भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

३. चोल राज्य अभियान व कल्याणी सिंहासन

( १४६ ) भाषा जैसे अद्भूतगुणयुक्त शुभलग्न में पूर्वजनि किसी भी सार्वभौम राजा ने जन्म नहीं पाया था ऐसे शुभ लग्न में भगवान् शंकर की कृपा से राजा को पुत्र हुआ । चतुर्भिः पताका-कलापकमित्यर्थः । सुरप्रसूनन्यपतन्सषट्पद-ध्वनीनि दध्वान सुरेन्द्रदुन्दुभिः । परं प्रसादं ककुभः प्रपेदिरे गुणैः कुमारस्य सहोत्थितैरिव ॥८६॥ अन्वयः सषट्पदध्वनीनि सूरप्रसूनानि अपतन् । सुरेन्द्रदुन्दुभिः दध्वान । कुमारस्य सहोत्थितैः गुणैः ककुभः परं प्रसादं प्रपेदिरे इव । व्याख्या षट्पदानां भ्रमराणां 'षट्पदभ्रमरालयः' इत्यमरः । ध्वनिना शब्देन सहि- तानि सषट्पदध्वनीनि सुरप्रसूनानि देवकुसुमानि 'प्रसूनं कुसुमं सुमम्' इत्यमरः । आकाशादपतन् पुष्पवृष्टिर्बभूवेत्यर्थः । सुरेन्द्रस्य पाकशासनस्य दुन्दुभिः दुंदुमिति शब्देन भातीति दुन्दुभिः भेरी 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । दध्वान शब्दं चकार । कुमारस्य नवजातशिशोः सहोत्थितैर्जन्मना साकं समुत्पन्नैर्गुणैर्द्र- यादाक्षिण्यादिमहापुरुषगुणैः ककुभः दिशः 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । प्रसादं प्रसन्नतां निर्मलत्वं वा प्रपेदिरे इव प्राप्ता इव । अत्रोत्प्रेक्षालङ्कारः । भाषा आकाश से भौंरो की गुंजार से युक्त नन्दन वन के फूलो की वृष्टि होने लगी । देवो के राजा इन्द्र का नगाडा बजने लगा । कुमार के साथ उत्पन्न उसके उज्ज्वलगुणो से मानो सब दिशाएँ प्रसन्न अर्थात् उज्ज्वल हो गईं । नवप्रतापाङ्कुरचक्रकान्त्या निरन्तरारात्रिकदीपसम्पदा । श्रियं जगल्लोचनबालचन्द्रमाः समाजहारोदयसन्ध्ययेव सः ॥८७॥ अन्वयः जगल्लोचनबालचन्द्रमाः सः नवप्रतापाङ्कुरचक्रकान्त्या निरन्तरारात्रिक- दीपसम्पदा उदयसन्ध्यया इव श्रियं समाजहार ।

( १४७ ) व्याख्या जगतां भुवनानां भुवनगतमनुष्याणां लोचनानि नयनानि तेषां कृते सुखदाय- कत्वादबालचन्द्रमा बालशशी स नयनातदिशिर्गवस्य नूतनस्य प्रतापस्य तेजसोऽ- ङ्कुराणां किरणाना चक्रं वर्तुलाकारं मण्डलं तद्वत्कान्त्या रमणीयया निरन्तरम- विच्छिन्नं पड्क्त्याकारमाऽऽरात्रिकं बालस्य पुरस्तात् प्रज्वलितं दीपं भ्रमणं तस्य दीपसम्पदा दीपसम्पत्त्या, उदयसन्ध्ययेव सायं सन्ध्ययेव श्रियं शोभां समाजहार स्वीचकार । अर्थात् द्वितीयाचन्द्रः सन्ध्याकाले लोकैरारातिक्येन पूज्यते तद्वदयं बाल आरातिक्येन शोभितोऽभूदिति भाव । अत्रोपमारूपकयोः सकरः । भाषा १ जगत् भर के मनुष्यो की आंखो को आनन्द देने वाला बालचन्द्र स्वरूप वह बालक, नूतन तेज की किरणो के चक्र के समान रमणीय सतत आरती के दीपक की ज्योति से साम काल की बालचन्द्र की शोभा को उत्पन्न कर रहा था । प्राय सभी लोग दूज के चांद को सायं काल में आरती कर पूजा करते हैं । वैसे ही यह भी आरती से शोभित हुआ । आसन्नरत्नगृहभित्तिषु निर्मलासु लोकोत्तरेण वपुषा प्रतिबिम्बितेन । सेवां स्मरिष्यति कृतज्ञतयेव दिग्भिरङ्के गृहीत इव राजसुतो रराज ॥८८॥ अन्वयः राजसुतः निर्मलासु आसन्नरत्नगृहभित्तिषु प्रतिबिम्बितेन लोकोत्तरेण वपुषा (अयं) कृतज्ञतया सेवां स्मरिष्यति (इति) दिग्भिः अङ्के गृहीतः इव रराज । व्याख्या राज्ञः सुतो राजपुत्रो निर्मलासु निर्मलकान्तिष्वाऽऽसन्नाः समीपयाश्च रत्नगृहभित्तयो रत्नखचितगेहकुड्यानि तासु प्रतिबिम्बितेन प्रतिच्छायां गतेन लोकोत्तरेणाऽलौकिकेन वपुषा शरीरेण 'गात्रं वपुः संहननं शरीरं वत्मं विग्रहः' इत्यमरः । हेतुनाऽयं कुमारः कृतज्ञतया कृतमुपकृतं जानाति स्मरतीति कृतज्ञ- स्तस्य भावः कृतज्ञता तया सेवामस्मत्कृतां सेवां स्मरिष्यतीति दिग्भिःकाष्ठाभिरङ्के उत्सङ्गे गृहीत इव धारित इव रराज शुशुभे । अत्रोत्प्रेक्षालङ्कारः । वसन्त- तिलकाच्छन्दः । उक्ता वसन्ततिलका तभजाजगौगः ।"

( १५० ) अन्वयः अथ विधानवित् असौ अवनीनाथः समुचिते कर्मणि आस्थापरेण पुरोधसा कथितं सर्वं विधाय प्रति सूनुस्पर्शात् मुहुः महोत्सवम् अन्वभूत् । हि इह गृहिणां गार्हस्थ्यस्य इदं प्रधानं फलम् । व्याख्या अथ पुत्रजन्मानन्तरं विधानं शास्त्रविधिं वेत्ति जानातीति विधानविच्छास्त्र- विधिज्ञोऽसौ प्रसिद्धोऽवनीनाथः पृथिवीपतिः समुचिते पुत्रजन्मसमयोचिते कर्मणि धार्मिककृत्ये आस्था दृढभक्तिः परं प्रधानं यस्य स तेन धार्मिककार्येषु दृढभक्ति- परायणेन पुरोधसा पुरोहितेन 'पुरोधास्तु पुरोहितः' इत्यमरः । कथितं सूचितं सर्वं समग्रं धर्मकृत्यं जातकर्मादिकं विधाय सम्पाद्य प्रतिसूनुस्पर्शात् प्रत्येकं पुत्र- स्पर्शविसरान्मुहुः पुनः पुनः 'मुहुः पुनः पुनः शश्वदभीक्ष्णम्' इत्यमरः । महोत्सवं महदानन्दमन्वभूदनुभवविषयमकुर्वत । हि यस्मात्कारणादिहाऽस्मिन् संसारे गृहिणां गृहस्थाश्रमवासिनां जनानां गार्हस्थ्यस्य गृहस्थधर्मस्येदं पुत्रमुखदर्शन- रूपमेव प्रधानं मुख्यं फलम् । अत्राऽर्थान्तरन्यासालङ्कारः । हरिणीच्छन्दः । “रसयुगहयैन्सौ स्लो गो यदा हरिणी तदा ।” भाषा पुत्र जन्म होने के अनन्तर शास्त्रीय विधियों को जाननेवाले उस राजा ने श्रद्धालु कुलपुरोहित द्वारा कथित पुत्र जन्म के लिये उचित सब जातकर्म वादि धर्म कृत्यों को विधिवत् कर पुत्रदेह के प्रत्येक स्पर्श के अवसर से बार २ परम आनन्द का अनुभव किया । क्योंकि इस संसार में गृहस्थाश्रम में रहने वालो के लिये गार्हस्थ्य धर्म का पुत्र प्राप्ति ही मुख्य फल है । इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हणविरचिते विक्रमाङ्कदेव-चरिते महाकाव्ये द्वितीय सर्गः । नेत्राब्जास्त्रयुगाङ्कविक्रमशरत्कालेऽथ दामोदरात् भारद्वाज-सुधोत्तमारसमुदितः श्रीविश्वनाथः सुधीः। चक्रे, रामकुबेरपण्डितवरत्प्राप्तसाहाय्यक- ष्टीकायुग्ममिदं रमाकरुणया सर्गे द्वितीये शुभे ॥ ॐ शान्तिः शान्तिः शान्तिः ।

॥ श्री ॥ महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम् तृतीयः सर्गः अथ नवजातराजकुमारं वर्णयति कविः— स विक्रमेणाद्भुततेजसा च चेष्टाविशेषानुमितेन बालः । श्रीविक्रमादित्य इति क्षितीन्दोरवाप विख्यातगुणः समाख्याम् ॥१॥ अन्वयः स विख्यातगुणः बालः चेष्टाविशेषानुमितेन विक्रमेण अद्भुततेजसा च क्षितीन्दोः श्रीविक्रमादित्यः इति समाख्याम् अवाप । व्याख्या सः प्रसिद्धो विख्यातगुण प्रसिद्धगुणो बालो बालकश्चेष्टाविशेषेणाऽऽकारेङ्गि- तादिव्यवहारेणानुमितो विज्ञातस्तेन विक्रमेण शौर्येणाऽद्भुततेजसाऽऽश्चर्यचुम्बि प्रतापेन च क्षिते पृथिव्या इन्दुश्चन्द्र (प्रजाह्लादकरत्वात्) तस्मादाहवमल्लदेवनृपात् श्रीविक्रमादित्य इति विक्रमेण पराक्रमेण तेजसा चाऽऽदित्यस्वरूप इति समामन्व- र्थामाख्यां नाम 'आख्याऽह्वे अभिधानञ्च नामधेयञ्च नाम च' इत्यमरः । अवाप प्राप । भाषा प्रसिद्ध गुणों से युक्त उस बालक ने अपने विशेष लक्षणों से अनुमित आश्चर्य कारक तेज तथा भावि विक्रम का परिचय देकर पृथ्वी के चन्द्र स्वरूप राजा आहवमल्लदेव से विक्रम में और तेज में सूर्य की समानता का सूचक श्री विक्रमादित्य यह अन्वर्थक नाम पाया ।

( १४८ ) भाषा राजकुमार के अलौकिक शरीर की परछाई, पास की रत्नों से जड़ी घर की साफ़ दीवारों पर पड़ने के कारण, मानो दिशाओं से यह राजपुत्र, यह समझ कर कि यह बड़ा होने पर कृतज्ञता से हमारी सेवाओं को स्मरण करेगा, गोदों में लिया हुआ शोभित होता था। अकथयदवनीन्दोर्नन्दनोत्पत्तिवार्त्ता प्रथमममरवृन्दानन्दिनान्दीनिनादः । तदनु तदनुरूपोत्साहतः सुन्दरीणां त्वरितगमनलीलागद्गदो वाग्विलासः ॥८६॥ अन्वयः अमरवृन्दानन्दिनान्दीनिनादः प्रथमम् अवनीन्दोः नन्दनोत्पत्तिवार्त्ताम् अकथयत्। तदनु तदनुरूपोत्साहतः सुन्दरीणां त्वरितगमनलीलागद्गदः वाग्विलासः (अकथयत्) । व्याख्या अमरवृन्दानां देवसमूहानामानन्दी सुखप्रदो नान्दीनिनादो मङ्गलध्वनिः प्रथमं पूर्वमवनीन्दोराहवमल्लदेवनृपं (कर्मणि षष्ठी) नन्दनस्य पुत्रस्योत्पत्तेर्जन्मनो वार्त्तां वृत्तान्तं 'वार्त्ता प्रवृत्तिर्वृत्तान्त उदन्तः' इत्यमरः । अकथयदसूचयत् । तदनु तत्पश्चात् तस्य पुत्रजन्मनोऽनुरूपो योग्यो य उत्साहो हर्षातिरेकस्तस्मात् 'पञ्च- म्यास्तसिल्' । सुन्दरीणामन्तःपुरललनानां त्वरितं शीघ्रञ्च तद् गमनं तस्य लीलया विलासेन गद्गदोऽविस्पष्टः कम्पमानश्च वाग्विलासः कलकलशब्दः पुत्रोत्पत्तिवृत्तान्तं राजेऽकथयत् न्यवेदयत् । अत्राऽक्रमातिशयोक्त्यलङ्कारः । मालिनीच्छन्दः । “ननमयययुतेयं मालिनी भोगिलोकैः" । भाषा देवताओ की आनन्द देने वाली मङ्गलध्वनि के होने ने राजा को पहिले पहिले पुत्र उत्पन्न होने की सूचना दी । इसके बाद पुत्रोत्पत्ति के अनुरूप हर्ष से अन्तः पुर की ललनाओ के शीघ्रता से इधर उधर चलते २ गद्गद होकर बोले हुए कलकल शब्दो ने राजा को पुत्रोत्पत्ति से सूचित किया ।

( १४९ ) चञ्चच्चारणदीयमानकनकं संनद्धगीतध्वनि स्फूर्जद्गाथकलुण्ठ्यमानकरटि प्रारब्धनृत्योत्सवम् । पूर्णं मङ्गलतूर्यदुन्दुभिरवैरुत्तालवैतालिक- श्लाघालङ्घितपूर्वपार्थिवमथ क्ष्माभर्तुरासीद्गृहम् ॥६०॥ अन्वय अथ क्ष्माभर्तुः गृहं चञ्चच्चारणदीयमानकनकं संनद्धगीतध्वनि स्फूर्ज- द्गाथकलुण्ठ्यमानकरटि प्रारब्धनृत्योत्सवं मङ्गलतूर्यदुन्दुभिरवैः पूर्णम् उत्तालवैतालिकश्लाघालङ्घितपूर्वपार्थिवम् आसीत् । व्याख्या अथ पुत्रोत्पत्तिवार्ताप्रसरानन्तर क्ष्माभर्तुः पृथ्वीपतेराहवमल्लदेवस्य गृहं प्राप्ता- दश्र्चञ्चद्भ्यो हर्षेण चञ्चलचित्तेभ्यश्चारणेभ्यः कुशीलवेभ्यो 'चारणास्तु कुशी- लवाः' इत्यमरः । दीयमानं वितीर्यमाणं कनकं सुवर्णं यस्मिंस्तत्, संनद्धो जायमानो गीतानां स्त्रीकर्तृकगायनाना 'सोहर इति लोके प्रसिद्धम्' ध्वनिः शब्दो यत्र तत्, स्फूर्जन्तो हर्षेण विलसन्तो गायका गायकास्तैर्लुण्ठ्यमाना हठाद्गृह्यमाणाः करटिनो हस्तिनो यत्र तत्, प्रारब्धः समारब्धो नृत्योत्सवो नृत्यसमारम्भो यत्र तत्, मङ्गलं मङ्गलसूपतूर्यदुन्दुभिरवो वाद्यविशेषशब्दस्तैः पूर्णं परिपूर्णम्, उत्ताला अत्युच्चैः शब्दायमाना वैतालिकाः स्तुतिपाठकास्तैः श्लाघया प्रशंसया लङ्घिता अतिक्रान्ता अघ- रीकृता इत्यर्थः । पूर्वपार्थिवाः पूर्ववर्तिनृपा यस्मिंस्तदाऽऽसीत् । तादृशं गृहमासीदिति भावः । शार्दूलविक्रीडितच्छन्दः । सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् । भाषा पुत्र होने की खबर फैलने के बाद राजा के महल में अत्यन्त प्रसन्न नटों को इनाम में सोना दिया जाने लगा, सोहर का गान प्रारम्भ हो गया, हर्ष से मस्त गवैया हाथियों को जबर्दस्ती इनाम में लेने लगे, नाच आरम्भ हो गया, मङ्गलमय तुरही और दुन्दुभी का नाद छा गया और बडे ऊँचे शब्दो में स्तुति-पाठक लोग पूर्ववर्ती राजाओ से तुलना करते हुये, इस राजा का वर्णन अधिक बढाकर करने लगे । अथ सूतिकाकर्मण्यास्थापरेण पुरोधसा कथितमवनीनाथः सर्वं विधाय विधानवित् । प्रति मुहुरसौ सूनुस्पर्शान्महोत्सवमन्वभू- दिह हि गृहिणां गार्हस्थ्यस्य प्रधानमिदं फलम् ॥६१॥

( १५२ ) देवस्य चालुक्यविभूषणस्य भार्या यशोरञ्जितदिङ्मुखेन । तेनावदातद्युतिना रराज साम्राज्यलक्ष्मीरिव विक्रमेण ॥२॥ अन्वयः चालुक्यविभूषणस्य देवस्य भार्या यशोरञ्जितदिङ्मुखेन अवदातद्युतिना तेन साम्राज्यलक्ष्मीः विक्रमेण इव रराज । व्याख्या चालुक्यस्य चालुक्यवंशस्य विभूषणमलङ्काररूपस्तस्य देवस्य राज्ञ आहव- मल्लदेवस्य भार्या जाया ‘भार्या जायाऽथ पुं भूम्नि दाराः स्युात् कुटुम्बिनी’ इत्यमरः । यशसा कीर्त्या रञ्जितानि प्रसादितानि दिशामशानां मुखान्यग्रभागा येन स तेनाऽ- वदाता सिता द्युतिः कान्तिर्यस्य तेन धवलकान्तिना ‘अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः’ । इत्यमरः । तेन राजकुमारेण विक्रमेण साम्राज्यस्य सार्वभौमत्वस्य लक्ष्मीः धीविक्रमेण शौर्येणेव रराज शोभिताऽभूत् । अत्रोपमालङ्कारः । भाषा जिस प्रकार साम्राज्य की लक्ष्मी (विक्रम) पराक्रम से शोभित होती है उसी प्रकार चालुक्यवंश के भूषण राजा आहवमल्लदेव की रानी सब दिशाओं के अग्र भागों को अपने यश से उज्ज्वल करने वाले गौर वर्ण अपने पुत्र विक्रम से शोभित हुई । अथ बाललीलां वर्णयति कविः- आलम्ब्य हारं करपल्लवेन पयोधरं पातुमसो प्रवृत्तः । भोगेष्वबाह्या गुणिनो ममेति स्वभावमात्मीयमिवाव्यधत्त ॥३॥ अन्वयः असौ हारं करपल्लवेन आलम्ब्य पयोधरं पातुं प्रवृत्तः ( सन् ) मम भोगेषु गुणिनः अबाद्याः इति आत्मीयं स्वभावम् अव्यधत्त इव । व्याख्या असौ बालो स्वमातुर्हारं मुक्ताहारं करपल्लवेन हस्तपल्लवेनाऽऽलम्ब्य विधृत्य पयोधरं स्तनं पातुं स्तनगतदुग्धपानं कर्तुं प्रवृत्तो लग्नस्सन् मम भोगेषु भोग्य-

( १५३ ) वस्तुपु गुणिनो गुणवन्त पुरुषा हारादय श्लिष्टगुणपदार्थसूत्रसंशयिता अतस्तेऽपि गुणिनोऽवाह्या अन्तरङ्गा मया सह गुणवन्तोऽपि भोग्यवस्तुपु सुखमनुभवन्त्वित्या- त्मीयं स्वभावं स्वकीयां प्रकृतिमन्ययतैवेव फलितवानिव । नाऽहं स्वोपभोग्य- वस्तुपु गुणिनो विहायोपभोगे प्रवृत्तो भविष्यामीति सूचयन्निव गुणिनं मुक्ताहारं करेण धृत्वा स्तनपानरुपोपभोगे प्रवृत्त इति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा यह बालक अपनी माता के मोती के हार को अर्थात् गुणी को अपने कोमल- पत्ते के ऐसे सुकुमार हाथ से पकड़ कर स्तनपान करता हुआ मानो अपने स्वभाव को प्रकट करता था कि उसके उपभोगो में गुणीलोग कभी भी छूट नही सकते अर्थात् वह गुणियों को अपने उपभोगो में सदैव साथ रक्खेगा । (गुण शब्द का अर्थ डोरा होने से डोरे में परोया मोती का हार भी गुणी कहा जा सकता है ।) मातृस्तनोत्सङ्ग-विलासहार-प्रभा प्रविश्येव विनिःसरन्ती । तस्यानिमित्तस्मितचन्द्रिकाभू-न्नरेन्द्रनेत्रोत्सववैजयन्ती ॥४॥ अन्वयः तस्य मातृस्तनोत्सङ्गविलासहारप्रभा प्रविश्य विनिःसरन्ती इव अनि- मित्तस्मितचन्द्रिका नरेन्द्रनेत्रोत्सववैजयन्ती अभूत् । व्याख्या तस्य बालकस्य मातुः स्तनौ कुचौ मातृस्तनौ तयोरुत्सङ्गे मध्ये विलासहारो विलासार्थं धृतो मुक्ताहारस्तस्य प्रभा कान्तिर्मार्गं प्रविश्याऽभ्यन्तरं गत्वा पुनः विनिस्सरन्तीय बहिरागतेव नास्ति निमित्तं कारणं यस्मिंस्तत् स्मितमेवेद्धास एव चन्द्रिका ज्योत्स्ना 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । चन्द्रप्रकाश इत्यर्थः । नरेन्द्रस्य राज्ञो नेत्रोत्सवस्य नयनानन्दस्य 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । वैजयन्ती वितापरित्री पताका तत्स्वरूपाऽभूत् । श्वेतवर्णा मुक्ताहारकान्तिरेव बालं प्रविश्य बालकस्याऽकारणवेक्षारूपचन्द्रिका- रूपेण बहिरागता नृपस्य नयनानन्दकरी बभूवेत्यर्थः । अत्रोत्प्रेक्षालङ्कारः । भाषा उस बालक की माता के कुचो के मध्य में विलसित मोती के हार की सफेद

( १५४ ) कान्ति, मानो उस बालक के भीतर प्रविष्ट होकर उसके स्वाभाविक मुसकान रूप सफेद चन्द्रिका के रूप में फिर बाहर निकलती हुई राजा के नेत्रों के आनन्दोत्सव को सूचित करने वाली पताका थी। अर्थात् राजा को बालक के अकारण स्वाभाविक स्मित से अत्यन्त हर्ष होता था। मुष्टिप्रविष्टारुणरत्नदीप-प्रभालता तस्य समुल्लसन्ती । विपक्षकण्ठक्षतजानुलिप्ता कृपाणलेखा सहजेव रेजे ॥५॥ अन्वयः तस्य मुष्टिप्रविष्टारुणरत्नदीपप्रभालता समुल्लसन्ती सती विपक्षकण्ठ- क्षतजानुलिप्ता सहजा कृपाणलेखा इव रेजे। व्याख्या तस्य बालकस्य मुष्ट्यो. प्रविष्टा प्राप्ता यारुणा रक्तवर्णा रत्नदीपाना प्रभारूपिणी लता कान्तिवल्ली सा समुल्लसन्ती सुशोभिता सती विपक्षाणां शत्रूणां कण्ठारुतेषा क्षतजं रुधिरं तेनाऽनुलिप्ताऽनुरञ्जिता सहजा सहैवोत्पन्ना स्वाभाविकी जन्मसिद्धा कृपाणलेखेव खड्गलेखेव रेजे समलङ्कृताऽऽसीत् । बालकमुष्टि- प्रविष्टरत्नदीपरक्तवर्णकान्ति शत्रुक्ण्ठरुधिरानुलिप्तसहजकृपाणलेखेव शुशुभे इति भाव । भाषा उस बालक की मुट्ठी मे प्रवृष्ट रत्नदीप की लाल रग की कान्ति, शत्रुओ के कटे हुए गलो के खून से रानी, जन्म सिद्ध, साथ ही में उत्पन्न तलवार की धार के ऐसी शोभित होती थी। त्यक्त्वोपविष्टान्न्यदसौ कुमारः समुत्थितानां सविधे जगाम । आगामि तेनाधिकमुन्नतात्मा नीचेषु वैमुख्यमिवाचचक्षे ॥६॥ अन्वयः यन् असौ उन्नतात्मा कुमारः उपविष्टान् त्यक्त्वा समुत्थितानां सविधे जगाम तेन नीचेषु आगामि अधिकं वैमुख्यम् आचचक्षे इव।

( १५५ ) व्याख्या यद्यस्मात्कारणादसौ स उन्नतोऽभ्युदयोन्मुख आत्मा यस्य स, कुमारो राजपुत्र उपविष्टान् भूमावासीनान् पुरुषान् त्यक्त्वा विहाय तदुत्सङ्गं परित्यज्येत्यर्थः । समुत्थितानामूर्ध्वस्थानां पुरुषाणां सविधे तदङ्केषु जगाम स्वेच्छया गतवान् तेन कारणेन नीचेषु नीचजनेष्वागामि भविष्यदधिकमतद्रूपं वैमुख्यं विरुद्धदिशि गतं मुखं यस्य स तस्य भावो वैमुख्यं नीचप्रतिकूलत्वमचाचक्षत इव जनादेवाऽसूचयदि- वेत्यर्थः । अत्रोत्प्रेक्षालङ्कारः । भाषा चूंकि यह उन्नत आत्मा वाला बालक बैठे हुए मनुष्यों की गोदों को छोड़ कर खड़े भये हुए मनुष्यों की गोदों में जाता था इससे मानो उसने प्रकट कर दिया कि यह भविष्य में नीचे या नीच मनुष्यों से अधिक विमुख रहेगा । धात्रेयिकाया स्मितपूर्वकं य-द्दत्त हुङ्कारमसौ कुमारः । अपूरयत्तेन नृपस्य कर्णौ पेयूषगण्डूषपरम्पराभिः ॥७॥ अन्वयः यत् असौ कुमारः धात्रेयिकायाः स्मितपूर्वकं हुङ्कारम् अदत्त तेन पेयूष- गण्डूषपरम्पराभिः नृपस्य कर्णौ अपूरयत् । व्याख्या यद्यस्मात्कारणादसौ पूर्वोक्तः कुमारो राजपुत्रो धात्रेयिकाया उपमातुः स्मितपूर्वकं सस्मितं हुङ्कारशब्दं बालस्वाभाविकशब्दमदत्त दत्तवान् तेन कारणेन पेयूषस्याऽमृतस्य गण्डूषं मुखप्रकृतिः 'गण्डूषो मुखपूर्तौ स्यादल्पहस्ताम्बु- सावपि । प्रसृत्या प्रमितेऽपिह्यात्' इति हेमः । तेषां परम्पराभि सन्ततप्रयो- गैर्नृपस्य राज्ञः कर्णौ श्रोत्रेऽपूरयत् संपूरितवान् । उपमात्रे हुङ्कारदानहृष्टबाल- लीलया राजाऽन्तरङ्गपरिपूर्य्यमानो बभूवेति भावः । स्वभावोक्तिरलङ्कारः । भाषा यह बालक अपनी दाई के पुचकारने पर मुस्कुराते हुए हुँकारी भरता था इससे वह राजा के दोनों कानों को अमृत के गण्डूष की परम्परा से भर देता था । अर्थात् उन हुंकारियों को सुन कर राजा को परम आनन्द होता था ।

( १५६ ) यदुत्थितः सोऽङ्गुलिसंग्रहेण यत्किञ्चिदव्यक्तमवोचतापि । अभीक्ष्णमक्ष्णोः श्रवसोश्च तेन क्ष्मापतेः संवननं बभूव ॥८॥ अन्वयः यत् सः अङ्गुलिसंग्रहेण उत्थितः अपि यत् किञ्चित् अव्यक्तम् अवोचत तेन क्ष्मापतेः अक्ष्णोः श्रवसोः च अभीक्ष्ण संवनन बभूव । व्याख्या यद्यस्मात्कारणात् स बालकोऽन्येषा जनानामङ्गुलिसंग्रहेणाऽङ्गुलिं धृत्वोत्थित समुत्थान कृतवान् 'अङ्गुल्य करशाखास्स्यु' इत्यमर । अपि चान्यच्च यत्किञ्चिदव्यक्तमस्पष्टमवोचत सञ्जगाद तेन कारणेन क्ष्माया पति स्वामी तस्याऽवनिभर्तु 'क्षितिक्षान्त्यो क्षमा युक्ते क्षम शक्ते हिते त्रिषु।' 'धव प्रिय पतिर्भर्ता' इत्यमर । अक्ष्णोर्नयनयो 'लोचन नयन नेत्र मीक्षण चक्षुर्दिशिनौ' इत्यमर । श्रवसोश्च कर्णयोश्च 'कर्णशब्दग्रहौ श्रोत्र श्रुति स्त्री श्रवण श्रय' इत्यमर । अभीक्ष्ण पुन पुन 'मुहु पुन पुन शश्वदभीक्ष्णमसकृत्समा' इत्यमर । संवनन वशीकरण 'वशाक्रिया संवनन' इत्यमर । अभूत् बभूव । तस्य बालस्यो- ऽङ्गुलिं संगृह्योत्थान दृष्ट्वा यत्किञ्चिदस्पष्ट संभाषणञ्च श्रुत्वा राजा वशीकरण- मन्त्राभिभूत इव जात । सर्व कार्यजातं त्यक्त्वा तदवलोकनश्रवणयोर्मग्न इति भाव । भाषा चूंकि यह बालक दूसरो की अगुली पकड कर उठने लगा और साफ २ समझ में न आने वाले शब्दो को बोलन लगा इससे राजा की आँखो न कानो का बार २ वशीकरण होता था । अर्थात राजा सब कामो को छोड इस बालक की लीला देखने में ही परम मुदित होता था । क्रमेण सम्पादितचूलकर्मा चालुक्यभूपालधुरन्धरस्य । विनोदलीलाकुसुमोद्यानां स नन्दनो नन्दनतामवाप ॥६॥ अन्वयः क्रमेण सम्पादितचूलकर्मा सः नन्दनः चालुक्यभूपालधुरन्धरस्य विनोदलीलाकुसुमोद्याना नन्दनताम् अवाप ।

( १५७ ) व्याख्या क्रमेण जातकर्मादिसंस्कारानन्तरं सम्पादितं निष्पादितं चूलकर्म चूडाकर्म- संस्कारो यस्य सः सम्पादितचूलकर्मा स नन्दयतीति नन्दनः सर्वजनानन्ददाता पुत्रश्चालुक्यवंशीया ये भूपाला नरेश्वरास्तेषां धुरन्धरस्याऽग्रगण्यस्याऽऽहवमल्ल- देवस्य विनोदलीला मनस आनन्दविहारलीला एव कुसुमानि पुष्पाणि 'स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इत्यमरः। तेषामुच्चयास्तसमूहाः 'समुदाय- स्तमुच्चयः समवायश्चयो गणः' इत्यमरः। तेषां नन्दनतामिन्द्रस्य नन्दनवदना- मककाननस्वरूपतामवाप प्राप्तवान्। यथा नन्दनवने पुष्पोच्चयानामियत्ता नास्ति तथैवास्य राज्ञो मनसि विनोदलीलानामप्याधिक्यं बभूवेति भावः। पुत्रे नन्दनवनत्वारोपे विनोदलीलासु कुसुमत्वारोपस्य कारणत्वात्परम्परितं रूपकम्। 'नियतारोपणोपायः स्यादारोपः परस्य यः। तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा॥' भाषा धीरे २ जातकमादि सस्कारों के अनन्तर चौलकर्म संस्कार होने के बाद वह राजपुत्र, चालुक्य वंशीय राजाओं में श्रेष्ठ आहवमल्लदेव राजा के मानसिक आनन्द विहार लीला रूपी पुष्पसंचयों का इन्द्र का नन्दनवन ही हो गया। अर्थात् जिस प्रकार नन्दन वन में अगणित पुष्प समुदाय होते हैं वैसे इस राजा के मन में इस बालक को देख कर अपरिमित आनन्द विहार लीलाओं का प्रादुर्भाव हुआ। उत्सङ्कमारुह्य नरेश्वरस्य स पांसुलीलापरिधूसराङ्गः। निजाङ्गतः संगलितैः परागैश्चक्रे मनःकार्म्मणचूर्णयोगम् ॥१०॥ अन्वयः पांसुलीलापरिधूसराङ्गः सः नरेश्वरस्य उत्सङ्गम् आरुह्य निजाङ्गतः संगलितैः परागैः मनःकार्म्मणचूर्णयोगं चक्रे। व्याख्या पांसुषु धूलिषु 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः। लीला क्रीडा तया परिधूसराणीषदपाण्डून्यङ्गानि यस्य सः 'हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः' इत्यमरः। धूलिक्रीडनेन धूलिधूसरिताङ्गः स बालकः

( १५८ ) नराणामीश्वरस्तस्य मानवेस्वरस्य रीते उत्सङ्गमङ्कमारुह्य स्थित्वा निजाङ्गतः स्वीयावयवेभ्यः संगलितैरधःपतितैः परागैर्धूलिभिर्जनेश्वरस्य मनसो हृदयस्य कामणं धूलोपदिद्वारा यत्क्रिया 'मूलकर्म तु कामंणम्' इत्यमरः । तत्कृते यच्चूर्णनोषधिक्षूणं तस्य योगं योजनां चक्रे विहितवान् । कुमाराङ्गगलितै- धूलिभिर्नृपस्य प्रेमपूरितं हृदयं वशीकृतमिवे संजातमिति भावः । अत्र निदर्शनालङ्कारः । भाषा मिट्टी में खेलने से धूल से भरे शरीर वाला अतएव कुछ सफेद वर्ण का दिखलाई पड़ने वाला वह बालक, राजा की गोद में बैठ कर अपने शरीर से झडी हुई धूलि से मानो राजा के मन को वशीकरण करने का औषधिक्षूर्ण प्रयोग करता था । राज्ञां प्रणामाञ्जलिसम्पुटेषु किमप्यवज्ञामुकुलीकृताक्षः । तस्यैकहस्ताम्बुरुहप्रणामे कृतार्थमात्मानममंस्त देवः ॥११॥ अन्वयः राज्ञां प्रणामाञ्जलिसम्पुटेषु किमपि अवज्ञामुकुलीकृताक्षः देवः तस्य एकहस्ताम्बुरुहप्रणामे आत्मानं कृतार्थम् अमंस्त । व्याख्या राज्ञां सामन्तभूपानां प्रणामार्थं विहितमञ्जलिसम्पुटं तेषु सत्सु, द्वाभ्यां युताभ्यां कराभ्यां सर्वै राजभिर्नमस्कारे कृते सतीति भावः । किमप्यनिर्वचनीय- प्रकारेण हेत्वर्थेत्यर्थः । अवज्ञयोपेक्षया 'रीडावमाननावज्ञायहेलननसूतकणम्' इत्यमरः । मुकुलीकृते 'अमुकुलो मुकुलः कृतः इति मुकुलीकृतः' 'अभूततद्भावेचि्वः । कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । ईषद्सङ्कुचितेऽक्षिणी यस्य स देवो राजाऽऽहवमल्लदेवस्तस्य बालकस्यैकहस्ताम्बुरुहेमैककरकमलं समुत्थाप्य कृतः प्रणामस्तस्मिन् सति आत्मानं स्वं कृतार्थं कृतकृत्यं सफलजन्मवन्तमित्यर्थः । अमंस्त मेने । नृपवृन्दाञ्जलिभिः प्रणामे कृतेऽप्यवहेलनयाऽऽहवमल्लदेवस्य दृष्टिस्तेषामुपरि सङ्कुचितेवाऽऽसीत् । परन्तु बालककृतैकहस्तप्रणामे तु स प्रसन्नतया कृतकृत्यो बभूव ।

( १५६ ) भाषा अन्य सामन्त राजाओ से दोनो हाथ जोड़कर प्रणाम किये जाने पर भी अवहेलना से अपनी आंखो को कुछ सकुचित बना लेने वाला राजा आहवमल्लदेव, उस बालक के एकही हाथ से प्रणाम किए जाने पर अपने को कृतकृत्य समझता था। प्रतिक्षणं कुन्तलपार्थिवस्य वितन्वतस्तन्मुखचुम्बनानि । तदीयद्रन्तच्छदजन्मनेव रागेण चेतः परिपूर्णमासीत् ॥१२॥ अन्वयः प्रतिक्षणं तन्मुखचुम्बनानि वितन्वतः कुन्तलपार्थिवस्य चेतः तदीयद्रन्त- च्छदजन्मना रागेण इव परिपूर्णम् आसीत् । व्याख्या प्रतिक्षण निरन्तरं तस्य बालस्य मुखस्याऽऽननस्य चुम्बनानि वितन्वतो विदधतः कुन्तलस्य कुन्तलदेशस्य पार्थिवो राजा तस्य चेतो मानसं दन्तरुचाच्छाद्यन्ते तिरोधीयन्तेऽनेनेति दन्तच्छदोऽधरः 'ओष्ठाधरौ तु रदनच्छदौ 'दशनवाससी' इत्यमरः। तस्माज्जन्म यस्य स तेन बालाधरस्थितेन रागेणेवाऽऽरुणवर्णेनेव मानेतर्षेण प्रेम्णा परिपूर्णं पूरितं बभूव । भाषा क्षण क्षण में उस बालक के मुख को चूमने में प्रवृत्त उस कुन्तलदेश के राजा का हृदय मानो उस बालक के अधरोष्ठ से उत्पन्न होने वाले राग (लालिमा) से लाल हो गया था या राग (प्रेम) से भर गया था । मुखेन्दुसञ्चारकृताभिलाष-कुरङ्गभीत्यर्थमिवार्पितेन । कण्ठावसक्तेन स राजसूनूराजत व्याघ्रनखाङ्कुरेण ॥१३॥ अन्वयः सः राजसूनुः मुखेन्दुसञ्चारकृताभिलाषकुरङ्गभीत्यर्थम् इव अर्पितेन कण्ठावसक्तेन व्याघ्रनखाङ्कुरेण अराजत ।

( १६२ ) अन्वयः प्राप्तोदयः परिवर्द्धमानः बालचन्द्रः सः पादनखैः शीतरश्मेः बालैः अपत्यैः सहखेलनाय अभ्यर्थमानः इव चकासे । व्याख्या प्राप्त उदय उत्पत्तिरोन्नत्यं वा येन सः परिवर्द्धमानो वृद्धिं प्राप्नुवन् बालश्चन्द्र इवेति बालचन्द्रः कुमारो नवीनचन्द्रो वा सः पादनखैरर्द्धचन्द्राकारैः इवेतैश्च प्रतिबिम्बितचन्द्रैर्वा शीतो रश्मिः किरणो. यस्य सः 'किरणोस्त्रमयूखांशु गभस्ति- घृणिरश्मयः' इत्यमरः । शीतरश्मिस्तस्य शीतरश्मेश्चन्द्रस्य बालैर्बालरूपैरपत्यैः पुत्रैः सहखेलनाय सहक्रीडनायाऽभ्यर्थ्यमानः प्रार्थ्यमान इव चकासे विदियुते । पादनखानामुपरि चन्द्रशिशुत्वोत्प्रेक्षा । राजकुमारस्य बालचन्द्रेण सहाभेदाद्रूप- कालङ्कारः । अयं बालचन्द्रः शीतरश्मेर्बालैः क्रीडार्थं प्रार्थित इवाऽभूत् इति बालस्वभावौचित्यं व्यज्यते । भाषा उदित भया हुआ और बढ़ता हुआ, बालचन्द्र के समान वह कुमार, पाव के नखों के स्वच्छ तथा अर्धचन्द्राकार होने से या पाव के स्वच्छ नखों में प्रतिबिम्बित चन्द्र होने से मानो चन्द्रमा के छोटे २ बच्चों से साथ खेलने के लिये पाव पडकर प्रार्थना किये गये के ऐसा शोभित हो रहा था। अर्थात् पाव के नखों के मिष से चन्द्र के बालक पाव पडकर उसके साथ खेलने की प्रार्थना करते थे । परां प्रतिष्ठां लिपिषु क्रमेण जगाम सर्वासु नरेन्द्रसूनुः । पुण्यात्मनामत्र तथाविधानां निमित्तमात्रं गुरवो भवन्ति ॥१७॥ अन्वयः नरेन्द्रसूनुः क्रमेण सर्वासु लिपिषु परां प्रतिष्ठां जगाम । अत्र तथा- विधानां पुण्यात्मनां गुरवो निमित्तमात्रं भवन्ति । व्याख्या नरेन्द्रस्य मनुष्येन्द्रस्य सूनुः पुत्रः क्रमेण शनैः शनैः सर्वास्यखिलासु लिपि- ष्वक्षरविन्यासेषु 'लिपिरक्षरविन्यासे लिपिर्लिबिफमे स्त्रियां' इत्यमरः । परामु- त्कृष्ट प्रतिष्ठां काष्ठामुत्कर्षमित्यर्थः 'काष्ठोत्कर्षे स्थितौ दिशि' इत्यमरः ।

( १६३ ) जगाम प्राप । अत्र संसारे तथाविधानां नृपकुमारसदृशानामलौकिकानां पुण्या- त्मनां सुकृतिनां गुरव उपदेशका निमित्तमात्रं कारणमात्रं भवन्ति । पुण्यैरेव सर्वा विद्या अनायासेन ते प्राप्नुवन्ति गुरवस्तु निमित्तमात्रं भवन्तीति भावः । अर्थान्तरन्यासोऽलङ्कारः । भाषा वह राजपुत्र धीरे २ समग्र वर्णमालाओ को अच्छी तरह से जान गया । इस संसार में ऐसे पुण्यात्माओ के शिक्षकगण केवल निमित्त के लिये ही होते हैं । अभ्यासहेतोः क्षिपतः पृषत्कान् नरेन्द्रसूनोः सकलासु दिक्षु । प्रहारभीतेव परिभ्रमन्ती पार्थस्य कीर्तिर्विरलीबभूव ॥१८॥ अन्वयः अभ्यासहेतोः सकलासु दिक्षु पृषत्कान् क्षिपतः नरेन्द्रसूनोः प्रहारभीता इव परिभ्रमन्ती पार्थस्य कीर्तिः विरलीबभूव । व्याख्या अभ्यासहेतोर्वाणविक्षेपणाभ्यासदाढर्याय सकलासु समग्रासु दिक्षु काष्ठासु 'दिशस्तु ककुभ काष्ठा आशाश्चहरितश्च ताः' इत्यमरः । चतुर्दिक्ष्वित्यर्थः । पृषत्कान् बाणान् 'पृषत्कबाणविशिखा अजिह्मगखगाशुगाः' इत्यमरः । क्षिपतः मुञ्चतो नरेन्द्रसूनो राजपुत्रस्य प्रहारात्प्रहरणाद्भीतेव भययुक्तेव परिभ्रमन्ती- स्ततस्तश्चलन्ती पार्थस्याऽर्जुनस्य कीर्तिर्बाणसन्धानयशो विरलीबभूव निबिडेतरा बभूव न्यूनीबभूवेत्यर्थः । राजकुमारस्याऽभ्याससमय एव बाणसन्धानकौशलम- र्जुनादप्यधिकमासीदिति भावः । भाषा अभ्यास करने के लिये सब दिशाओं में बाणों को चलाने वाले उस राजपुत्र के बाणों के प्रहार के भय से मानो डरी हुई, चारों ओर भागने वाली (अर्जुन के पक्ष में) चारों ओर फैली हुई अर्जुन की बाण चलाने की कीर्ति सङ्कुचित हो गई । अर्थात् अभ्यास काल में ही वह राजपुत्र बाण चलाने की कला में अर्जुन से भी कुशल था ।

( १६० ) व्याख्या स राजपुत्रो मुखेन्दायमानचन्द्रे सचाराय गमनाय कृतोऽभिलाषो येन स कुरङ्गो लाञ्छनमृगस्तस्य भीत्यर्थं भयोत्पादनायेवार्ऽपतेन धारितेन कण्ठावसक्तेन कण्ठ- लग्नेन व्याघ्रनख एवाङ्कुर स्तेनाऽराजत शुशुभे । बालमुखेन्दौ लाञ्छनमृगस्य गमनवारणाय व्याघ्रनखा कण्ठे समारोपिता । व्याघ्रनखेन तत्र व्याघ्रसत्ता- मनुमाय मृगस्तत्र न गच्छति । अतएव बालस्य मुखचन्द्रो निष्कलङ्क इति भावः । बालकस्याऽरिष्ट निवारणार्थं तस्य गले व्याघ्रनखार्पण भारते प्रसिद्धम् । फलोत्प्रेक्षाऽलङ्कारः । तेन मुखस्य निष्कलङ्कचन्द्ररूपत्व व्यज्यते । भाषा वह राज पुत्र, मुखरूपी चन्द्र में आने की अभिलाषा रखने वाले लाञ्छन मृग को डराने के लिए मानों गले में पहिने हुए व्याघ्रनखाङ्कुर से शोभित हो रहा था अर्थात् व्याघ्र के भय से मृग वहाँ नहीं जा सकता अत एव उसका मुख रूपी चन्द्र निष्कलङ्क था । (लडको के गले में व्याघ्रनख पहनाने की प्रथा भारत में चिरकाल से चली आई है ।) क्रीडन्समुत्सारितवारनारी—मञ्जीरनादागतराजहंसः । एकः क्षितेः पालयिता भविष्यन् स राजहंसासहनत्वमूचे ॥१४॥ अन्वयः क्रीडन्समुत्सारितवारनारीमञ्जीरनादागतराजहंसः सः एकः क्षितेः भवि- ष्यन् पालयिता राजहंसासहनत्वम् ऊचे । व्याख्या क्रीडन् बालोचितक्रीडाविलास कुर्वन् समुत्सारिता निवारिता वारनारीणो वाराङ्गनानां 'वारस्त्री गणिका वेश्या रूपाजीवा' इत्यमरः । मञ्जीरनादेन नूपुरशब्देनाऽऽगता राजहंसा मरालश्रेष्ठा 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिता' इत्यमरः । येन स एवम्भूतः स बालक एक एवैकाक्येव क्षिते सम्पूर्ण- पृथिव्या भविष्यन् भावी पालयिता रक्षिता राजहंसानां श्रेष्ठनृपाणामसहनत्वं तेषां महत्त्वसहनाशक्तत्वमूचे निवेदितवान् । श्लिष्टोत्प्रेक्षालङ्कारः ।

( १६१ ) भाषा खेलते हुए, वेश्याओं के पैंजेव के शब्दों को सुनकर आए हुए राजहंस पक्षियों को भगा देने वाले उस बालक ने, सम्पूर्ण पृथ्वी का एक छत्र राजा हो कर भविष्य में अन्य श्रेष्ठ राजहंसा अर्थात् राजाओं के महत्त्व की असहनशीलता का परिचय दिया। स पीडयन्नायसपञ्जरस्थान् क्रीडापरः केसरिणां किशोरान् । समाददे भाविरिपुद्विपेन्द्र-युद्धोपयोगीव तदीय शौर्यम् ॥१५॥ अन्वयः क्रीडापरः सः आयसपञ्जरस्थान् केसरिणां किशोरान् पीडयन् भाविरि- पुद्विपेन्द्रयुद्धोपयोगि तदीयौर्य समाददे इव । व्याख्या क्रीडापरो बालक्रीडासक्त स आयसपञ्जरस्थान् लौहनिर्मितपिञ्जरस्थितान् लोहोऽस्त्री शस्त्रक तीक्ष्ण पिण्ड कालायसावसी' इत्यमर । केसरिणा सिंहाना किशोरान् शिशून् पीडयन् बाधमानो भाविषु भविष्यत्सु रिपव एव द्विपेन्द्रास्तेषा शत्रुगजेन्द्राणा युद्धेषु नर्मयेषु 'युद्धमायोजन जन्य प्रधन प्रविदारणम्' इत्यमर' । उपयोगि कार्यसाधकं विजयकारीतिभाव । तदीयं सिंहशिशुसम्बन्धि शौर्य पराक्रमं समाददे इव गृहीतवानिव । सिंहोऽनायासेन स्वशौर्येण गजं हन्ति तदीय शौर्येणायमपि भविष्यत् काले रिपुगजेन्द्रं हनिष्यतीति भाव । रूपकसह- कृतोत्प्रेक्षालङ्कार । भाषा खेलकूद में लगे हुए उस बालक ने लोहे के पिंजरे में के शेर के बच्चों को तंग कर भावी शत्रुरूपी गजेन्द्रों के युद्ध में उपयोगी उनके शौर्य को मानो ले लिया । सिंह ही का शौर्य गजेन्द्रा के मारने में समर्थ होता है । इसलिये इसने शत्रुरूपी गजेन्द्रों को मारने के लिय मानो इनसे शौर्य छीन लिया । प्राप्तोदयः पादनखैश्चकासे स बालचन्द्रः परिवर्द्धमानः । अभ्यर्थमानः सहखेलनाय बालैरपत्यैरिव शीतरश्मेः ॥१६॥ ”

( १६४ ) लावण्यलुब्धाभिरलब्धमेव भूपालकन्यामधुपाङ्गनाभिः । कवित्ववक्तृत्वफला चुचुम्ब सरस्वती तस्य मुखारविन्दम् ॥१९॥ अन्वयः कवित्ववक्तृत्वफला सरस्वती लावण्यलुब्धाभिः भूपालकन्यामधुपाङ्ग- नाभिः अलब्धम् एव तस्य मुखारविन्दं चुचुम्ब । व्याख्या कवित्वं काव्यकर्तृत्वं वक्तृत्वं वाग्मिता च फलं यस्याः सा सरस्वती वाग्देवता, यस्यास्समवधाने सति कवित्वं वक्तृत्वञ्चानायासेनेव प्रतिफलतीति भावः । लावण्ये कुमारस्य सौन्दर्ये लुब्धाभिस्तत्साक्षात्काङ्क्षिणीभिर्भूपालानां राज्ञां कन्या राजकुमार्य एव मधुपानां भ्रमराणामङ्गनाः स्त्रियस्ताभिरलब्धमप्राप्तं तस्य कुमारस्य मुखमेवारविन्दं कमलं 'वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्' इत्यमरः । चुचुम्ब तस्य मुखे निवासं चकारेत्यर्थः । सरस्वती कुमारवृत्तान्ते नायकव्यवहारसमारोपात्समासोक्तिरलङ्कारः । भूपालकन्यासु भ्रमराङ्गनात्वा- भेदारोपान्मुखे चारविन्दत्वाभेदारोपाद्रूपकालङ्कारः । तेन चाऽस्य विलक्षणं कवित्वं वाग्मित्वञ्च व्यज्यते । भाषा उस राजकुमार के सौन्दर्य पर मोहित राजकन्या रूपी भ्रमराङ्गनाओं से अप्राप्य उसके मुख कमल को कवित्व तथा वक्तृत्व शक्ति देनेवाली सरस्वती ने चूमलिया । अर्थात् सरस्वती ने उसके मुख में वास कर लिया । अतएव वह कुमार बाल्यकाल में ही कविता बनाने में और युक्तिपूर्ण बातें करने में अत्यन्त निपुण हो गया । तं बालचन्द्रं परिपूर्यमाण-मालोक्य लावण्यकलाकलापैः । कुमुद्वतीनामिव कामिनीनां निशासु निद्रा विमुखीबभूव ॥२०॥ अन्वयः निशासु लावण्यकलाकलापैः परिपूर्यमाणं तं बालचन्द्रम् आलोक्य कुमुद्वतीनाम् इव कामिनीनां निद्रा विमुखीबभूव ।

( १६५ ) व्याख्या निशासु रात्रिषु लावण्यस्य सौन्दर्यस्य कलास्तासा कलापाः समूहास्तैः परि- पूर्यमाण तं यत्नः कुमारः चन्द्र इव शशीव नूतनचन्द्रो वा तं समालोक्य दृष्ट्वा कुमुद्वतीनामिव कुमुदिनीनामिव कामिनीनामङ्गनाना निद्रा विमुखोबभूवापससार गतेत्यर्थः । यथा निशासु नवीनचन्द्रं विलोक्य कुमुदिनी विकसिता भवति स्वकुङ्- मलत्वरूपनिद्रा जहाति तथैव कामिन्योऽपि तमद्भुतसौन्दर्ययुक्तं कुमारं निरीक्ष्य कामज्वरपीडिताः सत्यो रात्रौ निद्रा न लभन्तय इति भावः । अत्र कुमुद्वती कामिन्योर्द्वयोरेकक्रियान्वयात्तुल्ययोगितालङ्कारः । भाषा रात्रियों में जिस प्रकार कलासमूहों से क्रमशः परिपूर्ण होने वाले नूतन चन्द्रमा को देखकर कुमुदिनी विकसित हो जाती है और उसकी कलीस्वरूपी निद्रा हट जाती है उसी प्रकार सौन्दर्य से परिपूर्ण होने वाले उस कुमार को देखकर सुन्दरियां काम ज्वर से पीड़ित हो जाती है अतएव रात्रियों में उनकी निद्रा दूर हो जाती है । धैर्येण तस्मिन्नवधीर्य याति स्मरोत्सुकानां नगराङ्गनानाम् । आबद्धमुग्धभ्रुकुटिच्छटानां पेतुः सकोपं नयनोत्पलानि ॥२१॥ अन्वयः धैर्येण अवधीर्य याति तस्मिन् स्मरोत्सुकानाम् आबद्धमुग्धभ्रुकुटीच्छ- टानां नगराङ्गनानां नयनोत्पलानि सकोपं पेतुः । व्याख्या धैर्येण धीरतया स्वस्वाभाविकगुणेन गाम्भीर्येणाऽवधीर्य कामिनीस्तिरस्कृत्य याति गच्छति तस्मिन् कुमारे स्मरेण कामवेगेनोत्सुकानामुद्वेलितमानसानामाबद्धाः सङ्कुचिता अत एव मुग्धा सुन्दर्यो या भ्रुकुटयस्तासा च्छटा शोभा यासां तासां नगराङ्गनानां नागरिकसुन्दरीणां नयनान्येव नेत्राण्येवोत्पलानि इन्दीवराणि तानि सकोप कोपेन सहित यथा स्यात्तथाऽनादर दृष्ट्या समुद्भूतेन क्रोधेन पेतुः न्यपतन् । कामवेगेनोत्सुकानामङ्गनानां धीरतयाऽवधीरणात्तस्मिन् ताः कुपिताः सञ्जाता इति भावः।