सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०२
न्यत्रोक्तानां पर्वाणामुक्तस्थले सन्निवेशोक्त्यापि सूत्रकाराभिमत एक एव मार्ग
इति ज्ञायते । श्रुतौ सर्वत्र पूर्वपरामर्शादपि तथा ॥ १ ॥
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
छान्दोग्ये वायुर्न पठ्यते । कौषीतकिश्रुतौ तु 'स एतं देवयानं पन्थानमा-
पद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं
स ब्रह्मलोक'मिति वाय्वादयः श्रूयन्ते । तत्रार्चिषोऽग्नेश्चाभेदान्न विचारणीय-
मस्ति । वायुलोकं कस्माल्लोकात् गच्छतीत्याकाङ्क्षायामाह वायुमब्दादिति ।
'अर्चिषोऽहरह आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यान् षडुदङ्ङेति मासाँस्तान्मा-
सेभ्यः संवत्सरं संवत्सरादादित्य'मित्यत्र संवत्सरलोकात् परस्ताद्वायुलोको निवे-
[

भूर्लोक एव च भवति, अत आदौ तत्रत्यो भोगः, ततस्तदुपरितनलोकानाम् ।
'पृथिवी दीक्षा तयाऽग्निर्दीक्षया दीक्षितः' । 'यथा पृथिव्यग्निगर्भे'त्यादिश्रुतिभ्यो
भूरग्निप्रधाना भवति, अतोऽर्चिराद्यमग्निलोकमादौ गच्छति । ततः कर्मो-
पासनयोरहरादिसंवत्सरान्ते काले विहितत्वात्तत्र तत्र गत्वा भुङ्क्ते । तथा च
संवत्सरान्तानां भूसम्बन्धित्वेनाविशेषात् तन्मध्ये वायोर्न प्रवेशः । भूर्लोका-
दुपर्यन्तरिक्षलोकस्तदुपरि द्युलोकः, तथा च 'वायुरन्तरिक्षस्याधिपति'रिति श्रुतेः,
'सूर्यो दिवोऽधिपति'रिति श्रुतेस्तयोः पौर्वापर्ये विशेषो हेतुरस्तीत्यादित्यलोकात्
पूर्वमुक्तरीत्या भूर्लोकमध्यपातिसंवत्सरस्य परस्ताच्च वायुर्निवेशयितव्य इत्यर्थः ।
ननु 'तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽह'रित्यादिश्रुतिरुक्तमुक्तमनूद्यानूद्यापादानत्वं
वदन्ती पूर्वोत्तरयोरव्यवधानं सूचयतीति नोक्तमादरणीयमिति चेत् । सत्यम् ।
यस्योपासकस्य न वायुलोकभोगः, तं प्रति सोक्तिः, यस्य तु तद्भोगः, तस्योक्त-
रीतिमार्गैक्यादिति नानुषपत्तिः काचित् ।
केचित्तु, 'स एवं देवयानं पन्थानमापद्याग्निलोकमागच्छति, स वायुलोकं स
वरुणलोक'मित्यविशेषेण वायुरुपदिश्यते । मिथःपौर्वापर्यप्रापकपदाभावात् ।

भाष्यप्रकाशः ।
पर्ये विशेष इति ताभ्यां तथेत्यर्थः । अत्र 'नन्वि'त्यादिना छान्दोग्यश्रुतिविरोधमाशङ्क्य समाधत्ते
सत्यमित्यादि । सोक्तिरिति । छान्दोग्योक्ता अव्यवधानोक्तिः । उक्तरीतिरिति । व्यासोक्त-
रीतिः । तथा च भोक्तृविशेषेणाव्यवधानव्यवधानसम्भवाच्च श्रुतिविरोधरूपानुपपत्तिरित्यर्थः ।
एवं स्वमतेन व्याख्यायात्र शाङ्करादिमतमुपक्षिपन्ति केचित्त्वित्यादि । मिथःपौर्वा-
पर्यप्रापकपदाभावादिति । तादृशपञ्चम्यन्तपदाभावात् । तथा च सोऽत्राविशेषपदार्थः । 'यदा

रश्मिः ।
ज्ञानम्, आधिदैविकचित्तशुद्धौ भक्तिरिति सुबोधिन्यां अस्य पक्षस्य 'नैतादृशा भक्ता' इति निबन्धे-
ऽनङ्गीकारात् तन्न्यायेनोपासनाः निवेश्योक्तम् । एवेति । मनुष्याणां न तु देवानामिति न 'तदुपर्यपी'-
त्यधिकरणविरोधः । यदि पृथिव्यग्निगर्भा स्यात्, तदा पृथिवीदीक्षयामग्निदीक्षितो भवेदित्याशयेनाहुः
यथा पृथिव्यग्निगर्भेति । तथा च पृथिव्या दीक्षा तया दीक्षया पृथिवीगर्भोऽग्निदीक्षित इत्यर्थः ।
दीक्षां इतो दीक्षितः । अहरादीति । 'अहरहः सन्ध्यामुपासीत' । 'प्रातर्मध्यान्दिने सायं विष्णुपूजा
स्मृता बुधैः । यथा सन्ध्या तथा विष्णुपूजा नित्ये'ति नारदीये । 'नियतस्य तु संन्यासः कर्मणो नोप-
पद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः' इति गीता । 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन'-
मित्यपक्रम्य 'मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीताताण्डववादित्रगोष्ठीभिर्मद्महोत्सवः । यात्रा-
बलिविधानं च सर्ववार्षिकपर्वस्वि'ति श्रीभागवते । सर्वेषु वार्षकेषु पर्वसु च । एवमहरादि-
संवत्सरान्ते काले विहितत्वात् तत्र तत्रेति । जगन्नाथादौ । श्रीगोवर्धननाथादौ भक्ति-
शरणमार्गाभ्याम् । एवं चादित्यमित्यनेन पदेन विश्रामस्थानमपि । 'स तत्र विजिहीत' इति बृहदा-
रण्यकात् । स सूर्यः तत्र आगमनस्थले विजिहीते छिद्रं कुरुते । उक्तरीत्येति । छान्दोग्ये पञ्चाग्नि-
विद्योक्ता 'र्चिष' इत्यादिश्रुतिक्रमेण । तथात्वादिति पौर्वापर्यात् । तथेति वायुमब्दान्निवेशयेत् । अग्रेति
सूत्रार्थे । छान्दोग्येति उक्तश्रुतिविरोधम् । अध्यवेति । वायुतो न तथा । न श्रुतीति । उपा-

'यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा
रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छती'ति श्रुत्या आदित्यात्
पूर्वो वायुर्विशेषेणोपदिश्यत इत्यब्दादित्ययोरन्तराले निवेशयितव्य इत्यर्थं वदन्ति ।
स चिन्यते । यथा तेन 'स ऊर्ध्व आक्रमते स आदित्यमागच्छती'ति
विशेषोपदेश इत्युच्यते, तथा 'स वरुणलोक'मित्यत्रापि वक्तुं शक्यम् । न च,
'स आदित्यमागच्छती'त्यत्र तच्छब्दस्य पूर्वपरामर्शित्वाद्वायुलोकगतस्यैव पूर्वत्वात्
तथेति वाच्यम् । 'अग्निलोकमागच्छति स वायुलोकं स वरुणलोक'मित्यत्रापि
भाष्यप्रकाशः।
वै पुरुष' इत्युक्तं तेनोर्ध्वाक्रमणमादित्ये गमनं च यदुच्यते, स विशेषपदार्थः । ताभ्यामब्दा-
दित्ययोरन्तराले वायुनिवेशं वदन्तीत्यर्थः । श्रुत्यर्थस्तु यदा यस्मिन् वै निश्चयेन पुरुषो
ब्रह्मविद् अस्माल्लोकाच्छरीरात् प्रैति लोकान्तरं गच्छति, तदा स पुरुषो वायुमागच्छति
प्राप्नोति । तस्मै आगताय, स वायुः तत्र तदागमनस्थले विजिहीते पूर्वं स्तिमितोऽपि
तदानीं स्वावयवान् विगमयति तस्य गमनार्थम् । विगमनस्थलपरिमाणमाह, यथा रथचक्रस्य
खम् यावत्परिमाणं रथचक्रस्य छिद्रम् । तेन मार्गेण स पुरुष ऊर्ध्वं आक्रमते, स
आदित्यमागच्छति प्राप्नोतीति ।
एवं तद्व्याख्यातमर्थमनूद्य तदुक्तस्य विशेषस्य विशेषत्वं युज्यते, न वेति विचारयन्ति
स चिन्यत इत्यादि । इत्यत्रापि वक्तुं शक्यमिति । ऊर्ध्वाक्रमणस्यार्थसिद्धत्वात्तच्छब्दस्य
तत्रापि सत्त्वाद्द्वक्तुं शक्यम् । तथाचोर्ध्वाक्रमणतच्छब्दोक्तपूर्वपरामर्शयोर्विशेषपदार्थत्वाङ्गीकारे
वाजसनेयिभिर्वाय्वनन्तरमादित्यवत्कौषीतकिभिर्वायुलोकानन्तरं वरुणलोकस्य पठ्यमानत्वेन
भवदुक्तविशेषस्य तत्रापि शक्यवचनत्वादुक्तहेतोरर्थान्तरसाधकत्या प्रकृतासिद्धिरित्यर्थः । तर्हि
वायुलोकगतपुरुषीयं पूर्ववर्तित्वं परामृशतस्तच्छब्दस्य तथात्वमस्त्वित्यत आहुः न चेत्यादि ।
तथा चाद्ये पक्षे व्याख्येयसूत्रविरोधः, द्वितीये च वरुणसूत्रस्येत्युभयमप्ययुक्तमित्यर्थः । दूषणान्तर-
रश्मिः।
दानविरोधकृतश्रुतिविरोधरूपा । अब्दादित्ययोरन्तराल । इति नन्वब्दः कोक्त इति चेन्न ।
छान्दोग्यैकवाक्यतया प्राप्तेः । स्तिमित इति विगमनस्थलरहितोपि । विगमयतीति विगमनस्थलं
कुर्वन्त्स्ववयवांस्तान् विगमनस्थलं कारयति वायुः । तच्छब्दस्येति । स वरुणलोकं इत्यत्र स इति
तच्छब्दस् । तत्रेति वरुणवाक्ये । तत्रापीति कौषीतकिब्राह्मणेपि । उक्तहेतोरिति अविशेष-
विशेषहेतोः । अर्थान्तरम् । 'संवत्सराद् वायुलोकं वायुलोकाद् वरुणलोकं वरुणलोकादादित्यं'
इत्यर्थान्तरम् । अर्थः 'अग्निलोकात्संवत्सरं संवत्सराद्वायुलोकं वायुलोकाद्वरुणलोकं वरुणलोकादा-
दित्यलोकम् । स आदित्यमागच्छती'त्युक्तहेत्विति । तदन्योर्थ उक्त इत्यर्थान्तरम् । तस्य साधक-
तया प्रकृतं यदब्दाद्वायुलोकं वायुलोकादादित्यमिति । यद्वा परमते प्रकृतोग्निलोकात्संवत्सरं इत्यादि-
रुक्तोर्थः । तस्यार्थस्यासिद्धिः । अनुमानं तु छान्दोग्ये वायुमन्दात् अविशेषविशेषाभ्याम् । 'अग्नि-
लोकमागच्छति स वायुलोकं स वरुणलोक'मिति वाक्यवदिति । एवं दृष्टान्तः । तच्छब्दस्येति स
वरुणलोकमिति तच्छब्दस् । तथात्वमिति । पौर्वापर्यवाचकत्वमस्त्विति । न चेत्यादीति ।
तथेति । स वरुणलोकमागच्छतीति न निवेश्यम् । तदितोधि वरुण इतिसूत्रात् । एवं च तथा
१४ ब्र० सू० २० 2223

Here is the complete, line-by-line transcription of the page into clean Unicode Devanagari Markdown:

१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० १ सू० २.
तुल्यत्वात् । किञ्च, एवमग्निलोक़ानन्तरं वायुलोक इत्यपि वक्तुं शक्यम्, अतो विद्यु-
न्निरपेक्ष्योऽयम् । वाजसनेयिनस्तु, ‘मासेभ्यो देवलोकं देवलोकादादित्य’मिति
पठन्ति । तत्राप्यादित्यात् पूर्वो देवलोकात् परो वायुर्ज्ञेयः । एकत्रादित्यात् पूर्वत्वे
सिद्धे मार्गैक्यादन्यत्रापि तथात्वस्य न्यायप्राप्तत्वात् । सूत्रकारेण तु छन्दोग-
श्रुत्यपेक्षयोक्तम्, वायुमब्दादिति । एवं सति मासेभ्यः परस्तादब्दनिवेशनं कार्यम् ।
नच ‘वायुमब्दा’दिति सूत्रान्मार्गभेदापत्तिः । देवलोकस्यादित्याधिष्ठेयत्वेनादि-
त्यमध्यपातित्वमभिप्रेत्य छन्दोगश्रुतिस्तथोक्तवती । तदनुसारेण व्यासोपि ।
अतो नानुषपत्तिः

भाष्यप्रकाश-रश्मि-परिबृंहितम् । १०७
तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
'आदित्याच्चन्द्रमसं चन्द्रमसो विद्युत'मित्यत्र पठितविद्युल्लोकात् परतो
वरुणलोको निवेशनीयः। तत्र हेतुः । सम्बन्धात् । तडितोऽप्सम्बन्धित्वाद्-
वरुणस्य तत्पतित्वात् तथा ॥ ३ ॥
वरुणाद्वाधीन्द्रप्रजापती ॥ ४ ॥
स्पष्टमिदम् । अर्चिरादिपाठे विद्युदनन्तरं 'तत्पुरुषोऽमानवः स एतान् ब्रह्म
गमयती'ति पठ्यते । तन्तु यस्योपासकस्य वरुणादिलोकगमनापेक्षा नास्ति, तमपे-
क्ष्येति ज्ञेयम् । मार्गैक्यनियममभिप्रेत्य सूत्रकारोऽन्योक्तानामन्येषामपि
लोकानां तत्रैव निवेशनमाह ॥ ४ ॥
॥ इति चतुर्थाध्याये तृतीयपादे प्रथममर्चिराद्यधिकरणम् ॥ १ ॥
भाष्यप्रकाशः।
तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥ ननु भवतु संवत्सरादुपरि देवलोकादर्वाग्वायु-
लोकनिवेशस्तथापि वरुणलोकः क्व निवेशनीयः, न हि तत्र विशेषादिरूपं किमपि नियामक मन्त-
राले निवेशने लभ्यते, अतो मार्गभेदपक्ष एव युक्त इत्याशङ्कानिरासायेदमित्याशयेन व्याकुर्वन्ति
आदित्यादित्यादि । तडितोऽप्सम्बन्धत्वादिति । 'विशाला हि विद्युतो नृत्यन्ति तीव्रस्त-
नितनिर्घोषो जीमूतोदरेषु नृत्यन्ति अथापः प्रपतन्ति विद्योतते स्तनयति वर्षिष्यति वे'ति ब्राह्मणात्
तथा। तथा चाप्सम्बन्धरूपस्य नियामकस्य विद्यमानत्वात् तन्निवेशसिद्धेर्न मार्गैक्यबाध इत्यर्थः॥३॥
वरुणाद्वाधीन्द्रप्रजापती ॥ ४ ॥ स्पष्टमिति । पाठसामर्थ्यादेव तन्निवेशस्थानं
स्पष्टमिति न पूर्ववदाशङ्कावकाश इत्यर्थः । तदिदनन्तरं वरुणादिलोकनिवेशेऽर्चिरादिश्रुति-
विरोधमाशङ्क्य परिहरन्ति अर्चिरादीत्यादि । तमपेक्ष्येति पर्यङ्कविद्युदुपासकमपेक्ष्य ।
मार्गैक्यनियममभिप्रेत्येति । अक्षिपुरुषविद्यापञ्चाग्निविद्ययोरिव पर्यङ्कविद्यायामपि
देवयानमार्गस्य प्रत्यभिज्ञानात् तयोरिवात्रापि वैद्युतस्यातिवाहिकस्यावश्यकत्वात्
रश्मिः।
तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥ तत्रेत्यादि । 'अग्निलोकमागच्छति स वायुलोकं
स वरुणलोक'मित्यत्र विशेषः स इति द्वये । आदिना क्रमः सम्बन्धश्च । अन्तराले इन्द्रादित्यलो-
कयोरन्तराले । इदमिति । सूत्रम् । १ नृत्यन्तीतीति । नृत्यन्ति इति ह इति छेदः । ह आश्चर्यं ।
ऋश्येति । ऋश्येवाचरति । नृत्यसूक्ष्मत्वादिन । तेति वर्णागमः । तन्निर्घोषो वा तकारलोपः । तस्याः
विद्युतः निर्घोषः आकाशे जीमूतोदरेष्वाकाशे शब्दः । 'आकाशे कः शब्दं करोती'ति प्रश्ने 'आरणे
विद्यु'दित्युत्तरात् । जीमूतो मेघः इन्द्रस्यात्ममूर्तिः । अथ तदनन्तरं आपः सेचनकर्म्यः । वि-
द्योतते विद्युत् । स्तनयति जीमूतः । वर्षिष्यति वा जीमूतः । तथेति । भाष्यीयतथेत्यस्यानु-
वादः । तडितोऽप्सम्बन्धित्वम् । तन्निवेशेति । वरुणलोकनिवेशसिद्धेः ॥ ३ ॥
वरुणाद्वाधीन्द्रप्रजापती ॥ ४ ॥ पाठे इति । 'स एवं देवयानं पन्थानमापद्याग्निलोक-
मागच्छति, स वायुलोकम्, स वरुणलोकम्, स इन्द्रलोकम्, स प्रजापतिलोकम्, स ब्रह्मलोक'मिति
कौषीतकिश्रुतिपाठसामर्थ्यात् । पूर्ववदिति । तडित्सूत्रवत् । आशङ्केति । लोकनिवेशशङ्कावकाशः ।
मार्गैक्यनियममभिप्रेत्येतीति । अर्चिरादिमार्गैक्यनियमम् । तयोरिवात्रामिति ।
१ नृत्यन्तीति रश्मिपाठः ।
2225

१०८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० २ सू० ५.
आतिवाहिकास्तल्लिङ्गात् ॥ ५ ॥ (४-३-२)
विद्युदनन्तरं 'तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयती'त्यत्र भवति
संशयः । उक्तश्रुतेर्गमयित्रैव ब्रह्मप्राप्तिरिति निश्चीयते । स च विद्युदनन्तरमेव
पठ्यते । एवं सति यस्य वरुणादिलोकगमनम्, तस्य वचनाभावेन गमयित्रप्राप्ते-
र्ब्रह्मप्राप्तिर्भवति, न वेति । तत्र वाचनिकस्य यावद्वचनत्वात्तदभावेन सा न
भवतीति प्राप्त आह आतिवाहिका इति ।
एतदुक्तं भवति । यस्योपासकस्य यावत्फलभोगानन्तरं ब्रह्मप्राप्तिर्भाविनी,
तस्य तावद्भोगानन्तरं ब्रह्मप्राप्तिर्भवति, अत एव कौषीतकिश्रुतौ प्रजापति-
लोकानन्तरं ब्रह्मलोकः पठ्यते । अन्यथा कृतसाधनवैयर्थ्यम्, तेषां ब्रह्मप्राप्तिसाधन-
त्वबोधकश्रुतिविरोधश्च स्यात् । तथा च यत्रातिवाहिकश्रुतिर्नास्ति, तत्राप्याति-
वाहिको भगवदीय एव ब्रह्म प्रापयतीति ज्ञेयम् । वस्तुतस्तु बहव एव तादृशाः
भाष्यप्रकाशः ।
तथाभिप्रेत्य । तथाचैतन्न्यायेन सर्वासु क्रमप्राप्तिबोधिकासु ब्रह्मविद्यासु वैद्युतं पुरुषं विना न
ब्रह्मप्राप्तिरिति बोधनार्थं मार्गैक्यनिरूपणमित्यर्थः ॥ ४ ॥ इति प्रथममर्चिराद्यधिकरणम् ॥ १ ॥
आतिवाहिकास्तल्लिङ्गात् ॥ ५ ॥ एतस्याधिकरणस्याय विषयं संशयं चाहुः विद्यु
दित्यादि । सङ्गतिस्त्ववसरः । पूर्वपक्षमाहुः तत्रेत्यादि । सिद्धान्तं व्युत्पादयन्ति एतदि-
त्यादि । अन्यथा कृतसाधनवैयर्थ्यमिति । तेनोपासनेन ब्रह्मप्राप्त्यभावे तदर्थं कृतं
यदुपासनरूपं साधनं तस्य वैयर्थ्यम् । तेषामिति । उपासनानाम् । आतिवाहिकश्रु-
तिरिति । अतिवहनं अतिक्रमयित्वा प्रापणं अतिवाहः । भावे घञ् । तत्सम्बन्धी आति-
वाहिकस्तद्बोधिका श्रुतिरातिवाहिकश्रुतिः । ननु यद्येवमातिवाहिकप्राप्त्यर्थमिदं सूत्रं स्यात्,
तदैकवचनमेव प्रयुज्येत, श्रुतौ 'अमानवः पुरुष' इत्येकवचनात्, अतो नैवमित्यत आहुः
वस्तुत इत्यादि । तथा च यत्रातिवाहिको न पठितः, तस्यामपि विद्यायां ब्रह्मप्राप्तेरुक्त-
रश्मिः ।
अक्षिपुरुषविद्यापञ्चाग्निविद्ययोरित्यासां पर्यङ्कविद्यायाम् । तथाभिप्रेत्येति । मार्गैक्यनियममभिप्रेत्य ।
एतदिति । समीपतरवर्तिसूत्रेण ॥ ४ ॥ इति प्रथममर्चिराद्यधिकरणम् ॥ १ ॥
आतिवाहिकास्तल्लिङ्गात् ॥ ५ ॥ विद्युदित्यादीति । उक्तेति । अव्यवहितपूर्वमुक्त-
श्रुतेः । गमयित्रप्राप्तेरिति । भोगभूमिषु भोगानन्तरं अन्यस्य कर्मदिर्गमयितुरभावादपेक्षितगमयित्र-
प्राप्तेरित्यर्थः । अवसर इति । क्रममुक्तौ ज्ञानिसम्बन्धिन्यां ब्रह्मप्राप्तौ प्रतिबन्धकीभूता मार्गनिवेशन-
जिज्ञासा तस्या निवृत्तौ सत्यां अवश्यवक्तव्यत्वं सर्वत्र ब्रह्मपुरुषस्य अमानवस्य निवेशे इत्यवसरसङ्गति-
लक्षणसमन्वयः । प्रतिबन्धकीभूतजिज्ञासानिवृत्ताववश्यवक्तव्यत्वमवसर इति लक्षणात् । तत्रेत्यादीति ।
वाचनिकस्य तत्पुरुषस्य अमानवस्य । यावद्वचनं वचनमनतिक्रम्येति यावद्वचनम् । अव्ययी-
भावः । अन्यत्र वचनाभावेन । सेति ब्रह्मप्राप्तिः । तदर्थं ब्रह्मप्राप्त्यर्थम् । भास्कराभाष्ये तु भवार्थे ठगुक्तः
तत्र भव इति सूत्रात् । तथा चातिवाहे भव आतिवाहिकः । आतिवाहिक इति । औणादिकष्ठक् ।
भाष्ये । तथा चेत्यादि । विद्यासामर्थ्याद्गमयित्रभावेपि ब्रह्मप्राप्तौ सत्याम् । भगवदीय एवेति ।
2226

ैकवचनस्य"?
Wait, look at the glyph:
It's 'श्रौ' with au-kar: 'श्रौतस्यैकवचनस्य'!
Wait, look closely at line 11:
"श्रौतस्यैकवचनस्य तात्पर्यमाहुः तन्मध्य इत्यादि ।"
Yes, exactly!

Let's check line 26:
"सामिफलं भवेदिति"
Yes, सामिफलम् (semi-fruit / half fruit / incomplete fruit, standard Sanskrit philosophical term 'सामि' = अर्धम्).

Let's check line 31:
"तत्पुरुषो लोकपुरुषः अतोऽमानवो ब्रह्मसम्बन्धिलिङ्गमि-"
"त्याशयेनाहुः अमानव इति ।"
Yes!

Let's review the line markers and full content line-by-line.
Line 1: भाष्यप्रकाश-रश्मि-परिबृंहितम् । १०९
Line 2: सन्तीति ज्ञापनाय बहुवचनमत्रोक्तम् । तन्मध्ये कश्चनागत्यैक एव नयतीति
Line 3: ज्ञापनाय श्रुतावेकवचनम् । तत्र हेतुः तल्लिङ्गात् । 'तत्पुरुषोऽमानव' इत्यत्र ब्रह्म-
Line 4: सम्बन्धित्वं लिङ्गमुच्यते । तेनेदं ज्ञाप्यते, यथा विद्याबला

११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ३ अ० २ सू० ५.
धिष्ठातृदेवानामातिवाहिकत्वोक्तावर्च्चिर्लोकप्रापकातिवाहिकस्याभावात् तत्प्राप्तिर्न
स्यात् । तथा सति देवयानमार्ग एवोच्छिद्येत । अतो यथा विद्याबलेनैवार्चिषः
प्राप्तिः, तथेतरेषामपीति बुध्यस्व । कस्यचिदल्पलोकगत्यन्तरमेव ब्रह्मप्राप्तिः ।
कस्यचित् बहुलोकगत्यन्तरं सोच्यत इति भोगभूमित्वमेव तेषामवगन्तव्यम् ।
सर्वेषां सर्वत्र गमने देवयानं पन्थानं वदन्त्याः श्रुतेः सामि तत्कथनमनुपपन्नं स्यात् ।
अत उपासनाभेदेन फलभेदं ज्ञापयन्ती तथा वदतीति युक्तमुत्पश्यामः ॥ ५ ॥
भाष्यप्रकाशः ।
कल्पनम्, किन्तुपसंहारस्थं सिद्धवत् गमयितृत्वदर्शनमेव देवानामातिवाहिकत्वे लिङ्गम्,
अतस्तत्प्रापणार्थं तत्कथनमिति चेत्, तत्राहुः लोकेत्यादि । तथा चात्र यद् गमयितृकथनम्

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १११
ननु 'तेषामिह न पुनरावृत्तिरस्ती'त्यादिश्रुतिभ्यो देवयानं पन्थानं प्राप्तानां
पुंसां ब्रह्मवित्त्वमवश्यं वाच्यम्। तेन सद्योमुक्तौ सम्भवत्यां सत्यां क्षयिष्णुत्वेन
क्षुद्रानन्दत्वेन च हेयानां परमफलप्राप्तिविलम्बहेतूनामर्चिरादिलोकानां कामना
कुतः यतस्तद्धेतुभूतोपासनाः सम्भवन्ति। किञ्च। 'अर्चिरादिना तत्प्रथिते'रित्यत्र
यदुक्तं ज्ञानमार्गीयस्यैवार्चिरादिप्राप्तिः, न भक्तिमार्गीयस्येति, तदप्यनुपपन्नम्।
'यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च य'दित्युपक्रम्य, 'सर्वं मद्भक्तियोगेन मद्भक्तो
लभतेऽञ्जसा, स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छती'ति भगवद्वाक्याद्भक्तस्या-
प्येतद्वाञ्छाफले सम्भवतः। अन्यथा प्रभुनं वदेत्। एवं सति भक्तिसुखं हित्वा-
न्यत्र कामनायां हेतुर्वाच्य इत्याकाङ्क्षायां तमाह।
उभयव्यामोहात् तत्सिद्धेः ॥ ६॥
अत्रेदं ज्ञेयम्। देवयानः पन्था अपि भगवतैव सृष्टोऽस्ति। तथाचोक्तहेतु-
भिस्तत्र कस्यापि कामाभावे तत्सृष्टिर्व्यर्था स्यात्, अतो भगवान्नेव कांश्च व्यामो-
हयति ज्ञानिनो मर्यादामार्गीयभक्तांश्च, अतस्तत्कामनासिद्धेस्तत्फलभोग इति।
यस्त्वर्चिरादिमार्गगन्तॄणां देहवियोगेन सम्पिण्डितकरणग्रामत्वेनास्वातंत्र्यं
व्यामोहः। अर्चिरादीनां चाचेतनत्वेनास्वातंत्र्यं व्यामोहः। कार्यकरणासामर्थ्य-
मिति यावत्। तेनार्चिराद्यधिष्ठातृदेवैरतिवाह्यन्त इति सिद्धमिति व्याख्यानम्।
भाष्यप्रकाशः।
अतो यथैकदेशीयानेकग्रामवासिनामेकस्मिन् देशे गन्तव्ये तन्मार्गेणैकेन तं प्रति गच्छतां मध्ये-
मार्गमनेकनगरग्रामादिसद्भावेपि यस्य यत्र किञ्चित्कार्यम्, स एव तत्र विरम्यग्रे गच्छति, अन्य-
स्त्वन्यत्र, न तु सर्वः सर्वत्र तथेत्यर्थः ॥ ५॥
उभयव्यामोहात्तत्सिद्धेः ॥ ६॥ सूत्रमवतारयन्ति ननु तेषामित्यादि। अर्थस्त्वव-
तारणस्य सूत्रव्याख्यानस्य च स्फुटः। तथाच, 'स वै नैव रेमे' इत्यादिश्रुतेः 'कृतप्रयत्नापेक्ष' इति
न्यायाच्च कांश्चन व्यामोहयन् लीलां करोतीति तदर्थं तथेत्यर्थः।
पूर्वसूत्रोक्तं हेतुमर्चिरादिदेवानामातिवाहिकत्वसिद्धावपर्याप्तं मन्वानैस्तदर्थं यद्रत्नात्रेय्या-
रश्मिः।
गन्तव्य इति। देशस्यास्त्युक्त एको देशः गन्तुमर्हस्तस्मिन्। तन्मार्गेणेति गन्त-
व्यदेशमार्गेण। तमिति। गन्तव्यदेशं प्रति। अग्रेपि गच्छतीति। सुहृद्भिः सह गच्छतीति
बोध्यम्। दार्ष्टान्तिकानुरोधात् ॥ ५॥
उभयव्यामोहात्तत्सिद्धेः ॥ ६॥ स्फुट इति। तमाहेत्यस्य हेतुमाहेत्यर्थः। एवमव-
तारणस्यार्थः स्फुटः। सूत्रव्याख्यानस्यार्थस्तु ज्ञानिन इत्यारभ्य सूत्रार्थः। उभयेषां ज्ञानिमर्यादामार्गीय-
भक्तानां व्यामोहात् कामनासिद्धेस्तत्तल्लोकफलभोग इत्येवं स्फुटः। कृतप्रयत्नेति। 'कृतप्रयत्ना-
पेक्षस्तु विहितप्रतिषिद्धावैय्यर्थ्यादिभ्य' इति सूत्रात् द्वितीयाध्यायतृतीयपादस्थात्। तथेत्यर्थ इति।
उभयव्यामोहात् तत्सिद्धेरित्यर्थः। अपर्याप्तमिति। अग्रिवायुरवरुणाद्युत्तरं लोकसम्बन्धान्निजरेष्वस्वरूप-
श्रुतिः भोगायतनत्वहेतुभूता पूर्वसूत्रोक्तलिङ्गादिति हेतोर्बलीयसी आतिवाहिकत्वहेतुभूतात्। अतो-
ऽपर्याप्तम्। अपरिपूर्णम्। तदर्थमिति। आतिवाहिकत्वसिद्ध्यर्थम्। ननूक्तमर्चिराद्यधिष्ठातृदेवैरति-
2229

Here is the line-by-line transcription of the text into Devanagari Markdown format:

११२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ३ अ० २ सू० ६.
तन्न साधीयः । व्यामोहशब्दस्यान्यथाज्ञानवाचकत्वेन असामर्थ्यवाचकत्वात् ।
तथा सत्यर्षिलोकंमपि न प्राप्नुयात् । प्रापकाभावादित्युक्तम् ॥ ६ ॥
भाष्यप्रकाशः ।
ख्यातं तद्दूषणायोपक्षिपन्ति दूषयन्ति च यस्वित्यादि । तन्नेत्यादि च ।
तथा सतीति । गन्तॄणां पिण्डितकरणग्रामत्वेनास्वातन्ये सति । तथा चानया रीत्या व्यामोहे-
नार्चिरादीनामातिवाहिकत्वसाधनमसङ्गतमेवेत्यर्थः । किञ्च । यदनवस्थितत्वादर्चिरादीनां न मार्ग-
लक्षणत्वमिति । तदपि तथा । तेषां लोकत्वस्य स्वयमप्यङ्गीकृतत्वेनाप्रलयं तत्स्थितेस्तदभावात् ।
नापि रात्रौ प्रेतस्याहःसम्बन्धानुपपत्तिः । तेषां लोकतया स्थिरत्वेन विद्ययैव तत्राप्त्युपपत्तेः ।
'अहोरात्रेषु ते लोकेषु सज्जन्त' इति ब्राह्मणस्य स्वयमेव पूर्वं लिखनात् । तेनाहोरात्रन्यायात् समा-
नप्रकरणे लोकपदोपबन्धाच्च गन्तृविशेषभोगभूमित्वमेव युक्तम् । अतः पूर्वसूत्रव्याख्याने श्रौता-
नामर्चिरादिपदानां स्वार्थत्यागः । अन्यगतलिङ्गेनान्येषामानिवाहिकत्वसाधनम् । लोकपदोपबन्ध-
वैयर्थ्यम् । अत्र सौत्रपदस्य स्वार्थत्याग इति तदुभयव्याख्यानमप्यसङ्गतमित्यर्थः ॥ ६ ॥
रश्मिः ।
वाद्यन्त इति चेत्, तत्राहुः प्रापकाभावादिति । अर्चिषः प्राप्तावातिवाहिकाभावादन्यत्रापि तथा-
त्वादित्यर्थः । अर्चिषः प्राप्तौ कल्प्यत आतिवाहिक इति चेत्, तत्राहुः इत्युक्तमिति । लोकाधिष्ठाने-
त्यादिभाष्येण पूर्वसूत्र उक्तम् । तथा च त्रिवृत्करणे पञ्चीकरणाप्राप्तौ तदर्चिष्यातिवाहिकाप्राप्तिरिति
भावः । असङ्गतमिति । निरपेक्षस्वरूपामिलोकादिश्रुत्यपेक्षयातिवाहिकलिङ्गस्य दुर्बलत्वादिति पूर्वसूत्र
उक्तत्वादेवकारः । शाङ्करभाष्यीयमन्यदपि दूषयन्ति स्म किञ्चेति । न मार्गेति । न मार्गचिह्नत्वं
संशयप्रथमकोटोक्तम् । तथेति । असङ्गतम् । आप्रलयमिति । प्रलयं मर्यादांकृत्येल्यर्थः । तदभावा-
दिति । अनवस्थितत्वाभावात् । प्रलयात् पूर्वमेकदेशविकृतावप्येकदेशविकृतमनन्यवदितिन्यायस्य
'अन्ये तु' इत्येवं शाङ्करादिमतोपन्यासेन सूचनात् । अहः सम्बन्धेति । लोकदेवता विना । अहः-
सम्बन्धावश्यकत्वं 'निशि ने'ति सूत्र उक्तम् । तेषामिति । आतिवाहिकानाम् । विद्ययैवेति ।
विद्ययापि । अपिना तात्पर्यविषया लोकदेवताविशेषाः । पूर्वमिति । आतिवाहिकसूत्रे । सिद्धमाहुः
तेनेति । अहोरात्रन्यायो गन्तॄणां विशेषत्वे हेतुः । विशेषो विद्वत्त्वम् । रात्रौ मृतस्य विदुषोऽहः-
सम्बन्धावश्यकत्वात् । समानेति तेषां भोगभूमित्वे हेतुः । समानप्रकरणं तु कौषीतकिनां समान-
प्रकरणीयत्वकथनात् । एवेति । न तु देवताविशेषत्वम् । इदमातिवाहिकाधिकरणं परेषां मतेपि त्रिसूत्रम् ।
तत्र प्रथमसूत्रे किञ्चिदाहुः अतः पूर्वेति । व्याख्यानं तु तल्लिङ्गादातिवाहिकाः लोकदेवताविशेषाः ।
द्वितीयार्थस्तु उभयव्यपदेशात् आतिवाहिकत्वसिद्धेरिति । तृतीयसूत्रार्थस्तु अमानवो विद्युल्लोकमागतो
वैद्युतः । तेनैव ततो विद्युल्लोके प्राप्तेरूर्ध्वं नीयमाना विद्वांसः कार्यं ब्रह्म प्राप्नुवन्ति । तच्छ्रुतेः विद्युल्लोक-
स्थनित्यमानवस्यैव गमयितृत्वश्रवणादिति । तस्मिन् । स्वार्थेति । लोकरूपस्वार्थस्तस्य त्यागः ।
अन्यगतेति । संपिण्डितकरणग्रामजीवगतत्वेन अर्चिरादिमार्गगतत्वेन च लिङ्गेन उभयव्यामोहेन
च । अन्येषामिति । लोकदेवानाम् । लोकपदेति । अग्निलोकवायुलोक्येत्यादिषु लोकपदेत्यादिः ।
अग्न्यादिपदैरेव देवताविशेषोपस्थितेः 'अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशा'दिति न्यायात् । अत्रेति
उभयव्यामोहसूत्रे । सौत्रपदस्य व्यामोहपदस्य । स्वार्थोऽन्यथाज्ञानम् । तस्य त्यागः । तदुभ-
येति । सूत्रयोरुभयोर्व्याख्यानम् । तृतीयं त्वागन्तुकमित्युपेक्षितम् ॥ ६ ॥
2230

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३
ननु विद्युतो वरुणादिलोकप्राप्त्यनन्तरं यस्य ब्रह्मप्राप्तिः, तस्य तल्लोकसम्बन्धी
ब्रह्मप्रापकः पुरुषोस्ति, उत स स्वत एव तत्प्राप्नोतीति संशय उत्तरं पठति ।
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ७ ॥
न हि ब्रह्मप्राप्तिर्विद्युल्लोकसम्बन्धिपुरुषसामर्थ्येनोच्यते, किन्तु ब्रह्मसम्बन्धि-
तत्सामर्थ्येन । तथा च यत एव लोकात् तत्प्राप्तिः, ततो ब्रह्मसम्बन्धिपुरुषा-
देव । एवं सति विद्युल्लोकात्तत्प्राप्तौ यो ब्रह्मसम्बन्धी पुरुषः प्रापक उक्तः, तेनैव
ततो वरुणादिलोकेभ्योपि ब्रह्मप्राप्तिः । तत्र हेतुमाह तच्छ्रुतेः । 'तान् वैद्युतात्
पुरुषो मानस एत्य ब्रह्मलोकान्गमयती'ति श्रुतेः । अत्र 'एत्ये'ति वचनाद्यत एव
लोकाद् ब्रह्मप्राप्तिर्भविष्यी, तत्रैवागत्य ब्रह्म प्रापयतीति गम्यते । श्रुतौ 'वैद्युतं
लोकमागत्य तस्माद् ब्रह्मलोकान्गमयती'त्युक्तमिति स पुरुषो वैद्युत इत्युच्यते, न
तु तल्लोकवासित्वेन । तथा सति 'एत्ये'ति न वदेत् तत एव ब्रह्मप्रापणे ।
अत एव 'मानस' इत्युक्तः । यदैव भगवन्मनसि भवति 'अथैनं मां प्राप-
यत्वि'ति, तदैव प्रापयतीति तथा ।
छान्दोग्ये तु 'अमानव' इति पठ्यते । तच्चालौकिकत्वम्, तदप्युक्तरूप-
मेवेति न कश्चिद्विशेषः । वाजसनेयके 'ब्रह्मलोकान्गमयती'ति पठ्यते । छान्दोग्ये
तु 'ब्रह्मे'ति । तत्रायं भावः । भक्तं तु वैकुण्ठलोकं नयति, ते बहुविधा इति
भाष्यप्रकाशः।
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ७ ॥ सूत्रमवतारयन्ति ननु विद्युत् इत्यादि । तल्लोक-
सम्बन्धीति । विद्युल्लोकसम्बन्धी । तत्प्राप्नोतीति । ब्रह्म प्राप्नोति । सूत्रं व्याकुर्वन्ति न हीत्यादि ।
इति श्रुतेरिति । पञ्चाग्निविद्यास्थवाजसनेयिश्रुतेः । श्रुतौ 'वैद्युता'दित्यस्य 'गमयती'त्यनेन
सम्बन्धाद्योऽर्थः सिध्यति, तमाहुः अत्रेत्यादि । तथा सत्येत्येति न वदेदिति । तस्य विद्युल्लोक-
रश्मिः।
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ७ ॥ न हीत्यादीति । ब्रह्मसम्बन्धीति । ब्रह्मसम्बन्धः
स्वस्वामिभावलक्षणस्तद्वान् ब्रह्मसम्बन्धी । ब्रह्मसम्बन्धी चासौ सः ब्रह्मसम्बन्धिसः तस्य सामर्थ्येन ।
तत्प्राप्तिरिति ब्रह्मप्राप्तिः । तत इति लोकाद् अवधिभूतात् । ब्रह्मसम्बन्धिपुरुषाद्धेतुतादेव । उक्त
इति । वक्ष्यमाणश्रुतावुक्तः । तत इति । सौत्रं पदं व्याख्येयम् । गमयतीत्यनेनेति । न
त्वेत्येत्यनेनेति भावः । भाष्ये । तत इति विद्युल्लोकवासिन एव ब्रह्मप्रापणे सति । प्रकृते ।
न वदेदिति । विद्युल्लोक आगमनपूर्वकाले ब्रह्मलोकवासित्वादेव । स्फुटमिति । तथेति मानसः । बहु-
विधा इति । चत्वारः पञ्च वा । व्यापिवैकुण्ठः रमावैकुण्ठः श्वेतद्वीपः अन्वभू । आत्मपरोपोक्षच्छिद्रौ
१५ ब्र० सू० २* २२३१

३१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ३ अ० ३ सू० ८.
'ब्रह्मलोका'नित्युक्तम् । ज्ञानमार्गीयं त्वक्षरं ब्रह्म प्रापयतीति 'ब्रह्मे'त्युक्तम् ।
अत एवोभयव्यामोह उक्त आचार्येण ॥ ७ ॥
इति चतुर्थाध्याये तृतीयपादे द्वितीयमातिवाहिकाधिकरणम् ॥ २ ॥
अत्र सिद्धान्तदार्ढ्यार्थमुक्तमर्थं हस्तपिहितमिव कृत्वा बादरिमतं पूर्व-
पक्षत्वेनाह ।
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ८ ॥ ( ४-३-३ )
'स एतान् ब्रह्म गमयती'त्यत्र ब्रह्मपदेनाविकृतं परमेव ब्रह्मोच्यते, उत
कार्यरूपो ब्रह्मलोक इति भवति संशयः । परस्य व्यापकत्वेन देशविशेषगम-
यित्रोरनपेक्षितयोरुक्तेः कार्यरूप एव स ब्रह्मपदेनोच्यत इति बादरिराचार्यो
मन्यते । कुतः । अस्य गत्युपपत्तेः । तस्य परिच्छिन्नत्वेन तत्स्थितिदेशं प्रत्यस्य
गन्तुर्गतेरुपपत्तेरित्यर्थः ॥ ८ ॥
भाष्यप्रकाशः ।
वासित्वे सति विद्युताद् ब्रह्मलोकान् गमयतीत्येतावत्तैव विवक्षितार्थसिद्धेरेत्येति न वदेदित्यर्थः ।
अत एवेति । तदवासित्वादेव । शेषं स्फुटम् ॥ ७ ॥
इति द्वितीयमातिवाहिकाधिकरणम् ॥ २ ॥
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ८ ॥ क्रममुक्तौ मार्गे विचार्य तत्फलं विचारयती-
त्याशयेन सूत्रमवतारयन्ति अत्र सिद्धान्तेत्यादि । क्रममुक्तौ परब्रह्मैव प्राप्यमिति सिद्धान्तस्य
दार्ढ्यार्थमुक्तमर्थमर्चिरादिमार्गो जघन्याधिकारिणां परप्राप्तिसाधनमित्येतमर्थं हस्तपिहितमिव
कृत्वा अग्रे स्थापनीयत्वादिदानीमनुक्त्वा तथेत्यर्थः । सूत्रं व्याख्यातुमधिकरणत्वाय विषयसंशया-
वाहुः स एतानित्यादि । तथा च ब्रह्मपदश्रुतेर्गतश्रुतेश्च संशय इत्यर्थः । पूर्वपक्षमाहुः परस्ये-
त्यादि । स इति । ब्रह्मलोकः । तस्येति । कार्यस्य ब्रह्मलोकस्य ॥ ८ ॥
रश्मिः ।
वाराहपुराणीयचातुर्मास्यमाहात्म्ये श्रीभूः । अत एवेति । फलाभोगादेव । क्रममुक्तौ ज्ञानिनोपि
फलभोगः । उभयेषां ज्ञानिनां मर्यादाभक्तानां व्यामोहोऽन्यथाज्ञानम् । परप्राप्तिलाभाववति ज्ञानि-
मर्यादामुक्तमोक्षे परप्राप्तिप्रकारकज्ञानत्वात् लक्षणसमन्वयः । तदभाववति तत्प्रकारकं ज्ञान-
मन्यथाज्ञानमिति लक्षणम् । पुष्टिमार्गीयपरप्राप्तिव्यतिरिक्ते फले व्यामोह इत्युक्तम् । तदुक्तं तृतीय-
सुबोधिन्यां 'भक्तिमार्ग एव मार्ग' इति । मुख्ये पुष्टिमार्गे कार्यसम्पत्त्यो बोध्यः । एवं स्फुटम् । अत्र
वृत्तौ ब्रह्मप्राप्तेः प्रापकपुरुषाधीनत्वाद् विद्युल्लोकस्य चातिक्रान्तत्वाद् वरुणादिलोकस्यैव ग्राह्यत्वाद्
अस्तीति पूर्वपक्षं निक्षिप्याधिकरणान्तरत्वं सूचितम् । संशय आभास उक्तः । विषयसिद्धान्तौ व्याख्यान
एव स्फुटाविति ॥ ७ ॥ इति द्वितीयमातिवाहिकाधिकरणम् ॥ २ ॥
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ८ ॥ तत्फलमिति । उभयव्यामोहोऽनुसन्धेयः ।
परब्रह्मैवेति । ज्ञानभक्तौ विशेषतश्चेदनुगृह्णाति तदा पुष्टिभक्तिं प्राप्नुत आदाविति सिद्धान्तमुक्ता-
वलीटिप्पणे श्रीगोस्वामिनः । तेन परब्रह्मापीत्यर्थः । एवकारोऽप्यर्थे । तथेति । बादरिमतं पूर्वपक्षत्वे-
नाहेत्यर्थः । गतिश्रुतेरिति । 'गमयती'ति गतिश्रुतेः । ब्रह्मणः सायुज्यात्तत्र गमनाभावाद्ब्रह्मलोको
ब्रह्मपदवाच्य इति ॥ ८ ॥
2232

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११९
विशेषितत्वाच्च ॥ ९ ॥
'ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ती'ति श्रुतौ
बहुत्वेन वासाधिकरणत्वेन च विशेषिता लोकाः । गन्तारश्च दूरदेशगत्या विशे-
षिता इति न परं ब्रह्म तत्, किन्तु कार्यमेवेत्यर्थः । लोकपदं तज्जन्यभोगपरम् ।
तेन तस्यैकत्वेपि विविधभोगज्ञापनाय बहुवचनं घटते ॥ ९ ॥
तत्र ब्रह्मशब्दप्रयोगहेतुमाह ।
सामीप्यात्तु तद्व्यपदेशः ॥ १० ॥
तल्लोकस्थितानां नान्यलोकव्यवधानं परप्राप्तौ, किन्तु तत एवेति परब्रह्म-
सामीप्याद् ब्रह्मत्वेन व्यपदेशः कृतः । तुशब्दस्तु वस्तुतो ब्रह्मत्वं व्यव-
च्छिनत्ति ॥ १० ॥
भाष्यप्रकाशः।
विशेषितत्वाच्च ॥ ९ ॥ तस्य कार्यत्वाय हेत्वन्तरं दर्शयतीत्याशयेन सूत्रं व्याकुर्वन्ति
ब्रह्मलोकानित्यादि । विशेषिता इति । अत्र श्रुतौ पूर्वं तानिति गन्तृविशेषणे दूरदेशगन्तारः
परामृश्यन्ते, बहुत्वं चोच्यत इति गन्तारस्तथा विशेषिताः । 'पराः परावतो वसन्ती'ति प्रकृष्टा
गन्तारः प्रकृष्टान् ब्राह्ममानमितान् संवत्सरान् वसन्तीति श्रावणाच्च ब्रह्मलोका विशेषिताः । तदिति
'ब्रह्म गमयती'त्यत्र प्राप्यत्वेनोक्तम् । ननु ब्रह्मपदस्य कार्यब्रह्मपरत्वे श्रुत्यन्तरोक्तलोकपदविरोध
इत्यत आह लोकपदमित्यादि ॥ ९ ॥
सामीप्यात्तु तद्व्यपदेशः ॥ १० ॥ भाष्यमत्रातिरोहितार्थम् ॥ १० ॥
रश्मिः।
विशेषितत्वाच्च ॥ ९ ॥ तस्येति । स एतान्ब्रह्म गमयतीत्यत्र ब्रह्मणः । दूरदेशेति ।
लोकाल्लोकान्तरगमनेऽवधिभूतदेशस्थास्तानिति तच्छब्दार्थः दूरदेशगन्तारः तानिति । बहुत्वं च । तथा
विशेषिताः बहुत्वेन साधिकरणत्वेन च विशेषिताः । परपदार्थमाहुः । प्रकृष्टाः । 'परोपि मनुतेऽनर्थं
तत्कृतं चाभिपद्यत' इत्यत्र । परावत इत्यस्यार्थमाहुः ब्राह्ममानेति । ब्राह्ममानेन मितानपरिमितान् । परा
विध्यन्तेऽनेति परावान् तान् परावतः । पराशब्दोत्र घर्षणे । 'परादि मोक्षप्राधान्यप्रातिलोम्येषु
घर्षणे' इति विश्वात् तद्वतः संवत्सरान् कालो घर्षयतीति तथा । ब्रह्मलोका इति । तेन
ब्रह्मलोकान् गमयति ते तेषु कार्यरूपेषु ब्रह्मलोकेषु पराः परावतः वसन्तीति पदच्छेदः । पराः
परावतो ब्रह्मलोकान् वसन्तीत्यन्वयः । केष्वित्याकाङ्क्षायामाह । तेषु ब्रह्मलोकेषु ये ब्रह्मलोकास्तान् ।
श्रुत्यन्तरेति । 'अग्निलोकमागच्छति स वायुलोक'मित्यादिश्रुत्यन्तरेत्यर्थः । लोकः कार्यमिति । स

२१६ श्रीब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ३ सू० ११.
ननु 'आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुने'ति वाक्यात्ततः पुनरावर्तते ।
अत्र तेषामिह न पुनरावृत्तिरस्तीति पश्यत इति परमेवात्र ब्रह्मशब्देनोच्यत इति
प्राप्ते, उत्तरं पठति ।
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ११ ॥
कल्पसमाप्तौ कार्यस्य ब्रह्मलोकस्य नाशे सति तदध्यक्षेण चतुर्मुखेन
ब्रह्मणा सह अतो ब्रह्मणः सकाशात् परमीश्वरं प्राप्नोत्यतोऽपुनरावृत्तिश्रुतिर्न
विरुध्यते । अत्र प्रमाणमाह अभिधानादिति । श्रुतौ तथाभिधानादित्यर्थः । सा
तु 'वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः ते ब्रह्मलोके-
षु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे' इति । 'परान्तकाल' इत्यत्र पर-
शब्देन ब्रह्मणः पूर्णमायुरुच्यते ॥ ११ ॥
उक्तेऽर्थे श्रुतिं प्रमाणत्वेनोक्त्वा स्मृतिमप्याह ।
स्मृतेश्च ॥ १२ ॥
'ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति
परं पद'मिति स्मृत्यापि स एवार्थः प्रतिपाद्यते ॥ १२ ॥
भाष्यप्रकाशः।
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ११ ॥ प्राप्यस्य ब्रह्मसामी-
प्याद् ब्रह्मत्यवाद इत्यङ्गीकारे विषयश्रुतिविरोधमाशङ्क्य समाधत्त इत्याशयेन सूत्रमवतारयन्ति
नन्वित्यादि । व्याकुर्वन्ति कल्पेत्यादि । ब्रह्मण इति । चतुर्मुखात् ॥ ११ ॥
स्मृतेश्च ॥ १२ ॥ उत्तानार्थम् ॥ १२ ॥
रश्मिः।
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ११ ॥ प्राप्यस्येति ।
ब्रह्मलोकस्य न तु ब्रह्मणः, तस्य नित्यप्राप्तत्वात् । समाधत्त इति पूर्वपक्ष्येव । नन्वित्यादीति ।
अत्रेति । प्रकृतविषये । पञ्चाग्निविद्यायां श्वेतकेतुब्राह्मणे 'तेषामिह न पुनरावृत्तिरस्ती'ति श्रुतिः ।
अत्रेति 'स एतान्ब्रह्म गमयती'त्यत्र । कल्पेत्यादीति । परशब्देनेति । तया च ब्रह्मणश्चतुर्मुखस्य
पूर्णायुषोऽन्तकाले आयुषश्चरमावयवे इति परान्तकाल इत्यस्यार्थः ॥ ११ ॥
स्मृतेश्च ॥ १२ ॥ उत्तानेति सम्प्राप्ते प्रतिसञ्चरे कल्पसमाप्तौ कार्यस्य ब्रह्मलोकस्य नाशे
सति नाशः सृष्टेः प्रतिकूलसञ्चरः तद्रूपे ब्रह्मणा चतुर्मुखेन सह ते सर्वे कृतात्मानः प्राप्तज्ञानाः ।
परस्यान्ते परान्तकाले । परं पदं पदनीयं ब्रह्म । एवमुत्तानार्थम् ।
वृत्तौ त्वत्राधिकरणसमाप्तिः सूचिता, वक्ष्यमाणसूत्रे अत्रापि 'स एतान्ब्रह्म गमयती'त्येव विषय-
वाक्यम् । पूर्ववदेव संशयः, तद्बीजं च पूर्वपक्षस्तु बादरिमेतेनेति पुनरुक्तेः । तन्न, भाष्यविरुद्धत्वात् ।
अत एव अग्रे सूत्रमवतारयन्तीत्युक्तम्, न त्वधिकरणमवतारयन्तीत्युक्तम् ॥ १२ ॥
2234

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७
अत्र सिद्धान्तमाह ।
परं जैमिनिर्मुख्यत्वात् ॥ १३ ॥
'स एतान् ब्रह्म गमयती'त्यत्र ब्रह्मपदेन परमेव ब्रह्मोच्यत इति जैमिनि-
राचार्यो मनुते । कुतः । मुख्यत्वात् । बृहत्त्वादिधर्मविशिष्टं हि ब्रह्मपदेनोच्यते ।
तादृक् परमेव ब्रह्म भवतीति मुख्या वृत्तिर्ब्रह्मपदस्य परस्मिन्नेव, अन्यत्र गौणी ।
तथा च मुख्यगौणयोर्मध्ये मुख्यस्यैव बलिष्ठत्वात् तथा ॥ १३ ॥
दर्शनाच्च ॥ १४ ॥
'स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं
स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोक'मिति कौषीतकिश्रुतिरग्न्यादिलोक-
प्राप्तिवदविशेषेणैव प्रजापतिलोकप्राप्त्यनन्तरं ब्रह्मलोकप्राप्तिं दर्शयति । न हि
तत्र ब्रह्मलोकशब्देन कार्यः स उच्यत इति वक्तुं शक्यम् । पार्थक्येन प्रजापति-
लोकस्योक्तत्वात् ।
भाष्यप्रकाशः।
परं जैमिनिर्मुख्यत्वात् ॥ १३ ॥ सूत्रमवतारयन्ति अत्रेत्यादि । पञ्चभिः सूत्रैर्बादरि-
मतोपक्षेपमुखेन पूर्वपक्षमुक्त्वा, अस्मिन् सूत्रे जैमिनिमतोपन्यासमुखेन स्वसिद्धान्तमाहेत्यर्थः ।
सूत्रव्याख्यानं तूत्तानार्थम् ॥ १३ ॥
दर्शनाच्च ॥ १४ ॥ अविद्यादिदोषाणामभावेपि कामनायाः सत्त्वान्मत्रेणाधिकार-
जाघन्याद् गत्युपपत्तौ लोकाङ्गीकारेण विशेषितत्वस्य चोपपत्तौ सामीप्यनिबन्धनाया गौण्या अप्र-
योजकत्वान्निश्चिरिति पूर्वसूत्रे मुख्यत्वेन हेतुनैव सिद्धमिति कार्यात्ययादिसूत्रद्वयोत्तरमव-
शिष्यते । तदनेन वदतीत्याशयेन सूत्रं व्याकुर्वन्ति स एतं देवयानमित्यादि ।
रश्मिः ।
परं जैमिनिर्मुख्यत्वात् ॥ १३ ॥ बादरीति । मुख्यमुपायः । उत्तानेति । अत्रेति ।
पूर्वपक्षे । बृहत्त्वादीति । आदिना बृहत्त्वाद् बृंहणत्वाच्च ब्रह्मेत्यत्रोक्तं बृंहणत्वम् । अन्यत्रेति ब्रह्म-
लोके । गौणमुख्यन्यायमाहुः तथा चेति । तथेति । ब्रह्मपदेन परमेव ब्रह्मोच्यत इत्यर्थः ॥ १३ ॥
दर्शनाच्च ॥ १४ ॥ सूत्रावतरणाय पञ्चभिः सूत्रैर्बादरिमतोपक्षेपः कृतः तस्य परिहारे
विवेचयन्ति स्म अविद्यादीति । कामनाया इति । द्वितीयस्कन्धोक्तलोकदिदृक्षायाः । गतीति-
कार्ये ब्रह्मणि गत्युपपत्तौ । द्वितीयसूत्रे अक्षरलोकपरब्रह्माङ्गीकारेण परावद्विशेषणस्य चोपपत्तेः । परावत
इत्यस्य मोक्षवतो ब्रह्मलोकान् । प्राधान्यवतो वा । उक्तविश्वासात् । तृतीयसूत्रे सामीप्येत्यादिः ।
मुख्यत्वेनेति । कार्यं ब्रह्म न मुख्यम्, परावत इत्यस्य धर्षणवत इत्यर्थो न मुख्यः प्रथमत्यागे
मानाभावात् । गौणी न मुख्येति प्रसिद्धमिति पूर्वोक्तं मुख्यत्वेन हेतुनोत्तरं सिद्धमित्यर्थः । अनेनेति ।
दर्शनाच्चेति सूत्रेण । जैमिनिमतेन समाधाने धर्मोपस्थित्या तत्प्रतिपादकपूर्वकाण्डे प्रजापतिलोकोपरि
ब्रह्मलोकस्य असम्भवदुक्तिकत्वात् तृतीयाष्टके 'प्रजापतिकामयत प्रजाः सृजेये'तीक्षाश्रावणात् ।
2235

Here is the line-by-line transcription of the Sanskrit text from the image into Markdown in Devanagari script:

११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ३ अ० १ सू० १४.
भाष्यप्रकाशः।
ननु तैत्तिरीयभाष्ये आनन्दमीमांसायां 'विराट् त्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः
संसारमण्डलस्थायी प्रजापतिशब्देनोच्यते । यत्रैते शतं प्रजापत्यानन्दा एकतां गच्छन्ति धर्मश्च
तन्निमित्तं ज्ञानं चैतद्विषयम् अकामहतत्वं च निरतिशयं यत्र स एष हिरण्यगर्भ' इति शङ्करा-
चार्यैर्व्याख्यातत्वाच्च हिरण्यगर्भस्य यो लोकः स कौषीतकिवाक्ये ब्रह्मलोकपदेन पठ्यते,
हिरण्यगर्भश्च जन्यः । 'हिरण्यगर्भं जनयामास पूर्वं' मिति श्वेताश्वतरे 'हिरण्यगर्भं पश्यत जाय-
मान'मिति तैत्तिरीये च श्रावणात् । अतस्तस्यात्र परामर्शे कार्यता कुतो न वक्तुं शक्येति चेत् ।
उच्यते । प्रजापत्यतिरिक्तस्य हिरण्यगर्भस्य वक्तुमशक्यत्वात् । 'वेदात्मनाय विद्महे, हिरण्य-
गर्भाय धीमहि, तन्नो ब्रह्म प्रचोदया'दिति तैत्तिरीयमन्त्रे 'हिरण्यगर्भो वेदाना'मित्येकादशीय-
विभूत्यध्यायवाक्ये च तस्य वेदात्मकतयैव सिद्धत्वात् । वेदात्मकत्वं च प्रजापतावेवं सिद्धम् ।
'शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः । ब्रह्मावभाति विततो नानाशक्त्युपबृंहित' इति
तृतीयस्कन्धे प्रजापतिं प्रकृत्यैव वाक्यात् । पर्यङ्कस्थे ब्रह्मणि हिरण्यगर्भपदस्य वेदात्मकत्वादि-
बोधकस्य वाक्यस्य चाभावात् । न च 'यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः । स ब्रह्मेति विज्ञेय
ऋषिर्ब्रह्ममयो महा'निति मन्त्रे तस्य वेदात्मकत्वमुक्तमेवेति शङ्क्यम् । तत्र 'एतावदिदं सर्वं'-
मित्यनेन सत्यपदार्थे निगमिते इदं सर्वमस्मीत्येवैनं तदाहेत्यनेन एनं उपासकं तत् पर्यङ्कस्थं
ब्रह्म इत्येवाहेति तदुक्तस्य याथार्थ्यं बोधयित्वा, तदेतच्छ्लोकेनाभ्युक्तमिति वाक्यं श्रुतिरुक्त्वा
श्लोकमाह 'यजूदर' इति । तत्र यजूदरादिविशिष्टोऽसौ ब्रह्ममयो महानृषिः स ब्रह्मा ब्रह्मसहितो
रश्मि
प्रजापतिलोकपर्यन्तवस्तुस्थितिर्ब्रह्मलोकेऽर्थवाद इत्याशङ्कते ननु तैत्तिरीयेति । विराट् कीदृशः,
त्रैलोक्यं शरीरं यस्य स त्रैलोक्यशरीरः । समष्टीति । यथा देवदत्त इति । समष्टिदेहेन
व्यष्ट्यवयवे रूप्यते व्यवह्रियते आत्मा स समष्टिव्यष्टिरूपः । संसारेति । प्रपञ्चस्य मण्डलं कदम्बकः
तत्र स्थायी । तन्निमित्तमिति । धर्मस्य निमित्तम्, ज्ञात्वा कुरुते सर्व इति । यद्वा । तन्निमित्तं
धर्मस्य निमित्तं फलं चित्तशुद्धिद्वारा ज्ञानम्, तन्निर्विषयं नास्तीति एतद्विषयमकामहतत्वम् । 'ते ये
शतं बृहस्पतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्याकामहतस्ये'ति ब्रह्मवित्यपाठकश्रुतेः ।
हिरण्यगर्भ इति । प्रजापतिः संसारमण्डलस्थायिनोतिरिक्तः आनन्दादिमान् । पठ्यते इति ।
अभेदान्वयात् पठ्यते । अर्थवादत्वात् सम्भवति । पूर्वमिति । सृष्टेः पूर्वम् । पश्यतेति । यूयं पश्यत
दूर्वादयो वद्रान्ताः पूर्वोक्ताः । महानारायणे श्रुतिराह तस्येति । ब्रह्मलोकाभिन्नप्रजापतिलोकस्य
परामर्शे कार्यता कार्यब्रह्मता । एवं जैमिनिपदसूचिताशङ्कां समादधते स्म उच्यते इति । सत्यं
परन्तु औत्पत्तिकसूत्रे जैमिनिना बादरायणग्रहणेन गुरुमतप्राधान्यपूर्वकेऽर्थे विवक्षिते यत् सिध्यति
तदुच्यत इत्यर्थः । तन्नो ब्रह्मेति । तन्नोऽस्मान् ब्रह्म, प्रजापतिरित्यर्थात् । वेदानां हिरण्यगर्भोऽस्मी-
त्यर्थः । तस्येति । प्रजापतेः । शब्देति । शब्दब्रह्मात्मनः वेदात्मनः तस्य प्रजापतेः । व्यक्ता-
व्यक्तात्मनः पञ्चम्यन्तम् । जगत्प्रकृतिभ्यां परः ब्रह्मावभाति । सुबोधिन्यां द्वादशाध्याये प्रपञ्चोऽस ।
वेदात्मकत्वादीति । आदिना व्यक्ताव्यक्तात्मनः परत्वं नानाशक्त्युपबृंहितत्वं च । यजूदर
इति । सकारलोपश्चान्दसः ततोऽकः सवर्णे दीर्घः । एतावदिति । सत्यम् । निगमित इति ।
पर्वतो वह्निमानितिवन् निगमिते । तदुक्तस्येति । उपासकस्य । वाक्यश्रुतिरुक्तेति । वक्ष्य-
माणवाक्यसम्बन्धिनी श्रुतिरुक्तेत्यर्थः ।
१. वाक्यश्रुतिरुचेति रश्मौ ।
2236

अपरं च, 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ती'ति
छान्दोग्यश्रुतिं विषयीकृत्य, 'अर्चिरादिना तत्प्रथिते'रित्युपक्रम आचार्येण कृतः,
अन्यत्रार्चिःशब्दस्याभावात्, तत्र चान्ते 'ब्रह्म गमयती'त्युच्यते । तथा च छान्दो-
ग्येऽनुक्तानामन्यत्रोक्तानां लोकानां मार्गैक्यसिद्ध्यर्थं तत्रैव सन्निवेशो, 'वायु-
मब्दात्', 'तडितोऽधिवरुणः,' 'वरुणादधीन्द्रप्रजापती' इत्यनेनोक्तः । एवं
सत्यादावर्चिषम्, ततोऽहः, ततः सितपक्षम्, तत उदगयनम्, ततः संवत्सरम्,
ततो वायुम्, ततो देवलोकम्, तत आदित्यम्, ततश्चन्द्रमसम्, ततो विद्युतम्,
ततो वरुणम्, तत इन्द्रम्, ततः प्रजापतिम्, ततश्चामानवेन पुरुषेण ब्रह्मप्राप्ति-
रिति निर्णयः सम्पद्यते। एवं सति प्रजापतिलोकादन्य

१२९ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ३ सू० १४.
त्वाच्च तदुक्त एव शास्त्रार्थ इति मन्तव्यम् । किञ्च । 'स प्रजापतिलोकं स
ब्रह्मलोक'मित्यत्र ब्रह्मपदस्य परवाचकत्वं तेनापि वाच्यं चेत्, तद्दृष्टान्तेनान्यत्रापि
तथैव वाच्यं बाधकाभावात् ।
भाष्यप्रकाशः।
बीजमित्यत आहुः किञ्चेत्यादि । तेनेति । बादरिणा । अन्यत्रेति । अक्षिपुरुषविद्यायां पञ्चा-
ग्निविद्यायां च । बाधकाभावादिति । गत्युपपत्त्यादिदूषणानां परिहृतत्वेनान्येषां चाभावेन
तथात्वात् । तथा च श्रुतिसामञ्जस्यमेव बीजमित्यर्थः ।
अत्र बादरिमतमुपपन्नं मन्वानाः शङ्कराचार्या एवमाहुः । 'आकाशवत् सर्वगतश्च
नित्य' इति श्रुतेः परस्य ब्रह्मणो व्यापकत्वम्, 'य आत्मा सर्वान्तर' इति श्रुतेः सर्वान्तरत्वम्,
'आत्मैवेदं सर्वम्,' 'ब्रह्मैवेदं विश्वमिदं वरिष्ठ'मिति श्रुतेः सर्वात्मकत्वं च निर्धारितम् । तत्र
व्यापकस्य ब्रह्मणो गन्तव्यदेशे विद्यमानत्वेन गन्तृतैवेति तस्य गन्तव्यता नोपपद्यते । न च भूमिष्ठं
प्रति गताया एव पृथिव्या देशान्तरद्वारेण गन्तव्यतावदत्राप्युपपद्यत इति वाच्यम् । सर्वात्म-
कत्वस्यापि गन्तव्यताबाधकत्वात् । अन्य एव अन्यद् गच्छतीति लोके दर्शनात् । न च बालस्य
वार्धक्यवदनन्यत्वेपि गन्तव्यतोपपद्यत इति वाच्यम् । 'निष्कलं निष्क्रियं शान्तं निरवद्यं निर-
ञ्जनम्', 'अस्थूलमनणु', 'स एष नेति नेत्यात्मे'त्यादिश्रुतिस्मृतिन्यायेभ्यो ब्रह्मणः सर्वविशेष-
शून्यतया सिद्धत्वेन तत्र देशकालविशेषयोगस्याशक्यवचनतया दृष्टान्तविरोधेन तस्यान्यस्य
रश्मिः।
बादरिणेति । विपरीतलक्षणा जैमिनिना निरीश्वरवादिनेत्यर्थः । यथापकारिणि 'बहूपकृतं
त्वये'ति बहूपकारित्वप्रयोगः । अक्षिपुरुष इति । 'जानश्रुतिर्ह पौत्रायण'इत्यारम्भकेऽस्ति । 'उ ह वै
ज्येष्ठश्च श्रेष्ठश्चे'त्यारम्भके पञ्चाग्निविद्यास्ति छान्दोग्ये । 'स एतान् ब्रह्म गमयती'त्यक्षिपुरुषविद्यायाम् ।
'स एतान् ब्रह्म गमयती'ति पञ्चाग्निविद्यायाम् । उभयत्रापि ब्रह्मपदेन परमेवोच्यते, न तु कार्यं ब्रह्मेति ।
पञ्चाग्निविद्यायां चेति । चकारोऽथवा सेश्वरजैमिनिमते इत्यनुक्तसमुच्चायकः । यद्वायवेत्याद्युक्तशेषो
वा पूरणीयः । एतेन व्यासेन सूत्रे मन्नमयी देवता जैमिनिर्मुख्यत्वादित्यनुक्त्वा 'परं जैमिनिर्मुख्यत्वा'दित्युक्तं
तत्स्वारस्यमसूचि । परिहृतत्वेनेति । सूत्रव्याख्यानारम्भ एव परिहृतत्वेन । श्रुतिसामञ्जस्य-
मिति । 'स एतान् ब्रह्म गमयती'ति श्रुतिसामञ्जस्यं ब्रह्मपदे गौणिनिवृत्तिः, सा मतद्वयस्य पारक्ये
परमते स्यात्, न तु स्वमत इति । तुरीयपादे बादरायणग्रहणात् तस्य बुद्धिसत्त्वेन जैमिनिसेश्वरवादि-
स्वशिष्यस्य स्वमतसिद्धस्य सूत्रे ग्रहणं बीजमित्यर्थः । तेन 'परं जैमिनिर्दर्शना'दिति सूत्रान्वयः ।
'स एतान् ब्रह्म गमयती'त्यत्र ब्रह्मपदेन परमेव ब्रह्मोच्यते, दर्शनाच्छास्त्ररूपादिति जैमिनिराचार्यो
मन्यत इति सूत्रार्थः । अग्रेति । वक्ष्यमाणसूत्रेण सहास्मिन् सूत्रे । वक्ष्यमाणविचारस्य द्वितीयसूत्रे
करणात् । अपिचेतिप्रभृति द्वितीयभाष्यादत्रैव तद्विचार उपक्षिप्तः । 'कार्यं बादरिरस्ये'त्यधिकरणो-
क्तेस्त्वान्न सूत्रयोरेकविषयत्वम् । अग्रे 'अप्रतीकालम्बनाधिकरणम्' ।
देशान्तरद्वारेण । यद्वा यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति । शारीर-
ब्राह्मणे 'तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो
वान्येभ्यो वा शरीरदेशेभ्य' इति देशान्तरवद्वा । अत्रापीति । व्यापके ब्रह्मण्यपि । तत्रेति ।
ब्रह्मणि । देशकालरूपविशेषयोगस्य । दृष्टान्तेति । बालवार्धक्यदृष्टान्तविरोधेन । तस्यान्यस्य
2238

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१
भाष्यप्रकाशः ।
अत्र वक्तुमशक्यत्वात् । न च जगदुत्पत्तिप्रलयहेतुत्वश्रुतेर्ब्रह्मणोऽनेक शक्तित्वान्न दोष इति वाच्यम् ।
विशेषनिषेधकश्रुतीनामनन्यार्थत्वात् । नचोत्पत्त्यादिहेतुत्वबोधकश्रुतीनामपि ब्रह्मपरत्वात् समान-
मनन्यार्थत्वमिति वाच्यम् । तासामेकत्वप्रतिपादनपरत्वात् । तत्र मृदादिदृष्टान्तवाक्येषु
'मृत्तिकेत्येव सत्य'मित्युपसंहारे एकस्य कारणस्यैव सत्यत्वकथनेन विकारानृतत्वप्रतिपादने
तद्धर्माणामुत्पत्त्यादीनामपि तथात्वेन शास्त्रस्य तत्परतया वक्तुमर्हतया तासां विशेषनिराकरण-
श्रुतिशेषताया एव युक्तत्वात् । न चोत्पत्त्यादिश्रुतिशेषत्वं निर्विशेषश्रुतीनामेवास्त्विति शङ्क्यम् ।
विशेषनिषेधश्रुतीनां निराकाङ्क्षार्थत्वात् । आत्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूयः
कदाचिदप्याकाङ्क्षान्तरानुदयेन तत्र पुरुषार्थसमाप्तिबुद्धयुत्पत्तेः । न चात्र मानाभावः शङ्क्यः ।
'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' 'अभयं वै जनक प्राप्तोऽसि', 'विद्वान्न बिभेति
कुतश्चन', 'एतँ ह वा व न तपति किमहँ साधु नाकरव'मित्यादिश्रुतिभ्यस्तथैव विदुष-
स्तुष्ट्यनुभावादिदर्शनाच्च मानत्वात् । तथा विकारानृताभिसन्ध्यपवादाच्च । 'मृत्योः स मृत्यु-
माप्नोति य इह नानेव पश्यती'ति भेददृष्ट्यपवादाच्च । न विशेषनिषेधश्रुतीनामन्यार्थत्वं शक्य-
वचनम् । उत्पत्त्यादिश्रुतीनां तु नैवं निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति, येन तच्छेषत्वं विशेष-
निषेधश्रुतीनां वक्तुं शक्येत । तत्र हि, 'यत्रैतच्छुङ्गमभ्युत्पतितं तं सोम्य विजानीहि नेदममूलं
रश्मिः ।
बालवार्धक्यन्यायस्य । अत्रेति । व्यापकस्य गन्तव्यतोपपत्तौ । अनेकेति । जगत्कर्तृत्वजगतपालक-
त्वजगत्संहारकत्वरूपानकशक्तित्वाद्विशेषसत्त्वेपि न दोषः, कार्यलक्षणत्वेन ब्रह्मप्रतिपादियषा विषयर्थ-
त्वाद्विशेषाणामिति वाच्यमित्यर्थः । विशेषनिषेधकेति । ताश्च 'निष्कलं निष्क्रिय'मित्याद्युक्ताः
तासाम् । अनन्यार्थत्वादिति । निर्वाहकसंज्ञया ब्रह्म निरूपणपरत्वात् । न तु आरो-
पापवादसंज्ञया ब्रह्म निरूपणपरत्वं तासाम् । आरोपापवादलक्षणसंज्ञातेर्निर्वाहकसंज्ञेतिरन्योऽर्थो
भवत्येवम् । अन्योऽर्थः ब्रह्मप्रतिपादकत्वलक्षणः प्रयोजनम् । न अन्योऽर्थो यासां ता अनन्यार्थाः
तासां भावः अनन्यार्थत्वम् तस्मात् । यथा विशेषप्रतिपादिकानां ब्रह्मलक्षणत्वम्, तथा विशेष-
निषेधिकानामपि ब्रह्मलक्षणत्वम् । कार्यलक्षणत्वं स्वरूपलक्षणत्वमिति विशेषः । ब्रह्मपरत्वादिति ।
यथारोपापवादन्यायेन विशेषनिषेधिकानां ब्रह्मपरत्वम्, तथा निर्वाहकसंज्ञया विशेषप्रतिपादिकानां
ब्रह्मपरत्वम् । यथा 'अथात आदेशो नेति नेति', तथा 'तदेजति तन्नैजती'ति । यथा शाखा-
रुन्धतीन्यायः, तथा किमन्यद्ब्रह्मज्ञाननिर्वाहकम् इति जिज्ञासा । तथा जगज्जन्मादिकर्तृत्वं कार्य-
लक्षणमुक्तम् । अतः समानमन्यार्थत्वम् । तासामिति । निर्विशेषप्रतिपादिकानामस्थूलादिश्रुतीनाम् ।
तत्रेत्यादीति एकत्वप्रतिपादने छान्दोग्ये मृदादिदृष्टान्तवाक्येषु । एतच्च द्वितीयाध्याये तदनन्यत्वाधि-
करण उक्तम् । तद्धर्माणाम् ब्रह्मधर्माणाम् । तथात्वेनेति । विकारानृतत्वेन । तत्परेति । धर्मपर-
तया वक्तुमर्हतया । ब्रह्मणो वागविषयत्वेनोत्पत्त्यादीनामर्हता तया । तासामिति । सविशेषप्रतिपादिकानां
'यतो वा इमानि भूतानी'त्यादीनाम् । अस्त्विति । यतो निरूपणं हि लक्षणैः । तानि चासाधारण-
धर्मरूपाणि जगज्जन्मादिकर्तृत्वादीनि । तैर्निर्विशेषश्रुतिप्रतिपाद्यज्ञानमिति तथा । अन्तरङ्गत्वं बहिरङ्गाद्-
बलीय इत्याहुः विशेषनिषेधेति । तत्रेति । एकत्वायुक्त्त आत्मनि । तुष्ट्यनुभवेति । आदिना
संक्षोभोऽशङ्करजुषाम् । तथा विकारेति । छान्दोग्ये मृदादिवाक्येषु । भेददृष्टीति । न च नाना इव
पश्यति स मृत्युमाप्नोति, किं पुनर्भेदमित्यर्थेन भेददृष्ट्यपवाद इति शङ्क्यम् । असार्यस्य नैयायिकमते
शोभनात् । अन्यार्थत्वं शून्योत्तरार्थकत्वम् । तच्छेषत्वमुत्पत्त्यादिश्रुतिशेषत्वम् । तन्न हीति ।
१६ ब्र० सू० २०

भविष्यती'त्युपन्यस्य तदुदर्कं सत् एवैकस्य जगन्मूलस्य विज्ञेयत्वदर्शनात् । एवं, 'यतो वा इमानी'-
त्यादिश्रुतावपि ज्ञेयम् । अतस्तासां सर्वासामैकात्म्यावगमपरत्वान्नानेकशक्तियोगो ब्रह्मण इति ।
अत्र च ब्रह्मणो व्यापकत्वं निर्विशेषत्वं च गन्तव्यताबाधकत्वेन सिद्धमिति सङ्ग्रहेण तदनु-
वदन्ति ननु परस्येत्यादि उपपद्यत इत्यन्तम् ।
अथ यत्तैर्जीवस्वरूपविचारेणागन्तव्यत्वं साधितम्, जीवो नाम किं ब्रह्मणोऽवयवो वा,
विकारो वा, अन्यो वा । नाद्यः । एकदेशत्वे एकदेशिनो नित्यप्राप्तत्वाद्गन्तव्यत्वानुपपत्तेर्ब्रह्मणो
निरवयवत्वप्रसिद्धेरेकदेशित्वकल्पनानुपपन्नत्वाच्च । न द्वितीयः । विकारेणापि विकारिणो
नित्यप्राप्तत्वात् । परित्यागेऽभावप्राप्तेः । पक्षद्वयेऽपि ब्रह्मणः स्थिरत्वेन जीवस्य संसाराभाव-
प्रसक्तेश्च । अथ तृतीयः पक्षश्चेत्, तदापि