भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

१८६ वीरमित्रोदयस्य राजनीतिप्रकाशे राज्ञो भवेदेकान्ततो हि दोषस्तस्माद्भृत्यपक्षाः क्रोधलोभमान- भयदोषोपहताः संलपिता विमानिताभ्याख्याता दानमानस्था- नव्यवरोपिता हृतसर्वस्वाः स्वदोषोपहतादयः सततं प्रत्यवेक्षि- तव्या, धर्मार्थहितेष्वेतेषां यतेत स्वविषयाश्रावः परविषयभेदः सामादिभिरुपायैर्मन्त्रज्ञेषु मन्त्रकर्म दण्डकर्म कर्मकरेषु वीरा मह- त्स्वात्मनि च धर्मनित्याः सङ्ग्रहेष्वलुब्धाः प्रत्यन्तेषु मौलाः शुचयोऽर्थकृत्येषु अन्येषु यथानुरूपं नियोज्याः । इति । अस्यार्थः । सर्वेषाम् अमात्यानाम् । सम्परायो, युद्धं त- दुपयोगि साम्परायिकम् । क्रियासाधारणत्वात्, राज्यरक्षण- रूपैकक्रियत्वात् । चारो, जनपदचरितज्ञानाय प्रच्छन्नचारी । तच्चरितज्ञः प्रच्छन्नः प्रतिचारः । मन्त्रप्रणिधयः, राज्ञो मन्त्रा- न्वेष्टारः । एते परराजसम्बन्धिनः, सर्पाः शङ्कनीया इत्यर्थः । तत्प्रयोजनत्वात्, यतस्तदेव चरितज्ञानं चारादीनां प्रयोजनम् । प्रत्यक्षा वृत्तिः, स्वयं कार्यदर्शनम् परोक्षाचारैः परचरितज्ञानम् । एकान्ततः, अन्यतरवृत्तिमात्राश्रयेण । भृत्यपक्षाः, भृत्यैः पूर्वं सम्मानिताः । अभ्याख्यातम्, आभिमुख्येन गुणा- ख्यानम् । दानमानस्थानव्यवरोपिता, दानेन व्यवरोपिता, मानेन व्यवरोपिताः, स्थानेन व्यवरोपिताः । स्वदोषो- पहता आत्मदोषदूषिताः । एवमादयः सततं प्रत्यवेक्षित- व्याः । तेन कारणेन एतेषां सम्बन्धिषु धर्मादिषु यतेत प्रयत्नं कुर्यात् । स्वविषयाश्रावः, स्वविषयस्य मन्त्रस्याश्रावणं अप्र- काशनं कार्यम् । परविषयभेदः, परविषयाणां शत्रुसम्बन्धिनाम- मात्यादीनां भेदः। सामादिभिरुपायैः,कार्य इति शेषः। कर्मकरेषु कर्मकरणाधिकृतेषु । दण्डकर्म, अपराधनिश्चये कार्यमिति शेषः । महत्सु कार्येषु स्वात्मनि च रक्षितव्याः । धर्मनित्या धर्मिकाः ।

राज्ञा आकरादिषु योग्याधिकारिकरणम् । १८७ सङ्ग्रहेषु, अर्थस्येति शेषः । प्रत्यन्तेषु स्वमण्डलप्रत्यन्तदेशेषु । मौलाः, तत्तद्देशजाताः । विष्णुः, आकरलवणशुल्कतरनागवरेष्वाप्तान्नियुञ्जीत ध- र्मिष्ठान् धर्मकार्येषु निपुणानर्थकार्येषु शूरान् सङ्ग्रामकर्मसु उग्रा- नुग्रेषु षण्ढांस्त्रीषु । इति । आकराः, सुवर्णरजताद्युत्पत्तिस्थानानि । लवणपदेनापि तदाकरा ग्राह्याः । शुल्कं, पण्यविंशतिभागादिस्थलशुल्कम् । तरशब्देन तरशुल्कमुच्यते । तरः, नौकादिभिः सरित्तरणम् । नागवरेषु, अत्युत्कृष्टगजेषु । नागवनेष्विति पाठे गजबन्धनयो- ग्येषु वनेषु इति व्याख्येयम् । मनुः, तेषामर्थे नियुञ्जीत शूरान्दक्षान् कुलोद्गतान् । शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ॥ समाहर्तॄन् प्रकुर्वीत धर्मशास्त्रार्थनिश्चितान् । कुलीनान् वित्तसम्पन्नान् समर्थान् कोशवृद्धये ॥ तथा, सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् । स्यादाश्रयपरो लोके वर्तेत पितृवन्नृषु ॥ अध्यक्षान् विविधान् कुर्यात्तत्र तत्र विपश्चितः । तेऽस्य सर्वाण्यवेक्षेरन् नॄणां कार्याणि कुर्वताम् ॥ तेषां, पूर्वोक्तानां सहायानां मध्ये। अर्थे, अर्थनिमित्तम्,अर्था- र्जनोपायेष्वित्यर्थः । तस्यैव विवरणमाकरकर्मान्त इति । भीरून्, इहलोकपरलोकभीतान् । सांवत्सरिकं बलिं, संवत्सरग्राह्यं क- रम् । लोके लोकमध्ये । दीनानाथादीनाम् आश्रयपरो वृत्ति- कर्ता स्यात् ।

१८८ वीरमित्रोदयस्य राजनीतिप्रकाशे तथा. दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टाज्ञं शुचिं दक्षं कुलोद्गतम् ॥ अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोशराष्ट्रे तु दूते सन्धिविपर्ययौ ॥ दूत एव हि सन्धत्ते भिनत्त्येव च संहतान् । दूतस्तत्कुरुते कर्म येन भिद्येत बान्धवः ॥ स विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः । आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ बुद्ध्वा च सर्वं तत्त्वेन परराजाचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ इति । सर्वशास्त्रविशारदं, दृष्टादृष्टार्थबहुशास्त्रार्थकुशलम् । इङ्गितम्, अभिप्रायसूचकं वचनस्वरादि । आकारो, देहधर्मो मुखप्र- सादवैवर्ण्यादिरूपः प्रीत्यप्रीतिसूचकः । चेष्टा, करास्फालनादि- क्रिया कोपादिसूचिका तां जानाति तादृशम् । अनुरक्तः, ज- नेष्वनुरागवान् । तेन प्रतिराजादेरप्यद्वेषविषयः । शुचिः, स्त्रीध- नविषयकशौचयुक्तः । दक्षः, कार्यकालं यो नातिक्रामति । स्मृ- तिमान्, राजाऽऽज्ञार्थपरसन्देशयोरविस्मरणशीलः । देश- कालवित् , देशकालाद्यनुरोधेन राजाज्ञार्थं परसन्दिष्ट- मर्थं च योऽन्यथा वदति करोति च तादृशः । वपुष्मान्, प्रशस्तशरीरावयवरूपवान् । वीतभीः, राज्ञो हितार्थमप्रिय- स्यापि सन्देशादेर्वक्ता । अयं च दूतः परराज्ये सन्धिविग्रहप्र- सक्तौ तत्र प्रेषणाय । मत्स्यपुराणे पूर्वमुक्तस्तु राजनकट-

राज्ञोऽनुजीविवृत्तम् । १८९ स्थित एव सर्वेषां कार्यकारकः । अत एवैतद्विषये— महाभारते, न तु हन्यान्महीपालो दूतं कस्यां चिदापदि । दूतहन्ता तु नरकमाविशेत्ससचिवैः सह ॥ यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः । यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ॥ इति । श्रीरामायणेऽपि, दूतानवध्यान् प्रवदन्ति सन्तो दूतस्य दण्डा बहवः प्रदिष्टाः । वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः ॥ एतान् हि दूते प्रवदन्ति दण्डान् दूतस्य दण्डो हि वधो न दृष्टः। इति। इति परराष्ट्रदूतः । अथानुजीविवृत्तम् । मत्स्यपुराणे, मत्स्य उवाच । यथानुवर्तितव्यं स्यान्मनो राज्ञोऽनुवर्तिभिः । तथा ते कथयिष्यामि निबोध गदतो मम ॥ ज्ञात्वा सर्वात्मना कार्यं स्वशक्त्या रविनन्दन । अक्षिप्य वचनं तस्य न वक्तव्यं कदाचन ॥ अनुकूलं प्रियं त्वस्य वक्तव्यं जनसंसदि । रहोगतस्य वक्तव्यमप्रियं तद्धितं भवेत् ॥ परार्थमस्य वक्तव्यं स्वस्थे चेतसि पार्थिव । स्वार्थः सुहृद्भिर्वक्तव्यो न स्वयं हि कदाचन ॥ कार्यातिपातः सर्वेषु रक्षितव्यः प्रयत्नतः । न च हिंस्याद्धनं किञ्चिन्नियुक्तेन च कर्मणि ॥ १ अत्र मुद्रितमात्स्ये 'राजा यत्तु वदेद्वाक्यं श्रोतव्यं तत्प्रयत्नतः' इति पाठो लभ्यते ।

१९० वीरमित्रोदयस्य राजनीतिप्रकाशे नोपेक्ष्यस्तस्य मानश्च तथा राज्ञः प्रियो भवेत् । राज्ञश्च न तथा कार्यं वेषभाषितचेष्टितम् ॥ राजलीला न कर्त्तव्या तद्विष्टं च विवर्जयेत् । अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः ॥ संसर्गं न व्रजेद्राजन् विना पार्थिवशासनम् । निःस्नेहतां चावमानं प्रयत्नेन तु गोपयेत् ॥ यच्च गुह्यं भवेद्राज्ञो न तल्लोके प्रकाशयेत् । नृपेण श्रावितं यत्स्याद्गुह्याद्गुह्यं नृपोत्तम ॥ न तत्संश्रावयेल्लोके तथा राज्ञः प्रियो भवेत् । आज्ञाप्यमाने चान्यस्मिन् समुत्थाय त्वरान्वितः ॥ अहं किं करवाणीति वाच्यो राजा विजानता । कार्यावस्थां च विज्ञाय कार्यमेतत्तथा भवेत् ॥ सततं क्रियमाणेऽस्मिँल्लाघवं तु व्रजेत् ध्रुवम् । राज्ञः प्रियाणि वाच्यानि न चात्यर्थं पुनः पुनः ॥ न हास्यशीलस्तु भवेन्न वापि भ्रुकुटीमुखः । नातिवक्ता न निर्वक्ता न च मत्सरिकस्तथा ॥ आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन । दुष्कृतानि नरेन्द्रस्य न तु सङ्कीर्तयेत्क्वचित् ॥ वस्त्रमस्त्रमलङ्कारं राज्ञा दत्तं तु धारयेत् । औदार्येण न तद्देयमन्यस्मै भूतिमिच्छता ॥ न चैवात्यशनं कार्यं दिवास्वप्नं न कारयेत् । नानिर्दिष्टे तथा द्वारे प्रविशेत्तु कथञ्चन ॥ न च पश्येत्तु राजानमयोग्यासु च भूमिषु । राज्ञस्तु दक्षिणे पार्श्वे वामे वोपविशेत्सदा ॥ पुरस्ताच्च तथा पश्चादासनं तु विगर्हितम् ।

राज्ञोऽनुजीविवृत्तम् । १९१ जृम्भां निष्ठीवनं कासं कोपं पर्यस्तिकाश्रयम् ॥ भ्रुकुटिं वातमुद्गारं तत्समीपे विवर्जयेत् । स्वयं तत्र न कुर्वीत स्वगुणाख्यापनं बुधः ॥ स्वगुणाख्यापने युक्त्या परमेव प्रयोजयेत् । हृदयं निर्मलं कृत्वा परां भक्तिमुपाश्रितैः । अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ॥ शाठ्यं लौल्यं च पैशुन्यं नास्तिक्यं क्षुद्रतां तथा । चापल्यं च परित्याज्यं नित्यं राजानुजीविभिः ॥ श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना । राजसेवां ततः कुर्याद्भूतये भूतिवर्द्धनीम् ॥ नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः । सचिवैश्चास्य विश्वासो न तु कार्यः कथञ्चन ॥ अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथाऽऽपदि । हितं पथ्यं च वचनं हितैः सह सुनिश्चितम् ॥ चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना । भर्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम् । रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता । त्यजेद्विरक्तं नृपतिं रक्ताद्वृत्तिं तु कारयेत् ॥ विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा । आशावर्द्धनकं कृत्वा फलनाशं करोति च ॥ अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः । वाक्यं स मन्दं वदति वृत्तिच्छेदं करोति च ॥ प्रदेशवाक्यैर्मुदितो न सम्भावयतेऽन्यथा । आराधनासु सर्वासु सुप्रसन्नवच विचेष्टते ॥ कथासु दोषं क्षिपति वाक्यभङ्गं करोति च ।

१९२ वीरमित्रोदयस्य राजनीतिप्रकाशे लक्ष्यते विमुखश्चैव गुणसङ्कीर्त्तनेऽपि च ॥ दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि । विरक्तलक्षणं ह्येतच्छृणु रक्तस्य लक्षणम् ॥ दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् । कुशलादिपरिप्रेक्षी सम्प्रयच्छति चासनम् ॥ विविक्तदर्शने चास्य रहस्येन न शङ्कते । जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ॥ अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दते । उपायनं च गृह्णाति स्तोकमप्यादरात्तथा ॥ कथान्तरेषु स्मरांतं प्रहृष्टवदनस्तथा । इति रक्तस्य कर्त्तव्या सेवा रविकुलोद्वह ॥ आपत्सु न त्यजेत्पूर्वं विरक्तमपि सेवितम् । मित्रं न चापत्सु तथा च भृत्यायजन्ति ये निर्गुणमप्रमेयम् । प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामामरवृन्दजुष्टम् ॥ इति । महाभारते धौम्यवचनम्— दिष्टद्वारो लभेद्व्रष्टुं राजस्वेषु न विश्वसेत् । तदेवासनमन्विच्छेद्यत्र नातिपतेत्परान् ॥ दिष्टद्वारः, निवेदनानन्तरमादिष्टप्रवेशः । सामान्यतो वा निवारितद्वारप्रवेशः । यो न यानं न पर्यङ्कं न पीठं न गजं रथम् । अरोहेत्सम्मतोऽस्मीति स राजवसतिं वसेत् ॥ यत्र यत्रैनमासीनं शङ्केरन् दुष्टचारिणः । न तत्रोपविशेद्यो वै स राजवसतिं वसेत् ॥ न चानुशिष्याद्राजानमपृच्छन्तं कदाचन । तूष्णीं त्वेनमुपासीत काले समाभिपूजयन् ॥

राजोऽनुजीविवृत्तम् । १९३

असूयन्ति हि राजानो जनानानृतवादिनः । तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥ नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कदाचन । अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥ यान् राजा द्वेष्टि, ये च राज्ञोऽहिताः, तेषु मैत्रीं न कुर्वीते- त्यनुषङ्गः । विदिते चास्य कुर्वीत कार्याणि सुबहून्यपि । एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥ गच्छन्नपि परां भूमिमपृष्टो ह्यनियोजितः । जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥ समातिक्रान्तमर्यादं पूजयन्ति नराधिपाः । यत्नाच्चोपचरेदेनमग्निवद्देववत्त्विह ॥ अनृतेनोपचीर्णो हि हन्यादेव न संशयः । यद्यद्भर्त्तानुयुञ्जीत तत्तदेवानुवर्त्तयेत् ॥ प्रमादमवलेपं च कोपं च परिवर्जयेत् । समर्थनासु सर्वासु हितं च प्रियमेव च ॥ संवर्णयेत्तदेवास्य प्रियादपि हितं भवेत् । अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च ॥ अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् । नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः ॥ अप्रमत्तश्च सततं हितं कुर्यात्प्रियं च यत् । नास्यानिष्टानि सेवेत नाहितैः सह संवदेत् ॥ स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् । दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः ॥ रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते । २५

१९४ वीरमित्रोदयस्य राजनीतिप्रकाशे नित्यं हि प्रतिषिद्धं तु पुरस्तादासनं महत् ॥ न च सन्दर्शने किञ्चिदबद्धमपि सञ्जपेत् । अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥ न मृषाभिहितं राज्ञा मनुष्येषु प्रकाशयेत् । असूयन्ति हि राजानो नराननृतवादिनः ॥ तथैव चावमन्यन्ते नरान् पण्डितमानिनः । शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः ॥ प्रियमेवाचरन् राज्ञः प्रियो भवति भोगवान् । ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः ॥ अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च । यस्य कोपो महाबाधः प्रसादश्च महाफलः ॥ कस्तस्य मनसापीच्छेददनर्थं प्राज्ञसम्मतः । न चोष्ठौ न भुजौ जातु न च वाक्यं समाक्षिपेत् ॥ सदा वातं च वाचं च ष्ठीवनं वाऽऽचरेच्छनैः । हास्यवस्तुषु चान्येषु वर्त्तमानेषु केषु चित् ॥ नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् । न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्ततः ॥ स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् । लाभेन हर्षयेद्यस्तु न व्यथेद्योऽवमानितः ॥ असंमूढश्च यो नित्यं स राजवसतिं वसेत् । राजानं राजपुत्रं वा संवर्णयति यः सदा ॥ अमात्यः पण्डितो भूत्वा स चिरं तिष्ठते प्रियः । प्रगृहीतश्च योऽमात्यो निगृहीतस्त्वकारणैः ॥ न निर्वदति राजानं लभते सम्पदं पुनः । प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः ॥

राज्ञोऽनुजीविवृत्तम् । १९५ उपजीवी भवेद्राज्ञो विषये वापि यो वसेत् । अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत यः ॥ न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् । श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् ॥ विशेषयेच्च राजानं योग्यभूमिषु सर्वदा । विशेषयेत्, राजानमधिकं स्वात्मानं च ततो न्यूनं कुर्यात् । अम्लानो बलवाञ्छूरश्छायेवानुगतः सदा ॥ सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् । अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ॥ अहं किं करवाणीति स राजवसतिं वसेत् । आन्तरे चैव बाह्ये च राज्ञा यथाथ सर्वदा ॥ आदिष्टो नैव कम्पेत स राजवसतिं वसेत् । यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत् ॥ दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् । समवेष न कुर्वीत नोच्चैः सन्निहितो वसेत् ॥ न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् । न कर्मणि नियुक्तः सन् धनं किञ्चिदपि स्पृशेत् ॥ प्राप्नोति हि हरन्द्रव्यं वेधनं यदि वा वधम् । पानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रयच्छति ॥ तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् । इति । इत्यनुजीविवृत्तम् । इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजि- तचरणकमल— श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज-

१९६ वीरमित्रोदयस्य राजनीतिप्रकाशे श्रीमन्महाराजमधुकरसाहसूनु- श्रीमन्महाराजाधिराजचतुरुदधिवलयवसुन्धराहृदयपुण्डरी- कविकासदिनकर- श्रीवीरसिंहदेवोद्योजित- श्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसूनु- सकलविद्यापारावारपारीणधुरीण- जगद्दारिद्यमहागजपारीन्द्रविद्वज्जनजीवातु- श्रीमन्मित्रमिश्रकृते श्रीवीरमित्रोदयाभिधाननिबन्धे राजनीतिप्रकाशे राजधर्माः ।

राज्ञो निवासयोग्यदेशः । १९७ अथ राज्ञो निवासयोग्यदेशविचारः । तत्र मनुः, जाङ्गलं सस्यसम्पन्नमार्यप्रायमनाविलम् । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ इति । जाङ्गलदेशलक्षणमन्यत्राभिहितम्— अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः । स ज्ञेयो जाङ्गलो देश इति देशविदो विदुः ॥ इति । स्मृत्यन्तरेऽपि, स्वल्पवृक्षोदकपर्वतो बहुपक्षिमृगः प्रचुरवर्षातपश्च जाङ्गलो- देश इति । इदं च स्वल्पोदकादिविशेषणं देशस्य परैरनाक्रमणीयत्वा- र्थम् । राजधान्यां तु बहुजलादिमत्त्वं तत्प्रकरणे वक्ष्यते । सस्यैः, वार्षिकशारदहैमन्तिकवासन्तिकैरव्यवहितोत्पत्तिकैर्धान्यैः सम्पूर्णम् । आर्यप्रायं, प्रचुरधार्मिकजनम् । अनाविलं, सर्प- व्याघ्रादिभिरनाकुलम् । रम्यं मनोरमम् । आनतसामन्तं, दानमानादिना प्रणततत्तद्भूमिपालम् । स्वाजीव्यं, सुलभकृषि- वाणिज्यादिलोकजीवनोपायम् । देशमावसेदित्यत्र "उपान्व- ध्याङ्वस” इत्याधारे द्वितीया । तथा— याज्ञवल्क्यः, रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् । इति । पशव्यं, पशुभ्यो हितम् । आजीव्यं, समन्तादुपजीव्यौषधि- तृणकाष्ठादियुक्तम् । मत्स्यपुराणेऽपि,

१९८ वीरमित्रोदयस्य राजनीतिप्रकाशे मत्स्य उवाच । राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् । रम्यमानतसामन्तं मध्यमं देशमावसेत् ॥ इति । प्रभूतं प्रचुरं यवसं तृणम् इन्धनं च यस्मिंस्तादृशम् । मध्यमं स्वपालनीयदेशमध्यस्थम् । वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः । किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥ अनाहार्यं, परैर्ग्रहीतुमशक्यम् । ब्राह्मणबाहुल्ये सहवासा- दिना राजकीयभ्यस्तेषां पीडा स्यादित्यतः किञ्चिद्ब्राह्मण- संयुक्तमिति । अदेवमातृकं रम्यमनुरक्तजनावृतम् । करैरपीडितं चापि बहुपुष्पफलं तथा ॥ अदेवमातृकं, नदीमातृकम्।नद्यम्बुसम्पन्नव्रीहिपालितमित्यर्थः। अगम्यं परचक्राणां तद्वासगृहमापदि । समदुःखसुखं राज्ञः सततं प्रियमास्थितम् ॥ सरीसृपविहीनं च व्यालतस्करवर्जितम् । एवंविधं यथालाभं राजा विषयमावसेत् ॥ इति । विषयो देशः । आपदि, शत्रोर्विपत्काले । तेषां परचक्राणां वासगृहाणि यत्र तत्तथा । सरीसृपाः सर्पाः । व्याला व्याघ्राः । “यथालाभम्” “एवंविधम्” इत्यनेनैतत्प्रकरणोक्तकतिपयदेश- विशेषणराहित्येऽपि न क्षतिरिति दर्शितम् । विष्णुधर्मोत्तरेऽपि, राजा सहायसम्पन्नः पशव्यं जाङ्गलं शिवम् । वैश्यशूद्रजनप्रायमरोगं देशमावसेत् ॥ इति । इति राज्ञो निवासयोग्यदेशविचारः ।

दुर्गलक्षणम् । १९९ अथ दुर्गम् । तत्र याज्ञवल्क्यः, तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये । इति । तत्र, पूर्वोक्तदेशे । मत्स्यपुराणे, तत्र दुर्गं नृपः कुर्यात्षण्णामेकतमं बुधः । तानि च षड्विधानि— स एवाह, धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च । वार्क्षं चैवाम्बुदुर्गं च गिरिदुर्गं च पार्थिव ॥ इति । धन्वदुर्गं, निवासस्थानरूपाया राजधान्याः समन्तत एक- द्विदिनसाध्ये मार्गे मरुभूमिरूपं दुर्गम् । तच्च द्विविधं, स्वतःसिद्ध- मरुभूमिरूपं, समन्ततो वापीकूपतडागादिजलस्थानानां वृक्षाणां च विनाशनेन निर्जलतां निर्वृक्षतां च सम्पाद्य कृत्रिममरुभूमिरूपं च । तत्राद्यमुक्तम्— औशनसे धनुर्वेदे, सलिलवर्जितमतिशर्कराचितं रूक्षं निराश्रयं विषमैर्विषकी- टैश्चितं विषमप्रदेशे दुःसञ्चरं बलवद्भिः पालकैरुपेतं रोगविनि- र्मुक्तं धान्वनदुर्गं श्रेयसे भवेत् । इति । द्वितीयं तूक्तम्— महाभारते, यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा । तदाभिसंश्रयेत् दुर्गं बुद्धिमान् पृथिवीपतिः ॥ इत्युपक्रम्य— सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः ।

' (ā-kāra) after it! So it is "महामिष्टकापाषाणादि-"!

Let's check line 15: निर्मितं दुर्गं महीदुर्गम् । तच्च द्विविधम् । अतिनिम्नोन्नतभू-

Line 16: मिरूपमेकं, अपरं च पाषाणैरिष्टकाभिर्मृदा वा निर्मितेन युद्धार्थ- Wait, is there a space after the comma: "मिरूपमेकं, अपरं च" or "मिरूपमेकं,अपरं च"? In the image: "मिरूपमेकं, अपरं च" (or slight space).

Line 17: मुपरियोधावस्थानयोग्येन प्राकारेणोपकल्पितम् । तत्राद्यमुक्तम्- Wait, let's check: "मुपरियोधावस्थानयोग्येन" -> म + उपरि = मुपरि योधावस्थानयोग्येन = योधा + अवस्थान + योग्येन प्राकारेणोपकल्पितम् = प्राकारेण + उपकल्पितम् तत्राद्यमुक्तम्-

Line 18: औशनसे धनुर्वेदे,

Line 19: सर्वोपकरणोपेतं गुप्तं चोपायसंयुतम् ।

Line 20: अत्युत्सेधातिनिम्नं

दुर्गलक्षणम् । २०१ नराणामुपलक्षणत्वेन यथासम्भवं चतुरङ्गसेनासन्निवेशविशेषरूपं दुर्गम् । इदमेव च बलदुर्गम् । तदुक्तम्- औशनसे धनुर्वेदे, मौलं वश्यसुसन्तुष्टं शिक्षायुक्तं सनायकम् । भीमं चैवाप्रमत्तं च बलदुर्गं प्रशस्यते ॥ इति । मौलं परम्परागतयोधरूपम् । प्रशंसितमेतत्- महाभारते, दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः । सर्वे दुर्गेषु शस्यन्ते नरदुर्गं सुदुस्तरम् ॥ इति । वार्क्षं, समन्ततो घनतरवृक्षरूपं दुर्गम् । तदुक्तम्- औशनसे धनुर्वेदे, अज्ञातमार्गं गहनं वृक्षगुल्मलतादिभिः । सकण्टकैर्वनं दुर्गं भूतये स्यात्सुविस्तृतम् ॥ इति । अम्बुदुर्गम्, समन्ततोऽगाधजलनद्यादिरूपं दुर्गम् । इदम- धिकृत्योक्तम्- औशनसे धनुर्वेदे, सङ्क्षिप्तेनैकमार्गेण सविषैस्तु जलेचरैः । सलिलैर्विषमं स्पर्शनखादनवधप्रियैः ॥ इति । स्पर्शनं खादनं वधश्च तत्प्रियैः । गिरिदुर्गं च द्विविधम् । समन्ततो दुर्गमपर्वतवेष्टितभूभागरूपं, दुर्गमसजलगिरिशिखर- रूपं च । तदुक्तम्- औशनसे धनुर्वेदे, दुरारोहं परैर्दूरं शरपातस्य गोचरात् । सर्वसम्पत्समायुक्तं दुर्गं स्यात्पार्वतं श्रिये ॥ इति । २६

२०२ वीरमित्रोदयस्य राजनीतिप्रकाशे

सर्वेषां धान्यजलादीनां सम्पत् आधिक्यं तेन समायुक्तं यत्तादृशम् । एतान्येव षड्विधानि दुर्गाण्याह- मनुरपि, धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव च । नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम् ॥ इति । तिर्यक्प्रभृतयोऽपि दुर्गमाश्रिता इत्यतो राज्ञा तदवश्यमा- श्रयणीयामित्यभिप्रेत्य- स एवाह, त्रीण्याद्यान्याश्रितास्तेषां मृगगर्ताश्रया झषाः । त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ त्रीण्याद्यानि, आद्यानि त्रीणि दुर्गाणि । तत्र मरुभूमिरूपं मृगा आश्रिताः, गर्ताश्रया मूषकादयः दुर्गममहीरूपम्, झषा मत्स्या अगाधजलरूपम्, प्लवङ्गमा वानरा वृक्षसमुदायरूपम्, नरा मनुष्या नरसमुदायरूपम् । एकाकिनो हि परैरभिभाव्यत्वं स्पष्टमेव । अमरा देवाः कैलासादिदुर्गमाश्रिता इत्यतो राज्ञाप्ये- षामन्यतमदुर्गमाश्रयणीयमित्यर्थः । यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ इति । दुर्गस्यावश्यविधेयत्वं तत्प्रकारविशेषं च- बृहस्पतिराह, आत्मदारार्थलोकानां सञ्चितानां तु गुप्तये । नृपतिः कारयेद्दुर्गं प्राकारद्वारसंयुतम् ॥ इति । मनुरपि, एकः शतं योधयति प्राकारस्थो धनुर्द्धरः । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ इति ।

दुर्गे पुरनिर्माणम् । २०३ तेषां षण्णामपि दुर्गाणां मध्ये गिरिदुर्गस्य प्राशस्त्यमुक्तम्- मत्स्यपुराणे, सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते । इति । मनावपि, सर्वेषां तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ इति । बाहुगुण्येन बहुतरगुणवत्त्वेन । ते च गुणा दुरारोहत्वादयः प्रत्यक्षसिद्धा एव । तेषु च यथासम्भवं परिखादि कार्य- मित्युकम्— मत्स्यपुराणे, दुर्गं च परिखोपेतं प्राकाराट्टाळसंयुतम् । शतघ्नीयन्त्रमुखैश्च शतशश्च समावृतम् ॥ इति । इति दुर्गम् । अथ पुरनिर्माणम् । तत्र मत्स्यपुराणे, गोपुरं सकपाटं तु तत्र स्यात्सुमनोहरम् । तत्र, दुर्गे । गोपुरं, पुरद्वारम् । तत्प्रमाणं तु— तत्रैव, सपताकगजारूढो येन राजा विशेत्पुरम् । इति । विशेषान्तरमप्युक्तम्- तत्रैव, चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः । एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥ वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते ।

२०४ वीरमित्रोदयस्य राजनीतिप्रकाशे धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥ चतुर्थे चैव वीथ्यग्रे गोपुरं तु विधीयते । आयतं चतुरस्रं वा वृत्तं वा कारयेत्पुरम् ॥ आयतं दीर्घचतुरस्रम् । स्रक्तिहीनं त्रिकोणं च यवमध्यं तथैव च । स्रक्तिहीनं कोणरहितम् । अर्द्धचन्द्रप्रकारं च वज्राकारं च कारयेत् ॥ अर्द्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वशात् १ । अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ॥ इति । तत्र विशेषमाह— मनुः, तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन्धनैः ॥ इति । पुरमित्युपक्रमे— बृहस्पतिरपि, भूपानामिन्धनरसैर्वैत्रशष्पान्नवाहनैः । यन्त्रायुधैश्च विविध

दुर्गे पुरगृहादिनिर्माणम् । २०५ मुक्ताः, करादिनिर्मुक्ताः। नृपतिः, विभक्तिव्यत्ययेन नृप- तिना । स्वशासने, स्वकरादानकरणे । लेखयित्वा, एवं दत्ता गृहाः करनिर्मुक्ता इति लेखयित्वा । भाव्याः परिपालनीयाः । नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं सदा । पौराणां कर्म कुर्युस्ते सन्दिग्धे विनयं तथा ॥ इति । सन्दिग्धे, कार्ये । विनयं, शिक्षाम् । पुरं कुर्यादित्युपक्रम्य- विष्णुधर्मोत्तरे, एषामन्यतमे दुर्गे धनधान्यसमायुते । हस्त्यश्वरथसम्पन्ने मणिभिरुपशोभिते ॥ यन्त्राढ्ये वेदबहुले युद्धोपकरणैर्युते । सुसञ्चिते धनाढ्ये च बहुपेये बहूदके ॥ हस्त्यश्वरथगोवैद्यसांवत्सरयुते शुभे । घृततैलौषधियुते सर्वोपकरणैस्तथा ॥ प्राकारपरिखावप्रगोपुराट्टालकैर्युते । चाटतस्करदुर्वृत्तक्रुद्धलुब्धादिवर्जिते ॥ इति । वेदबहुले, वैदिकब्राह्मणबहुले । सुसञ्चिते, वक्ष्यमाणस- कलपदार्थसञ्चययुक्ते । चाटाः, बहुभाषिणः । परिखादिकरणे विशेषमाह- बृहस्पतिः, समा निम्नोन्नता वापि यत्र भूमिर्यथाविधा । शालादृपरिखाद्याश्च कर्त्तव्याश्च तथाविधाः ॥ तथाविधाः, भूमेर्निम्नोन्नततानुसारेण निम्ना उन्नताश्च कार्या इत्यर्थः । समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः । द्विजवैश्यवणिक्शिल्पिकारुका रक्षकास्तथा ॥