याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
आचाराध्यायः १२१ विन्दादिप्रकरणपठितेन सामदश्यवाक्येन मित्रविन्दाद्यधिकारपूर्वसंबन्धबोधना- र्थवता मित्रविन्दादिप्रकरणं उपसंहारः। इह तु द्वयोर्मृताहमात्रविषयत्वान्नाथैव- त्तेति । अतोऽत्र पाक्षिकेकोद्दिष्टनिवृत्तिफलकतया पार्वणनियमविधानं युक्तम् । नचैकोद्दिष्टवचनानां मातापितृक्षयाहविषयत्वेन पार्वणवचनानां च तदन्यक्षयाह- विषयत्वेन व्यवस्था युक्ताः; उभयत्रापि मातापितृसुतग्रहणस्य विद्यमानत्वात्— 'सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः । मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृते- ऽहनि ॥' इति, तथा—'आपाद्य सहपिण्डत्वमौरसो विधिवत्सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि ॥' इति । यद्यपि कैश्चिदुच्यते—मातापित्रोः क्षयाहे साग्निः पार्वणं कुर्यान्निरग्निरोकोद्दिष्ट'मिति, —'वर्षे वर्षे सुतः कुर्यात्पा- र्वणं योऽग्निमान्द्विजः । पित्रोरनग्निमान्धीर एकोद्दिष्टं मृतेऽहनि ॥' इति सुमन्तु- स्मरणादिति, —तदपि सप्रतिपक्षत्वादुपेक्षणीयम् ; बह्वग्नयस्तु ये विप्रा ये चैकाग्नय एव च । तेषां सपिण्डनादूर्ध्वमेकोद्दिष्टं न पार्वणम् ॥' इति स्मरणात् । तत्रैवं निर्णयः—सन्यासिनां क्षयाहे सुतेन पार्वणमेव कर्त्तव्यम् ; 'एकोद्दिष्टं यतेर्नास्ति त्रिदण्डग्रहणादिह । सपिण्डीकरणाभावात्पार्वणं तस्य सर्वदा ॥' इति प्रचेतःस्मरणात् । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणमेव, 'अमावास्या- क्षयो यस्य प्रेतपक्षेऽथवा पुनः' ( लघुशंख. १७) इत्यादिवचनस्योक्तरीत्या नियमपरत्वात् । अन्यत्र क्षयाहे पार्वणैकोद्दिष्टयोर्व्रीहियववद्विकल्प एव । तथापि वंशसमाचारव्यवस्थायां सत्यां व्यवस्थिते, असत्यामैच्छिक इत्यलमतिप्रसंगेन ॥ भाषा—( एकोद्दिष्ट कर्म ) एक वर्ष तक प्रत्येक महीने में मृत्यु की तिथि को करना चाहिए तथा प्रत्येक वर्ष में करना चाहिए । प्रथम एकोद्दिष्ट कर्म मृत्यु के ग्यारहवें दिन होता है ॥ २५६ ॥ नित्यश्राद्धव्यतिरिक्तसर्वश्राद्धशेषमिदमभिधीयते— पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ २५७ ॥ पूर्वदत्तानां पिण्डानां पिण्डस्य वा प्रतिपत्तिरियम्-गवे, अजाय, ब्राह्मणाय वा तदर्थिने पिण्डान्दद्यात् । अग्नावगाधे जलेऽपि वा प्रक्षिपेत् । किंच सत्सु विप्रेषु, भोजनदेशावस्थितेषु द्विजोच्छिष्टं न मार्जयेन्नोद्वासयेत् ॥ २५७ ॥ भाषा—पिण्ड गाय, बकरा, ब्राह्मण के लिये अथवा अग्नि या जल में देना चाहिए । ब्राह्मणों के (भोजन स्थान पर) होने पर उनके उच्छिष्ट को नहीं झाड़ना चाहिए ॥ २५७ ॥ भोज्यविशेषेण फलविशेषमाह— हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ २५८ ॥
१२२ याज्ञवल्क्यस्मृतिः ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः ॥ २५९ ॥ हविष्यं हविर्योग्यं तिलव्रीह्यादि । यथाह मनुः (३।२६७)—'तिलैर्ब्रीहि- यवैर्माषैरद्भिर्मूलफलेन वा। दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥'१ इति । तदन्नं हविष्यान्नं तेन मासं पितरस्तृप्यन्तीत्यना^३ गतेनान्वयः। पायसेन गव्यपयःसिद्धेन संवत्सरम्; संवत्सरं तु गव्येन पयसा पायसेन च' इति (मनुः ३।२७१) स्मरणात् मत्स्यो अद्यः पाठीनादिस्तस्येदं मात्स्यम् । हरि- णस्ताम्रमृगः । एणः कृष्णः, 'एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते' इत्या- युर्वेदस्मरणाद् । तस्येदं हारिणकम् । अविरुरभ्रस्तत्संबंधि औरभ्रम् । शकुनि- स्तित्तिरिरितस्तत्संबंधि शाकुनम्, छागोऽजस्तदीयं छागम्, पृषच्चित्रमृगस्त- न्मांसं४ पार्षतम् । एणः कृष्णमृगस्तत्पिशितमैणम् , रुरुः शंबरस्तत्प्रभवं रौरवम्, वराह आरण्यसूकरस्तज्जं वाराहम् । शशस्येदं शाशम् , एभिर्मांसैः पितृभ्यो- 'दत्तैर्हविष्यान्नेन वै मासम्' इत्युक्तत्वात्तत ऊर्ध्वं यथाक्रममेकैकमासवृद्ध्या पितरस्तृप्यन्ति ॥ २५८-२५९ ॥ भाषा—पितामह (अर्थात् पितरगण) हविष्य अन्न से एक मास तक, और खीर से एक वर्ष तक तृप्त रहते हैं; पाठीन आदि मछली, ताम्रमृग, उरभ्र (भेँड़ा) तित्तिर, बकरा, चित्रमृग, कृष्णमृग, रुरु, जंगली सुअर और खरगोस के मांस श्राद्ध में देने पर क्रमशः एक-एक महीने अधिक समय तक तृप्त रहते हैं ॥ २५८-२५९ ॥ खड्गामिषं महाशल्कं मधु मुन्यन्नमेव^५ वा । लौहामिषं महाँशाकं मांसं वार्ध्रीणसस्य च ॥ २६० ॥ यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ २६१ ॥ किंच, खड्गो गण्डकस्तस्य मांसम् , महाशल्को मत्स्यभेदः, मधु माक्षि- कम् । मुन्यन्नं सर्वमारण्यं नीवारादि, लोहो रक्तच्छागस्तदामिषं लौहामि- षम् । महाशाकं कालशाकम् । वार्ध्रीणसो वृद्धः श्वेतच्छागः—'त्रिपिबं त्विन्द्रि- यक्षीणं वृद्धं श्वेतंमजापतिम् । वार्ध्रीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥' इति याज्ञिकप्रसिद्धः । त्रिपिबः पिबतः कर्णौ जिह्वा च यस्य जलं स्पृशति सः, १. फलैस्तथा । २. मासं प्रीयन्ते । ३. अनागतत्वेना । ४. शाकुनं अद्यपष्टिसंबन्धि । ५. च । ६. कालशाकं । ७. वार्ध्रीणसस्य । ८. वर्षास्वेवं त्रयोदश्याम् । ९. श्वेतं वृद्धमजापतिं ।
आचाराध्यायः १२३ त्रिभिः पिबतीति त्रिपिबः, तस्य वार्ध्रीणसस्य मांसम् । यद्ददाति गयास्थश्च यत्किंचिच्छाकादिकमपि गयास्थो ददाति । चशब्दाद्गङ्गाद्वारादिषु च—'गङ्गाद्वारे प्रयागे च नैमिषे पुष्करेऽर्बुदे। संनिहत्यां गयायां च श्राद्धमक्षय्यतां व्रजेत् ॥', 'आनन्त्यमश्नुते' इति १आनन्तफलहेतुत्वं प्राप्नोति । 'आनन्त्यमश्नुते' इति प्रत्येकमभिसंबद्ध्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो मघायुक्तायां यत्किंचिद्दीयते तत्सर्वमानन्त्यमश्नुत इति गतेन संबन्धः ॥ अत्र यद्यपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शि- तानि, तथापि पुलस्त्योक्ता व्यवस्थादरणीया।—'मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः । मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ॥' इति । अस्यार्थः- मुन्यन्नं नीवारादि यच्छाद्धयोग्यमुक्तं तद्ब्राह्मणस्य प्रधानं समग्रफलदम् , यच्च मांसमुक्तं तत्क्षत्रियवैश्ययोः प्रधानम् । यत्क्षौद्रमुक्तं तच्छूद्रस्य । एतत्त्रितयव्य- तिरिक्तं यदविरोधि यदप्रतिषिद्धं वास्तुकादि, यच्च विहितं हविष्यं काल शाकदि, तत्सर्वेषां समग्रफलदमिति ॥ २६०-२६१ ॥ भाषा—जो खड्ग ( गैंडा ) का मांस, महाशल्क मछली, मधु, या तीनी का चावल, लाल बकरे का मांस, महाशाक, ( कालशाक ), श्वेतवर्ण के वृद्ध बकरे का मांस देता है और गया में ( श्राद्ध करते समय ) ये पदार्थ देता है, भाद्रपद मास की कृष्ण त्रयोदशी और विशेषतः महानक्षत्र होने पर इनका पिण्ड देता है वह सम्पूर्ण अनन्तफल का भोग करता है ॥ २६०-२६१ ॥ तिथिविशेषात्फलविशेषमाह— कन्यां कन्यावेदिनश्च पँशून्वै सत्सुतानपि । द्यूतं कृँषिं वाणिज्यां च द्विशफैकशफांस्तथा ॥ २६२ ॥ ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके । ज्ञातिश्रेष्ठयं सर्वकामानाप्नोति श्राद्धदः सदा॥ २६३ ॥ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ २६४ ॥ कन्यां रूपलक्षणशीलवतीम् , कन्यावेदिनो जामातरो बुद्धिरूपलक्षण- संपन्नाः । पशवः क्षुद्रा अजादयः, सत्सुता सन्मार्गवर्तिनः, द्यूतं द्यूतविजयः, कृषिः कृषिफलम् , वाणिज्या वाणिज्यलाभः, द्विशफा गवादयः, एकशफा अश्वादयः, ब्रह्मवर्चस्विनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं १. आनन्त्यफलं । २. पशून्मुख्यान्सुतानपि । ३. कृषिं च वाणिज्यं द्विशफैकशफांस्तथा । ४. सन्मार्गाः ।
१२४ याज्ञवल्क्यस्मृतिः
तद्वन्तः, स्वर्णरूप्ये हेमरजते, तद्व्यतिरिक्तं त्रपुसीसकादि कुप्यकम्, ज्ञाति- श्रैष्ठ्यं जातिषूत्कृष्टत्वम्, सर्वकामाः काम्यन्त इति कामाः स्वर्गपुत्रपश्वादयः, एतानि कन्यादीनि चतुर्दशफलानि कृष्णपक्षप्रतिपत्प्रभृतिष्वमावास्यापर्यन्तासु चतुर्दशीवर्जितासु चतुर्दशसु तिथिषु श्राद्धदो यथाक्रममाप्नोति। ये केचन शस्त्रहतास्तेभ्यः कृष्णचतुर्दश्यामेकोद्दिष्टविधिना श्राद्धं दद्यात्, यदि ब्राह्मणा- दिहता न भवन्ति; 'समत्वमागतस्यापि पितुः शस्त्रहतस्य वै। एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालये ॥' इति स्मरणात्। समत्वमागतस्य सपिण्डीकृतस्य पितुर्महालये भाद्रपदकृष्णचतुर्दश्यां शस्त्रहतस्यैव श्राद्धं नान्यस्येति नियम्यते, न पुनः शस्त्रहतस्य चतुर्दश्यामेवेति। अतश्च क्षयाहादौ शस्त्रहतस्यापि यथा प्राप्तमेव श्राद्धम्। नच भाद्रपदकृष्णपक्ष एवायं विधिरिति मन्तव्यम्; 'प्रौष्ठ पद्यामपरपक्षे मासि मासि चैवम्' इति शौनकस्मरणात् ॥ २६२-२६४ ॥ भाषा-( रूपलक्षणशीलवती ) कन्या; योग्य जामाता, पशु, सदाचारी पुत्र, जुए में विजय, उत्तम फसल, वाणिज्य में लाभ, दो खुर वाले गाय आदि और एक खुर वाले अश्वादि पशु, वेदाध्ययन से तेजस्वी पुत्र, सोना, चांदी, तांबा, सीसा, जाति में प्रतिष्ठा और सभी इच्छाओं को श्राद्ध देने वाला व्यक्ति सदैव प्राप्त करता है। केवल एक चतुर्दशी को छोड़कर प्रतिपद आदि सभी तिथियों को श्राद्ध कर सकता है। जो लोग शस्त्र से मारे गये होते हैं उन्हीं के लिए इस दिन (चतुर्दशी को) श्राद्ध किया जाता है ॥ २६२-२६४ ॥ नक्षत्रविशेषफलविशेषमाह- स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा। पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां १शुभम् ॥२६५॥ प्रवृत्तचक्रतां चैव वाणिज्यप्रभतीनपि । अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥ २६६ ॥ धनं ३वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् । अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ॥ २६७ ॥ कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । आस्तिकः ४श्रद्दधानश्च व्यपेतमदमत्सरः ॥ २६८ ॥ कृत्तिकामादिं कृत्वा भरण्यंतं प्रतिनक्षत्रं यः श्राद्धं ददाति स यथाक्रमं स्वर्गादीनायुःपर्यन्तान्कामानवाप्नोति, यश्चास्तिकः श्रद्दधानश्चेत् व्यपेतमद- मत्सरो भवति। आस्तिको विश्वासवान्, श्रद्दधान आदरातिशययुक्तः, व्यपेत-
१. ससौभाग्यं सुसौभाग्यं। २. सुतान्। ३. विद्यां। ४. श्रद्दधान- श्चेत् श्वाप्यपेतमदमत्सरः ।
आचाराध्यायः १२५ मदमत्सरः मदो गर्वः, मत्सर ईर्ष्या, ताभ्यां रहितः । स्वर्गं निरतिशयसुखम् । अपत्यमविशेषेण । ओज आत्मशक्त्यतिशयः । शौर्यं निर्भयत्वम् । क्षेत्रं फलवत् । बलं शारीरम् , पुत्रो गुणवान् , श्रेष्ठ्यं जातिषु, सौभाग्यं जनप्रियता । समृद्धिर्धनादेः, मुख्यता अग्रयता, शुभं सामान्येन, प्रवृत्तचक्रता अप्रतिहताज्ञता, वाणिज्यप्रभृतयो वाणिज्यकुसीदकृषिगोरक्षाः, अरोगित्वं अनामययोगित्वम् , यशः प्रख्यातिः, वीतशोकता इष्टवियोगादिजनितदुःखाभावः, परमा गति- र्ब्रह्मलोकप्राप्तिः, धनं सुवर्णादि, वेदा ऋग्वेदादयः, भिषक्सिद्धिरौषधफलावाप्तिः, कुप्यं सुवर्णरजतव्यतिरिक्तं ताम्रादि, गावः प्रसिद्धाः, अजाश्च अवयश्च अश्वाश्च, आयुर्दीर्घजीवनम् ॥ २६५-२६८ ॥ भाषा—स्वर्ग, सन्तान ( पुत्र ), शक्ति, निर्भयत्व, उर्वर खेत, शारीरिक बल, गुणवान् पुत्र, जाति में प्रधानता, जनप्रियता, धनादि समृद्धि, नेतृत्व, सामान्य सुख, अजेयता, यश, शोकनाश, ब्रह्मलोक में परमपद, धन, वेदज्ञान, औषधि की सिद्धि ताम्रादि द्रव्य, गौवें, बकरे, भेंड़े, अश्व और दीर्घजीवन, इन सभी फलों को कृत्तिका से आरम्भ करके भरणी तक प्रत्येक नक्षत्र में श्रद्धापूर्वक एवं मानमत्सर छोड़कर विधिपूर्वक श्राद्ध देने वाला व्यक्ति प्राप्त कर लेता है ॥ २६५-२६८ ॥ 'मासवृद्धयाभितृप्यन्ति दत्तैरिह पितामहाः' ( आ० २५९) इत्यनेन पितॄणां श्राद्धेन तृप्तिर्भवतीत्युक्त,-तदनुपपन्नम् ; प्रातिस्विकशुभाशुभकर्मवशेन स्वर्गनरकादिगतानां मनुष्याणां पुत्रादिभिर्दत्तैरन्नपानादिभिस्तृप्त्यसंभवात् । संभवेऽपि स्वयमात्मनाप्यनीशाः कथं स्वर्गादिफलं प्रयच्छन्तीत्यत आह— वसुरुद्रादितिसुता पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄञ्श्राद्धेन तर्पिताः ॥ २६९ ॥ आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ २७० ॥ नह्यत्र देवदत्तादय एव श्राद्धकर्मणि संप्रदानभूताः पित्रादिशब्दैरुच्यन्ते किंत्वधिष्ठातृवस्वादिदेवतासहिता एव । यथा देवदत्तादिशब्दैर्न शरीरमात्रं, नाप्या- त्ममात्रं, किंतु शरीरविशिष्टा आत्मान उच्यन्ते, एवमधिष्ठातृदेवतासहिता एव देवदत्तादयः पित्रादिशब्दैरुच्यन्ते । अतश्चाधिष्ठातृदेवता वस्वाद्यः पुत्रादिभिर्द- त्तेनान्नपानादिना तृप्ताः सन्तस्तानापि देवदत्तादींस्तर्पयन्ति कर्तॄंश्च पुत्रादीन्फनले १. स्वर्गोऽतिशयसुखं । २. अनामयित्वं । ३. शुभाशुभफलकर्मविशे- षेण । ४. श्राद्धेषु । ५. नॄणां प्रीताः ।
१२६ याज्ञवल्क्यस्मृतेः
संयोजयन्ति। यथा माता गर्भपोषणायान्यद्दत्तेन दोहदाङ्गपानादिना स्वयमुप भुक्तेन तृप्ता सती स्वजठरगतमप्यपत्यं तर्पयति, दोहदाङ्गादिप्रदायिनश्च प्रत्युप- कारफलेन संयोजयति तद्वद्वसवो रुद्रा अदितिसुताः आदित्या एव ये पितरः पितृ-पितामहप्रपितामहशब्दवाच्याः न केवलं देवदत्तादय एव श्राद्धदेवताः श्राद्धकर्मणि संप्रदानभूताः किन्तु मनुष्याणां पितॄन्देवदत्तादीन्स्वयं श्राद्धेन तर्पितास्तर्पयन्ति ज्ञानशक्त्यतिशययोगेन। किञ्च न केवलं पितॄंस्तर्पयन्ति अपि तु श्राद्धकारिभ्यः आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि राज्यं च। चकारात्तत्र तत्र शास्त्रोक्तमन्यदपि फलं स्वयं प्रीताः पितामहा वस्वाद्यः प्रयच्छन्तीति ॥ २६९-२७० ॥ भाषा—वसुदेवता, रुद्र और आदित्यादि एवं पितर ये श्राद्ध के देवता श्राद्ध से तृप्त होकर मनुष्यों के पितरों को तृप्त (आनन्दित) करते हैं। और मनुष्यों के पितामह अर्थात् पितर लोग प्रसन्न होकर दीर्घ जीवन, सन्तान, धन, विद्या, मोक्ष, सुख और राज्य प्रदान करते हैं ॥ २६९-२७० ॥ इति श्राद्धप्रकरणम् ।
गणपतिकल्पप्रकरणम्
दृष्टादृष्टफलसाधनानि कर्माण्यभिहितान्यप्यभिधास्यन्ते च तेषां स्वरूपनि- ष्पत्तिः फलसाधनत्वं चाविघ्नेन भवतीत्यविघ्नार्थं कर्म विधास्यन् विघ्नस्य कार- कज्ञापकहेतूनाह— विनायकः कर्मविघ्नसिद्धयर्थं विनियोजितः। गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ २७१ ॥ विनायकः कर्मविघ्नसिद्धयर्थमित्यादिनोभयविघ्नहेतुपरिज्ञानाद्विघ्नस्य प्राग्भाव परिपालनाथोपस्थितस्य प्रध्वंसाय वा प्रेक्षापूर्वकारिणः प्रवर्तन्ते; रोगस्येवोभय- विधहेतुपरिज्ञानात्। विनायको विघ्नेश्वरः पुरुषार्थसाधनानां कर्मणां विघ्नसिद्धयर्थं स्वरूपफलसाधनत्वविघातसिद्धये² विनियोजितः नियुक्तः रुद्रेण ब्रह्मणा चकारा- द्विष्णुना च गणानां पुष्पदन्तप्रभृतीनामाधिपत्ये स्वाम्ये ॥ २७१ ॥ भाषा—कर्म में विघ्न और उसकी सिद्धि के लिये रुद्र और ब्राह्मण ने विनायक (गणपति) को पुष्पदन्त आदि गणों का अधिपति बनाकर नियुक्त किया है ॥ २७१ ॥
१. गर्भधारणपোষণाय। २ विधानसिद्धये।
एवं विघ्नस्य कारकहेतुमुक्त्वा ज्ञापकहेतुप्रदर्शनार्थमाह— तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ २७२ ॥ काषायवाससश्चैव क्रव्यादांश्चाधिरोहति । अन्त्यजैर्गर्दभैरूष्ट्रैः सहैकत्रावतिष्ठते ॥ २७३ ॥ १व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः । तेन विनायकेनोपसृष्टो गृहीतो यस्तस्य लक्षणानि ज्ञापकानि निबोधत जानीध्वं हे मुनयः ! पुनर्मुनीनां प्रत्यवमर्शः शान्तिकरणप्रारम्भार्थः । स्वप्ने स्वप्नावस्थायां जलमत्यर्थमवगाहते स्रोतसा ह्रियते निमज्जति वा । मुण्डित- शिरसः पुरुषान्पश्यति । काषायवाससो रक्तनीलादिवस्त्राप्रावरणांश्च । क्रव्यादा नाम मांसाशिनः पक्षिणः गृध्रादीन्मृगांश्च व्याघ्रादीनधिरोहति । तथाऽन्त्यजै- श्चण्डालादिभिः गर्दभैः खरैरूष्ट्रैः क्रमेलकैः सह परिवृतस्तिष्ठति । व्रजन्गच्छ- न्नात्मानं परैः शत्रुभिः पृष्ठतो धावद्भिरनुगतमभिभूयमानं मन्यते ॥ २७२-२७३ ॥ भाषा—उस (विघ्नकारक) विनायक से जो ग्रस्त होते हैं उनके लक्षण सुनिये । स्वप्न में जल में बहुत स्नान करता है (ऐसा स्वप्न देखता है), सिर मुँडाए हुए पुरुषों को देखता है, गेरुआ वस्त्र धारण किये हुए पुरुषों को देखता है; मांसभक्षी (गृध्र आदि पक्षी, व्याघ्र आदि पशु) की सवारी करने का स्वप्न देखता है; चाण्डाल, गदहे और ऊँटों के साथ एकत्र निवास और स्वयं चलते समय शत्रुओं द्वारा पीछा किये जाने का स्वप्न देखता है । (विना यक द्वारा ग्रस्त व्यक्ति के प्रत्यक्ष चिह्न इस प्रकार होते हैं) वह खिन्न रहता है अपना इच्छित फल नहीं पाता और बिना कारण ही दुःखी रहता है ॥ २७२-२७४ ॥ एवं स्वप्नदर्शनान्युक्त्वा प्रत्यक्षलिङ्गान्याह— विमना विफलारम्भः संसीदत्यनिमित्ततः ॥ २७४ ॥ तेनोपसृष्टो लभते न ३राज्यं राजनन्दनः । कुमारी च न भर्तारमपत्यं गर्भमङ्गना ॥ २७५ ॥ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा । वणिग्लाभं न चाप्नोति कृषिं चापि४ कृषीवलः ॥ २७६ ॥ विमना विक्षिप्तचित्तः, विफलारम्भः विफला आरम्भा यस्य स तथोक्तः न क्वचित्फलमाप्नोति । संसीदत्यनिमित्ततः विना कारणेन दीनमनाको भवति ।
१. व्रजन्तं च तथा । २. अनुमन्यते । ३. राष्ट्रं । ४. चैव ।
१२८ याज्ञवल्क्यस्मृतिः राजनन्दनो राजकुले जातः श्रुतशौर्यधैर्यादिगुणयुक्तोऽपि राज्यं न लभते । कुमारी रूपलक्षणामिजनादिसंपन्नापीप्सितं भर्तारम्, अङ्गना गर्भिण्यप- त्यम्, ऋतुमती गर्भम्, अध्ययनतदर्थज्ञाने सत्यपि आचार्यत्वं श्रोत्रियः, विनयाचारादियुक्तोऽपि शिष्योऽध्ययनं श्रवणं वा, 'न लभते' इति सर्वत्र संबध्यते । वणिक् वाणिज्योपजीवी तत्र कुशलोऽपि धान्यादिक्रयविक्रयादिषु लाभम् । कृषीवलः कर्षकश्चत्राभियुक्तोऽपि कृषिफलं नामोति । एवं यो यया वृत्त्या जीवति स तत्र निष्फलारम्भश्चेत्तेनोपसृष्टो वेदितव्यः ॥ २७४-२७६ ॥ भाषा-विनायक द्वारा अभिभूत होने पर राजा का पुत्र राज्य नहीं पाता, कुमारी कन्या (अभीष्ट एवं योग्य) वर नहीं पाती, स्त्री को गर्भ नहीं ठहरता, श्रोत्रिय (वेदपाठी) को आचार्य का पद नहीं मिलता, शिष्य अध्ययन से वञ्चित रहता है; वणिक् वाणिज्य में लाभ नहीं पाता और न कृषक अच्छी फसल पाता है ॥ २७४-२७६ ॥ एवं कारकज्ञापकहेतूनभिधाय विघ्नोपशान्त्यर्थं कर्मविधानमाह- १स्नापनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् । तस्य विनायकोपसृष्टस्याऽनागतविनायकोपसर्गपरिहारार्थिनो वा स्नपन- मभिषेचनं कर्तव्यम् । पुण्ये स्वानुकूलनक्षत्रादियुक्ते । अह्नि दिवसे न रात्रौ । विधिपूर्वकं शास्त्रोक्तेतिकर्तव्यतासहितम् ॥ स्नपनविधिमाह- गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ २७७ ॥ सर्वौषधैः सर्वगन्धैर्विंलिप्तशिरसस्तथा । भद्रासनोपविष्टस्य स्वस्ति वाच्या द्विजाः शुभाः ॥ २७८ ॥ गौरसर्षपकल्पेन सिद्धार्थपिष्टेन साज्येन घृतैलोलीकृकेनोत्सादितस्योद्वर्ति- ताङ्गस्य तथा सर्वौषधैः प्रियङ्गुनागकेसरादिभिः सर्वगन्धैश्चन्दनागुरुकस्तूरि- कादिभिर्विलिप्तशिरसो वक्ष्यमाणभद्रासनोपविष्टस्य पुरुषस्य द्विजा ब्राह्मणाः शुभा श्रुताध्ययनवृत्तसंपन्नाः शोभनाक्रतयश्चत्वारः 'अस्य स्वस्ति भवन्तो ब्रुवन्तु' इति वाच्याः । अस्मिन्ससमये गृह्योक्तमार्गेण पुण्याहवाचनं कुर्या दित्यर्थः ॥ भाषा-विनायक से अभिभूत इस प्रकार के व्यक्ति का शुभतिथि में पीले सरसों के उबटन घी मिलाकर उस से स्नपन करे (शरीर में लगावे) उसे भद्र आसान पर बैठा के सभी औषधियों एवं सभी गन्धों का उसके शरीर पर लेप लगावे (श्रुताध्ययनसंपन्न) श्रेष्ठ ब्राह्मणों उसके लिये स्वस्तिवाचन करें। (इस अवसर पर गृह्य में उक्त विधि से पुण्याहवाचन भी करे) ॥ २७७-२७८ ॥ १. स्नापनं । २. घृतमिश्रेण ।
आचाराध्यायः १२६
अश्वस्थानाद् गजस्थानाद्वल्मीकात्संगमाद्ध्रदात् । मृत्तिकां रोचनां गन्धान्गुग्गुलं चोऽप्सु निक्षिपेत् ॥ २७९ ॥ या आहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् । चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ २८० ॥ किंच, अश्वस्थानगजस्थानवल्मीकप्रदिसंगमाशोष्याहदेभ्य आहृतां पञ्चविधां मृदं गोरोचनं गन्धान् चन्दनकुङ्कुमागुरुप्रभृतीन् गुग्गुलं च तास्वप्सु विनिषिपत् । या आप आहता एकवर्णैः समानवर्णैश्चतुर्भिः ^२कुम्भैरव्रणास्फुटिताकःर्कैः, ह्रदाद- शोष्यात् संगमाद्वा । ततश्चानडुहे चर्मणि रक्ते लोहितवर्णे उत्तरलोमनि प्राचीन- ग्रीवे भद्रं मनोरममासनं श्रीपर्णीनिर्मितं स्थाप्यम् । तत उक्तोदकमृत्तिकागन्धा- दिसहितांश्चतादिपञ्चवोप^३शोभिताननान्तरगदामवेष्टितकण्ठांश्चन्दनचर्चिताँ^४स्तवाह्रतव- स्त्रविभूषितांश्चतसृषु पूर्वादिदिक्षु स्थापयित्वा शुचौ सुलिप्ते स्थण्डिले रचितप- ञ्चवर्णस्वस्तिके लोहितमानडुहं चर्मोत्तरलोम प्राचीनग्रीवमास्तीर्य तस्योपरि श्वेतवस्त्रप्रच्छादितमासनं स्थापयेदित्येतद्भद्रासनम् । तस्मन्नुपविष्टस्य स्वस्ति- वाच्या द्विजाः ॥ २७९-२८० ॥ भाषा-घोड़शाल, गजशाल, वल्मीक (चींटी की बाँबी), नदी के संगम, और पोखरे की मिट्टी, गोरोचन, चन्दन आदि गन्ध, और गुग्गुल उस जल में छोड़े । यह जल एक ही वर्ण के चार घड़ों में गहरे जलाशय (कुण्ड) से लाया गया हो । इसके बाद लाल रंग के बैल के चमड़े पर श्रीपर्णी आदि का बना हुआ भद्रासन (उत्तम आसन) रखना चाहिए ॥ २७९-२८० ॥ सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ २८१ ॥ किंच, स्वस्तिवाचनान्तरं जीवत्पतिपुत्राभिः रूपगुणशालिनीभिः सुवेषाभिः कृतमङ्गलं पूर्वदिग्देशावस्थितं कलशमादायानेन मन्त्रेणाभिषिञ्चेद्गुरुः । सहस्रा- क्षमनेकक्तिकं शतधारं बहुप्रवाहमृषिभिर्मन्वादिभिर्यदुदकं पावनं पवित्रं कृतं उत्पादितं तेनोदकेन त्वां विनायकोपसृष्टं विनायकोपसर्गशान्तये अभिषिञ्चामि । पावमान्यश्चैता आपस्त्वां पुनन्तु ॥ २८१ ॥ भाषा-(पूर्वदिशा में रखे हुए पहले कलश को लेकर उसके जल से निम्नलिखित मन्त्र पढ़ता हुआ अभिषिञ्चन करे) अनेक शक्ति एवं अनेक
१. च विनिक्षिपेत् । २. कुम्भैः शुभैरव्रणा । ३. शोभितान् नानास्रग्दाम । ४. ताननाहृत । ६ या०
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:
१३० याज्ञवल्क्यस्मृतिः प्रवाह वाले मनु आदि ऋषियों ने जिसे पवित्र बनाया है उस जल से (विनायक गृहीत) तुम्हारा अभिषिञ्चन करता हूँ। ये जल तुम्हें पवित्र करें॥ २८१ ॥ भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ २८२ ॥ तदनन्तरं दक्षिणदेशावस्थितं द्वितीयं कलशमादायानेन मन्त्रेणाभिषिञ्चेत् । भगं कल्याणं ते तुभ्यं वरुणो राजा भगं सूर्यो, भगं बृहस्पतिः भगमिन्द्रश्च वायुश्च भगं सप्तर्षयश्च ददुरिति ॥ २८२ ॥ भाषा—( तब दक्षिण की ओर रखे हुए दूसरे कलश को लेकर उसे अभिषिञ्चित करे ) राजा वरुण ने तुझे कल्याण दिया है, सूर्य और बृहस्पति ने कल्याण ( प्रदान किया), इन्द्र और वायु ने कल्याण दिया है और सप्तर्षियों ने तुम्हें कल्याण दिया है ॥ २८२ ॥ यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद् घ्नन्तु सर्व्वदा ॥ २८३ ॥ ततस्तृतीयं कलशमादायानेन मन्त्रेणाभिषिञ्चेत् । ते तव केशेषु यद्दौर्भाग्य- मकल्याणं सीमन्ते मूर्धनि च ललाटे कर्णयोरक्षणोश्च तत्सर्वमापो देव्यो घ्नन्तु उपशमयन्तु सर्व्वदा इति ॥ २८३ ॥ भाषा—( तब तीसरे कलश को लेकर इस मन्त्र से अभिषिञ्चन करें ) तुम्हारे केशों में, सीमन्त में, शिर, ललाट, कानों और आँखों में जो कुछ भी दौर्भाग्य या अकल्याण हो उसे आप ( जल ) देवता सदैव नष्ट करें ॥ २८३ ॥ स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु । जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ॥ २८४ ॥ ततश्चतुर्थं कलशमादाय पूर्वोक्तैस्त्रिभिर्मन्त्रैरभिषिञ्चेत् । 'सर्वमन्त्रैश्चतुर्थम्' इति मन्त्रलिङ्गात्² । उक्तेन प्रकारेण कृताभिषेकस्य मूर्धनि सव्यपाणिगृहीत- कुशान्तर्हिते सार्षपं तैलं उदुम्बरवृक्षोद्भवेन स्रुवेण वक्ष्यमाणैर्मन्त्रैर्जुहुयादा- चार्यः॥ २८४॥ भाषा—( तब चौथा कलश लेकर तीनों मन्त्रों से उसको स्नान करावे ) उसके स्नान कर लेने पर उसके सिर पर बायें हाथ से कुश फेर कर उदुम्बर वृक्ष की स्रुवा से सरसों के तेल का ( आचार्य ) हवन करे ॥ २८४ ॥
१. ते सदा । २. स्मृतिलिङ्गात् ।
आचाराध्यायः १३१ मितश्च संमितश्चैव तथा शालकटङ्कटौ । कूश्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ॥ २८५ ॥ नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । मितसंमितादिभिर्विनायकस्य नामभिः स्वाहाकारान्तैः प्रणवादिभिः ‘जुहु- यात्’ इति गतेन संबन्धः । स्वाहाकारयोगाच्चतुर्थी विभक्तिः । अतश्च ॐमिताय स्वाहा, ॐ संमिताय स्वाहा, ॐ शालाय स्वाहा, ॐ कटङ्कटाय स्वाहा, ॐकूश्माण्डाय स्वाहा, ॐ राजपुत्राय स्वाहेति षण्मन्त्रा भवन्ति । अनन्तरं लौकिकेऽग्नौ स्थालीपाकविधिना चरुं श्रपयित्वा एतैरेव षड्भिर्मन्त्रैस्तस्मिन्नेवाग्नौ हुत्वा तच्छेषं बलिमन्त्रैरिन्द्राग्नियमनिरृतिवरुणवायुसोमेशानब्रह्मानन्तानां नामभिश्चतुर्थ्यन्तैर्नमोन्वितैस्तेभ्यो बलिं दद्यात् ॥ २८५ ॥ अनन्तरं किं कुर्यादित्याह³— दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥ २८६ ॥ कृताकृतांस्तण्डुलांश्च पललौदनमेव च । मत्स्यान्यक्कांस्तथैवान्मांसमेतावदेव तु ॥ २८७ ॥ पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि । मूलकं पूरिकापूपांस्तथैवोण्डेरकजः ॥ २८८ ॥ दध्यन्नं पायसं चैव ⁷गुडपिष्टं समोदकम् । एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ॥ २८९ ॥ विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् । कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात्तज्जनन्यश्च शिरसा भूमिं गत्वा—‘तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात्’ इत्यनेन मन्त्रेण विनायकं, —‘सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो गौरी प्रचोदयात्’ इत्यनेनाम्बिकां च नमस्कुर्यात् । तत उपहारशेषमास्तीर्णकुशे शूर्पे निधाय चतुष्पथे निदध्यात्—‘बलिं गृह्णन्त्विमे देवा आदित्या वस- वस्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ असुरा यातुधानाश्च ९पिशाचोरगमातरः । शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जृम्भकाः १. शालकंटंकटः । २. कुष्मा (श्मा ?)ण्डराज । ३. दित्याह दद्यादित्यादिचतुर्भिः । ४. स्तथा चामान् । ५. विविधा । ६. पुष्पं तथैव । तथैवोण्डेरकस्त्रजम् । ७. गुडमिश्रं । ८. अपरार्कासंमतमिदमर्धम् । ९. तताऽम्बिकाम् । १०. पिशाचा मातरोरगाः ।
१३२ याज्ञवल्क्यस्मृतिः सिद्धगन्धर्वा १मायाविद्याधरा नराः। दिक्पाला लोकपालाश्च ये च विघ्नविना- यकाः॥ जगतां शान्तिकर्तारो ब्रह्माद्याश्च महर्षयः। मा विघ्नो मा च मे पापं मा सन्तु परिपन्थिनः॥ सौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहाः॥ इत्येतैर्मन्त्रैः॥ कृताकृताः सकृदवहतास्तण्डुलाः, २पललं तिलपिष्टं तन्मिश्र ओदनः पललौदनः, मत्स्याः पक्वा अपक्वाश्च, मांसमेतावदेव पक्वमपक्वं च, पुष्पं चित्रं रक्तपीतादिनानावर्णम्। चन्दनादि सुगन्धिद्रव्यम्, सुरा त्रिविधा गौडी माध्वी पैष्टी च मूलकं कन्दाकारो भक्ष्यविशेषः, पूरिका प्रसिद्धा, अपूपोऽस्नेहपक्वो गोधूमविकारः। उण्डेरकस्त्रजः उण्डेरकाः पिष्टादिमय्यस्ताः प्रोताः स्रजः, दध्यन्नं दधिमिश्रमन्नं। पायसं पयः ३पयः शृतम्। गुडपिष्टं गुडमिश्रं शाख्यादिपिष्टम्। मोदकाः लड्डुकाः। अनन्तरं विनायकं तज्जननी- मम्बामम्बिकां वक्ष्यमाणमन्त्रेणोपतिष्ठेत्॥ २८६-२८९॥ किं कृत्वेत्याह- दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम्॥ २९०॥ सकृसुमोदकेनाघ्र्यं दत्त्वा दूर्वासर्षपपुष्पाणां पूर्णमञ्जलिं दत्त्वा, 'उपतिष्ठेत्' इति गतेन संबन्धः॥ २९०॥ भाषा—मित, संमित, शाल, कटङ्कट, कूष्माण्ड और राजपुत्र के अन्त में स्वाहा जोड़कर हवन के मन्त्र होते हैं (यथा-ओं मिताय स्वाहा आदि) इन्हीं मन्त्रों से इन्द्र से लेकर ब्रह्मा तक अनन्त देवताओं के नाम से नमस्कार पूर्वक बलि देवे। (तब बचे हुए अंश को) सूप में कुश बिछाकर चौराहे पर रखे। बनाये गये और न बनाये गये चावल, पीसे हुए तिल से युक्त चावल, पकी-अधपकी मछली, पका और न पका हुआ मांस, अनेक वर्ण के फूल, चन्दन आदि सुगन्धि द्रव्य, (गौडी, माध्वी, पैष्टी) तीन प्रकार की सुरा, कन्द के समान मूल फल, पूरी, पूआ, उण्डेरक (छोटे-छोटे रोट) की माला, दही मिला हुआ अन्न, खीर, गुड से बनाये गये लड्डू-इन सब को लेकर भूमि में शिर लगाकर विनायक की माता अम्बिका को नमस्कार करे। इसके पहले दूब, सरसों और फूल अञ्जलि में लेकर अर्घ्य देवे॥ २८५-२९०॥ उपस्थानमन्त्रमाह- रूपं देहि ४यशो देहि भगं ५भवति देहि मे। पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे॥ २९१॥ १. माला विद्या; नागा विद्याधरा। २. पललं पिष्टं। ३. पैरेयी। ४. जयं देहि। ५. भगवन्।
आचाराध्यायः १३३ ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । ब्राह्मणाम्भोजयेद्द्वाद्धवस्त्रयुग्मं गुरोरपि ॥ २९२ ॥ विनायकोपस्थाने 'भगवन्' इत्यूहः । ततोऽभिषेकानन्तरं यजमानः शुक्ला- म्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणान्भोजयेत् । यथाशक्ति गुरवे श्रुताध्ययन- वृत्तसंपन्नाय विनायकस्नपनविधिज्ञाय वस्त्रयुग्मं दद्यात् । 'अपि' शब्दाद्यथाशक्ति दक्षिणां विनायकोद्देशेन ब्राह्मणेभ्यश्च । तत्रायं प्रयोगक्रमः--चतुर्भिर्ब्राह्मणैः सार्धमुक्तलक्षणो गुरुर्मन्त्रज्ञो भद्रासनरचनानन्तरं तत्संनिधौ विनायकं तज्जननीं चोक्तमन्त्राभ्यां गन्धपुष्पादिभिः समभ्यर्च्य चरुं श्रपयित्वा भद्रासनोपविष्टस्य यजमानस्य पुण्याहवाचनं कृत्वा, चतुर्भिः कलशैरभिषिच्य, सार्षपं तैलं शिरसि हुत्वा, चरुहोमं विधायाभिषेकशालायां चतुर्दिक्षु इन्द्रादिलोकपालेभ्यो बलिं दद्यात् । यजमानस्तु स्नानानन्तरं शुक्लमाल्याम्बरधरो गुरुणा सहितो विनाय- काम्बिकाभ्यामुपहारं दत्त्वा शिरसा भूमिं नत्वा कुसुमोदकेनायं दत्त्वा दूर्वासर्षप- पुष्पाञ्जलिं च दत्त्वा विनायकमम्बिकां चोपतिष्ठेत् । गुरुरुपहारशेषं शूर्पे कृत्वा चत्वरे निदध्यात् । अनन्तरं वस्त्रयुग्मं दक्षिणां ब्राह्मणेभ्यो भोजनं दद्यादिति ॥ २९१-२९२ ॥ भाषा--( नमस्कार का मन्त्र यह है ) देवि ! मुझे रूप दो, यश दो, कल्याण दो, पुत्र दो, धन दो और सभी अभिलाषाएँ पूरी करो । इसके बाद श्वेत वस्त्र धारण करके, श्वेत पुष्पों की माला पहन कर, चन्दन आदि का लेप करके, ब्राह्मणों को भोजन करावे और गुरु के लिये भी जोड़ा वस्त्र देवे ॥ २९१-२९२ ॥ इति विनायकस्नपनविधिः । अस्यैव विनायकस्नपनस्योक्तोपसंहारेण संयोगान्तरं दर्शयितुमाह- एवं विनायकं पूज्यं ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोति २श्रियं चाप्नोत्यनुत्तमाम् ॥ २९३ ॥ एवमुक्तेन प्रकारेण विनायकं संपूज्य कर्मणां फलमविघ्नेनाप्नोतीत्युक्तोप- संहारः । संयोगान्तरमाह--श्रियं चोत्कृष्टतमामाप्नोतीति । श्रीकामश्चानेनैव विधानेन विनायकं पूजयेदित्यर्थः । आदित्यादिग्रहपीडाशान्तिकामस्य लक्ष्म्या- विदाप्तस्य च ग्रहपूजादिकल्पं विधास्यन् ३ग्रहपूजामुपक्षिपति-ग्रहांश्चैव १. अम्बिकोपस्थाने भवतीत्यूहः । २. श्रियमाप्नोत्यनुत्तमाम् । ३. ग्रहपूजां लक्षयति ।
१३४ याज्ञवल्क्यस्मृतिः विधानत इति । ग्रहानादित्यादीन्वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धि- माप्नोति श्रियं चाप्नोति इति ॥ २९३ ॥ भाषा—इस प्रकार विनायक की पूजा करके और सभी ग्रहों की विधिपूर्वक पूजा करके सभी कर्मों का फल प्राप्त करता है और उत्कृष्ट समृद्धि का लाभ करता है ॥ २९३ ॥ नित्यकाम्यसंयोगानाह— आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ॥ २९४ ॥ आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कुमकुसुमादिभिः पूजां कुर्वन् स्कन्दस्य महागणपतेश्च नित्यं पूजां कुर्वन् सिद्धिं मोक्षमात्मज्ञानद्वारेण प्राप्नोतीति नित्यसंयोगः । आदित्यस्कन्दगणपतीनामन्यतमस्य सर्वेषां वा तिलकं स्वर्णनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिमभिलषितामाप्नोति । तथा चक्षुषी चेति काम्यसंयोगः ॥ २९४ ॥ भाषा—प्रतिदिन सूर्य भगवान् को (लाल चन्दन, कुङ्कुम और पुष्प आदि से) तथा महागणपति की पूजा करने और इनके लिये (सोने या चाँदी का) तिलक बनवाने वाला अभिलषित फल प्राप्त करता है (सिद्धि प्राप्त करता है) ॥ २९४ ॥ इति महागणपतिकल्पः । ग्रहशान्तिप्रकरणम् ‘एवं विनायकं पूज्य ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोति श्रियं चाप्नोत्यनुत्तमाम्’ ( आ० २९३ ) इत्यनेन ग्रहपूजायाः कर्मणामसिद्धिानेन फलसिद्धिः श्रीश्च फलमित्युक्तम् । इदानीं फलान्तराण्याह— श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । वृष्ट्यायुःपुष्टिकामो वा तथैवाऽभिचरन्नपि ॥ २९५ ॥ श्रीकाम इति पूर्वोक्तस्यानुवादः, शान्तिकाम आपदुपशान्तिकामः, सस्या- दिवृद्ध्यर्थं प्रवर्षणं वृष्टिः, आयुरपमृत्युजयेन दीर्घकालजीवनम् । पुष्टिरनवद्य- शरीरत्वं, एताः कामयत इति वृष्ट्यायुःपुष्टिकामः। एते श्रीकामादयो ग्रहयज्ञं ग्रहपूजां समाचरेयुः। तथाऽभिचरन्नपि अघशेोपायेन परपीडा अभिचारस्तत्कामश्च ग्रहयज्ञं समाचरेत् ॥ २९५ ॥
आचाराध्यायः १३५ भाषा—समृद्धि की इच्छा रखने वाला, आपत्ति से शान्ति चाहने वाला, (खेती के लिये) वृष्टि, दीर्घजीवन, पुष्टि की कामना करने वाला तथा अदृष्ट उपाय से दूसरे (शत्रु आदि) को पीडित करने की इच्छा वाला ग्रह यज्ञ करे ॥ २९५ ॥ ग्रहानाह— सूर्य्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ २९६ ॥ एते सूर्यादयो नव ग्रहाः ॥ २९६ ॥ भाषा—सूर्य, चन्द्रमा, मंगल, बुध (चन्द्रमा का पुत्र), बृहस्पति, शुक्र, शनि, राहु और केतु—ये नवग्रह कहे गये हैं ॥ २९६ ॥ 'ग्रहाः पूज्याः' इत्युक्तं, कि कृत्वेत्याह— ताम्रात्स्फटिकाद्रक्तचन्दनात्स्वर्णकादुभौ । राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् ॥ २९७ ॥ स्ववर्णैर्वा पटे लेख्या १गन्धैर्मण्डलकेषु वा । सूर्यादीनां मूर्तयस्ताम्रादिभिर्यथाक्रमं कार्याः । तदलाभे स्ववर्णैर्वर्णकैः पटे लेख्याः, मण्डलकेषु वा । गन्धैः रक्तचन्दनादिभिर्यथावर्णं लेख्या इत्यन्वयः । द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्यः । यथा—'पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः ॥ श्वेतः श्वेता- म्बरधरो दशाश्वः श्वेतभूषणः । गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥ रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्भुजो मेषगमो वरदः स्याद्धरा- सुतः॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः। खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ । दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः। बाणबाणासनधरः कर्तव्योऽर्कसुतः सदा ॥ करालवदनः खड्गचर्मशूली वरप्रदः। नीलः ३सिंहासन- रथश्च राहुरत्र प्रशस्यते ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृतानना। गृध्रासन- गता नित्यं केतवः स्युर्वरप्रदाः ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः । स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा' इति ॥ एतेषां स्थापनदेशश्च तत्रै- वोक्तः—'मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु । उत्तरेण गुरुं विद्याद् बुधं : पूर्वोत्तरेण तु ॥ पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्या- न्द्राहुं पश्चिमदक्षिणे ॥ पश्चिमोत्तरतः केतुं स्थाप्या वै शुक्लतण्डुलैः ॥' इति ॥ २९७ ॥
१. गन्धमण्डलकेषु वा । २. सप्ताश्वरथसंस्थश्च । ३. नीलसिंहासनः ।
१३६ याज्ञवल्क्यस्मृतिः पूजाविधिमाह— यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ २९८ ॥ गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः । कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ॥ २९९ ॥ यथावर्णं यस्य ग्रहस्य यो वर्णस्तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि । बलयश्च धूपश्च सर्वेभ्यो गुग्गुलुर्देयः । चरवश्च प्रतिदैवतमग्निप्रतिष्ठापनान्वा- धानादिपूर्वकं ‘चतुरश्चतुरो मुष्टीन्निर्वपति’, ‘अमुष्मै त्वा जुष्टं निर्वपामी'त्यादिवि- धिना कार्याः । अनन्तरं सुसमिद्धेऽग्नाविध्माधानाद्याघारान्तं कर्म कृत्वा१ आदित्याद्युद्देशेन यथाक्रमं वक्ष्यमाणमन्त्रैर्वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण हुत्वा चरवो होतव्याः ॥ २९८-२९९ ॥ भाषा—( सूर्य आदि ग्रहों की मूर्तियाँ ) क्रमशः तांबे, स्फटिक, लाल- चन्दन, सोने की दो, चाँदी, लोहा, सीसा की क्रमशः बनवानी चाहिए । अथवा (इनकी आकृतियाँ) तत्तत् रंगों से वस्त्र पर अथवा मण्डल में चन्दनादि गन्धों से बनावे। ग्रह के वर्ण के अनुसार (उस-उस वर्ण का) वस्त्र और फूल दे। गन्ध, बलि, धूप और गुग्गुल देना चाहिए और प्रत्येक देवता के लिए मन्त्र के साथ चरु बनाकर (उसका हवन करना चाहिए) ॥ २९७-२९९ ॥ मन्त्रानाह— आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ ३०० ॥ बृहस्पते अतियदर्यस्तथैवान्नात्परिस्रुतः । शं नो देवीस्तथा काण्डात्तेकेतुं कृण्वन्निमांस्तथा ॥ ३०१ ॥ ‘आकृष्णेन रजसा वर्तमान’ (ऋ. १।३५।२) इत्यादयो नव मन्त्राः यथाक्रमादित्यादीनां वेदितव्याः ॥ ३००-३०१ ॥ भाषा—'आकृष्णेन’, ‘इमं देवा', 'अग्निर्मूर्धा दिवः ककुत्' ‘उद्बुध्यस्व’, 'बृहस्पते अतियदर्यः', 'अन्नात्परिस्रुतः', 'शं नो देवी', और 'काण्डात्' 'केतुं कृण्वन्' ये यथाक्रम नौ देवताओं के मन्त्र हैं ॥ ३००-३०१ ॥ इदानीं समिध आह— अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः । उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ ३०२ ॥ १. ऽग्नावन्वाधानादनन्तरं कर्म कृत्वा । २. न्निमा अपि । ३. औदुम्बर ।
आचाराध्यायः १३७ अर्कपलाशादयो यथाक्रमं सूर्यादीनां समिधो भवन्ति । तश्चार्द्रा अभग्नाः सत्वचः प्रादेशमात्राः कर्तव्याः ॥ ३०२ ॥ भाषा--अर्क, पलाश, खदिर, अपामार्ग, पीपल, उदुम्बर, शमी, दूर्वा और कुश-ये क्रमशः (इन नौ ग्रहों के लिए) समिधू होते हैं ॥ ३०२ ॥ एकैकस्य¹ त्वष्टशतमष्टाविंशतिरेव वा। होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा² युताः ॥ ३०३ ॥ किंच, आदित्यादीनामेकैकस्याष्टशतसंख्या अष्टाविंशतिसंख्या वा यथासंभवं मधुना सर्पिषा दध्ना क्षीरेण वा युता युक्ता अर्कादिसमिधो होतव्याः ॥ ३०३ ॥ भाषा--(आदित्यादि में) प्रत्येक ग्रह के लिए आठ-आठ सौ या अठाइस- अठाइस समिधाएँ मधु और घी दही या दूध में भिगोकर हवन करे ॥ ३०३ ॥ इदानीं भोजनान्याह- गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् । दध्योदनं ³हविश्चूर्णं मांसं चित्रान्नमेव च ॥ ३०४ ॥ दद्याद् ग्रहक्रमादेवं द्विजेभ्यो भोजनं ⁴बुधः । शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ ३०५ ॥ गुडमिश्र ओदनो गुडौदनः, पायसं पायसान्नम् , हविष्यं मुन्यन्नादि, क्षीरषाष्टिकं क्षीरमिश्रः षाष्टिकोदनः, दध्ना मिश्र ओदनो दध्योदनः, हविर्घृतौ- दनः । चूर्णं तिलचूर्णमिश्रं ओदनः, मांसं भक्ष्यमांसमिश्र ओदनः, चित्रौदनो नानावर्णौदनः, एतानि गुडौदनादीनि यथाक्रममादित्याद्युद्देशेन भोजनार्थं द्विजेभ्यो ब्राह्मणेभ्यो दद्यात् । ब्राह्मणसंख्या यथाविभवं द्रष्टव्या । गुडौदनाद्यभावे तु यथालाभमोदनादि पादप्रक्षालनादिविधिपूर्वकं सत्कृत्य संमान-पुरःसरं दद्यात् ॥ ३०४-३०५ ॥ भाषा-गुड़ मिला हुआ भात, खीर, हविष्य (तीनी का भात), दूध के साथ साठी का भात, दही-भात, घी-भात, भक्ष्यमांस युक्त भात, तिल युक्त भात, अनेक वर्ण के चावल आदि का भात, ये क्रमशः इन ग्रहों के लिये ब्राह्मणों को विद्वान् पुरुष अपनी शक्ति के अनुसार या अपने लाभ के अनुसार उनका सत्कार करके, विधिपूर्वक भोजन देवे ॥ ३०४-३०५ ॥ १. कस्यात्राष्टशतं । एकैकस्याष्टशतक। २. संयुताः । ३. घृतान्नं च कृसरामिषचित्रकम् । ४. द्विजः ।
१३८ याज्ञवल्क्यस्मृतिः दक्षिणामाह— धेनुः शङ्खस्तथानड्वान् हेम वासो हयः क्रमात् । कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ॥ ३०६ ॥ धेनुर्दोग्ध्री, शङ्खः प्रसिद्धः, अनड्वान् भारसहो¹ बलीवर्दः, हेम सुवर्णम्, वासः पीतम्, हयः पाण्डुरः, कृष्णा गौः, ²आयसं शस्त्रादि, छागप्रसिद्धः, एता धेन्वादयो यथाक्रममादित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृताः उक्ता मन्वा- दिभिः । एतच्च संभवे सति, असंभवे तु यथालाभं शक्तितोऽन्यदेव यत्किं- चिद्देयम् ॥ ३०६ ॥ भाषा—(दूध देने वाली) गाय, शंख, (भार ढोने वाला) बैल, सोना, पीला वस्त्र, पाण्डुवर्ण का घोड़ा, काली गाय, लोहे के शस्त्र आदि और बकरा—ये क्रमशः इन ग्रहों के लिये (ब्राह्मण की) दक्षिणा होते हैं ॥ 'शान्तिकामेनःविशेषेण सर्वे ग्रहाः पूजयितव्याः' (आ० २९५) इत्युक्तं, तत्र विशेषमाह— यश्च यस्य यदा ³दुःस्थ स तं यत्नेन पूजयेत् । ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ ३०७ ॥ यस्य पुरुषस्य यो ग्रहो यदा दुःस्थोऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा यत्नेन विशेषेण पूजयेत् । यस्मादेषां ग्रहाणां ब्रह्मणा पूर्वं वरो दत्तः 'पूजिताः सन्तो यूयमिष्टप्रापणेनानिष्टसनेन च पूजयितारं पूजयिष्यथ' इति ॥ ३०७ ॥ भाषा—जिस पुरुष के लिए जो प्रतिकूल (अष्टम आदि स्थान में स्थित) हो वह उस-उस ग्रह की विधिपूर्वक पूजा करे । ब्रह्मा ने इन्हें वर दिया है कि तुम्हारी पूजा किये जाने पर तुम लोग पूजा करने वाले को सुखी और प्रसन्न करोगे ॥ ३०७ ॥ अविशेषेण द्विजानधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्यनुक्रान्तानि, तत्राभिषेकँगुणयुक्तस्य राज्ञो विशेषेणाधिकार इति दर्शयति— ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च । भावाभावौ च जगतस्तस्मात्पूज्यत मा ग्रहाः ॥ ३०८ ॥ [ ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि । आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ॥ ] १. भारवाही । २. आयसमस्त्रादि, आयसं ताम्रादि । ३. दुष्टो । ४. भिषेकयुक्तस्य ।
आचाराध्यायः १३६ नरेन्द्राणामभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमाः, इत्यनेनान्येषामपि$^१$ पूज्या इति गम्यते । उभयत्र कारणमाह—प्राणिनामभ्युदयविनिपाता ग्रहाधीनाः यस्मात्तस्मादधिकारिभिः पूज्याः । किंच जगतः स्थावरजङ्गमात्मकस्य भावा- भावावुत्पत्तिनिरोधौ ग्रहाधीनौ । तत्र यद्येते पूजितास्तदा स्वकोल$^२$ एवोत्पत्ति- निरोधौ भवतः, अन्यथा उत्पत्तिसमये $^३$नोत्पादः, न काले निरोधश्च । जगदीश्वर- त्वाच्च नरेन्द्राणां तयोर्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्ति- कादिष्वधिकारः । तथा च गौतमेन ( ११।१ ) ‘—राजा सर्वस्येष्टे ब्राह्मण- वर्ज्यम्’ इति राजानमधिकृत्य ‘वर्णानाश्रमांश्च न्यायतोऽभिरक्षेत्’ ( गौ. ११।९ ) चलतश्चैतान्स्वधर्मे स्थापयेत्’ इत्यादीन्कांश्चिद्धर्मानुक्त्वा—‘यानि च दैवोत्पात- चिन्तकाः प्रब्रूयुस्तान्याद्रियेत ( गौ. ११।१० ) तदधीनमपि ह्येके योगक्षेमं प्रतिजा- नते’ इति । शान्तिकपौष्टिकाद्यनुष्ठानहेतुमभिधाय ‘शान्तिकपुण्याहस्वस्त्ययना- युष्यमङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषण$^४$स्तम्भनाभिचारद्विषद्द्वृद्धियुक्तानि च शालाग्नौ कुर्यात्’ ( गौ. ११।११।१५-१७) इति शान्तिकादीनि दर्शितानि ॥ ३०८ ॥ भाषा—राजाओं का अभ्युदय और पतन, तथा संसार का अस्तित्व एवं विनाश ग्रहों के अधीन होते हैं; इसलिये ये ग्रह सबसे अधिक पूज्य होते हैं । [ जो व्यक्ति वर्ष में एक बार भी इन ग्रहों की पूर्वोक्त विधि से पूजा करता है वह स्वास्थ्य और बल से युक्त होकर सौ वर्ष तक जीवित रहता है । ] ॥ ३०८ ॥ इति ग्रहशान्तिप्रकरणम् । राजधर्मप्रकरणम् साधारणगृहस्थधर्मानुक्त्वेदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशेषधर्मानह— महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः । विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ ३०९ ॥ $^५$अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥ ३१० ॥ स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ ३११ ॥ १. अथ चान्येषामपि । २. स्वकालादुत्पत्ति । ३. तस्य नोत्पादो न काले । ४. संवननाभिचार । ५ अदीर्घसूत्री ।
पुरुषार्थसाधनकर्मारम्भाध्यवसाय उत्साहः, महानुत्साहो यस्यासौ महो- त्साहः, बहुदेयार्थदर्शी स्थूललक्षः, परकृतोपकारापकारौ न विस्मरतीति कृतज्ञः, तपोध्ञानादिवृद्धानां सेवकः, वृद्धसेवकः, विनयेन युक्तो विनीतः, 'विनय' शब्दे- नाविरुद्धः पूर्वोक्तस्नातकधर्मकलाप उच्यते—'न संशयं प्रपद्येत नाकस्मादप्रियं वदेत्' (आं. १३२) इत्यादिनाक्तः। सत्त्वसंपन्नः संपदापदोर्हर्षविषादरहितः, मातृतः पितृतश्चाभिजनवान् कुलीनः, सत्यवाक् सत्यवचनशीलः। शुचिर्बाह्या-^१ भ्यन्तरशौचयुक्तः अवश्यकार्याणां कर्मणामारम्भे प्रारब्धानां च समापने यो न विलम्बतेऽसावदीर्घसूत्रः, अधिगतार्थाऽविस्मरणशीलः स्मृतिमान्, अक्षुद्रोऽसद्- गुणद्वेषी, अपरुषः परदोषाकीर्तनशीलः, धार्मिको वर्णाश्रमधर्मान्वितः, न विद्यन्ते व्यसनानि यस्यासावव्यसनः। व्यसनानि चाष्टादश, यथाह मनुः (७।४७- ४८)—'मृगयाऽक्षो दिवास्वप्नः परिवादः स्त्रियो मदः। तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥' इति तत्र च सप्त कष्टतमानि । यथाह मनुः (७।५०-५१)—'पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजे- ऽपि गणे विद्यात्कष्टमेतन्त्रिकं सदा ॥' इति प्राज्ञो गम्भीरार्थावधारणक्षमः, शूरो निर्भयः, रहस्यवित् गोपनीयगोपनचतुरः, स्वरन्ध्रगोप्ता स्वस्य सप्तसु राज्याङ्गेषु यत्परप्रवेशद्वारशैथिल्यं तत्स्वरन्ध्रं तस्य गोप्ता प्रच्छादयिता। आन्वी- क्षिक्यामात्मविद्यायां, दण्डनीत्यामर्थयोगक्षेमोपयोगिन्यां, वार्तायां कृषिवाणिज्य- पशुपालनरूपायां धनोपचयहेतुभूतायां, त्रय्यां ऋग्यजुः ^२सामरूपायां च विनी- तस्तत्तदभिज्ञैः प्रावीण्यं नीतः। यथाह मनुः (७।४३)—'त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं ^३ शाश्वतीम् । आन्वीक्षिकीं चात्मविद्भ्यो वार्तारम्भांश्च लोकतः ॥ इति। नराधिपो 'राज्याभिषिक्तः स्यात्' इति सर्वत्र संबन्धः ॥ ३०९-३११ ॥
भाषा—राजा को महान् उत्साही, अत्यन्त धन देने वाला, कृतज्ञ, (तप एवं ज्ञान में बढ़े हुए) वृद्धों की सेवा करने वाला, विनीत, सत्त्वसंपन्न (सम्पत्ति और विपत्ति में एक सा आचरण करने वाला), कुलीन, सत्य वचन बोलने वाला, पवित्र, आलस्यरहित, (जाने हुए कार्यों को), स्मरण रखने वाला, सद्गुणी, दूसरे का दोष न कहने वाला, धार्मिक, (मृगया आदि) व्यसन न करने वाला, बुद्धिमान्, वीर, रहस्य को छिपाने में चतुर, अपने राज्य के प्रवेशद्वारों को गुप्त रखने वाला, आन्वीक्षिकी (आत्म-विद्या)
१. सत्यवादन । २. साममय्यां । ३. च तद्विदः ।