने लगे । तदुद्भवैर्भूपतिभिः सलीलं चोलीरहः-साक्षिणि दक्षिणाब्धेः । करीन्द्रदन्ताङ्कुरलेखनीभिरलेखि कूले विजय-प्रशस्तिः ॥६५॥ अन्वयः तदुद्भवैः भूपतिभिः चोलीरहस्साक्षिणि दक्षिणाब्धेः कूले करीन्द्रदन्ता- ङ्कुरलेखनीभिः विजयप्रशस्तिः सलीलम् अलेखि । व्याख्या तस्माद्दक्षिणचालुक्यवंशशङ्खादुद्भव उत्पत्तिर्येषां तैर्भूपतिभिर्नृपै श्चोलदेशोद्भूताना स्त्रीणां रहस एकान्तविलासस्य साक्षिणि साक्षिभूते दक्षिणाब्धेर्दक्षिणसमुद्रस्य कूले तटे 'कूलं रोधश्च तीरञ्च प्रतीरञ्च तटं त्रिषु' इत्यमरः । करीन्द्राणां महागजानां दन्ता रदना 'रदना दशना दन्तारदा' इत्यमरः । तेषामङ्कुरा अग्रिमसूक्ष्मभागा एव लेखम्यस्ताभिर्विजयस्य जयस्य प्रशस्ति प्रशंसा सलील सविलास यथास्यात्त- थाऽलेखि लिखिता । करीन्द्रदन्ताङ्कुरेषु लेखनीत्वारोपाद्रूपकालङ्कारः । तदा दक्षिणाब्धेस्तटे चोलक्षणीपतीनां राज्यमासीदितीतिहासः । तेषां महती गजसे- नाऽपि प्रसिद्धाऽऽसीत् । अरथ उस दक्षिण चालुक्य वंश में पैदा भए हुए राजाओ ने चोल-देशीय स्त्रियो के रहस्य पूर्ण विलासा स परिचित दक्षिण सागर क तट पर वडे २ हाथियो के दातो की नोक रुपी कल्मो से अपने विजय की प्रशसा खेलवाड में ही लिख दी । अर्थात हाथी की सेना ले जाकर सबको परास्त करने से वहाँ उनकी कीर्ति फैल गई ।

( ५१ ) द्वीपक्ष्मापालपरम्पराणां दोर्विंक्रमादुत्खननोन्मुखास्ते । विष्णोः प्रतिष्ठेति विभीषणस्य राज्ये परं सङ्कुचिता बभूवुः ॥६६॥ अन्वयः दोर्विंक्रमात् द्वीपक्ष्मापालपरम्पराणां उत्खननोन्मुखाः ते विभीषणस्य राज्ये विष्णोः प्रतिष्ठा इति परं सङ्कुचिताः बभूवुः । व्याख्या दोष्णा भुजाना 'भुजबाहू प्रवेष्टो दो इत्यमर । विक्रमात् पराक्रमात् द्वीपानां क्ष्मा पृथ्वी तस्या पाला पालका द्वीपक्ष्मा पालयन्तीति वा तेषा परम्परास्तासामुत्खनने, समूलमुन्मूलने उन्मुखास्तत्परास्ते विभीषणस्य राज्ये लङ्काया विष्णो प्रतिष्ठा विभीषणस्य रामभक्तत्वाद्विष्णुताक्षादवतारस्य रामस्य स्थितिस्तत्र वर्तत इति हेतोस्तस्या. पूज्यत्व न तु ग्राह्यत्वमिति लङ्कापुरीनाशन पर केवल सङ्कुचिता बभूवुस्तत्र न जग्मुरित्यर्थ । एतेन तेषा राज्ञां विष्णु- भक्तत्व सनातनधर्मित्वञ्च सूचितम् । केवल विभीषणराज्यद्वीप विहाय सर्वे द्वीपास्ते स्वायत्तीकृता इति भाव । एतेन लङ्कात पूर्व सकलोऽपि भूभा- गस्तैर्विजित आसीदिति सूच्यते । भाषा अपनी भुजा के पराक्रम से टापुओं के राजाओं को नष्ट कर देने में प्रवृत्त ये दक्षिण चालुक्यवंशीय राजा, लङ्का के रामभक्त विभीषण के राज्य में श्री रामचन्द्र की स्थिति है ऐसा सोचकर केवल उसपर आक्रमण करने में अग्रसर न हुए । अर्थात् केवल विभीषण के टापू लंका को छोडकर अन्य सब टापुओ को उन्होंने जीत लिया । द्वीपेषु कर्पूरपरागपाण्डु-ष्वास्वाद्य लीलापरिवर्तनानि । भ्रान्त्या तुषाराद्रितटे लुठन्तः शीतेन खिन्नास्तुरगा यदीयाः ॥६७॥ अन्वयः यदीयाः तुरगाः कर्पूरपरागपाण्डुषु द्वीपेषु लीलापरिवर्तनानि आस्वाद्य तुषाराद्रितटे भ्रान्त्या लुठन्तः शीतेन खिन्नाः ।

( ५२ ) व्याख्या येषामिमे इति तदीया यन्नृपतसम्बन्धिनस्तुरगा अश्वा कर्पूरस्य परागश्चूर्णं तद्वत्पाण्डुषु शुक्लेषु द्वीपेषु लीलया क्रीडया परिवर्तनानि परिभ्रमणान्यास्वाद्याऽ- नुभूय, भूमावुपविश्य परिश्रान्तिनिरासायाऽङ्गानिप्रसार्य धूलिधूसरास्सन्तोऽङ्गरोठ- नार्ति वाऽनुभूय कृत्या तुषाराद्रितटे हिमाचलप्रान्ते (शुक्लवर्णद्वीपत्य) भ्रान्त्या कर्पूर- द्वीप भ्रमेण लुठन्तश्चलन्त परिश्रान्तिनिवारणायाऽङ्गपरिवर्तनं कुर्वन्तो वा सन्त शीतेन शैत्येन खिन्ना दुःखिता बभूवु । तुषाराद्रितटे कर्पूरवच्छुभ्रवर्णद्वीप भ्रान्तिनिरूपणाद् भ्रान्तिमानलङ्कार । 'साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान्प्रतिभो- त्थित ।' एतेन हिमाचलपर्यन्तमेतेषा विजय सूच्यते । भाषा उन राजाओ के घोड, कपूर के चूर्ण के समान सफेद कर्पूर द्वीप के टापुओ में टहलने का सौख्य प्राप्त कर या थकावट हटाने के लिये लोटपोट करने का सौख्य प्राप्त कर, उसी भ्रम से बरफ से ढके हुए सफद हिमालय पर्वत पर चलने से या लोटने से शीत से बहुत पीडित हुए । इतः पर षड्भिः श्लोकैस्तैलपं नृपं वर्णयति— श्रीतैलपो नाम नृपः प्रतापी क्रमेण तद्वंशविशेषकोऽभूत् । क्षणेन यः शोणितपङ्कशेषं संख्ये द्विषां वीररसञ्चकार ॥६८॥ अन्वयः यः संख्ये द्विषा वीररस क्षणेन शोणितपङ्कशेष चकार ( एवम्भूतः ) श्री तैलपः नाम प्रतापी नृपः क्रमेण तद्वंशविशेषकः अभूत् । व्याख्या य संख्ये युद्धे 'मृधमास्कन्दन सख्य समीक साम्परायिकम्' इत्यमर । द्विषा शत्रूणाम् 'द्विड्वपक्षाहितामित्रदस्युशात्रव शत्रव ' इत्यमर । वीररसमुत्साह जलञ्च क्षणेनाल्पकालेन शोणितस्य रुधिरस्य पङ्क कर्द्दम एव शेषोऽवशिष्टाशो यस्य त चकार प्रकटयाञ्चकारैवम्भूत श्री तैलपो नाम प्रतापी प्रभाववान्नृपो राजा क्रमेण क्रमशः स चाऽसौ वंशश्च तद्वशस्तस्य विशेषकस्तिलकोऽभूत् । “तमालपत्रतिलकचित्रकाणि विशेषकम्" इत्यमर । यस्य प्रतापोष्मणा वीररस- रूपे जले शोषिते रुधिरपङ्कमेवाऽवशिष्टमिति भाव ।

( ५३ ) भाषा क्रम से उस वंश का तिलकरूप प्रतापी श्री तैलप नाम का राजा हुआ, जिसने युद्ध में देखते २ शत्रुओं के वीररस रूपी जल को अपने प्रताप की गर्मी से सुखा कर खून के कीचड के रूप में परिणत कर दिया। अर्थात् शत्रुओं की वीरता नष्ट करते हुए युद्धभूमि को खून से भर दिया। विश्वम्भराकण्टकराष्ट्रकूट-समूलनिर्मूलनकोविदस्य । सुखेन यस्यान्तिकमाजगाम चालुक्यचन्द्रस्य नरेन्द्रलक्ष्मीः ॥६६॥ अन्वयः नरेन्द्रलक्ष्मीः विश्वम्भराकण्टकराष्ट्रकूटसमूलनिर्मूलनकोविदस्य चालु- क्यचन्द्रस्य यस्य अन्तिकं सुखेन आजगाम । व्याख्या नरेन्द्राणां प्रतिपक्षभूपानां लक्ष्मी राज्यश्रीर्विश्वम्भराया भूमे कण्टकभूतः कष्टदायको यो राष्ट्रकूटस्तन्नाम-राजवंशस्तस्य समूलं यथास्यात्तथा निर्मूलने विनाशाकरणे कोविदो निपुणस्तस्य चालुक्यचन्द्रस्य चालुक्यवंशे चन्द्रोपमस्य यस्य श्रीतैलपस्यान्तिकं समीप सुखेन प्रेम्णाऽऽजगाम प्राप्ता। राष्ट्रकूटराजवंशे नष्टे सति तस्य राज्यश्रीरेनं वृतवती। भाषा पृथ्वी पर कण्टक रूप राठौर वंश के राजाओं को समूलनष्ट करने में प्रवीण, चालुक्य वंश के चन्द्ररूप उस तैलप राजा के पास विपक्षी राजाओं की राज्यश्री सुख से आ गई। शौर्योष्मणा स्विन्नकरस्य यस्य संख्येपु खङ्गः प्रतिपक्षकालः । पुरन्दरप्रेरितपुष्पवृष्टि-परागसङ्गान्नियिडत्वमाप ॥७०॥ अन्वयः संख्येपु शौर्योष्मणा स्विन्नकरस्य यस्य प्रतिपक्षकालः खङ्गः पुरन्दर प्रेरितपुष्पवृष्टिपरागसङ्गात् निविडत्वम् आप ।

( ५४ ) व्याख्या सर्व्वेषु युद्धेषु शूरस्य भाव शौर्यं तद्रूपेणोष्मणा पराक्रमोष्मणा स्विन्नं स्वेदेनार्द्रं करो हस्तो यस्य तस्य यस्य श्री संल्पस्य प्रतिपक्षाणा शत्रूना काल यमरूपो नाशकस्तल्लङ्ग पुरन्दरेणेन्द्रेण ‘पुरुहूत पुरन्दर’ इत्यमर । प्रेरिता वृता या पुष्पाणा कुसुमाना वृष्टिर्यथं तस्या परागस्य सुमनोरजस ‘पराग सुमनोरज’ इत्यमर । सङ्गात्सम्पर्कात्त्रिविधत्व घनत्वमाप प्राप। परागसम्पर्कत्स्विङ्गे स्वेदजलार्द्रत्वस्य निवारणादृढतया हस्तेन खड्गधारण जातमत्त खड्गहस्तयोवि- र्तुसम्बन्धस्याभावाद् घनसम्वन्धो जात इति भाव । शौर्य ऊष्माभेदालङ्गे प्रतिपक्षकालाभेदाच्च रूपकम् । भाषा युद्धो में पराक्रमरूपगर्मी से पसीने से भरे हाथ वाले राजा का, शत्रुओ का कालरूप सङ्ग इन्द्र द्वारा की हुई पुष्पवृष्टि वे पराग के सम्बन्ध से गाढापन आ जाने से हाथ मे अधिक दृढ हो गया। अर्थात् हाथ में पसीना आ जाने से कोई वस्तु दृढता से नही पकडी जा सकती। मिट्टी लगा लेन से फिर दृढता आ जानी है। यस्याञ्जनश्यामलखङ्गपट्ट-जातानि जाने धवलत्वमापुः । अरातिनारीशरकाण्डपाण्डु-गण्डस्थलीनिर्लुठनाद्यशांसि ॥७१॥ अन्वयः यस्य अञ्जनश्यामलखङ्गपट्टजातानि यशांसि अरातिनारीशरकाण्ड- पाण्डुगण्डस्थलीनिर्लुठनात् धवलत्वम् आपुः (इति) जाने । व्याख्या यस्य राज्ञस्तैल्पस्याञ्जनवत्कज्ज्वल्यक्छदामल कृष्ण खड्ग एव पट्टस्त- स्माज्जातानि प्रादुर्भूतानि यशांसि कीर्त्तय अरातीनां शत्रूणां नाय स्त्रियस्तत्सं दारकाण्डवत् गुन्द्रदण्डवत् गुन्द्रस्तेजनक शर' इत्यमर । ‘सरहो’ इति भाषायां प्रसिद्धम् । पाण्डुवर्णा श्वेता गण्डस्थल्य कपोलास्तासु निर्लुठनात्तत्सं र्काद्धवलत्वं शुक्लत्वमापुर्जग्मु । इति जाने तर्कयामि। अञ्जनेन सह खड्गस्य श्यामरूपेण सादृश्य दशनाङ्कगण्डस्थल्या पाण्डुत्वेन शरकाण्डेन सादृश्याच्चोपमा ।

( ५६ ) विधाय सैन्यं युधि साक्षिमात्रं दासीकृतायाः प्रतिपक्षलक्ष्म्याः । यः प्रातिभाव्यार्थमिवाजुहाव महाभुजः शत्रुनरेन्द्रकीर्तिम् ॥७३॥ अन्वयः महाभुजः यः युधि सैन्यं साक्षिमात्रं विधाय दासीकृतायाः प्रतिपक्ष- लक्ष्म्याः प्रातिभाव्यार्थम् इव शत्रुनरेन्द्रकीर्तिम् आजुहाव । व्याख्या महान् भुजो बाहुर्यस्य स दीर्घबाहुर्यस्तैलपो नाम नृपो युधि युद्धे सैन्यं सेना साक्षिमात्रं विधाय केवल साक्षितामापाद्य स्वयमेव दासीकृताया वशीकृताया प्रतिपक्षाणां शत्रूणा लक्ष्म्या श्रिय प्रतिभू प्रतिलग्नक (जामिन इति भाषायाम्) तस्य भाव प्रातिभाव्यं तदर्थ शत्रवश्चते नरेन्द्राश्च राजानस्तेषा कीर्तियंश आजुहा- वाऽऽहूतवान् । शत्रुनरेन्द्रकीर्तेराह्वाने प्रातिभाव्यस्य फलत्वेनोत्प्रेक्षणादुत्प्रेक्षा । भाषा उस तैलप राजा ने युद्ध में सेना को केवल साक्षिमात्र बना कर स्वयं अपने पराक्रम से शत्रुओ की राजलक्ष्मी को दासी बनाकर उसकी जमानत करने के लिये विपक्षी राजाओ की कीर्ति को अपने पास बुला लिया । अर्थात् शत्रुओ की राजलक्ष्मी के साथ ही उनकी कीर्ति भी छीन ली । अथ पञ्चभिः श्लोकैः सत्याश्रयं वर्णयति कविः— चालुक्यवंशामलमौक्तिकश्रीः सत्याश्रयोऽभूदथ भूमिपालः । सङ्गेन यस्य भ्रुकुटिक्रुधेव द्विषां कपालान्यपि चूर्णितानि ॥७४॥ अन्वयः अथ यस्य भ्रुकुटिक्रुधा इव सङ्गेन द्विषां कपालानि अपि चूर्णितानि (सः) चालुक्यवंशामलमौक्तिकश्रीः सत्याश्रयः भूमिपालः अभूत् । व्याख्या अथ श्री तैलपानन्तर यस्य राज्ञो भ्रुकुटे क्रुद् तेनैव भ्रुकुटि-प्रदर्शित क्रोधह- पधारिणा सङ्गेनाऽसिना द्विषां शत्रूणा कपालान्यपि शिरांस्यपि चूर्णितानि चूर्णा

( ५७ ) कुतानि स चालुक्यहय यश कुलमेव वंशोवेणुस्तस्याऽमलं विशुद्धं मौक्तिकं तस्य श्री शोभा यस्मिन्स सत्याश्रयो नाम भूमिपालो राजाऽभूत् । खङ्गोपरि भृकुटि- क्रोधस्योत्प्रेक्षणाद्गूढोत्प्रेक्षा । वंशे वेणुत्वारोपो राजनि मौक्तिकत्वारोपे कारण- मिति परम्परितरूपकम् । भाषा श्री तैलप राजा के अनन्तर चालुक्य कुल में बांस के स्वच्छ मोती की कान्ति के समान तेजस्वी सत्याश्रय नाम का राजा हुआ जिसकी क्रुद्धावस्था की भृकुटी के क्रोध स्वरूप तलवार ने शत्रुओं के मस्तकों को भी चूर २ कर दिया । यस्येषवः संयुगयामिनीषु प्रोतप्रतिच्ष्मापतिमौलिग्नाः । गृहीतदीपा इव विन्दते स्म सङ्गान्धकारे रिपुचक्रवालम् ॥७५॥ अन्वयः संयुगयामिनीषु यस्य प्रोतप्रतिच्ष्मापतिमौलिग्नाः इषवः गृहीतदीपाः इव खङ्गान्धकारे रिपुचक्रवालं विन्दते स्म । व्याख्या संयुगा युद्धान्येव यामिन्यो रात्रयस्तासु युद्धरात्रिषु 'संप्रहाराभि-सम्पातकालिक संस्फोटसंयुगा' इत्यमर । यस्य राज्ञ सत्याश्रयस्य प्रोतान्यनुस्यूतानि प्रतिच्ष्मा- पतीनां प्रतिपक्षभूपतीना मौलिना मुकुटानां रत्नानि मणयो येषु त इषवो बाणा गृहीता दीपा यैस्ते गृहीत-दीपा इव, बाणेषु शत्रूणा शिरोरत्नान्यनुस्यूतानि, रत्नकिरणैश्चान्धकाराभाव । खङ्ग एवान्धकार श्यामलत्वात्तस्मिन् रिपूणा शत्रूणा चक्रवाल मण्डलम् । 'चक्रवालन्तु मण्डलम्' इत्यमर । विन्दते स्म जानन्ति स्म अथवा विचारयन्ति स्म 'विद विचारणे' इति रुधादिस्थस्य विद धातोरात्मने पदे लटि प्रथमपुरुषस्य बहुवचने 'विन्दते' इति रूपम् । अनुस्यूत- राजमौलि रत्नेषु बाणेषु गृहीतदीपकस्य सम्भावनादुत्प्रेक्षा । भाषा युद्धरूपी रात्रियों में, उस सत्याश्रय राजा के, विपक्षी राजाओं के मस्तक के मणियों से नधे बाण, खङ्गरूपी अन्धकार में शत्रु समूह को, मानो दीपक लेकर पहचान कर रहे थे । अर्थात् उसके बाण इतने तीखे थे कि मणियों में भी छिद्र कर देते थे और ये मणी उनमें नध जात थे ।

( ५८ ) अवन्ध्यपातानि रणाङ्गणेषु सलीलमाकृष्टधनुर्गुणस्य । यस्यानमत्कोटितया व्यराज-च्छस्त्राणिचुम्बन्निव चापदण्डः ॥७६॥ अन्वयः रणाङ्गणेषु सलीलम् आकृष्टधनुर्गुणस्य यस्य चापदण्डः आनमत्कोटि- तया अवन्ध्यपातानि शस्त्राणि चुम्बन् इव व्यराजत् । व्याख्या रणा एव युद्धान्येवाऽङ्गणान्यजिराणि 'अङ्गणं चत्वराजिरे' इत्यमरः । तेषु युद्धाजिरेषु लीलया विलासेन सहितं सलीलमाकृष्टो धनुषश्चापस्य गुणो ज्या येन सः तस्य यस्य सत्याश्रयनृपस्य चापदण्डो धनुर्दण्डः 'धनुश्चापो धन्वशरासन कोदण्डकार्मुकम्' इत्यमरः । आनमन्तावन्नन्त्यौ कोटी प्रान्तभागौ 'स्त्रियः पाल्याधिकोटयः' इत्यमरः । यस्य तस्य भावस्तत्ता तया प्रह्वीभूतप्रतयाऽवन्ध्योऽ- मोघः पातो घातो येषां तानि सफलसञ्चलनान्यस्त्राणि चुम्बन्निव प्रेम्णा स्पृशन्निव रराज शुशुभे । चापदण्डेऽस्त्रचुम्बन रूप क्रियाया उत्प्रेक्षणा- त्क्रियोत्प्रेक्षा । भाषा युद्धरूपी आगनों में सरलता से धनुष की डोरी को खींचने वाले उस सत्याश्रय राजा का धनुष दोनों नोकों के झुक आने से मानो अमोघ मार वाले अस्त्रों का चुम्बन करता हुआ शोभित होता था । भूभृत्सहस्रार्पितदेहरन्ध्रैः ¹क्रौञ्चाचलच्छिद्रविशारदानाम् । सेहे न गर्वः पृथुसाहसस्य यस्येषुभिर्भार्गवमार्गणानाम् ॥७७॥ अन्वयः पृथुसाहसस्य यस्य भूभृत्सहस्रार्पितदेहरन्ध्रैः इषुभिः क्रौञ्चाचलच्छिद्र- विशारदानां भार्गवमार्गणानां गर्वो न सेहे । १ हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रमिति मेघदूते कालिदास ।

( ५९ ) व्याख्या पृथुविशालस्साहसः पराक्रमो यस्य तस्य यस्य राज्ञः सत्याश्रयस्य भूभृतां राज्ञां पक्षे पर्वतानां सहस्राणि तेभ्योऽधिकानि कृतानि देहेषु शरीरेषु रन्ध्राणि- च्छिद्राणि यैस्तैरिषुभिर्बाणैः क्रौञ्चाचलस्य क्रौञ्चपर्वतस्य छिद्रे बिले बिलकरणे वा विशारदा निपुणास्तेषां भार्गवस्य परशुरामस्य मार्गणा बाणास्तेषां गर्यो दर्पो 'गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः । दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' इत्यमरः । न सेहे न सोढः । भार्गवेण केवलमेकस्मिन्क्रौञ्चभूभृति छिद्रं कृतमनेन तु बहुषु भूभृत्स्विति भार्गवादस्य वैशिष्ट्यम् । तस्माद्व्यति- रेकध्वनिः । भाषा उस बड़े साहसी राजा सत्याश्रय के हजारो भूभृतो (राजाओ) पक्ष में (पहाडो) के शरीरो में छिद्र करने वाले बाणो ने क्रौञ्च भूभृत् (पर्वत) में छिद्र करने में प्रवीण परशुराम के बाणो का घमण्ड नही सहन किया । अर्थात् परशुराम के बाणो ने केवल एक क्रौंच पर्वत में छेद किया था किन्तु इसके बाणो ने हजारो भूभृतो (राजाओ) को छेदा था इसलिए इनका कार्य उनसे अधिक महत्त्व का था । दृप्तारिदेहे समरोपमर्द-सूत्रावशेषस्थितहारदाम्नि । यज्ञोपवीतभ्रमतॊ बभूव यस्य प्रहर्तुः क्षणमन्तरायः ॥७८॥ अन्वयः प्रहर्तुः यस्य समरोपमर्दसूत्रावशेषस्थितहारदाम्नि दृप्तारिदेहे यज्ञो- पवीतभ्रमतः क्षणम् अन्तरायः बभूव । व्याख्या प्रहर्तुः प्रहार कुर्वतो यस्य राज्ञः सत्याश्रयस्य समरे रणे 'अस्त्रियाः समरानी- ककरणाः कलहविग्रहौ' इत्यमरः । य उपमर्दो जनाना परस्परसङ्घट्टस्तेन सूत्रमेव तन्तुरेवावशेषस्थितो मौक्तिकादीना भग्नत्वात्सूत्रमेवावशिष्ट यस्यैवंभूत हार एव दाम माला यस्मिन् तस्मिन् दृप्ता मदान्धा अरयः शत्रवस्तेषां देहे शरीरे यज्ञो- पवीतस्य भ्रमतो भ्रान्त्याऽयं यज्ञोपवीती ब्राह्मणः किमिति धिया, क्षण क्षणमात्र-

( ६० ) मन्तरायो विघ्नोऽभूत् । 'विघ्नोन्तराय प्रत्यूह' इत्यमर । हारसूत्रे यज्ञो- पवीतस्य भ्रान्तिप्रतिपादनाद् भ्रान्तिमानलङ्कार । भाषा प्रहार करने वाले उस सत्याश्रय राजा को युद्ध की धिंगाधिंगी में मोती के हार में से मोतियों के टूटकर गिर पड़ने से केवल डोरा मात्र अवशेष धारण करने वाले मदान्ध शत्रुओं के शरीर पर वार करने में, यह डोरा ब्राह्मण का यज्ञोपवीत तो नहीं है इस भ्रम से क्षणमात्र के लिए रुकावट हो जाया करती थी । अर्थात् यह ब्राह्मण तो नहीं है ऐसा भ्रम हो जाता था । अथाष्टभिः श्लोकैर्जयसिंहदेवं वर्णयति कविः— प्राप्तस्ततः श्रीजयसिंहदेवश्चालुक्यसिंहासनमण्डनत्वम् । यस्य व्यराजन्त गजाहवेषु मुक्ताफलानीव करे यशांसि ॥७६॥ अन्वयः ततः यस्य गजाहवेषु यशांसि करे मुक्ताफलानि इव व्यराजन्त, (सः) श्री जयसिंहदेवः चालुक्यसिंहासनमण्डनत्व प्राप्तः । व्याख्या तत सत्याश्रयानन्तर यस्य राज्ञो गजाना हस्तिनामाहवा सङ्ग्रामास्तेषु 'अभ्यामदसमाघात सङ्ग्रामाभ्यागमहवा' इत्यमर । यशांसि कीर्तय करे हस्ते मुक्ताफलानीव गजमौक्तिकानीव व्यराजन्त विरेजु सुशोभितानिजातानीत्यर्थ । स श्रीजयसिंहदेवस्तन्नामा राजा चालुक्याना चालुक्यवंशीयाना राज्ञा सिंहासन तस्य मण्डनत्व शोभाविधायकत्व प्राप्त । तत्सिंहासनस्यालङ्कारभूतो जात इत्यर्थ । शुक्लयणसादृश्याद्यशस्सु मुक्ताफलत्वस्योत्प्रेक्षणादुत्प्रेक्षा । भाषा राजा सत्याश्रय के अनन्तर श्री जयसिंह देव ने चालुक्य वंशीय राजाओं की राजगद्दी को सुशोभित किया जिसके, हाथी की सेना के युद्ध में प्राप्त यश मानो हाथ में पहिने हुए गजमौक्तिक के समान शोभित होते थे ।

( ६१ ) यस्य प्रतापेन कदर्य्यमानाः प्रत्यर्थिभूपालमहामहिष्यः । अन्वस्मरंश्चन्दनपङ्किलानि प्रियाङ्कपालीपरिवर्त्तनानि ॥८०॥ अन्वयः यस्य प्रतापेन कदर्य्यमानाः प्रत्यर्थिभूपालमहामहिष्यः चन्दनपङ्किलानि प्रियाङ्कपालीपरिवर्त्तनानि अन्वस्मरन् । व्याख्या यस्य राज्ञो जयसिंहदेवस्य प्रतापेन प्रभावेण कदर्य्यमाना पीडिताः प्रत्यर्थिन प्रतिपक्षारूढत्वे भूपाला राजान 'द्विद्विपक्षारिहितामित्र दस्यु शात्रव शत्रव । अभियाति पराराति प्रत्यर्थि परिपन्थिन' इत्यमर । तेषां महा महिष्यः कृताभिषेकाः स्त्रियश्चन्दनेन पङ्किलानि पङ्कः कर्दमस्तत्सञ्जात एषु इति पङ्किलानि चन्दनकर्दमयुक्तानि प्रियाणाम् स्वपतीनामङ्कपाल्येष्वङ्कधारेणेषु परिवर्त्तनानि तत्र स्वाङ्ग-परिवर्तन-जनित-सुखान्वन्वस्मरन् । साम्प्रतं प्रतापोष्मणा सन्तप्ता अरिमहिष्यो भूतकालिकचन्दनपङ्कलिप्तस्वपत्यङ्कसंत्यावभव-सुखं स्मरन्ति स्मेत्यर्थः । महिषीशब्दस्य श्लिष्टत्वाद्यथा महिष्यो निदाघे संतापार्थे पङ्के लुठन्ति तथैवैता राजस्त्रिय पराजयात्पूर्वं संतापार्थे स्वपत्यङ्के लिप्तचन्दन-पङ्केषु लुठन्ति स्मेति । चिन्तामूलकस्य स्मरणस्य सद्भावात्र स्मरणालङ्कार । यत सादृश्य- मूलकस्यैव तस्याऽलङ्कारत्वम् । भाषा जिस राजा जय सिंह देव के प्रताप की गर्मी से संतप्त विपक्षी राजाओं की रानियाँ ठंडक पाने की इच्छा से अपने प्रिय पति के चन्दन से लिप्त गीली गोद में पड़कर करवटें लेने का स्मरण करती थी । (गर्मी में जैसे भैंसें किचड़ में लोट पोट करना पसंद करती हैं वैसे ये रानियां भी गर्मी में अपने पतियों की चन्दन के अधिक लेप से गीली गोद में ठंडक पाने के लिये लोट पो किया करती थीं । परन्तु अब पतियों के मर जाने से ये रानियां इस राजा के प्रताप की गर्मी से संतप्त होकर उसका केवल स्मरण करती थीं । (महिष शब्द के श्लिष्ट होने से यह अर्थ निकलता है । महिषा माने रा- तथा भैंस ।)

( ६२ ) प्रतापभानौ भजति प्रतिष्ठां यस्य प्रभातेष्विव संयुगेषु । सूर्योपलानाभिव पार्थिवानां केषां न तापः प्रकटीबभूव ॥८१॥ अन्वय प्रभातेषु इव संयुगेषु यस्य प्रतापभानौ प्रतिष्ठां भजति (सति) सूर्योप- लानाम् इव केषां पार्थिवानां तापः न प्रकटीबभूव । व्याख्या प्रभातेषु प्रत्यूषेषु प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसोऽपि प्रभातं चेत्यमरः । इव संयुगेषु युद्धेषु यस्य राज्ञो जयसिंहदेवस्य प्रताप एव भानुस्सूर्यस्तस्मिन् प्रतिष्ठां भजति विद्योतमाने सति सूर्योपलानाभिव सूर्यकान्तमणीनामिव केषां पार्थिवानां विपक्षिनृपाणां तापस्सन्तापः सञ्ज्वलनं न प्रकटीबभूव किन्तु सर्वेषां विपक्षिणां सन्तापो जात एव । अत्र प्रतापे भानुत्वारोपाद्रूपकम् । प्रभात संयुगयोः सूर्योपलपार्थिवयोश्चोपमा । केषां न प्रकटीबभूवेत्यर्थापत्तिश्चेति परस्परसापेक्षत्वादेतेषां सङ्करः । भाषा प्रातःकाल के सदृश युद्ध में, सूर्य के सदृश उस राजा जयसिंहदेव के प्रताप के विद्यमान होने पर सूर्य मणियों के समान किन राजाओं में सन्ताप प्रकट न हुआ ? अर्थात् सब राजा इसके प्रताप से सन्तप्त हो गये । यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री । आर्द्रव्रणाधिष्ठितपृष्ठपीठ-मकर्मठं कूर्मपतिं चकार ॥८२॥ अन्वय. यस्य यात्रासु ध्वजिनीभरेण दोलायमाना सकला धरित्री आर्द्रव्रणा- धिष्ठितपृष्ठपीठं कूर्मपतिं अकर्मठं चकार । व्याख्या यस्य राज्ञो जयसिंहदेवस्य यात्रासु युद्धयात्रासु ध्वजिन्याः सेनाया ‘ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमू' इत्यमरः । भरेण भारेण दोला इवाऽऽ- चरतीति दोलायमाना सञ्चालिता सकला समग्रा ‘समग्रं सकलं पूर्णम’ इत्यमरः ।

( ६३ ) धरित्री पृथ्व्याऽऽक्रन्दनेन पृथिवी-सञ्चलनजन्य-सङ्घर्षणोत्पन्ननूतनव्रणेनाऽधिष्ठितं युक्तं पृष्ठपीठं पृष्ठभागो यस्य तं कूर्माणां पतिं श्रेष्ठं विष्णुद्वितीयावतारं पृथिव्या आधारभूतेन स्थितं कच्छपपतिमकर्मठं निष्क्रियं 'कर्मशूरस्तु कर्मठः' इत्यमरः । किं-कर्त्तव्यता-विमूढं चकार कृतवती । भाषा जिस राजा जयसिंहदेव की युद्धयात्राओं में, चली सेना के बोझ से डगमगाने वाली समग्र पृथ्वी ने, (अपनी रगड़ से उत्पन्न) ताजे घावों से भरी पीठवाले विष्णु भगवान् के दूसरे अवतार कच्छपराज को घबड़ाहट में डाल दिया। किरीटमाणिक्यमरीचीवीचि-प्रच्छादिता यस्य विपक्षभूपाः । चिताग्निभीत्या समराङ्गनेषु न संगृहीताः सहसा शिवाभिः ॥८३॥ अन्वयः यस्य किरीटमाणिक्यमरीचीचीचिप्रच्छादिताः विपक्षभूपाः समराङ्गनेषु शिवाभिः चिताग्निभीत्या सहसा न संगृहीताः । व्याख्या यस्य राज्ञः, किरीटेषु मुकुटेषु माणिक्यानि मणयस्तेषां मरीचीनां किरणानां वीचिभिस्तरङ्गैः प्रच्छादिता आवृता विपक्षभूपा विपक्षनृपाः समराङ्गनेषु युद्ध- भूमिषु शिवाभिः शृगालीभिः देदीप्यमानत्वाच्चिताग्निभीत्या चिताग्निबुद्ध्या भयेन सहसा झटिति न संगृहीता न भक्षणार्थं परिगृहीताः । माणिक्यमरीचिषु चिताग्निप्रतिपादनाद्भ्रान्तिमानलङ्कारो व्यङ्ग्यः । भाषा किरीट में लगे हुए मणियों की किरणों की लहरों से आच्छादित, उस जयसिंह देव राजा के विपक्षी मृत राजाओं को, युद्धभूमि में सियारियों ने, उस चमक को चिता की आग समझ कर, डर से शीघ्र ग्रहण नहीं किया अर्थात् नहीं खाया । यात्रासु दिक्पालपुरीं विलुण्ठ्य न दिग्गजान्केवलमंग्रहीद्यः । पलायितास्ते जयसिन्धुराणां गन्धेन सप्तच्छदवान्धवेन ॥८४॥

( ६४ ) अन्वयः यः यात्रासु दिक्पालपुरीं विलुण्ठय दिग्गजान् केवलं न अग्रहीत्। (यतः) ते जयसिन्धुराणां सप्तच्छदगान्धवेन गन्धेन पलायिताः। व्याख्या यो नृपो जयसिंह देवो यानासु युद्धयात्रासु दिक्पालानां दिगीशानां पुरीं नगरीं, अत्र वचनमविवक्षितम्। विलुण्ठ्य लुण्ठयित्वा दिग्गजान् केवलं नाऽग्रहीत्। दिग्गजान्विहाय सर्वाणि वस्तुजातान्यग्रहीदित्यर्थः । यतस्ते दिग्गजा जय- सिन्धुराणां विजयहस्तिनां सप्तच्छदस्य वृक्षविशेषस्य 'सप्तपर्णो विशालत्वक् शारदो विषमच्छदः' इत्यमरः । बान्धवस्समानस्तेन गन्धेन मदगन्धेन पलायिताः कान्दिशीका जाताः । जयसिन्धुराणा मदगन्धसहनेऽसमर्था दिग्गजा दूरत एव पलायिता इति भावः । भाषा वह राजा अपनी दिगन्त युद्ध यात्राओ में दिक्पालो की पुरियो को लूटकर केवल दिग्गजो को नही पा सका । क्योकि वे दिग्गज इस राजा के विजयी हाथियो के सप्तपर्ण वृक्ष के समान गन्धवाले मद की गन्ध से डरकर भाग गये थे । अपारवीरव्रतपारगंस्य पराङ्मुखा एव सदा विपक्षाः । अधिज्यचापस्य रणेषु यस्य यशः परं सम्मुखमाजगाम ॥८५॥ अन्वयः अपारवीरव्रतपारगस्य अधिज्यचापस्य यस्य रणेषु विपक्षाः सदा पराङ्मुखाः एव परं यशः सम्मुखम् आजगाम । व्याख्या अपारं दुर्गमं यत् वीराणां व्रतं तस्य पारं गच्छतीत्यपारवीरव्रतपारगस्तस्य पूर्णवीरव्रतपारिणो ज्यामधिगत इति अधिज्यश्चापो धनुर्यस्य स तस्य यस्य राज्ञो जयसिंहदेवस्य रणेषु युद्धेषु विपक्षाः शत्रवस्सदा नित्यं पराङ्मुखा एव जाताः पराजिता एवेति न सम्मुखा जाता इति भावः । परं किन्तु यशः कीर्तिः सम्मुख- माजगाम । केवलं कीर्तिस्तु सम्मुखा शत्रवस्तु पराङ्मुखा एव ।