भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

५६ वीरमित्रोदयस्य राजनीतिप्रकाशे ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् । गोवस्त्रतिलरूप्यान्नफलकाञ्चनगोरसैः ॥ मोदकैः श्वेतपुष्पैश्च महीदानैश्च सुव्रत । आथर्वणपरिशिष्टे तु विशेषः । मधुपर्काद्येन विधिना सर्वार्थं सम्पाद्य दक्षिणां दद्यात्, को- टिमध्यात्तृतीयं भागं यथाभूमिप्रमाणेना वा । हस्त्यश्वरथयानं दिव्यमाभरणमातपत्रं हिरण्यं क्षितिगोधनधान्यरत्नादिकं स्वगुरवे दद्यात्, येन वा तुष्येत । इति । तदुत्तरकर्त्तव्यं च विष्णुधर्मोत्तरे अभिहितम्— मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः । वह्निं प्रदक्षिणं कृत्वा प्रणिपत्य तथा गुरून् ॥ पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव । पूजयित्वा तुरङ्गं च मन्त्रितं चाभिषेचितम् ॥ तमारुह्य ततो नागं पूजयेच्चाभिषेचितम् । मन्त्रितं दक्षिणे कर्णे स्वयं दैवविदा ततः ॥ आरुह्य राजमार्गेण स्वपुरं तु परिभ्रमेत् । मुख्यामात्यैः ससामन्तैः सांवत्सरपुरोहितैः ॥ सहितः कुञ्जरारूढैरभिगच्छेच्च देवताः । तासां सम्पूजनं कृत्वा नगरे या निषेविताः ॥ प्रविश्यान्तर्गृहं राजा प्रहृष्टनरवाहनः । दानमानादिसत्कारैर्हृदीयात्मप्रकृतीस्ततः ॥ सम्पूजितास्ताश्च विसर्जायित्वा गृहे स्वके स्यान्मुदितो महात्मा । विधानमेतत्समवाप्य राजा कृत्स्नां च धात्रीं वशगां विदध्यात् ॥ वृद्धवसिष्ठोऽपि, प्राग्भागे मन्दिरस्याथ गोमयेन तु कारयेत् ।

मण्डलं चतुरस्रं तद्वर्णिकैः समलङ्कृतम् ॥ तत्र भद्रासनं सम्यगर्चयेत्सुमनोरमम् । गङ्गातोयसमापूर्णस्वर्णकुम्भोदकैः सह ॥ दिग्विदिक्षु स्थितैः शुक्लगन्धमाल्याम्बरार्चितैः । शतौषधीमूलहेमरत्नद्वीजपल्लवैः ॥ मृत्तिकावृषशृङ्गं च गजदन्तं च रोचनम् । उत्पलं पद्मकं पद्ममुरारेणुककुङ्कुमम् ॥ राजसर्षपमुस्तं च देवदारुसमन्वितम् । देवस्यत्वेतिमन्त्रेण आयुःपुष्टियशस्करैः ॥ आभिषेकैर्वेदमन्त्रैः शुभलग्ने शुभान्विते । भद्रासनस्थे नृपतावभिषेकं तु कारयेत् ॥ नीराजनं च कर्त्तव्यं शङ्खवादित्रनिःस्वनैः । आशिषो वाचनं कृत्वा चार्चयेच्च सुरान् पितॄन् ॥ आयुधानि च पट्टं च विप्रान् गन्धादिनाऽर्चयेत् । ब्रूयात्प्रत्यङ्मुखो राजा नमामि त्वोद्धरेति च ॥ प्राच्यां त्वामभिषिञ्चन्तु वसवस्तेजसे श्रियै । याम्यायामभिषिञ्चन्तु त्वां रुद्रा विजयाय च ॥ आदित्या अभिषिञ्चन्तु प्रतीच्यां दिशि वृद्धये । विश्वेदेवास्तथोदीच्यामभिषिञ्चन्तु पुष्टये ॥ दिगीशास्त्वभिषिञ्चन्तु त्वां सदा विजयाय च । साम्राज्यमितिमन्त्रेण राजानं सम्यगर्चयेत् ॥ व्याघ्रचर्मण्यथासीनं नवालङ्कारभूषितम् । भृत्यचामरसंयुक्तं राजचिह्नसमन्वितम् ॥ पुरोहितश्च जुहुयात्सावित्र्याऽसौ प्रयत्नतः । उदुम्बरसमिद्भिश्च आज्येनाष्टोत्तरं शतम् ॥

५८ वीरमित्रोदयस्य राजनीतिप्रकाशे विद्वत्पुरोहितामात्यवृद्धैर्बन्धुसमन्वितः । तदा सञ्चिन्त्य सप्ताङ्गं प्रजा धर्मेण पालयेत् ॥ एवं यः कुरुते सम्यक् स राजा वर्द्धते चिरम् ॥ इति । सामविधानब्राह्मणेऽपि, राजानमभिषेचयेत्तिष्येण श्रवणे- न वा। व्रीहियवैस्तिलमाषैर्दधिमधुसुमनोजात रूपैर्यशस्विनीभ्यो न- दीभ्यः समुद्राच्चोदकान्याहृत्योदुम्बरे भद्रासने वैयाघ्रे चर्मण्युत्त- रलोम्न्यासिनं जीवन्तीनां गवां शृङ्गकोशैरभिषिञ्चेद्भ्रातृव्य इ- ति रहस्येन । यमेवं कामयेतैकराजः स्यान्नास्य चक्रं प्रतिहन्येते- त्येकवृषेणाभिषिञ्चेत् । अभिषेक्त्रे दद्याद्ग्रामवरं दासीशतं गो- सहस्रं तदधीनश्च भवेत् । इति । अस्यार्थ माधवाचार्य आह-पुरोहितो राजानमभिषेच- येत् अभिषिञ्चेत्, वक्ष्यमाणैः साधनैः । यद्यपि राजशब्दः अभिषेकसंस्कृतस्य क्षत्रियस्य वाचकस्तथापि भाविनीं संज्ञा- माश्रित्य “यूपं तक्षति” इत्यादिवत् अभिषेक्तव्यराजानमित्युप- चारप्रयोगः । अवेष्ट्यधिकरणे तु भाविसंज्ञां प्रत्याख्याय यूपं तक्षतीत्यनेन वैषम्यमुक्तम् । तिष्यः पुष्यः । व्रीह्या- दिजातरूपान्तैर्द्रव्यैर्मिश्रितैः । यशस्विनीभ्यः पावनत्वप्रयु- क्तख्यातियुक्ताभ्यो गङ्गातुङ्गभद्रादिभ्यो नदीभ्यः समुद्राच्चोद- कानि पृथक्पृथगाहृत्य तैः उदुम्बरसम्बन्धिनि भद्रासने चतु- ष्पदोपेते पर्यास्तृते व्याघ्रचर्मणि उपरिस्थितलोम्नि आसीनं जीवोपेतानां गवां शृङ्गाणि छित्त्वा तदग्रच्छिद्रनिःस्रुतैर्जलैर- भ्रातृव्य इति रहस्येन साम्ना, उदकानि शृङ्गकोशैरिति उभयत्र बहुवचननिर्देशात्पृथक् गङ्गाद्युदकैरभिषिञ्चेत् । पृथगाहरणस्या- पीदमेव प्रयोजनम् । कामनाभेदेन मन्त्रविशेषमाह-पुरोहितो यं राजानमेवं कामयेत कृत्स्नस्य भूमण्डलस्यैक एव राजा

राजयोग्यः पुरोहितः । ५९ स्यान्नास्य चक्रे भूमण्डलं केनचिदपि वैरिणा प्रतिहतं भवेदिति, तं रहस्यस्थाने एकवृषेणेतिसाम्नाऽभिषिञ्चेत् । अन्यत्प्रागुक्तमेव । राजा पुरोहितायोत्कृष्टं ग्रामं दासीशतं सहस्रं गाश्च दद्यात्तदधी- नश्च भवेत् । अत्र यादृशं पुरोहितं कुर्यात्तादृश उक्त— आथर्वणे, तस्मात्कुलीनं श्रोत्रियं भृग्वङ्गिरोविदं विनयाकृतिशौचा- चारयुक्तमलोलुपं व्रतनियमचारित्रवृत्तलक्षणगुणसम्पन्नं सन्धि- विग्रहचिकित्सकं माहेन्द्रजालभूतकर्मादिष्वभिविन्दकं जितस्था- नासनं हिमातपवर्षसहं ह्रीधृतिकर्मार्जवशमदयानशक्तिसम्पन्नं बृहस्पत्युशनसोः (कृतौ पारगं) स्थानाकृतिप्रमाणवर्णश्रुतवपुषा चानुमेयं तेजस्विनं गम्भीरं सत्त्वयुक्तं गुरुं वृणुयाद्भूपतिरिति । विष्णुस्मृतौ, वेदेतिहासधर्मशास्त्रेषु कुशलं कुलीनमव्यङ्गं तपस्विनं च पुरो- हितं कुर्यात् । इति । गौतमे, ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयःशीलसम्पन्नं न्यायवृत्तं तपस्विनम् । इति । आथर्वणपरिशिष्टे, तस्माद्गुरुं वेदरहस्ययुक्तं चतुर्विधे कर्मणि चाप्रमत्तम् । शान्तं च दान्तं च जितेन्द्रियं च कुर्यान्नरेन्द्रः प्रियदर्शनं च॥ इति। याज्ञवल्क्ये, पुरोहितं च कुर्वीत दैवज्ञमुदितोदितम् । दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरो निहितं दानमानसतत्कारैरा-

६० वीरमित्रोदयस्य राजनीतिप्रकाशे

त्मसम्बन्धिनं कुर्यात् । दैवज्ञं ग्रहोत्पाततच्छमनादेर्वेदितारम् । उदितोदितं विद्यानुष्ठानादिभिरुदितैः शास्त्रोक्तैः उदितम् ऋद्ध- म् । दण्डनीत्याम् अर्थशास्त्रे । अथर्वाङ्गिरसे शान्त्यादिकर्मणि । यादृशो निषिद्धः पुरोहितस्तादृश उक्त— आथर्वणपरिशिष्टे, नातिदीर्घं नातिह्रस्वं नातिस्थूलं कृशं तथा । न च हीनातिरिक्ताङ्गं क्वचित्कुर्यात्पुरोहितम् ॥ हीनाधिकाङ्गं पतितं विवर्णं स्तेयिनं जडम् । क्लीबमशक्तियुक्तं भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा गुरुं नैव कुर्यात् । इति । तादृशस्य करणे फलान्यपि तत्रैवोक्तानि । हीनाधिकाङ्गे पुरराष्ट्रहानिः काणे जडे वाहनकोशनाशः । स्तेये त्वशक्ते च समस्तदोषाः क्लीवे विवर्णे नृपतिर्विनश्येत् ॥ भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिमाहुः । विवर्णनेत्रे पतिते सुपुत्रानध्वर्युणा चैव निहन्ति पौत्रान् ॥ कृष्णे कोशक्षयं विद्याद्वक्ते वाहनसङ्क्षयः । पिङ्गलः पार्थिवं हन्याद्राष्ट्रं हन्यात्तु केकरः ॥ बह्वृचं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः । सभारः पङ्के हस्तीव सह तेनैव मज्जति ॥ अध्वर्युं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः । उत्तितीर्षुरिवाश्मानमादत्ते स्ववधाय सः ॥ वधबन्धपरिक्लेशान् कोशवाहनसङ्क्षयम् । करोत्येतां च योऽवस्थां तपोयुक्तोऽपि सामगः ॥ अन्वयाकृतिसम्पन्नं तस्माद्भृग्वङ्गिरोविदम् । गोत्राङ्गिरसवासिष्ठं राजा कुर्यात्पुरोहितम् ॥

पूर्वराजमरणोत्तरनूतनराजाभिषेके विशेषः । ६१ मखेषु राष्ट्रेषु पुरेषु चैव सेनासु राज्ञां स्वनिवेशनेषु । य उत्पातास्त्रिविधा घोररूपास्तान् सर्वान् शमयेद्ब्रह्मवेदवित्॥इति। ब्रह्मवेदोऽथर्ववेदः । बह्वृचादिनिषेधस्याथर्ववेदवेत्तरि शा- न्त्यादिवेत्तरि तात्पर्यम्, न तु बह्वृचादिनिषेधे । तथा, यस्यान्यकुलोपयुक्तपुरोधाः शान्तिकपौष्टिकप्रायश्चि- त्ताभिचारिकनैमित्तिकौर्ध्वदेहिकान्यथर्वाविहितानि कर्माणि कु- र्यात्स तस्य प्रत्यङ्गिरा भूत्वा हस्त्यश्वरथपदात्यादीनि नाशयेत्- इत्याद्युक्तम् । अस्यापि शान्त्यादिज्ञातरि तात्पर्यम्, न त्वथर्ववेदवेत्तरि । स च ब्राह्मण एव कार्यः । तदुक्तम्- ऐतरेयब्राह्मणे, न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरो दधीत देवा मेऽन्नमदन्ति । इति । पूर्वराजमरणोत्तरं नूतनराजाभिषेके विशेष उक्तो- विष्णुधर्मोत्तरे, मृते राज्ञि न कालस्य नियमोऽत्र विधीयते । तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्षपैः ॥ विधिवत् प्राकृतस्नानविधिना । घोषयित्वा जयं चास्य सांवत्सरपुरोहितौ । अन्यासनोपविष्टस्य दर्शयेतां जनं शनैः ॥ स सान्त्वयित्वा तु जनं मुक्त्वा बन्धनगांस्ततः । अभयं घोषयित्वा तु कालाकाङ्क्षी ततो भवेत् ॥ मृत इत्यस्वस्थस्याप्युपलक्षकम् । यदा पूर्वस्मिन् राज्ञि मृते- ऽस्वस्थे वोत्तरस्याभिषेकस्तदा स्नपनादौ न कालनियमः । त- त्राभिषेक्तव्यस्य सांवत्सरपुरोहितौ तिलसर्षपैर्विधिवत्स्नपनं कार-

यित्वाऽस्मिन् राष्ट्रेऽयमिदानीं राजेति जयं घोषयित्वा पूर्वराजा- सनादन्यासनोपविष्टस्य मुख्यं मन्त्र्यादिकं नागरिकं च जनं द- र्श्येताम् । ततः सर्वं जनं सत्कृत्य पूर्वराजबद्धान्मुक्त्वा स्वरा- ष्ट्रेऽभयं घोषयित्वा तदासनगत एव प्रजाः परिपालयन् वर्षा- न्तराभिषेककालप्रतीक्षया तिष्ठेत् । पूर्वस्मिन् जीवति द्वितीय- स्याभिषेके स्नपनादिकालप्रतीक्षान्तमकृत्वा शुभे कालेऽभि- षेक एव कार्यः । अथाभिषेकपूर्वकर्त्तव्यैन्द्रशान्तिप्रयोगः । शुभेऽह्नि यथाविभवं याज्ञवल्क्याद्युक्तप्रकारेण विनायकशान्तिं नवग्रहमखं च कृत्वा उपकल्पितसमस्तसम्भारः सपत्नीको रा- जा सांवत्सरादभिषेकदिनशुद्धिं विदित्वा तत्पूर्वदिवसे पुरोहि- ताचार्यसांवत्सरादीन् सन्निधाप्य शुचौ देशेऽन्तर्जानुकर उपवि- श्येष्टदेवगुरुद्विजकुलज्येष्ठान् नत्वा दर्भपाणिराचम्य प्राणाना- यम्य तिथ्यादि सङ्कीर्त्य करिष्यमाणराज्याभिषेकाङ्गत्वेनैन्द्रीं शान्तिं करिष्य इति सङ्कल्प्य, विजयबलपशुवृष्टिकामनया परचक्रागमनिवृत्तिकामनया चैन्द्रीं शान्तिं करिष्य इति काम्यायाम् । तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिपु- ण्याहवाचनं मातृकापूजनाभ्युदयिकश्राद्धाचार्यवरणानि च तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य यथाविभवं षोडशोपचारै- र्गणपतिमभ्यर्च्य यथास्वगृह्यं स्वस्तिवाचनादि विधायैन्द्रीं शान्तिं कर्तुमाचार्यं त्वामहं वृण इति पुरोहितं वृणुयात् । आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥ इत्याचार्यवरणे मन्त्रः । मधुपर्कादिवस्त्रान्तम् । तत आ-

अभिषेकप्रयोगः । ६३ चार्योऽग्निस्थापनान्तं कृत्वा प्राच्यां कलशं संस्थाप्य तत्र य- थाशक्ति सौवर्णीमैन्द्रीं प्रतिमां प्रतिष्ठाप्य यथाविभवं पूजयेत् । ततो ऽमृताशान्तिप्रकारेण चरुं श्रपयित्वा इन्द्र जुषस्वेतिसूक्तेन प्रत्यृचं जुहुयात् । शेषममृतावत् । इत्यैन्द्रशान्तिप्रयोगः । अथाभिषेकप्रयोगः । तत्र पूर्वस्मिन् दिवसे नगरदेवायतने ध्वजपताकातोरणादि- भिरलङ्कृत्य कृतोपवासः पुरोहितोऽभिषेकदिवसे स्नातोऽनुलि- प्तः शुचिः शुक्लवासाः सोष्णीषो वेदिदेशे स्नातेन श्वेतवस्त्र- माल्याद्यलङ्कृतेन सर्वाभरणभूषितेन राज्ञा तिथ्याद्युल्लेखपूर्व- कं मम कृत्स्नस्य राष्ट्रस्य वश्यतासिद्ध्यर्थं सांवत्सरपुरोहिता- भ्यां विष्णुधर्मोत्तरोक्तविधिनाऽऽत्मानमभिषेचयिष्य इति सङ्क- ल्पयेत् । ततः सांवत्सरपुरोहितयोः ऋग्यजुरथर्वविदां विप्र- क्षत्रियविशाममात्यानां छन्दोगस्य च विप्रामात्यस्य चैकैक- स्य वान्यतमवेदविदो वरणे कृते अन्येषु चातुर्वर्ण्यमुख्येषु सन्निधापितेषु होमदेशादुत्तरतः स्नानशालायां यथासम्भवं सर्वतीर्थजलपूर्णं सर्वौषधीसर्वरत्नसर्वफलयुतं क्षीरिवृक्षक्षीर- लतापल्लवोपेतं सर्वतस्त्रिगुणसितसूत्रेण वेष्टितं श्वेताम्बरवेष्टि- तकण्ठं मालादिभिरलङ्कृतं शैवालमुखं नवं सौवर्णं कलशं मध्ये, तत्समन्ततश्च यथास्थानं पञ्चगव्यमिश्रजलकलशं घृतपूर्णं हेम- कुम्भं क्षीरपूर्णं रौप्यकुम्भं दधिपूर्णं ताम्रकुम्भं मधुकुम्भं कुशोदक- कुम्भं शतच्छिद्रं सौवर्णम् अन्यांश्च नद्यादिजलपूर्णान् मृन्मयान् कलशान् कलशस्थापनविधिना स्थापयेत् । यथासम्भवं पूर्वो- क्तपर्वताग्रादिमृदः पूर्वोक्तलक्षणं सौवर्णाद्यन्यतमनिर्मितं भद्रासनं १ सविस्तरोऽयं प्रयोगो नीतिमयूखे द्रष्टव्यः ।

"? Wait, look at line 9 end: "स्नानशालाया-" Then line 10: "मान्त्रैर्मृत्तिकादिभिः" ? Wait, look at line 10: First glyph: 'मा'! Second glyph: 'न्त्रै'! With repha! 'मान्त्रैर्मृत्तिकादिभिः'??? YES! Look at the first glyph of line 10: It is 'मा'! Wait, does it have a 'म'? Look at 'म' in 'मृदः' (line 11), 'मावोरिषत्' (line 12), 'मूर्द्धानं' (line 13). In line 12: 'मावोरिषत्': 'मा' has a loop at bottom left, vertical, top bar, and 'ा' (aa-matra)! Now look at the first character of line 10: IT IS AN EXACT MATCH FOR 'मा'! Wait, but does it have something on the left? Wait, look at line 10, the very first character: Is it 'मा' or 'झा' or 'आ'? Wait, look at: It has a loop at bottom left, then goes up, then a middle horizontal bar? No, it has a loop, goes right, then vertical: that is 'म'! Wait, to the left of it, what is that? Wait, is that a '

विष्णुधर्मोत्तोक्तराजाभिषेकप्रयोगः । ६५ अथ भद्रासनगतम्-“तेजोऽसि शुक्रम्”इति घृतपूरितेन हेमकुम्भे- न पूर्वदिगवस्थितेन पूर्वतः स्थित्वा ब्राह्मणामात्योऽभिषिञ्चेत् । क्षीरपूर्णेन रौप्यकुम्भेन दक्षिणतः स्थित्वा क्षत्रियामात्य “आप्यायस्व” इति सिञ्चेत् । “दधिक्राव्ण” इति दधिपूरितेन ताम्रकुम्भेन पश्चिमादिगवस्थितेन पश्चिमतः स्थित्वा वैश्यामात्यो- ऽभिषिञ्चेत् । “मधुवाता” इति त्र्यृचेन मधुपूर्र्णेन मृत्कुम्भे- नोत्तरदिगवस्थितेनोत्तरतः स्थित्वा छन्दोगामात्येऽभिषि- ञ्चेत् । स एव तत्रैव स्थित्वा कुशोदकपूरितेनान्यकुम्भेन “देवस्य त्वा” इति सिञ्चेत् । तत्र पूरणे पूरयामि, अभिषेके अभिषिञ्चामीति मन्त्रे वाक्यशेषः । ततः पुरोहितो वह्निं रक्ष- ध्वमिति सदस्यान् सम्प्रेष्य सम्पातवन्तं सौवर्णं कलशमादाय राजसमीपं गत्वा ब्राह्मणस्वरयुतैः शङ्खभेर्यादिशब्दयुतै राजसू- यगतराजाभिषेकमन्त्रैरभिषिञ्चेत् । ते यथा-“सोमस्य त्वा द्यु- म्नेनाभिषिञ्चाम्यग्नेर्भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण । क्षत्राणां क्षत्रपतिरेद्ध्यति दिद्यून्पाहि” । “इमं देवा असपत्नं सुवद्धं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय। इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्म- णानां राजा”इति याजुषाः । इममित्यत्र द्वितीयान्तं राजनाम । अमुष्येत्यत्र षष्ठ्यन्तं तत्पितृनाम । अमुष्या इत्यत्र षष्ठ्यन्तं तन्मातृनाम। आर्ग्वेदिकास्तु “इमा आपः शिवतमा”इति तृचः । “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम- ग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि । बलाय श्रि- यै यशसेऽन्नाद्याय”इति यजुः । भूर्भुवः स्वरिति व्याहृतय इति । एवमन्येऽपि तत्तच्छाखीया द्रष्टव्याः। ततः पुरोहितः कुण्डसमीपं गच्छेत् । ततः सुगन्ध्युद्वर्त्तनद्रव्येणोद्वर्त्तिताङ्गं भद्रासनगतमेव रा- ९

६६ वीरमित्रोदयस्य राजनीतिप्रकाशे जानं शतच्छिद्रेण सौवर्णेन वेदधर्मशास्त्राभिज्ञोऽन्यो ब्राह्मणो “या ओषधीः” इति मन्त्रेण पिष्टसर्वौषध्युदकपूर्णकुम्भेन, “रथे तिष्ठन्” इति मन्त्रेण गन्धपूर्णोदककुम्भेन, “आब्रह्मन्ब्राह्मण” इति यजुषा व्रीह्यादिबीजोदकपूर्णेन, “पुष्पवती” इत्याथर्वणमन्त्रेण पुष्पपूर्णो- दककुम्भेन, तेनैव मन्त्रेण तत्कालसम्भृतफलपूर्णकुम्भेन, “आशुः शिशान” इतित्सूक्तेन सर्वरत्नपूर्णकुम्भोदकेन “ये देवाः पुरः सद” इति यजुषा कुशपञ्चपल्लवपूर्णोदककुम्भेन राजानमभिषिञ्चेत् । ततोऽन्य ऋग्वेदवित् ब्राह्मणो गोरोचनापिष्टेन “गन्धद्वाराम्” इति मन्त्रेण राज्ञो मूर्द्धानं कण्ठं च संस्पृशेत् । ततो मुख्या ब्राह्मणक्ष- त्रियवैश्यशूद्राः पतिव्रताः पुत्रवत्यो नार्यो मूर्द्धावसिक्ताद्याश्च यथासम्भवं समुद्रादिनानातीर्थाहृतैर्जलैरभिषिञ्चेयुः । शूद्राद्या- स्तूष्णीम् । तत्रामात्यमुख्याश्छत्रचामरवेत्रादीनि राजचिह्नान्यु- हरेयुः । तत्र वन्दिनश्च स्तुतिं कुर्युः । ब्राह्मणा मन्त्रघोषं, वाद- काः शङ्खभेर्यादिघोषं च कुर्युः । ततः सांवत्सरो मुख्यं सौवर्णं कलशमादाय ततो गृहीतेन कुशोदकेन “सुरास्त्वाम्” इत्या- दिभिर्विष्णुधर्मोत्तरोक्तैर्मन्त्रैरभिषिञ्चेत् । सकलमन्त्राभिषेचनान्ते अवशिष्टं कलशजलं कलशेनैव सर्वं मूर्ध्नि न्यसेत् । तथा च विष्णुधर्मोत्तरे, श्रीराम उवाच । मन्त्रेण येन दैवज्ञः कुर्याद्राज्ञोऽभिषेचनम् । तमहं श्रोतुमिच्छामि त्वत्तो वरुणनन्दन ॥ पुष्कर उवाच । शृणुष्वावहितो मन्त्रं राम कल्मषनाशनम् । येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति ॥ राज्ञोऽभिषेकशब्दान्ते दैववित् कुशवारिणा ।

कुर्यान्मन्त्रान्ते कलशं न्यसेत् ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ रुद्रो धर्मो मनुर्दक्षी रुचिः श्रद्धा तु पार्थिव । भृगुरत्रिवसिष्ठश्च सनकश्च सनन्दनः ॥ सनत्कुमारश्च तथा भगवानथ चाङ्गिराः । पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥ एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः । प्रभाकरा बर्हिषदो अग्निष्वात्तास्तथैव च ॥ क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः । एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥ लक्ष्मीर्वैदी शची

६८ वीरमित्रोदयस्य राजनीतिप्रकाशे कद्रूः क्रोधवशा प्राची विनता सुरभिस्तथा । एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥ पत्नी तु बहुपुत्रस्य सपुत्रा या च भामिनी । समायात्वभिषेकाय विजयाय च पार्थिव ॥ कृशाश्वपत्नी च तथा सुप्रभा तु जया तथा । सुदर्शनस्तयोः पुत्रो विजयं च ददातु ते ॥ मनोरमा भानुमती विशाला या च बाहुदा । अरिष्टनेमिपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥ कृत्तिका रोहिणी देवी इला रुद्राणिरेव च । पुनर्वसुश्च पुष्यश्च तथाऽश्लेषा च पार्थिव ॥ मघा च फाल्गुनी पूर्वा उत्तरा च क्षितीश्वर । हस्तश्चित्रा तथा स्वाती विशाखा च तथा नृप ॥ अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप । आषाढा च तथा पूर्वा तथान्या चोत्तरा द्वया ॥ अभिजिश्च तथा श्रुत्या धनिष्ठा च तथैव च । तथा शतभिषा चैव पूर्वाभाद्रपदा च या ॥ उत्तरा रेवती राजन्नश्विनी भरणी तथा । एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥ मृगी च मृगमन्दा¹ च श्वेता भद्रासना हरिः । पूता च कपिला दंष्ट्रा सुरसा² सरसा तथा ॥ एताः पुलस्त्यपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव । श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री तथा शुकी ॥ पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः । १ मृगचर्मा इत्यपि पाठः । २ सुरभा सुलभा इत्यपि पाठः ।

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ६९ आयतिर्नियतिश्चैव रात्रिर्निद्रा च पार्थिव ॥ एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः । उमा सेना शची चैव धूमोर्णा निर्ऋतिस्तथा ॥ गौरी शिवा च बुद्धिश्च वलया चैव नन्दना । आनृक्या च तथा ज्योत्स्ना या च देवी वनस्पतिः ॥ एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः । महाकालश्च कालश्च मन्वन्तरयुगानि च ॥ संवत्सराणि सर्वाणि तथा चैवायनद्वयम् । ऋतवश्च तथा मासाः पक्षा रात्र्यहनी तथा ॥ सन्ध्याश्च तिथयश्चैव मुहूर्त्ताः करणानि च । एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥ आदित्यश्चन्द्रमा भौमो बुधजीवासितार्कजाः । ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥ स्वायम्भुवो मनुः पूर्वो मनुः स्वारोचिषस्तथा । औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ वैवस्वतोऽथ सावर्णो दक्षब्रह्मसुतावुभौ । धर्मपुत्रो रुद्रपुत्रो रौच्यो भौसश्च यो मनुः ॥ एतं त्वांभीषंश्चन्तु मनवस्तु चतुर्दश । विश्वगुर्विश्वपश्चित्रः स्वचित्तैश्च शिखी विभुः ॥ मनोजवस्तथौजस्वी बलिरङ्गतिमान्तिकौ । वृषश्च ऋतधामा च दिविस्पृक् शुचिरेव च ॥ एते त्वामभिषिञ्चन्तु देवपालाश्चतुर्दश । रेवन्तश्च कुमारश्च तथावर्चाः कुमारकः ॥ वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः । १ सुशान्तः सुसुखी इत्यपि पाठः ।

७० वीरमित्रोदयस्य राजनीतिप्रकाशे एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ॥ नासत्यौ देवभिषजौ भवेतां विजयाय ते । धरो रुद्रश्च सोमश्च आपश्चैवानलानिलौ ॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ महाप्रभाः । एते त्वामभिषिञ्चन्तु देवमुख्याः समागताः ॥ आत्मा ह्यायुर्मनो दक्षः पटुः प्राणस्तथैव च । हविष्यश्च गविष्ठश्च कृतः सत्यश्च पार्थिव ॥ अभिषिञ्चन्तु राजंस्त्वां देवा ह्याङ्गिरसो दश । क्रतुर्दक्षो वसुः सत्यः कालः कामो मुनिस्तथा ॥ धृतिमान्मनुजश्चैव रोचमानस्तथैव च । एते त्वामभिषिञ्चन्तु विश्वेदेवास्तथा दश ॥ अङ्गारकस्तथा शर्वो निर्ऋतिश्च तथा स्वरा । अजैकपादहिर्बुध्न्यः पुष्पकेतुस्तथा बुधः ॥ भरतश्च तथा मृत्युः कापालिरथ किङ्किणिः । एकादशैते रुद्रास्त्वामभिषिञ्चन्तु पार्थिव ॥ भुवनो भावनश्चैव सुजन्यः सुजनस्तथा । क्रतुः सुवर्णवर्णश्च व्यजश्च व्यसुतस्तथा ॥ प्रसवश्चाव्ययश्चैव दत्तश्च मनुजाधिप । एते त्वामभिषिञ्चन्तु भृगवो नाम देवताः ॥ मनो मरुच्च प्राणश्च नरोऽपानश्च वीर्यवान् । चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा ॥ विधुश्चापि दिविश्रेष्ठस्तथान्यश्च जगद्धितः । एते त्वामभिषिञ्चन्तु साध्या द्वादश पार्थिव ॥ धाता मित्रोऽर्यमा पूषा शक्रोऽशो वरुणो भगः । त्वष्टा विवस्वान् सविता विष्णुर्द्वादशमः स्मृतः ॥

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७१ एते त्वामभिषिञ्चन्तु काश्यपादितिसम्भवाः । एकद्वित्रिचतुर्ज्योतिः पञ्चज्योतिस्तथैव च ॥ एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः । इन्द्रश्च गत्या दृश्यन्ते ततः प्रतिसकृत्तथा ॥ ऋतजित्सत्यजिच्चैव सुषेणः श्येनजित्तथा । अतिमित्रस्तथा मित्रः पुरुजिच्चापराजितः ॥ ऋतश्च ऋतवान् धाता वरुणो विधृतो ध्रुवः । विधारणो महातेजा वासवस्य परः सखा ॥ ईदृगन्यहशश्चैव एतादृगमिताशनः । क्रीडनश्च तथा शक्तिः सरभश्च महायशाः ॥ धातुरुग्रो मुनिर्भीमो ह्यभिमुक्तः क्षिपः सहः । द्युतिर्वपुरनाधृष्यो वासः कामो जयो विराट् ॥ एते त्वामभिषिञ्चन्तु मरुतश्च समागताः । देवा ह्येकोनपञ्चाशन्महाबलपराक्रमाः ॥ चित्राङ्गदश्चित्ररथश्चित्रसेनश्च वीर्यवान् । ऊर्णायुरनघश्चैव उग्रसेनश्च वीर्यवान् ॥ धृतराष्ट्रश्च सोमश्च सूर्यवर्चास्तथैव च । दुराधस्तृणपः कीर्णिर्नन्दिश्चित्ररथस्तथा ॥ कलिश्चाप्याङ्गिरा राजन् पर्जन्यो नारदस्तथा । वृषपर्वा च हंसश्च तथा चैव हहा हूहूः ॥ विश्वावसुस्ताम्रकश्च तथा वसुरुचिश्च यः । एते त्वामभिषिञ्चन्तु गन्धर्वाः पृथिवीपते ॥ आहूतयः शोभयन्त्यश्च वेगवत्यस्तथैव च । आच्युवत्यस्तथोजैश्च तथा वेकुरयः शुभाः ॥ बभ्रवश्चामृतरुचो सुवश्चैव रुचस्तथा ।

२ वीरमित्रोदयस्य राजनीतिप्रकाशे भीरवः शोचयन्त्यश्च दिव्या ह्यप्सरसां गणाः ॥ एतास्त्वामभिषिञ्चन्तु कामिन्यस्तरुणप्रियाः । अनुत्तमा सुरूपा च सुकेशी च मनोवती ॥ मेनका सहजन्या च पर्णाशा पुञ्जिकस्थली । क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ॥ प्रम्लोचाथाप्यनुम्लोचा रम्भा चैवोर्वशी तथा । पञ्चचूडा सामवती चित्रलेखा च पार्थिव ॥ मिश्रकेशी सुगन्धिश्च विद्युत्पर्णा तिलोत्तमा । अदृका लक्ष्मणा क्षेमा असिता रुचिका तथा ॥ सुव्रता च सुबाहुश्च सुगन्धा सुवपुस्तथा । पुण्डरीका सुदारा च सुराधा सुरसा तथा ॥ हेमा सरस्वती चैव कमला सूनृताऽभया । सुमुखी हंसपादी च वारुणी रतिलालसा ॥ एतास्त्वामभिषिञ्चन्तु राजन्नप्सरसः शुभाः । प्रह्लादश्च महातेजास्तथा राजन्विरोचनः ॥ बलिर्बाणस्तथान्ये च दितिपुत्राः समागताः । अभिषिञ्चन्तु दैत्याश्च दिव्येन ह्यम्भसा स्वयम् ॥ विप्रचित्तिमुखाः सर्वे दानवास्त्वां समागताः । अभिषिञ्चन्तु राजानं राज्यं कर्तुं सुसत्वराः ॥ हेत्यश्चैव प्रहेत्यश्च सलिलेन्द्रस्तथैव च । सुकेशी पौरुषेयश्च यज्ञहा पुरुषादकः ॥ विद्यत्सूर्यस्तथा व्यासो वधः श्वरसनस्तथा । एते त्वामाभिषिञ्चन्तु समागम्याथ राक्षसाः ॥ सिद्धार्थी मणिभद्रश्च सुमनो नन्दनस्तथा । कण्डूतिः पञ्चमश्चैव मणिमान् वसुमांस्तथा ॥

विष्णुधर्मोत्तरोक्ता अभिषेक मन्त्राः । ७३ सर्वानुभूतिः शङ्कुश्च पिङ्गाक्षश्चतुरस्तथा । यमो मन्दरसो भीमः पद्मचन्द्रः प्रभाकरः ॥ मेघवर्णश्च भव्यश्च प्रदोषश्च प्रभाकरः । भूतिमान् केतुमांश्चैव मौलिमांश्च सुदर्शनः ॥ श्वेतश्च विपुलश्चैव प्रद्युम्नश्च जयावहः । पद्मपक्षो वलाकश्च कुमुदश्च बलाहकः ॥ पद्मनाभः सुगन्धश्च सुवीरो विजयः कृतिः । पुर्णमासो हिरण्याक्षः शतजिह्वश्च वीर्यवान् ॥ एते त्वामभिषिञ्चन्तु राजवृद्धाश्च सत्तमाः । शङ्खः पद्मश्च राजेन्द्र मकरः कच्छपस्तथा ॥ महापद्मश्च नीलश्च खर्वः कुन्दो मुकुन्दकः । एते त्वामभिषिञ्चन्तु निधयस्तु समागताः ॥ छागलाश्चैकवक्त्राश्च ये च सूचीमुखा नृप । दुष्पूरणा विषादाश्च ज्वलनाङ्गारकास्तथा ॥ कुम्भमात्राः प्रतुण्डाश्च उपवीरा उलूखलाः । अकर्णाश्चक्रखण्डाश्च तथा ये पात्रपाणयः ॥ पांसवश्च वितुण्डाश्च निपुणाः स्कन्दनास्तथा । एतास्त्वामभिषिञ्चन्तु पिशाचानां तु जातयः ॥ ब्रह्मचर्ये स्थिता दान्ताः सर्वज्ञाः सर्वदर्शनाः । नानाप्रकारवचना नानाबाहुशिरोधराः ॥ चतुष्पथपुराट्टालशून्यालयनिकेतनाः । त्रिपुरारिं भवं देवं ये गता मनुजेश्वर ॥ ते त्वामद्याभिषिञ्चन्तु गणा भूतपतेः स्वयम् । महाकालं पुरस्कृत्य नरसिंहं च मातरः । सर्वास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥ १०

७४ वीरमित्रोदयस्य राजनीतिप्रकाशे

ग्रहः स्कन्दो विशाखश्च नैगमेयस्तथैव च । अभिषिञ्चन्तु राजंस्त्वां सर्वे स्कन्दग्रहा इमे ॥ डाकिन्यो याश्च योगिन्यः खेचर्यो भूचरास्तथा । सर्वास्त्वामभिषिञ्चन्तु समेत्य मनुजेश्वर ॥ गरुडश्चारणश्चैव आरुणिश्च महाखगः । सम्पाती विनतश्चैव विष्णुर्गन्धकुमारकः ॥ एते त्वामभिषिञ्चन्तु सुपर्णाः पृथिवीपते । अनन्तश्च महानागो वासुकिः शेषतक्षकौ ॥ सुपर्णारिश्च कुम्भश्च वामनोऽथाञ्जनोत्तमः । ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥ एलापत्रश्च खण्डश्च कर्कोटकधनञ्जयौ । महाकर्णो महानीलो धृतराष्ट्रबलाहकौ ॥ कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा । सोमनाथो दधिमुखः कालियः शालिंपिण्डकः ॥ बिल्वपादः पाण्डुरकनागश्चापूरणस्तथा । कपिलश्चाम्बरीषश्च कुमारश्चाप्यकच्छकः ॥ प्रह्लादः पुष्पदन्तश्च गन्धर्वश्च मनस्विकः । नहुषः खररोमा च शङ्खपालस्तथैव च ॥ पद्मश्च कुलिकश्चैव पाणिरित्येवमादयः । नागास्त्वामभिषिञ्चन्तु राजराज्ये नराधिप ॥ कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः । सुप्रतीकोऽञ्जनो नीलः पान्तु त्वां सर्वतो द्विपाः ॥ पैतामहस्तथा हंसो वृषभः शाङ्करस्तथा । दुर्गासिंहश्च पान्तु त्वां यमस्य महिषासनम् ॥ उच्चैःश्रवाश्चाश्वपतिस्तथा धन्वन्तरिर्नृप ।

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ७५ कौस्तुभः शङ्खराजश्च पान्तु त्वां सर्वतः सदा ॥ चक्रं त्रिशूलं वज्रश्च नन्दकोऽस्त्राणि चाप्यथ । सर्वे ऽभिषेकं दत्त्वा च दिशन्तु विजयं ध्रुवम् ॥ धर्मश्च व्यवसायश्च सत्यं दानं तपस्तथा । यशो यज्ञास्तथैवायुर्ब्रह्मचर्यं दमः शमः ॥ एते त्वामभिषिञ्चन्तु चित्रगुप्तश्च पार्थिव । दण्डः पिङ्गलकश्चैव मृत्युः कालान्तकावुभौ ॥ वालखिल्यास्तथा सर्वे भवन्तु विजयाय ते । दिग्धेनवश्चतस्रस्त्वां सुरभिश्च तथा नृप ॥ अभिषिञ्चन्तु सर्वाभिर्गोभिस्सार्द्धं नरेश्वर । वेदव्यासश्च वाल्मीकिः शमनोऽथ पराशरः ॥ देवलः पर्वतश्चैव दुर्वासा भागुरिः शुचिः । याज्ञवल्क्यः सजावालिर्जमदग्निः शुचिश्रवाः ॥ विश्वामित्रः स्थूलशिराश्च्यवनोऽत्रिर्विदूरथः । एकतश्च द्वितश्चैव त्रितो गौतमगालवौ ॥ शाण्डिल्यश्च भरद्वाजो मौद्गल्यो वेदवाहनः । बृहदश्वः कुविभवो जयजानुर्घटोदरः ॥ यवक्रीतोऽथ रैभ्यश्च आत्माधानश्च जैमिनिः ॥ ऋषिः सारङ्गवश्चैव तथागस्त्यो महातपाः । दुद्दुर्मुदुर्मिश्रश्चैव वृद्धबाहुर्महोदयः ॥ कात्यायनश्च कण्वश्च वलाकश्चेभनन्दनः । एते त्वामभिषिञ्चन्तु मुनयः पार्थिवोत्तम ॥ पृथुर्दिलीपो भरतो दुष्यन्तः शत्रुजिद्वली । मनुः ककुत्स्थश्चानेना युवनाश्वो जयद्रथः ॥ मान्धाता मुचुकुन्दश्च तथा राजा पुरूरवाः ॥