भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

श्रीः

सुभाषितरत्नभाण्डागारम्

प्रथमं मङ्गलाचरणप्रकरणम्


परब्रह्म

अथ स्वस्थाय देवाय नित्याय हतपाप्मने । त्यक्तक्रम-
विभागाय चैतन्यज्योतिषे नमः ॥ १ ॥ दिक्कालाद्यनव-
च्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकमानाय नमः शा-
न्ताय तेजसे ॥ २ ॥ अनन्तनामधेयाय सर्वाकारविधायिने ।
समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ ३ ॥ कर्णिकादि-
ष्विव स्वर्णमर्णवादिष्विवोदकम् । भेदिश्वभेदि यत्तस्मै परस्मै
महसे नमः ॥ ४ ॥ नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ।
त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये ॥ ५ ॥ यथा तथापि यः
पूज्यो यत्र तत्रापि योऽर्चितः । योऽपि वा सोऽपि वा
योऽसौ देवस्तस्मै नमोऽस्तु मे ॥ ६ ॥ नमः स्वतन्त्रचिच्छक्ति-
मुद्रितस्वविभूतये । अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये
॥ ७ ॥ चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे । दुर्विज्ञेय-
रहस्याय युक्तैरप्यात्मने नमः ॥ ८ ॥ भवबीजाङ्कुरजलदा
रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो
जिनो वा नमस्तस्मै ॥ ९ ॥ नित्यं निरावृति निजानुभवैक-
मानमानन्दधाम जगदङ्कुरबीजमेकम् । दिग्देशकालक-
लनादिसमस्तहस्तमर्दासद्दिशतु शर्म महन्महो वः
॥ १० ॥ लोकत्रयस्थितिलयोदयकेलिकारः कायेण यो
हरिहरद्रुहिणत्वमेति । देवः स विश्वजनवाङ्मनसातिवृत्त-
शक्तिः शिव दिशतु शश्वदनश्वरं वः ॥ ११ ॥ सर्वः
किलायमवशः पुरुषाणुकर्मकायादिकारणगणो यदनु-
ग्रहेण । विश्वप्रपञ्चरचनाचतुरत्वमेति स त्रायता त्रि-
भुवनैकमहेश्वरो वः ॥ १२ ॥ मध्याह्नार्कमरीचिकास्विव
पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलो-
क्यमुन्मीलति । यत्तत्त्व विदुषा निमीलति पुनः स्रग्भोगि-
भोगोपमं सान्द्रानन्दमुपासहे तदमलं स्वात्मावबोधं महः
॥ १३ ॥ यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते
भासा यस्य जगद्विभाति सहजानन्दोज्ज्वलं यन्महः ।
शान्तं शाश्वतमक्रियं यमपुनर्भावाय भूतेश्वरं द्वैतध्वान्तम-
पास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम् ॥ १४ ॥ यः
सृष्टिस्थितिसंहृतीर्वितनुते ब्रह्मादिमूर्तिन्त्रिकैर्यस्याधीनतया
स्थितानि सदसत्कर्माण्यपि प्राणिनाम् । नित्येच्छाकृतिबुद्धि-
मानथ परो जीवात्परात्मा स्वय सोऽयं वो विदधातु पूर्ण-
मचिराच्चेतोगतं यद्भवेत् ॥ १५ ॥ शक्यं यन्न विशेषतो
निगदितुं प्रेम्णैव यच्चिन्तितं मृद्गङ्गीवदनेन्दुमण्डलमिव
स्वान्ते विधत्ते मुदम् । यन्मुग्धानयनान्तचेष्टितमिवीध्यक्षे-
ऽपि नो लक्षितं तत्तेजो विनयादमेन्दहृदयानन्दाय वन्दा-
महे ॥ १६ ॥ विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरे-
न्द्रोऽथवा भानुर्वा शशलक्षणोऽथ भगवान्बुद्धोऽथ सिद्धो-
ऽथवा । रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो यः
सर्वैः सह संस्मृतो गुणगणैस्तस्मै नमः सर्वदा ॥ १७ ॥
विश्वेशो वः स पायात्त्रिगुणैरुसचितवता योऽवलम्ब्यौऽनुवारं
विश्वैन्द्रीचीनसृष्टिस्थितिविलयमजः स्वच्छया निर्मितीते ।
यस्यैर्यत्तामतीत्य प्रभवति महिमा कोऽपि लोकव्यतीतस्त्यक्तो
यश्चश्वुरौरैरपि निपुणतमैर्वीक्षणादिक्रियासु ॥ १८ ॥ ब्रह्मा
दक्ष कुवेरो यमवरुणमरुद्वह्निश्चन्द्रेन्द्ररुद्राः शैला नद्यः


टिप्पणी (Footnotes)

१ नाशितकिल्विषाय१ ब्रह्माभिन्नतया तत्त्वेन अभावेषयीभर्वात
२ विधि२ खवाय्वादि-रूपतद्विन्नत्वेन भ्रमाविषयीभवति.
३ अविषयीकृता३ भ्रमेण गृहीतो मालया सर्पकाय इव.
४ प्रमाणम्४ निर्विनानन्दस्वरूपम्
५ आकाशे दृश्यमानगलजलायमानरश्मिसमूह, मृगतृष्णेति यावत्५ ब्रह्मात्मकज्ञानस्वरूपम्
६ तेज
७ निश्चलम्
८ पुनरुत्पत्यभावाय.
९ आनन्दम्
१० समीपेऽस्सेऽपि
११ बहु
१२ सत्त्वरजस्तमःसहायताम्
१३ वारंवारम्.
१४ चराचरनिष्ठम्
१५ सीमाम्.
१६ सकललोकातीतः
सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्

समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः। द्वीपा नक्षत्र-
ताराविबवसुमनयो व्योम भूरश्विनौ च सलीना यस्य सर्वे
वपुषि स भगवान् पातु वो विश्वरूपः ॥ १९ ॥


गणेशः

वन्दे वेन्दारुमन्दार$^{१}$मिन्दुभूषणनन्दनम् । अमन्दान-
न्दसन्दोहबन्धुरं$^{२}$ सिन्धुराननम्$^{३}$ ॥ १ ॥ आलम्बे जगदा-
लम्बे$^{४}$ हेरम्बचरणाम्बुजे । शुष्यन्ति यद्रजःस्पर्शात्सद्यः
प्रत्यूहवार्धयः$^{५}$ ॥ २ ॥ गजाननाय महसे प्रत्यूहतिमिर-
च्छिदे । अपारकरुणापूरतरङ्गितदृशे नमः ॥ ३ ॥ नमस्त-
स्मै गणेशाय यत्कण्ठः पुष्करायते$^{६}$ । मदामोघघनध्वानो$^{७}$
नीलकण्ठस्य ताण्डवे ॥ ४ ॥ अगजाननपद्मार्कं$^{८}$ गजाननम-
हर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे$^{९}$ ॥ ५ ॥
चलत्कर्णानिलोद्भूतसिन्दूरारुणिताम्बरः । जयत्यकालेऽपि
सृजन्सन्ध्यामिव गजाननः ॥ ६ ॥ एकदन्तद्युतिसितः शम्भोः
सूनुः श्रियेऽस्तु वः । विद्याकन्द इवोद्भिन्नवाङ्मनो-
हरः ॥ ७ ॥ अभिप्रेतार्थसिद्धयर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ ८ ॥ दुरितस-
मूहबलाहकपटलिसंहरणपवमानम् । शिवयोरङ्गाभरणं वन्दे
कचिद्गजाननं तेजः ॥ ९ ॥ अविरलविगलन्मदजलकपोल-
पालिनीलिनमधुपकुलः । उद्भिन्ननवश्मश्रुरणिरिव द्विपमुखो
जयति ॥ १० ॥ एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजोऽपि
पञ्चकर$^{१०}$ । जय षण्मुखनुत सचन्द्रगन्धमदौघतनुतनय$^{११}$
॥ ११ ॥ मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवद-
नम् । यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः ॥ १२ ॥
शिवयोः सुधाहारिद्रादीप्तिमतः सारभुजगत्यित्रोः । त्रिभुवन-
विघ्नध्वंसी करिकल्पः कश्चिदरुणिमा जयति ॥ १३ ॥
युगपत्स्वगण्डचुम्बनलोलौ$^{१२}$ पितरौ निरीक्ष्य हेरम्बः । तन्मु-
खमेलनकुतुकी स्वाननमपनीय परिहसन्नपायात् ॥ १४ ॥
हस्तपङ्कजनिविष्टमोदकव्याजसञ्च्रदशेषपुमर्थम् । नौमि
किंचिदवधूतितशुण्डादण्डकुण्डलितमण्डितगण्डम् ॥ १५ ॥
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । त-
न्नरं$^{१३}$ वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ १६ ॥
अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिक्मुखेषु । विक्षेप-
लीला करशीकराणां करोतु वः प्रीतिमभाननस्य ॥ १७ ॥
दन्ताग्रनिर्भिन्नहिमाचलोर्वीरन्ध्रोत्थिताहीन्द्रमणिप्रमौघे$^{१}$ ।
नागाननं स्तम्भधिया कपोलौ घर्षन्पितुर्भया हसितः पुनातु$^{२}$
॥ १८ ॥ दन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु
धुतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडा-
वदानमभिरराजमुखं नमामः ॥ १९ ॥ आनन्दमात्रमकरन्द-
मनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् । वेदान्त-
सूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि
॥ २० ॥ गण्डस्थलीगलदमन्दमदप्रवाहमाह्याङ्गिरेफमधुरस्वर-
दत्तकर्णः । हर्षादिवालसनिमीलितनेत्रयुग्मो विघ्नच्छिदे
भवतु भूतपतिर्गणेशः ॥ २१ ॥ लक्ष्मीं तनोतु सुतरा-
मितरानपेक्षमङ्घिद्वयं निगमशाखिशिखाप्रवालम् । हैरम्बम-
म्बुरुहडम्बरचौर्यनिघ्नं$^{३}$ विघ्नाद्रिभेदशतधार$^{४}$धुरंधरं नः ॥ २२ ॥
पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता
करेण । मूलावलग्नसितदन्तबिसार्ङ्कुरेण नालायितं तपनबिम्ब-
सरोरुहस्य ॥ २३ ॥ अविरलमदधाराधौतकुम्भः शरण्यः फणि-
वरवृतगात्रः सिद्धसाध्यादिवन्द्यः । त्रिभुवनजनविघ्नध्वान्त-
विध्वंसदक्षो वितरतु गजवक्त्रः सततं मङ्गलं वः ॥ २४ ॥
जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्वलिं बघ्नता स्रष्टुं वारि-
भवोद्भवेन भुवनं शेषेण धर्तुं धराम् । पार्वत्या महिषासुर-
प्रमथने सिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितये
पायात्स नागाननः ॥ २५ ॥ विध्वध्वान्तनिवारणैकतरणि-
र्विघ्नाटवीहव्यवाड्डिघ्न्यालकुलाभिमानगरुडो$^{५}$ विघ्नेभपञ्चा-
ननः । विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधौ वाडवो विघ्ना-
घौघघनप्रचण्डपवनो विघ्नेश्वरः पातु वः ॥ २६ ॥ उच्चैर्ब्र-
ह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः प्रेङ्खच्छृंगारिप-
क्षेप्रैतिभटविकटश्रोत्रतालाभिरामः$^{६}$ । देवः शभोरपत्यं भुजग-
पतितनुस्पर्धिवर्धिष्णुहस्तँस्त्रैलोक्याश्चर्यमूर्तिः$^{७}$ स जयति
जगतामीश्वरः कुञ्जरास्यः ॥ २७ ॥ दोर्योतद्दन्तखण्डः
सकलसुरगणाडम्बरेषु प्रचण्डः सिन्दूराकीर्णगण्डः प्रक-
टितविलसच्चारुचान्द्रीवखण्डः$^{८}$ । गण्डस्यान्तर्तैघेण्डः$^{९}$ खरहर-
तनयः कुण्डलीभूतशुण्डो$^{१०}$ विन्नानां कालदण्डः स भवतु
भवतां भूतये वक्रतुण्डः ॥ २८ ॥ विघ्नेशो वः स पाया-
द्विहतिषु जलधीन्पुष्कराग्रेण पीत्वा यस्मिंश्चुदृत्य तोयं व-
मति तदखिलं दृश्यते व्योम्नि देवैः । क्वाप्यम्भः क्वापि
विष्णुः क्वचन कमलभूः क्वाप्यनन्तः क्वचिच्छ्रीः क्वाप्यौर्वः$^{११}$


पादटिप्पण्यः (Left Footnotes):
१ भक्तजनकल्पवृक्षम् २ सुन्दरम् ३ गजाननम् ४ जगदाधारभूते ५ विघ्नसमुदा ६ मृदङ्गवदाचरति ७ निबिडध्वनि ८ पार्वती. ९ मोक्षभानेनवस्तुदातारम् १० गणेशम् ११ पार्वती गङ्गारूपमातृद्वयवत्वादित्यर्थ १२ शुण्डामदाय पञ्चकरत्वमित्यर्थ १३ अष्टमूर्तिर्महादेव १४ अमरै १५ चूर्णम् १६ हस्तितुल्य १७ कुम्भौ १८ विघ्न

पादटिप्पण्यः (Right Footnotes):
१ दन्ताग्रेण. २ हर्षितं ३ अधीनम् ४ वज्रम् ५ मङ्गणा. ६ मदेनेन. ७ अग्नि ८ तुल्यम् ९ आधुन्वन् १० गरुड ११ प्रतिस्पर्धी १२ शुण्डादण्ड. १३ अमरः १४ शुण्डाग्रेण १५ शेष १६ वाडवः.

गणेशः, सरस्वती, शिवः ३


[गणेशः]

कापि शैलाः क्वचन मणिगणाः कापि नक्रादिसत्त्वाः ॥२९॥
विघ्नेशःस्र्वैविघ्नान्परिहरतु स यत्कर्णतालादुदञ्चद्वायुध्याधूत-
कण्ठस्थल्युगलगलद्गूरिसिन्दूरपूरैः । आरुण्याद्वैतभावं
गतवति जगति कापि नो भाति भानुर्नैवासौ शीतभानु
क्वचिदपि नितरां भासते वा कृशानु ॥ ३० ॥ क्रोडं ता-
तस्य गच्छन्विशदबिसधिया शावकं शीतभानोराकर्षन्भाल-
वैश्वानरनिशितशिखारोचिषा तप्यमानः । गङ्गाम्भः पातु-
मिच्छुर्भुजगपतिफणात्फूत्कृतैर्दह्यमानो मात्रा संबोध्य नीतो
दुरितमपनयेद्धालवेषो गणेशः ॥ ३१ ॥ उच्चैरुत्ताण्ड
स्थल बहुलगलद्दानप्रमत्त-<sup></sup>फीतालीभ्रातगीतिश्रुतिविधृतिक-
लोन्मीलितार्थाक्षिपक्ष्मा । भक्तप्रत्यूहपृथ्वीरुहनि वहसमु-
न्मूलनोच्चैरुदञ्चच्छुण्डादण्डाय उग्रार्भक इभवदनो वः स
पायादपायात् ॥ ३२ ॥ कल्याणं वो विधत्तां करटमदधुनी-
लोलकल्लोलमालाखेलल्लोलम्बकोलाहलमुखरितदिक्कक्रवालान्तरालम् ।
म्ल वेतण्डरल सततमरिचलत्कर्णतालप्ररोह-
द्वाताङ्कराजिहीर्षार्दरविवृतफणाशृङ्गमूषाभुजङ्गम् ॥ ३३ ॥
यः सिन्धौ फेनराशिर्भुवि कुमुदवनं व्योम्नि नक्षत्रलक्ष्मीरथ्र्यो
मुक्तासमूहस्तुरुषु सुमनसो मानसे हंससङ्घः । श्रीकण्ठे
भूतिक्लेशः शिखरिषु मणयो दिक्षु नीहारपातः पाण्डुः शु-
ण्डाग्रजन्मा जयति गणपतेः शीकराणां विलासः ॥ ३४ ॥
सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारेर्बर्हिभ्रासैंन्नासा-
ग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि । गण्डोड्डीना-
लिमालासुखरितककुभैस्ताण्डवे शूलपाणेर्वैनायक्यश्चिरं वो
वदनविधूर्तयः पान्तु चीत्कारवत्यः ॥ ३५ ॥


सरस्वती

धातृश्रुत्युं<sup></sup>मुखीकण्ठरङ्गे<sup></sup>नाटकविहारिणीम् । नित्यं प्रगल्भ-
वाचालामुपतिष्ठे सरस्वतीम् ॥ १ ॥ सूक्ष्माय शुचये तस्मै
नमन्ने वाक्तत्त्वतन्तवे । विचित्रो यस्य विन्यासो विदधाति
जगत्पटम् ॥ २ ॥ तद्दिव्यमव्ययं धाम साग्स्वतमुपासहे ।
यत्प्रसादात्प्रलीयन्ते मोहान्धतमस<sup></sup>च्छटाः ॥ ३ ॥ पातु वो
निकष<sup>१९</sup>ग्रावा मतिहेम्नः सरस्वती । प्रां<sup>१०</sup>ज्ञेतरपरिच्छेदं वचसैव
करोति या ॥ ४ ॥ शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा<sup>२१</sup> सर्वदास्माकं संनिधिं संन्निधिं<sup>२२</sup> क्रियात् ॥ ५ ॥

करबदरसदृशमखिलं भुवनतलं यत्प्रसाद्तः<sup></sup> कवयः ।
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ ६ ॥
शरणं करवाणि शर्मदे ते चरणं वाणि चराचरोपजीव्यम् ।
करुणामैसृणै<sup></sup> कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम्
॥ ७ ॥ आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्ध-
सिन्धुम् । मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासन-
सुन्दरि त्वाम् ॥ ८ ॥ वचांसि वाचस्पतिमत्सरेण माराणि
लब्धुं ग्रहमण्डलीव । मुक्ताक्षमूत्रत्वमुपैति यस्याः सा
सप्रमादास्तु सरस्वती वः ॥ ९ ॥ ज्योतिसामो<sup></sup>रमलोच-
नगोचरं तज्जिह्वाङ्गुसद्गस मधुनः प्रवाहम् । दूरे त्वथ
पुलकबन्धि परं प्रपद्ये सास्वतं किमपि कामदुघं रहस्यम्
॥ १० ॥ तव करकमलस्था स्फाटिकीर्मे<sup></sup>क्षमाला<sup></sup> नखकिरण-
विभिन्ना दाडिमीबीजबुद्ध्या । प्रतिकलमनुकर्षन्<sup></sup> येन कीरो<sup></sup>
निषिद्धः स भवतु मम भूत्यै वाणि ते मन्दहासः ॥ ११ ॥
तमोगुणविनाशिनी सकलकालमुद्द्योतिनी धरातलविहारिणी
जैडसमाजविद्वेषिणी । केलानिधिसहायिनी लसदलोल-
सौदामिनी मदन्तरवलम्बिनी भवतु कापि कौदम्बिनी<sup>१२</sup>
॥ १२ ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्मा-
च्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मा पातु सर-
स्वती भगवती निःशेषजाड्यापहा ॥ १३ ॥


शिवः

नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरार-
म्भमूलस्तम्भाय शंभवे ॥ १ ॥ वामाङ्गीकृते<sup></sup>वैमाङ्गि
कुण्डलीकृतेैकुण्डलि । आविर्स्तु पुरो वस्तु भूतिभूत्येम्ब-
राम्बरम् ॥ २ ॥ निर्र्उपादानसंभारं<sup>१६</sup>मभित्तावेव तन्वते ।
जैर्गच्चित्रं<sup>१७</sup> नमस्तस्मै कलाश्लाघ्याय शूलिने ॥ ३ ॥ चन्द्रा-
ननार्धदेहाय चन्द्रांशुसितमूर्तये । चन्द्रार्कानलनेत्राय च-
न्द्रार्धशिरसे नमः ॥ ४ ॥ भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशु-
शीतगुः । जगन्त्यपि सदाऽपायाद्व्याख्यातैहोरः शिवः ॥ ५ ॥
पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता । पवर्ग रचिता
मूर्तिरपंवर्गप्रदास्तु वः ॥ ६ ॥ दिगम्बरनितम्बिन्याः किम-


[पादटिप्पण्यः]

१ बहु
२ भ्रमरसमुदाय
३ वृक्ष
४ गण्डस्थलम्
५ मदोदकस्रित्
६ पुरातनम्
७ गजश्रेष्ठ
८ ईषत्
९ अग्रभाग
१० हिमपातम्
११ शृङ्ग
१२ मयूर
१३ भयात
१४ फणा
१५ नृत्ये
१६ चालनम्
१७ चतुष्पथम्
१८ समूहा
१९ स्वर्णादिपरीक्षणशिला
२० पण्डितमूर्खयोर्भेदम्
२१ सर्वदात्री
२२ उत्तमनिधिम्

१ कुशाग्रबुद्धय
२ स्निग्धै
३ स्फटिकमयीम्
४ जपमालाम्
५ मिश्राम
६ प्रतिक्षणम्
७ शुक
८ समृद्धै
९ अज्ञानम्; पक्षे,-अन्धकार
१० मन्दबुद्धिः; पक्षे,-डल्योः सावर्ण्यात् जलम्
११ विद्वज्जन, पक्षे,-चन्द्र
१२ सरस्वती; पक्षे,-मेघमाला
१३ स्त्री
१४ सर्प
१५ दिगम्बरम्
१६ उपकरणम्; पक्षे,-तूलिकादिकम्
१७ संत्तिः; पक्षे,-समूह
१८ नानाकारम्, पक्षे,-आलेख्यम्
१९ चन्द्रकला; पक्षे,-आलेख्यक्रियाकौशलम्
२० मोक्ष-

सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्


म्बरविभूषणम् । इत्यम्बरहरः पायात्परीरम्भरः परो ॥ ७ ॥ ॐ नमः परमार्थैकरूपाय परमात्मने । स्वेच्छाव- भासितासत्यभेदभिन्नाय शंभवे ॥ ८ ॥ नमः शिवाय निः- शेषक्लेशप्रशमशालिने । त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने ॥ ९ ॥ समस्तलक्षणाद्योग एव यस्योपलक्षणम् । तस्मै नमोऽस्तु देवाय कस्मैचिदपि शंभवे ॥ १० ॥ ससारैकनि- मित्ताय ससारैकविरोधिने । नमः ससाररूपाय निःससाराय शंभवे ॥ ११ ॥ सदसत्त्वेन भावाना युक्ता या द्वितीयी स्थितिः । तामुलङ्घ्य तृतीयस्मै नमस्त्रिचाय शभवे ॥ १२ ॥ आसन्नाय सुदूराय गुह्याय प्रकटात्मनं । मुलमायातिदुर्गाय नमस्त्रिचाय शभवे ॥ १३ ॥ ससेवितभृगुतुङ्गं विद्योतित- वेदवेदाङ्गम् । परिनर्तितभवरङ्ग ममसिजमङ्गं समाश्रये लिङ्गम् ॥ १४ ॥ स जयति हिमकरलेखा चकास्ति य- स्योमयोत्सुकास्निहिता । नयनप्रदीपकज्जलजिघृक्षया रजत- शुक्तिरिव ॥ १५ ॥ पौ१णिग्रहे पुल२कितं वपुरैशं भूति३भू- षितं जयति । अङ्कुरित इव मनो४भूर्यस्मिन् भस्मावशेषोऽपि ॥ १६ ॥ मा वम सृणृणु विषमिदमिति सातङ्क पितामहे- नोक्तः । प्रातर्जयति सलज्जः कजलमलिनाधरः शभुः ॥ १७ ॥ जयति प्रियापदान्ते गरलमवै५र्यैकः खरारातिः । विषम६विशिखे विशन्चिव शरण गलबद्धकरवालः ॥ १८ ॥ संध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् । गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥ १९ ॥ प्रणयकुपितप्रियापदलाक्षासन्धानबन्धमधुरेन्दुः । तद्धलय- कनकनिकषग्रावग्रीवः शिवो जयति ॥ २० ॥ अहिभू- षणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः । दिग्वा सनोऽप्यखिलेशतं शशधरशेखर वन्दे ॥ २१ ॥ जयति जटाकिर्ञ्जल्कं गङ्गामधु मुण्डवलयबीजमयम । गलगर्लप- ङ्कसभवमम्भोरुहमानन शभोः ॥ २२ ॥ प्रतिबिम्बितगौरी- मुखविलोकोत्कम्पशिथिलकरगलितः । स्वेदभरपूर्यमाणः शंभोः सलिलाञ्जलिर्जयति ॥ २३ ॥ औदाय१० चापमंचलं कृत्वो११हीन गुण विषमै१२दृष्टिः । यश्चित्रे१३मैच्युतशरो र्लक्ष्य१४-

१मैभाङ्गीन्नमस्तस्मै ॥ २४ ॥ उप२हरण विमवाना सहरणं सकलदुरितजालस्य । उद्धरणं ससाराच्चरण वः श्रेयसेऽस्तु विश्वपतेः ॥ २५ ॥ आहतकुपितभवानीकृतकरमालादिब- न्धनव्यसनः । केलिकलाकल्हादौ देवो वः शकरः पायात् ॥ २६ ॥ मिक्षुकोऽपि सकलेप्सितदाता प्रेतभूमिनिलयोऽपि पवित्रः । भूतचित्रमपि योऽभयसत्री तं विचित्रचरितं शिव- मीडे ॥ २७ ॥ पाणिग्रहे पर्वतराजपुत्र्याः पादाम्बुज पाणि- सरोरुहाभ्याम् । अश्मानमारोपयतः स्मरारेर्मन्दस्मितं मङ्गलमातनोतु ॥ २८ ॥ पार्थस्थपृध्वीधरराजकन्याप्रकोप- विस्फूर्जुथु३कातस्स । नमोऽस्तु ते मातरिति प्रणामाः शि- वस्य सध्याविषया जयन्ति ॥ २९ ॥ क्व तिष्ठतस्ते पितरौ ममेवेत्यपर्णयोक्ते परिहासपूर्वम् । क वा ममेव श्वशुरौ तवेति तामीरयन् सस्मितमीश्वरोऽव्यात् ॥ ३० ॥ स पातु वो यस्य जटाकलापे स्थित. शशाङ्कः स्फुटहारगौरः । नीलोत्पला- नामिव नालपुञ्जे निद्रायमाणः शरदीव हसः ॥ ३१ ॥ जगत्सिसृक्षाप्रलयक्रियाविधौ प्रयत्नमुन्मेषनिमेषविभ्रमम् । वदन्ति यस्येक्षणलोलपक्ष्मणा पराय तस्मै परमेष्ठिने नमः ॥ ३२ ॥ वक्राणि पञ्च कुचयोः प्रतिबिम्बितानि दृष्ट्वा दशाननसमागमनभ्रमेण । भूयोऽपि शैलपरिवृत्तिभयेन गाढ- मालिङ्गितो गिरिजया गिरिशः पुनातु ॥ ३३ ॥ संध्या- नतौ नरपुरश्चितनोः सरोषमुत्सारिते गिरिजया निजपाणि- पद्मे । उत्सर्पिकङ्कणफणीन्द्रफणार्पणेन पूर्णोऽञ्जलिर्जयति बालमृगाङ्कमौलेः ॥ ३४ ॥ यस्याङ्कुरुगमविदः परिपूर्ण- शक्तेरशो कियत्यपि निविष्टममुं प्रपञ्चम् । तस्मै तमालरुचि- भासुरकंधरायं नारायणौसहचराय नमः शिवाय ॥ ३५ ॥ व्योम्नीव नीरदभरः सरसीव वीचिन्यूह. सहस्रमहसीव सुधांशुधाम । यस्मिन्निद जगदुदेति च लीयते च तच्छा- म्वं भवतु वैमवमृद्धये वः ॥ ३६ ॥ यः कन्दुकैरिव पुरं- दरपदसद्मपद्मापतिप्रभृतिभिः प्रचुरप्रमेयः । खेलत्यलङ्घ्य- महिमा स हिमाद्रिकन्याकान्तः कृतान्तदलनो लघयत्वघ वः ॥ ३७ ॥ मुक्तिर्हि नाम परमः पुरुषार्थ एकस्तामन्त- रायमययन्ति यदन्तरङ्गाः । कि भूयसा भवतु सैव सुधाम- यूखलेखाशिखामरणभक्तिरमङ्गुरा वः ॥ ३८ ॥ दिश्यात्स शीतकिरणाभरणः शिवं वो यस्योत्तमाङ्गम्रुवि विस्फुरदूर्मि- पक्षा । हंसीव निर्मलशशाङ्ककलामृणालकन्दार्थिनी सुर- सरिन्नभसः पपात ॥ ३९ ॥ श्रेयांसि वो दिशतु यस्य सि- ताभ्रशुभ्रा विभ्राजते सुरसरिद्वरमौलिमाला । ऊर्ध्वेक्षण- ज्वलनतापविलीयमानचन्द्रामृतप्रविततामृतवाहिनीव ॥४०॥


१ परिणये २ सजातपुलकम् ३ भस्मना शोभितम् ४ मदन ५ कण्ठाभूषणम् ६ मदने ७ आरम्भः ८ केसरः ९ त्रिलोचनो हिमाचल धनु, वासुकिं ज्याम्, विष्णु शर च विधाय त्रिपुरसुरं अघानेति प्रकृतोऽर्थ . चलनशून्यं धनु अहीनो धनुर्दण्डादन्यूनो गुण, विषमा लक्ष्यादन्यत्र निहिता दृष्टि न च्युतः शरो यस्य तथाविध', तथापि लक्ष्यमङ्ग इति विरोधाभास १० स्थिरम्, पक्षे,-पर्वतम् ११ गुणरहितम्; पक्षे,-अहीनमिति पदच्छेदे सर्पराज गुण कृत्वेत्यर्थ १२ असमदृक्; पक्षे,-त्रिलोचनत्वाद्दि-षमदृष्टिः १३ न च्युतः शरो यस्य; पक्षे,-अच्युतो विष्णुः स एव शरो यस्य १४ शरव्यम्; त्रिपुरमिरत्यर्थे..

१ बभञ्ज २ दातारम् ३ वज्रनिघोषः.

कुसुमशराविरासे शम्भुमध्याद्रिप्रीतिकृतवलयस्य क्षभाग- तस्यार्धमेकम् । निजमित्र शशिखण्ड याचमानस्य शम्भोर्भवतु सह विवाद कान्तया कौतुकाय ॥ ४१ ॥ कथयन् कथमेषा मेनया विप्रदत्ता शिव शिव गिरि- पुत्री त्र्यम्बकारातिकाय । इति वदति पुरभीमण्डले सिद्धिलौकन्यगकन्वग्देश पातु वः श्रीमहेशः ॥ ४२ ॥ प्ररूननयन मश्नमद् दुरफुरिताधर मुतनु शशिन. क्रिद्धा । कान्ति करोतु तनाननम् । कृतमननयै कोपोऽय ते मनस्बिनि वर्धतामिति गदितयाश्लिष्टो दे या शिवाय शिवो- ऽस्तु ।.॥ ४३ ॥ प्रणयकुपिता दृष्ट्वा देवीं ससभ्रमविस्मि- तस्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत् । नमितशि- रसो गङ्गातोके तया चरणाहताववतु भवतरुक्षसैतद्विल- क्षमवस्थितम् ॥ ४४ ॥ कस्त्वं शूली^१ मृगय भिषजं^२ नील- कण्ठः प्रियेऽहं केकामेकां कुरु पशुपतिर्नैव दृश्ये विषाणे^५ । स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवाया^७ गच्छाटव्या- मिति हतरचाः पातु वश्चन्द्रचूडः ॥ ४५ ॥ वन्दे देवं जलधिशरधिं देवनामार्थभौमं व्यासप्रष्टा भुवनविदिता यस्य वाहाधिवाहाः । मेघापेटी मुवनमेधरं पुँर्द्धकर पुँष्पवाटी शांटी- पालाः शंतमम्बुम्माश्र्चन्दतुदुर्मनोभूः ॥ ४६ ॥ दीव्य- न्मौलिन्त्रिदशपरिवृजीवनीयेन धाम्ना पश्यद्वाल वलभितकर प्राणता कङ्कणेन । वामार्डेन स्फुटमभिदधन्मान्मथी ब्रह्म- विद्यां जीयादोजस्त्रिपुरयुवतीपत्रवल्लीववित्रम् ॥ ४७ ॥ च्युताम्बिन्दोर्लेखा रतिकलहभग्नं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैरुतनया । अवोचद्य पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥ ४८ ॥ नमस्तुभ्य देवासुरमुकुटमाणिक्यकिरणप्रणाली- सभेदश्चञ्चितचरणाय स्मरजिते । महाकल्पस्वाहाकृतभुवन- चक्रेऽपि नयने निरोद्धु भूयस्तत्वसरमिव कामं हुतवते ॥ ४९ ॥ असोढा तत्कालोलसदसहभावस्य तपसः कथानां विश्रम्मेष्वपि च रसिकः शैलदुहितुः । प्रमोद वो दिश्यात्क- पटबटुवेषापनयने त्वराशैथिल्याभ्या युगपदभियुक्तः स्मरहरः ॥ ५० ॥ सहस्रास्यो नागः प्रभुरपि मतः पञ्चवदनः षडास्यो हन्तैकस्तनय इतरो वारणमुखः । सदा भैक्ष्य शश्व- त्प्रभवतु कथ वर्तनमिति श्वसन्त्या पार्वत्यामथ जयति शंभुः स्मितमुर ॥ ५१ ॥ मौनादस्तमितैव चाटुभणितिः स्रस्तै- कहस्ताद्व्रत दूरेऽप्यञ्जलिबन्धन प्रणमन स्तब्धार्धमूर्ध्नः कृतः । इत्थ सघटिनैकविभ्रंमहतया व्यंग्रो गिरिग्रामणी- र्जाया जातकृप जयत्यनु नयन्देवरिलोकीगुरु. ॥ ५२ ॥ यस्मिन्बुद्धुदसकरा इय बहुब्रह्माण्डखण्डा कचिद्भ्रान्ति कापि च सीकग इव विरिञ्चाद्याः स्फुरन्ति भ्रमात् । चिद्रूपा लहरीव विश्वजननी शक्तिः कचिद्द्योतते स्वान- न्दामृतनिर्भरं शिवमद्दापाथोनिधि त नुमः ॥ ५३ ॥ कल्पान्ते शमितत्रिविक्रैममँहाकङ्ङ्गालबद्धस्फुरच्छेषस्यूततृत्साँ- हपाणिनखरग्रोतादिकोलामिष । विश्वैकार्णवताविशेषसु- दितो तौ मत्स्यकूर्मावुभौ कर्षन्धीवरता गतः स्तुतु सँता मोह महाभैरव. ॥ ५४ ॥ भीतिर्नास्ति भुजगपुगवविषा- त्मीतिर्न चन्द्राभृतान्नाशौच हि कपालदामलुलनाच्छौचं न गङ्गाजलात् । नोद्वेगश्चितिमस्मना न च सुखं गौरीस्तना- लिङ्गनादात्मारामतया हिताहितसम. स्वस्थो हरः पातु व. ॥ ५५ ॥ वेदान्तेषु यमाहुरेकपुरुष व्याप्य स्थित रोदँसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणु स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥ ५६ ॥ आनन्दश्लथिताः समाधिषु मुखे^८ गौर्या विलासोल्लसा- सम्रान्ता क्षणमुद्गता क्षणमथ खैरा निजे वैकृते । कूर्ग- कृष्टशरासने मनसिजे दग्धे धृणाकूणितास्तत्कान्तारुदिते- ऽश्रूपूरतरलाः शंभोर्दश. पान्तु व. ॥ ५७ ॥ स्वैर्मानुः सुरवर्त्मनानुसरति त्रासाभिलाषादसाविन्दोरिन्दुमुखि प्रसेत किमुत श्रान्त्या भवत्या सुखम् । इत्थ नाथगिरा नभोर्पित- दृशो वक्त्रे भवान्या भृश मानिन्याः कृतचुम्बनस्स्निनयन- स्तादिष्टसिद्धये सताम् ॥ ५८ ॥ विष्णोरागमन निशम्य सहसा कृत्वा फणीन्द्रं गुँणं कौपीनं परिधाय चर्म करिणः शंभौ पुरो धावति । दृष्ट्वा विष्णुरथं सकम्पहृदयः सर्पो- ऽपतद्भुतले कैत्तिर्विस्खलिता हियानतमुखो नम्रो हरः पातु वः ॥ ५९ ॥ भक्षान्योरगफूत्कृतिस्फुटभवद्वालस्थवैश्वानर- ज्वालास्विन्नसुधांशुमण्डलगलत्पीयूषधारारस्रैः । संजिव- द्विपचर्मगर्जतमयभ्राम्यद्वृषाकर्षणव्यासक्तः सहसाद्रिजोपह- सितो नग्नो हर. पातु वः ॥ ६० ॥ एकोऽन्ते द्विसमन्नि-


१ त्रिशूली, पक्षे,-शूलरोगवान्
२ वैद्यम्
३ शिव., पक्षे,-मयूर..
४ मयूरवाणी
५ शृङ्गे
६ शिव, पक्षे,-छिन्नवृक्षप्रकाण्डम्
७ पार्वत्याः; पक्षे कोष्ट्याः
८ त्रिपुरसंहारे शरीकृतस्य विष्णोर्विभ्रान्तिस्थानत्वात्.
९ व्यासप्रमुखा.-
१० वाहनानाम्, वेदानामित्यर्थः. अधिवाहा वाहनाधिकृताः
११ सर्वभूषणत्वादित्यर्थः
१२ पातालम्
१३ आकाशम्
१४ पुष्पस्थानीयचन्द्रोद्गमाधारत्वात्.
१५ दिगम्बरत्वेन दिशामेव शाटीरूपत्वात्
१६ इन्द्रादयो दिक्पाला इत्यर्थं
१७ चन्दनस्थानीयमन्मसमन्वित्वात् मदनभस्मना शिवास्याङ्गानामनुलेपनस्य प्रसिद्धेः
१८ ओधः
१ शरीरम्
२ आकुल
३ वामन
४ अस्थिपञ्जर
५ वराह..
६ सता मोह स्तुतु खण्डयतु
७ द्यावापृथिव्यौ.
८ विकारे.
९ दयासकुञ्चिता
१० राहु
११ सूत्रम्
१२ गरुडम्.
१३ गजचर्म.

द्वादशात्माशुभिः ॥ ६१ ॥ लीलाद्यूतजिता कलाधर-

६ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्

लोचन इति ख्यातश्रुतिभिः स्तुतो वेदैः पञ्चमुखः षडानन- पिता सप्तर्षिभिर्वन्दितः । अष्टाङ्गो नवतुल्य आमरणे वासो दशाशा दधत्स्वैश्चैकादश सोऽवतान्न विजितो यो द्वादशात्माशुभिः ॥ ६१ ॥ लीलाद्यूतजिता कलाधर- कला मौलौ दृढं कीलिता स्वीकर्तुं युगमुन्नमय्य भुजयोर्वि- श्लेषमन्यस्तदा । पार्वत्याः कुचकुम्भपार्श्वयुगले सप्रेमदत्ते- क्षणः कालक्षेपणिमिन्दुमोचनविधौ देव स नो रक्षतु ॥ ६२ ॥ मृत्यालेपनभूषित प्रविलसन्नेत्राग्निदीपाङ्कुर कण्ठे पन्नगपुष्पदामसुभगो गङ्गाजलैः पूरित । ईषत्ताम्रज- टाग्रपल्लवयुतो न्यस्तो जगन्मण्डपे शम्भुर्मङ्गलकुम्भतामु- पगतो भूयात्सता श्रेयसे ॥ ६३॥ मल्लीमाल्यधिया सुधाकर- कला कण्ठश्रिय कजलभ्रान्त्या मालविलोचनानलशिखा सिन्दूरपूराशया । कैलासे प्रतिबिम्बितात्मवपुषो गृह्णन्ह- सन्त्या मुहुः पार्वत्या प्रतिकर्मकर्मणि चिर मुग्धो हरः पातु वः ॥ ६४ ॥ दास्येऽह परिंरम्भणानि कितव द्यूते जितानि त्वया वैर्य वेहि यतः कृतः शतमहोरात्राणि तत्रावधिः । इत्युक्तः शिवया निशादिवसकृज्ज्योतिर्मयाक्षिक्षयद्रागुन्मेष- निमेषकोटिघटनाव्यग्रो हर पातु वः॥ ६५॥ मौलौ कि नु महेश मानिनि जल कि वक्रमम्भोरुह कि नीलाळ कवेणिका मधुकरी की भ्रूलता वीचिका । कि नेत्रे शफरौ किमु स्तनयुग प्रेङ्खद्र्थाङ्कद्वय साशङ्कामिति वञ्चयन्गिरिसुता गङ्गाधरः पातु वः ॥ ६६ ॥ देव्याः प्रारिरम्भणे किल करौ द्वौ द्वौ पुनस्तत्करौ रोढुं तन्मुखमुन्मुख रचयितु द्वौ चाधरास्वादने । द्वौ नेत्रान्तपलालकापनयने मोक्तु च नीवी दृढा द्रावित्य मफलीकृताखिलकरः पायात्स वः श- करः ॥ ६७ ॥ न क्रोधः क्रियता प्रिये स तु भवन्मौलिस्य- गङ्गोदरे मुग्धे मानमपूजित त्यज कृत युष्मन्नियोगद्वयम् । वक्रे श्लेषमसु निराकुरु कदाश्लिष्टोऽसि वक्रे मया वामा- ञ्चेति हतोत्तरः स्मरहरः खेरानन पातु वः ॥ ६८ ॥ अङ्ग येन रथीकृत नयनयोर्युग्म रथाङ्गीकृत पत्र म्व रथ- कर्मसारथिकृत श्वासास्तुरगीकृताः । कोदण्डीकृतमात्मवीर्य- मचिरान्मौर्वीकृतं भूषण वामाङ्ग विशिखीकृत दिशतु नः क्षेम स धन्वी पुमान् ॥ ६९ ॥ नृत्यारम्भरसत्रसद्गिरिसुतारिक्तार्थ- संपूर्तये निर्व्युढभ्रमिविभ्रमाय जगतामीशाय तुभ्यं नमः । यच्चण्डामुनुजेश्वरप्रभृतिम्रिस्तादृग्भ्रमन्तीर्दिशः पश्यद्भिर्धन- घूर्णमाननयनैः शान्तोऽपि न श्रद्दधे ॥ ७० ॥ उद्दामभ्रमिवेग- विस्तृतजटावल्लीप्रणालीपतत्स्वर्गङ्गाजलैर्दण्डिकावलयित नि-

र्माय तत्पञ्जरम् । सन्नाम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हुसायि- तस्त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगन्नायताम् ॥ ७१ ॥ यन्नाट्यभ्रमिघूर्णमानवसुधाचक्राधिरूढे भृश मेरौ पार्श्वनिवा- सिवासरनिशाचित्रे परिभ्राम्यति । तैजस्यसदितो भवन्तु शतशो दृष्टा हि तास्ताः कथ तामसोऽपि स वः पुनातु जगतामन्त्येष्टियज्वा विभुः ॥ ७२ ॥ तत्कालौग्मटीविजृम्भ णपरिवासादिव भ्व्य्रता वामार्धेन तदैकशेषकरण बिभ्रद्वपु भैरवम् । तुल्य चास्थिभुजङ्गभूषणमसौ भोगीन्द्रकङ्कालकै- र्बिभ्राणः परमेश्वरो विजयते कल्पान्तकर्मान्तिकः ॥ ७३ ॥ चञ्चच्चन्द्रिकचन्द्रचारुकुसुभो माय्य जटापटवो टप्यत्तारुण- दन्दशूकमणिमास्तत्यक्षशाखालयः (१) । स्थाणुर्मे फलदो भव- त्वतितरा गोरीमुखेन्दुद्रवत्पीयूषद्रवदोहदादिव ढंप्रहेवद्रुमत्व सदा ॥ ७४ ॥ वक्राम्भोरुहि विस्मिता सवकिता वक्षो रुहि स्फारिताः श्रोणीसीमनि गुम्फिताश्चरणयोरक्ष्णोः पुननि स्रुता । पार्वत्या प्रतिगात्रचित्रगतयस्तन्वन्तु भद्राणि वो विद्बसान्तिकपुष्पसायकशरैरीशस्य दृग्भङ्गय ॥ ७५ ॥ शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चाविविसष्ठु लाखिलविविव्यासङ्गमङ्गाकुल । आ शेत्य तुहिनाच- लस्य करयोरित्युच्चिवान्सस्मित शैलान्त.पुरमत्रिमण्डल- गणैर्दृष्टोऽवताद्वः शिवः ॥ ७६ ॥ दिक्कालात्मसमैव यस्य विभुता यंस्तत्र विद्योतते येनामुष्य युधीभवन्ति किरणा राशेः ^१सें यैर्यामभूत् । ^२यैस्तैैर्वतैरैत्तैमुपु सु ^७योऽस्यै हविषे येय्स्यैस्य जीवांतवे वोढा यैहूर्णमेर्षै मन्मथरिपोस्ताः पान्तु नो मूर्तयः ॥ ७७ ॥ जीर्णेऽप्युत्कटकूटकालकूटगरले पुष्टे तथा मन्मथे नीते भासुरभालनेत्रनुता कल्पान्तदावानले । यः शक्त्या समलकृतोऽपि शशिन शैलात्मजा मूर्धनी धत्ते कौतुकराजनीतिनिपुण. पायात्स व. शकरः ॥ ७८ ॥ कि गोत्र किमु जीवन किमु धन का जन्मभूः कि वयः कि चारित्रममुष्य के सहचराः के वशजाः प्राक्तनाः । का माता जनकः शिवस्स क इति ^२१प्रैहेण पृथ्वीभृता पृष्टाः सस्मितनम्रमूकवदनाः सप्तर्षयः पान्तु वः ॥ ७९ ॥ तादृक्सप्तसमुद्रमुद्रितमहीभूभृद्भिरभ्रकषैः स्रोतोभि. परिवा- रिता दिशि दिशि द्वीपः समन्तादयम् । यस्य स्फारफणा- वलीमणिचये मज्जत्कलङ्काकृतिः शेष. सोऽयगमद्यदङ्गनपद तस्मै नमः शभवे ॥ ८० ॥ तारानायकशेखराय जगदा-


१ कुर्वन्निति शेषः २ अक्षद्यूतैः ३ चक्रवाक ४ आलिङ्गने ५ सर्पं ६ बाणीकृतम् ७ समाप्त ८ भ्रमणम् ९ जलस्य निर्गमनमार्गे मकरमुखादिरूपा १० दण्ड १ कर्बुरवर्ण २ तमोमया ३ नाश्यभेद ४ सर्व ५ दीयमानम् ६ आकाशस्य ७ सूर्ये. ८ चन्द्रे ९ सूर्यस्य १० चन्द्र ११ अपाम् १२ अनि . १३ अपाम् १४ शुचि रुदकम् १५ यजमान १६ अग्रे . १७ वायु . १८ यजमानस्य १९ पृथिव्या २० वायु २१ नभ्रेण २२ ईश्वराय

शिवः ७


धाराय धाराधरच्छायाधारकन्धराय गिरिजासङ्गैकभृङ्गा- रिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनाश्विने नागैः कङ्कणिने नगेन गृहिणे नाथाय नित्यं नतिः ॥ ८१ ॥

केयूरीकृतकङ्कणीकृतजटाजूटावतंसीकृतज्यावल्लीकृतकुण्डली- कृतकटीसूत्रीकृताहीश्वरः । पायाद्वस्त्रिलकीकृतप्रियतमाद्- र्शीकृताक्षीकृतचूतारम्भपणीकृतेन्दुशकलः कात्यायनीकामुकः ॥ ८२ ॥

कान्ता कामपि कामयत्यनुदिनं ध्यानापदेशादयं येनामु मुनयोऽप्यनादिनिधन ध्यायन्ति धौतस्पृहाः । इत्यङ्कात्स्वकरे हृते गिरिजया पादे च पद्मासनाद्विश्वं पातु पुरारिभद्रवपुषः शम्भोः समाधिव्ययः ॥ ८३ ॥

स्नात. स्वर्गतरङ्गिणीजलभरैर्नेत्रोत्पलेनाञ्चितः पार्वत्याः सितभूति- चन्दनचयैरालिप्तगात्रोज्ज्वलः । देवश्चन्द्रकलासितश्रुतिलको गौरीविवाहोत्सवारम्भे शैलकृतार्हणस्त्रिजगतामर्च्यो हरः पातु वः ॥ ८४ ॥

उत्सृष्ट्वा दिशमम्बर वरतर वासो वसानश्चिर हित्वा वासरस पुनः पितृवने कैलासहम्यश्रिय । त्यक्त्वा भस्म कृताङ्गरागनिश्चयः श्रीखण्डसारद्रवैर्देव पातु हिमाद्रिजापरिणय कृत्वा गृहस्थः शिवः ॥ ८५ ॥

क्रीडन्मन्दरकन्दरोदरज्वलन्मन्दारवृन्दावने क्रोधान्थान्ध- कटातटासुहरणे जृम्भत्त्रिशूलोद्गमः । त्रैलोक्याखिलसकटो- त्कटभयोद्वेलान्धकाराशुमान् पायाद्वस्त्रिपुरप्रमाथनपटुर्देवो हि पञ्चाननः ॥ ८६ ॥

गर्जद्भीमभुजङ्गभीषणफणाफूत्कारभी- तिप्रदः क्रीडत्प्रेतपिशाचराक्षसगणः प्रत्यक्षतः प्रान्ततः । भालस्थलप्रयानलोद्धटशिखः सक्रान्तसर्वास्पद. शार्दूलाजिन- भृद्भयानकभयो भूयाद्भवो भूतये ॥ ८७ ॥

गौरीचुम्बनच- ञ्चल परिचलद्गण्डप्रभामण्डल व्यावलग्गफणिकुण्डल रतिरस- प्रखिन्नगण्डस्थलम् । प्रौढप्रेमपरम्परापरिचयप्रोत्फुल्लनेत्राञ्चल शंभोरस्तु विभूतये हि भवतामुन्मत्तगङ्गं शिरः ॥ ८८ ॥

पाणौ कङ्कणमुत्फण फणिपतिर्नेत्रं लसत्यावकं कण्ठः कुण्ठित- कालकूटविषमो वस्त्र गजेन्द्राजिनम् । गौरीलोचनलो- भनाय सुभगो वेषो वरस्यास्ति मे गण्डोल्लासविभावितः पशुपतेर्हासोद्रमः पातु वः ॥ ८९ ॥

दिव्यं वारि कथं यतः सुरधुनी मौलौ कथ पावको दिव्य तद्धि विलोचनं कथम- हिर्दिव्यं स चाङ्गे तव । तस्माद्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यतामित्थं शैलभुवा विहस्य लपितः शम्भु. शिवायास्तु वः ॥ ९० ॥

श्रीकण्ठस्य सकृत्तिकात॑भरणी मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा वि- शाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालं- कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥ ९१ ॥


त्राता भीतिभृतां पतिश्श्रिदचिता क्लेश सतां शं- सता हन्ता भक्तिमता सतां स्वसमता कर्तापकर्ताऽसताम् । देवः सेवकभुक्तिमुक्तिरचनाभूर्भूभुवःस्वस्त्रयीनिर्माणस्थिति- संहृतिप्रकटितक्रीडो मृड. पातु वः ॥ ९२ ॥

एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता कि जटा हसः कि भजते जटां नहि शशी चन्द्रो जल सेवते । मुग्धे भूरिरिय कु- तोऽत्र सलिल भूतिस्तरंगायते यश्चैव विनिगृह्ते त्रिपथगां पायात्स व. शकर ॥ ९३ ॥

मातर्जीव किमेतदङ्गुलिपुटे तातेन गोपाय्यते वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् । मात्रैव प्रहिते गुहे विघटयत्याकृष्य स- ध्याञ्जलि शभोर्विन्नममाधिरुद्धरभसो हासोद्गम पातु वः ॥ ९४ ॥

सध्या यद्यनिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया । श्रीर्या तामृतमन्थने यदि हरि कस्माद्विषं भक्षित मा स्त्रीलंपट मा स्पृशेति गदितो गौर्या हरः पातु वः ॥ ९५ ॥

तावत्सप्त- समुद्रमुद्रितमही भूभृद्विरञ्चत्रपैलैस्तावाद्भिः परिवारिता पृथुतरैद्वीपैः समन्तादियम् । यस्य स्फारफणामणौ निल- यिनी तिर्यक्फणालकृतिः शेषः सोऽप्यगमद्वडङ्गदपदं रुद्राय तस्मै नमः ॥ ९६ ॥

चिन्ताचक्रिणि हन्त चक्रिणि भिया कुब्जासनेऽब्जासने नश्यद्धामनि तिग्मधामनि धृताशङ्के शशाङ्के भृगम् । अभ्यञ्चेतसि च प्रचेतसि शुचा तान्ते कृतान्ते च यो व्यग्रोऽभूत्कदुकालकूटकवलीकाराय पा- यात्स वः ॥ ९७ ॥

तात त्ताततात कथय हरकुलेऽलंकृते सप्रदाने तच्छ्रुत्वा चन्द्रमौलिनर्तमुखकमलो जातलज्जो ब- भूव । ब्रह्मावादीत्तदानी शृणुत हरकुल वेदकण्ठोय्रकण्ठो श्रीकण्ठान्नीलकण्ठः प्रहसितवदनः पातु वश्चन्द्रचूडः ॥९८॥

या¹ सृष्टिः स्रष्टुराद्या वहति विधिहुतं² या हविर्या च होत्री³ ये द्वे⁴ काल विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । याँ⁵- माहुः सर्वबीजप्रकृतिरिति यँ⁶या प्राणिनः प्राणवन्तः प्रत्यक्षोभिः⁷ प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीश. ॥ ९९ ॥

एकैश्वर्यस्थि- तोऽपि प्रणतबहुफलो यः स्वय कृत्तिवासाः कान्तासंस्रिश्र- देहोऽप्यविषयमनसा यः पुरस्ताद्यतीनाम् । अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्विभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपन- यतु म नस्तामसी वृत्तिमीशः ॥ १०० ॥

कैलामाद्रावुर्दस्ते⁸ परिचलति गणेशूल्लसत्कौतुकेषु क्रोड⁹ मातुः कुमारे विशति विष॑¹⁰र्मुचि प्रेक्षमाणे सरोषम् । पादावष्टम्भसीदद्वपुषि दशमुखे


१ पद्यविशेष
१ उदकरूपा २ अग्निरूपा ३ यजमानरूपा. ४ सूर्यचन्द्ररूपे ५ आकाशरूपा ६ पृथ्वोरूपा ७ वायुरूपा ८ उच्छिष्टे ९ भुजान्तरे. १० मर्षे

सुभाषितरत्नभाण्डागारम्

[ १ प्रकरणम्


याति पातालमूलं क्रुद्धोऽप्याश्लिष्टमूर्तिर्भयघनसुभया पातु दृष्टः शिवो नः ॥ १०१ ॥

क्रोधोद्दैर्दृष्टिपातैस्त्रिभिरुपशमिता वह्रयोऽमी त्रयोऽपि त्रासातर्ता ऋत्विजोऽधःश्वपलगणहतोष्णीषपट्टाः पतन्ति । दक्षः स्तौत्यस्य पत्नी विलपति कृपणं विद्रुत चापि देवैः शसन्नित्यात्तहासो मखमथनविधौ पातु देव्यै शिवो वः ॥ १०२ ॥

आसीने पूष्णि तूष्णीं व्यसनििन शशिनि व्योम्नि कृष्णे सतृष्णे दैत्येन्द्रे जातनिद्रे द्रवति मघवति क्लान्तकान्तौ कृतान्ते । अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये शान्त्युपाये पायाद्वः कालकूटं झटिति कवलयल्लीलया नीलकण्ठः ॥ १०३ ॥

केयं मूर्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्ते कान्ताप्यत्रास्ति काचिन्ननु भवतु मया पृष्टमेतावदेव । नाहं द्वन्द्वं करोमीत्यपनय शिरसस्तूर्णमेनामिदानीमित्थं प्रोक्तो भवान्या प्रतिवचनजितः पातु वश्चन्द्रचूडः ॥ १०४ ॥

धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारी पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्दैव्या निह्नोतुमिच्छोरिति सुरसरित शाठ्यमव्याद्विभोर्वः ॥ १०५ ॥

हर्षादम्भोजनन्मप्रभृतिदिविषदां संसदि प्रीतिमत्या श्वश्र्वा मौलौ पुरारेर्दुहितुपरिणये साक्षत चुम्ब्यमाने । तद्वक्त्रं मौलिवक्त्रे मिलितमिति भृशं वीक्ष्य चन्द्रः सहासो दृष्ट्वा तद्वृत्तमाशु स्मितसुभगमुखः पातु वः पञ्चवक्त्रः॥ १०६ ॥

कल्पान्तक्रूरकेलिः कृतकदनकरः कुन्दकर्पूरकान्तिः क्रीडन्कैलासकूटे कलितकुमुदिनीकामुकः कान्तकायः । कङ्कालक्रीडनोक्तः कलितकलकलः कालकालीकलत्रः कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापालिको नः ॥१०७॥

दृष्टः सप्रेम देव्या किमिदमिति भयात्सभ्रमाच्चासुरीभिः शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन । आदायास्त्रं सगर्वैरुपशमितवधूसंम्रमैर्दैत्यवीरै सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान् ॥१०८॥

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥१०९॥

कल्याणं वः क्रियासुर्मिलदैंटनियुगस्थार्णुगीर्वाणभोगिस्त्रणव्यत्यस्तकल्पद्रुमनवसुमनोनागहारावलीनि । नालीकाश्रिष्टलक्ष्मीकरतलकमलोद्वान्तमाँध्वीकधारातिम्यत्फौलेखनानि त्रिपुरहरधनुर्ज्यालताकर्षणानि ॥ ११० ॥

कल्पान्ते क्रोधनस त्रिपुरविजयिन क्रीडया संचरिष्णोः कृत्वापि प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः । दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्तिर्ग्रासन्यासक्तमोचश्रमजनितरुषः पान्तु वो गर्जितानि ॥ १११ ॥

पर्यङ्कग्रन्थिबन्धेस्त्रिगुणितभुजगाश्लेषसंवीतजानोरन्तरप्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य । आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शंभोर्वः पातु शून्येक्षणघटितलॅयब्रह्मलक्ष्म्यः समाधिः ॥ ११२ ॥

वृत्ताभिरूया हतार्या श्रितविविधगणा छन्दसा वर्णनीया याता सर्वादिमत्त्व सुरगणकलिता भासमत्त्वं दधानाम् । युक्तं स्थान नयन्ती लघुमपि सकल बिभ्रती मालयायान्त्यन्दे वार्धीभवर्णा धृतमुनियितिका स्रग्धरा शंभुमूर्तिम् ॥ ११३ ॥

देहार्धानङ्ककान्ताकचकसुमचयो भालनेत्रानलार्चिः पीनोष्मामौलिखेलन्मुखरसुरनदीनीररम्यो जगन्ति । स्फीतोत्तंसेन्दुकान्तिर्दरदहतिदढाच्छादनव्यक्तशीतः शंभूर्भूयात्त्रिकुन्दप्रकरपरिहृतः पातु सर्वर्तुमूर्तिः ॥ ११४ ॥

हेयोपादेयशून्यं मुनिगणमनसामद्वयानन्दहेतुः सेतुः संसारवारानिधिसुखतरणे श्रीमदीशमानसज्ञम् । प्रालेय ज्योतिरन्तःपरिणततिमिरव्यूहविच्छेददक्षं किंचिद्वाचामधीशं स्फुरतु मम हृदि त्र्यक्षरं विश्वसाक्षि ॥ ११५ ॥

शुद्धान्ते सीधुपानोन्मदमदनमदोन्मादमत्तालिकालीतालीसाड्यामानोद्भटरुजरवराडम्बरोल्लासिताङ्गः । नृत्यन्नग्रो विलजश्वलविकटतटैः संख्यैर्लोचनाधैर्र्धृष्टः स्त्रीभिः सहास प्रहसनमुदितः पातु वो वामदेवः ॥ ११६ ॥

बिभ्रत्पाथः कपर्दे सुरनगरनरीमिन्दुलेखा ललाटे नेत्रान्तः कालवह्नि गरलमपि गले व्याघ्रचर्माङ्गभागे । पश्चात्सो वै त्रिनेत्रो वृषभगतिरतिर्वामभागाधवामः सदिश्यात्संपद वः सह सकलगुणैरुद्धताकार ईशः ॥ ११७ ॥

राजा राजाचिताङ्गेर्रनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजार्ध न भसितधवल यद्वपुर्भूषयन्ति । मा रामारागिणी भून्मतिरिरिति यमिना येन वोऽदाहि मारः सप्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः ॥ ११८ ॥

एक दन्तच्छदस्य स्फुरति जयवशादर्थमन्यत्प्रकोपादेकः पाणिः प्रणन्तुः शिरसि कृतपदः क्षेसुमन्यस्तमेव । एक ध्यानान्निमीलत्यपरमविघहं वीक्षितु चक्षुरित्थ तुल्यानिच्छापि वामा तनुग्वतु स वो यस्य सध्यावसाने ॥ ११९ ॥


पादटिप्पणी (Footnotes)

[वामभागः / Left Column]: १ दक्षिणाग्निगाहैपत्याहवनीयाख्या. २ दीनस्वरेण ३ सर्वै ४ ब्रह्मणि ५ अन्धकरिपौ, पक्षे,-तमसि ६ ब्रह्मा ७ धनुष्कोटि ८ स्थिरतरम् ९ विष्णुरूप शर १० पुष्पस्रज ११ वह्नयात्मक तृतीयलोचनम्

[दक्षिणभागः / Right Column]: १ योगशास्त्रप्रसिद्धासनविशेष २ संधि ३ आवृत ४ निवृत्त ५ चक्षुरादीन्येकादशेन्द्रियाणि बुद्धिरहंकारश्चेति त्रयोदशविधम्. ६ प्रपञ्चाभाव ७ चित्तैकाग्रता

शिवः ९


जटाजूटः

स धूर्जटिजटाजूतो जायतां विजयाय वः। यत्रैकैकपलिताभ्रान्तिं करोत्यद्यापि जाह्नवी ॥१२०॥ चूड़ोपीडकपालसङ्कुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः। पान्तु त्वामकठोरकेतकशिखासंदिग्धमुग्धेन्दवो भूतैशस्य भुजगवल्लिवलयसङ्नद्धजूटा जटाः ॥१२१॥ गङ्गावारिभिरुक्षिताः फणिफणैरूत्पल्लवास्तच्छिखारत्नैः कोरकिताः सितांंशुकलया स्वैरैकपुष्पश्रियः । आनन्दाश्रुपरिप्लुताक्षितुमुगूधूमैर्मिलद्दोहदा नाल्प कल्पलताः फलं ददतु वोऽभीष्टं जटा धूर्जटेः ॥१२२॥

गङ्गा

पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतज्ञ्जननम् । हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत ॥१२३॥ इय चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरतिच शंभोरपि पदम् । पुनाना धुन्वाना निखिलमपि नानाविधमघं जगत्कृत्स्नं पायादनुदिनमपायात् सुरधुनी ॥१२४॥ चूडाशीतकरस्तनंधयसुधानीरैन्ध्रगन्यस्पृशः क्रीडाकङ्कणपन्नगेश्वरफणापीतावशिष्टा सुहुः। अङ्कासीनगिरीन्द्रजास्तनतटीहारावलीलोलनाः संतापं शमयन्तु वो हरजटागङ्गातुरङ्गानिलाः ॥१२५॥ वाते वाति यदङ्गसङ्गमवशाच्छ्रीशमुरूपप्रदे गौरी रुष्यति तुष्यति त्वहिपतिर्विन्ध्याटवी शोचति । चन्द्रश्चम्यति कुप्यते हरिरपि ब्रह्मा परं कम्पते सा गङ्गा निखिलं कलङ्कनिचय भङ्गं तरङ्गैर्र्नयेत् ॥१२६॥ शार्ङ्गी ब्रह्मकमण्डलोदधिगतैर्यैः प्रापि तीर्थाङ्गिता यैर्मृत्युंजयतामनायि गरलमस्तो जटाजूटगैः । येभ्योऽशिक्षित माधुरी मृदुजटाजूटे मठे चन्द्रमास्तानीमानि पयांसि गौतमि तव श्रेयांसि यच्छन्तु नः ॥१२७॥ यन्नाम्नः प्रथमाक्षरं विजयते मानौ द्वितीयाक्षरं नित्यं नृत्यति सत्कवीन्द्रवदने भूत्वान्त्यवर्णद्वयम् । रामो रावणमाजघान समरे शंभोः शिरःशालिनी सा सर्वाक्षरमालिनी भवतु मे भाग्याय भागीरथी ॥१२८॥ सुक्तम्भा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा वह्नौ लाजनिभा दृशोर्मणिनिभा भोगोत्तरे भोगिनाम् । नृत्यावर्तविवर्तनेरितपयःसम्पूर्च्छनोच्छालिताः खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः ॥ १२९ ॥ एषा धर्मपताकिनी तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी भगीरथतपःसाफल्यहेवाकिनी । प्रेमारूढपिनाकिनी गिरिसुतासाकेर्केरालोकिनी पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी ॥१३०॥ स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्चुच्छटामूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाहाय वः । भिन्द्या-

दुंंयदुदारदर्दुरदरीदीर्घादरिद्रद्रुमद्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ १३१ ॥ शैवालश्रेणिशोभां दधति हरजटावल्ल्यो हन्त यस्यास्तद्वासोल्लासवेल्लद्धरशफरतुला यत्र धत्ते कलावान् । उन्मीलद्द्रोगिभोगावनिसुभगसिताम्भोजसभाविताम्भा गङ्गानद्दारिसङ्गा महति तव विधौ मङ्गलांन्यातनोतु ॥ १३२ ॥ दृष्टासकृद्दाहाः श्रवणपथगताः पुण्यपुञ्जावगाहाः स्पृष्टाः संसारपाथोनिधिपतितधरोद्धारधुर्या वराहाः । पीतास्तापोपशान्तिप्रजननपटवस्ते सुधावारिवाहाः कल्याणं कल्पयन्ता कलिकलुषहरा विष्णुभक्त्याः प्रवाहाः ॥ १३३ ॥ तावत्कर्णांध्वयाता जनघनकलुषाधूनने गन्धवाहा दृष्टाः किं हन्यवाहाः सकृद्दघदहने स्वर्गंतौ पुण्यवाहाः । स्पृष्टाः संसारहाहाहवरकढुकमहाम्भोधिमध्ये वराहाः पीताः पीयूषधाराधिकतरमधुराः पान्तु गोदोदवाहाः ॥ १३४ ॥

शशिलेखा

पूर्णनखेन्दुद्विगुणितमञ्जीरा प्रेमशृङ्खला जयति । हरशशिलेखा गौरीचरणाङ्गुलिमध्यगुलफेषु ॥ १३५ ॥ जयति परिमृषितलक्ष्मा भयादनुपसर्पतेव हरिणेन । इह केसरिकरजाङ्कुरकुटिला हरमौलिविधुलेखा ॥१३६॥ श्रीकण्ठस्य कपर्दबन्धनपरिश्रान्तोरगग्रामणीसदृष्टा मुकुटावतंसककिका वन्दे कलामैन्यवीम् । या बिम्बप्रतिपूरणाय परितो निष्पीड्य ९सद्शिकायग्रेणेव ललाटलोचनशिखिज्वालाभिरावर्त्यते ॥१३७॥

लोचनम्

जयति ललाटकटाक्षः शशिमौलैः पक्ष्मलः प्रियाप्रणतौ । धनुषि शरेण निहितः सकण्टकः केतकेषुरिव ॥ १३८ ॥ अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्र स्वान्ते शान्तिप्रणयिनि समुन्मीलदानन्दसान्द्रम् । प्रेत्यग्ज्योतिर्जयति यमिनः स्पष्टलालाटनेत्रव्याजव्यक्तीकृतमिव जगद्व्यापि चन्द्रार्धमौलेः ॥ १३९ ॥ सानन्दा गणनायके सपुलका गौरीमुखाम्भोरुहे सक्रोधाः कुसुमायुधे सकरुणाः पादानते वज्रिणि । सस्मेरा गिरिजासखीषु सनयाः शैलाधिनाथे वह्नभूमीन्द्र प्रदिशन्तु शर्म विपुलं शम्भोः कटाक्षच्छटाः ॥ १४० ॥ एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारमारालसम् । अन्यद्दूरविकृष्टचापमदनक्रोधाम्लोदीपितां शभोर्भिन्नरस समाधिसमये नेत्रत्रय पातु वः ॥ १४१ ॥ पक्ष्मालीपिङ्गलिख्नः कण इव तदिता यस्य कृत्स्नः समूहो यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले काल्यज्व्या जुहाव । अर्चिर्निष्टसच्चूडा-


पादटिप्पण्यः (Left Footnotes): १ केशादौ जरसा यच्छौक्ल्यं तत्
२ तिर्यङ्नद्धमाला
३ निबिड
४ तिर्यग्दृष्ट्या
५ अनुपसदृश कश्चिन्नवादेरुपान्तदेशः
६ बलवान्
७ पङ्कि
८ नश्यत्
९ झटिति
२ सु. र. भा.

पादटिप्पण्यः (Right Footnotes): १ व्यक्तीभवन्
२ अक्षीणाम्; महतामित्यर्थ
३ सान्द्रस्निग्ध
४ मान्यम्
५ जटाजूट..
६ कर्तरीका
७ शान्तिमति
८ व्याप्तम्
९ अधोगामि

१०सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्

शशिगलितसुधाधोरण्याकारिकोर्णं तार्तीयं यत्पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥ १४२ ॥

कण्ठः

पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः । गौरी- भुजलता यत्र विद्युल्लेखेव राजते ॥ १४३ ॥ पातु वः शितिकण्ठस्य तमालश्यामलॊ गलः । ससक्तपार्वतीबाहु- सुवर्णनिकषोपलः ॥ १४४ ॥ कस्तूरीतिलकन्ति भाल- फलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालसु- कुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति कुच- योरत्से च कालागुरुश्वासन्ति प्रथयन्तु तास्तव शिव श्री- कण्ठकण्ठरुविषः ॥ १४५ ॥ कस्तूरीयन्ति भाले तदनु न- यनयोः कञ्जलीयन्ति कर्णप्रान्ते नीलोत्पलीयन्त्युरसि मर- कता लकृतीयन्ति देव्याः । रोमालीयन्ति नाभेरुपरि हरि- मणीमेखलीयन्ति मध्ये कल्याणं कुर्युरेते त्रिजगति पुरजि- त्कण्ठभासा विलासाः ॥ १४६ ॥

शिरोमालिका

पित्रोः पादाब्जसेवागतगिरितनयो$^{१}$पुत्र$^{२}$पत्रो$^{३}$तिभीतक्षुभ्य- द्भूषाभुजङ्गश्वसनगुरुमरुद्दीप्तनेत्राभितापात् । स्विद्यन्मौलेन्दु- खण्डस्स्रुतबहुलसुधासेकसञ्जातजीवा पूर्वाधीतं पठन्ती ह्यवतु विधिशिरोमालिका शूलिनो वः ॥ १४७ ॥

गणाः

संध्याताण्डवडम्बरप्रणयिनो देवस्य चण्डीपतेर्भ्रष्टापीड- विशीर्णमुण्डचयमन्वग्रा गणाः पान्तु वः । यैरुत्सुक्यवशी- कृतैर्ग्रहगणाह्राहौ गृहीते हठात्सूर्याचन्द्रमसोर्मिथः स्तित- वतोर्जातं करास्फालनम् ॥ १४८ ॥

नन्दी

कण्ठालकारघण्टाघणघणरणितैर्ध्मातरोदःकटाहः कण्ठे- कालाधिरोहोचितघर्न$^{५}$सुभगभावुकस्निग्धपृष्ठः । साक्षाद्धर्मो वपुष्मान् धवलककुदनिर्व्यूतकैलासकूटः कूटस्थो वः ककुद्मा- न्निबिडतरतमःस्तोमशून्यो वितृष्णैर्यातु ॥ १४९ ॥

ताण्डवम्

देवा दिक्पतयः प्रयातु परतः खं मुञ्चताम्भोमुचः पाताल व्रज मेदिनि प्रविशत क्षोणीतल भूधराः । ब्रह्मन्नु- ञ्चय दूरमात्मभुवनं नाथस्य नो नृत्यतः शम्भोः सकटमै- तदित्यवतु वः प्रोत्सारणा नन्दिनः ॥ १५० ॥ दोर्दण्ड- द्वयलीलया चलगिरिभ्राम्यच्चतुश्चैरवध्वानोद्धीतजगद्भ्रमत्पद- भरालोलत्फणाऽयोरगम् । भृङ्गापिङ्गजटाटवीपरिसरोद्- गोर्मिमालाचलच्चन्द्र चारु महेश्वरस्य भवता निःश्रेयसे ताण्डवम् ॥ १५१ ॥ संध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमिव्यन्त्युजद्दण्डमण्डलभुवो झञ्झानिलाः पान्तु वः । येषामुच्छलता जवेन झगिति व्यूहेषु भूमीभृतामुड्डी- नेषु बिडौजसा पुनरसौ दम्भोलिरालोकित ॥ १५२ ॥ यस्या मौलिमलित्वशुशुकलया सपूर्णबिम्बायित भालाव- स्थितलोचनेन सहमैवालातचक्रायितम् । आवर्तयितभा- गपर्दममरस्रोतस्वतीधारया पातु त्रीणि जगन्ति गण्डपशो सा ताण्डवाङ्गजभ्रमिः ॥ १५३ ॥ पादस्याविर्भवन्तीमवनति- मवने$^{३}$ रक्षतः स्वैरपाते सङ्कोचेनैव दोष्णां$^{४}$ मुहुग्गमनयतः सैवलोकातिगानाम् । दृष्टि लक्ष्येषु नोप्रा ज्वलनकणसुच बध्नतो दाहभीतेरित्याधारानुगेयास्त्रिपुरविजयिनः पातु वो दु खनृत्यम् ॥ १५४ ॥ मूर्ध्वव्याधूतगान्वनदमग्घुनी- लोलकल्लोलजालोद्धताम्मेःक्षोददम्भात्समममभिनभ दिसनद्ध- त्रलक्षम् । ऊर्ध्वन्यस्ताङ्घ्रिदण्डभ्रमिभवरभमोद्यन्नभस्वतत्प्रवेश- आन्तब्रह्माण्डखण्ड प्रवितरतु शिव शाम्भव ताण्डव वः ॥ १५५ ॥ शर्वाणीपाणितालेश्रलवलयझणत्कारिभिः श्ला- घ्यमान स्थाने सभाव्यमान पुलकितवपुषा शम्भुना प्रेक्षकेण । खेलत्पिंञ्छालि$^{१२}$ केकाकलकलकलित क्रौंचंच्छिद्भङ्गिना$^{१३}$ हेर- म्बोकाण्डैष्वृतार्तेर$^{१४}$लितमनमस्ताण्डव त्वा भिनोतु ॥ १५६ ॥ पायादायासखेदक्षुभितफणिफणारत्ननिर्यत्ननिर्यन्छायामाया पतङ्गद्युतिमुदितवियद्वाहिनीचक्रवाकम् । अश्रान्ताश्रान्तचूडा तुहिनकरककानीकनालीकनालच्छेदा मोदानुधावद्भ्रमिरिमव खगे धूर्जटेस्ताण्डव नः ॥ १५७ ॥ उच्चैरूत्तलखेलद्रुजवन- पवनोद्धूतशैलोधपातस्फारोदश्चत्पयोधिप्रकटितमुकुटस्खधुनी सगमनाि । जीयासुस्ताण्डवानि स्फुटविकटजटाकोटिसघट्टभू- रिश्रयन्नक्षन्त्रचक्रव्यधसितसुमनोवृष्टिपातानि शभो ॥ १५८ ॥ देवैस्त्रैगुण्यभेदात्स्रुजति वितनुते सहृत्य लोकांन्स्यैव व्यापिनीभिस्तनुभिरपि जगद्याप्तमष्टाभिरथ । वन्दो ना- स्येति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिनः शम्भोर्नृत्या- वतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः ॥ १५९ ॥ चक्र- देवेन्द्रकुट्यश्चलितदशदिशाकीर्णकोटीरकोट्यः सगायल्र्व्व- धूत्थः सरभसविनमत्सिद्धगन्धर्वधाट्यः । विश्रिष्यञ्चर्मपक्ष्यो विगलितशतपत्रान्नोधकरोट्यस्सृट्यत्कैलासत्वयस्त्रिपुरविज- यिनः पान्तु मामार्र्भट्यः ॥ १६० ॥

अर्धनारीश्वरः

मन्दारमालाकुलितालकायै कपालमालाङ्कितशेखराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ १६१ ॥ एकः स्तनस्तुङ्कतरः परस्य वार्त्तामिव


पादटिप्पण्यः (Footnotes):

वामभागःदक्षिणभागः
१ षडाननः१ इन्द्रेण
२ वाहनम्, मयूर इत्यर्थः२ वज्रम्
३ पूरित३ पृथ्व्या
४ द्यावापृथ्व्योः४ यथेष्ट क्षेपणे
५ शकर५ भतिक्रान्तचतुर्दशभुवनानाम्
६ सुभग भवतीति तत्६ आधारस्य पृथिव्याद्यरसुरथादनुमारात्
७ परिभूत७ कणाः
८ निश्चल, निर्विकारतया चिरजीवीत्यर्थः८ पार्वती
९ अज्ञाननिवह९ उचितम्
१० तृणसमूह१० वदेपङ्कय
११ खादतु११ पदानन
१२ मेषा१२ अकाले भवम्
१३ सानुनयननिर्देश१३ गर्जितम्
१४ क्षुब्धचेनसः, मेघनिर्दोषभ्रान्त्येति भावः
१५ अनायासम्
१६ सुरसरित्
१७ बाणः
१८ ताण्डवप्राचण्ड्यम्

शिवः, पार्वती


[शिवः]

यष्टमगाम्भूस्वाग्रम् । यस्याः प्रियार्थस्थितिमुद्वहन्त्याः
सा पातु व पर्वतराजपुत्री ॥ १६२ ॥ यस्योपवीत-
गुण एव फणावृत्तैकवक्षोरुहः कुंचपटीयति वामभागे ।
तस्मै ममास्तु तममामवमानसैम्यैः चन्द्रार्धमौलिशिरसे म-
हसे नमस्या ॥ १६३ ॥ स्वेदाद्ग्रेवामकुचमण्डनपत्रभङ्ग-
सशोषिदक्षिणकराङ्गुलिभस्मरेणु. । स्त्रीपुंनपुमकपदव्यति-
लङ्घिनी व शमोस्तनु. सुखयतु प्रकृतिश्चतुर्थी ॥ १६४ ॥
सभोगानतिरिच्यमानविभवो यद्विप्रलम्भो रसस्तद्दिव्यं मि-
थुन परस्परपरिस्तूत नमस्कुर्महे । एकस्या. प्रतिबिम्बसम्भृत-
विपर्यासे मुहुर्दर्पणे सव्याङ्गस्थितिकौतुक शमयति स्वामी
स यत्रापर. ॥ १६५ ॥ आश्लेषाधराविम्बचुम्बनसुगालाप-
स्मितान्याम्रता दूरे तावदिद मिथो न सुलभा जात सुखा-
लोकनम् । इत्थ व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः केय
प्रेमविडम्बनेत्यवतु वः खेरोऽध्नारीश्वर. ॥ १६६ ॥
स्वच्छन्दैकस्तनश्रीरुमथदलमिलन्मालिचन्द्र फणीन्द्रप्राची-
नावीतवाही सुखयतु भगवानर्धनारीश्वरो वः । यस्र्यार्धे
विश्वदाहव्यसनविस्नॅमरज्योतिर्धे कृपोद्यद्वाष्प चान्योन्य-
वेगप्रहतिसिमसिमाकारि चक्षुस्तृतीयम् ॥ १६७ ॥


पार्वती

हरकण्ठमहानन्दमीलिताक्षी नमाम्युमाम् । कालकूट-
विषस्पर्शजातपूर्च्छागममिव ॥ १ ॥ पार्वतीमोषधीमेका-
मपर्णा मृगयामहे । शूली हालाहल पीत्वा यया मृत्युञजयो-
ऽभवत् ॥ २ ॥ अपर्णेव लता सेव्या विद्वद्भिरिति मे मतिः ।
यया वृतः पुराणोऽपि स्थाणुः सूतेऽमृत फलम् ॥ ३ ॥
मृणालव्यालवलया वेणीबन्धकपर्दिनी । हरानुकारिणी पातु
लील या पार्वती जगत् ॥ ४ ॥ जन्मान्तरीणरमणस्याङ्गसङ्ग-
समुत्सुका । सलज्जा चान्तिके सख्या पातु न. पार्वती
सदा ॥ ५ ॥ तपस्वी का गतोऽवस्थामिति स्मेराननाविव ।
गिरिजाया. स्तनौ वन्दे भवभूतिसिताननौ ॥ ६ ॥ चिरमा-
विष्कृतप्रीतिर्मातयः पान्तु वो द्विषाम् । वलयज्वारवोन्मि-
श्राश्चण्ड्याः कोदण्डकृट्य ॥ ७ ॥ चण्डीजङ्घाकाण्ड. शिरसा
चरणस्पृशि प्रिये जयति । शर्करपर्यन्तजितो वीरंस्तम्भ.
स्मरस्येव ॥ ८ ॥ उत्तानलाभिपङ्करुह इव येनावभाति शभु-
रपि । जयति पुरुषायितायास्तदाननं शैलकन्यायाः ॥ ९ ॥

अङ्कनिल्रीनगजाननशेङ्कौकुलबाँहुलेयहँतवसनौ । ससितहर-
करकलितौ हिमगिरितनयास्तनौ जयत. ॥ १० ॥ कँण्ठो-
चितोऽपि हुङ्कृतिमात्रनिरस्तः पाँदान्तिके पतित. । यस्याश्च-
न्द्रशिख. स्मरमल्लनिभो जयति सा चण्डी ॥ ११ ॥ विरञ्चि-
नारायणवन्दनीयो मान विनेतु गिरिशोऽपि यस्या. । कृपा-
कटाक्षेण निरीक्षणाति व्यपेक्षते सावतु वो भवानी ॥ १२ ॥
शिरसि धृतसुरापगे खरारावरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री ।
अथ चरणयुगान्ते स्वकान्ते क्षितसरसा भवतोऽस्तु
भूतिहेतु ॥ १३ ॥ तद्व. प्रमाष्टु विपद प्रणतार्तिहृद्ध्या
न्यस्त पद महिषमूर्धनि चण्डिकाया. । वैरी यदीयन्खराशु-
परीतशृङ्ग. शक्रायुधाङ्कितनवाम्बुधरप्रभोऽभूत् ॥ १४ ॥
श्रुत्वा षडाननजनुर्मुदितान्तरेण पञ्चाननेन सहसा चतु-
राननाय । शार्दूलचर्म भुजगाभरण समक्ष दत्त नि-
शम्य गिरिजाहासित पुनातु ॥ १५ ॥ पञ्चासपञ्च-
दशनेत्रपिधानदक्षा दाक्षायणीमृदु्कराः कृतिनः पुनन्तु ।
द्वौ वल्लकी कथमकेति च वादयन्तावष्टादशोऽपि घटयन्स्तुति-
मौनमुद्राम् ॥ १६ ॥ आनन्दमन्थरपुरदरमुक्तमाल्यं मौलौ
हठेन निहित महिषासुरस्य । पादाम्बुज भवतु वो विजयाय
मञ्जु मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ १७ ॥ ब्रह्मादयो-
ऽपि यदपाङ्गतुरङ्गभङ्ग्या सृष्टिस्थितिमलयकारणता व्रजन्ति ।
लावण्यवारिनिधिवीचिपरिप्लुतायै तस्मै नमोऽस्तु सततं
हरवल्लभायै ॥ १८ ॥ ज्याकृष्टिर्बद्धखटकामुखपाणिपृष्ठप्रेङ्ख-
न्नखांशुचयसवलितोऽम्बिकायाः । त्वा पातु मञ्जरितपल्लवकर्ण-
पूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥ १९ ॥ पौलस्त्यपीनभुज-
सपदुकसमानकैलाससभ्रमविलोलदृशः प्रियायाः । श्रेयासि वो
दिशतु निहुतकोपचिह्ममालिङ्ग्नोत्पुलकमासितमिन्दुमौलेः
॥ २० ॥ दिश्यान्महासुरशिर.सरसीप्सितानि प्रेङ्खन्नखा-
वलिमयूखमृणालनालम् । चण्ड्याश्चलत्तदुलनूपुरचञ्चरीक-
झाकारहारि चरणाम्बुरुहद्वय वः ॥ २१ ॥ रचयति सहसा
यन्नित्रमेतत्प्रपञ्च प्रशमयति च तद्वत्केनाचित्कौतुकेन । अवि-
दितमपरैस्तच्चण्डमुण्डादिनानादनुजदलनदक्ष शर्वसर्वस्वम-
व्यात् ॥ २२ ॥ प्रचण्डचण्डमुण्डयोर्महावलैकखण्डिनी ह्यनेक-
रुण्डमुण्डयुग्रणे बलैकदायिनी । क्वचित्त्वशक्तिफारिणी रमावि-
लासदायिनी मुदेऽस्तु कालिका सदा समस्तपापहारिणी ॥२३॥


[पादटिप्पण्यः]

१ अङ्गीभवति
२ यक्षोपवीतम्
३ प्रसारी
४ पर्वतसम्बन्धिनीम्, पक्षे,-पर्वतपुत्रीम्
५ पर्णरहिताम्, पक्षे,-एतन्नाम्नीं पार्वतीम्
६ शूलरोगवान्, पक्षे,-त्रिशूलधारा
७ मृत्युनाशक, पक्षे,-एतन्नाम्ना प्रसिद्ध शिव
८ स्वत सुखविशेषजनकत्या तुच्छविषयपराङ्मुखस्याप्येतादृश्यावस्थापादनादिति भाव

१ स्तनयो कुम्भकुम्भसाम्यादिति भाव
२ कथ मा विद्यायैनमेव सगोप्य बहुकाल स्तन्य प्रयच्छतीति धियेति भाव.
३ कार्तिकेय
४ गजानननिर्णयार्थमिति भाव
५ आलिङ्गनाह्र्तोऽपि; पक्षे,-अर्धचन्द्राकारतया कण्ठलक्ष्ययोग्योऽपि
६ न तु करतर्जनादिना, पक्षे,-वाणादिना
७ प्रणामार्थमिति भाव, पक्षे,-वेगवशादिनि भाव
८ हस्तविन्यासविशेष
९ इन्दुमौले. प्रियाया. पार्वत्या:
१० शर्वस्य शिवस्य सर्वस्व पार्वतीरूपम्.

१२सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्
पुरारितनुहारिणी दुरितसङ्घसंहारिणी भजन्मतिविवर्धिनी<br>प्रबलदानवोन्मर्दिनी । तुषारगिरिनन्दिनी मुनिहृदन्तरा-<br>लम्बिनी कुमारमुखचुम्बिनी हरनितम्बिनी पातु वः ॥ २४ ॥<br>सत्त्वादिस्रैरगणितगुणैर्हन्त विश्वं प्रसूय व्यक्तं धत्ते प्रहसन-<br>करी या कुमारीति सज्ञाम् । मोहध्वान्तप्रसरविरतिर्विश्व-<br>मूर्ति समन्तादाद्या शक्ति स्फुरतु मम सा दीपवद्देह-<br>गेहे ॥ २५ ॥ औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना<br>ह्रिया तैस्तैर्बन्धुवधूर्जनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्ट्वा-<br>ऽग्रे वरमात्तसाध्वसरसा गौरी नवे सगमे सरोहत्पुलका<br>हरेण हसताश्लिष्टा शिवायास्तु वः ॥ २६ ॥ आदौ प्रेम-<br>कषायिता हरमुखव्यापारलोला शनैर्व्रीडाभारविधूर्णिता मुकु-<br>लिता धूमोद्गमव्याजत । पत्यु. सम्मिलिता दृशा सरभस-<br>व्यावर्तनव्याकुला पार्वत्या. परिणीतिमङ्गलविधौ दृष्टिरि-<br>शिवायास्तु व ॥ २७ ॥ प्रेत्यासन्न^१विवाहमङ्गलविधौ देवार्चन-<br>व्यग्रया दृष्ट्वाऽग्रे परिणेतुरेव^२ लिखिता गङ्गाधरस्याकृतिम् ।<br>उन्मादस्मितरोषलज्जितधिया गौर्या कथंचिच्चिराद्बुद्ध्वैव^३ वाचनाप्रिये^४<br>विनिहित. पुष्पाञ्जलि पातु वः ॥ २८ ॥ रोमा-<br>द्याचय^४ मेदिनीं धनपतेर्^५बीजं बलाल्लाङ्गल^६ प्रेतेशान्महिषं^७<br>तवास्ति वृषभ फाल^८ त्रिशूल तव । शक्ताऽह तव चान्न-<br>दानकरणे स्कन्दोऽस्ति^९ गोरक्षणे खिन्नाऽह हर भिक्षया<br>कुरु कृषिं गौरीवच. पातु वः ॥ २९ ॥ हे हेरम्ब किमम्ब<br>रोदिषि कथ कर्णौ लुठत्यर्भिमूः^१०. कि ते स्कन्द विचेष्टितं<br>मम पुरा सख्या कृता चक्षुषाम् । नैतत्तेऽप्युचित गजास्य<br>चरित नासा मिमीतेऽम्ब मे तावेव सहसा विलोक्य हसित-<br>व्यग्रा शिवा पातु व. ॥ ३० ॥ मातस्तातजटासु कि सुरसरि-<br>त्कि शेखरे चन्द्रमाः कि भाले हुतभुग्लुठत्युरसि कि नागाधिपः<br>कि कटौ । कृत्ति. कि जघनद्वयान्तरगत यद्दीर्घमालम्बते<br>श्रुत्वा पुत्रवचोऽम्बिका स्मितमुखी लज्जावती पातु वः ॥ ३१ ॥<br>धूमव्याकुलदृष्टिरिन्दुकिरणैराह्लादिताक्षी पुनः पश्यन्तीव<br>समुत्सुका नतमुखी भूयो ह्रिया ब्रह्मणः । सेर्ष्या पादनखेन्दु-<br>दर्पणगते गङ्गा दधाने हरे स्पर्शाङ्गुतुलका करग्रहविधौ गौरी<br>शिवायास्तु वः ॥३२॥ गोनासाय^११ नियोजितागदरजाः सर्पाय<br>बद्धौषधि. कण्ठस्थाय विषाय वीर्यमहत. पाणौ मणीन्बिभ्रती ।<br>भर्तुर्भूतगणाय गोत्रजैर्^१२ ऋती^१३निर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता<br>विवाहसमये प्रीता च भीता च व. ॥ ३३ ॥ खेदस्रन्दित-सान्द्रचन्दनचय दोर्वल्लिवन्धश्रमादूर्ध्वश्वासपरिखलत्स्मर-<br>कथं सद्दष्टदन्तच्छदम्^१ । सीत्काराञ्चित^२लोचन सपुलक भ्रा-<br>न्तभ्रू नृत्यत्कर पार्वत्या सुरतं मुदे रसबतामास्ता मृडानी-<br>पतेः ॥ ३४ ॥ खेदस्ते कथमीदृश प्रियतमे त्वन्नेत्रवह्नेर्विभो<br>कस्माद्वेपिपमेतदिन्दुवदने भोगीन्द्रभीतेस्तव । रोमाञ्चः^३ कथ-<br>मेष देवि भगवन्गङ्गाम्भसा सीकैरैरित्थ मर्तार भावगोपनपरा^४<br>गौरी चिर पातु व ॥ ३५ ॥ शम्पाकस्य रज. प्रमृज्य<br>चरणे दत्तो मया यौवको^५ निर्मूज्य स्तनकुङ्कशाले च भसित^६<br>पत्राङ्कुरो निर्मित. । स्वच्छन्द विहरेति जल्तिगिर सा-<br>कूतमालीजन दृष्ट्या केवलमाघ्नती कुटिलया दाक्षायणी<br>पातु व ॥ ३६ ॥ वक्र शीतकरोऽधरो घनरसँ^७. कामप्रदो<br>विग्रह^८. श्वासो गन्धवह. सेरोरुहसुहृत्पाणि^९ स्मिताभा<br>शुचि^१०. । वक्ष पीनैपयोर्धरोधिकरण^११ पृथ्वी नितम्बस्थलीत्यष्टौ^१२<br>धूर्जटिमूर्तयः स्मरमयाद्दुर्गाश्रिताः पान्तु वः ॥ ३७ ॥<br>पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रता शम्भो.<br>मस्पृहलोचनत्रयपथ यान्त्या तदाराधने । हीमत्या शिरैसी^१३-<br>हित. सपुलकस्वेदोद्गमोल्कम्पया विश्लिष्यन्कुसुमाञ्जलि-<br>र्गिरिजया क्षिप्तोऽन्तरे पातु व. ॥ ३८ ॥ कैलासालयभाल-<br>लोचनरुचा निर्वर्तितालक्तकव्यक्ति. पादनखद्युतिर्गिरिभुवः<br>सा व. सदा त्रायताम् । स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया<br>नेत्रयो कान्ति. कोकर्नदानुकारसरसा^१४ सद्यः समुत्सार्यते<br>॥ ३९ ॥ लग्नः केलिकचग्रहलथजटालम्बेन निद्रान्तरे<br>मुद्राङ्क. शितिकन्धरेन्दुकलेनान्तःकपोलस्थलम् । पार्वत्या<br>नखलक्ष्मशङ्कितसखीनम्रैस्मितव्रीडया प्रोन्मृष्टः करपल्लवेन<br>कुटिलाताम्रच्छविः पातु वः ॥ ४० ॥ सत्रीडा दयितानने<br>सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा<br>चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जह्नुसुतावरलोकनविधौ दीना<br>कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः<br>॥ ४१ ॥ भिक्षुः कास्ति बलेर्मखे पशुपतिः किं नास्त्यसौ<br>गोकुले मुग्धे पन्नगभूषण. सखि सदा शेते च तस्योपरि ।<br>आर्ये मुञ्च विषादैमाशु^१५ कमले नाहं प्रकृत्या चैला^१६ चेत्थं वै<br>गिरिजासमुद्रसुतयोः संभाषण पातु वः ॥ ४२ ॥ हे गङ्गा-<br>धरपन्नि चक्रिवधु कि कुत्रास्त्यसौ नर्तको वृन्दारण्यभुवि<br>क सर्पकुतुकी सात्कालियस हृदे । भिक्षु. कुत्र गतोऽस्ति

१ समीपवर्ती २ भर्तु ३ चित्तविभ्रम ४ परशुरामात् ५ कुबे-<br>रात् ६ बलभद्रात् ७ यमात् ८ कृषक ९ स्कन्द १० गोनासादि<br>सर्पभयनेवृत्त्यर्थ इत्यर्थ गोनास सर्पजातिविशेष ११ वृद्धा १२ याव-<br>ज्जीव कृततपस फलोन्मुखत्व समीक्ष्येत्यर्थ १३ भूतगणादिमाहित्या-<br>द्यालोक्येत्यर्थ१ चुम्बितावित्यर्थ २ निमीलित ३ रोमहर्षणम् ४ स्वाभिप्राय<br>५ लाक्षारस ६ भस्म ७ उदकम्, पक्षे,-अधिकरस ८ शरीरम्<br>यजमानरूपम् ९ कमलाना मित्रम्, सूर्य इत्यर्थ , पाणिपक्षे,-सरोरु-<br>हाना सदृशी कान्तिर्यस्य १० अग्नि ११ स्तनौ, पक्षे,-मेघाः<br>१२ स्थानम् आकाश मेघाना स्थानमिति प्रसिद्धम् १३ दृष्ट<br>१४ रक्तोत्पलम् १५ खेदम्, पक्षे,-विषमतीति विषादस्त शिवम्<br>१६ चञ्चला, पक्षे,-लक्ष्मी

पार्वती, षण्मुखः, हरिहरौ १३


यक्षसदने कासौ विषादी बकीक्रोडे स्यादिति पद्मजागिरि-
जयोर्वाग्भङ्ग्य पान्तु वः ॥ ४३ ॥ वेणीबन्धकपर्दिनी
सिततनु श्रीखण्डपासूत्करै. केतक्येकदलेन्दुभृद्धिसलतां
व्यालोपवीतिन्यपि । प्राक्पाणिग्रहणाद्विनोदरमसा सख्याः
पुरो लीलया कुर्वाणानुकृति हरस्य दिशतु श्रेयांसि वः
पार्वती ॥ ४४ ॥ यस्याङ्घ्रिद्वितय नमन्ति विबुधा. स त्वेककः
सर्ववित्त मृत्युञ्जयमामनन्ति मुनय सोऽद्यापि यातिन्नता•(१) ।
इत्याकर्ण्य कथा रहस्यपि यथा पत्युर्विवाहातुरा भङ्गक्त्या-
ज्ञानि विजृम्भित गिरिम्रुवो मोट्टायित पातु व. ॥ ४५ ॥
सन्ध्यारागवती स्वभावकुटिला गङ्गा द्विजिव्हः फणी वक्राङ्गैर-
र्मलिनः शशी कपिमुखो नन्दी च मूर्खो वृषः । इत्थ
दुर्जनसंकटे पतिगृहे वस्तव्यमेतत्कथं गौरीत्थ नृकपाल-
पाणिकमला चिन्तान्विता पातु वः ॥ ४६ ॥ भिक्षार्थी स क्व
यातः सुतनु बलिमखे ताण्डव क्वाद्य मन्द्रे मन्ये वृन्दा-
वनान्ते क्व नु स मृगशिशुर्नैव जाने वराहम् । बाले कच्चिन्न
दृष्टो जगठवृषपतिर्गोप एवास वेत्ता लीलासलाप इत्थ जल-
निधिहिमवत्कन्ययोस्त्रायता वः ॥ ४७ ॥ दीसक्षुद्वेगयोगा-
द्ददनलहुलहल्लमन्जिहाग्रलीढब्रह्माण्डक्षौद्रबिन्दुप्रबलतरभव-
जाठराग्निसफुलिङ्गाम् । कालीं कङ्कालशेपामतुलगलचल-
न्मुण्डमालाकरालीगुहासवादिनेत्रामजनिनिवसना नौमि
पाशासिहस्ताम् ॥ ४८ ॥ उद्धाहारोपिताद्रीक्षितनिजपदद्यो.
संगतामिन्दुमौलावानम्रे या सुधाशोर्व्यधित किल कला
तूर्णमेवान्नपूर्णीम् । सक्तानामक्षतानाममृतदृगनलोपाधित.
पक्कभावान्नानाथैरन्नपूर्णा प्रणतजनतते. पूर्णतामातनोतु
॥ ४९ ॥ जङ्घाकाण्डोरुनालो नखकिरणलसत्केसराली-
करालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापीसभूता-
म्भोजशोभा विदधदभिनमो दण्डपादो भवान्याः ॥ ५० ॥
विद्वेोणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के
शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे । वैकुण्ठे कुण्ठि-
तास्रे महिषमतिरुषं पौरुषोपघ्ननिघ्न निर्विघ्न निघ्नती वः शम-
यतु दुरितं भूरिभावा भवानी ॥ ५१ ॥ वक्ष.पीठे निरीक्ष्य
स्फटिकमणिशिलामण्डलस्वच्छभासि स्वां छायां साम्यसूया
त्वमियमिति मुहुः सत्यमाश्वासितापि । वामे मे दक्षिणेऽस्याः
श्रैवसि कुवलय नाहमित्यालपन्ती दत्ताश्लेषा सहासं मदन-
विजयिना पार्वती व. पुनातु ॥ ५२ ॥ रामार्चिताङ्घ्रिरभि-
रामाकृतिः कृतविरामा सुपर्वविपदा कामार्तिहृत्सफलकामा
निर्देशरतकामादिनिर्जरवधू. । भौमा हरस्य नुत्तभौमा जैपा-
सदृशभा माननीयचरिता सा मामवत्वखिलसामाहृतस्तुति-
रसामान्यमुक्तिसुखदा ॥ ५३ ॥ बॉलीयत्श्रवणपालीयुगा
ललितचूलीविराजिबकुला केलीगतानुगमरालीकुला मधुरम-
लीभिरागदतकथा । नौलीकढ्कसुमनालीकपाणिरिह काली-
यशासिसहजा तालीदलाभतनुमाली सदा भवतु काली
शुभाय मम सा ॥ ५४ ॥


षण्मुखः

शैलराजनतयास्तनयुग्मव्यापृताक्ष्ययुगलस्य गुहस्य ।
शेषवक्त्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु ॥ १ ॥
विकसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा य. सय-
माधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु
स कुमारो ब्रह्मचर्यश्रियं व. ॥ २ ॥ अचिष्मन्ति विदार्य
वक्त्रकुहराण्यासूक्तितो वासुकेरङ्गुल्या विषकर्बुरानगणयन्.
सस्पृश्य दन्ताङ्कुरान् । एक त्रीणि च सप्त पञ्च षडिति
प्रध्वस्तसंख्याक्रमा वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि
पुष्णन्तु वः ॥ ३ ॥


हरिहरौ

जाह्रवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ । कामारि
कामताता वा कचिदेव भजामहे ॥ १ ॥ गान्ङ्गायामुनयोगेन
तुल्यं हरिहर वपुः । पातु नाभिगत पद्मं यस्य तन्मध्यगं
यथा ॥ २ ॥ अंबलाढ्यविग्रहश्रीरैमैर्त्यनतिरैक्षमालयोपेतः ।
पञ्चैक्रमोदितमुखः पायातूँरैमेश्वरो मुहुर्नैनादि. ॥ ३ ॥ पन्नग-
धारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽम्प्रुज. । शशिखण्ड-
शेखर उमापरियहो सुहुरनादिरवतु त्वाम् ॥ ४ ॥ गवैश-
पत्रो नैरूँगातिहारी कॅमारतातः शैशिखण्डमौलिः । लॅङ्केश-


१ जीर्णे २ पलायिते ३ पौरुषोपघ्नानां पराक्रमिणा निघ्न आयत्त-
स्तम् ४ प्रभूतप्रभावा ५ प्रतिबिम्बम् ६ सेर्ध्या ७ कर्णे ८ दैत्यकृत-
देवविपत्तीनाम्
१ स्त्री २ क्रोधः असुरवधकालोत्पन्न इत्यर्थ ३ अरुणेल्यर्थः
४ कर्णभूषणविशेषः ५ केशपाश ६ सखीभि ७ कमलनयना.
८ पुष्पशरहस्ता ९ कालीय सर्पस्त शास्तीति स कृष्णस्तत्सहजा
भगिनी यशोदोदरे दुर्गाप्रादुर्भावस्य भागवते प्रसिद्धत्वात् १० पार्व-
त्यर्थाङ्गीकरणात्; पक्षे,-बलाढ्यो बलिष्ठ ११ देवसपूजित , पक्षे,-
मृत्युलोकसपूजितः तस्य रक्षणात् १२ अक्षमाला जपमाला; पक्षे,-
क्षमालय पृथ्वी १३ पञ्चानन ; पक्षे,-चक्रेण मोदित मुख यस्य स •
१४ परमेश्वर शिव, रमेश्वरो, विष्णु १५ न विद्यते आदित्यस्य
स॰, पक्षे,-आद्यवर्णरहित• १६ गवीशो वृषो वाहन यस्य, पक्षे'-
आद्याक्षरस्य लोपात् वीशो गरुडो वाहन यस्य १७ पार्वतीदु ख-
नाशक पक्षे,-गजेन्द्रपीडाहारक . १८ कार्तिकेयपिता, पक्षे,-मदन-
पिता १९ चन्द्र शिरसि यस्य, पक्षे,-मयूरपिच्छाति शिरसि यस्य
२० रावणपूजितचरणकमल , पक्षे,-को ब्रह्मा, ईश शिव , एताभ्यां
पूजितपादपद्म

१४सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्

सपूजितपादपद्मः पायादनादिः परमेश्वरो व ॥ ५ ॥ स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्तद्वपु वपुरेकं कामकसद्विषोर्वः । भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या सदृशमहसि कण्ठे यत्र सीमाविवाद ॥ ६ ॥ सप्राप्तं मकरध्वजेन मंथनं त्वत्तो मथं पुरा तद्युक्तं बहुमार्गगा मम पुरो निर्लज्ज वोढुस्तव । तामेवानुनयस्व-मावकुटिला हे कृष्ण कण्ठग्रहं मुञ्चेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स व ॥ ७ ॥ यौ तौ शङ्ककपालभूषितकरौ मालास्थिमालाधरौ देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ । द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ पापं वो हरता सदा हरिहरौ श्रीवत्सगङ्गाधरौ ॥ ८ ॥ लोले ब्रूहि कपालिकामिनि पिता कस्ते पतिः पाथसा कः प्रत्येति जलादपत्यजननं प्रत्येति यः प्रस्तरात् । इत्थं पर्वतसिन्धुराजसुतयोराकर्ण्य वाक्चातुरी सस्मेरस्य हरर्हरेस्स व मुदो निघ्नन्तु विघ्नं तु वः ॥ ९ ॥ यस्यादासीत्कुमारः कुवलयदलवल्लीलयोवाह गङ्गा वोमा यस्याङ्कसङ्गा पिहितजनचयो यो गवीशध्वजोऽपि । लङ्केशायैकनाथो हिमकररुचिभृद्विशेषाशयोऽसौ वर्णस्याद्यस्य लोपादपहरतु हरिः पातकं वः खरारिः ॥ १० ॥

त्रिमूर्तयः

नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ १ ॥ नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ २ ॥ रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नम ॥ ३ ॥ श्यामश्वेतारुणाङ्गा जलधरणिधरोत्फुल्लपङ्केरुहस्था मोमांसांविश्र्युपेता रथेचरणपिनाकोय्र्यहुकारशस्त्राः । देवा द्वित्र्यष्टनेत्रा जगदवनसमुच्छेदनेोत्पत्तिदक्षाः प्रीता वः पान्तु नित्यं हरिहरविधयस्तौक्ष्यगोेहसपत्राः ॥ ४ ॥

विष्णुः

नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे । विष्णवेऽपारसंसारपारोत्तरणसेतवे ॥ १ ॥ आदिमध्यान्तरहित देशौहीन पुरातनम् । अद्वितीयमह वन्दे मद्रक्षसदृशं हरिम् ॥ २ ॥ लक्ष्मीकपोलसक्रान्तकान्तपत्रलतोज्ज्वलाः । दोर्दुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः ॥ ३ ॥ जयति स भगवान्कृष्ण शेते यः शेषभोगशय्यायाम् । मध्येपय पयोधेरपर इवाम्भोनिधिः कृष्ण ॥ ४ ॥ अतिविपुल कुजयुगल रहसि करैरामृशन्मुहुर्लक्ष्म्‍याः । तदपहृत निजहृदय जयति हरिर्मुगयमाण इव ॥ ५ ॥ जयति स नाभिजंगता खनाभिरन्ध्रोद्भवज्जगद्बीजः । दामोदरो निजोदरगहरनिर्विष्टजगदण्ड ॥ ६ ॥ श्रीकरपिहित चक्षुः सुखयतु व पुण्डरीकनयनस्स । जघनमिवेक्षितुमौगतमब्जनिभ नाभिमैसुपिरेण ॥ ७ ॥ श्याम श्रीकुचकुङ्कुमपिञ्जरितमुरो मुरद्विषो जयति । दिनमुखनम इव कौस्तुभविभाकरो यद्विभूषयति ॥ ८ ॥ प्रतिबिम्बितप्रियातनु सकौस्तुभ जयति मधुभिदो वक्षः । पुरुपायितमभ्यस्यति लक्ष्मीर्दृक्ष्य सुंकुरमिव ॥ ९ ॥ केलिचलाङ्गुलिलेम्भितलक्ष्मीनाभिर्मुरद्विषश्वरणः । स जयति येन कृता श्रीरंनुरूपा पद्मनाभस्य ॥ १० ॥ रोमावली मुरारे श्रीवत्ससन्निवेशिताग्रभागा वः । उन्नालनीभनलिनच्छायायेवौतपमपहरतु ॥ ११ ॥ कमलाकुचफनकाचलजलधरमाभीरसुन्दरीमदनम् । अधिततशेषफणावलि(सु) कमलवनभृङ्गमच्युत वन्दे ॥ १२ ॥ जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम् । अम्बुधिमथनक्लेश कलयन्विफलं च सफलं च ॥ १३ ॥ श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्चैश्वरीकद्युतिमातनोति । नीलोत्पलश्यामलमदेहकान्तिः सर्वोऽस्तु भूत्यै भगवान्मुकुन्दः ॥ १४ ॥ वक्षस्यली रक्षतु सा जगन्ति जगत्यसूतेर्गुरुडध्वजस्य । श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहेङ्ग कॅर्षपट्टिकेव ॥ १५ ॥ वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्दुः । तवारविन्दाक्ष पदारविन्द वन्दे चतुर्वर्गतुतुष्पद तत् ॥ १६ ॥ जयत्युपेन्द्रः स चकार दूरतो विभित्सया यः क्षणलब्धलक्ष्यया । दृशैव कोपारुणया रिपोरुरः स्वय भयाद्विन्नमिवासपाटलम् ॥ १७ ॥ पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य । व्यक्तानुरागमिव खेलदनङ्गखेद-


पादटिप्पण्यः (Left Footnotes)

१ न विद्यते आदिर्यस्य स, पक्षे,-आद्याक्षरशून्य २ शिव, पक्षे,तविष्णु ३ शिवपक्षे मदनेन, विष्णुपक्षे समुद्रेण, ४ विनाश, पक्षे,-विलोठनम् ५ नदीम् गङ्गामित्यर्थ, पक्षे,-वेश्याम् कंसस्य कुब्जा दासीमित्यर्थे- ६ कृष्णकण्ठ नीलकण्ठ यह निर्बन्ध मुझ, पक्षे,- कृष्णकण्ठयह मलकण्ठमह मुझ ७ पाषाणात् पार्वत्या पर्वतगर्भ सजननत्वात् ८ स्त्री, पक्षे,-मा लक्ष्मी ९ चन्द्र, पक्षे,-मीन १० मा लक्ष्मी, उमा पार्वती ११ चक्रम् १२ गरुट १३ वक्षस्य प्रान्तभागस्य सूत्रवर्तिका

पादटिप्पण्यः (Right Footnotes)

१ लक्ष्मी २ रतारीतिवसनविहीनतया लज्जावशादिति भावः ३ पिहितेऽपि चक्षुर्गोलकेऽन्यमार्गेण पुण्डरीकनयनमुत्पादयित्वा जघनविलोफन कृतमित्यर्थ ४ रन्ध्रम् ५ रक्तीकृतम् दृढालिङ्गनादिति भाव ६ प्रात कालीननभस स्वतो नीलिमतात् ७ कौस्तुभमणिरैव सूर्यो यस्मिन् ८ विपरीतम् ९ दर्पणम् १० स्पष्ट ११ चरणरूप पद्मनाभित्वेनेति भाव १२ रोमावत्या नालच्छायायोत्प्रेक्षा श्रीवत्से च नलिनच्छायायोत्प्रेक्षा १३ महासतापम् १४ भृङ्ग १५ निष्कषग्रावा १६ सुरतायास

विष्णुः १५

स्वेदाम्बुपूरमनुपूरयतु प्रिय वः ॥ १८ ॥ श्रेय सदा दिशतु मालम्पक्षमपाते निद्रायिते अपि दृशौ भृशमुन्नमय्य । सवाह्यमानचरणाम्बुजजातहर्षो लक्ष्मीमुखेक्षणपर परमेश्वरो वः ॥ १९ ॥ मकरोभुवनवन्धोर्वैरमिन्दो सरोजैरुरुचितमिति मत्वा य म्याददारविन्दम् । घटयितुमिव मायी योजयत्याननेन्दौ वटदलपुटशायी मङ्गल व कृपीष्ट ॥ २० ॥ कचकुचचुचुकाग्रे पाणिषु व्याप्तृतेषु प्रथमजलधिपुत्रीसङ्गमेऽनङ्गधाम्नि । ग्रथितनिबिडनीवीबन्धनोर्मोचनार्थ चतुरविककराशः पातु वश्चक्रपाणि ॥ २१ ॥ विरमति महाकल्पे नाभीपयैकनिकेतनस्त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणमात्मभू । किमधिकरण कीदृक्क्स्य व्यविस्थितिरित्यमावुदरमविशद्बहु तस्मै जगन्निधये नम ॥ २२ ॥ लक्ष्मीपाणिद्वयविरचित मूलमूर्धश्रुतीना व्यक्त वन्दे चरणकमलद्वन्द्वमाद्यस्य पुस । यत्रैकस्य व्यधित बलिना पाद्यतोयैर्वितीर्णैरार्द्रस्यैव प्रणतितरल. क्षालन पद्मयोनि ॥ २३ ॥ अनादृतचमूपतिप्रहितहस्तमस्वीकृतप्रणीतमणिपादुक किमिति विस्मितान्तःपुरम् । अवाहनपरिक्रिय पतगराजमारोहतः करिप्रवरवृहिते भगवतस्त्वरार्थै नम. ॥ २४ ॥ दृक्पातः कैलासनेऽस्तु भवतो ज्ञान मनाव्यारुते श्रीकठोऽयमित सुरानिति नतास्ताश्चर्येण विज्ञापित. । प्रेयसा. क तदासन क च रुत कण्ठः क चेत्युलमलक्ष्म्यावासितमानसो विजयते सुसप्रबुद्धो हरि. ॥ २५ ॥ निर्मग्नेन मयाम्भसि स्मरशरालैः समालिङ्गिता केनालीकमिद तवाद्य कथित गधे सुधा ताम्यसि । इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शार्ङ्गिणमव्याज शिथिलीकृत कमलया कण्ठग्रहः पातु वः ॥ २६ ॥ य शैवा. समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटव. कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमासकाः सोऽय वो विदधातु वाञ्छितफल त्रैलोक्यनाथो हरिः ॥ २७ ॥ येनोत्थाप्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले राहुर्येन महाबलः सुररिपुः कार्यादशेषीकृत. । कृत्वा त्रीणि पदानि येन वसुधा बद्धो बलिर्लीलया सोऽय पातु युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः ॥ २८ ॥ मुग्धे मुञ्च विषादमत्र र्बलिमिक्कम्पो गुरुस्त्यज्यता सद्भाव भज पुण्डरीकनयने मान्यानिमान्मानय । इत्थ शिक्षयतः स्वयवरविधौ धन्वन्तरेर्वीकछलादन्यत्र प्रतिषेधमात्मनि विधि शृण्वन्हरिः पातु व ॥ २९ ॥ नाभीपद्मवसच्चतुर्मुखमुखोद्गीतस्तवाकर्णनप्रोनमीलत्कमनीयलोचनकलाखेलन्मुखेन्दुद्युति । सक्रोध मधुकैटभौ सकरुणस्नेहं सुतामम्बुधेः सोल्लासप्रणयं सरोजवसति पश्यन्हरि. पातु वः ॥ ३० ॥ निष्प्रत्यूहमुपासहे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । याभ्यामर्धविवोधमुग्धमधुरश्रीरर्थनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृता ॥ ३१ ॥ भक्तिप्रह्ववलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनता समाधिनिरतैर्नीतेहितप्राप्तये । लावण्यैकमहानिधी रसिकता लक्ष्मीदृशोस्तन्वती युष्माकं कुरुता भवार्तिशमन नेत्रे तनुर्वा हरे. ॥ ३२ ॥ चत्वारः प्रथयन्तु विद्रुमलतारक्ताङ्गुलिश्रेणय. श्रेय शोणसरोजकोरकरुचस्ते शार्ङ्गिणः पाणय । मालेष्वम्बुमुवो लिखन्ति युगपद्ये पुण्यवर्णावली. कस्तूरीमकरी पयोधरयुगे गण्डद्वये च श्रियः ॥ ३३ ॥ आकल्प मुरजिन्मुखेन्दुमथुरोन्मीलन्मरुन्माधुरीधीरोदात्तमनोहरः सुखयतु त्वा पाञ्चजन्यध्वनिः । लीलालङ्घितमेघनादविभवो य. कुम्भकर्णव्यथादायी दानवदन्तिना दशमुखं दिक्ष्वक्रमाक्रामति ॥ ३४ ॥ भ्राम्यन्मन्दरकन्दरोदरदरीव्यावर्तिभिर्वारिधेः कल्लोलैररमाकुलं कलयतो लक्ष्म्या मुखाम्भोरुहम् । औत्सुक्यात्तरलाक्षराद्विकसिता भीत्या समाकुञ्चिता. क्रोधेन ज्वलिता मुदा मुकुलिता शौरेर्दृशः पान्तु वः ॥ ३५ ॥ पर्यङ्कीकृतनागनायकफणाश्रेणीमणीना गणे ᶓसक्रान्तप्रतिबिम्बसवलनया बिभ्रद्वपुर्विक्रयाम् । पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षु. शतैः कैतव्यहृमिवाचरन्नुपचित्ताकूतो हरिः पातु व ॥ ३६ ॥ मन्थक्ष्माधरघूर्णिताणवपयःपूरान्तरालोल्लसलक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्सद्द्मनाः । हर्षोत्कण्टकितत्वचो मधुपिपोर्देवासुराकर्षणव्यापांरोपर्गांय पान्तु जगतोमाबद्धवीप्सा गिर ॥ ३७ ॥ चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्नापय भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया । को दैत्यः कतमो हिरण्यकशिपु. सत्य भवद्भाः शपे केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुख पातु वः ॥ ३८ ॥ प्रत्यग्रोन्मेषंजिह्म क्षणमनभिमुखी रब्नैदीपप्रभाणामात्मव्यापारगुर्वी जनितजलल्वा


पाद-टिप्पणी (Footnotes)

वाम-भागदक्षिण-भाग
१ ब्रह्मण्यि, पक्षे,-लक्ष्म्या आसने१ शङ्खस्य
२ वायौ, पक्षे,-लक्ष्म्या शब्दे२ भक्तिप्रह्लादिविशेषणानि नेत्रपक्षे तनुपक्षे च क्रमेण द्विवचनैकवचनान्तानि
३ शिव, पक्षे,-लक्ष्म्या कण्ठ.३ 'नीता ईहितप्राप्तये' इति तनुपक्षे छेद.
४ सखी४ पश्यत
५ असत्यम्५ अदत्तपरपुत्रिकाप्रानर्थत्वेन
६ कुप्यसि६ सबद्ध
७ खेदम्, पक्षे,-शिवम्७ बहुशरीरताम्-
८ वल भिनत्तीति तम्, पक्षे,-इन्द्रम्८ समृद्धकामभाव
९ बहु; पक्षे,-बृहस्पति९ उन्मीलनम्
१० सुष्ठुभावम्, पक्षे,-सद्भावेन१० कुटिला
११ कमलोचने, पक्षे,-विष्णो११ शेषशिरस्थानमित्यर्थे

१६ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्


जृम्भितैः साङ्गभङ्गैः । १ नौगाङ्क भोक्तुमिच्छोः शयनमुरु- फणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरे- दृष्टिरौ४केकरा वः ॥ ३९ ॥ श्रीराजीवाक्षवक्षःस्थलनिलय- रमाहस्तवास्तव्यलोलल्लीलाब्जाङ्घ्रि.सरन्ती मधुरमधुझरी नाभिपद्मे मुरारेः । २ अस्तोक लोकमात्रा द्विर्मुखमुखशिशोरा- ननेष्वर्ध्यमाण शङ्खप्रान्तेन दिव्य पय इति विबुधैः शङ्क्य- माना पुनातु ॥ ४० ॥ किंचिन्निर्मुच्यमाने गगन इव मुखे शाठ्यनिद्रापयोदैर्न्यकुर्वाणे स्वभासा फणिपतिशिरसा रत्नदीपांशुजालम् । पायास्ता वो मुरारेः शशितपनमये लोचने यद्विभासा लक्ष्म्या हस्तस्थमर्धं विकसति कमल- स्यार्धमभ्येति निद्राम् ॥ ४१ ॥ एकस्य जीवितेशे त्वयि सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन्वपुषि निवि- शते नाल्पपुण्यस्य पुंसः। कस्याप्यनामृतेऽस्मिन्प्रतिरतिविपुला दृष्टिरेवामृतं ते दैत्यैरित्युच्यमानो सुनिभिरपि हरिः ५ क्षैण- रूपोऽवताद्वः ॥४२॥ यस्योद्यद्वाणबाहुद्रुमगहनवनच्छेदगोष्ठी- कुठारं चक्र निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य । जातत्रासावसायो दिवसकृतितसन्मासलाशुप्रवाहे मुखत्य- द्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः ॥ ४३ ॥

शङ्खः

भिन्दन्नरातिहृदयानि हरेः पुनातु निःश्वासवातमुखरीकृत- कोटरो वः। सक्रान्तकुक्षिकुहरास्पदसप्तसिन्धुसघट्टघोरतरघोष इवाशु शङ्खः ॥ ४४ ॥ पायात्स वः कुमुदकुन्दमृणालगौरः शङ्खो हरेः करतनाम्बरपूर्णचन्द्रः । नादेन यस्य सुरशत्रुविला- सिनीना काञ्च्यो भवन्ति शिथिला जघनस्थलीषु ॥ ४५ ॥

चक्रम्

दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिरुद्भूतदुःसहमहःप्रसरा समन्तात् । तल्लोचनस्थिरविप्रतिबिम्बगर्भेवाभाति चक्रमरि- चक्रनुदेऽस्तु तद्वः ॥ ४६ ॥ उद्धृत्तदैत्यपृतनापतिकण्ठपीठ- च्छेदोच्छलद्बहलशोणितशोणधारम् । चक्र क्रियादभिमतानि हरेरुदारदिग्दाहदारुणनमःश्रियमुद्वहद्वः ॥ ४७ ॥

गरुडः

सौवर्णाङ्कितपत्रमारुतहताहिव्रातकान्ताकुचस्फूर्जन्मौक्ति- कभूषणः खगपतिः पूर्णेन्दुबिम्बानन । पद्माधीश्वरपादपद्म- युगलस्पर्शीमलाज्ञानतः पायाद्वो विनतासुतो हरिकृपा- लोकैकपात्रीकृतः ॥ ४८ ॥

शेषः

ब्रह्माण्डकुम्भकारं भुजगाकार जनार्दनं नौमि । स्फारे यत्फणचक्रे धरा शरावश्रिय वहति ॥ ४९ ॥


१ शेषनागक्रोडरूपम् २ बृहत् ३ मण्डलम् ४ ईषत्सङ्कुचिता ५ बहु. ६ ब्रह्मण


लक्ष्मीः

जयन्ति जगता मातुः स्तनकुङ्कुमबिन्दवः । मुकुन्दा- श्लेषसक्रान्तकौस्तुभश्रीविडम्बिनः ॥ १ ॥ पायादपयोधि- दुहितु कपोलामलचन्द्रमाः । यत्र सक्रान्तबिम्बेन हरिणा १ हरिणायितम् ॥ २ ॥ देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् । जयति सुरासुरहमिता लज्जाजिह्रेक्षणा लक्ष्मीः ॥ ३ ॥ तल्पीकृतैरहिरगणितगरुडो हाराभिहतविधि- र्जयति । फणशतपीतश्वासो रागान्धाया श्रिय. केलि. ॥ ४ ॥ खेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम् । जयति पुरुषाायितायाः कमलायाः कैटभीध्यानम् ॥ ५ ॥ कमलासनकमलेक्षणकमलारिकीरीटकमलभृद्वाहैः । नुतपद- कमला कमला करधृतकमला करोतु मे कमलम् ॥ ६ ॥ किञ्जल्कराजिरिव नील्सरोजलग्ना लेखेव काञ्चनमयी निक- षोपलस्था । सौदामिनी जलदमण्डलगामिनीव पायादुरःस्थ- लगता कमला मुरारेः ॥ ७ ॥ दन्तै कोरकिता स्मितै- र्विकसिता भ्रूविभ्रमै पत्रिता दोर्भ्यां पल्लविता नखैः कुसुमिता लीलाभरुद्भेदिता । उत्तुङ्गस्तनमण्डलेन फलिता मक्ताभि- लाषे हिता काचित्कल्पलता सुरासुरनुता पायात्सुधाब्धेः सुता ॥ ८ ॥ उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे- रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति । लज्जाव्याज- मुपेत्य नम्रवदना स्पष्ट मुरारेर्वपुः पश्यन्ती मुदिता मुदेऽस्तु भवता लक्ष्मीर्विवाहोत्सवे ॥ ९ ॥ आख्याते हसिते पिता- मह इति त्रस्त कपालीति च व्यावूत्तं गुरुरित्यथ दहन इत्याविष्कृता भीरुता । पौलोमीपतिरित्यसूयितमथ व्रीडा- विनम्राश्रिया पायाद्वः पुरुषोत्तमोऽयमिति यो न्यस्त स पुष्पा- ञ्जलिः ॥ १० ॥ क्रीडामिन्द्रहिरण्यशुक्तिकुहरे रक्तास्मनाव- स्थितान्हार हारसुदारकुङ्कुमरसान्व्याजन्मव्यान्नखै । वीर श्रीकुचकुम्भसीम्नि लिखतो वीरस्स पत्रावलीस्तत्कालोचित- भावबन्धमधुर मन्दस्मितं पातु वः ॥ ११ ॥ पद्मामाः स्तनेहमसञ्चनि मणिश्रेणीसमाकर्षके किचित्कञ्चुकसधिसनि- धिगते शौरे करे तस्करे । सद्यो जागृहि जागृहीति वलय- ध्वनैर्ध्रुवं गर्जता कामेन प्रतिबोधिताः प्रहरिका रोमा- ङ्कुराः पान्तु व ॥ १२ ॥ याहग्जानासि जाम्बूनदगिरि- शिखरे कान्तिरिन्दो. कलानामित्यौत्सुक्येन पत्यौ स्मितमधुर- मुखाम्भोरुह भाषमाणे । लीलादोलायमानश्रुतिकमलम- लङ्कङ्गसङ्गीतसाक्षी पायादम्भोधिजायाः कुसुमशरकलानाट्य- नान्दीनकार ॥ १३ ॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनाैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभार-


१ हरिण इवाचरितम्

ब्रह्मा, दशावताराः १७


मसे बहन्त्या । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतये
शौरिणा वः शय्यामालिङ्ग्य नीत वपुरलसलसद्बाहु लक्ष्म्याः
पुनातु ॥ १४ ॥

समुद्रः

वत्से मा गा विषादं श्वसनमुरुजव सत्यजोर्ध्वप्रवृत्तं
कंपः को वा गुरुस्ते किमिव बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यान सुराणामिति भयशमनच्छद्मना कारयित्वा यस्मै
लक्ष्मीमदात्तः स दहतु दुरित मन्थमूग्धः पयोधिः ॥ १५ ॥

ब्रह्मा

तं वन्दे पद्मसंभानमुपवीतच्छटाच्छलात् । गङ्गा स्रोत-
स्त्रयेणेव यं सदैव निषेवते ॥ १ ॥ कुलशैलदल पूर्णसुवर्ण-
गिरिकर्णिकम् । नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम्
॥२॥ कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः । घोरित-
विततालिरुतो नाभिसरोजे विधिर्जयति ॥ ३ ॥ अवि-
रताम्बुजसङ्गतिसगलद्वहलकेसरसवलितेव वः । ललित-
वस्तुविधानसुखोल्लसत्तणुरुहा तनूरात्मभुवोऽवतात् ॥ ४ ॥


दशावताराः

वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते दैत्यं दारयते
बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्य जयते हेलं कलयते
कारुण्यमातन्वते म्लेच्छान्मुर्च्छयते दशाकृतिकृते कृष्णाय
तुभ्यं नमः ॥ १ ॥ यस्यालीयत शैलैक्सिङ्घ्रि जलधिः पृष्ठे
जगन्मण्डलं दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी ।
क्रोधे क्षत्रगणः शरे दशमुखः पाणौ प्रलम्बासुरो ध्याने
विश्वमसैावधार्मिककुलं कस्मैचिदस्मै नमः ॥ २ ॥ पौठीनः
कमठः किटिर्नरहरिः खर्वाकृतिर्भार्गवो रामः कसनिसूदनो
दशबलः कल्की च नारायणः । युष्माकं स विभूतयेऽस्तु
भगवान्सेतुर्मवाम्भोनिधावुत्तराय युगे युगे युगपतिस्त्रैलोक्य-
नाथो हरिः ॥ ३ ॥ वेदा येन समुद्धृता वसुमती पृष्ठे
धृताप्युद्धता दैत्येशो नखरैर्हतः फणिपतेर्लोकं बलिः प्रापितः ।
क्ष्माऽक्षत्रा जगती दशास्यरहिता माता कृता रोहिणी हिंसा
दोषवती धराप्ययवना पायात्स नारायणः ॥ ४ ॥


मत्स्यः

मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दावन्तर्लीने
जलधिसलिले व्याकुले देवलोके । मात्स्यं रूप मुखपुटतटा-
कृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगत्तं वेत्यलक्ष्यं पुनातु
॥ ५ ॥ वियत्पुच्छोतुच्छोच्छलितजलगर्भे निधिरपामपानाथः
पौथः पृथुललवदैर्घ्यो वियदभूत् । निधिर्भासामौर्वो
दिनपतिरमूर्दोर्वदहनश्रलत्काये यस्मिन्स जयति हरिर्मीन-
वपुषा ॥ ६ ॥ जीयासुः शंकुलाकृतेर्भगवतः पुच्छ-
च्छटाच्छोटनादुर्घन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः
सैन्धवाः । यैर्व्यावृत्य पतद्भिरौर्वशिखिनैस्तेजोजटालं वपुः
पानीधमानवशाँदैरोचकरुजा चक्रे चिराँयौस्पदम् ॥ ७ ॥
दिश्याद्वः शकुलाकृतिः स भगवान्नैःश्रेयसीं संपदं यस्य
स्फूर्जत्पुच्छपुच्छशिखरम्रेङ्खोलैनक्रीडनैः । विश्वग्वार्धिसमु-
च्छलज्जलभरैर्मन्दाकिनीसगतैर्गङ्गासागरसंगमप्रणथिनी जाता
विहायःस्थली ॥ ८ ॥ मायामीनतनोस्तनोतु भवता
पुण्यानि पङ्कस्थितिः पुच्छाच्छोटरसँमुच्छलज्जलगुरुप्राग्भार-
रिक्तोदधेः । पातालावर्तमध्यसर्कटेटया पर्यस्तकम्थस्थितेर्वेदो-
द्धारपरायणस्य सततं नारायणस्य प्रभोः ॥ ९ ॥ जृम्भा-
विस्तृतवक्रपङ्कजविधेर्हत्वा श्रुतीः सागरे लीनं त्रस्तसमस्त-
नक्रनिकर शङ्खं जघाँनैजिरे । पुच्छोत्क्षिप्तजलोत्करैः प्रति-
दिशं २०सतर्प्य यो वै धरा पायाद्वः स मृणालकोमलतनु-
र्मानाभिधानो हरिः ॥ १० ॥ हहो मीनतनो हरे किमुदधौ
कि वेपसे शैत्यतः खिन्नः किं वडवानलात्पुलकितः कच्छा-
स्वभावादहम् । इत्थ सागरकन्यकामुखशशिश्यालोकनेना-
धिकप्रोधकामजचिह्ननिह्नुतिपरः शौरिः शिवायास्तु वः
॥ ११ ॥ पुच्छ चेदहमुन्नयाम्यनवधिस्तुच्छो भवेदम्बुधिः
क्रीडा चेत्कलये मनागपि जले पीडा पर यादसाम् ।
निस्पन्दो भृशमामृशन्निति भरब्रह्माण्डभाण्डक्षयोभाकुण्ठित-
वेष एष भगवान्प्रीणातु मीनाकृतिः ॥ १२ ॥ चन्द्रादित्यो-


पाद-टिप्पण्यः (Footnotes)

[वाम-भागः]
१ खेदम्; पक्षे,-दरम् २ श्वासम्, पक्षे,-पवनम् ३ महा-
वेगम् ४ क जल पातीति तथा वरुण ; पक्षे,-कम्प ५ महान्,
पक्षे,-बृहस्पति ६ बल प्रसिद्ध, तन्निदा नाशकेन, पक्षे,-बला-
ख्यदैत्यनाशकेनेन्द्रेण ७ श्रीकृष्णसंनिधौ ८ वर्जनम् ९ भयनि-
वारणव्याजेन १० लाङ्गलम् ११ धारयते १२ त्वक् १३ खङ्गे
१४ मत्स्य- १५ वराहः १६ बुद्धः
३ सु. र. भां.

[दक्षिण-भागः]
१ बहु २ उदकम् ३ विपुलः ४ दरिद्र ५ सूर्य ६ वडवा-
नल, यदा पानीय मीनाकृत्या भगवता स्वपुच्छेनेनोच्छलितम्, तदा
सर्वमपि सामुद्र जल वियति गतम् तत्र च रविर्व्रैतैत एव, स
वडवानलीकृत्या दृश्यत इत्यर्थ ७ समुद्रे पानीयाभावात्समुद्रस्या-
काशकल्पना तत्र च वाडवाग्ने सूर्योपमेति भाव ८ मत्स्याकृते ०
९ इतस्तत आलोडनम्. १० ऊर्ध्वं गच्छन्त ० ११ तेजोव्यासम्
१२ अग्निसयोगाभावः १३ अरुचिरोगाणाम्. १४ यो निदाघ
ज्वरादिगुग्गुकान्तो बहुपानीयँ पिबति, तस्य पश्चात्पानीयस्यरुचिर्जा-
यते तथैतस्य वाडवाग्नेरपीति भाव १५ दोला १६ आकाशस्थली.
यतः सागरजल मत्स्यपुच्छेनोच्छलित सुरनद्या सङ्गमवाप ततो
गङ्गासागरसगमतीर्थं नभस्यपि जज्ञ इति भाव १७ उछोलनम्.
१८ भूरन्ध्रम् १९ सकीर्णतया २० वेदान् २१ रणाङ्गणे.
२२ दत्वा २३ अपलपनम्

१८ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्


[वाम स्तम्भः]

रैनेत्रः केमलभवभवस्फारपृष्ठप्रतिष्ठो भास्वत्कालाग्निजिह्व पृथुलगलगुहादृष्टनिःशेषविश्वः । अद्भिः पुच्छोत्थिताभिश्चकितसुरवधुनेत्रसूचीभिराभिः सच्छिन्नान्धिर्बेलं गगनतलमलं क्षालयन्वः पुनातु ॥ १३ ॥ य दृष्ट्वा मीनरूप स्फुरदनलशिखायुक्तसरक्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलमूतवर्णम् । श्वासोच्छासानिलौधैः प्रचलितगगनं प्रीतवारि सुरारि दिङ्गूढोऽभूत्स शङ्खः स भवतु भवता भूतये मीनरूपः ॥ १४ ॥ दिङ्गूढ त सुरारि किल शितदशनैः पीड्यमान रटन्तं हत्वा तीरे पयोघेः करतलकलित पूरयामास शङ्खम् । नादेनाक्षोभ्य विश्व प्रमुदितविबुध त्रस्तदैत्य स देवैर्दत्तार्यः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः ॥१५॥

कूर्मः

निरवधि च निराश्रयं च यस्य स्थितमनिर्वर्तितकौतुकप्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवत्तिकन्दः ॥ १६ ॥ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठकण्डूयनक्षणसुखायितगाढनिद्रः । सुष्वाप दीर्घतरघर्घरघोरघोषः श्वासाभिभूतजलधिः कमठः स वोऽव्यात् ॥ १७ ॥ नमस्कुर्मः कूर्मे नमदमरकोटीरनिकरप्रसृन्माणिक्यच्छविविलितमाञ्जिष्ठवपुषम् । जरीजूम्मड्डिम्भेर्युगैमिरमणीयाशुलहरीपरीरम्भस्फूर्जद्गलभिदेपैलाद्रिप्रतिमटम् ॥ १८ ॥ निष्प्रत्यूहमल्पकल्पचरितस्त्रैलोक्यरक्षागुरुः क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दा मुदम् । कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः सलिलतृष्ठे यस्य बभूव सैकतकणच्छाय धरित्रीतलम् ॥ १९ ॥ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनैर्निद्रालोः कमठाकृतेर्भगवत श्वासानिला पान्तु वः । यैत्सत्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसा यातायातमत्तन्द्रित जलनिधेर्नाद्यापि विश्राम्यति ॥ २० ॥ दृष्ट्वा यस्य विलोकनाय जगतो द्रागीषदुत्तोलितग्रीवाग्रोपरि विस्फुरद्ग्रहगणे छात्राथिताया भुवि । हा धिग्भूः किमभूदभूत्कदितरत्किं चेति पर्याकुलो हन्याद्वेष हठादघानि कमठाधीशः कठोराणि वः ॥ २१ ॥ यो धत्ते शेषनागं तदनु वसुमतीं स्वर्गपातालयुक्तां युक्ता सर्वैः समुद्रैर्हिमगिरिकनकमस्थमुस्यैर्नगेन्द्रैः । एतद्ब्रह्माण्डमस्यामृतघटसदृश भाति वशे मुरारेः पायाद्वः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी ॥ २२ ॥

वराहः

नमस्तस्मै वराहाय हेलयोद्धरते महीम् । खुरमध्यगतो यस्य मेरुः खुरखुरयते ॥ २३ ॥ पातु वो मेदिनीदोला


[दक्षिण स्तम्भः]

बालेन्दुद्युतितस्करी । दंष्ट्रा महावराहस्य पात्यूलगृहदीपिका ॥ २४ ॥ हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः । हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ ॥ २५ ॥ स जयति महावराहो जलनिधिजठरे चिर निमग्नोऽपि । येनाग्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ २६ ॥ पातु वः कपटकोलकेशवो यस्य निःश्वसितमारुतोद्धता । उच्च्छितप्रपतनैरैचीकूपकेलिकेंदुकतुलामिला मुहु ॥ २७ ॥ मेरूरुकेसरमुदारदिगन्तपद्ममामूलबिम्बितशेपशरीरनालम् । येनोद्धृत कुवलय सलिलात्सलीलमुत्तसकार्थमिव पातु स वो वराह ॥ २८ ॥ न पङ्केरालेप कलयति धरित्रीव्ययभयान्न मुक्तामादत्तेऽप्युरगनगरअश्रभयतः । न धत्ते ब्रह्माण्डस्फुटनभयतो घर्घरखं महाक्रोडः पायादिति सकलसकोचितमुखः ॥ २९ ॥ न मृद्रीयान्मृद्वी कथमिव मही पोत्रनिकषैर्मुखाग्नज्वालाभिः कनकगिरिरीयान्न विलयम् । न शुष्येयुः श्वांसैः सलिलनिधयः सस च कथ वराहो यः पायादिति विपुलचिन्तापरिकरः ॥ ३० ॥ पातु त्रीणि जगन्ति संततमैंकुपातस्तमभ्युद्धरन्द्यात्रीं कोलकलेवरः स भगवद्वैकुण्ठदंष्ट्राङ्कुरे । कूर्मः कॅन्दति नैलति द्विरसनः र्पन्नन्ति दिग्दन्तिनो मेरुः क्रोशति मेदिनी जैलजति व्योमापि रोलैम्बति ॥ ३१ ॥ पातु श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवो वः स जगत्लैतिर्मधुवधूवक्त्राब्जचन्द्रोदयः । क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयान्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ ३२ ॥ दृप्यद्दैत्यनितम्बिनीजनमनःसंतोषसकोचनः कुर्याद्विश्वमनश्वर स भगवान् क्रोडावतारो हरिः । यद्दंष्ट्राङ्कुरैकटिकोटिरैर्रेंकुटीकोणान्तरस्थेयसी पृथ्वी भात्यैर्वदातकेतकदलालीनेव भृङ्गाङ्गना ॥ ३३ ॥ अर्था यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तः केसरजालमर्ककिरणा भृङ्गाः पयोदावली । नालं शेषमहोरगः प्रवितत् वारानिधेर्लीलया तद्द्वः पातु समुद्धरन्कुवलंयं क्रोडाकृतिः केशवः ॥ ३४॥ बिभ्राणोऽभिनवेन्दुकुंटिकुटिल दंष्ट्राङ्कुर लीलया क्रोडाकारधरो हरिः स भगवान्भूयाद्विभूतिप्रदः । यस्योत्क्षिप्तवतः


[पादटिप्पण्यः / Footnotes]

वामपादटिप्पणीदक्षिणपादटिप्पणी
१ गरिष्ठ१ वराह
२ ब्रह्मणो जातम्, ब्रह्माण्डमित्यर्थ२ अकरोत्
३ सबिस्मय दृष्टाभि३ यथा कन्दुक क्रीडया शिशुभिरुत्क्षिप्यतेऽपक्षिप्यते च, तथैव भूरपि श्वासवायुप्रेरितोध्र्वाध पतनेः कन्दुकतुला तुलयतीति भाव
४ व्याकुल४ यद्यह धरित्र्यां समुद्रे पङ्के लुंठियामि तदेय भूर्भ्रदपुष्येव विलय यास्यतीति विचार्य
५ तीक्ष्णदन्तै५ समुद्रात्
६ वादयामास६ कन्द इवाचरति
७ अवस्थानम्७ नालमिवाचरति
८ मुकुट८ पत्राणीवाचरन्ति
९ लोहितम्९ कोरक इवाचरन्ति
१० अतिशयेन विकसन्१० कमलमिवाचरति
११ तरुण११ भ्रमर इवाचरति
१२ सूर्य१२ यथा चन्द्रोदयेऽब्जानि संकोचमाप्नुवन्ति तथा हररुदयान्मधुवधूवक्राम्भोरुहानि नि श्रीकाण्यभवन्निति भाव
१३ इन्द्रनीलपर्वतसदृशम्१३ अग्रम्
१४ आकुञ्चनप्रसारणादि१४ निःक्षुब्धभवनम्
१५ पृष्ठ इति शेष१५ उज्ज्वलम्
१६ तदुपरि१६ पृथ्वीमण्डलम्; पक्षे, नलिनम्.
१७ पृष्ठवंशे.

दशावताराः १९


क्षमाकमलिनीमालम्बमानः क्षण लोलद्बालमृणालनालतुलना<br>मेजे भुजङ्गेश्वरः ॥ ३५ ॥ मुक्तेर्यास्यति कुत्रचिद्वसुमती<br>दष्ट्राङ्कुरस्थेयसी कुक्षौ क्षोभमवाप्स्यति त्रिभुवनं रुद्धैरमीभिः<br>क्रमात् । इत्यस्वल्पविकल्पमीलितमतेः कण्ठे लुठन्तो मुहुः<br>क्रोडाकारधरस्य कैटभजितः श्वासानिलाः पान्तु वः ॥ ३६ ॥<br>भूयादेष सता हिताय भगवान्कोलावतारो हरिः सिन्धोः<br>क्लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुवः । तारा हारति<br>वारिदस्तिलकति क्ष्मावाहिनी माल्यति क्रीडादर्पणति क्षपा-<br>पतिरहर्देवश्च ताटङ्कति ॥ ३७ ॥ लीने श्रोत्रैकदेशे नभसि<br>नयनयोस्तेजसि क्वापि नष्टे श्वासग्रासोपमुक्ते मरुति जल-<br>निधौ पादरन्ध्रार्धपीते । पोत्रेभ्रान्तैकरोमान्तरविवरगता<br>मार्गतश्चक्रपाणे. क्रोडाकारस्य पृथ्वीमकलितविभवं वैभवं वः<br>पुनातु ॥ ३८ ॥ सिन्धुष्वङ्गावगाहः खुरविवरविशत्तुच्छ-<br>तोयेषु नाशः प्राप्ताः पातालपङ्के न लुटितरुचयः पोत्रमात्रोप-<br>योगात् । दष्ट्राविष्टेषु नास. शिखरिषु च पुनः स्कन्धकण्डू-<br>विनोदो येनोद्धारे धरित्र्याः स जयति विभुताविभ्रितेच्छो<br>वराहः ॥ ३९ ॥ केदानीं दर्पितास्ते धनमदमदिरामोदिनो<br>दिग्द्विपेन्द्रा हे मेरो मन्दराद्रे मलय हिमगिरे साधु वः<br>क्षमाधरत्वम् । शेष श्लाघ्योऽसि दीर्घैः पृथुभुवनभरोच्चण्ड-<br>शौण्डैः शिरोभिः शसन्सोत्प्रासमुपैरिति धरणिभृतः पातु<br>युष्मान्वराह. ॥ ४० ॥<br>नृसिंहः<br>सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये । नमस्त्रिभुवने-<br>शाय हरये सिंहरूपिणे ॥ ४१ ॥ शत्रोः प्राणानिलाः<br>पञ्च वयं दश जयोऽत्र कः । इति कोपादिवाताम्राः<br>पान्तु वो नृहरेर्नखाः ॥ ४२ ॥ प्रोज्ज्वलज्ज्वलनज्वालावि-<br>तोरुसटाच्छटः । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी<br>॥ ४३ ॥ व्याधूतकसरसटाविकरा लवक्त्रं हस्ताग्रविस्फुरितश-<br>ङ्गगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारा-<br>यण तमपि विश्वसृज नमामि ॥ ४४ ॥ दैत्यास्थिपञ्जरवि-<br>दारणलब्धरन्ध्ररक्ताम्बुनिर्जरसरिद्वनजातपङ्काः । बालेन्दु-<br>कोटिकुटिलाः शुकचक्षुभासा रक्षन्तु सिंहवपुषो नखरा<br>हरेर्वः ॥ ४५ ॥ दिश्यात्सुख नरहरिर्मुवनैकवीरो यस्याहवे<br>दितिसुतोद्दलनेद्यतस । क्रोधोद्धत मुखमवेक्षितुमक्षमत्व<br>जानेऽभवन्निजमुखेष्वपि यन्नतास्ते ॥ ४६ ॥ वपुर्दैर्लेनसञ्चै-<br>मात्खनखरं प्रविष्टे रिपौ क्व यात इति विस्मयात्प्रहित-<br>लोचनः सर्वत. । वृथेति करताडनान्निपतितं पुरो दानव<br>निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः ॥ ४७ ॥<br>चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते धगद्धगितिमेदसि स्फुटरवोऽस्थिनि छागिति । पुनातु भवतो हरेरमर-<br>वैरिवक्षःस्थलङ्कणत्करंजपञ्जरक्रकचकाषजन्मानलः ॥ ४८ ॥<br>ससत्वरमितस्ततस्ततैर्विहस्तहस्ताटवीनिकृत्तसुरशत्रुहृत्क्षतज-<br>सिक्तवक्षःस्थलः । स्फुरद्गरभस्तिभिः स्र्थगितसँससतिद्युति<br>समस्तनिर्गमस्तुतो नृहरिरस्तु नः स्वस्तये ॥ ४९ ॥ चञ्च-<br>च्चण्डनखाय्रमर्दविगलद्दैत्येन्द्रवक्षःक्षरद्रक्तौघ्यक्तसुपाटलोद्गट-<br>सटासभ्रान्तभीमाननः । तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्ग-<br>खर्वीभवद्विष्मात्तङ्कनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः<br>॥ ५० ॥ दंष्ट्रासङ्कटैवक्रकन्दरललज्जिह्वस्य हव्याननज्वाला-<br>भासुरभूरिकेसरसटाभारस्य दैत्यद्रुहः । व्यावलगद्वलवद्विरण्य-<br>कशिपुक्रोडैक्षैलास्फालनस्फारप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः<br>पान्तु वः ॥ ५१ ॥ सोमार्धायितनिष्पिधानदशनः सध्द्या-<br>यितान्तर्मुखो बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।<br>अन्तर्नादतिरोघपीवरगलखैकैपुनिर्यत्तडित्कारस्फारसटावरुद्ध-<br>गगनः पायान्नृसिंहः स वः ॥ ५२ ॥ विद्युच्चक्रकरालकेसर-<br>सटाभारस्य दैत्यद्रुहः शोणन्नेत्रहुताशडम्बरभृतः सिंहाकृतेः<br>शार्ङ्गिणः । विस्फूर्जद्गलगर्जितर्जितककुम्मातङ्गदर्पोदयः<br>संरम्भाः सुखयन्तु वः खरनखक्षुण्णद्विषद्वक्षसः ॥ ५३ ॥<br>दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टामनि स्फारीभूत-<br>करालकेसरसटासघातघोराकृतेः । सक्रोधं च सवि-<br>स्मय च सगुरुक्रीड च सान्तःस्मितं क्रीडाकेसरिणो<br>हरेर्विजयते तत्कालमालोकितम् ॥ ५४ ॥ किं ^(१५)किं ^(१६)सिंह-<br>स्ततः किं नरसदशवपुर्देव चित्र गृहीतो नैतादृक्कापि<br>जीवोऽद्भुतमुपनय मे देव सप्ताप्त एषः । चाप चापं न<br>चापित्यहहहहहहा कर्कशत्वं नखानामित्थं दैत्येन्द्रवक्षः-<br>खरनखमुखरैर्लभिवान्यः स वोऽव्यात् ॥ ५५ ॥ भूयः कण्ठा-<br>वधूतिव्यतिकरतरलोत्तंसैनेक्षत्रमालाबालेन्दुक्षुद्रघण्टारणित-<br>दशदिशादन्तिचीत्कारकारी । अव्याद्धो दैत्यराजप्रथमयम-<br>पुरीयानघण्टानिनादो नादो दिग्भित्तिभेदप्रसरसरभसः कूट-<br>कण्ठीरवस्य ॥ ५६ ॥ अन्तःक्रोधोजिर्हानज्वलनभवशिखाकार-<br>जिह्नावलीढप्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भसम्मरि-<br>नादः । दृप्यत्पौरीन्द्रमूर्तिमुरजिदवतु वः सुप्रभातण्डलीभिः<br>कुर्वन्निधूंमधूमध्वजनिचितमिव व्योम रोमह्रटतानाम्<br>॥ ५७ ॥ पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्चि-

पाद-टिप्पण्यः (Footnotes)

वामभाग-टिप्पणी: १ वराहमुखाने २ विदारणम् ३ भयात्

दक्षिणभाग-टिप्पणी: १ नखा २ करपत्रकम् ३ विस्तीर्णौ ४ व्याकुलौ ५ रुधिरम्. ६ आच्छादिता ७ सूर्य ८ वेद ९ विदारणम् १० सिक्ताः ११ संकीर्ण १२ उत्सङ्गस्थैलम् १३ रोमकूपा- १४ रक्तौभवन्- १५ हिरण्यकशिपोरस्तदनुचरस्य चोक्तिप्रत्युक्तय - १६ किं भयमित्यर्थे १७ उच्चै स्थायिनी १८ उत्पद्यमान . १९ सिंह २० अग्नि २१ व्याप्तम्

२० सुभाषितरत्नभाण्डागारम् [१ प्रकरणम्


र्चिर्ज्वालाजालावलीढं बत भुवि सकल व्याकुलं किं न भूयात् । न स्याच्चेदाशु तस्याधिकविकटसटाकोटिभिः पात्यमानादिन्दोरानन्दकन्दात्तदुपार तुहिनसारसंदोहवृष्टिः ॥ ५८ ॥ आदित्याः किं दशैते प्रलयभयकृत. स्वीकृता- काशदेशाः कि वोल्कामण्डलानि त्रिभुवनदहनोद्योतनानीति भीतः। पायात्सुनारसिंह वपुरमरगणैर्विभ्रतः शार्ङ्गपाणेर्दंष्ट्रा दंष्ट्रासुरोरःस्थलदरणगलद्रक्तरक्ता नखा वः ॥ ५९ ॥

वामनः

अव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता । कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥ ६० ॥ अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे । विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु नः ॥ ६१ ॥ खर्वग्रन्थिविमुक्तसंधि विलसद्वक्षःस्फुरत्कौस्तुभ निर्यन्नाभिसरोजकुड्मलपुटीगम्भी- ३रसामध्वनि। पात्रावासिसमुत्सुकेन बलिना सानन्दमालो- कितं पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥ ६२ ॥ हस्ते शङ्खकिणाङ्कितोऽरुणविभाकिर्मीरतोरःस्थलो नाभिप्रे- ४ङ्खद्दलिर्विलोचनयुगप्रोग्दूतशीतातपः । बाहूर्भिमिश्रितवहिरेश तदिति व्याक्षिप्य वाक्यं कवेस्तारैरध्ययनैर्हरन्बलिमनः पायाज्जगद्वामनः ॥ ६३ ॥ स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयता मेदिनी का मात्रा मम विक्रमत्रयपदं दत्तं जलं दीयताम् । मा देहीत्युशनाब्रवीद्धरिरयं पात्र किमक्ष्मात्परं चेत्येव बलिनार्चितो मखमुखे पायात्स वो वामनः॥ ६४ ॥ स्वामी सन्भुवनत्रयस्य विकृति नीतोऽसि किं याज्ञया यद्वा विश्वसृजा त्वयैव न कृत तन्नीयता ते कुतः। दान श्रेष्ठतमाय तुभ्यमतुल बन्धाय नो मुक्तये खिन्नो बलिना निरुत्तरतया हीतो हरिः पातु वः ॥ ६५ ॥ ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः क्षोणी- नौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । ज्योतिश्चक्रां- क्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्त्रैविक्रमैस्ते वितरतु विबुधद्वेषिणा कालदण्डः ॥ ६६ ॥ यक्षादा- क्रामतो या गैरैडमणिशिलाकेतुदण्डायमानादौश्च्योतन्त्या- बभासे सुरसरिदमला वैर्जयन्तीव कान्ता । भूमिष्ठो यस्त- थान्यौ भुवनगृहमहास्तम्भशोभा दधानः पातामेतौ पैंयो- जोदरललिततलौ पङ्कजाक्षस्य पादौ ॥ ६७ ॥ कस्त्वं ब्रह्म- न्नपूर्वः क्व च तव वसतिर्याऽखिला ब्रह्मसृष्टिः कस्ते नाथो ह्यनाथः क्व च तव जनको नैव तातं स्मरामि । किं ते- ऽभीष्टं ददामि त्रिपदपरिमित भूमिपरूपं किमेतस्त्रैलोक्यं भाव- गर्भ बलिमदमवदद्दामनो वः स पायात् ॥ ६८ ॥

परशुरामः

कुलाचला यस्य मही द्विजेभ्यः प्रयच्छतः सीमैद्वपस्त्व- मापुः । बभूवुरुत्सर्गजलं समुद्राः स रैणुकेयः श्रियमात- नोतु ॥ ६९ ॥ किं दोर्म्या किमु कौर्मुकोपनिषदा भैर्गप्रसादेन किं कि वेदाधिगमेन भास्वति भृगोर्वंशे च किं जन्मना । किं वानेन ममाद्भुतेन तपसा पीडा कृता- न्तोऽपि चेत्त्रिप्रियाणा कुरुतेऽन्तरित्यनुशयो रामस्य पुष्णातु वः ॥ ७० ॥ नाशिष्यः किमभूद्भवः किमभवन्नापुत्रिणी रेणुका नाभूद्विश्शमकार्मुक किमिति वः प्रीणातु रामत्रपा । विप्राणा प्रतिमन्दिर मणिगणोन्मिश्राणि दण्डाहतेनाब्धीना स मया यमोऽपि महिषेणाम्भासि नोद्गाहितः ॥ ७१ ॥ पायाद्बो जमदग्निवंशतिलको वीरव्रतालंकृतो रामो नाम मुनीश्वरो नृपववे भास्वत्कुठारायुधः । येनाशेषहृताहितान्र्ङ्गरुधिरैः सत- र्पिताः पूर्वजा भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तींकारी- कृता ॥ ७२ ॥ द्वारे कल्पतरुं गृहे सुरगवी चिन्तामणीनङ्गदे पीयूष सरसीषु विप्रवदने विद्याश्चतस्रो दश । एवं कर्तुमयं तपस्यति भृगोर्वशावतसो मुनिः पायाद्वोऽखिलराजकक्ष्य- करो भूदेवभूषामणिः ॥ ७३ ॥ नो सध्या समुपासते यदि तदा लोकापवादाद्भय सा चेत्स्वीक्रियते भविष्यति तदा रौजन्यबीजे नति.। इत्थं चिन्तयतश्चिर भृगुपतेर्निःश्वास- कोष्णीकृतो नेत्रान्तःप्रतिबिम्बशोणसलिलः संध्याञ्जलिः पातु वः ॥ ७४ ॥

रामचन्द्रः

वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकी- हृदयानन्दचन्दनं रघुनन्दनम् ॥ ७५ ॥ नमो राम- पदाम्भोज रेणवो यत्र सततम् । कुर्वन्ति कुमुदप्रीतिमरण्य- गृहमेधिनः ॥ ७६ ॥ खर्वैणाजिनशयनों योजितनयनो


१ बन्धने २ आसनम् ३ ब्रह्मण सामवेदध्वनी ४ यतो हरेर्भगवतो हृदये कौस्तुभमणिलोंहितच्छविरस्ति, अतस्तत्प्रभाभि कर्बुरितत्व वक्ष स्थलस्यापीति भाव ५ यतो हरेर्नाभौ कमल वर्तते, अतस्तत्र तन्कुरभिगन्धलोलुपतया भ्रमरागमन घटत एवेति भाव ६ लहरी ७ शुक्रस्य ८ ब्रह्मा ९ गुणवृक्ष १० नाभिक्षेप्यदारुदण्ड ११ त्रिषु लोकेषु पादन्यासो यस्य तस्य १२ मरकतमणिनिर्मितध्वजदण्डायमानातू १३ क्षरन्ती १४ पातका १५ आरक्ततलाविति भाव

१ यदा ब्राह्मणेभ्यो भूर्दत्ता, तदा तेषां स्वस्वभूमिसामार्थं कुलपर्वता एवासन्निति भाव २ यदा याचकेभ्यो दान दीयते, तदा दानात्प्राग्दातृभिरुत्सर्गजलं दीयते अतस्तेनैतावद्दान दत्तं येन समुद्रा उत्सर्गजलतयाभूवन्निति भाव ३ धनुर्वेदविद्याशान्तरहस्येन- ४ यतो महतामनुग्रहस्तदा सफल स्यात्, यद्युपकार कस्यचित्कर्तु शक्येत, परं मया तत्पीडापि निवारिता न भवति, अत शंभुप्रसादेन किमित्यर्थं ५ यतस्तत्प्रसादात्साध्यमपि साध्यते पर यदि मया तत्कृत्यं नासाधि, तदानेन तपसा किमिति भाव . ६ शत्रव ७ ब्राह्मणेभ्यो देयत्वेन विहितेत्यर्थ 'ग्रासप्रमाणे भिक्षा स्यादग्र ग्रासचतुष्टयम् । अग्र चतुर्गुण प्राहुर्हन्तकार द्विजोत्तमा ॥' इत्युक्तत्वात्. ८ सूर्ये