भारतकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:

२० युक्तिकल्पतरौ— गुप्ते स्त्री कोषसम्भारं * संरच्छेदिति निश्चयः ॥ १३६ ॥ —*— अथ सामान्यतो गुणाः । तथाहि नीति-शास्त्रम् । स प्रवेशापसरणं दन्द मुत्तममुच्यते । अन्यत्र वन्दिशालेव न तादृग् (द)वन्धमाश्रयेत् ॥ १३७ ॥ धनुर्द्दन्दं मही दन्दं गिरि-दन्दन्तथैव च । मनुष्य दन्द-संसर्गं वरदन्दञ्च तानि षट् ॥ १३८ ॥ अन्ये तु— न दन्दं दन्दमित्याहु र्योद्धृ-दन्दं प्रकीर्त्तितम् । योद्धृ-शून्यं हि यद्गेहं (१) मृतकाय समं हि तत् ॥ १३९ ॥ अथान्यच्चापि,— यावत् प्रमाणं नगरं हि राज्ञाम्, ततो भवेदुत्तम मध्यमान्त्यम् । त्रिंशच्च (२) लक्षाष्टगुणोत्तरेण

नीतिव्यक्तिः । २१ गर्गस्तु— यदन्यद्विविधं दन्दं प्रोच्यते धरणीभुजाम् । ताभ्यामेवातिरिच्येत (३) मन्त्रयुद्धं (४) विशेषतः * ॥१४१॥ अन्येषु दैवाङ्गिनेषु मन्त्रदन्द्वाज्जये नृपः । मन्त्रदन्दे हि भिन्ने हि न चान्यत्कार्य्य(५)कारणम् ॥१४२॥ भोजस्तु,—(†) यदैव वैरि-दुर्लङ्घ्यं विस्तीर्णं विषमञ्च तत् । स प्रवेशापसरणं तद्द्दन्द(६)मुत्तमं विदुः ॥ १४३ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ द्वन्द्वयुक्तिः ॥ ( ३ ) अतिरिक्ते तत् इति (ख) पुस्तक पाठः । ( ४ ) मन्त्रद्वन्दं इति (ग) पुस्तक पाठः । ( ५ ) कार्य्यकारकं इति (ग) पुस्तक पाठः । ( ६ ) तद्युद्धमुत्तमं इति (ग) पुस्तक पाठः ।

  • “उपायान् षड्गुणं मन्त्रं शक्तौः स्वस्यापि चिन्तयेत् । धर्मयुद्धैः कूटयुद्धै र्हन्यादेव रिपुं सदा ॥” “मन्त्रेरित-महाशक्ति-बाणाद्यैः शत्रुनाशनम् । मान्त्रिकास्त्रेण तद् युद्धं सर्व्वयुद्धोत्तमं स्मृतम् ॥”—इति शुक्रनीतौ । —अथोपायान् सामादीन्, षड्गुणान् सन्ध्यादीन् ; धर्मयुद्धैः कूटयुद्धैर्वा सदा शत्रून् संहन्यादेव । † भोजस्त्विति—ग्रन्थ प्रणेतृतोऽन्यः कश्चन नीतिनिपुणः प्राचीनो भोजराजोऽप्यासीदित्य- नुमीयते, एतदवतारिकायां द्रष्टव्यम् ।

२१ युक्तिकल्पतरौ— अथ नगर निर्माणादि-कालः । स्थिरराशि-गते भानौ चन्द्रे च स्थिर-भोदये * । शुद्धे काले दिने चैव नगरं कारयेत् नृपः ॥ १४४ ॥ —*— अथास्य लक्षणम् । भविष्योत्तरे,— दीर्घं वा चतुरस्रं वा नगरं कारयेन्नृपः । तह्यं (१) वहुलम्बापि कदाचिदपि कारयेत् ॥ १४५ ॥ दीर्घः पादैः प्रसरः चतुरस्रः समोचितः । त्रिभिः पादैः समं त्र्यस्रं वर्त्तुलं वलयाकृतिः ॥ १४६ ॥ दीर्घं स्याद्दीर्घकालाय सुखसम्पत्ति-हेतवे । चतुरस्रं चतुर्वर्ग(२) फलाय पृथिवी-पतेः ॥ १४७ ॥ —————————————————————————————————————————— ( १ ) तद्रुखं इति (ख) पुस्तक पाठः । ( २ ) चतुर्व्वन्ध (ङ) इति चतुर्व्वद्ध इति (ख)—(ग) पुस्तक पाठः । ——————————————————————————————————————————

  • “आदित्ये युक्कर्कि-क्रियमिथुनघटालिखिते सत्समेतैः, केन्द्राष्टान्त्ये रसौम्यैस्स्थिरभवरिपुगतैः खस्थिरग्रामलग्ने । भेषु स्वात्यार्द्-विशाखादिति फणिदहनीग्रैतरेष्वर्कशुद्धौ ; वेश्मारम्भः शुभः स्यात् सुतिथि शुभविधौ भौमसूर्य्येतराहे ॥” अत्र वेश्म इत्युपलक्षणम्, तेन सर्व्वं वास्तुकार्य्यं बोध्यम् । —इत्यादीनि ज्योतिषीय शिल्पशास्त्रीय प्रमाणानि मुहूर्त्तचिन्तामणि-बृहत्पाराशर-मूल स्तम्भशास्त्र-कुमारवास्तुशास्त्र-पाराशरीय शिल्पशास्त्र-ज्योतिस्तत्त्व-शुक्रनीति-वराहमिहिरीयादिषु च सन्दर्भेषु अनुसन्धेयानि ।

नीतियुक्तिः । २३ चस्रं विशक्ति-नाशाय वर्त्तुलं बहुरोगकृत् । राज्ञः स्वहस्तैर्दशभी राजहस्त उदाहृतः ॥ १४८ ॥ राजहस्तैस्तु दशभी राजदण्ड उदाहृतः । राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम् ॥ १४९ ॥ राजच्छत्रैस्तु दशभी राजकाण्ड उदाहृतः । राजकाण्डैश्च दशभी राजपुरुष (३) उच्यते ॥ १५० ॥ राज-प्रधानौ (तु) कथिता दशभी (४) राजपुरुषैः । राजधानी दशगुणा (५) राजक्षेत्रमुदाहृतम् ॥ १५१ ॥ सप्तैव परिमाणानि प्रोक्तानि पूरपत्तने । भय-श्री भोगसम्पत्ति-मृत्युकीर्त्ति-सुखार्थिनाम् ॥ १५२ ॥ राज-क्षेत्रेण नृपतिः * पूर-पत्तनमारभेत् । लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एव च ॥ १५३ ॥ समृद्धिर्वित्त-नाशश्च मङ्गलञ्च वलच्चयः । साम्राज्यं भोगसम्पत्तिरिति षोडश-कीर्त्तिताः ॥ १५४ ॥ यथार्थ संज्ञा † नगरी मुनिना तत्त्ववेदिना । —*— अथ वसति-लक्षणम् । विस्तीर्णमध्यो नगरः सममर्द्दे चतुष्पथः । प्रपा मण्डप कासार-काननाद्युपशोभितः ॥ १५५ ॥ —————————————————————————————— ( ३ ) पूरुष इति (क) पुस्तक पाठः । ( ४ ) स सती इति (क) पुस्तक पाठः । ——————————————————————————————

  • पूरम्-राजान्तःपूरी । पत्तनं-पुटभेदनम् । † मान-नियमस्तु यथाव दृश्यते न तथा विश्वकर्मंप्रकाशादौ, शुक्रनीतिसारे, बृहत्काश्यपीये, पराशरीय शिल्पाद्यौ च ।

२४ युक्तिकल्पतरौ— ईशान-पूर्व्व-प्लवनः मध्यस्थान-समुन्नतः । रोगकृद्दक्षिण-प्लावी धनदश्चोत्तर-प्लवः ॥ १५६ ॥ पश्चिम-प्लवनो ग्राम सुख-सम्पत्ति-नाशनः । मध्ये निम्नो दरिद्रत्वं प्रान्ते निम्नः सुखं वहेत् ॥ १५७ ॥ त्रिपथाद्राजदण्डेषु राज-च्छत्रे चतुष्पथे । राजकाण्डे मण्डपिका सरसौ राज-पूरुषे ॥ १५८ ॥ राजधान्यन्तरे हट्टं(ट्ट) राजच्छेत्रे च दुग्धकम् (५) । मध्ये साधुमृदुभिषक् दैवज्ञान् वासयेदथ ॥ १५९ ॥ प्रान्ते म्लेच्छान्यज-क्रुर वीर सैनिक कर्कशान् । गोपुरे सैनिकान् वौरान् मन्त्रिणो भवनान्तिके ॥ १६० ॥ मन्त्रिणः (६) प्रतिवेशित्वं कदाचिदपि नाचरेत् । तयोर्हि प्रतिवेशित्वे दुर्मन्त्रोऽपि च जायते ॥ १६१ ॥ नियोगिनां स्थितिं कुर्य्यान्नगरे चान्तरेऽन्तरा । नियोगि-मन्त्रिणोर्दृष्टिः (७) कार्य्यध्वंसाय कल्पते ॥ १६२ ॥ मन्त्रिणोऽदूरवसतिः (८) कर्म्म कुर्य्यान्न सत्वरम् (६) । नवकं (१०) नवकद्वारं नैकद्वारं समारभेत् ॥ १६३ ॥ न विषमं नाविषमं न समं नासमन्तथा । न मध्ये हस्तिनां वासो न प्रान्ते वाजिनान्तथा ॥ १६४ ॥

(५) दुग्धकम् ? (दृद्धकम्, दृढकम्) इति (ख)-(ग) पुस्तक पाठः । (६) मन्त्रियोः इति (ख) पुस्तक पाठः । (७) —दृष्टः इति (ख) पुस्तक पाठः । (८) दूरवसतिः इति (ग) पुस्तक पाठः । (९) निसत्वरं इति (ख) पुस्तक पाठः । (१०) नरकं इति (ख) पुस्तक पाठः ।

नीतियुक्तिः । ३५ नादूरे पत्ति-वसतिं न दूरे साधु-मन्त्रिणोः । न वर्णिनो नाधिकाङ्गान् न हीनान् नच दुष्टतान् ॥ १६५ ॥ न देशान्तरगान् नोच्चान् न महाव्याधि-पीड़ितान् । स्वपुरे रचयेद्राजा यदीच्छेदात्मनः श्रियम् ॥ १६६ ॥ न भृत्य-शाला ( १२ ) स्वपुरे न वाध्ययन-शालिका ❊ । तत्र शत्रुचरःस्थित्वा सर्व्वं वेत्ति वलावलम् ॥ १६७ ॥ भोजेनापि नगरयुक्तिरन्योक्ता ॥ १६८ ॥ तद्यथा,— राज(ग्नः)-सहस्तैः कोष्ठ्या च राजक्षेत्रमुदाहृतम् । एतेन परिमाणेन भूपः पत्तनमारभेत् ॥ १६६ ॥ यस्मिन् लग्ने भवेज्जन्म महीभर्तु र्महीतले । तद्दण्ड-राजक्षेत्रेण राजा पत्तनमारभेत् ॥ १७० ॥ एतेन मेषादिषु पादोन-चतुर्दण्डादिषु मानेषु जातस्य नृ

२६ युक्तिकल्पतरौ— परदारेषु यो दोष स्तथा पर-पुरेषु च। यदिच्छेच्छाश्वतीं लक्ष्मौन्तदेतत् उभयन्त्यजेत् ॥ १७४ ॥ निज-लग्नं दशामान-मिते निजकृते नरे (१) । नगरे यो वसेद्राजा लक्ष्मोस्तस्यैव शाश्वती १७५ ॥ इति भोजराजीये युक्ति कल्पतरौ नगरौ युक्तिः ॥ अथ वास्तुयुक्तिः। तत्रस्थान-निर्णयः। नदी श्मशान शैलानां वनस्य निकटे तथा। न वास्तुकर्म कुर्वीत न इन्द्र-नगरान्तयोः ॥ १७६ ॥ तत्र दिङ्निर्णयः। राक्षसानिल-वह्नीनां यमस्य दिशि वेश्मनः। नारम्भं कारयेद्राजा भौरुग्दाह-क्षयप्रदम् ॥ १७७ ॥ तथाहि,— भोगः कीर्त्तिर्धनं रोगः स्थिरता च भयङ्करः। दाह इत्येष कथितो दिशि वास्तु-फलोद्भवः ॥ १७८ ॥ भोजे च,— यल्लग्ने जायते राजा तस्य लग्नस्य यः पतिः। या दिक् तस्य नृपस्तस्यां वास्त्वारम्भं समाचरेत् ॥ १७९ ॥ (१) नवे इति (ख) पुस्तक पाठः।

नौतियुक्तिः । २७ एवञ्च कुजादि-पतिके मेषलग्ने जातस्य नृपतेः कुजादि-पतिकायां दक्षिणायामपि वास्तुर्न दुष्यति इति ॥ १८० ॥ पराशरस्तु,— यद्दशा-जनितो राजा वास्त्वारम्भस्तु (१) तद्दिशि * । एतेन सूर्यादि-दशा जनितस्य नृपतेः पूर्व्वादि दिक्षु वास्तु-करणम् । तेन शुक्रदशायां जातस्याग्ने य्यामपि न दुष्यति ॥ १८१ ॥ अथ लक्षणम्,— वास्तुं कुर्य्यान्महीपालः समं सुस्निग्धमृत्तिकम् । प्रागुदक्-प्लवनं † रम्यं रम्य-वृक्षोपशोभितम् ॥ १८२ ॥ लक्ष्मीर्दाहः क्षयो भीतिर्धन-नाशोऽर्थ-(२) शून्यता । सम्पदष्टिरिति प्रोक्तं पूर्व्वादि-ककुभं फलम् ॥ १८३ ॥ तथाहि प्लवनमन्यत्,— जन्मलग्नेन दिक् पश्चाद् राज्ञां वास्तु-पुरोमतः । एतेन सूर्याधिपतिः तुलालग्ने जातस्य नृपतेः सूर्याधिपतेः पूर्व्वस्याः पश्चात् पश्चिम-प्लवो हि न दुष्यति ॥ १८४ ॥ ────────────────────────── ( १ ) वास्त्वारम्भञ्च इति (क) पुस्तक पाठः । ( २ ) अर्थशून्यता इति (ख) पुस्तक पाठः । ──────────────────────────

  • दशालग्नादिकं बृहत्पराशर-बृहज्जातकाद्यनुसारेण ज्ञेयम् । † पूर्व्वनिम्नमुत्तरनिम्नं वा वास्तु कार्य्यम् ।

३८ युक्तिकल्पतरौ— अन्ये तु, — यद्दशा जनितो राजा तद्दिग्गयः प्लवो मतः । एतेन गुरुदशा-जातस्य नृपतेर्दक्षिणप्लवो न दुष्यति ॥ १८५ ॥ अन्यत्र तु, — ब्रह्म-क्षत्रिय-विट्-शूद्राः पूर्व्वादि-दिग्युगे क्रमात् । वास्तु-प्लवनमिच्छन्ति निजसम्पत्ति-हेतवे ॥ १८६ ॥ नीतिशास्त्रे च, — वास्तुकर्म्म नृपः कुर्य्यात् * बलद्वैरिणो दिशि । दीर्घां वा चतुरस्रां वा वास्तु-भूमिं महोच्छिताम् । एतयोर्लक्षणं तद्वत् फलञ्च नगरे यथा ॥ १८७ ॥ अथ मानम् । राजकाण्डेन † नृपतिर्वास्त्वारम्भं समाचरेत् । जयोभङ्गः सुखं दुःखं प्रीतिर्भीश्च चलः स्थिरः ॥ इत्यष्टौ वास्तुनामानि राजकाण्डैरनुक्रमात् ॥ १८८ ॥ अन्यत्र च, — जन्मलग्ने महीभर्त्तुः कुण्डयोरन्त एव हि । राजकाण्डैस्तु तावद्भिर्वास्तुं कुर्य्यान्महीपतिः ॥ १८६ ॥ सुदर्शा(६)च्छन्द-संख्येन राजपट्टेन भूपतेः । वास्तुकर्म्म-समारम्भो धनधान्य-जयप्रदः ॥ १६० ॥

( ६ ) खदशा दशाच्छन्द इति (ग) पुस्तक पाठः ।

  • नगरप्रकरणोक्त-परिमाणमत्र विज्ञेयम् । † गृह-वास्तु-नगर-हर्म्मादीनामारम्भे जन्मलग्न-ग्रह-तिथि-भयोगादीनां शुद्धिः सर्व्वत्र समैव ज्ञेया, एवं दुर्ग सेनानिवासादौ च तथैव बोध्यम् ।

Digitized By Siddhanta eGangotri Gyaan Kosha नौतियुक्तिः। २९ एतयोरपि पूर्व्ववद् व्याख्यानम्। राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते। तस्यापि पूर्व्ववन्मानं तन्मान (७) मिति भाषितम् ॥ १६१ ॥ अथ तत्र गुणदोषौ,— [पुस्तकालय-पत्रकम्:] विषय संख्या ३१० / १२(ए) आगत पंजिका संख्या पुस्तकालय गुरुकुल कांगड़ी विश्वविद्यालय 30 MAY 1974 K56/77

  • 5 JAN 1976 ३२३/Z [मूलपृष्ठ-अंशाः:] ॥ ६७ ॥

( ( ( (१०) ... (११) वस्तूद्देशः इति (ख) पुस्तक पाठः। CC-0. Gurukul Kangri Collection, Haridwar.

२८ युक्तिकल्पतरौ— अन्ये तु,— यदृशा जनितो राजा तद्दिगग्रः प्लवो मतः । एतेन गुरुदृशा-जातस्य नृपतेर्दक्षिणप्लवो न दुष्यति ॥ १८५ ॥ (मध्यभागः पत्रेणाच्छादितः) ( इ

  • नगरप्रकरणोक्त-परिमाणमत्र विज्ञेयम् । † गृह वास्तु-नगर-हर्म्यादीनामारम्भे जन्मलग्न-ग्रह-तिथि-भयोगादीनां शुद्धिः सर्व्वत्र समैव ज्ञेया, एवं दुर्ग सेनानिवासादी च तथैव बोध्यम् ।

नौतियुक्तिः । २८ एतयोरपि पूर्व्ववद् व्याख्यानम् । राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते । तस्यापि पूर्व्ववन्मानं तन्मान (७) मिति भाषितम् ॥ १८१ ॥ अथ तत्र गुणदोषौ,– परनिर्मित-वास्तुस्थो न तिष्ठति चिरं नृपः । न सुखाय न धर्म्माय तत्तस्य भुवि जायते ॥ १८२ ॥ एवमन्यत्रापि,– राजन्य (८) वीर्य्य-प्रत्याशो पर वास्तुकृत-स्थितिः । सुखाय नो भवेन्नॄणां यथा पर-गृहे ग्रहः ॥ १८३ ॥ यः स्वनिर्मित-वास्तुस्थो निज-लग्नादि-संयुक्तः । विचारित पुरो-राजा सुचिरं सुखमश्नुते ॥ १८४ ॥ अन्यत्रापि,– राजा स्वबाहु-वीर्य्याढ्यः निजनिर्मित-वास्तु भाक् । स चिरं तनुते सौख्यं स्वगृहस्थो ग्रहो यथा ॥ १८५ ॥ अथ वास्त्वारम्भ-कालः । वर्षान्ते (९) ऽभ्युदिते शुक्रे केन्द्रे सुरगुरौ शुभे । वास्तु-कर्म्म समारम्भः शुक्रचन्द्रार्क-भूमिजे ॥ १८६ ॥ गृहयुक्तौ (१०) यः समयः कर्त्तव्यस्तत्र वै शुभे । वास्त्वारम्भः कार्य्यः शुभसम्पत्ति-कामिना राज्ञा ॥ १८७ ॥ इति श्री भोजराजीये वास्तुयुक्तौ (११) वास्तूद्देशः । ( ७ ) तद्देशमिति (क) पुस्तक पाठः । ( ८ ) राजन्य-वीर्य इति (क) पुस्तक पाठः । ( ९ ) वर्षान्ते इति (ख) पुस्तक पाठः । ( १० ) गृहयुक्तौ इति (ख) पुस्तक पाठः । ( ११ ) वस्तूद्देशः इति (ख) पुस्तक पाठः ।

३० युक्तिकल्पतरौ— अन्येषां यथा,—यदाह वास्तुकुण्डल्याम्— स्वामिहस्तैश्चतुर्भिः स्यात् कुण्डस्तेनैव मापयेत् । क्षेमं भयङ्करो भव्यः शोककृद्विजयः शुचिः । वंशकृत्पापकारो च विकारी शोभनः शिवः ॥ १९८ ॥ कुणपः कामदो धूम्नो (१२) धौम्यो धनहरस्तथा । धनदः सुखकृ(हृ)च्चेति वाव्योऽ(१३)ष्टादशकीर्त्तिताः ॥ १९६ ॥ तद्यथा,— आयाम परिणाहाभ्यां योऽङ्ग(१४)पिण्डोऽभि जायते । ऊनविंश-हृते (१५) भागे शेषैरेतै यथाक्रमम् ॥ २०० ॥ क्षेमे सर्व्वार्थ-सिद्धिः स्यात् (१६) भयकारि-भयङ्करः । भव्यो भोगं प्रकुरुते शोककृत् (१७) वन्धुनाशनम् ॥ २०१ ॥ विजयः कुरुते वृद्धिं शुचिः सर्व्व-सुखं वहेत् । वंशकृत् कुरुते वंशं पापकारी कुलापहः ॥ २०२ ॥ विकारी कुरुते दुःखं शोभनः शुभमावहेत् । शिवः सर्व्वार्थसिद्धिः स्यात् कुणपः सर्व्वनाशनः ॥ २०३ ॥ कामदोऽभीष्ट-लाभः स्याद् धूम्नो दहति सर्व्वशः । धौम्ये धर्ममतिः सौख्यं दुःखं धनहरो भवेत् ॥ २०४ ॥ ( १२ ) धृष्टो धै इति (ख) पुस्तक पाठः । ( १३ ) वाष्टाऽष्टादश इति (ग) पुस्तक पाठः । ( १४ ) योऽञ्चः इति (ग) पुस्तक पाठः । ( १५ ) हृते इति (ख) पुस्तक पाठः । ( १६ ) संसिद्धिः इति (ख) पुस्तक पाठः । ( १७ ) शोकहृत् इति (ग) पुस्तक पाठः ।

नौतियुक्तिः । ३१ धनदो धन-लाभ स्यात् सुखकृत् सुखकारकः । इति प्रोक्तोऽतिसंक्षेपाद्वास्तु-लक्षणसंग्रहः ॥ २०५ ॥ भोजस्तु,— दण्डमानन्तथैव किन्तु युक्तिरन्या । ख (१८) दशाब्दतो द्विगुणै स्तैः शुभावहश्चतुरस्र एव नव वास्तु शिष्यते ॥ २०६ ॥ किन्तुलग्न-(१९) दण्डमित-लग्नमित-(२०) दण्डसम्मितः । प्रकरोति वास्तुरति सौख्य-सम्पदम् ॥ २०७ ॥ उषरा वालुका हित्वा (२१) चयमेतद्विनिन्दितम् । त्रिकोणो वर्त्तुलो दोर्घो यवमध्यो वह्निमुखः ॥ २०८ ॥ तथा डमरुरूपश्च सर्पाकार स्तथैव च । छिन्नो भिन्नो मध्यनिम्नो व्यजनाभश्चतुष्पथः ॥ २०९ ॥ त्रिपथो जनदोषो च (२२) वृक्षदोषो तथापरः । गजशुण्डाकृतिश्चैव यो द्रवः परिकीर्त्तितः ॥ २१० ॥ वास्तु-खण्डे महादोषा हेयास्तस्माद्विचक्षणैः । चतुरस्रः शुभो दीर्घस्तस्य (२३) प्रान्तः समाश्रितः ॥ दोषैर्विहीनो विज्ञेयो वास्तुखण्डः सुखावहः ॥ २११ ॥ इति श्री भोजराजीये युक्तिकल्पतरौ वास्तुयुक्तिः । ( १८ ) सुदशाब्द इति (क) पुस्तक पाठः । ( १९ ) किमुलग्न इति (ख) पुस्तक पाठः । ( २० ) दण्डलग्नमितदण्ड इति (ख) पुस्तक पाठः । ( २१ ) छित्वा इति (ग) पुस्तक पाठः । ( २२ ) दोषाच इति (ग) पुस्तक पाठः । ( २३ ) तुभ्य इति (ख) पुस्तक पाठः ।

३२ युक्तिकल्पतरौ— अथ तत्र कालनिर्णयः * । वैशाख-श्रावणाषाढ-मार्गफाल्गुन कार्त्तिकाः । सुप्रशस्ता गृहारम्भे पत्नीपुत्र-समृद्धिदाः ॥ २१२ ॥ शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतोभयम् (२४) । आदित्य भौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ॥ २१३ ॥ तथान्यत्र,— पूर्णिमायाष्टमीं यावत् पूर्व्वस्यां वर्ज्जयेत् गृहम् । उत्तरस्यां न कुर्वीत नवम्यादि-चतुर्दशीम् ॥ २१४ ॥ अमावश्याष्टमीं यावत् पश्चिमस्यां विवर्जयेत् । नवम्यादि तथायामयां यावच्छुक्ला चतुर्दशीम् ॥ २१५ ॥ वज्रव्याघातशूले च व्यतीपातातिगण्डयोः । विस्कुम्भ गण्डयोश्चैव गृहारम्भं न कारयेत् ॥ २१६ ॥ आदित्यद्वयरोहिणी मृगशिरो ज्येष्ठाधनिष्ठोत्तराः, रेवत्याथ मघानुराधहरिभिः शुद्धैः स्व-भावादिभिः । सौम्यानां दिवसेऽथ (२५) पापरहिते योगेविरिक्ते तिथौ ; विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादि-कार्यं शुभम् ॥ २१७॥ मत्स्यपुराणेऽपि,— चन्द्रादित्यबलं लब्ध्वा लग्नं शुभ-निरीक्षणम् । स्तम्भोच्छ्रादिकर्त्तव्यो (२६) ऽन्यत्तु विवर्ज्जयेत् ॥ २१८ ॥ (२४) कृष्णे च भरतो इति (क) पुस्तक पाठः । (२५) प्राण इति (ग) पुस्तक पाठः । (२६) ब्रह्मादि कर्त्तव्यम् इति (क) पुस्तक पाठः ।

  • एतद्विषये प्रमाणान्तराणि—भोजराजीय राजमार्त्तण्डे, ज्योतिस्तत्त्वे, वराहमिहि- रीये, शिल्पसन्दर्भे चानुसन्धेयानि ।

वास्तुयुक्तिः । ३३ अश्विनौ रोहिणी मूल-मुत्तरात्रयमैन्दवम् (३) । स्वातिर्हस्तानुराधाच वास्तु-कर्म्मणि शस्यते ॥ २१८ ॥ तथा च,--- त्रिभिस्त्रिभिर्वेश्मनि कृत्तिकाद्यैः, अशेष-पुत्राप्ति-धनानि शोकाः (४) । शत्रोर्भयं राजभयञ्च मृत्युः ; सुखं प्रवासश्च नवप्रभेदाः ॥ २२० ॥ नाशं दिशन्तिमकरालिकुलिर-लग्ने, मेषे घ(ध)टे धनुषि कर्म्मसु दीर्घसूत्रम् । कन्याझषेमिथुनके ध्रुवमर्थलाभो:— ज्योतिर्विदः कलस-सिंह-वृषेषु वृद्धिम् ॥ २२१ ॥ लग्नेऽर्के (५) वज्रसंपातः कोषहानिश्च शीतगौ । मृत्युर्व्वसुन्धरा-पुत्रे चन्द्रजे शुभसम्पदः ॥ २२२ ॥ जीवे धर्म्मार्थकामाश्च सुतोत्पत्तिस्तु भार्गवे । शनेश्चरे तु दारिद्रं राहौ वस्त्रं (६) प्रवर्धते (७) ॥ २२३ ॥ ---------------- * ---------------- अथ प्रवेश-कालः । शुद्धैर्द्वादश-केन्द्रगैर्निधनगैः पापै स्त्रिषष्ठायगैः, लग्ने केन्द्रगतेऽथवा सुरगुरौ दैतेय पूज्येऽपिवा । ( ३ ) भैन्दवम् इति (क) पुस्तक पाठः । ( ४ ) लोकाः इति (ख) पुस्तक पाठः । ( ५ ) लग्नेऽर्कः इति (ग) पुस्तक पाठः । ( ६ ) वस्तु इति (ख):पुस्तक पाठः । ( ७ ) प्रवर्त्तते इति (ख) पुस्तक पाठः । ५

३४ युक्तिकल्पतरौ— सर्व्वारम्भफल-सिद्धिरुदये राशौ च भर्त्तुः शुभे ; स्वग्राम्य-स्थिरतोदये च भवनं कार्य्यं प्रवेशोऽपिवा ॥२२४॥ पौष्णे धनिष्ठाऽथ वारुणेषु, स्वायम्भुवेऽर्के त्रिषुचोत्तरेषु । अक्षीण चन्द्रे शुभवासरेच तथा विविक्ते च गृहप्रवेशः ॥२२५॥ तिथिवारश्च लग्नादि समारम्भे यथोदितम् । प्रवेशेऽपि(८) गृहं स्यात्तु(६) तथा ज्योतिर्विदो जनाः ॥२२६॥ --------------------------------- * --------------------------------- अथ द्वारम् । नैकद्वारं वास्तुखण्डं न चतुर्द्वारमारभेत् । एकद्वारं दुःसरणं चतुर्द्वारं दुरापहम् ॥ २२७ ॥ त्रि-द्वारमेव नृपतेर्वास्तुकर्म्म प्रशस्यते । द्वे मुख्ये तत्र चान्यत्स्यादमुख्यमिति निर्णयः ॥ २२८ ॥ राजद्वारन्तु (१०) तत्रैकं यमद्वारन्तथापरम् । अपद्वारं तथान्यत्स्यादिति द्वारस्य निर्णयः ॥ २२९ ॥ ब्रह्म-क्षत्रिय-वैश्यानां प्रागुदक् पश्चिमैः क्रमात् । मुख्यद्वारं दक्षिणस्य परन्तस्यापि दक्षिणे ॥ २३० ॥ बलवद्वै वैरिमुख्यं द्वारमित्यस्य सम्मतम् । राज-द्वारेऽन्य भूपानां शिष्टानां वा प्रवेशयेत् ॥ २३१ ॥ यात्रा प्रसाद-पर्व्वाणि राजद्वारेषु कारयेत् । यमद्वारिच्छिदाकर्म्म द्विषताञ्च प्रवेशनम् ॥ २३२ ॥

( ८ ) प्रवेशोऽपि इति (क) पुस्तक पाठः । ( ९ ) स्यात्तुं स्तथा इति (क) पुस्तक पाठः । ( १० ) द्वारस्तु इति (ख) पुस्तक पाठः ।

वास्तुयुक्तिः । ३५ निःसारणं मृतानाञ्च दुष्टानाञ्च निबन्धनम् । अपद्वारेऽवरोधस्य गमनागमन-क्रिया ॥ राज्ञो विलास-यात्रा च मर्मज्ञस्य प्रवेशनम् ॥ २३३ ॥ ——— * ——— अथ प्राचौर-निर्णयः । गजैरभेद्या मनुजैरलंङ्घयाः । प्राचौरखण्डा नृपतेर्भवन्ति ॥ २३४ ॥ राजदण्डोन्नताः सर्व्वे प्राचौरा पृथिवीभुजः । विंशतिस्तेषु पश्चाग्रे पार्श्वयोः पञ्चपञ्च च ॥ २३५ ॥ पश्चात् पञ्च च विज्ञेयाः प्राचौराः पृथिवीभुजः । सर्व्व-प्रान्ते त्वावरणो नाम प्राचौर उच्यते ॥ २३६ ॥ प्रति प्राकार(११) संस्थानं द्वारं नाभिमुखस्थितम् । तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ॥ २३७ ॥ तद्यथा,— राज-छत्रान्तरे पञ्च राजद्वारे महीपतेः । राजदण्डत्रये सार्द्धे यमद्वारे प्रतिष्ठिताः ॥ २३८ ॥ अद्वारे (१२) राजदण्डार्द्धे प्राचौराः पृथिवोपतेः । एवं व्यवस्थिते स्थाने मध्यमेतद्धि तिष्ठति ॥ २३६ ॥ राजच्छत्रद्वयं सार्द्धं मायामे जय-वास्तुनि । परिणामे(हे) पञ्चराज-दण्डास्तिष्ठन्ति मध्यतः ॥ २४० ॥ —————————————————————————————— ( ११) प्रति प्रकार इति (ख)-(ग) पुस्तक पाठः । ( १२) अत्वाद्वारे इति एतत् सन्दर्भस्थः पारिभाषिकः पाठार्थोन्ज्ञेयः ।

३६ युक्तिकल्पतरौ- राजषट्ठाभिधानेन स्थानमेतन्निगद्यते । अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते ॥ २४१ ॥ अज्ञानाद्भ्रान्तो राजा योऽन्यत्र गृहमारेभेत् । सोऽचिरान्मृत्युमाप्नोति रोगं शोकम्भयन्तथा ॥ २४२ ॥ यमदण्डोदयदण्डौ कोणादिति (१३) रुपप्लवः * । ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः ॥ २४३ ॥ नम्पृश्यते (१४) राजपट्टे स्तैः सर्पैर्गरुड़ो यथा । द्विगुणादि रतोऽपि स्यात् क्रमादङ्गादि वास्तुषु ॥ राजच्छत्रमितेऽप्येवं प्राचीरे गुणदोषकौ ॥ २४४ ॥ * अथ जयाख्यस्य चतुरस्रस्य वास्तुखण्ड-निर्णयः । राज द्वारे हि प्राकारा राजच्छत्रान्तरे मताः । यमद्वारे † सार्द्धराज-छत्रान्ते रचयेन्नृपः ॥ २४५ ॥ अपद्वारे राजदण्डं जित आरम्भिताः पुनः । अद्वारे भूपतेस्तस्य राज-दण्ड-(१५) त्रयान्तरे ॥ २४६ ॥ (१३) केनो ? इति (क)-कोनो इति (ख) पुस्तक पाठः । (१४) स स्पृश्यते इति (क), स्पृश्यते इति (ख) पुस्तक पाठः । (१५) राजदण्डाच्चत्र्यान्तरे इति (ग) पुस्तक पाठः ।

  • अत्रेति पदेन “अति वृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः” ॥ इति ज्योतिःशास्त्रीयवचनोपात्त' ज्ञेयम् । † यमद्वारेति एतद्ग्रन्थस्थः पारिभाविकोऽर्थो ज्ञेयः ।

वास्तुयुक्तिः । ३७ एवं व्यवस्थिते स्थाने मध्यमे तत्प्रदृश्यते । आयामे राजच्छत्राणि चत्वारिपरिणाहतः ॥ ४७ ॥ राजच्छत्रैकमानेन राज-दण्ड उदाहृतः । अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥ २४८ ॥ अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् । अस्मिन् विजय-वृद्धिश्च सौख्यञ्च समवाप्नुयात् ॥ २४६ ॥ यो राजा दम्भतो(१)ऽन्यत्र वेश्मारम्भं समाचरेत् । य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥ २५० ॥ गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गो यथाक्रमम् । सिंहे सिंहासनस्थानं व्याघ्रेस्याहारमन्दिरम् ॥ २५१ ॥ गजे यात्रालयं कुर्यात् मृगे केलि-निकेतनम् । भ्रमरेऽन्तःपुरं (२) कुर्यात् क्रमेण पृथिवीपतेः ॥ तेन मध्यममेव (३) सिंहासनं दीर्घस्य च चतुरस्रकैः ॥ २५२॥ तत्र भविष्योत्तरे,— मेषादि-चन्द्रे जातस्य नृपतेः स्यु रनुक्रमात् । द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥ २५३ ॥ सुनन्दः सर्व्वतो भद्रो भव्यो नान्दीमुखस्ता ॥ विनोदश्च विलासश्च विजयो विमलस्तथा ॥ वङ्गः (४) केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥ २५४ ॥


(१) राजा दण्डतो इति (क) पुस्तक पाठः । (२) भ्रमरेऽन्तःपुरे इति (ख) पुस्तक पाठः । (३) तेन मध्यमेन इति (ख) पुस्तक पाठः । ,, मध्यममेव इति (ग) पुस्तक पाठः । (४) रङ्ग इति (ग) पुस्तक पाठः ।