अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
प्रथमोऽङ्कः ३१
**राजा—**एष प्रतिसंहृतः ( इति यथोक्तं करोति ) ।
वैखानसः—( सहर्षम् ) सदृशमेतत् पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥ १२ ॥
स्थापनं यस्य तत् साधुकृतसन्धानम्, सायकं = बाणं आशु = त्वरितं प्रतिसंहर = तूणीरं प्रत्यानय वः = युष्माकं क्षत्रियाणां शस्त्रम् = आयुधम् आर्तानां = पीडितानां त्राणाय = रक्षणाय विपन्नप्रतिपालनाय अस्ति, अनागसि = निरपराधे प्रहर्तुं = प्रहारकरणाय न = नहि ( अस्ति ) अतो निरपराधं मृगं मा प्रहर, मुञ्चैनमिति भावः । अत्र छेक-श्रुत्यनुप्रासौ अलङ्कारौ, अनुष्टुप् च छन्दः ॥ ११ ॥
**राजा—**सप्रणामं = सादरं प्रणामं कृत्वा नृपः कथयति—एषः = अयं बाणः प्रतिसंहृतः = धनुषोऽवतारितः । इति = एवं कथयित्वा यथोक्तं करोति = स्ववचनानुसारं शरं निषङ्गे निक्षिपति ।
**वैखानसः—**वैखानसः = तापसः पुरुवंशप्रदीपस्य = पुरोः ययातिपुत्रस्य यो वंशः तस्य यः प्रदीपः = प्रदीपवदुद्भासकः तस्य = पुरुवंशभूषणस्य भवतः = आयुष्मतः एतत् = ब्राह्मणानुवर्तित्वं तापसवचनपालनं सदृशं योग्यम् । पौरवा हि राजानः सदैव ब्राह्मणानामनुकूला आज्ञाकराश्च । अथ राज्ञः उचितकारित्वेन तत्प्रशंसापुरःसरमभिलषितं वस्तु आशास्ते ।
**अन्वयः—**यस्य पुरोः वंशे जन्म ( तस्य ) तव इदं युक्तरूपम् । एवं गुणोपेतं चक्रवर्तिनं पुत्रमवाप्नुहि ।
जन्मेति । यस्य = भवतो दुष्यन्तस्य पुरोः = ययातिपुत्रस्य पितृभक्तशिरोमणेः राजर्षेः वंशे = अन्वये, कुले जन्म = उत्पत्तिरस्ति तस्य तव = भवतः कृते इदम् = एतद् तापसा-
**विशेष—**इस पद्य में सन्धान और प्रतिसंहार शब्दों का क्रमशः पारिभाषिक अर्थ है—धनुष पर बाण को चढ़ाना और उतारना । यहाँ तापस ने राजा को उपदेश दिया है कि आपका आयुष आर्तों की रक्षा करने के लिए है, न कि निरपराध पशुओं पर प्रहार करने के लिए । अतः बाण चढ़ा लेने पर उसे उतारना प्रतिष्ठा का प्रश्न न मानिए, निरपराधी जीवों पर दया करना आप जैसे कुलीन राजाओं का परमधर्म हैं । यहाँ अस्त्र उठाने का उद्देश्य अति सुन्दरता से बताया गया है कि अस्त्र उठाने का उद्देश्य पीड़ित प्राणियों की रक्षा करना है, न कि उन्हें मारना । इसीलिए कवि ने दुष्यन्त के लिए वः ( युष्माकम् ) का प्रयोग किया है ।
**राजा—**मैंने अपना बाण वापस कर लिया ( बाण को धनुष पर से उतारते हैं ) ।
तपस्वी—( प्रसन्नतापूर्वक ) पुरुवंश के प्रदीप स्वरूप आपके लिए यह आश्रम की मर्यादा का रक्षण करना आपके कुल की मर्यादा के अनुरूप ही है ।
जिसका जन्म पितृभक्त शिरोमणि राजर्षि पुरु के वंश में हुआ है, ऐसे आपके लिए इस आश्रम को अभयदान देना तथा तपस्वियों की आज्ञा को मानना सर्वथा उचित ही है । इसलिये हे राजन् ! आपको आपके ही सदृश सर्वगुणसम्पन्न चक्रवर्ती पुत्र प्राप्त हो ॥ १२ ॥
**विशेष—**इस पद्य में पुरोर्वंशे के स्थान पर षष्ठी तत्पुरुष समास करके पुरुवंश का प्रयोग भी
| २२ | अभिज्ञानशाकुन्तलम् |
|---|
इतरौ—( १बाहू उद्यम्य ) सर्वथा चक्रवर्तिनं पुत्रम् आप्नुहि ।
राजा—( सप्रणामम् ) प्रतिगृहीतम् ।
वैखानसः—राजन् ! समिदाहरणाय २प्रस्थिता वयम् । ३एषः खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च—
नुरोधपालनारूपं कार्यं युक्तरूपं = उचितमेव, एवं गुणोपेतं = एवंविधैः गुणैः उपेतमेवं गुणोपेतम् = ईदृशगुणयुक्तं स्वानुरूपं सकलगुणगणोपेतं चक्रवर्तिनं चक्रे = राजसमूहे वर्तयितुं चालयितुं प्रशासितुं वा शीलमस्येति चक्रवर्ती, यद्वा चक्रं = सैन्यं वर्तयितुं सर्वभूमौ चालयितुं शीलमस्येति चक्रवर्ती, अथवा चक्रे = भूमण्डले वर्तते = विद्योतते इति चक्रवर्ती तं चक्रवर्तिनं = सार्वभौमं पुत्रं = पुन्नाम्नो नरकात् त्रायते इति पुत्रस्तं पुत्रं = तनयम् आप्नुहि = अस्मद्वचनमहिम्ना लभस्वेत्याशीः । अत्र काव्यलिङ्गालङ्कारोऽनुष्टुप्छन्दश्च ।। १२ ।।
इतराविति—इतरौ = अन्यौ वैखानसेन सहागतौ शिष्यौ बाहू = हस्तौ उद्यम्य = सर्वथा = नूनं चक्रवर्तिनं = सार्वभौमं पुत्रं = तनयम् आप्नुहि = लभस्व ।
राजा—प्रणामेन = नत्या सह सप्रणामं = प्रणामपूर्वकम् कथयति—प्रतिगृहीतम् = अङ्गीकृतम्, भवतामाशीर्वचनं शिरोधार्यमस्ति ।
वैखानसः—वैखानसः = तपोधनः कथयति—राजन् ! = हे भूपते ! वयं = तापसाः
किया जा सकता था । इसका आशय यह है कि तत्पुरुष समास में उत्तरपद की प्रधानता होती है, किन्तु यहाँ कवि का तात्पर्य उत्तर पद वंश की प्रधानता में नहीं है, यह तो यहाँ पूर्वपद पुरु की विशेषता बताना चाहता है, क्योंकि समास न करने से पूर्व पद स्वतन्त्र होकर अपने गौरव को व्यक्त कर रहा है । पुरु की धार्मिकता और पितृभक्ति का प्रदर्शन कवि को यहाँ अभिप्रेत है । पुरु की पितृ भक्ति की कथा पुराणों से जाननी चाहिए । इन्होंने पिता राजा ययाति की आज्ञा में श्रद्धा रखकर उन्हें अपना यौवन दे दिया और उनको बुढ़ाई ले ली थी ।
यहाँ तपस्वियों के अनुरोध की रक्षा कर गुरुभक्ति का परिचय देने से पुरुवंश की परम्परा स्मरण हो आया है । चक्रवर्ती पुत्र की प्राप्ति के आशीर्वाद से प्रतीति होता है कि अभी तक उन्हें कोई सन्तान न थी । तपस्वियों ने उन्हें पुत्र लाभ का आशीर्वाद देकर आगे की परम्परा चलाने में पूर्ण सहयोग किया । पिता के लिए पुत्र की प्राप्ति का आशीर्वाद सर्वोत्तम माना जाता है । इन तपस्वियों के आशीर्वाद स्वरूप दुष्यन्त को सर्वदमन भरत जैसा सर्वगुणसम्पन्न पुत्र प्राप्त हुआ ।
विशिष्ट राजाओं के लिए चक्रवर्ती शब्द पारिभाषिक है, जिसका अर्थ होता है भूमण्डल का सञ्चालक राजा या राज्यमण्डल का शासक शास्त्रों में चक्रवर्ती सम्राट् राजाओं का लक्षण इस प्रकार किया गया है—
सर्वेभ्यः क्षितिपालेभ्यो नित्यं गृह्णाति वै करम् ।
स सम्राडिति विज्ञेयश्चक्रवर्ती स एव हि ।। १२ ।।
दोनों—राजन् ! आप अवश्य पुत्र प्राप्त करें ।
राजा—( प्रणाम करते हुए ) आपलोगों का आशीर्वाद शिरोधार्य है ।
तपस्वी—हे राजन् ! हमलोग तो हवन के उपकरण लकड़ी कुश आदि लाने के निमित्त
पाठा०--१. हस्तमुद्यम्य । २. प्रस्थितावावाम् । ३. एष चास्मद्गुरोः साधिदैवतं इव ( एष ) शकुन्तलया ।
प्रथमोऽङ्कः
^१रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः ^२समवलोक्य।
ज्ञास्यसि कियद् भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥ १३ ॥
समिदाहरणाय = समिधामाहरणं तस्मै समिदाहरणाय = यज्ञोपकरणेन्धनकुशादिसंग्रहाय प्रस्थिताः = प्रचलिताः। एषः = समीपवर्ती पुरोदृश्यमानः खलु = निश्चयेन कण्वस्य = कण्वनाम्नः कुलपतेः = दशसहस्रच्छात्राध्यापकस्य मुनिकुलेश्वरस्य मालिन्या = मालिनीनामिकाया नद्याः = तीरे तटे इति अनुमालिनीतीरम् आश्रमः = मुनिनिवासस्थलं दृश्यते = अवलोक्यते। न चेत् = यदि न अन्यकार्यातिपातः—अन्यस्य = अपरस्य कार्यस्य = कृत्यस्य अतिपातः = व्याघातः इति अन्यकार्यातिपातः = न इतरकार्यविलम्बः तर्हि प्रविश्य = आश्रमान्तः गत्वा आतिथेयः—अतिथौ साधुः आतिथेयः सत्कारः = अतिथिपूजा, प्रतिगृह्यतां = स्वीक्रियताम्। अथ आश्रमं प्राप्य आतिथ्यपरिग्रहे न केवलं तापसप्रीत्या श्रेयः प्रत्युत अन्यथापि ते तत्र गमनमुपकरिष्यतीत्याह—अपि च = अन्यच्च।
अन्वयः—रम्याः प्रतिहतविघ्नाः ( च ) तपोधनानां क्रियाः समवलोक्य (त्वं) ज्ञास्यसि मौर्वी किणाङ्कः मे भुजः कियत् रक्षति इति ज्ञास्यसि।
रम्या इति। रम्याः = रमणीयाः प्रतिहतविघ्नाः—प्रतिहताः = निरस्ताः विघ्नाः = प्रत्यवायाः यासां तादृश्यः प्रतिहतविघ्नाः = निरस्तान्तरायाः तपोधनानां = तपः = तपस्या
वन में जा रहे हैं। देखिए, यह सामने ही हमारे गुरुवर कुलपति महर्षि कण्व का मालिनी नदी के तीर पर आश्रम दीख रहा है। यदि आपके किसी आवश्यक कार्य की हानि न हो तो, आप इस आश्रम में पधार कर अतिथि सत्कार ग्रहण करें। और भी--
तप ही जिनका धन है ऐसे तपस्वियों की रमणीय एवं निर्विघ्न क्रिया को देखकर आप स्वयं जान जायेंगे कि मेरी धनुष की डोरी के चिह्न से अङ्कित भुजा कितनी और कहां तक रक्षा करती है ॥ १३ ॥
विशेष—यहाँ तपस्वियों ने राजा दुष्यन्त के अनुकूल आचरण से प्रभावित होकर अपने कुलपति महर्षि कण्व के आश्रम पर अतिथि सत्कार स्वीकार का अनुरोध किया। कुलपति शब्द पारिभाषिक है। यहाँ इसका मुनिवंश के स्वामी से तात्पर्य है। जो विद्वान् १००० एक हजार मुनियों को अन्न-पान से पालन करता हुआ पढ़ाता है, उसे कुलपति कहते हैं—
मुनीनां दशसाहस्रं योऽन्नपानादिपोषणात्।
अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥
पद्मपुराण में तो कुलपति को दश हजार शिष्यों का आचार्य, मुनिप्रमुख और प्रचुरव्रत, यज्ञ आदि कर्म करने वाला कहा गया है—
आचार्यो बहुशिष्याणां मुनीनामग्रणीस्तु यः।
व्रतयज्ञादिकर्माढ्यः स वै कुलपतिः स्मृतः॥
मनुस्मृति में मनुजी ने एक रात रहने वाले व्यक्ति को अस्थायी निवास के कारण अतिथि कहा है—
एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः।
अनित्यो हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ३।१०२
पाठ०—१. धर्म्याः। २. समभिवीक्ष्य।
२४ अभिज्ञानशाकुन्तलम्
राजा—अपि ¹संनिहितोऽत्र कुलपतिः।
वैखानसः—इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय² नियुज्य³ दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः।
राजा—भवतु। ⁴तामेव द्रक्ष्यामि। सा खलु विदितभक्तिं मां महर्षेः कथयिष्यति।
धनं = वित्तं येषां तेषां तपोधनानां = तपस्विनां क्रियाः = यज्ञादि क्रियाः कृत्यानि समवलोक्य = दृष्ट्वा त्वं = भवान् ज्ञास्यसि = अवगमिष्यसि, **मौर्वीकिणाङ्कः—**मौर्व्याः = धनुर्गुणस्य किणः = चिह्नम् अङ्कः = भूषणम् यस्य स मौर्वीकिणाङ्कः ज्याघातव्रणभूषितः मे = मम भुजः = बाहुः कियत् = किं परिमाणं रक्षति = अवति इति = एतत् ज्ञास्यसि = अनुभविष्यसि। अत्र प्रस्तुताङ्कुरः, पर्यायोक्तं, काव्यलिङ्गं विरोधाभासश्चालङ्काराः आर्या च वृत्तम् ।। १३ ।।
**राजा—**अथ तेषामनुरोधेन आश्रमगमनं विचिन्वन् कुलपतिदर्शनौत्सुक्येन तत्सान्निध्यं पृच्छन्नाह—अपि सन्निहितोऽत्र कुलपतिः = अत्र = आश्रमे कुलपतिः महर्षिः कण्वः सन्निहितः = आत्मना उपस्थितः किमिति प्रश्नः।
वैखानसः—इदानीम् = अधुना, एव दुहितरं = धर्मकन्यां शकुन्तलां = शकुन्तलाख्याम् अतिथिसत्काराय = अविद्यमाना = आगमनस्य तिथिः = दिवसः यस्य सोऽतिथिः तस्यातिथेः = अभ्यागतस्य सत्काराय = अतिथिसत्काराय = अतिथिसत्काररूपकार्यसम्पादनाय, आदिश्य = नियुज्य अस्याः = शकुन्तलायाः प्रतिकूलं = अशुभं, विवाहादि प्रतिबन्धकं दैवम् = अदृष्टं शमयितुं = शान्त्यादिना प्रतिविधातुं सोमतीर्थं = तदाख्यं तीर्थविशेषं चन्द्रकूपं गतः = यातोऽस्ति।
राजा—भवतु = अस्त्वेवम्, **तामेव—**पूर्ववर्णितां शकुन्तलामेव द्रक्ष्यामि = प्रेक्षिष्ये
इसकी टीका करते हुए कुल्लूकभट्ट ने कहा है कि अस्थायी निवास के कारण जिस व्यक्ति के रहने की दूसरी तिथि न आने पावे वह अतिथि कहलाता है—
'अनित्यावस्थानान्न विद्यते द्वितीया तिथिरस्येत्यतिथिरुच्यते'।
राजा—क्या कुलपति महर्षि कण्व इस समय आश्रम पर विराजमान हैं ?
तपस्वी—अभी थोड़ा समय हुआ कि कुलपति जी अपनी कन्या शकुन्तला को अतिथि सत्कार का भार देकर इस कन्या के प्रतिकूल अदृष्ट शान्ति के लिए सोमतीर्थ में गये हुए हैं।
विशेष—प्रतिकूल अदृष्ट का तात्पर्य है कि शकुन्तला के विवाह तथा पतिसुख में विघ्न करने वाले ग्रहों से है। सोमतीर्थ काठियावाड में प्रसिद्ध सोमनाथ मन्दिर के पास है। इसे वाराह पुराण में प्रभासतीर्थ भी कहा गया है, जहाँ दक्ष के शाप से चन्द्रमा को क्षयरोग से मुक्ति मिली थी। इस तीर्थ की महिमा अपूर्व है। किसी के मत से कुरुक्षेत्रान्तर्गत जींदराज्य में पाण्डुपिण्डरा नाम का महान् तीर्थ सोमतीर्थ है। कोई नारनौल पटियाला ढोसी पर्वत पर स्थित चन्द्रतीर्थ को सोमतीर्थ कहता है।
राजा—अच्छा तो मैं फिर कुलपति की कन्या शकुन्तला का ही दर्शन करूँ। वही मुनि के प्रति मेरी भक्ति और श्रद्धा की सूचना मुनि के आनेपर उन्हें दे देगी।
पाठा०—१. सन्निहितस्तत्र । २. अतिथिसत्कारार्थम् । ३. आदिश्य । ४. तां द्रक्ष्यामि ।
प्रथमोऽङ्कः
वैखानसः— ^१साधयामस्तावत् । ( सशिष्यो निष्क्रान्तः । )
राजा— सूत ! नोदयाश्वान् । पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।
सूतः— यदाज्ञापयत्यायुष्मान् । ( ^२भूयो रथवेगं निरूपयति । )
सूतः— ( समन्तादवलोक्य ) सूत ! अकथितोऽपि ज्ञायत एव यथायमाभोगस्तपोवनस्येति ।
सूतः— कथमिव ।
राजा— किं न पश्यति भवान् । इह हि ।
सा खलु = निश्चयेन विदितभक्तिः = विदिता = स्फुटा भक्तिः = श्रद्धा यया सा विदितभक्तिः यद्वा विदिता भक्तिः यस्य सः तं विदितभक्तिं मां महर्षेः = कण्वस्य कुलपतेः समक्षं कथयिष्यति = निवेदयिष्यति ।
वैखानसः—साधयामस्तावत् = गच्छामस्तावत् ( इति एवमुक्त्वा सशिष्यः = शिष्याभ्यां साकं निष्क्रान्तः = रङ्गात्रिःसृतः रङ्गमञ्चादपगत इत्यर्थः । )
राजा—सूत ! अश्वान् = रथ्यान् नोदय = प्रेरय । पुण्याश्रमदर्शनेन = पुण्यश्चासावाश्रमश्चेति पुण्याश्रमः तस्य दर्शनं तेन पुण्याश्रमदर्शनेन दर्शनेन = अवलोकनेन तावत् आत्मानं = स्वं मनो वा । तथाहि—
आत्माकंचन्द्रवातादि जीवेषु परमात्मनि ।
देहे यत्ने धृतौ कीर्तौ बुद्धौ मनसि च श्रुतः ॥
पुनीमहे = पवित्रीकुर्महे ।
सूतः—आयुष्मान् यद् आज्ञापयति = तत् करोमि, अश्वान् नोदयामीत्यर्थः । ( इति भूयः = पुनरपि रथस्य वेग = सत्वरगमनं निरूपयति = नाटयति, हस्तसञ्चालनादिना वेगाभिनयं करोतीत्यर्थः । )
राजा—समन्तात् = सर्वतश्चतुर्दिक्षु अवलोक्य = दृष्ट्वा अवलोकनेन इदं तपोवनमिति निश्चित्य कथयति—सूत ! अकथितोऽपि = अन्येनावेदितोऽपि अयं = पुरोदृश्यमानः तपोवनस्य = आश्रमस्य आभोगः— आभुज्यते इत्याभोगः = परिसरप्रदेशः ज्ञायते = अवगम्यते ।
सूतः—सारथिः कथयति यत् कथमिव = केन प्रकारेण ज्ञायते यदयमाश्रमप्रदेशः ।
राजा—नृपः कथयति यत् किन्न पश्यसि भवान् = त्वम् इह = अत्र स्थाने हि = निश्चयेन ।
तपस्वी— अच्छा तो हमलोग जाते हैं ( रंगमंच से शिष्य के साथ चला जाता है । )
राजा— सारथे ! घोड़ों को हाँकों, चलो, इस आश्रम में चलकर पुण्यतम आश्रम आदि के दर्शन से अपने को पवित्र करें ।
सारथि— महाराज की जो आज्ञा ( रथ को तेजी से हाँकने का अभिनय करता है । )
राजा—( चारों ओर देखकर ) सारथे ! बिना कहे हुए भी स्पष्ट ही मालूम पड़ता है कि यह आश्रम की समीपवर्ती प्रदेश है ।
सारथि— कैसे ?
राजा— क्या आप नहीं देख रहे हैं, यहाँ—
पाठा०—साधयावः । २. इति भूयः ।
२६ | अभिज्ञानशाकुन्तलम्
नीवाराः ^१शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४ ॥
अन्वयः—(क्वचित्) तरूणाम् अधः शुकगर्भकोटरमुखभ्रष्टाः नीवाराः (विद्यन्ते) क्वचित् प्रस्निग्धाः उपला इङ्गुदीफलभिदः सूच्यन्ते एव (क्वचित्) विश्वासोपगमात् अभिन्नगतयः मृगाः शब्दं सहन्ते (क्वचित्) तोयाधरपथाः च वल्कलशिखानिष्यन्दरेखाङ्किताः (दृश्यन्ते) ।
नीवारा इति । इह हि क्वचित् = कस्मिंश्चिद्भूभागे तरूणां = वृक्षाणाम् अधः = तलेषु शुकगर्भकोटरमुखभ्रष्टाः शुकाः = कीराः गर्भे = मध्ये येषां तानि यानि कोटराणि तेषां मुखानि = अग्रभागाः तेभ्यः भ्रष्टाः = अधः पतिता इति शुकगर्भकोटरमुखभ्रष्टाः = यद्वा शुकानां कोटरेषु स्थिता ये अर्भका नीडस्था अजातपक्षाः शावकास्तेषां मुखेभ्यो भ्रष्टाः = कीरकुलायावस्थितशावकवदनच्युताः नीवाराः = मुनिधान्यकणाः विद्यन्ते ।
क्वचित् = कुत्रापि इङ्गुदीनां = तापसतरूणां फलानि स्नेहोत्पादनार्थं भिद्यन्ते एभिरिति इङ्गुदीफलभिदः यद्वा इङ्गुदीफलानि = तापसफलानि भिन्दन्ति = छिन्दन्ति इतीङ्गुदीफलभिदः तापसतरुफलभेदकाः अत एव प्रस्निग्धाः = प्रकर्षेण स्निग्धाः प्रस्निग्धाः चिक्कणाः इङ्गुदीतैलाक्ताः उपला = पाषाणखण्डाः सूच्यन्ते = ज्ञायन्ते एव । प्रस्निग्धत्वादिङ्गुदीफलभेदका एते ज्ञायन्ते इत्यर्थः । तापसा उपलैरैव भित्वा इङ्गुदीफलेभ्यः तैलमाकर्षन्तीति प्रसिद्धम्, क्वचित् = कस्मिंश्चिद्भागे विश्वासोपगमात् = विश्वासस्योपगमो विश्वासोपगमः तस्माद् विश्वासोपगमात् = विश्वासलाभात् जातविश्वासाः अत एव **अभिन्नगतयः—**अभिन्ना गतिः येषां ते अभिन्नगतयः = निर्भयगमनाः मृगाः = हरिणाः, शब्दं = रथशब्दं, रथनेमिध्वनि सहन्ते = सधैर्यं शृण्वन्ति । तमसहमानाः ततो न प्लवन्ते इति भावः ।
क्वचित् प्रदेशे तोयाधारपथाः—तोयस्य = जलस्य आधाराः = अधिकरणभूताः जलाशयाः तेषां पन्थानः = मार्गाः इति तोयाधारपथाः = जलयानमार्गाः च वल्कलानां =
मुनियों का अन्न नीवार वृक्षों के नीचे इधर-उधर बिखरा हुआ दिखाई दे रहा है, जो घोसलों में बैठे हुए सुग्गों के बच्चों के मुख से गिरे हुए प्रतीत हो रहे हैं । यहाँ पर जगह-जगह इङ्गुदी के फल पीसने से चिकने हुए पत्थर के टुकड़े पड़े हुए हैं । यहाँ के मृग पक्षी आदि रथ की ध्वनि की आहट से भी डर कर भागते नहीं । और स्नान कर आने वाले मुनि गणों के वल्कलवस्त्रों से टपकते हुए जल की रेखाएँ जलाशयों के भागों पर दिखाई दे रही हैं । इससे स्पष्ट मालूम पड़ता है कि अब हमलोग आश्रम की सीमा में पहुँच गये हैं ॥ १४ ॥
**विशेष—**मुन्यन्न नीवार, इङ्गुदीफल तैल से चिकने पत्थरों के टुकड़े निर्भय मृग-पक्षी तथा जलाशयों से आने-जाने के चिह्न तपोवन का सूचक हैं । नीवार धान्य मुनियों का भोज्य पदार्थ है। नीवार बिना जोते बोये होनेवाला अन्न है । आश्रमस्थ मुनि लोग इङ्गुदी के फलों को पीसकर उससे तेल निकाल कर लगाते हैं और कुश से हरिण के बच्चों की जीभ छिल जाने पर लगा देते हैं, तपोवन के आश्रमों में पशु-पक्षी निर्भय रहते हैं क्योंकि उनको किसी से हिंसा का भय नहीं । ऋषि लोग
पाठ०—१. शुककोटरार्भकमुख ।
प्रथमोऽङ्कः २७
अपि च—
¹कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन । एते चार्वागुपवनभुविच्छिन्नदर्भाङ्कुरायां नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति ॥ १५ ॥
वृक्षत्वग्वस्त्राणां शिखाभ्यः = अग्रेभ्यः यः निष्यन्दः = जलस्रावः तस्य या रेखा पङ्क्तिः तया अङ्किताः चिह्निता इति वल्कलशिखा निष्यन्दरेखाङ्किताः = वल्कलाग्रपरिश्रुतजला-धाररेखाविभूषिताः दृश्यन्ते । वैखानसानां तापसानां च वस्त्रनिष्पीडननिषेधात् सद्यः स्नानेन त्वग्वस्त्रस्रुत्तवारिकणैः सैकतभूभागाः चिह्निता भवन्ति । तस्मादेभिलक्षणैरयमा-श्रमस्यैवाभोग एवानुमीयते भावः । अत्र काव्यलिङ्गम्, अनुमानं-स्वभावोक्तिश्चालङ्काराः शार्दूलविक्रीडितं च वृत्तम्, इति ॥ १४ ॥
अन्वयः—पवनचपलैः कुल्याम्भोभिः शाखिनः धौतमूलाः किसलयरुचां रागः आज्य-धूमोद्गमेन भिन्नः अर्वाक् च एते नष्टशङ्काः हरिणशिशवः छिन्नदर्भाङ्कुरायां उपवनभुवि मन्दं मन्दं चरन्ति ।
कुल्याम्भोभिः इति । पवनचपलैः = पवनेन = वायुना चपलैः = वाताहतैः चञ्चलैः = कुल्याम्भोभिः = कुल्यायाः = कृत्रिमायाः खाताया अम्भोभिः = जलैः आलवालवारिभिः = धौतानि = प्रक्षालितानि मूलानि = अधोभागा येषां ते धौतमूलाः = क्षालितमूलाः किसलयरुचां = किसलयानां = पल्लवानां रुचां = प्रभायाम् = पल्लवद्युतीनां रागः = लौहित्यं, आज्यधूमोद्गमेन = आज्यस्य = घृतस्य यो धूमः तस्य उद्गमेन = उद्भवेन = हविर्धूम-
हरिणों के बच्चों को बड़ा प्यार करते हैं। आश्रम के वृक्षों पर लटका कर सुखाने के लिए गीला-वल्कल वस्त्र ले जाते समय जलाशयों से पर्णकुटी तक जाने का मार्ग चिह्नित हो जाता है। तोते अपने बच्चों को चुगाने के निमित्त नीवार की बालें खेतों से लाते हैं, चुगाते समय उनके मुख से दाने गिर जाते हैं तथा मुनियों के अतिरिक्त कोई नीवार खाता नहीं। ये सब पूर्वोक्त बातें मुनियों के आश्रम में ही संभव होने के कारण राजा दुष्यन्त ने आश्रम पर पहुँच जाने का अन्दाजा कर लिया।
और भी देखो—
वायु से चञ्चल कृत्रिम क्यारियों में जल से भरे हुए वृक्षों की जड़ें धुल गयी हैं। अग्निहोत्र के आज्यधूम से वृक्षों के कोमल पल्लवों का रंग भी धूमिल हो गये हैं और छोटे-छोटे हरिणों के बच्चे निर्भय होकर कुशाओं के उखाड़ लेने से निष्कण्टक हुए उपवन के भूभाग में घूम-फिर रहे हैं। इससे स्पष्ट ही ज्ञात होता है कि यह आश्रम का ही प्रदेश है ॥ १५ ॥
विशेष—पूर्वश्लोक में वृक्षों के नीचे गिरे हुए नीवार, हिंगोट के तेल से सने पत्थर के टुकड़े मृगों के मन्द गमन और जलाशयों से आश्रम तक पानी की बूँदों से सिञ्चित भूमि से राजा ने आश्रमभूमि का अन्दाजा किया था, किन्तु अब इस श्लोक में वर्णित वायु से चंचल आलवालों के जल से वृक्षों की जड़ों के धुलने से, अग्निहोत्र के धुयें से पल्लवों के रंगपरिवर्तन से तथा कटे हुए कुशवाली समीपवर्ती भूमिपर मन्द गति से निर्भय चलने वाले हरिण शावकों से राजा को निश्चय हो गया कि यह आश्रम की पवित्रतम भूमि है।
पाठा०—१. अयं श्लोको हि क्वचिन्न्न वर्तते ।
| २८ | अभिज्ञानशाकुन्तलम् |
|---|
सूतः--सर्वमुपपन्नम् !
राजा-- (स्तोकमन्तरं गत्वा ।) ¹तपोवननिवासिनामुपरोधो मा भूत् । ²एतावत्येव रथं स्थापय यावदवतरामि ।
सूतः--धृताः प्रग्रहाः । अवतरत्वायुष्मान् ।
राजा--( अवतीर्य³ ) सूत ! विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । ⁴इदं तावत् गृह्यताम् ( सूतस्याभरणानि धनुश्चोपनय ) सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।
पटलोद्गमेन भिन्नः = परिवर्तितः अर्वाक् = समीपे च एते = इमे पुरोदृश्यमानाः नष्टा = दूरीभूता आशङ्का भयं येषां ते नष्टशङ्काः = निर्भयाः हरिणानां = मृगाणां शिशवः = शावकाः अर्भकाः छिन्नाः = लूनाः दर्भाणां = कुशानां, अङ्कुराः = अग्रभागा यस्याः सा तस्यां छिन्नदर्भाङ्कुरायां = लूनदर्भायां उपवनभुवि = उपवनस्य = उद्यानस्थ भुवि = भूमौ आरामभूभागे मन्दमन्दं = शनैः शनैः चरन्ति = चलन्ति, खेलन्तीत्यर्थः । अतोऽयमाश्रमप्रदेश एवाशयः । अत्र काव्यलिङ्ग-अनुमान-समुच्चय-स्वभावोक्तिवृत्त्यनुप्रासा अलङ्काराः सन्ति वृत्तञ्च मन्दाक्रान्ताऽस्ति ॥ १५ ॥
**सूतः--**सारथिः कथयति यत् राजन् ! सर्वं = सकलम् उपपन्नं = युक्तमुक्तं भवता । नूनं तपोवनाभोग एवायमित्यर्थः ।
**राजा--**राजा = दुष्यन्तः स्तोकं = अल्पम् अन्तरम् = अभ्यन्तरं गत्वा = उपस्थाय, तपोवननिवासिनां = पुण्याश्रमवासिनाम्, उपरोधः = मर्यादाभङ्गः शान्तिभङ्गः मा भूत् = मा भवतु, एतावति = आश्रमावधिभूतेऽस्मिन्नेव प्रदेशे, आश्रमबहिर्मार्गे रथं = स्यन्दनं स्थापय = स्थिरीकुरु । अवतरामि = रथादवरोहामि अवतीर्य पद्भ्यामेव गच्छामि ।
**सूतः--**धृताः प्रग्रहाः = रश्मयः संचयिताः आकृष्टा रथोऽवस्थित इति भावः । आयुष्मान् = भवान् अवतरतु = रथात् नीचेः गच्छतु ।
**राजा--**राजा = नृपतिः दुष्यन्तः ( अवतीर्य=रथात् अधः आगत्य ) सूत !=सारथे ! विनीतवेषेण =विनीतश्चासौ वेषो विनीतवेषः तेन विनीतवेषेण=अनुद्धतेन वेषेण तपोवनानि=
**सारथि--**आपका तर्क सर्वथा युक्तिसंगत है अर्थात् यह आश्रम का ही प्रदेश है ।
राजा--( कुछ दूर और चलकर ) सारथे ! इस आश्रम की मर्यादा भंग न हो इसलिए तुम रथ को यहीं रोक लो, जिससे मैं रथ से यहीं उतर जाऊँ। ( अब उतर कर पैदल ही चलूँगा )।
**सारथि--**महाराज ! घोड़ों की लगाम खींचकर मैंने रथ को खड़ा कर दिया है । श्रीमान् अब रथ से नीचे उतरें ।
राजा--( रथ से उतरकर ) सारथे ! आश्रम में विनीत वेष से ही जाना चाहिए । अतः मेरे इन आभूषणों और धनुष को तुम यहीं रख लो (आभूषण एवं धनुष सारथि को देकर) सारथे ! जबतक मैं आश्रमवासियों के दर्शन करके आता हूँ तबतक तुम इन घोड़ों को रथ से खोलकर इनकी पीठ ठण्डी कर लो और खरहरा कर घास-पानी देकर उन्हें ताजा कर लो ।
**विशेष--**मुनियों के आश्रम पर ठाट-बाट से जाना उचित नहीं, वहाँ तो बड़े सादगी वेश और
पाठा०—१. आश्रमोपरोधो मा भूदिति । २. तदिहैव । ३. अवतीर्य आत्मानं चावलोक्य । ४. तदिमानि तावद् गृह्णन्तामाभरणानि धनुश्च ( इति सूतायार्पयति ) ।
| प्रथमोऽङ्कः | २९ |
|---|
सूतः--यदाज्ञापयति देवः । ( निष्क्रान्तः )
राजा--( परिक्रम्यावलोक्य च ) इदमाश्रमद्वारम् । यावत् प्रविशामि । ( प्रविश्य निमित्तं सूचयन् ) ।
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १६ ॥
मुनीनां पवित्रा आश्रमाः प्रवेष्टव्यानि प्रवेशयोग्यानि नाम = निश्चयेन, इदम् = एतत् तावत् गृह्यन्तां = गृहीत्वा रक्ष्यन्ताम् इत्युक्त्वा सूतस्य = सूताय आभरणानि = आभूषणानि धनुः = कार्मुकं च उपनीय = उपहृत्य अर्पयति = ददाति, आदिशच्च । सूत ! = सारथे ! तावत् = यावत्पर्यन्तम्, आश्रमवासिनः—ऋषिजनान् प्रत्यवेक्ष्य = योगक्षेमपर्यालोचन-पूर्वकंमवेक्षणं कृत्वा अहम् = दुष्यन्तः उपावर्ते = प्रत्यागच्छामि तावत् = तावत्पर्यन्तं वाजिनः = अश्वाः, आर्द्रपृष्ठाः—आर्द्राणि स्नानेन क्लिन्नानि पृष्ठानि पृष्ठभागाः ते आर्द्र-पृष्ठाः क्रियन्तां = विधीयन्ताम् ( अश्वानां पृष्ठप्रक्षालनं हि विशेषतः श्रमहरम् ) ।
सूतः—निष्क्रान्तः । सूतः सारथिः तथा एवम् इति कथयित्वा । निष्क्रान्तः = रङ्गमञ्चाद् बहिर्गतः ।
राजा—राजा = दुष्यन्तः परिक्रम्य = रङ्गमञ्चे परितः कतिचित् पदानि गत्वा, अवलोक्य = दृष्ट्वा च इदम् = एतत् आश्रमद्वारं = आश्रमस्य = तपोवनस्य द्वारं = मुखम् इति आश्रमद्वार = आश्रमस्थानम् वर्तते यावत् = तत् प्रविशामि = अभ्यन्तरं गच्छामि प्रविश्य = आश्रमाभ्यन्तरं गत्वा निमित्तं = शकुनं सूचयन् = नाटयन् । पुरुषस्य दक्षिणाङ्ग-स्फुरणं शुभसूचकं निमित्तं दक्षिणबाहुस्पन्दनं, फलं चास्य कलत्रावाप्तिः ।
अन्वयः—इदम् आश्रमपदं शान्तं, बाहुश्च स्फुरति, इह अस्य फलं कुतः, अथवा भवितव्यानां द्वाराणि सर्वत्र भवन्ति ।
शान्तमिदमिति । इदं = पुरोदृश्यमानम्, आश्रमपदं = तपोवनस्थानम् शान्तं = शम-प्रधानम्, बाहुश्च = दक्षिणो बाहुः यथा विक्रमोर्वशीये—अयमास्पन्दितैः बाहुराश्वासयति दक्षिणः । स्फुरति = कान्तालाभार्थमवच्छिन्नं स्पन्दते, इह = शान्तेऽस्मिन्नाश्रमपदे अस्य
विनम्र भाव से जाना चाहिए । क्योंकि मनुस्मृति में मनुजी ने निरीक्षण के समय विनीतभाव और आभूषण रहित होकर आश्रमों में जाने का आदेश दिया है—
विनीतवेषाभरणः पश्येत् कार्यं कार्यिणाम् । = ८।२
इसी सिद्धान्त के अनुसार आजकल भी लोग पूजनीय व्यक्तियों के स्थानों पर टोपी जूता उतार-कर और छड़ी रखकर जाते-आते हैं ।
सारथि—महाराज की जो आज्ञा ( निकल जाता है । )
राजा—( थोड़ा आगे चलकर और सामने देखकर ) यह आश्रम का प्रवेश है । अच्छा, अब मैं इसमें प्रवेश करता हूँ । ( आश्रम के द्वार में प्रवेश कर दाहिनी भुजा का फड़कना सूचित करते हुए । )
यह आश्रम तो शान्तस्थान है, परन्तु मेरी दाहिनी भुजा फड़क रही है, भला इस तपोवन में इस शुभ शकुन का फल कैसे संभव हो सकता है ? या हो भी सकता है, भावी के द्वार सर्वत्र हैं ॥ १६ ॥
विशेष—शकुन शास्त्र में पुरुष की दाहिनी भुजा का फड़कना शुभ तथा सुन्दरी स्त्री का लाभ बताया है—'वामेतरकरस्पन्दो वरस्त्रीलाभदायकः' इस शकुन के सम्बन्ध में राजा सोचता है
३० | अभिज्ञानशाकुन्तलम्
( नेपथ्ये ) इदो इदो सहीओ । [ इत इत सख्यौ । ]
राजा—( कर्णं दत्वा ) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि । ( परिक्रम्यावलोक्य च ) अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्त्तन्ते ( निपुणं निरूप्य ) अहो मधुरमासां दर्शनम् ।
दक्षिणबाहुस्फुरणस्य फलं = कलत्रावाप्तिरूपं परिणामः कुतः = न सम्भवति । अथवा = यद्वा अलं चिन्तया भवितव्यतानां = अवश्यं भाविनामर्थानाम् द्वाराणि = उपायाः सर्वत्र = सर्वेषु स्थानेषु भवन्ति जायन्ते । बलवतो हि भवितव्यता देशकालमनवेक्ष्य प्रवर्त्तते इति भावः । तदुक्तं मालतीमाधवे-सर्वंकषा भगवती भवितव्यतैव । तथा च बलवत्या भवितव्यताया द्वाराणि सर्वथैव संभवन्ति । तस्मात् वरस्त्रीलाभरूपफलमिहापि संभवेदिति भावः, अत्रार्थान्तरन्यासः—अप्रस्तुतप्रशंसा-काव्यलिङ्गं चेत्यलङ्काराश्छन्दश्चार्या ॥ १६ ॥
नेपथ्ये = सज्जगृहे, जवनिकायाम्, इत इतः = अस्यामस्यां दिशि प्रियसख्यौ = अमि अनसूया-प्रियम्वदे अगच्छतां युवामिति शेषः ।
राजा—राजा = दुष्यन्तः कर्णं दत्वा = श्रोत्रं श्रवणार्थं प्रेरयित्वा अये = सभ्रमे वृक्षाणां = तरूणां वाटिका = उद्यानम् वृक्षवाटिकानां वृक्षवाटिकां दक्षिणेन = दक्षिणस्यां दिशि आलापः = परस्परभाषणं, वार्तालापशब्द इव श्रूयते = कर्णगोचरीक्रियते, यावत् = तर्हि अत्र आलापोद्गमस्थाने गच्छामि = यामि, ( परिक्रम्य = कतिचित् पदानि गत्वा अवलोक्य दृष्ट्वा च ) अये एता पुरोदृश्यमाना अल्पाः कन्याः कन्यकाः तपस्विनां कन्यकाः तपस्विकन्यकाः = तापसकुमार्यः, स्वप्रमाणानुरूपैः = स्वस्य = निजस्य प्रमाणस्य आकारस्य अनुरूपैः = उचितैः इति स्वप्रमाणानुरूपैः = स्वोद्वहनयोग्यैः, स्वशक्तियोग्यैः सेचनाय = उक्षणाय घटाः = कलशाः तैः सेचनघटैः = सेचनोपयोगिकलशैः, बालाश्च ते पादपाः बालपादपाः तेभ्यः बालपादपेभ्यः = बालतरुपोतेभ्यः, पयः = जलं दातुं = प्रदातुं अर्पयितुं इत एव = अस्यामेव दिशि अभिवर्तन्ते = अभिमुख आगच्छन्ति । निपुणं निरूप्य सावधानतया निर्वर्ण्य । अहो = आश्चर्यम् आसां = तपस्विकन्यकानां मधुरं = नेत्राह्लादकरं दर्शनम् = अवलोकनम् रूपमित्यर्थः ।
कि इस शान्त आश्रम में दक्षिण बाहु के फड़कने का फल सुन्दर स्त्री का लाभ सम्भव नहीं अथवा भवितव्यता बड़ी प्रबल होती है । उसके प्रभाव से सभी बातें सब जगह संभव हो सकती है ।
( नेपथ्य में ) अरी प्रिय सखियों इधर आओ, इधर ।
विशेष—यहाँ शौरसेनी प्राकृत का प्रयोग है, क्योंकि भरतमुनि के नाट्यशास्त्र में नायिका और सखियों को शौरसेनी भाषा ही बोलने का आदेश है—'नायिकानां सखीनां च शौरसेनी प्रकीर्तिता' ।
राजा—( कान देकर ) इस वाटिका की दाहिनी ओर कुछ परस्पर वार्तालाप का शब्द सुन पड़ रहा है । अच्छा, पहले यहाँ चलूँ, ( कुछ आगे जाकर और सामने देखकर ) ये तपस्वियों की कन्यायें अपने ही अनुरूप छोटे-छोटे सेचन-कलस लिए हुए पौधों में जल देने के लिए इधर ही आ रही हैं । ( अच्छी तरह देखकर ) अहो, इनका सुन्दर रूप और आकृति तो बड़ी ही मनोहारिणी है ।
प्रथमोऽङ्कः ३१
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ १७ ॥
यावदिमां छायामाश्रित्य प्रतिपालयामि । ( विलोकयन् स्थितः )
( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला )
शकुन्तला—इदो इदो सहीओ [ इत इतः सख्यौ । ]
अन्वयः—इदं शुद्धान्तदुर्लभं वपुः आश्रमवासिनो जनस्य यदि ( अस्ति तदा ) खलु उद्यानलता वनलताभिः दूरीकृताः ( सन्ति )।
शुद्धान्तेति । इदं = पुरो दृश्यमानम्, अस्मन्नयनामृतायमानम् शुद्धान्तदुर्लभं = शुद्धान्ते = अन्तःपुरे दुर्लभं = दुष्प्रापमिति शुद्धान्तदुर्लभं वपुः = शरीरं लावण्यं वा, यदि = चेत् आश्रमे वसति तच्छीलः आश्रमवासी तस्याश्रमवासिनः = वनवासिनोऽपि जनस्य = मुनिबालिकालोकस्य अस्ति तर्हि = तदा खलु = निश्चयेन वनलताभिः = अरण्यवल्लीभिः गुणैः = सौन्दर्यसौकुमार्यादिभिः उद्याने लताः = आरामवीरुधः दूरीकृताः = निराकृताः । अप्रस्तुतप्रशंसा-निदर्शनायां संकरोऽलङ्कारः छन्दश्चार्या ॥ १७ ॥
इत्थं तासां लावण्यदर्शनेन विस्मिते राजा स्वकर्तव्यं निश्चिनोति—यावदिति । यावत् = प्रथमं किञ्चित् कालं छायामाश्रित्य-सन्निहिततरुच्छायामिमामाश्रित्य एताः = इमा मुनिकुमारिकाः प्रतिपालयामि = प्रतीक्षे, एतासां वृत्तीरवगम्यात्मानं प्रकाशयितुमवसरं प्रतिपालयिष्यामीत्यर्थः । इति मनस्येव विचिन्त्य विलोकयन् = पश्यन् स्थितः = तिष्ठति ।
( ततः = तदनन्तरं राजनि छायान्तरिते सति यथोक्तव्यापारा—उक्तमनतिक्रम्य यथोक्तं व्यापारो यस्याः सा यथोक्तव्यापारा = वृक्षानमिशिञ्चन्ती शकुन्तला = तन्नाम्नी बाला, महर्षेः कण्वस्य पोष्यपुत्री सखीभ्यां = आलिभ्यां सखीद्वयेन सह = साकं प्रविशति = रङ्गमञ्चप्रवेशं करोति । )
अथ शकुन्तला सख्यौ प्राह—इत इतः प्रियसख्यौ अयि प्रियसख्यौ = अनसूयाप्रियंवदे इत एव युवाभ्यामागन्तव्यम् ।
यदि राजमहल में भी कठिनता से मिल सकने वाला ऐसा सुन्दर स्वरूप इस तपोवनवासिनी बालिकाओं को हो सकता है तो यह कहना पड़ेगा कि जङ्गल की लताओं ने सौन्दर्य-सौकुमार्य आदि अपने गुणों से उद्यान की परिष्कृत लताओं को भी मात कर दिया है ॥ १७ ॥
विशेष—राजा दुष्यन्त की यह धारणा थी कि रनिवास की सुन्दरियों के समान सर्वाधिक उपभोग साधन सम्पन्न और विविध अलंकारों से अलंकृत सौंदर्य और सौकुमार्य अन्यत्र दुर्लभ हैं, किन्तु आभूषणों से हीन नैसर्गिक शोभा से सम्पन्न भोली भाली मुनिकुमारियों का अवलोकन कर उनकी धारणा फीकी पड़ गई। इसीलिए उन्होंने कहा है कि राजललनाओं के रूपलावण्य को भी तिरस्कृत करने वाला सौन्दर्य यदि वनवासी तापसकन्याओं का हो सकता है तो कहना पड़ेगा कि जङ्गली लताओं ने परिष्कृत उद्यान लताओं को मात कर दिया। यहाँ राजमहल की अङ्गनाओं का उद्यान-लता और तापस कन्याओं को जङ्गलीलता की उपमा दी गई है।
अच्छा, इस वृक्ष की छाया में खड़े होकर तबतक मैं इनकी प्रतीक्षा करूँ। ( उनकी ओर देखते हुए रुक जाते हैं। )
( दो सखियों के साथ पौधों की जड़ को जल से सींचती हुई शकुन्तला का प्रवेश )
शकुन्तला—अरी प्रियसखियों ! इधर आओ, इधर।
३२ | अभिज्ञानशाकुन्तलम्
**अनसूया—**हला सउन्दले तुवत्तो वि तादकस्सवस्स अस्समरुक्खआ पिअदरेत्ति तक्केमि। जं इमिणा णोमालिआकुसुमपेलवा तुमं वि एदाणं आलवालपूरणे णिउत्ता। [ हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि यदनेन नवमालिकाकुसुमपेलवा त्वमप्येतेषामालवालपूरणे नियुक्ता। ]
**शकुन्तला—**ण केवलं तादणिओओ एव्व। अत्थि मे सोदरसिणेहो एदेसु। [ न केवलं तातनियोग एव अस्ति मे सोदरस्नेह एतेषु। ] (वृक्षसेचनं रूपयति)
राजा—( आत्मगतम् ) कथमिदं सा कण्वदुहिता। ^१असाधुदर्शी खलु तत्रभवान् ^२काश्यपः य इमामाश्रमधर्मे नियुङ्क्ते।
**अनसूया—**कथयति यत् हला शकुन्तले ! अयि सखि शकुन्तले ! त्वत्तोऽपि = त्वदपि, तातस्य = पितुः कण्वस्य **आश्रमवृक्षकाः—**अल्पा वृक्षा वृक्षकाः आश्रमस्य वृक्षका आश्रमवृक्षकाः = तपोवनपोतकाः प्रियतरा = अतिशयेन प्रियाः प्रियतराः = प्रेयांसः इति = एवं तर्कयामि = मन्ये यत् अनेन = अमुना पित्रा कण्वेन, नवमालिकाकुसुमपेलवा = नवमालिकायाः कुसुमं नवमालिकाकुसुमं तद्वत् पेलवा इति नवमालिकाकुसुमपेलवा = नवमालिकाख्यसुमनसुकुमारा त्वं = भवती अपि एषां = अमीषां वृक्षाणां आलवालस्य = वृक्षमूलस्य जलाधारस्य पूरणे = पूर्तौ नियुक्ता = आदिष्टा असीति शेषः।
**शकुन्तला—**कथयति यत् न केवलं = पर तातस्य = पितुः नियोगः तातनियोगः—एव = कण्वादेश एव अस्ति = वर्तते मे = मम हृदये सोदरस्य = सहोदरस्य स्नेहः = प्रेम एतेषु = अमीषु वृक्षेषु ( वृक्षसेचनं निरूपयति = तरोरक्षणं नाटयति )।
**राजा—**राजा = नृपो दुष्यन्तः कथयति यत् कथं = किम् इयं = एषा पुरोवर्तमाना
**अनसूया—**सखि शकुन्तले ! मैं तो समझती हूँ कि तात कण्व को आश्रम के ये छोटे-छोटे पौधे तेरे से भी अधिक प्रिय हैं। इसीलिए तो नेवारी के फूलों के समान कोमल अङ्गवाली तुमको इनके थालों के जल देने के लिए उन्होंने लगा रखा है।
**विशेष—**भरतमुनि ने अपने नाट्यशास्त्र में बताया है कि समान कोटिकी स्त्रियाँ परस्पर हला का सम्बोधन करती हैं—
'समानाभिस्तथा सख्यो हला भाष्याः परस्परम्' = १७।८९
अमरसिंह ने अमरकोश में भी कहा है—'हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति।' तदनुसार अनसूया ने अपनी प्रिय सखी शकुन्तला को हला सम्बोधन करके कहा है।
**शकुन्तला—**अरी प्रिय सखि ! पिताजी की ही आज्ञा है ऐसी बात नहीं, अपितु इन वृक्षों में मेरा सहोदर भाई का स्नेह है। ( वृक्षों को सींचने का अभिनय करती है। )
**विशेष—**यहाँ अनसूया की धारणा है कि इन वृक्षों को सींचना सुकुमारी शकुन्तला के योग्य नहीं फिर भी पिता महर्षि कण्व के आदेश से इसे सींचना पड़ रहा है। इस अनसूया की धारणा को गलत बताकर शकुन्तला कहती है—केवल पिताजी का आदेश नहीं, किन्तु इन वृक्षों में मेरा सहोदर भाई-सा स्नेह है। इसलिए मैं इन्हें सींचती हूँ।
राजा—( मन ही मन ) क्या यही वह कण्व की कन्या शकुन्तला है। ( आश्चर्य के साथ ) अहो, महर्षि कण्व तो बड़ा ही अनुचित कार्य कर रहे हैं जो इस कोमलाङ्गी बाला को इस आश्रमोचित धर्म एवं वृक्षों को जल देना आदि कठिन कार्यों में लगा रहे हैं। क्योंकि—
पाठा०—१. अहो, असाधुदर्शी। २. भगवान् कण्वः।
प्रथमोऽङ्कः
३३
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥ १८ ॥
भवतु पादपान्तर्हित एव विस्रब्धां तावदेनां पश्यामि। (तथा करोति।)
एवंविधरूपलावण्यातिशयवती सा = वैखानसमुखश्रुता कण्वदुहिता = कण्वस्य महर्षेः धर्म-कन्या शकुन्तला नाम। अथ अलोकिकरूपवतीं तां दृष्ट्वा मुनेः अविमृश्यकारितां सकरुण-माह—असाधुदर्शीति। असाधुदर्शी = साधु = सम्यक् न पश्यतीति असाधुदर्शी अविमृश्य-कारी खलु = निश्चयेन तत्रभवान् = पूज्यः महर्षिकण्वः य इमां = कामकलापरिशीलनयोग्यां शकुन्तलाम् आश्रमधर्मे = तपोवनकर्त्तव्ये वृक्षसेचनादौ नियुक्ते = आदिशति, विनियोजयति।
अन्वयः— यः अव्याजमनोहरं इदं वपुः तपःक्षमं साधयितुम् इच्छति सः ऋषिः ध्रुवं नीलोत्पलपत्रधारया शमीलतां छेत्तुं व्यवस्यति किल।
इदमिति। यः = ऋषिः कण्वः इदं = पुरो दृश्यमानं, अव्याजमनोहरं = अव्याजेन = अकपटेन, भूषणादिकं विना निसर्गतः मनोहरं = सुन्दरं = रमणीयमिति अव्याजमनोहरं = स्वभावसुन्दरं इदं = एवंविधसौन्दर्यसौकुमार्यादिगुणगणशालिपुरोदृश्यमानं वपुः = शरीरं तपःक्षमं = तपश्चरणयोग्यं साधयितुं = सम्पादयितुं, इच्छति = वाञ्छति, सः ऋषिः ध्रुवं = नूनं नीलोत्पलपत्रधारया—नीलमुत्पलं नीलोत्पलं नीलोत्पलस्य पत्राणां धारया नीलो-त्पलपत्रधारया = नीलकमलपत्राग्रभागेन शमीलतां = कठिनां शमीवृक्षस्य शाखां कण्टकितं कठोरं च शमीवृक्षं वा छेत्तुं = भेत्तुं = खण्डयितुं व्यवस्यति = यतते समीहते, उद्युङ्क्ते वा किल = न श्रदधे। अत्रोपमा-व्याजस्तुति-सन्देहसंकरालङ्काराः वंशस्थवृत्तं च।
अयं भावः लोकातिगरूपसंभारं शकुन्तलामाश्रमोचितधर्माचरणेषु वृक्षसेचनादिषु नियुक्तामवलोक्य राजा दुष्यन्तश्चिन्तयति—अहो! निसर्गसुन्दरेणानेन वपुषा य आश्रमधर्मान् विधातुं समीहते, सर्वथा अविमृश्यकारी सः ऋषिः नीलोत्पलपत्रधारया कठिनां शमीशाखा-च्छेदनं चिकीर्षति। यदि नीलकमलधारया शमीलताच्छेदनप्रयासः क्रियते तर्हि शमीलता तु अंशतःऽपि न छिद्येत, नीलोत्पलपत्राणि तु विदलितानि एव भवेयुरेव तद्वत्प्रकृतेऽपि बोध्यम्।
राजा— भवतु = अस्तु पादपान्तर्हितः = वृक्षतिरोहितः एव विस्रब्धां = विश्वस्तां एनां = इमां पुरोदृश्यमानां शकुन्तलां पश्यामि = अवलोकयामि, ( तथा करोति = उक्तानुसार-माचरति )।
स्वभाव से ही सुन्दर मनोहर शरीर वाली इस बाला को ये ऋषि तपस्या के योग्य बनाना चाहते हैं, वे तो मानो नीलकमल के कोमल पत्तों की धार से कठिन और कण्टकित शमी वृक्ष की शाखा को काटना चाहते हैं। तात्पर्य यह है कि शकुन्तला नीलोत्पल की कोमल पत्ती के समान है और तपस्या कण्टक युक्त कठोर शमी वृक्ष के समान। जिस प्रकार नीलकमल की पँखुड़ी के किनारे से कठोर शमी वृक्ष की शाखा नहीं काटी जा सकती वैसे ही शकुन्तला के कोमल शरीर से तपस्या नहीं कराई जा सकती है। यहाँ नील शब्द तलवार के लोहे के काले रंग की समता बताता है ॥ १८ ॥
अच्छा वृक्षों के पीछे छिपकर निर्भय होकर स्वच्छन्द विहार करती इस बाला शकुन्तला को देखता हूँ। ( वैसा करते हैं )
पाठ०—१. ततःफलमम्। १. पादपान्तरितो विश्वस्तां तामेनाम्।
३ शाकु०
३४ अभिज्ञानशाकुन्तलम्
शकुन्तला—सहि अणसूए अदिपिणद्धेण वक्कलेण पिअंवदाए णिअन्तिदम्हि। सिढिलेहि दावणं। [ सखि अनसूये ! अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रितास्मि¹। शिथिलय तावदेतत् । ]
अनसूया—तह [ तथा ]। ( शिथिलयति )
प्रियंवदा— (सहासम् ) एत्थ पओहरवित्थारइत्तअं अत्तणो जोव्वणं उवालह। मं किं उवालम्भेसि। [ अत्र पयोधरविस्तारयितृकमात्मनो यौवनमुपालभस्व । मां किमुपालभसे । ]
राजा—सम्यगियमाह—
²इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे
स्तनयुगपरिणाहाच्छादिना वल्कलेन ।
शकुन्तला—शकुन्तला कथयति—सखि = आलि ! अनसूये ! अतिपिनद्धेन = सुदृढबद्धेन वल्कलेन = वृक्षत्वग्वस्त्रेण प्रियम्वदया = तन्नामवत्या सख्या नियन्त्रिता = निबद्धा दृढं पीडिता अस्मि । अतः शिथिलय = श्लथीकुरु व्यपनय तावत् मम स्तनबन्धनम् एतत् = इदं वल्कलम् ।
अनसूया—तथा शिथिलयति = शिथिली करोति ।
प्रियंवदा—सहासं = हासेन सहितं सहासं = विहस्य जगाद, अत्र = नियन्त्रणे पयोधरयोः = स्वस्तनयोः विस्तारयितृ वर्द्धकं, परिणाहिजनकं पयोधरविस्तारकम् आत्मनः = स्वस्य यौवनं = तारुण्यं, एव उपालभस्व = निन्द, मां = इमं जनम्, किं = केन हेतुना उपालभसे = निन्दादिनाऽत्र न कश्चन दोषः । यौवनेन तव स्तनयुगं निरन्तरं वर्द्धते, अत्र नाम मम दोष इति परिहासः, नात्र मे कश्चन दोषः ।
राजा—राजा दुष्यन्तः कथयति यत् सम्यक् = उचितं, इयं = असौ प्रियंवदा आह = वदति ।
अन्वयः—स्कन्धदेशे उपहितसूक्ष्मग्रन्थिना स्तनयुगपरिणाहाच्छादिना च वल्कलेन (पिनद्धम् ) अभिनवम् इदम् अस्याः वपुः पाण्डुपत्रोदरेण पिनद्धं कुसुममिव स्वां शोभां न पुष्यति ।
इदमुपहितेति । स्कन्धस्य = भुजशिखरस्य देशे = स्थाने इति स्कन्धदेशे = अंसप्रदेशे, उपहितः = निहितः सूक्ष्मः = ह्रस्वः ग्रन्थिः = बन्धं यस्य स तेन उपहितसूक्ष्मग्रन्थिना,
शकुन्तला—अरी सखी अनसूये ! देख प्रियम्वदा ने मेरे इस वल्कल वस्त्र (चोली) को इतना कसकर बाँध दिया है कि मुझे बड़ी पीड़ा हो रही है । इसे थोड़ा ढीला तो कर दो ।
अनसूया—अच्छा । ( चोली को ढीला करती है )
प्रियम्वदा—( हँसती हुई ) इसमें तो तू अपने यौवन के आरम्भ को, जिससे तुम्हारा स्तन निरन्तर बढ़ते ही जा रहा है उलाहना दो, मुझे क्यों दोष देती हो । तात्पर्य यह है कि अभिनव यौवन के उभार के कारण ही तेरे कुचकलस निरन्तर बढ़ते जा रहे हैं, भला, मैंने कहाँ इसे कस कर बाँधा है ।
राजा—ठीक ही कह रही हैं ।
अंसप्रदेश पर जिसमें सूक्ष्मग्रन्थि लगी हुई है ऐसे तथा विशाल स्तन युगल के फैलाव...
पाठ०—१. पीडितास्मि ।
२. क्वचिदयं श्लोको नास्ति ।
प्रथमोऽङ्कः । ३५
वपुरभिनवमस्याः पुष्यति स्वां न शोभां कुसुममिव पिनद्धं पाण्डुपत्रोदरेण ॥ १९ ॥
अथवा काममननुरूपमस्याः ¹वपुषो वल्कलं न पुनरलङ्कारश्रियं न ²पुष्यति । कुतः—
सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्मलक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ २० ॥
स्तनयोः=वक्षोजयोः युगं=युगलं तस्य परिणाहम्=आभोगम् आच्छादयति=पिधत्ते तच्छीलः तेन स्तनयुगपरिणाहाच्छादिना वल्कलेन = वृक्षत्वङ्निर्मितेन कञ्चुकेन पिनद्धं=बद्धम्, अभिनवं = अपूर्वं प्रत्यग्रं, इदं = एतत्, चारुतरं दृश्यमानम् अस्याः=एतस्याः शकुन्तलायाः वपुः= शरीरं पत्रस्य उदरं पत्रोदरं पाण्डु च तत् पत्रोदरं चेति पाण्डुपत्रोदरं तेन पाण्डुपत्रोदरेण पाण्डोः= श्वेतस्य पत्रस्य= दलस्य उदरेण गर्भेण उदरवदावरणभूतेन पिनद्धं= संसक्तं कुसुमं = प्रसूनमिव स्वां = स्वकीयाम् शोभां = छविं, प्रभाम् न पुष्यति=न विकासयति, अपितु पुष्यत्येवेति काकुः । कुसुमस्य जठरपत्रच्छिन्नस्येव शकुन्तलावपुषः शोभां वल्कलकञ्चुकमिदं विधत्ते । तस्मादियं न वल्कलयोग्येति भावः ॥ १९ ॥
अथवेति । अथवा=किं वा, पक्षान्तरे, कामं=अत्यन्तम्, अस्याः=शकुन्तलायाः वपुषः= शरीरस्य अननुरूपं = रूपमनुगतमनुरूपं न अनुरूपम् असहशं वल्कलं = वृक्षत्वग्वस्त्रमिदम्, पुनः = किन्तु अलङ्कारश्रियं = अलङ्कारस्य श्रीः अलङ्कारश्रीः यद्वा अलङ्कारकृता श्रीः अलङ्कारश्रीः अलङ्कारेण = हारादिना या श्रीरित्यलङ्कारश्रीः नामासङ्कारश्रियं = भूषणशोभां न पुष्यति—न लभते इति न किन्तु पुष्यत्येव असमर्थमुपपादयति—
अन्वयः—शैवलेन अपि अनुविद्धं सरसिजं रम्यं लक्ष्म मलिनमपि हिमांशोः लक्ष्मीं तनोति, वल्कलेनापि इयं तन्वी अधिकमनोज्ञा मधुराणामाकृतीनां किमिव हि न मण्डनम् ।
सरसिजमिति । शैवलेन=शैवालेने अपि अनुविद्धं = सम्पृक्तम्, संश्लिष्टं, सर-
ढक लेने वाले इस वल्कल के वस्त्र से इस बाला शकुन्तला की स्वभाव सुन्दर शोभा उसी प्रकार छिप रही हैं जिस प्रकार कोमल-कोमल फूलों को पुराने पत्तों से ढक देने पर उसकी शोभा दब जाती हैं ॥ १९ ॥
अथवा माना, कि यह वल्कल इसके शरीर की शोभा के अनुरूप नहीं है, फिर भी यह बात नहीं कि अलङ्कार की तरह इसके शरीर की शोभा नहीं बढ़ा रहा है, क्योंकि—
कमल का पुष्प शैवाल से घिरा हुआ भी अधिक शोभादायक होता है। जैसे चन्द्रमा का कलङ्क मलिन होते हुए भी चन्द्रमा की शोभा बढ़ाता ही है। इसी प्रकार यह कोमलाङ्गी बाला शकुन्तला भी इस वल्कल वस्त्र से अधिक मनोहारिणी मालूम होती है। ठीक ही है, सुन्दर एवं मनोहर आकृति वालों के लिए कौन सी वस्तु शोभादायक नहीं होती ॥ २० ॥
विशेष—नीलकण्ठ भगवान् शङ्कर के गले में स्थित विष के समान कलंक से चन्द्रमा के समान शैवाल से कमल के समान पुराने पत्तों से आच्छादित पुष्प के समान वल्कलवस्त्र से सन्नद्ध
पाठा०—१, तापसः। २. पुष्णाति।
३६
अभिज्ञानशाकुन्तलम्
शकुन्तला—( अग्रतोऽवलोक्य ) एसो वादेरिदपल्लवङ्गुलीहिं तुवरेदि विअ मं केसर रुक्खओ। जाव णं संभावॆमि [ एष वातेरितपल्लवाङ्गुलिभिस्त्वरयतीव$^१$ मां $^२$केसरवृक्षकः। $^३$यावदेनं संभावयामि । ] ( परिक्रामति ) ।
प्रियंवदा—हला सउन्दले एत्थ एव्व दाव मुहुत्तअं चिट्ठ । [ हला शकुन्तले ! अवस्तं तावन्मुहूर्त्तकं तिष्ठ । ]
शकुन्तला—किंनिमित्तं । [ किं निमित्तम् । ]
प्रियंवदा—जाव तुये उवगदाए लदासणाहो विअ अअं केसररुकखओ पडिभादि । [ यावत् त्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति । ]
सिजं = कमलं रम्यं = कमनीयं मनोहारि भवति मनोज्ञं भवति । यतः लक्ष्म = चिह्नं मलिनमपि = कृष्णमपि हिमांशोः = चन्द्रस्य लक्ष्मीं = शोभां तनोति = विस्तारयति । यतः इयम् = एषा पुरोदृश्यमाना तन्वी = कृशाङ्गी निसर्गसुन्दरी शकुन्तला वल्कलेन = वृक्षत्व-ग्वस्त्रेण अधिकं = कामं, बहुमनोज्ञा = मनोहारिणी हृद्या अस्ति किमिदं = कतमत् वस्तु हि = यतः मधुराणां = कमनीयानामाकृतीनां = वपुषां मण्डनं = भूषणं न भवति, अपितु भवत्येव । सर्वमपि वस्तु रम्याणां सुषमा वैर्धयत्येव । नीलकण्ठस्य कण्ठे विषमिव, कलङ्केन चन्द्रस्येव, शैवलेन कमलस्येव, अनेन वृक्षत्वग्वस्त्रेण अस्याः शकुन्तलायाः शोभैवेत्याशयः । यथा सरसिजादीनि शैवलादिभिः अधिकमनोज्ञानि भवन्ति तथेयमपि । अत्रार्थान्तरन्या-सोपमादिरलङ्कारो मालिनीछन्दश्च ॥ २० ॥
**शकुन्तला—**शकुन्तला (अग्रतोऽवलोक्य) कथयति—यत् एषः = पुरोवर्ती, वातेन = पवनेन ईरिताः = प्रेरिताः पल्लवाः = किसलयाः एव अङ्गुलयः = करशाखाः ताभिः वातेरितपल्लवाङ्गुलीभिः पल्लवाङ्गुलिरूपसंज्ञया त्वरयति = पयोदानाय शीघ्रमागच्छेति माम् आह्वयति इव = इदं प्रतीयते । यावत् एवं वकुलवृक्षं संभावयामि = संमानयामि जलसेचनेन वर्द्धयामि इत्युक्त्वा परिक्रमति = केशरान्तिकगमनमभिनयति ।
**प्रियंवदा—**केसरान्तिकगतां तां प्रियंवदा चाटु भाषते, हे सखि ! शकुन्तले ! अत्रैव = केसरवृक्षसमीपे एव तावत् मुहूर्तकं = क्षणमात्रम् तिष्ठ = विरम, स्थिरा भव ।
**शकुन्तला—**शकुन्तला पृच्छति किं = कतमत् निमित्तं = कारणम्, अस्ति ।
**प्रियंवदा—**प्रियंवदा कथयति—यावत्—यथा त्वया = शकुन्तलया उपगतया = निकट-
शकुन्तला का शरीर अत्यन्त सुशोभित हो रहा है । प्रत्येक पदार्थ सुन्दर स्वरूप का अलङ्कार हो जाता है । खराब से खराब प्रसाधन भी सुन्दर शरीर पर आभूषण बनकर सुन्दर ही लगने लगता है । तन्वी पद प्रयोग से प्रतीत होता है कि दुबले शरीर वाली स्त्रियाँ अधिक सुन्दर होती हैं।
शकुन्तला—( आगे की ओर देखकर ) प्रिय सखियों, यह केशर का वृक्ष हवा से हिलके हुए पत्तों रूपी अपनी कोमल-कोमल अँगुलियों से मानो, मुझको बुला रहा है । अतः इसके पास जाती हूँ। घूमती है )
**प्रियम्बदा—**सखि शकुन्तले ! कुछ देर तक तू इस केशर क वृक्ष के पास ही खड़ी रह ।
**शकुन्तला—**क्या, क्या कारण है ?
**प्रियम्बदा—**क्योंकि तुम्हारे पास खड़े रहने से यह केशर क वृक्ष सुन्दर कोमल लता से युक्त सा सुशोभित प्रतीत होता है ।
पाठा०—१. किमपि व्याहरतीव । २. चूतवृक्षः । ३. तद् चावदेनं ।
प्रथमोऽङ्कः । ३७
शकुन्तला—अदो क्खु पिअंवदा सि तुमं । [ अतः खलु प्रियंवदासि त्वम् । ]
राजा—प्रियमपि तथ्यमाह¹ शकुन्तलां प्रियंवदा । अस्याः खलु—
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ २१ ॥
वर्तिन्त्या लतया = वल्लर्या ( त्वद्रूपया ) सनाथः = युक्तः इव, अयं = एष पुरोवर्ती केसरवृक्षकः = ह्रस्वो वकुलवृक्षः प्रतिभाति = प्रतीयते ।
शकुन्तला—शकुन्तला कथयति—अतः = अनेन कारणेन खलु = एव, निश्चयेन त्वं = भवती प्रियंवदतीति अन्वर्थनामधेया = प्रियंवदा गीयसे = गण्यसे अन्वर्थनाम भवत्याः ।
राजा—राजा = दुष्यन्तः कथयति—प्रियं = चाटु तथ्यं = सत्यम्, आह = वदति शकुन्तलां प्रति प्रियंवदा । नूनमियं शकुन्तला वकुलमूले स्थिता तदाश्रिता लतेव लक्ष्यते नायं प्रियंवदायाश्चाटुवाद इति भावः, अस्याः = एतस्याः शकुन्तलायाः खलु = निश्चयेन ।
अन्वयः—अधरः किसलयरागः ( अस्ति ) बाहू कोमलविटपानुकारिणौ ( स्तः ) कुसुममिव लोभनीयं यौवनं च अङ्गेषु संनद्धम् ( अस्ति ) ।
अधर इति । अधरः = अधरोष्ठः किसलयरागः—किसलयस्य = प्रत्यग्रपल्लवस्य, रागः = लौहित्यमिव रागः = लौहित्यं यस्य सः किसलयरागः पल्लवताम्र। बाहू = भुजौ, कोमलविटपानुकारिणौ, कोमलयोः = मृदुलयोः विटपयोः = शाखयोः अनुकारिणौ इति तादृशौ यद्वा कोमलं विटपमनुकुरतस्तच्छीलाविति कोमलविटपानुकारिणौ = मृदुतरशाखासदृशौ कुसुममिव = पुष्पमिव लोभनीयं = हृदयावर्जकं यौवनं = तारुण्यम् अङ्गेषु = अवयवेषु संनद्धं = विजृम्भितं = सर्वतोभावेन प्रकटितम् । एवं चास्या लतासादृश्यं प्रियंवदोक्तं युज्यते एवेत्याशयः ।
शकुन्तला—अरी सखि ! इसीलिए तो तू प्रियंवदा कहलाती हो, तुम्हारा नाम अन्वर्थ है ।
राजा—प्रियंवदा तो सत्य कह रही है, क्योंकि—
इस शकुन्तला के अधरोष्ठ कोमल पत्तों के समान लाल और इसकी दोनों भुजायें कोमल-कोमल डालियों के समान मृदुल मालूम पड़ती हैं, इसके अङ्गों में लुभावना यौवन भी खिले हुए फूलों के समान प्रतीत हो रहा है ? अतः यह बाला लता के समान स्पष्ट ही मालूम होती है ॥ २१ ॥
विशेष—मधुर एवं सत्य बोलने वाली प्रियंवदा के वचन का समर्थन करते हुए दुष्यन्त कहते हैं—अहो, इस शकुन्तला का अधरोष्ठ नवीन पल्लव की लालिमा का स्मरण करा रहा है, ये इसकी भुजायें कोमल टहनियों से अधिक मृदुल मालूम होती हैं, जिस प्रकार अभिनव विकसित कुसुम नेत्रों को आनन्द देने वाले और मन को आकृष्ट करने वाले होते हैं वैसे ही इस शकुन्तला के प्रत्यङ्ग में समुल्लसित यौवन का उल्लास दर्शकों की दृष्टि को हठात् आकर्षित करता है । इस प्रकार प्रियंवदा के पूर्ववाक्य को सत्य बतलाते हुए राजा दुष्यन्त ने उसका समर्थन किया कि शकुन्तला का अधर, बाहु तथा यौवन, क्रमशः नवपल्लवकी लालिमा, कोमल डाल तथा कुसुम के समान हृदयावर्जक हैं, इनसे उस शकुन्तला का शरीर लता के समान सिद्ध हो जाता है ।
कविकालिदास का प्रकृति प्रेम अद्वितीय है, वे प्रायः जङ्गल या उपवन में उपलब्ध पदार्थों को ही पसन्द करते हैं । इन्होंने यहाँ पत्ते, डाल, फूल को ही उपमान बनाया है ॥ २१ ॥
पाठा०—१. अवितथमाह ।
| ३८ | अभिज्ञानशाकुन्तलम् |
|---|
अनसूया—हला सउन्दले इअं सअंवरवहू सहआरस्स तुए किदणामहेआ वणजोसिणित्ति णोमालिआ। णं विसुमरिदा सि। [ हला शकुन्तले ! इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । १एनां विस्मृतासि । ]
शकुन्तला—तदा अत्ताणं वि विसुमरिस्सं। ( लतामुपेत्यावलोक्य च ) हला,
अन्वर्थनामधेयया सख्या प्रियंवदया उक्तिभङ्ग्या प्रोक्तं लतासाम्यमाकर्ण्य राजा दुष्यन्तः तस्य तथ्यतामनुभवन् तदेव समर्थयन् कथयति—अहो ! अस्या शकुन्तलाया अधरोष्ठः प्रत्यग्रपल्लवताम्रतां स्मारयति, एतौ चास्या भुजौ कोमलविटपादधिकं सौकुमार्यं भजतः, यथाऽस्मिनवोद्भिन्नं कुसुमं नयनानन्ददायकमार्कषकं च भवति तथैवास्याः प्रत्यङ्गं समुच्छलन् तरुणिमोल्लासो द्रष्टुर्दृशं समाकर्षतीति भावः। अत्रोपमालङ्कारः आर्या-वृत्तं च ॥ २१ ॥
अनसूया—अन्तिकस्थं सहकारं स्वयमेवोपसर्पन्तीं नवमल्लिकालतामुद्दिश्य शकुन्तलामाह–अनसूया–हलेति–हला शकुन्तले ! = प्रियसखि शकुन्तले ! इयं = असौ पुरोवर्तिनी बालसहकारस्य = सहकारपोतस्य स्वयंवरवधूः=स्वयं वृणीते वरमिति स्वयंवरा सा चासौ वधूरिति स्वयंवरवधूः = यद्वा स्वयं वरं प्राप्ता वधूरिति स्वयंवरवधूः अथवा स्वयंवरे वधूः इति स्वयंवरवधूः = पतिवरा या हि स्वयमेव सर्पन्ती सहकारं प्राप्ता सेत्यर्थः । त्वया = भवत्या कृतं नामधेयं यस्याः सा कृतनामधेया = विहितनामसंस्कारा वनज्योत्स्ना = वने ज्योत्स्नेव प्रकाशते इति वनज्योत्स्नेति नवमालिका = नवमालिका नाम कुसुमवल्ली ( अत्र नवमालिकायां वधूत्वारोपः सहकारे वरत्वं गमयत्येकदेशविवर्ति रूपकम् ) एनां = नवमालिकां विस्मृता असि, स्मरणपक्षात् आनीतवती असि, मन्ये, विस्मृतिवशात्त्वयैषा न सिक्ता किमित्यर्थः ।
शकुन्तला—शकुन्तला कथयति यत् यदि वनज्योत्स्नां विस्मरिष्यामि तदा आत्मानमपि
अनसूया—सखि शकुन्तले ! इस आम के पौधों के नीचे स्वयंम्बरवधू यह नवमालिका है। जिसका नाम तूने ही वनज्योत्स्ना रखा है, क्या तू इसे भूल गई ? क्या तुम इसको नहीं सींचोगी ?
विशेष—वनज्योत्स्ना नाम से प्रतीत होता है कि नवमालिका के पुष्प चाँदनी की तरह सफेद होते हैं, रात में खिलते हैं और हृदयाह्लादक होते हैं ।
सहकार शब्द की व्युत्पत्ति है—'वियुक्तं द्वन्द्वं सहकारयतीति सहकारः' अमरकोश के अनुसार रस वाले आम को रसाल तथा एक प्रकार के सुगन्धित आम को सहकार कहते हैं—'आम्रश्चूतो रसालोऽस्तु सहकारोऽतिसौरभः ।
जैसे स्वयंवर में कन्याएँ अपने मन के अनुकूल स्वयंवर का वरण करती हैं । उसी प्रकार वनज्योत्स्ना नवमालिका लता ने आगे बढ़ती हुई सहकार से मिल गयी है । इसी अनसूया ने इसे स्वयंवरवधू कहा है । लताएँ अपने आप स्वयं ऊपर चढ़कर पेड़ों को अपना लेती हैं इसी को काव्यजगत् में स्वयंवर कहा गया है । यहाँ अनसूया ने सहकार और नवमालिका को देख कर स्वयं वरणरूप शृङ्गारात्मक घटना की चर्चा की है, जो दुष्यन्त और शकुन्तला के हृदय में शृङ्गारिक भाव की पुष्टि करती हुई भावी स्वयंवर=गान्धर्व विवाह की सूचना है ।
शकुन्तला—यदि इसे भी भूल जाऊँगी तो फिर मैं अपने को ही भूल जाऊँगी ( लता के
पाठा०—१, तातकण्वेन त्वमिव स्वहस्तेन संवर्द्धिता माधवीलता तत्कथमेनां विस्मृतवती ।
प्रथमोऽङ्कः ३९
रमणीए क्खुकाले इमस्स लदापाअवमिहुणस्स वइअरो संवुत्तो। णवकुसुमजोव्वणा वणजोसिणो सिणिद्धपल्लवदाए उवभोअक्खमो सहआरो। [ तदात्मानमपि विस्मरिष्यामि । ] ( लतामुपेत्यावलोक्य च ) [ हला ! १रमणीये खलु काल एतस्या लतापादपमिथुनस्य २व्यतिकरः संवृत्तः। यन्नवकुसुमयोवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः। ] ( पश्यन्ती तिष्ठन्ति )
विस्मरिष्यामि, अभिज्ञा इयं मत्तः या हि वनज्योत्स्ना सैवाहमित्यर्थः। ( लतां = वनज्योत्स्नाम् उपेत्य = प्राप्य-लतासमीपं गत्वा अवलोक्य = दृष्ट्वा च आह ) नवमालिका-सहकारयोः सख्या अनुसूयया रोपितं वधूवरत्वमनुसृत्य सकौतुकमाह—शकुन्तला—हलेति । सखि अनसूये ! रमणीये = मनोहरे खलु = काले = समये ग्रीष्मकाले लतापादपमिथुनस्य लतायाः पादपस्य यन् मिथुनं=द्वयं तस्य लपापादपमिथुनस्य व्यतिकरः=समागमः, संश्लेषः रतिं करोति तच्छीलः व्यतिकरः = आनन्दप्रदः संवृत्तः = सञ्जातः । मिथुनस्य मिथो व्यतिकरयोग्यतां दर्शयति नवकुसुमेति । नवकुसुमानां यौवनं = विकासो यस्यां सा नवकुसुमयोवना यद्वा नवानि कुसुमानि यस्मिन् तादृशं यौवनं तत्तुल्यावस्था यस्याः सा नवकुसुमयोवना अथवा नवं कुसुमं = स्त्रीरजो यस्मिन् तादृशं यौवनं यस्याः सा नवकुसुम-यौवना नवमल्लिका = पाटलाख्या त्वया बद्धानि फलानि यस्मिंस्तस्य भावस्तत्ता तया बद्धफलतया = फलभरनम्रतया फलं कुसुमपरिणामो रेतश्च—'लाभनिष्पत्तिभोगेषु फले बीजे घने फलम्' इति यादवः । उपभोगक्षमः = सम्भोगयोग्यः, फलास्वादच्छायासेवन-योग्यः, तरुणीसमागमयोग्यः सहकारः = आम्रवृक्षः । यौवनेनेयं सहकारं प्रीणयति सोऽपि चैनां फलभरानतच्छायां सम्भावयति, इत्थं नयनमनोहोरोऽयमनयोः समागम इति भावः । नायक-नायिकापक्षे कुसुममार्त्तवं, फलं बीजं, वीर्यं च सुखसन्तत्यादिहेतुत्वात् । ( इति = उक्त्वा पश्यन्ती अवलोकयन्ती तिष्ठति = स्थिता ।)
पास जाकर और देखकर ) देख सखि ! यह रमणीय ग्रीष्मकाल इस पादपमिथुन ( नवमल्लिका और आम ) के लिए तो रतिकारक (आनन्ददायक और मैथुन योग्य ) ही हो गया है, क्योंकि इधर तो नवीन पुष्पों के आ जाने से यह नवमल्लिका नवयौवनवती हो रही है और उधर सहकार भी फलों के भार से उपभोग के योग्य हो रहा है ।
( देखती हुई ठहर जाती है )
विशेष—यहाँ शकुन्तला ने नवमल्लिका लता और सहकार वृक्ष के मिलन के लिए लता को नवकुसुमद्यौवना तथा सहकार को उपभोगक्षम होना बताया है । इससे प्रतीत होता है कि जन्म से तपोवन में रहने वाली कुमारियाँ भी दाम्पत्य जीवन से परिचित थीं । विवाह के निमित्त कन्याओं का तरुण होना और पुरुष का उपभोगक्षम होना आवश्यक माना गया है । यहाँ कुसुम का अर्थ पुष्प और स्त्री का मासिकधर्म, ऋतु दोनों है । जिस प्रकार पुष्प आ जाने से लता पूर्ण जवानी पर आ जाती है उसी प्रकार ऋतुकाल आ जाने से स्त्री भी रति योग्य हो जाती है, पुरुष भी सबल एवं वीर्यवान् होने से उपभोगक्षम हो जाता है । इसीलिए कवि ने नये फूलों के आ जाने से नवमलिका को नवयौवनवती तथा फलों से लदे सहकार को उपभोगक्षम कहा है ।
पाठा०—१. रमणीयः खलु कालः ।
२. रतिकरः
४० | अभिज्ञानशाकुन्तलम्
**प्रियंबदा—**अणसूए जानासि किंणिमित्तं सउन्दला वणजोसिणीं अदिमेत्तं पेक्खदित्ति . [ अनसूये ! जानासि किंनिमित्तं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति । ]
**अनसूया—**ण क्खु विभावेमि । कहेहि [ न खलु विभावयामि । कथय । ]
**प्रियंवदा—**जह वणजोसिणी अणुरूवेण पाअवेण संगदा । अविणाम एव्वं अहं वि अत्तणो अणुरूवं वरं लहेअत्ति । [ यथा ^१वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामाहमप्यात्मनोऽनुरूपं वरं लभेयेति । ]
**शकुन्तला—**एसो णूणं तुह अत्तगदो मणोरहो । [ ^२एष नूनं तवात्मगतो मनोरथः । ]
( कलशमावर्जयति )
**राजा—**अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् । अथवा कृतं सन्देहेन ।
प्रियंवदा---वनज्योत्स्नां सावधानतयाऽऽलोकयन्तीं शकुन्तलामुद्दिश्य परिहासप्रिया शकुन्तलासखी ( सस्मितं ) कथयति—अनसूये ! जानासि = बुध्यसे किं निमित्तं = कुतः शकुन्तला वनज्योत्स्नां नवमालिकालताम् अतिमात्रं = अनिगता मात्रा यस्मिन् तद् अतिमात्रं, सातिशयं, बहुकालम्, पश्यति = प्रेक्षते निरीक्षते ।
अनसूया—अत्र गभीरस्वभावा शकुन्तलायाः सखी अनसूया तन्निमित्तं जानन्त्यपि प्रियंवदया विवक्षितं तन्मुखेन श्रावयितुमाह—नेत्यादि । न खलु = निश्चयेन विभावयामि = तर्कयामि, वेद्मि, जानामि कथय = वद ।
प्रियंवदा—उत्तरयति यथा = यद्वत् वनज्योत्स्ना = नवमालिका अनुरूपेण = सदृशेन, पादपेन = सहकारवृक्षेण संगता = मिलिता, अपि नाम = किमिदं संभावितं भवेत् ? यद् अहमपि आत्मनोऽनुरूपं निजरूपादिगुणैः सदृशं वरं = भर्तारं लभेय = लब्धुं शक्नुयाम् इति एतन्मनसि कृत्वा इयं सहकारसंगतां वनज्योत्स्नां प्रेक्षमाणा तिष्ठतीत्यर्थः ।
शकुन्तला वरप्रसङ्गेन लज्जमाना तथ्यमपि तद्वचनमन्यथयति—एष इति । नूनं = निश्चितं एष = त्वया उक्तः तव आत्मगतः = मनसि स्थितः मनोरथः = अभिलाषः अयं तवान्तर्गतो मनोरथः, न ममेति भावः, मम तु मिथः संगतयोरनयोर्वनज्योत्स्नासहकारयोः शोभा विशेषदर्शने तात्पर्यम् । त्वया तु त्वन्मनसि स्थितोऽभिलाषः मयि आरोप्यते इत्यभिसन्धिः । ( इति कलशं = घटम् आवजयति = किञ्चिद् अधोमुखं कुरुते, पादपतले जलदानाय इति भावः । )
राजा = दुष्यन्तः क्रमशः शकुन्तलां प्रति अङ्कुरिताभिलाषः तस्या गम्यागताविचारे
प्रियम्बदा—( मुसकुराती हुई ) अनसूये ! क्या तू जानती है कि शकुन्तला क्यों इस नवमल्लिका को इस प्रकार चाव से बार-बार देख रही है ।
**अनसूया—**नहीं, मैं नहीं जानती हूँ, तू ही बता ।
**प्रियम्बदा—**जैसे यह नवमल्लिका अपने अनुरूप वृक्ष=पति से संगत=विवाहित हो गई है इसी प्रकार मैं भी शीघ्र ही अपने अनुरूप पति प्राप्त करूँ यही इसकी इच्छा है ।
**शकुन्तला—**यह बात तो मेरे मन में होगी ( घड़ा नीचे झुकाती है )
पाठा०—१. वनतोषिणी । २. एष ते आत्मनश्चित्तगतो मनोरथः तन्न ते वचनं श्रोष्यामि ।