कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
शास्त्रकार एव प्रकरणसंबन्धमाह—
३१६ सटीक कामसूत्रे [ ६ अधिकरणे,
केषां तर्हि ? उपादानमित्याह—
अनर्थो वर्जने येषां गमनेऽभ्युदयस्तथा ।
प्रयत्नेनापि तान्गत्वा सापदेशमुपक्रमेत् ॥ ३५ ॥
अनर्थ इति । यांस्त्यक्त्वाऽन्यस्मादनर्थोऽभिगमने चाभ्युदयस्तानूभयप्रयोजनत्वात्, प्रयत्नेनापि तान्गत्वेति । अभिगम्य, सापदेशमुपक्रमेदिति । यत्किंचिन्निमित्तीकृत्यानभिगच्छन्तमप्यभिगच्छेदित्यर्थः, वृत्ताद्यभावादात्मनेपदं न भवति ॥ ३५ ॥
येष्वर्थ एव प्रयोजनं तानाह—
प्रसन्ना ये प्रयच्छन्ति स्वल्पेऽप्यगणितं वसु ।
स्थूललक्षान्महोत्साहांस्तान्गच्छेत्स्वैरपि व्ययैः ॥ ३६ ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे
लाभविशेषाः पञ्चमोऽध्यायः ।
प्रसेति । स्थूललक्ष्याः = महेच्छाः, महोत्साहा महानुत्साहो येषां, महत्त्वं चोत्साहस्य शौर्यादिभिः, ते तुष्टाः स्वल्पेऽपि वेश्याविषये प्रभूतंद्रव्यं प्रयच्छन्ति तस्मात्तान्गच्छेत् स्वैरपि व्ययैरुपचारलक्षणैः ॥ ३६ ॥
इति लाभविशेषाः सप्तपञ्चाशत्तमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणे लाभविशेषाः पञ्चमोऽध्यायः ।
षष्ठोऽध्यायः ।
शास्त्रकार एव प्रकरणसंबन्धमाह—
अर्थानाचर्यमाणाननर्था अप्यनूद्भवन्त्यनुबन्धाः संशयाश्च ॥ १ ॥
अर्थेति । अर्थानिति लाभविशेषाननन्तरोक्तान्, आचर्यमाणान्साध्यमानान्, अपरिग्रहाया वेश्याया इत्यर्थः, अनर्था इति । अर्थविरुद्धाः, अनूद्भवन्तीति, 'अनुलक्षणे' इत्यनोः कर्मप्रवचनीयत्वेऽर्थानिति द्वितीया, अर्थान्साध्यमानाँल्लक्ष्यीकृत्यानर्था अपि स्वहेतुभ्य उत्पद्यन्ते, तत्र यदाऽर्था एवोत्पद्यन्ते तदा निरनुबन्धोऽर्थपक्षः, यदाऽर्थं बाधित्वाऽनर्थास्तदा निरनुबन्धोऽनर्थपक्षः, अनुबन्धा इति । अर्थानर्थयोः संशयाश्चोभयोरेव गृह्यन्ते, तस्मात्तेषु हानोपादानार्थं तद्विचारो युक्तः, इत्यर्थानर्थानुबन्धसंशयविचारा उच्यन्ते ॥ १ ॥
६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१७
६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१७
तत्रार्थास्तदनुबन्धाश्चोपादेया एव, तत्संशयाश्च केषां चित्प्रवृत्तेः, येऽनर्थास्तदनुबन्धास्तत्संशयाश्च तेषामनुपादेयत्वादुत्पत्तिकारणान्याह-
ते बुद्धिदौर्बल्यादतिरागादत्यभिमानादतिदम्भादत्यार्जवाद-
तिविश्वासादतिक्रोधात्प्रमादात्साहसाद्दैवयोगाच्च स्युः ॥ २ ॥
त इति । अनर्थादयः, बुद्धिदौर्बल्यादिति । ऊहापोहतत्त्वाभिनिवेशाविवेकाभ्यां वैकल्यं, बुद्धिदौर्बल्यं, रागः = सक्तिः, अभिमानः = अहंकारः, दम्भः = छद्म, आर्जवम् = ऋजुता, विश्वासः = विश्रम्भः, क्रोधः = कोपः, एते कार्यवशाद्युक्तिभिः प्रयुज्यमाना नैव दोषाय, आधिक्येन तु दोषायैवेत्यतिशब्देनाह, प्रमादः = योऽन्यत्र व्यासङ्गः, साहसम् = अविमृश्यकारित्वम्, एतन्नवधा मानुषं निमित्तं, दैवयोगादिति । दैवेनाशुभकर्मसंज्ञकेन योगादित्यर्थः ॥ २ ॥
तेषां फलं कृतस्य व्ययस्य निष्फलत्वम्, अनायतिः, आगमिष्यतोऽर्थस्य निवर्तनम्, आप्तस्य निष्क्रमणं, पारुष्यस्य प्राप्तिः, गम्यता, शरीरस्य प्रघातः, केशानां छेदनं, यातनम्, अङ्गवैकल्यापत्तिः ॥३॥
तेषां बुद्धिदौर्बल्यादीनाम्, अथ वा तेषामित्यनर्थानां सानुबन्धानां तत्संशयानां च फलमिति परिणामः, अनर्थ एव हि विपरिणामरूपेण संशय्यमानत्वादनर्थसंशयानामपि फलं, व्ययस्येति । गम्याभिगमनाय कृतस्य, अनायतिः = प्रभावहानिः, आगमिष्यत इति । अधिकृते व्यये लप्स्यमानस्य निवर्तनमिति बोद्धव्यम्, आप्तस्येति । प्राप्तस्यार्थस्य निष्क्रमणमन्येन गृह्यमाणत्वात्, पारुष्यस्येति । दुरूक्तस्य, गम्यता = अपरिचेयता, शरीरस्य प्रघातः = प्राणैर्वियोगः, केशानां, छेदनं = लवनं, यातनं = बन्धनं ताडनम्, अङ्गवैकल्यं = कर्णनासाविच्छेदः ॥३॥
तस्मात्तानादित एव परिजिहीर्षेदर्थभूयिष्ठांश्चोपेक्षेत ॥ ४ ॥
तान्बुद्धिदौर्बल्यादीनादित एव परिहर्तुमिच्छेदु, यावदर्थहेतूनपायान्न प्रयुङ्क्ते ऽन्यथा ह्यर्थं बाधित्वाऽनर्थोऽपि स्यात् कारणानां संनिहितत्वाद्, अर्थभूयिष्ठांश्चेति । अर्थबहुलानानर्थहेतूनुपेक्षेत, तत्र ह्यर्थहेतूनामेवोपायानां बाहुल्यात् ॥ ४ ॥
इदानीं निरनुबन्धान्विचारयितुमाह-
अर्थो धर्मः काम इत्यर्थत्रिवर्गोऽनर्थोऽधर्मो द्वेष इत्यनर्थत्रिवर्गः ॥५॥
अर्थ इति । अर्थत्रिवर्गो ह्यर्थ इति कृत्वा तद्विरुद्धोऽनर्थत्रिवर्गः, ततश्चार्थानर्थानुबन्धसंशयविचारा इत्यस्मिन्सूत्रे धर्माधर्मयोः कामद्वेषयोरपि संग्रहः सिद्धः, अनेन निरनुबन्धपक्ष उक्तो वेदितव्यः ॥ ५ ॥
३१८ सटीक कामसूत्रे [ ६ अधिकरणे,
तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुबन्धः ॥ ६ ॥
तेष्विति । अर्थादिषु षट्सु साध्यमानेषु, अन्यस्यापीति । न केवलं साध्यमानस्याप्यन्यस्यापि सजातीयस्य विजातीयस्य वा पञ्चानामन्यतमस्योत्पत्तिरनुबन्ध इति ॥ ६ ॥
संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः ॥ ७ ॥
अभिगमने क्रियमाणेऽर्थादिफलस्य संप्राप्तौ संदिग्धायां स्याद्वा न वेति यो विकल्पः स शुद्धसंशयः एकस्यैव भावाभावाभ्यां संशय्यमानत्वात् ॥ ७ ॥
इदं वा स्यादिदं वेति संकीर्णः ॥ ८ ॥
इदं वा स्यादिदं वेति सङ्कीर्णः संशयः, द्वयोरन्यतरोत्पत्त्या विकल्पस्य संकीर्यमाणत्वात् ॥ ८ ॥
एकस्मिन् कार्ये क्रियमाणे कार्यद्वयस्योत्पत्तिरुभयतो योगः ॥ ९ ॥
एकस्मिन्कार्य इति । अर्थादिसाधने कार्ये क्रियमाणे, द्वयस्येति । अर्थादीनां षण्णामन्यतमस्य सजातीयस्य विजातीयस्य वा द्वयस्योत्पत्तिरुभयतो योग इत्युभाभ्यां द्वयस्योत्पत्तिः ॥ ९ ॥
समन्तादुत्पत्तिः समन्ततो योग इति तानुदाहरिष्यामः ॥ १० ॥
समन्तादिति । एकस्मिन् क्रियमाणे कार्ये बहुभ्योऽर्थादीनामुत्पत्तिः, समन्ततो योगः, अस्य योगद्वयस्य निरनुबन्धपक्ष एवान्तर्भावः, तानिति । निरनुबन्धादीनुदाहरणानुदाहारष्यामः, स्पष्टोऽर्थः ॥ १० ॥
ननु च त्रिवर्गोऽर्थोऽनर्थश्च तयोः स्वरूपतोऽपरिज्ञाने कथमुदाहरणमित्याह—
विचारितरूपोऽर्थत्रिवर्गः, तद्विपरीत एवानर्थत्रिवर्गः ॥ ११ ॥
विचारितरूप इति । त्रिवर्गप्रतिपक्षो निरूपितस्वभाव इत्यर्थः, तद्विरुद्धत्वादनर्थोऽपि विचारितरूप इत्याह—तद्विपरीत इति ॥ ११ ॥
तत्रार्थानर्थयोस्त्रिवर्गयोरर्थानर्थावाद्यावधिकृत्याह—
यस्योत्तमस्याभिगमने प्रत्यक्षतोऽर्थलाभो ग्रहणीयत्वमायतिरागमः प्रार्थनीयत्वं चान्येषाम् स्यात्सोऽर्थोऽर्थानुबन्धः ॥ १२ ॥
यस्येति । उत्तमादिभेदात्त्रिविधो नायको व्याख्यातः, तत्र यः समस्तगुणस्तस्योत्तमगुणस्याभिगमने, प्रत्यक्षतोऽर्थलाभ इति । तत एव प्रत्यक्षात्तदानीमर्थलाभः, ग्रहणीयत्वमिति । लोकग्राह्यत्वमुपादेयत्वम्, आयतिः = प्रभावः, आगमस्तत्कालीयानां प्रार्थनीयत्वमन्येषां गम्यादीनां,
६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१९
सोऽर्थ इति । योऽसौ तदात्वे लाभः, अर्थानुबन्ध इति । ग्रहणीयत्वादि- भिरथैरनुबन्धो यस्य, अयं सजातीयानुबन्धः ॥ १२ ॥
लाभमात्रे कस्य चिदन्यस्य गमनं सोऽर्थो निरनुबन्धः ॥१३॥
लाभमात्र इति । तदात्वे यो लाभस्तन्मात्रमेव निमित्तं कस्य चिदिति । लोके यो गुणैर्दोषैर्वा न विवक्षितस्तस्याभिगमनमात्रोऽर्थो- निरनुबन्धो, ग्रहणीयत्वाद्यभावात् ॥ १३ ॥
अन्यार्थपरिग्रहे सक्तादायतिच्छेदनमर्थस्य निष्क्रमणं लोकवि- द्विष्टस्य वा नीचस्य गमनमायतिघ्नमर्थोऽनर्थानुबन्धः ॥ १४ ॥
सक्तादिति । यः सक्तो निःसारत्वादन्यदीयमुपहत्य प्रयच्छति तस्मादन्यार्थस्य परिग्रहे, आयतिच्छेदनं प्रभावहानिर्दस्युना सह तिष्ठ- तीति, अर्थस्येति । पूर्वोपात्तस्य निष्क्रमणं चात्र द्रव्यस्य नागरकेण गृह्य- माणत्वाद्, लोकविद्विष्टस्य च चौर्यमकुर्वतोऽपि, नीचस्य वा जातिन्यून- स्य, गमनमायतिघ्नमिति । प्रभावं हन्ति, अत्रार्थोऽनर्थानुबन्धः, तदा- ऽर्थलाभस्यायतिच्छेदाद्यनर्थानुबन्धित्वादु अयं विरुद्धानुबन्धः ॥ १४ ॥
स्वेन व्ययेन शूरस्य महामात्रस्य प्रभावतो वा लुब्धस्य गमनं- निष्फलमपि व्यसनप्रतीकारार्थं महतश्चार्थघ्नस्य निमित्तस्य प्रशम- नमायतिजननं च सोऽनर्थोऽर्थानुबन्धः ॥ १५ ॥
स्वेनेति । आत्मीयद्रव्यपरिक्षयेण गमनं निष्फलं लुब्धत्वान्न प्रयच्छ- ति, तथाऽपि व्यसनप्रतीकारार्थं शत्रुप्रघातार्थं महामात्रस्य शूरत्वाद्, महतश्चार्थस्येति । अप्रयुक्तमर्थं साध्यमानं यस्मिन्महत्वान्निबध्य तिष्ठति तं प्रशमयति तस्य शूरस्यापि राजकुले लब्धप्रभावत्वाद्, आयतिजननं- चेति । शूरस्य प्रभाववतो वा सम्पर्को लोके महतीमायतीं जनयति सोऽनर्थ इति । यः कृतो व्ययो निष्फलः, अर्थानुबन्धः, व्यसनप्रतीका- रादिनाऽर्थेनानुबद्धत्वादयं विरुद्धानुबन्धः ॥ १५ ॥
कदर्यस्य सुभगमानिनः कृतघ्नस्य वाऽतिसन्धानशीलस्य स्वै- रपि व्ययैस्तथाऽऽराधनमन्ते निष्फलं सोऽनर्थो निरनुबन्धः ॥१६॥
कदर्यस्येति । आत्मानं भृत्यांश्च पीडयित्वा योऽर्थान्सञ्चिनोति तस्य, सुभगमानिन इति । असुभगः सन्नात्मानं सुभगं यो मन्यते स न प्रयच्छति, यस्तु दुर्भगः सुभगमानी स केवलार्थो गम्य उक्तः, कृत- घ्नस्य वेति । अकृतज्ञस्य, वाशब्दः पूर्वापेक्षया सर्वत्र योज्यः, अतिस- न्धानशीलस्य छलनपरस्य, तथाऽऽराधनमिति । यथा स्वैरपि व्ययरभि-
३२० सटीककामसूत्रे [ ६ अधिकरणे,
गमनं निष्फलं, तदनुरञ्जनमध्यन्ते निष्फलं, सोऽनर्थ इति । यः कृतो व्ययो- निरनुबन्धोऽर्थानर्थाभ्यां निरनुबन्धत्वात् ॥ १६ ॥
कदर्यादेर्विशेषमाह —
तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनमन्ते निष्फलं निष्कासनं च दोषकरं सोऽनर्थोऽनर्थानुबन्धः ॥ १७ ॥
तस्यैवेति । क्रौर्यप्रभावाधिकस्येति । दोषत्रयमत्राधिकं, तथैवा- राधनमिति । यथा स्वैर्धैर्यैरभिगमनं निष्फलं कदर्यादीनामदातृत्वाद्, निष्कासनमददतां दोषकरं, ते हि निष्कासिता दोषत्रययुक्तत्वात्पारुष्य- शरीरप्रघातादीननर्थान्कुर्युरित्यनर्थोऽनर्थानुबन्धः, अयं सजातीयानु- बन्धः ॥ १७ ॥
एवं धर्मकामयोरप्यनुबन्धान्योजयेत् ॥ १८ ॥
एवमिति । एवमन्यानपि धर्मकामयोरनुबन्धान्योजयेत्, तत्र ब्राह्म- णस्य गृहस्थस्यानुरक्तस्य मुमूर्षोर्गमनात्प्राणसंरक्षणं कुटुम्बसंधारणं गार्हस्थ्यधर्मप्रवर्तनं च धर्मो धर्मानुबन्धः, काममात्रं धर्मो निरनुबन्धः, तस्यैवाकृतस्नानभोजनस्य ब्राह्मणस्यातिव्यवायाद् धातुक्षये मुमूर्षु- त्वाद् धर्मोऽधर्मानुबन्धः, अभिप्रेतस्य धनवतो भोगिनोऽभिगमने कामः कामानुबन्धः, रागापनयनमात्रेऽभिप्रेतस्य गमनं कामो निरनुबन्धः, अभिप्रेतस्य हरिद्रारागस्य गमनं कामो द्वेषानुबन्ध इति, अत्र निरनुबन्धाः- षड्, विजातीयविरुद्धाभ्यामनुबन्धा द्वादश ॥ १८ ॥
परस्परेण च युक्त्या सङ्किरेदित्यनुबन्धाः ॥ १९ ॥
परस्परेण च युक्त्येति । विरुद्धं त्यक्त्वा शेषाणां विजातीयानाम- न्योन्ययोगादित्यर्थः, तत्रार्थो धर्माधर्मकामद्वेषैः प्रत्येकमनुबद्धश्चतुर्विधः, तथाऽनर्थोऽपि, धर्मोऽर्थानर्थकामद्वेषः प्रत्येकमनुबद्धश्चतुर्विधः, तथाऽ- धर्मोऽपि, कामोऽर्थानर्थधर्माधर्मैः प्रत्येकमनुबद्धश्चतुर्विधः, तथा द्वेषोऽपि, इति चतुर्विंशतिः संकीर्णानुबन्धाः ॥ १६ ॥
शुद्धसंशयमधिकृत्याह—
परितोषितोऽपि दास्यति न वेत्यर्थसंशयः ॥ २० ॥
परीति । यदि तदात्वे न ददाति सुरतोपचारेण परितोषितोऽपि दास्यति, तत्राज्ञातदानशीलत्वाद्यान्न वेत्यर्थसंशयः ॥ २० ॥
निष्पीडितार्थमफलमुत्सृजन्त्या अर्थमलभमानाया धर्मः स्यान्न वेति धर्मसंशयः ॥ २१ ॥
३ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२१
३ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२१
उत्सृजन्त्या इति। कामुकेभ्योऽङ्गानि दत्त्वाऽर्थार्जनं वेश्याया धर्मः, तथा हि–"यथास्वं वृत्तिर्धर्मः" इत्याचार्याः, तत्रार्थमलभमानाया निष्पी-डितार्थस्योत्सर्जनमपि किं धर्मो न वेति संशयः ॥ २१ ॥
अभिप्रेतमनुपलभ्य परिचारकमन्यं वा क्षुद्रं गत्वा कामः स्यान्न वेति कामसंशयः ॥ २२ ॥
अभिप्रेतमत्र रुचिरं नायकं परिचारकमात्मीयमन्यं वा क्षुद्रं निकृष्टं-गत्वा तयोरनभिप्रेतत्वादज्ञातकामत्वाच्च कामः स्याद्वा न वेति सं-शयः ॥ २२ ॥
प्रभाववान् क्षुद्रोऽनभिमतोऽनर्थं करिष्यति न वेत्यनर्थसंशयः॥२३॥
अनभिमत इति। अभिगन्तुमिच्छन् क्षुद्रत्वात्प्रत्याख्यातः, स हि राज-कुले लब्धप्रभावत्वादनर्थं करिष्यति न वेति संशयः ॥ २३ ॥
अत्यन्तनिष्फलः सक्तः परित्यक्तः पितृलोकं यायात्तत्राधर्मः स्यान्न वेत्यधर्मसंशयः ॥ २४ ॥
सक्त इति। अनुरक्तोऽभिगन्तुमिच्छन् परित्यक्तो निष्फलत्वात्, पितृलोकं यायादिति। अवस्थाऽन्तरप्राप्तौ यमलोकं यायादिति सम्भा-व्यते, तत्रेति। परित्यागेऽधर्मः स्यान्न वेति संशयः ॥ २४ ॥
रागस्यापि विवक्षायामभिप्रेतमनुपलभ्य विरागः स्यान्न वेति द्वेषसंशय इति शुद्धसंशयाः ॥ २५ ॥
रागस्याऽपि विवक्षायामिति। कामो न भविष्यतीति न विवक्षितं-रागेण पीड्यमानत्वाद्, अभिप्रेतोऽपि नास्ति यमाश्रित्य स्यादित्याह—अभिप्रेतमनुपलभ्येति। केवलमेव वर्तमानाया विद्वेषः स्यान्न वेति संश-यः, शुद्धसंशया इति। एकस्यैव भावाभावाभ्यां संशय्यमानत्वाद् ॥२५॥
अथ संकीर्णाः ॥ २६ ॥
अथेति। आनन्तर्ये, संकीर्णा निर्दिश्यन्ते, शुद्धानन्तरं हि संकीर्ण-स्योद्दिष्टत्वाद्, इदं वा स्यादिदं वेति संकीर्ण इति ॥ २६ ॥
स च विरुद्धाविरुद्धाभ्यां; तत्र पूर्वमधिकृत्याह—
आगन्तोरविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर्वा स-मुपस्थितस्याराधनमर्थोऽनर्थ इति संशयः ॥ २७ ॥
आगन्तोरिति। कुतश्चिदागतस्याभिगमनेऽविदितशीलत्वादर्थोऽनर्थो-वेति संशयः, तस्य चार्थितया समुपस्थितत्वादर्थः, वल्लभसंश्रयत्वात्प्र-भविष्णुत्वाद्वाऽनर्थ इति कारणद्वयसंनिधानात्संशयः ॥ २७ ॥
श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां-
४१ का० सू०
३२२ सटीक कामसूत्रे [ ६ अधिकरणे,
दृष्ट्वा जातरागस्य मुमूर्षोर्मित्रवाक्यादानृशंस्याच्च गमनं धर्मोऽधर्म- इति संशयः ॥ २८ ॥
श्रोत्रियस्येति । गृहस्थस्यापि क्रियावतः, ब्रह्मचारिण इति । प्रथमाश्रमस्य, दीक्षितस्य व्रतिन इति । श्रितव्रतस्य कियन्तं कालं गृहीतपशुकादिव्रतस्य, लिङ्गिन इति । भौतादेशवतः, मुमूर्षोरिति । मर्तुमिच्छोः कामस्यावस्थाऽन्तरप्राप्तत्वाद्, मित्रवाक्यादिति । श्रोत्रियादीनां मित्रस्याभ्यर्थनावचनादानृशंस्याच्च करुणयाऽभिगमने, धर्मोऽधर्म इति । मा भूत्प्राणत्याग इति धर्मः, नियमभ्रंशः कृत इत्यधर्मः, तदुभयमपि कस्मान्न भवतीति चेत्, न, अन्यतरस्य बलीयस उत्पादनात् ॥ २८ ॥
लोकादेवाकृतप्रत्ययादगुणो गुणवान्वेत्यनवेक्ष्य गमनं कामो- द्वेष इति संशयः ॥ २९ ॥
अकृतप्रत्ययादिति । अकृतनिश्चयाल्लोकात्, किमयं गुणवान् वेति, स्वयमनवेक्ष्यानिश्चित्य केवलं लोकप्रवादाद् गुणवानित्यभिगमनादभिसरणे किं कामो द्वेषो वेति विरुद्धसंकीर्णसंशयः ॥ २९ ॥
अविरुद्धमधिकृत्याह—
संकिरेच्च परस्परेणेति संकीर्णसंशयाः ॥ ३० ॥
संकिरेच्चेति । तत्रार्थो धर्माधर्मकामद्वेषैश्चतुर्भिः प्रत्येकं विकल्पितश्चतुर्विधः, तथाऽनर्थोऽपि, धर्मोऽर्थानर्थकामद्वेषैर्विकल्पितश्चतुर्विधः, तथा द्वेषोऽपि, विरुद्धसंकीर्णाश्चतुर्विंशतिः पूर्वैः सह सप्तविंशतिरित्युक्ताः संकीर्णसंशयाः ॥ ३० ॥
उभयतो योगमधिकृत्याह—
यत्र परस्याभिगमनेऽर्थः सक्ताच्च संघर्षतः स उभयतोऽर्थः ॥ ३१ ॥
अत्रेति । यस्मिन्नुभयतो योगे, परस्येति । अपूर्वस्य, उत्तरत्राप्यधिकृतं वेदितव्यम्, अभिगमनेऽर्थः । परस्मादेव, सक्ताच्चेति । अनुरक्तात्, सङ्घर्षत इति । स्पर्धमानादर्थः, स मा भूदनेनास्याः संप्रयोग इति स्पर्धया ददाति, स इति । उभयतो योग उभयतोऽर्थनामा, अन्यत्र यस्मिन् परस्मिन् सक्ते चेदभिगमनं तदेकमेवार्थसाधककार्यं न विजातीयमन्यदस्ति, उभयस्माच्च सकाशात् फलद्वयं प्रत्युपस्थितं तेनैकस्मिन् क्रियमाणे कार्यद्वयस्योत्पत्तिरुभयतो योग इति मूलसूत्रार्थो योज्यः ॥ ३१ ॥
यत्र स्वेन व्ययेन निष्फलमभिगमनं सक्ताच्चामर्षिताद्वित्तप्र- त्यादानं स दूभयतोऽनर्थः ॥ ३२ ॥
यस्मिन्नुभयतो योगे स्वेन व्ययेनाभिगमनम्, परस्येति वर्तते, नि-
६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२३
६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२३
ष्फलमित्यनर्थः, सकाच्चानुरक्ताद्, अमर्षितादिति। कया चिदर्थयुक्त्या प्राक् क्रुद्धाद्, वित्तप्रत्यादानमिति । तेनैव दत्तं प्रतीपमादीयमानमनर्थः, आत्तस्य निष्क्रमणात्, स उभयतो योग उभयतोऽनर्थनामा, उभयतो योगस्य भिन्नविषयत्वाद्, निरनुबन्धपक्षेऽन्तर्भावः ॥ ३२ ॥
संशयोऽत्रास्त्येवेत्याह—
यत्राभिगमनेऽर्थो भविष्यति न वेत्याशङ्का सक्तोऽपि सङ्घर्षाद्दास्यति न वेति स उभयतोऽर्थसंशयः ॥ ३३ ॥
यत्रेति । यस्मिन्नुभयतो योगे, अभिगमन इति । परस्य, भविष्यति न वेत्याशङ्का न निश्चयः, सक्तश्चाभिगमने सङ्घर्षात्स्पर्धया दास्यति न वेति, स उभयतो योग उभयतोऽर्थसंशयनामा ॥ ३३ ॥
यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधादपकारं करिष्यति न वेति सक्तो वा मर्षितो दत्तं प्रत्यादास्यति न वेति स उभयतोऽनर्थसंशयः ॥ ३४ ॥
इत्यौद्दालकेरुभयतो योगाः ॥
यत्रेति । यस्मिन्नुभयतो योगे, व्ययवतीति । व्ययं कृत्वा यत् परस्याभिगमनम्, पूर्व इति । पूर्वसंसृष्टः, विरुद्धः क्रोधादिति । स्वेन व्ययेनायमनयाऽभिगम्यत इति तद्द्वारेण क्रोधान्ममापकारं करिष्यति न वेति संशयः, सक्तश्च प्राक्कया चिदर्थयुक्त्याऽमर्षितो गमने दत्तं प्रत्यादास्यति न वेति संशयः स उभयतो योग उभयतोऽनर्थसंशयनामा ॥३४॥
बाभ्रवीयास्तु—
यत्राभिगमनेऽर्थोऽनभिगमने च सक्तादर्थः स उभयतोऽर्थः॥३५॥
बाभ्रवीयास्त्विति । उभयतो योगा वक्ष्यन्त इति शेषः,
यत्रेति । उभयतो योगे, अभिगमने परस्य, अनभिगमने च सक्तादिति । अनभिगतात्सक्तादित्यर्थः, यः सक्तो वशो सोऽनभिगत एव दास्यति, यथोक्तं प्राक्-‘सक्तं तु वशिनं नारी सम्भाष्यान्यत्र वा व्रजेद्’ इति, पूर्वस्मिन्दर्शनेऽन्यतराभिगमनेऽन्यतरस्मादर्थः, इह त्वेकस्यैवाभिगमन उभयस्मादर्थः, ततश्च स्पष्ट एवात्र मूलसूत्रार्थः ॥ ३५ ॥
यत्राभिगमने निष्फलो व्ययोऽनभिगमने च निष्प्रतीकारोऽनर्थः स उभयतोऽनर्थः ॥ ३६ ॥
यत्रेति । उभयतो योगे, आगमन इति । परस्य, निष्फलो व्यय इति। अनर्थः, अनभिगमने च सक्तादित्यनुवर्तते, यः परामिगमनेन सक्तो जातामर्षस्तस्मान्निष्प्रतीकाराऽनर्थो यद्वित्तप्रत्यादानं स उभयतोऽनर्थनामा॥३६॥
३२४ सटीके कामसूत्रे [ ६ अधिकरणे,
यत्राभिगमने निर्व्ययो दास्यति न वेति संशयोऽनभिगमने सक्तो-
दास्यति न वेति स उभयतोऽर्थसंशयः ॥ ३७ ॥
यत्रेति। उभयतोयोगे, अभिगमने परस्य, निर्व्यय इति। विना व्ययेन, अनभिगमने सक्त इति। विनाऽभिगमनं दास्यति न वेति, तस्य वशित्वं-न निश्चितं स चोभयतोऽर्थसंशयनामेति ॥ ३७ ॥
यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न
वेति संशयोऽनभिगमने च क्रोधादनर्थं करिष्यति न वेति स उभ-
यतोऽनर्थसंशयः ॥ ३८ ॥
यत्रेति। उभयतो योगे, अभिगमने परस्य पूर्वो विरुद्धः प्राप्स्यते मया तद्वारेणायमपकरिष्यति न वेति संशयः, अनभिगमने च सक्त इति वर्तते, क्रोधादनर्थं करिष्यति न वेति संशयः, पराभिगमने तदीयामर्षस्यानि-श्चितत्वात् स उभयतोऽनर्थसंशयनामा, एते चत्वार उभयतो योगा द-र्शनद्वयेऽपि शुद्धा उक्ताः ॥ ३८ ॥
सङ्कीर्णानाह—
एतेषामेव व्यतिकरेऽन्यतोऽर्थोऽन्यतोऽनर्थः ॥ ३९ ॥
एतेषामेव व्यतिकर इति। सजातीयं त्यक्त्वा शेषाणां परस्परसङ्कीर्णत्वे षट् सङ्कीर्णयोगाः, यदाह—अन्यत इति। यत्र परस्याभिगमनेऽर्थ-इत्येकतोऽर्थः, सकाच्चामर्षिताद्वित्तप्रत्यादानमित्यन्यतोऽनर्थोऽयमुभयतो-योगोऽर्थानर्थरूपः ॥ ३९ ॥
अन्यतोऽर्थोऽन्यतोऽर्थसंशयः ॥ ४० ॥
अन्यतोऽर्थ इति। पूर्ववत्, सक्तः सङ्घर्षाद्दास्यति न वेत्यन्यतोऽर्थसंशयोऽयमर्थार्थसंशयरूपः ॥ ४० ॥
अन्यतोऽर्थोऽन्यतोऽनर्थसंशयः ॥ ४१ ॥
अन्यतोऽर्थ इति। पूर्ववत्, सक्तोऽमर्षितो दत्तं प्रत्यादास्यति न वेत्यन्यतोऽनर्थसंशयोऽयमर्थानर्थसंशयरूपः ॥ ४१ ॥
अन्यतोऽनर्थोऽन्यतोऽर्थसंशयः ॥ ४२ ॥
अत्र परस्य स्वेन व्ययेन निष्फलमभिगमनमित्यन्यतोऽनर्थः, सक्तः-सङ्घर्षाद् दास्यति न वेत्यन्यतोऽर्थसंशयोऽयमनर्थार्थसंशयरूपः ॥ ४२ ॥
अन्यतोऽनर्थोऽन्यतोऽनर्थसंशयः ॥ ४३ ॥
अन्यतोऽनर्थ इति। पूर्ववत्, सक्तोऽमर्षितो दत्तं प्रत्यादास्यति न वेत्यन्यऽतोऽनर्थसंशयोऽयमर्थानर्थसंशयरूपः ॥ ४३ ॥
अन्यतोऽर्थसंशयोऽन्यतोऽनर्थसंशय इति षट् सङ्कीर्णयोगाः॥४४॥
६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२५
यत्र परस्याभिगमनेऽर्थो भविष्यतीत्याशंसेत्यन्यतोऽर्थसंशयः सक्तो- ऽमर्षितो दत्तं प्रत्यादास्यति न वेत्यन्यतोऽनर्थसंशयोऽयमर्थसंशयानर्थ- संशयरूप इति, एवं बाभ्रव्यदर्शनेऽपि योज्यम् ॥ ४४ ॥
तेषु सहायैः सह विमृश्य यतोऽर्थभूयिष्ठोऽर्थसंशयः, गुरुरन- र्थप्रशमो वा ततः प्रवर्तेत ॥ ४५ ॥
तेष्विति । दर्शनद्वयेऽपि शुद्धेषु सङ्कीर्णेषु च, सहायैः पूर्वोक्तैः, यत- इति । यं गम्यमाश्रित्य, अर्थभूयिष्ठ इति । अर्थबहुलो योऽर्थसंशयो नेतरः, गुरुरनर्थप्रशमो वा, यतोऽर्थाद्धि महतोऽनर्थस्य प्रतिकार्यस्य गुरुत्वात्, तत इति । तं लक्षीकृत्य प्रवर्तेत ॥ ४५ ॥
एवं धर्मकामावप्यनयैव युक्त्योदाहरेत्, सङ्किरेच्च परस्परेण व्यतिषञ्जयेच्चेत्युभयतो योगाः ॥ ४६ ॥
अनयैवेति । अर्थयुक्त्योदाहरेत्, तत्र परस्य द्विजत्वादभिगमने धर्मः- सक्ताच्चानुरागान्मुमूर्षोः स उभयतो धर्मः, यत्र ब्रह्मचारिणोऽभिगमनेऽ- धर्मः सक्ताच्च व्रतस्थादनिच्छतः स उभयतोऽधर्मः, यत्र परस्य निर्द्रव्य- स्याभिगमने धर्मो न भविष्यतीत्याशंसा, सक्ताच्च निष्पादितार्थत्वादप्रय- च्छतो धर्मो न वेति स उभयतोऽधर्मसंशय इति, यत्र परस्याभिप्रेतस्या- भिगमने कामः सक्ताच्चाभिप्रेतात्स उभयतः कामः, यत्र परस्यानभिप्रेतस्य गमने विरागः सक्ताच्चानभिप्रेतात्स उभयतो द्वेषः, यत्र परस्याविदितशी- लस्य गमने कामो भविष्यति न वेति स उभयतः कामसंशयः, यत्र परस्या- भिगमने रागापनयनविवक्षायां विरागः स्यान्न वेति संशयः सक्ताच्च तथैव विरागः स्यान्न वेति स उभयतो द्वेषसंशयः, इत्यौद्दालकेः शुद्धा उ- भयतो योगाः, तथैव गमनागमनाभ्यां बाभ्रवीयेषूदाहरेत्सङ्किरेच्च, परस्प- रेणेति । सजातीयांस्त्यक्त्वा, तथाऽन्यतो धर्मोऽन्यतोऽधर्म इति धर्मसं- शयेनाधर्मसंशयेन च संकीर्णस्त्रिविधः, तथाऽन्यतो धर्मोऽन्यतो धर्माधर्म- संशयाभ्यामन्यतो धर्मसंशये वाऽन्यतोऽधर्मसंशयेन संकीर्णास्त्रयः, इति षट् संकीर्णाः, औद्दालकेर्बाभ्रव्यस्य च, एवमन्यतः कामोऽन्यतो द्वेषेण काम- संशयेन द्वेषसंशयेन च सङ्कीर्णस्त्रिविधः, तथाऽन्यतो द्वेषोऽन्यतः कामद्वे- षसंशयाभ्यामन्यतः कामसंशयश्चान्यतो द्वेषसंशयेन च संकीर्णास्त्रय इति षडौद्दालकेर्बाभ्रव्यस्यापि, इहापि सहायैर्विमृश्य यतो धर्मभूयिष्ठस्तत्संशयो- गुरुरधर्मद्वेषप्रशमश्च ततः प्रवर्तेत, न तु यतोऽधर्मो द्वेषस्तत्सन्शयश्चेति योज्यं, व्यतिषञ्जयेच्चेति । अर्थादीनां विरुद्धत्वं त्यक्त्वा शेषान्परस्परतः संश्लेषयेदित्यर्थः, तत्रान्यतोऽर्थोऽन्यतो धर्माधर्मकामद्वेषोस्तत्संशयैश्च संयोजितोऽष्टप्रकारः, तथाऽनर्थोऽनर्थसंशयोऽर्थानर्थसंशयश्च समुदायेन
३२६ सटीक कामसूत्रे [ ६ अधिकरणे,
द्वात्रिंशद्भवन्ति, एवमन्यतो धर्मोऽन्यतोऽर्थानर्थकामः संयोजितोऽष्टप्रकारः, तथाऽधर्मो धर्मसंशयोऽधर्मसंशयश्चेति द्वात्रिंशद्, एवमन्यतः कामोऽन्यतोऽर्थानर्थधर्माधर्मैस्तत्संशयैश्च संयोजितोऽष्टप्रकारः, तथा द्वेषः कामसंशयो द्वेषसंशयश्चेति द्वात्रिंशत्, समुदायेन षण्णवतिः, विपर्ययेणे तावन्तः, एवमौद्दालकेर्व्यतिषङ्गयोगानां च द्वानवतिशतम्, एवं बाभ्रव्यस्यापि, तेष्वपि सहायैर्विमृश्येदित्यादि योज्यम्, उक्ता उभयतो योगास्त्रिविधाः-शुद्धाः संकीर्णा व्यतिषक्ताश्च ॥ ४६ ॥
समन्ततो योगं दर्शयितुं विशेषमाह—
संभूय च विटाः परिगृह्णन्त्येकामसौ गोष्ठीपरिग्रहः ॥ ४७ ॥
संभूयेति । एकीभूय जातविश्वासत्वात्परिगृह्णन्त्येवैकां विटाः प्रायशएवं समाचाराद्, असौ गोष्ठीपरिग्रह उच्यते यो बहुभिरेकस्याः परिग्रहः ॥ ४७ ॥
तेनानेकपरिग्रहायाः समन्ततो योग इति तामेवाधिकृत्याह—
सा तेषामितस्ततः संपृच्यमाना प्रत्येकं संघर्षार्दर्थं निर्वर्तयेत् ॥४८॥
सेति । अनेकपरिग्रहा, तेषामितस्तत इति । अनियमेन कदा चिदेकेन कदा चिद् द्वाभ्यां बहुभिर्वा, संपृच्यमाना = संपर्क यान्ती, संघर्षादिति । परस्परस्पर्धया तेषां संपृच्यमाना प्रत्येकमेकैकशोऽर्थान्निर्वर्तयेत् ॥४८॥
स्पर्धाकारणमाह—
सुवसन्तकादिषु च यो म इमममुं च मनोरथं संपादयिष्यति तस्याद्य गमिष्यति मे दुहितेति मात्रा वाचयेत् ॥ ४९ ॥
सुवसन्तकादिष्विति । तेषूत्सवेषु विटानां कामदौर्बल्यं जायते, मनोरथमिति । अभिप्रेतं वाचयेत्, सा हि निरनुरोधत्वाच्छक्ता व्यवस्थापयितुम् ॥ ४९
तेषां च संघर्षजेऽभिगमने कार्याणि लक्षयेत् ॥ ५० ॥
संघर्षज इति । स्पर्धाजनिते, कार्याणीति लाभान् ॥ ५० ॥
तान्याह—
एकतोऽर्थः, सर्वतोऽर्थः, एकतोऽनर्थः, सर्वतोऽनर्थः, अर्धतोऽर्थः सर्वतोऽर्थः, अर्धतोऽनर्थः, सर्वतोऽनर्थ इति समन्ततो योगाः ॥ ५१ ॥
एकतोऽर्थ इति । यावद्भिः परिगृहीता तेषामन्यतमस्यैकस्य, द्वयोरन्यतरस्यैकस्य वा शेषैः सह स्पर्धा तस्मादेकतोऽर्थं लक्षयेत्, सर्वत इति । सर्वेभ्योऽर्थम्, एकतोऽनर्थं सर्वतोऽनर्थ, यदोभौ स्पर्धेते तदोभयतोऽर्थसर्वतोऽर्थमुभयतोऽनर्थं सर्वतोऽनर्थामिति, यदार्धं स्पर्धते तदाऽर्धतोऽर्थमर्धतोऽनर्थम्, इति समन्ततो योगास्त्रिधा भिन्नाः ॥ ५१ ॥
६ अध्याये ] वेश्याविशेषप्रकरणम् । ३२७
अत्र भिन्नविषयत्वादन्वन्धो नास्ति संशयस्तु विद्यत इत्याह—
अर्थसंशयमर्थसंशयं च पूर्ववद्योजयेत् संकिरेच्च ॥ ५२ ॥
पूर्ववदिति । एकतोऽर्थसंशयः सर्वतोऽर्थसंशयः, एकतोऽनर्थसंशयः- सर्वतोऽनर्थसंशय इति द्वौ, पूर्वोक्तौ च द्वाविति चत्वारः शुद्धाः, संकिरे- च्चेति । सजातीयं त्यक्त्वा, तत्रैकतोऽर्थः सर्वतोऽनर्थ इत्येकः, सर्वतोऽ- नर्थसंशये च द्वितीयः, एकतोऽर्थः सर्वतोऽर्थसंशय इति तृतीयः, एकतो- ऽनर्थः सर्वतोऽर्थसंशयश्चेति चतुर्थः, एकतोऽनर्थः सर्वतोऽनर्थसंशय- इति पञ्चमः, एकतोऽर्थसंशयः सर्वतोऽनर्थसंशय इति षष्ठः, ॥ ५२ ॥
इति संकीर्णाः ।
तथा धर्मकामावपि ॥ ५३ ॥ इत्यर्थानर्थानुबन्धसंशयविचाराः ॥
तथा धर्मकामावपीति । एकतो धर्मः सर्वतो धर्मः, एकतोऽधर्मः- सर्वतोऽधर्मः, एकतो धर्मसंशयः सर्वतो धर्मसंशयः, एकतोऽधर्मसंशयः- सर्वतोऽधर्मसंशय इति शुद्धाश्चत्वारः, एवं सजातीयं त्यक्त्वा संकीर्णाः षट्, तथैकतः कामः सर्वतः कामः, एकतो द्वेषः सर्वतो द्वेषः, एकतः काम- संशयः सर्वतः कामसंशयः, एकतो द्वेषसंशयः सर्वतो द्वेषसंशय इति शुद्धाश्चत्वारः, एवं सजातीयं त्यक्त्वा सङ्कीर्णाः षड्, व्यतिषञ्जयेच्चेति, अर्थादीनां शुद्धसङ्कीर्णभिन्नानां व्यतिषङ्गे संख्या द्वानवतिशतं भवति, एवमुभयतोऽर्थतश्च योजयेत्, संघर्षजेऽभिगमने कार्याण्येतान्युक्तानि, यदा त्वसङ्घर्षजमभिगमनं तदा तेषामेकाभिप्रायत्वाद् द्वादश समन्ततो- योगाः, सर्वतोऽर्थः, सर्वतोऽनर्थः, सर्वतो धर्मः, सर्वतोऽधर्मः, सर्वतः- कामः, सर्वतो द्वेषः, इति षट्, त एव संशयिताः षट् ॥ ५३ ॥
इत्युक्ता अर्थानर्थानुबन्धसंशयविचाराः ॥
वेशप्रयोजनमिदमधिकरणं, वेशश्च कासां स्त्रीणामिति, अस्यैव प्रक- रणस्य शेषभूतमाह—
कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपाजीवा गणिका चेति वेश्याविशेषाः ॥ ५४ ॥
कुम्भदासीति । कुम्भग्रहणं निकृष्टकर्मोपलक्षणं, लोके सामान्याः- स्त्रियः प्रसिद्धाः, कुम्भदासी गणिका रूपाजीवा चेति, शेषाणामपि सामान्यात्तत्रैवान्तर्भावः, परिचारिका याः स्वामिनं परिचरन्ति, परि- चरितस्यौपनिषदिके विधिं वक्ष्यति, कुलटा या पतिभयाद् गृहान्तरं गत्वा प्रच्छन्नमन्येन संप्रयुज्यते, स्वैरिणी या पतिं तिरस्कृत्य स्वगृहेऽन्यगृहे वा संप्रयुज्यते, नटी रङ्गयोषिद्, शिल्पकारिका रजकतन्तुवायादिभार्या,
३२८ सटीकेकामसूत्रे [ ६ अधिकरणे,
३२८ सटीकेकामसूत्रे [ ६ अधिकरणे,
प्रकाशविनष्टा या जीवति मृते वा पत्यौ संग्रहधर्मेण गृहीता कामचारं प्रवर्तते, एताः षड् रूपाजीवायामेवान्तर्भवन्तीति वेश्याविशेषा इति वेशेन सम्पठ्यन्ते ॥ ५४ ॥
सर्वासां चानुरूप्येण गम्याः सहायास्तदुपरांजनमर्थागमोपाया निष्कासनं पुनःसन्धानं लाभविशेषानुबन्धा अर्थानर्थानुबन्धसंशयविचाराश्चेति वैशिकम् ॥ ५५ ॥
सर्वासामिति । आनुरूप्येणेति । आत्मनो हीनमध्यमोत्तमापेक्षयेत्यर्थः, तदुपरांजनमिति । कान्ताऽनुवृत्तम्, पुनःसन्धानमिति । विशीर्णप्रतिसन्धानं, वैशिकमिति । वेशो वेश्याजनोचितं वृत्तं दत्तकाचार्यदर्शनेन षड्विधं सहायग्रहणं गम्यपरीक्षणमनुरंजनमर्थादानं निष्कासनं विशीर्णप्रतिसन्धानं चेति, बाभ्रव्यमतेन दर्शनेनाष्टविधं शेषाभ्यां सह तत् प्रयोजनमस्येति वैशिकम् ॥ ५५ ॥
ननु च शतायुः पुरुषो विभज्य कालं त्रिवर्गं सेवेतेत्युक्तं, ततश्च तस्यैवात्र शास्त्रोपदेशो युक्तो न योषित इत्याह—
भवतश्चात्र श्लोकौ—
रत्यर्थाः पुरुषा येन रत्यर्थाश्चैव योषितः ।
शास्त्रस्यार्थप्रधानत्वात्तेन योगोऽत्र योषिताम् ॥ ५६ ॥
रत्येति । रतिरर्थः प्रयोजनं तुल्यं शास्त्रस्यार्थप्रधानत्वात्, तेनोपदिश्यत इति कृत्वा योगोऽत्र योषितामधिकार इत्यर्थः ॥ ५६ ॥
सन्ति रागपरा नार्यः सन्ति चार्थपरा अपि ।
प्राक्तत्र वर्णितो रागो वेश्यायोगाश्च वैशिके ॥ ५७ ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणेऽर्थानर्थानुबन्धसंशयविचारा वेश्याविशेषाश्च षष्ठोऽध्यायः ।
**ताश्च द्विविधाः—**रागपरा अर्थपराश्च, तत्र पूर्वासां प्रणीतो रागः— कन्यासांप्रयुक्तकभार्याऽधिकारिकपारदारिकैस्त्रिभिरधिकरणैस्तासां रागपरत्वात् तदनुरूपमेव वृत्तमुक्तं, वेश्यायोगाश्चेति । वेश्यानां सत्यपि रत्यर्थेऽर्थपरत्वाद् वैशिकेऽधिकारः, तासां हि पुरुषाधिगमे रतिर्वृत्तिश्च सर्गादिति ॥ ५७ ॥
इत्यर्थानर्थानुबन्धसंशयविचारा वेश्याविशेषाश्चाष्टापञ्चाशत्तमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणेऽर्थानर्थानुबन्धसंशयविचारा वेश्याविशेषाश्च षष्ठोऽध्यायः ।
समाप्तं चेदं वैशिकं नाम षष्ठमधिकरणम् ।
औपनिषदिकं नाम सप्तममधिकरणम् ।
प्रथमोऽध्यायः ।
शास्त्रकार एवाधिकरणसम्बन्धमाह —
व्याख्यातं कामसूत्रम् ॥ १ ॥
व्याख्यातमिति। कामसूत्रमिति। तन्त्रावापात्मकं, साधारणं तु तदङ्गत्वोदुभयात्मकम् ॥ १ ॥
तदुक्तैस्तु विधिभिरभिप्रेतमर्थमनधिगच्छन्नौपनिषदिकमाचरेत् ॥२॥
तदुक्तैरिति। तदुक्तैः = तन्त्रावापोक्तैः, अभिप्रेतमनधिगच्छन्निति। ईप्सितमप्राप्नुवन्, औपनिषदिकमित्यभिधाकमात्मनो विधेयमिति ॥२॥
सुभगङ्करणमुच्यते —
रूपं गुणो वयस्त्याग इति सुभगङ्करणम् ॥ ३ ॥
रूपमिति। रूपं वर्णसंस्थानं सहजम्, इतरदनित्यं नित्यस्नानं द्वितीयमुत्सादनमित्यादि संस्कारवशाच्चेतोहारि भवति, गुणा ये नायकस्योक्तास्ते विरूपमपि सुभगङ्कुर्वन्ति, अतस्तेषु यत्नः कार्यः, वय इति। यौवनं सर्वकार्यसमर्थं तत् पुनस्तन्मतेन स्थिरं कार्यं वार्धक्ये हि पलितइति; अनादरो विशेषतः स्त्रीणां तदपि केशरजन्नादिसंस्कारापाते वैमुख्यं नोत्पादयति, त्याग इति। दानन्तत्सर्वं बाधते यतो विरूपो निर्गुणो वृद्धो वा दाता सर्वैरेवाभिगम्यते ॥ ३ ॥
यत्र रूपादयो न सन्ति तत्र विधिमाह —
तगरकुष्ठतालीशपत्रकानुलेपनं सुभगङ्करणम् ॥ ४ ॥
तगरेति। तगरन्तु कन्दमौत्तरापथिकं न नेपालभवं, कुष्ठं यच्छ्वेतं,- तालीशपत्रकम्प्रतीतम्, एतैरनुलेपनं शरीरस्य ॥ ४ ॥
एतैरेव सुपिष्टैर्वर्तिमालिप्याक्षतैलेन नरकपाले साधितमञ्जनं च ॥५॥
एतैरेवेति। वर्तिमालिप्य दुकूलमयीम्, अक्षतैलेन = बिभीतकतैलेन, साधितमिति। नरकपाले पातितमित्याम्नायः, कज्जलं तेन स्नेहेन योज्यं, सुभगङ्करणमिति सर्वत्र योजनीयम् ॥ ५ ॥
पुनर्नवासहदेवीसारिवाकुरण्टकोत्पलपत्रैश्च सिद्धं तैलमभ्यञ्जनम् ॥ ६ ॥
४२ का० सू०
३१० सटीक कामसूत्रे [ ७ अधिकरणे,
पुनर्नवेति । पुनर्नवा, सहदेवी = दण्डोत्पलकं, सारिवेति उत्पलशा- रिखा ग्राह्या, कुरण्टकः प्रतीतः, उत्पलपत्रमिति, यदाभ्यन्तरं न बाह्यं, शेषाणां मूलं, सिद्धमिति । तैलविधानेन पक्वम्, एतैरेव कषायं कल्कं च कृत्वा, तैलमिति । तिलानाम्, अभ्यञ्जनं सुभगङ्करणम् ॥ ६ ॥
तद्युक्ता एव स्रजश्च ॥ ७ ॥
तद्युक्ता इति । पुनर्नवादिचूर्णयुक्ताः स्रजो धारिताः सुभगङ्करणम् ॥७॥
पद्मोत्पलनागकेसराणां शोषितानां चूर्णं मधुघृताभ्यामवलिह्य सुभगो भवति ॥ ८ ॥
पद्मोत्पलेति । नाग इति नागकेसरः, पद्मादीनाङ्केसराण्येकीकृत्य संचू- र्ण्य, अवलिह्येति । वमनविरेचनं कृत्वा तत्रापि न तदैव सुभगो मासा- दूर्ध्वं दृष्टशक्तिः ॥ ८ ॥
तान्येव तगरताळीसतमालपत्रयुक्तान्यनुलिप्य ॥ ९ ॥
तान्येवेति । पद्मादिकेसराणि तगरादियुक्तानि, अनुलिप्येति । अनु- लेपनं कृत्वा शरीरस्य, सुभगो भवति ॥ ६ ॥
मयूरस्याक्षि तरक्षोर्वा सुवर्णेनावलिप्य दक्षिणहस्तेन धारये- दिति सुभगङ्करणम् ॥ १० ॥
मयूरस्येति । यो न विशीर्णबर्हः, तरक्षोर्वेति । यो मत्तः स हि ग्रीष्मे माद्यति, अश्नीति । दक्षिणं वामं च ग्राहन्द्वयोरेव सामर्थ्यमित्याम्नायः, सुवर्णेनावलिप्येति । शुद्धसुवर्णपत्रेण पुष्ययोगेन वेष्टयित्वा ॥ १० ॥
बादरमणिं शङ्खमणिं च तथैव तेषु चाथर्वणान् योगान् ग- मयेत् ॥ ११ ॥
बादरमणिमिति । बदरस्य बदरीवृक्षस्योत्तरशिफाघटितां वृत्तगुलि- कां, शङ्खमणिमिति । दक्षिणावर्तशङ्खनाभिघटितां, तथैवेति । सुवर्णेनाव- लिप्य हस्तेन धारयेत्, तेषु चेति । धारणाद्योगेषु, आथर्वणानीति । अथ- र्ववेदे बहवो धारणाद्योगा उक्ताः ॥ ११ ॥
विद्यातन्त्राच्च विद्यायोगात् प्राप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रमन्यतो वारयेत् ततो वारितां बालां वामत्वालूलाल- सीभूतेषु गम्येषु योऽस्यै संघर्षेण बहु दद्यात्तस्मै विसृजेदिति सौ- भाग्यवर्द्धनम् ॥ १२ ॥
विद्यातन्त्रेति । मन्त्रवादात्तत्रापि भूर्जपत्रलिखितविद्याधारणयोगाः,
१ अध्याये ] सुभगंकरणप्रकरणम् । ३३१
अनुष्ठानविशेषोऽपि क्व वित्तसौभाग्यनिबन्धनमित्याह-प्राप्तयौवनामिति । या बाह्य इवानन्यपूर्वा स्वामिनं परिचरति तां तरुणीमन्यतो वारयेद्रक्षयेद्, यथान्यैर्नाभिगम्येत स्वयन्त्वभिगच्छेदित्यर्थोक्तं, तत इति । तस्यावारितत्वाद्, वामत्वादिति । रक्षणयोगात् कामिनो वारिताः कौतूहलात्प्रतिकूला भवन्ति, ततश्च तेषु लालसीभूतेषु = अत्यन्तं गृध्नुषु, योऽस्यै परिचारिकायै, संधर्षेणेति । स्पर्द्धया, बहु द्रव्यं दद्याद् दुर्लभं हि प्रियमन्वितं च भवतीति प्रायोवादः, विसृजेदिति । अभिगन्तुन्दद्याद्, विशेषतो वेश्यापाणिग्रहणेऽपि विधिः सौभाग्यनिबन्धनं,पाणिग्रहश्च द्विविधः, यथोक्तं—
'दैवमानवभेदेन वेश्याविवहनं द्विधा । दैवं मन्मथकाण्डेन गम्येनाप्यपरं भवेद्' इति ॥ १२ ॥
तत्र मानुषमधिकृत्य विधिमाह—
गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपानुरूप्येण तानभिनिमन्त्र्य सारेण योऽस्या इदमिदं च दद्यात्स पाणिंगृह्णीयादिति संभाष्य रक्षयेदिति ॥ १३ ॥
गणिकेति । प्राप्तयौवनां रक्षयेदिति सम्बन्धः, तस्या इति । स्वदुहितुः, यादृशं रूपादि तदानुरूप्येणेति तत्सदृशः, तानिति । दुहितुर्ये गम्याः, अभिनिमन्त्र्य सारेणेति । विभवेन स्वेनाभिमुख्येन स्वगृहे निमन्त्र्य योऽस्यै दुहित्रे, इदमिदञ्चेति । ईप्सितमाह, संभाव्येति । सम्भावयेदित्युक्त्वा, रक्षयेत् पण्यधर्मत्वात् ॥ १३ ॥
सा च मातुरविदिता नाम नागरिकपुत्रैर्धनिभिरत्यर्थं प्रीयेत ॥१४॥
सा चेति । दुहिता, अविदिता नामेति । यथैते जानन्त्यस्मास्वनुरक्तेयं-येन रक्ष्यमाणाऽपि मातुरविदितवागच्छतीति, धनिभिर्नान्यैर्निरर्थकत्वाद्, प्रीयेत = प्रीतिं कुर्यात् ॥ १४ ॥
प्रीतिश्च दर्शनपूर्विका दर्शनं च विशिष्टे देशे काले चेत्याह—
तेषां कलाग्रहणे गान्धर्वशालायां भिक्षुकीभवने तत्र तत्र च संदर्शनयोगाः ॥ १५ ॥
तेषामिति । कलाग्रहणकाले, गान्धर्वशालायामिति । यत्राचार्यो नृत्यगीतं शिक्षयति, भिक्षुकीभवन इति । भिक्षुक्यादिः कलाविदग्धोपगम्यते, तत्र तत्र चेति । सरस्वतीभवनोद्यानादिषु ॥ १५ ॥
तेषां यथोक्तदायिनां माता पाणिं ग्राहयेत् ॥ १६ ॥
तेषामिति । प्रीत्यनुबद्धानामिति, यथोक्तदायिनामिति । मात्रा यत्सं-
३३२ सटीके कामसूत्रे [ ७ अधिकरणे,
भाषितं तद्दायिनां, पाणिं ग्राहयेदिति । देशप्रवृत्तिरनुसर्तव्या ॥ १६ ॥
तावदर्थमलभमाना तु स्वेनाप्येकदेशेन दुहित्र एतद्दत्तमेनेति ख्यापयेत् ॥ १७ ॥
तावदिति । यावत्प्रमाणं संभाषितमलभमाना पाणिग्रहणादूर्ध्वं, स्वेनापीति । आत्मीयेन, एकदेशेनेति । सम्भाषितार्थपादमात्रक्रमेन दत्तं तावतैकदेशेन संयोज्य ख्यापयेत् सौभाग्यख्यापनार्थम् ॥ १७ ॥
ऊढाया वा कन्याभावं विमोचयेत् ॥ १८ ॥
ऊढाया वेति । दैवेन विवाहेन योजिताया इत्यर्थः, कन्याभावं विमोचयेदिति । पूर्वेणैव प्रकारेण कौमारं हारयेदित्यर्थः, तेन प्राप्तयौवनामूढां स्वदुहितरमित्यादि सर्वं योज्यं, विशेषोऽत्र स पाणिं गृह्णीयादित्यस्य स्थाने स कौमारकं हरेदिति, यथोक्तदायिनं ग्राहयेदित्यस्य स्थाने कौमारकं हारयेदिति ॥ १८ ॥
प्रच्छन्नं वा तैः संयोज्य स्वयमजानती भूत्वा ततो विदितेष्वेतं धर्मस्थेषु निवेदयेत् ॥ १९ ॥
प्रच्छन्नं वेति । योऽभिप्रेतः कन्याभावं विमोचयेत्, तेन प्रच्छन्नं संयोज्य, अजानती भूत्वेति । न मयाऽनुज्ञातमिति दर्शनार्थम्, एवं च सति तत उत्तरकालं विदितेषु धर्मस्थेष्वेतं निवेदयेद्, अभिसम्भाषितमर्थं येन दद्यादित्यभिप्रायः, तावदलभमाना तु स्वेनाप्येकदेशेनेति, तत्रापि योज्यम् ॥ १९ ॥
यस्यास्तु न कश्चित् कन्याभावं मोचयति, तत्र विधिमाह—
सख्यैव तु दास्या वा मोचितकन्याभावां सुगृहीतकामसूत्रामाभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते वयसि सौभाग्ये च दुहितरमवसृजन्ति गणिका इति प्राच्योपचाराः ॥ २० ॥
सख्यैव त्विति । दास्या वा कुशलया, मोचितकन्याभावामिति । अङ्गुलिकर्मणा हारितकौमारविधिं, कथमेवं सौभाग्यमिति चेदत्राह—सुगृहीतकामसूत्रामिति । आभ्यासिकेषु बाडवकादिषु प्रतिष्ठितां शिक्षितां वयसि तारुण्ये प्रतिष्ठितां यदा रूपयौवनवती विदग्धैरभिपतन्ति नागरिकाः, तदा सौभाग्ये प्रतिष्ठितेत्यवसृजन्ति व्यवहारे प्रवर्तयन्ति, प्राच्योपचारा इति । व्यवहारात् पूर्वकालिको विधिर्यत् कन्याभावमोचनम् ॥ २० ॥
पाणिग्रहश्च संवत्सरमव्यभिचार्यस्ततो यथा कामिनी स्यात्॥२१॥
१ अध्याये ] वशीकरणप्रकरणम् । १३३
पाणिग्रह इति । यः पाणिं गृहीतवान्, गृह्णातीति ग्रहः पाणेग्रह इति समासः, अव्यभिचार्य इति । संवत्सरं तेनैव सह वसेत्, तत इति । संवत्सरादूर्ध्वं, यथा कामिनीति । यथेप्सिता कामयते, वेश्याधर्मस्थितत्वात् ॥ २१ ॥
ऊर्ध्वमपि संवत्सरात् परिणीतेन निमन्त्र्यमाणा लाभमप्युत्सृज्य तां रात्रिं तस्यागच्छेदिति वेश्यायाः पाणिग्रहणविधिः सौभाग्यवर्धनं च ॥ २२ ॥
ऊर्ध्वमिति परिणीतेनेति । गृहीतपाणिना, निमन्त्र्यमाणेति । अद्य रात्रौ मया सह शयितव्यमिति, लाभमुत्सृज्य; अन्यस्मादु भवन्तमपि, सौभाग्यवर्द्धनं चेति । एवं च कृत्वा पुनरभियातव्यमिति वैशिकेनोक्तम् ॥२२॥
एतेन रङ्गोपजीविनां कन्या व्याख्याताः ॥ २३ ॥
रङ्गोपजीविनामिति । नटादीनाम् ॥ २३ ॥
विशेषमाह—
तस्मै तु तां दद्युर्य एषां तूर्ये विशिष्टमुपकुर्यात् ॥ २४ ॥ इति सुभगङ्करणम् ।
तूर्य इति । नृत्यविधौ विशिष्टमुपराजयेद् नृत्यगीतादिभिः ॥२४॥
इति सुभगङ्करणमेकोनषष्टितमं प्रकरणम् ।
एवं लोकप्रियतामात्मनो विहितवतोऽभिप्रेतसिद्धयर्थं वशीकरणमुच्यते—
धत्तूरकमरिचपिप्पलीचूर्णैर्मधुमिश्रैर्लिप्तलिङ्गस्य सम्प्रयोगो वशीकरणम् ॥ २५ ॥
धत्तूरकेति । धत्तूरकबीजानि, चूर्णैरिति । समीकृतानाम्, मधुमिश्रैरिति । माक्षिकमधुमिश्रैः, यथा न च प्रयोज्या जानाति लिप्तलिङ्गोमामभिगच्छतीति ॥ २५ ॥
वातोद्ध्रान्तपत्रं मृतकनिर्माल्यं मयूरास्थिचूर्णावचूर्णं वशीकरणम् ॥ २६ ॥
वातोद्ध्रान्तपत्रं वामहस्तेन ग्रहीतव्यं, मृतकनिर्माल्यं यत्तदुरसि स्थितं, मयूरास्थि जीवजीवकास्थि न केकिसम्बन्धि ग्राह्यमेषां चूर्णेनावचूर्णनं स्त्रीणां शिरसि पुरुषाणां पादयोः ॥ २६ ॥
स्वयं मृताया मण्डलकारिकायाश्चूर्णं मधुसंयुक्तं सहामलकैः स्नानं वशीकरणम् ॥ २७ ॥
३३४ सटीके कामसूत्रे [ ७ अधिकरणे,
स्वयं मृताया इति । तस्या एव कार्यकारणाद्, मण्डलकारिकायाः = गृध्र्याः, मण्डलकारिकाया इति, या मण्डलेन पानीये सङ्घशो- भ्रमन्ति ॥ २७ ॥
वज्रस्नुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपाषा- णचूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि चूर्णयित्वा मधुना लिप्त- लिङ्गस्य सम्प्रयोगो वशीकरणम् ॥ २८ ॥
वज्रस्नुहीति । या सान्निः, गण्डकानि खण्डश इति । खण्डं खण्डं कृतानि, सप्तकृत्व इति । सप्तवारान् ॥ २८ ॥
एतेनैव रात्रौ धूमं कृत्वा तद्धूमतिरस्कृतं सौवर्णं चन्द्रमसं दर्शयति ॥ २९ ॥
एतेनैवेति । चूर्णेन सौवर्णं दर्शयति विस्मापनमेतत्प्रासङ्गिकम् ॥ २९ ॥
एतैरेव चूर्णितैर्वानरपुरीषमिश्रितैर्यां कन्यामवकिरेत्साऽन्य- स्मै न दीयते ॥ ३० ॥
एतैरेवेति । वज्रस्नुह्यादिचूर्णैः, वानरपुरीषमिश्रितैरिति । जातमुख- रागो यो वानरः, तस्य पुरीषेणेत्याम्नायः ॥ ३० ॥
वचागण्डकानि सहकारतैललिप्तानि शिंशपावृक्षस्कन्धमुत्कीर्य षण्मासं निदध्यात् ततः षड्भिर्मासैरपनीतानि देवकान्तमनुलेपनं वशीकरणं चेत्याचक्षते ॥ ३१ ॥
वचेति । वचागण्डकानि श्वेताया वचायाः, वृक्षस्कन्धमिति । यतः- शाखा निःसृता, देवकान्तं = देवप्रियं, वशीकरणं चेति । स्वहृदयान्मूल- मुत्पाद्य योजितमित्याम्नायः, केवलं त्वात्मनोऽनुलेपनं सुभगङ्करणं न वशीकरणम् ॥ ३१ ॥
तथा खादिरसारजानि शकलानि तनूनि यं वृक्षमुत्कीर्य ष- ण्मासं निदध्यात्तत्पुष्पगन्धानि भवन्ति गन्धर्वकान्तमनुलेपनं वशी- करणं चेत्याचक्षते ॥ ३२ ॥
तथेति । सहकारतैललितानीति वर्त्तते, यं वृक्षमिति । सुरभिकुसु- ममुत्कीर्य, स्कन्धदेश इत्युत्तरत्रापि योज्यम् ॥ ३२ ॥
प्रियङ्गवस्तगरमिश्राः सहकारतैलदिग्धा नागवृक्षमुत्कीर्य ष- ण्मासं निहिता नागकान्तमनुलेपनं वशीकरणमित्याचक्षते ॥ ३३॥
प्रियङ्गव इति । प्रियङ्गुकुसुमानि, तगरमिश्रा इति । कौरण्टकेन तुल्यभा-
१ अध्याये ] वृष्ययोगप्रकरणम् । ३३५
१ अध्याये ] वृष्ययोगप्रकरणम् । ३३५
नेन मिश्राः, नागवृक्षं नागकेसरम्, एतत् त्रिविधमनुलेपनं देवगन्धर्वना- गसत्वेष्वेव योजयेत्, सत्त्वपरिज्ञानं च शास्त्रान्तरादवगन्तव्यम् ॥ ३३ ॥
उष्ट्रास्थि भृङ्गराजरसेन भावितं दग्धमञ्जनं नलिकायां निहि- तमुष्ट्रास्थिशलाकयैव स्रोतोऽञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं- चेत्याचक्षते ॥ ३४ ॥
उष्ट्रास्थीति । तण्डुलभेदं कृत्वा, भावितं त्रिःसप्तकृत्वः, दग्धमिति । अन्तर्धूमम्, अञ्जनमिति । मषीभावमुपगतं, नलिकायामिति । उष्ट्रास्थि- नलिकायां, स्रोतोऽञ्जनेन तुल्यभागेन सह दृषदि श्लक्ष्णीकृत्य निहितम्, उष्ट्रास्थिशलाकयैव घटितया चक्षुषोर्योजितं, पुण्यमिति । पवित्रं, चक्षु- ष्यन्तिमिराद्यपनयाद्, वशीकरणं चेति । यः प्रथमं दृश्यते स वशीभवति, शेषं सुभगङ्करणमित्युपदेशः ॥ ३४ ॥
एतेन श्येनभासमयूरास्थिमयान्यञ्जनानि व्याख्यातानि ॥३५॥
इति वशीकरणम् ।
एतेनेति । उष्ट्रास्थ्यञ्जनविधानेन, तत्र भासो गोष्ठः, कर्कटकः पक्षी ॥३५॥
इति वशीकरणं षष्ठितमप्रकरणम् ।
वशीकृताऽपि प्र योज्या रन्तुमसमर्थस्य निष्फलैवेति, वृषाय हिता- वृष्या योगा उच्यन्ते—
उच्चटाकन्दश्चव्या यष्टीमधुकं च सशर्करेण पयसा पीत्वा वृषीभवति ॥ ३६ ॥
उच्चटा प्रसिद्धा, तस्याः कन्दः, चव्या वणिग्द्रव्यं, यष्टीमधुकं च, एतद् गोपयसा सह क्वथितं, सशर्करेणेति । शीतीभूतं शर्करां दत्वा- पीत्वा वृषीभवति व्यवायक्षम इत्यर्थः ॥ ३६ ॥
मेषवस्तमुष्कसिद्धस्य पयसः सशर्कस्य पानं वृषत्वयोगः॥३७॥
मेषः प्रसिद्धः, वस्तः = छागः, तयोरन्यतरस्य, मुष्कः = वृषणं, तेन सिद्धस्य क्वथितस्य ॥ ३७ ॥
तथा विदार्याः क्षीरिकायाः स्वयंगुप्तायाश्च क्षीरेण पानम्॥३८॥
विदारी प्रसिद्धा तस्याः कन्दं, क्षीरिका = राजादनं, तस्याः फलानि, स्वयंगुप्ता = कपिकच्छुः, तस्या मूलं, क्षीरेण पानं क्वथितेन वृषत्वयोगः, असमासनिर्देशात् प्रत्येकं योगः॥ ३८ ॥
तथा प्रियालबीजानां मोरटाविदार्योश्च क्षीरेणैव ॥ ३९ ॥