सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः ।
तत्पुत्रान् सह सूनुभिर्निजगुरून् श्रीकृष्णचन्द्राह्वयान्
भक्त्या नौमि पितामहं यदुपतिं तातं च पीताम्बरम् ।
वन्दे च व्रजराजमन्वयमणिं यद्रोचिषा मादृशो-
ऽप्यासीन्मूर्ध्नि कृपापरः प्रभुवरः श्रीबालकृष्णः स्वयम् ॥ ७ ॥
श्रीवल्लभाचार्यपदाम्बुजाते भक्त्या मुदान्तर्हृदि संनिवेश्य ।
भाष्यप्रकाशे प्रयतेऽतिदीनो निःसाधनस्तत्करुणाबलेन ॥ ८ ॥
आचार्यवाचः प्रणमामि भाष्यसुबोधिनीस्था इतराश्च यास्ताः ।
मत्स्वान्त आगत्य कृपामृतास्ता मदीयवाचां रचयन्त्वलंकृतिम् ॥ ९ ॥
अथ स्वलौकिकानुभावप्रकटनहृदयस्य भगवत आज्ञया तदर्थमाविर्भूताः श्रीमदाचार्या-
रश्मिः ।
सर्वानैव मान्यान् नमन्ति तत्पुत्रानिति ॥ ७ ॥
ग्रन्थकरणे स्वप्रतिभाहेतुं वदन्तस्तत्करणं प्रतिजानते श्रीवल्लभाचार्येत्यादि । त्रिष्टुप्जातिः ।
इन्द्रवज्राछन्दः । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इति तलक्षणात् । भाष्यप्रकाश इति । प्रकाश-
शब्द आतपं वक्ति । भाष्यसमाप्तौ 'आविष्कृतोऽयं भुवि भाष्य भास्करः' इति भाष्यस्य भास्करत्वोक्तेः ।
निमित्तत्वं सप्तम्यर्थः ॥ ८ ॥
'मूर्तैर्महद्भिः' इति न्यायेन प्रार्थयन्ते आचार्यवाच इत्यादि । उपजातिः । 'अनन्तरोदीरित-
लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणात् । गाथाछन्दः । वस्तुतस्तु रचयन्तु
भूषामिति पाठः प्रतिभाति । तथा चाख्यानकीछन्दः 'आख्यानकी तौ जगुरू गमोजे जातावनोजे
जगुरू गुरुश्चेत्' इतिलक्षणात् । ओजे विषमे पादे । अनोजे समे । हस्ताक्षरपुस्तके त्वयमपाठः,
अन्याक्षरैर्लिखितश्च । आगत्य कृपामृता इत्यनेन वाचामाधिदैविकत्वं ध्वन्यते ॥ ९ ॥
भाष्यमवतारयन्ति अथेत्यादिना । भाष्ये परसवर्णभावस्तु वैकुण्ठस्थतास्फोटकः, न व्याकरण-
विरोधाधायकः । सत्यलोक एव परसवर्णश्रवणात् । आकाशवाणीवत् । तथाहीति निदर्शनगर्भश्लो-
कैस्त्वस्तु प्रक्षभावात् । यतः सत्यलोकमभिव्याप्यैव तथाहीति प्रयोगो मया श्रुतः पूर्ववदेव । सोपि
मान्ये क्वचिदेव दृश्यते । वैकुण्ठस्थता तु श्रीमदाचार्याणां ब्रह्मभावेन सर्वरूपत्वात् स्फुटैव ।
'नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम् ।
लक्ष्मीसहस्रलीलाभिः सेव्यमानं कलानिधिम्' इति-
दशमश्रीसुबोधिनीप्रारम्भश्लोकात्, असंधिस्तु शिवादिभिरपि अकरणात् तस्याः । युक्तं चैतत्
सारोत्र । अथेति, अथशब्दः आरम्भार्थकः । न त्वानन्तर्यार्थकः, आचार्यैः सूत्रपाठात् पूर्वं
मङ्गलकरणात् । तथा चाहुराचार्याः सुबोधिन्यामथ व्याख्या इति । निबन्धाद्यानन्तर्यं वा तदर्थः ।
स्वलौकिकानुभावो ब्रह्मवादलक्षणो (पत्रावलम्बनोक्तः ) मायावादव्यतिरिक्तः । स्वस्य ब्रह्मणोऽ-
लौकिको लोकोत्तरोऽनुभावो ब्रह्मज्ञानमनु पश्चाद्भावो भक्तिः प्रेम च योगिकोऽर्थः, रूढो भिन्नः । कीदृ-
गित्याकाङ्क्षायां ब्रह्मणो वादो यत्र स्वलौकिकानुभावेन 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः परः'इति
4

[५]
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।

भाष्यप्रकाशः ।
साक्षाद्ब्रह्मण्येव सर्ववेदान्ततात्पर्यगोचरत्वज्ञापनाय वेदार्थतामरसतरणेर्भगवतो बादरायणस्य
सूत्राणि व्याकरिष्यमाणाः,

रश्मिः ।
निबन्धाज्ज्ञानमनु ब्रह्मभावो भक्तिः उच्यते तेन लक्षणं, ब्रह्मवादो लक्षणं यस्य सालौकिकोऽनुभावस्स
लक्ष्यस्स स तयोक्तः । अनुभावस्वरूपं प्रथमे सुबोधिन्त्यां सप्तदशाध्याये 'इत्थंभूतानुभावः' इत्यत्रास्ति ।
मृतोपि जीवन् तिष्ठतीत्येवंभूतानुभावः इति । [तथा चायं निष्कर्षः । उक्ते प्रतीतसामग्रीकस्य
कार्यस्य स्वस्य ब्रह्मण आचार्याणां चालौकिको लोकानधिगतो योयमनुभावः । मानुषीं तनुमाश्रितस्स
सन्नमनुष्याकृतेश्च जगज्जन्मादिकर्तृत्वं सकलमतनिरासपूर्वकं अध्यायद्वयप्रतिपाद्यं साधनफलत्वे च ।
आचार्याणां तत्प्रतिपादकत्वं चतुर्षु अध्यायेषु स प्रथमस्कन्धारूढो यौगिकश्चेति यौगिको ज्ञानमनुभावो
भक्तिश्चेति । तदुक्तं ब्रह्मकाण्डे 'तत्सैवात्मानुभावप्रकटनहृदयस्याज्ञया' इति । व्याख्यातं च
टीकाकृद्भिः] सर्ववेदान्तेति सर्ववेदान्तानां तात्पर्यगोचरत्वस्य ज्ञापनाय । अत्रेदं ज्ञेयम् ।
अभिधालक्षणातात्पर्येषु तिसृषु वृत्तिषु तात्पर्यगोचरत्वमित्यर्थः । ननु तात्पर्यवृत्तिरेव नास्ति ।
तात्पर्यानुपपत्तेर्लक्षणाबीजत्वस्य 'यष्टीः प्रवेशय' 'काकेभ्यो दधि रक्ष्यताम्' इत्यादिषु स्पष्टतया
वृत्त्यनौचित्यादिति चेत्, सत्यम्, वृत्तिद्वयपक्षोप्यस्ति । परेषामलंकारिकाणां वृत्तित्रयपक्षस्तु,
'भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य,
यस्याऽनुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्' इत्यादौ
व्यञ्जनावृत्तिमन्तरेण निर्वाहाभावादिति । न चात्र लक्षणयैव निर्वाह इति वाच्यम् ।
राजासंबन्धिनि गजे तदयोगात् । दूषणानां यौक्तिकत्वेन 'युक्तं च सन्ति सर्वत्र भाष्यन्ते ब्राह्मणा
यथा' इति कृष्णवाक्यानुसृत्यार्थस्य बाधाद्यभावाच्च । स्फुटमन्यत्प्रस्थानरत्नाकरे । एवं च
वृत्तिद्वयपक्षेपीदं युक्तम् । तथा हि प्रस्थानरत्नाकरे द्वेधावृत्तिप्रपञ्चे व्यञ्जनास्थले तात्पर्यवृत्त्या
निर्वाहादभिधागौणीतात्पर्यरूपास्तिस्रो वृत्तय आलंकारिकरीत्या वृत्तिपदसहिता व्यवस्थापिता इति
'भद्रात्मनः' इत्यादौ अभिधामूलव्यञ्जनास्थलेऽभिधामूलतात्पर्यवृत्तिस्वीकारः । दार्ष्टान्तिके तु तात्पर्यमात्रं
न वृत्तिः । एवं च 'साक्षाच्छक्तो लाक्षणिकः शब्दोऽत्र व्यञ्जकस्तथा' इत्यत्र 'साक्षाच्छक्तो लाक्षणिकः
शब्दस्तात्पर्यवांस्तथा' इत्येवं राद्धान्तिकपाठेपि 'यतो वाचो निवर्तन्ते' इति श्रुत्याऽस्यापि शब्दस्य
निवृत्तेः । अतो मूले तात्पर्यमात्रमुक्तं, न वृत्तिपदम् । नन्वेवमप्यभिधामूलव्यञ्जनास्थले अभिधैव
व्यापारो नातिरिक्ता व्यञ्जनेत्यादि उपपाद्य यथासंभवं तात्पर्यवृत्त्यर्थः धर्माभिधासत्त्वेऽभावान्नातिरिक्ता
व्यञ्जनेति पठनाद् 'भद्रात्मनः' इत्यादिस्थलेऽभिधादिवृत्तिमाश्रित्य दार्ष्टान्तिकेऽप्यभिधादिवृत्त्यावश्य-
कत्वात् निर्विषयशब्दस्य यच्छब्दार्थमूललक्षणा निवृत्तिरिति चेत् मैवम् । ['यतो वाचः' इत्यस्या
इदमित्थतया तत्स्वरूपे निरूपणनिषेधेन परत्वमत्रैव भाष्य ईक्षत्यधिकरणे चाञ्जसत्वनिषेधेन
सामान्यतो यच्छब्दार्थे ब्रह्मणि निर्गुणानन्दमात्रतच्छब्दाभिधायाः स्वीकारात् । नन्वेवं सति तात्पर्य-
गोचरत्वज्ञापनायेति मूलमशुद्धमिति चेत्, न, सर्ववेदान्तपदपरत्वान्मूलस्य । एकापेक्षया बहूनाम-
नुग्रहस्य न्याय्यत्वात् । 'ॐतत्सदिति निर्देशो ब्रह

An exact line-by-line transcription of the page into clean Markdown in Unicode Devanagari:

६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः ।
'सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः ।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः' ॥
रश्मिः ।
तस्य समीपार्थकत्वम् । अन्यथा यत इति श्रुतिभाष्यविरोधापातः । नन्वेवं सति विराजि नारायणा-
दिरूपेषु 'नारायणादिरूपाणि'इत्यादिवक्ष्यमाणा वेदस्य वेदान्तानां चाभिधावृत्तिर्विराजि प्रमेयेम् । 'मां
विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् । एतावान् सर्ववेदार्थः' इत्येकादशे निरुक्तात् जगद्व्यापा-
रवर्जाधिकरणे यद्रूपमुक्तम्, तत्तु परं भावं जानतां तात्पर्यं, तद्गोचरत्वं च । तत्र नूनं परस्मि-
न्भावेऽभिधावृत्तिर्गौणी बोद्धारोपव्याख्यानरूपत्वात्, सर्वस्य शब्द

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९
भाष्यप्रकाशः।
इति भाष्यलक्षणात् सूत्रोपन्यास एवानुसरणसिद्धेः प्रकृतेरादित एव भाष्यत्वाय सूत्री-
रश्मिः।
कथं सालौकिकानुभावप्रकटनमिति चेन्नैवम्। तैः सगुणब्रह्मणः सकाशात् सृष्टिरिति निरूपणान्न
तात्पर्यविषयत्वम्, किंतु अभिधेयत्वमिति, लौकिकत्वात् । तत्र ब्रह्मनिर्गुणादिपदानांमभिधामूलं
तात्पर्यम्, ब्रह्मणि नारायणादिपदानां कथमु तात्पर्य, लक्षणाया अप्यभावेन लक्षणामूलव्यञ्जनापरपर्या-
यतात्पर्यस्याप्यभावादिति चेन्न । जन्यजनकभावसंबन्धस्य शक्यसंबन्धस्य सत्त्वेन लक्षणा गौणीरूपा
भविष्यति, सति प्रमाणे तात्पर्यं त्वलौकिकपरमोत्कृष्टत्वे, यथा 'गङ्गायां घोष' इत्यत्र शक्यस्य प्रवाहस्य
संबन्धः संयोगः, तस्य तीरे सत्त्वात्तीरे लक्षणा, शैत्यपावनादौ तदभावात्, तात्पर्यवृत्तिरालंकारिकाणां

श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
अथातो ब्रह्मजिज्ञासा ॥ १ ॥ ( १-१-१ )
भाष्यप्रकाशः।
भाष्यशब्देनैव मङ्गलसिद्धेश्च सूत्रमेवादौ पठन्ति अथातो ब्रह्मजिज्ञासेति । नच मङ्गलाचरणा-
न्तरादर्शनाच्छिष्टाचारविरोधः शङ्कनीयः । महाभाष्ययोगभाष्ययोर्ग्रन्थकृत्कृतसाद्यशब्दाति-
रश्मिः ।
श्रुत्यनुसारित्वान्नातिव्याप्तिः आर्थिकार्यस्पर्शस्यास्मद्भाष्येपि न सेति । यत्तु शंकराचार्यैः 'शास्त्रयोनि-
त्वात्' इति सूत्रांशं प्रथमान्तत्वेनानन्दमयाधिकरणं च भक्त्वोत्सूत्रं व्याख्यातम्, 'भावे चोपलब्धेः'
इति सूत्रं 'भावाच्चोपलब्धेः' इति पाठं भित्त्वा व्याख्यातम्, मध्वरामानुजभास्कराचार्यैः 'सामाव्याप-
त्तिरूपपत्तेः' इति सूत्रं 'क्षामाव्यापत्तिः' इत्येवं पाठं भित्त्वा व्याख्यातम्' तत्राव्याप्तिर्न दोषाय,
अन्यत्र तु गौण्या निर्वाहः । सूत्रमेवेति । सर्वतः सारभूतार्थबोधकत्वे सूचकत्वे च सति
स्वल्पाक्षरपदत्वमिति सूत्रलक्षणम् । 'खल्वहं ब्रह्म सूत्रं सूचनात्सूत्रम्' इत्यारुणि श्रुतेः ।
'लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च, ।
सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः' ॥
इति स्मृतेश्च । वस्तुतस्तु यत्राभियुक्तानां सूत्रत्वव्यवहारस्तानि सूत्राणीति । अतो महति
'अचतुरविचतुर'इत्यस्मिन्पाणिनीये सूत्रे नाव्यासः ॥
अथातो ब्रह्मजिज्ञासेति इति ॥ १ ॥ प्रतीकमिदम्, क्रियाविशेषणं तृतीयान्तव्य-
तिरिक्तम् । तृतीयान्तं तु करणमिति विवेकः । ननु ब्रह्मपदेन किमुच्यते प्राणो वा ब्रह्मैव वा ।
तथाहि 'एष उ एव बृहस्पतिः' इति श्रुतेः प्राण एष प्राण इत्यर्थात् । न च प्राणेत्यनया श्रुत्या
बृहस्पतित्वं विहितम्, न ब्रह्मत्वमिति वाच्यम् । 'ब्रह्म वै देवानां बृहस्पतिः' इत्यारण्यकसमाप्ति-
ग्रन्थसम्भूतैरिति चेत्, मैवम् । द्वितीयाध्याये चतुर्थचरणे 'श्रेष्ठश्च' इत्यधिकरणे 'न वायुक्रिये पृथ-
गुपदेशात्' इति सूत्रे प्राणस्योपपादितत्वान्तरत्वात् । न च ब्रह्मापेक्षया ब्रह्मणस्पतिजिज्ञासा
प्रस्तोतव्येति शङ्क्यम् । बृहदारण्यके 'एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एषे पतिस्तस्मादु
ब्रह्मणस्पतिः' इतिश्रुतोर्ब्रह्मपदेन वाग्ग्रहणेनादोषात्, तत्त्वान्तरत्वाच्चेति । अत एव जिज्ञासासूत्रे
ब्रह्मपदेन वेदान्ता गृहीताः । 'वाग्वै ब्रह्म' इति श्रुतेः । न च शुकादिप्रभृतीनां जिज्ञासा जैमिनि-
सूत्रानुसारिणाधिकर्त्तव्येति वाच्यम् । पौर्वापर्य्यात्वात् । 'न च वेदादृते किञ्चिन्नामं ब्रह्माभिधा-
यकम्' इति महाकौर्म्यात् । 'नन्वेवमपि स दोषस्तदवस्थ एवेति चेत्, न । जैमिनेर्भगवतो व्यासस्य
शिष्यत्वाच्छास्त्रभेदाच्च । न च वेदजिज्ञासाधिकर्त्तव्या नामाख्यातोपसर्गनिपातादिभिर्धर्मजिज्ञासया षड-
ङ्गैरितराङ्गैश्च तस्या निराकाङ्क्षत्वात् । इतरत् सर्वं साधनाध्यायतुर्यपादेऽचीकुपद्भाष्येऽथशब्दतोऽवधे-
यम् । शङ्कनीय इति तर्कितव्य इत्यर्थः । आद्यपूर्वसाप्यद्यमर्थः । ग्रन्थकृत्कृतस्येति । तत्र ग्रन्थो
नाम संबन्धप्रयोजनज्ञानाधीनशुश्रूषाजन्यश्रुतिविषयः संदर्भः ।
'सिद्धार्थं सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्त्तते ।
शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः' ॥
१. अस्मत्सन्निधौ द्वित्राणि रश्मेः पुस्तकानि सन्ति, तेषां रश्मिकारसंशोधितं पुस्तकं शुद्धं समीचीनं च । तत्र इत आरभ्य
एकोनविंशतिः पत्राणि न लभ्यन्ते तदर्थमतीव प्रवर्त्तितोपि तत् संपादने न सफलप्रयत्नोऽभवम् । प्रस्थान्तराणि तु अशुद्धिप्रचु-
रत्विन्नपुस्तकानि न विश्वसनीयानि तथापि तदवलम्बनेन ग्रन्थसंशोधने कृते बहूनिस्खलितानि नयनपथातिथीनि भवन्ति तानि
विद्वद्भिः संशोध्य्यानि इत्यभ्यर्थयते मुद्रिकर्त्ताः । 8

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९
इदमत्र विचार्यते । वेदान्तानां विचार आरम्भणीयो न वेति ।
भाष्यप्रकाशः ।
रिक्तस्य मङ्गलस्यादर्शनेन, शाबरभाष्ये च 'अथातो धर्मजिज्ञासा' इति सूत्रमेवोपम्यस्य भाष्या-
रम्भदर्शनेन च विरोधाभावादिति । अस्यारम्भसूत्रत्वादत्राधिकारिविषयसंबन्धप्रयोजननिरूपण-
द्वारा शास्त्रारम्भः समर्थनीयः । शास्त्रप्रवृत्त्यावश्यकत्वहेतुरूपा संगतिश्च निरूपणीया । अन्यथा
प्रेक्षावत्प्रवृत्त्यभावेन शास्त्रवैयर्थ्यं स्यात् । शास्त्रस्य वैधत्वमपि विचारणीयम् । अन्यथा वेदान्तानु-
पयुक्तत्वं, प्रामाणिकानादरणीयत्वं च स्यात् । यदिदं सर्वं हृदि कृत्वा भगवता श्रीबादरायणाचा-
र्येणेदमधिकरणरूपं सूत्रं प्रणीयते, न तु ब्रह्मविचारप्रतिज्ञामात्रमत्र क्रियत इत्याशयेनाडुः
इदमित्यादि ।
विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् ।
संगतिश्चेति पञ्चाङ्गं शास्त्रेधिकरणं स्मृतम्' ॥
इति लक्षणाद् विषयादिपञ्चकघटितं वाक्यमधिकरणम् । तेनास्मिन् सूत्रे, इदं वक्ष्यमाणं बुद्धिस्यं
विचार्यते । अग्रिमसूत्रेषु वेदान्तानां विचारणीयत्वादुपोद्धातेन चिन्त्यत इत्यर्थः । विषयादि-
कमाहुः वेदान्तानामित्यादि । नन्वत्रायं विषयाद्युपन्यासो न युक्तः, असौत्रत्वात् ।
रश्मिः ।
इत्युक्तेः शुश्रूषायाः संबन्धप्रयोजनज्ञानाधीनत्वम् । तर्ह्येतेति मङ्गलेनापि भाव्यं तत्राहूः
शाबरभाष्ये चेति । अन्यथेति वैधत्वाभाव इत्यर्थः । प्रणीयत इति । स्मेति शेषः ।
उपोद्घातेनेति । तेनोपोद्घातोत्र संगतिरित्युक्तम् । तत्त्वं च प्रकृतसिद्धयनुकूलचिन्ताकालाव-
च्छेदेन प्रकृतानुकूलत्वं प्रकृतोपपादकत्वं वा । एवमपि विशेषलक्षणसमन्वयेपि सामान्यलक्षणस्यान-
न्तर्याभिधानघटितत्वेनास सूत्रस्य च प्राथम्यान्न नैयायिक लक्षणसमन्वयः । किंतु, अधिकरणस्य
पञ्चावयवत्वेन 'अथातो ब्रह्मजिज्ञासा' इति सावधानपुरुषप्रयुज्यमानवाक्यप्रयोजनकप्रकृतोपपाद-
कत्वावच्छेदेन ब्रह्मभक्तिविचारत्वेन रूपेण स्मृतस्य ब्रह्मभक्तिविचारस्योपेक्षानर्हत्वमिलेवं संगति-
सिद्धान्तलक्षणसमन्वय इति बोध्यम् । इदं चेक्षत्यधिकरणे संगतिग्रन्थनिरूपणावसरे स्फुटमुप-
पाद्यम्, इयं चाध्यायानां पादानां च संगतिः । त्रिपदं जिज्ञासासूत्रं अथातो ब्रह्मजिज्ञासेति ।
तत्र अतःशब्दार्थः स्वयमग्रे वक्तव्यः । तस्याधिकरणरचनानुपयोगात् । ब्रह्मशब्दार्थो वेदान्ता-
नामिति । जिज्ञासाशब्दार्थो विचारः । अथशब्दार्थः आरम्भः । कर्तव्यादिपदाध्याहारापेक्षयारम्भो
घञन्तादिरत आरम्भणीयो रमिरनीयर्प्रत्ययान्तः । अत उक्तं वेदान्तानां विचार आरम्भणीयो नवेति ।
अत्र प्रतीतार्थग्रहिलवादी तु शङ्कते नन्वत्रेति । असौत्रेति । सौत्रः प्रतीतोर्थः तद्भिन्नत्वात् ।
तद्विषयादिकमाहुः विषयादिकमाहुरिति । सूत्रे ब्रह्मपदस्य वेदेपि वृत्तिदर्शनेन तत्संबन्धि-
वेदान्तानां सूचनेन ब्रह्मपरत्वेपि ब्रह्मजिज्ञासेति शेषषष्ठया समासस्य वक्ष्यमाणत्वेन च जिज्ञासा-
पदस्य विचारार्थकत्वस्य च तथात्वेनाथशब्दस्यारम्भापरपर्यायाधिकारार्थत्वस्यापि तथात्वेनायमेव
विषयादिरित्याशयेन विषयादिकमाहुरित्यर्थः । वेदान्तानां विचार आरम्भणीयो
न वेति भाष्यात् । आरम्भार्थ उद्यम एवोत्तरत्रानुवृत्तिरूपाधिकारनिवेशाच्चेति । तथाहि, उद्यमत्वे
सत्युत्तरत्रानुवृत्तिरासमन्तात् ताच्छ्दारम्भार्थः । भाष्ये विचार इति । सूत्रैर्वस्तुतस्तत्परीक्षण-
मित्यर्थः । मीमांसेति यावत् । शेषे षष्ठी । अन्यथा, 'स्मृतेश्च' इत्यादिसूत्रेषु स्मृतीनां विचारकर्मता
१ प्र० सू० २ ० 9

किंतु ब्रह्मजिज्ञासा कार्या न वा, ब्रह्म जिज्ञास्यं न वा, इत्येवं सूत्रानुसरणाद् युक्त इति चेन्न । तपोप-
न्यासे, 'तपसा ब्रह्म विजिज्ञासस्व' इतिश्रुत्या तपस एवोपदेशात् तद्विहाय व्यासपादैः किमिति
वेदान्तवाक्यानि विचार्यन्ते, तपः कुतो नोपदिश्यत इत्याशङ्का स्यात्, श्रुतिविरुद्धत्वं च
मायात् । एवमुपन्यासे त्वधीतवेदस्य, 'वेदान्तविज्ञानसुनिश्चितार्थाः' इति श्रुतिस्फुरणादस्यां
च श्रुतार्थनिश्चयं प्रति वेदान्तविज्ञानस्य हेतुताकथनात् तस्य च विचारसाध्यत्वात् तत्स्फूर्त्या-
च्छङ्कोदयाद् युक्त इति ।
किंच । जिज्ञासापदस्य च यौगिकार्थ एव प्रायः प्रसिद्ध इति ब्रह्मज्ञानेच्छा कर्तव्या न
वा, ब्रह्म ज्ञानेच्छाविषयं कार्यं न वेति प्रथमो बोधे, ततस्तावन्मात्रस्यापुरुषार्थत्वात् तत्रानु-
पपत्तौ भातायां पश्चाद् विचारं लक्षयित्वा ततस्तत्कर्तव्यत्वादिकं विचार्यम् । तदपि वेदान्तैरेव
वक्ष्यमाणरीत्या विचार्यम् । अन्यथाकस्मिकता स्यात् । अत आवश्यकत्वादपि युक्तः ।
न स्यात् । स्मृतयो विचार्यन्त इति । कर्मषष्ठ्या स्मृतीनां विचारकर्मत्वात् । तथाच
कर्मषष्ठीपरिग्रहे प्रतिज्ञाहान्याख्यनिग्रहस्थानापत्तिः । प्रकृते किंतु ब्रह्मेति । ब्रह्मपदेन
वेदान्ताः । अन्वयोऽनुपपत्त्या अध्याहारनिवृत्तये वा पक्षान्तरमाहुः ब्रह्म जिज्ञास्यं न वेति ।
तपसेति । नन्वियं श्रुतिः ब्रह्मप्रत्यक्षात्मकज्ञानसाधनविचारसाधनं तपः संतापात्मकमाह,
द्वितीयस्कन्धनवमाध्याये तथोक्तेः । वेदान्तवाक्यानि तुपाङ्गत्वेन विचार्यन्त इति उपाङ्गविषयत्वा-
भावादिति चेत् तत्राहुः इत्याशङ्केति । तथा च तर्कस्यान्यथाज्ञानत्वादुपाङ्गविषयेऽपि प्रत्यक्षसाधक-
विचारसाधनतपःप्रतिपादकश्रुतिस्फुरणमिति भावः । विचार्यन्त इति । सूत्रान्तरेषु विचार्यन्त इत्यर्थः ।
श्रुतिस्फुरणादिति । नन्वितिकरणाभावात् कथं वेदान्तानामिति पदस्य 'वेदान्तविज्ञाने'ति श्रुतौ
वेदान्तानामित्यन्तर्वर्तिविभक्तिमाश्रित्य वाक्यप्रतीकत्वमिति चेन्नैवम् । 'यावद्धस्तवत्सकाल्पकवपु-
र्यावत्कराङ्गादिकम्' इत्युपक्रम्य 'सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ' इति प्रक्षिप्ताध्या-
यश्लोके सर्वं विष्णुमयमिति पदद्वयसेतिकरणाभावेऽपि सर्वं विष्णुमयं जगदिति वाक्यप्रतीकतायाः
श्रीधरैः स्वीकारात् । आचार्यैरप्येवमिति । नन्वेवमपि सूत्रेण 'तपसा ब्रह्म विजिज्ञासस्व' इति श्रुति-
स्फुरणस्य दुर्निवारत्वेन तस्यां च तपसो ब्रह्मजिज्ञासाकारणतोपन्यासेन वेदान्तश्रुतिस्फुरणात्,
तस्यां चार्थविचारस्य वेदान्तज्ञानकारणता, एवं चोभयोरर्थयोः स्फुरणमधिकम्, न तु शङ्कोदय
इत्यरुच्याहुः किंचेति । ब्रह्म, ज्ञानेच्छाविषयं कार्यं न वेति । क्रियाविशेषणत्वाद्वितीयान्तम्,
आर्द्रं पचतीतिवत् । सन्प्रत्ययान्तधातुपस्थाप्यक्रियाविशेषणानां कर्मत्वमिति व्युत्पत्तेः । उभय-
लिङ्गता वा विषयपदस्य । तत्रेति यौगिकार्थे इत्यर्थः । लक्षयित्वेति असाध्यत्वात्स्व-
संबन्धेन लक्षयित्वेत्यर्थः । नन्वेवमपि स्फुरितश्रुतिविरोधो नापैतीति चेत् न । तपो न मुख्य-
साधनमित्यानन्दमयाधिकरणे वक्ष्यमाणत्वादिति, करणाभावश्रुतेरस्फुरणमेव वा । न्यायस्य काचि-

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ११
भाष्यप्रकाशः।
किंच। व्यासप्रवृत्तिबीजबोधनार्थत्वेनापि युक्तः। तथाहि । प्रथमस्कन्धे चतुर्थाध्याये
'द्वापरे समनुप्राप्ते' इत्यारभ्य, 'एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः' इत्यन्तेन सर्वेषां
श्रेयोऽर्थं प्रवृत्तिर्व्यासचरणानामुक्ता। पञ्चमे च, 'जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम्' इति
नारदेन ब्रह्मविचारान्तायाः कृतेस्तथात्वं बोधितम् । तथाच ज्ञानविधिनार्थज्ञानार्थं प्रवृत्तानपि
यदा जैमिनीयादिदर्शनैरेकदेशीयविरुद्धज्ञानवतो दृष्टवांस्तदा भारतकरणोत्तरमत्र प्रवृत्तः
वेदार्थनिश्चयो वेदान्तार्थनिश्चयं विना न भविष्यतीति । अत एवात्राग्रे वेदान्तवाक्यैरेव ब्रह्म-
विचारदर्शनं ब्रह्मणि सर्ववेदार्थत्वस्याग्रे स्थाप्यत्वाच्च । तदर्थं वेदान्तविचारावश्यकत्वमवश्यं
साधनीयम् । तेन तत्र हेत्वाकाङ्क्षोपशमात् । अतस्तदुप

१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
किं तावत् प्राप्तम् । नारम्भणीय इति । कुतः ।
साङ्गोऽध्येयस्तथा ज्ञेयो वेदः
भाष्यप्रकाशः।
तत्र विषयो नामापाततः प्रतिपन्नः संदिग्धोऽर्थः । तादृशश्चात्र वेदान्तविचारो न तु वेदा-
न्ताः । तेषामग्रिमसूत्रेषु विचार्यत्वात् । विशयः संशयः । एकधर्मिकविरुद्धकोटिद्वयावगाहि ज्ञानम् ।
तदाकारश्चात्र, आरम्भणीयो न वेत्यनेनोक्तः । पूर्वपक्षः प्रतिवादिमतम् । तदाहुः नारम्भणीय
इति । तत्र पृच्छति कुत इति । 'वेदान्तविज्ञानसुनिश्चितार्थाः' इति श्रुतावर्थनिश्चयं प्रति वेदान्तवि-
ज्ञानस्य हेतुताबोधनाद् विचारं विना च तदसंभवात् स आवश्यक इति कुतो नेत्युच्यत इत्यर्थः ।
एवं प्रश्ने प्रतिवादी अनारम्भणीयतामुपपादयन् गृह्णाति साङ्ग इत्यादि । अयमर्थः । वेदान्तवि-
चारस्यारम्भणीयत्वं वदता सिद्धान्तिना विधिप्रयुक्त्यारम्भणीयत्वं वक्तव्यम् । तत्र विचारे प्रत्यक्ष-
विधेरदर्शनात् कथंचिद् कुतश्चिद् वैधत्वं साधनीयम् । ततश्च कर्मादिविधिभ्यस्तत्सिद्धेरसंभवाद-
ध्ययनादिविधिभ्यः साधनीयम् । तत्र, 'स्वाध्यायोऽध्येतव्यः' इत्येकः । 'अष्टवर्षं ब्राह्मणमुपनयीत
तमध्यापयीत' इत्यपरः । 'साङ्गो वेदोऽध्येयो ज्ञेयश्च' इत्यन्यः । एते त्रयः पूर्वकाण्डस्थाः । 'श्रोतव्यः'
इत्यादिरुत्तरकाण्डस्थश्चेतरः ।
तत्र भाट्टास्तावदेवं मन्यन्ते । अध्ययनविधेरक्षरग्रहणमात्रपर्यवसानेऽदृष्टकल्पनापत्तेरर्थज्ञान-
रूपदृष्टफलार्थतैव युक्ता । न च विमतं वेदाध्ययनमर्थज्ञानहेतुरध्ययनत्वाद् भारताध्ययनवदित्य-
नुमानेनाध्ययनस्य स्वाध्यायसंस्कारद्वाराऽर्थज्ञानहेतुत्वप्राप्तेर्न तावत्पर्यन्तं विधिव्यापारो युक्त इति
वाच्यम् । विमतं वेदाध्ययनं नार्थज्ञानहेतुर्वेदाध्ययनत्वादाधुनिकाध्ययनवदिति प्रत्यनुमानेन
तद्बाधात् । न च लोकेऽवगतसामर्थ्यानां शब्दानां वेदेऽपि बोधकत्वान्लिखितपाठादिनाऽप्यर्थ-
ज्ञानसंभवादर्थबलादेव तत्प्राप्तेरर्थज्ञानांशे तस्यापूर्वविधित्वाभावाच्च तत्पर्यन्तं विधिव्यापारो युज्यत
रश्मिः ।
तत्र विषय इत्यादि । वेदान्तविचार इति । 'जन्माद्यस्य यतः' इत्यारभ्य 'अनावृत्तिः शब्दादना-
वृत्तिः शब्दात्' इत्यन्तसूत्रजातं ब्रह्मविचारशास्त्रं तत्तादृशमित्यर्थः । वेदान्तविज्ञानेति बुद्धिविज्ञानं
मन्तव्यमिति प्रसिद्धश्रुतिमपहाय श्रुत्यन्तरोपन्यासोनेकस्मृत्यनुगृहीतत्वार्थः । तदसंभवा-
दिति । वेदान्तविज्ञानजन्यनिश्चितार्थे सुष्ठु ( असंदिग्धोपि वेदार्थ इति भाष्येप्याह ) तस्यासं-
भवादित्यर्थः । गृह्णातीति हेतून् संगृह्णातीत्यर्थः । यदि च प्रतीकमत्र कर्मत्वेनान्वेति तदा
तु ज्ञेयोपि पूरणीयः । प्रथमप्रतीकेपि सूत्रविशेषणं भवितुमर्हति प्रतीकं 'अथातो ब्रह्मजिज्ञासा'इति
सूत्रमेवादौ पठन्तीति । तथा च त्रेधान्वयः प्रतीकस्य कर्मत्वेनाऽभेदेन करणत्वेन चेति सिद्धम् ।
तत्र स्वाध्याय इत्यादि । अत्रार्धं वाक्यं तैत्तिरीयब्राह्मणस्थम्, अन्यद्वाक्यद्वयं शाखान्तरीयम् ।
अध्यापयीतेत्यत्राध्यापयेदिति केचित् पठन्ति, तृतीयं च 'ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽ-
ध्येयो ज्ञेयश्च' इति पठन्ति । स्वाध्यायसंस्कारद्वारेति । 'अपहतपाप्मा स्वाध्यायो देवपवित्र-
मिति' श्रुतेरपहतपाप्मत्वमादिपदोक्तमयातयामित्वं च तद्रूपसंस्कारद्वारेत्यर्थः । अथवा स्वाध्याय एव
संस्कारस्तद्वारेत्यर्थः । अध्ययनं वेदे स्वाध्यायतासंपादनं यदर्थज्ञानहेतुरिति यावत् । विधि-
व्यापार इति शाब्दी प्रवर्त्तनेत्यर्थः । दृष्टान्तवैषम्यान्नियमविधिमाश्रित्य शङ्कां निषेधति
12

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १३

भाष्यप्रकाशः ।
इति वाच्यम् । अर्थज्ञानांशेऽस्य नियमविधित्वानङ्गीकारात् । न च यथाऽवघातनिष्पन्नैरेव तण्डुलै-
र्दर्शपूर्णमासापूर्वसिद्धिर्न पेषणादिनिष्पन्नैस्तथाऽध्ययनावगतेनैवार्थेन क्रत्वपूर्वसिद्धिर्नतु प्रकारान्तराव-
गतेनेति फलांशे नियमविधित्वं न युक्तम्, अनारभ्याधीतत्वेन श्रुत्याद्यभावेन च क्रत्वर्थताया
अशक्यवचनत्वादिति वाच्यम् । वैदिकशब्दानां विलक्षणत्वेन पूर्वोक्तरीत्या सम्यगर्थज्ञानाभावे
गृह्लादीनां द्रव्यादियज्ञासिद्धेः सर्वधर्मलोपप्रसङ्गात् । अतः पूर्वोक्तदूषणेनापूर्वविधित्वनियमविधि-
त्वयोरशक्यवचनत्वेऽपि, 'वसन्ते ब्राह्मणमुपनयीत' इत्यादिवाक्येषु द्वितीयानिर्देशेन तेषां संस्का-
र्यत्वावगमात् संस्कारस्य च कार्यान्तरयोग्यतासंपादनरूपत्वादुपनयनसंस्कृतानां त्रैवर्णिकानां
कार्यान्तरापेक्षत्वेन तत्संनिधिपठितस्वाध्ययनस्य चानिर्दिष्टकर्तृकतया कर्त्रपेक्षत्वेन परस्पराकाङ्क्षा-
संनिधियोग्यत्वैस्त्रैवर्णिकानां यज्ञरूपकार्यान्तराधिकारनियमार्थत्वस्याध्ययनविधौ सुखेन संभवात् ।
एवं चाधानाग्निहोत्रादिविधयस्त्रैवर्णिकेषु विद्वत्सु सत्सु तानेवाधिकुर्वन्ति । अन्यथा चतुर्था-
देरप्याक्षिपेरन् । सोऽयमधिकारो वक्ष्यमाणेऽपशूद्राधिकरणेऽध्ययनविधिप्रसादलभ्य इत्यध्ययन-
विधिरर्थज्ञानपर्यवसायीति ।
प्राभाकरास्तु, 'संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः' इत्याचार्यकरणे
विहितेनोपनयीतेत्यात्मनेपदेनोपनयनरूपस्य माणवकसंस्कारस्याचार्यत्वसिद्धिप्रयोजनताप्रत्ययेऽपि,

रश्मिः ।
न च यथेति । दर्शपूर्णमासापूर्वसिद्धिरिति । अवान्तरापूर्वद्वारेण दर्शपूर्णमासपरमापूर्व-
सिद्धिरित्यर्थः । श्रुत्याद्यभावेनेति । निरपेक्षो रवः श्रुतिः । आदिना लिङ्गादयः । वैदिकेत्यादि ।
स्वरादिकृतं वैलक्षण्यम् । स्फुटं प्रस्थानरत्नाकरे इदम् । द्रव्यादियज्ञासिद्धेरिति । 'द्रव्ययज्ञा-
स्तपोयज्ञाः' इति गीतोदितास्त इत्यर्थः । सर्वधर्मलोपप्रसङ्गादिति । अतोऽनारभ्याधीतत्वेपि
क्रत्वर्थतावश्यमभ्युपेयेत्यर्थः । अत इति । क्रत्वर्थत्वादित्यर्थः । सर्वधर्मलोपप्रसङ्गादित्यर्थो वा ।
एतच्च यज्ञरूपेत्यादिनान्वेति । पूर्वोक्तदूषणेनेति लिखितपाठादिनार्थज्ञानसंभवरूपेण दृष्टान्त-
वैषम्यरूपेण चेत्यर्थः । संस्कार्यत्वावगमादिति । आप्यत्वोत्पाद्यत्वयोरसंभवेन तथात्वावगमा-
दित्यर्थः । यज्ञरूपकार्यान्तरइति । स्वाध्यायब्राह्मणे 'यत्स्वाध्यायमधीयीतैकामप्यृचं यजुः साम
वा तत् ब्रह्मयज्ञः संतिष्ठते' इत्युपक्रम्य 'तस्मात्स्वाध्यायोऽध्येतव्यः' 'यं यं क्रतुमधीते तेन तेना-
स्येष्टं भवति'इति तदुत्तरश्रुतेरिति भावः । एवं चाधानाग्निहोत्रादिविधय इति । 'वसन्ते
ब्राह्मणोऽग्निमादधीत', 'यावज्जीवमग्निहोत्रं जुहोति', 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत'इत्येवमाद्या विधय
इत्यर्थः । तानेवाधिकुर्वन्तीति । उक्तविधयस्तावद्विद्यार्जनमाक्षिपन्त्यनुपपत्त्या । यदा तु स्वाध्या-
यविधिबोधिताध्ययनोपात्तविद्या द्विजन्मानो लभन्ते तदा तैरेव लब्धात्मानो न चतुर्थस्य विद्या-
माक्षिपन्ति, अनुपपत्तिक्षयात् । यद्यपि चैवं विहितोपायसिद्धज्ञानवत एव विधयोऽधिकुर्वन्ति,
तर्हि तदेव ज्ञानमकर्मकालोपात्तमप्यमिवत् क्रत्वङ्गमिति तच्छून्यस्य खाच्छन्द्येन विद्यामर्जयतः
शूद्रस्याधिकारो न सिद्धयतीति त्रैवर्णिकानेवाधिकुर्वन्तीत्यर्थः । अन्यथेति अध्ययनविध्याक्षिप्त-
त्वाभावे इत्यर्थः । चतुर्थादेरिति । अधिकारमिति शेषः । संबन्धसामान्यविवक्षया षष्ठी वा । इद-
मत्र श्रीजैमिन्यभिप्रायं निखिलं संगत्वैर्महाहुः सोऽयमित्यादि । अपशूद्राधिकरण इति । इद-

13

१४ | श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः ।
'उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते' ॥
इति स्मृतौ क्त्वाप्रत्ययेनोपनयनस्याध्यापनाङ्गताप्रतीतेस्तत् कथमध्यापनस्योपकरोतीत्यपे-
क्षायां, 'शिष्यम्' इति, 'तमध्यापयेत्' इति च द्वितीयोक्तकर्मत्वलिङ्गादुपनेयात्मसिद्धिद्वारेति निधीयते ।
उपनीतोऽपि नाकिंचित्करोऽङ्गमिति तद्व्यापारापेक्षायां वाक्यान्तर उपनयनं प्रक्रम्य विहितं
वेदाध्ययनमेवाध्यापनोपकारकत्वादुपनीतव्यापारतयाऽध्यवसीयते । तदेवं साङ्गमुपनयनं प्रयुञ्जा-
नोऽध्यापनविधित्सुद्वारेणाध्ययनं प्रयुङ्क्ते । ततश्चाध्ययनस्यापि प्रयोजने विचार्यमाणे स्वसमवेत-
त्वेनान्तरङ्गत्वार्दर्थज्ञानमेव तथात्वेन निधीयते, न त्वाचार्यत्वसिद्धिव्र्बहिरङ्गत्वत् । न च प्रथमा-
वगतत्वेनाचार्यत्वसिद्धेरेवाध्ययनप्रयोजनं, न तु पश्चादवगतमर्थज्ञानमिति वाच्यम् । तत्सिद्धिं
विनाऽप्यध्ययनानुष्ठानसंभवेन प्रथमं तदनवगमात् । न च शब्दादवगतो नियोग एव प्रयोजनम-
स्त्विति वाच्यम् । अर्थज्ञानस्यापि प्रतीयमानत्वेन त्यागायोगात् । नचैवमध्ययनस्यार्थज्ञानार्थत्वे-
ऽध्ययनविधिनेवार्थज्ञानप्राप्तिः किमिति नाद्रियत इति शङ्कथम् । अध्ययनविधेरधिकारशून्यत्वादा-
चार्यकरणविधिप्रयुक्त्याऽऽत्मलाभानङ्गीकारे विश्वजिदादिवन्नियोज्यकल्पनापत्तेः । अतोऽध्या-
पनविधिप्रयुक्तमेवाध्ययनमर्थज्ञानं च, नाध्ययनविधिप्रयुक्तमित्याहुः ।
एवं मीमांसकमतेऽप्यर्थज्ञानस्य वैधत्वात् तदाक्षिप्तविचारस्यापि वैधत्वम् ।
रामानुजाचार्यास्तु, अध्ययनविधिना स्वाध्यायाख्यस्य वेदस्याक्षरराशेर्ग्रहणं विधीयते । तत्रे-
तिकर्त्तव्यताकाङ्क्षायामध्यापनविधिना,
'श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान्' ॥
रश्मिः ।
मधिकरणं षष्ठस पठेस्ति । द्वितीयोक्तकर्मत्वलिङ्गादिति । तत्सामर्थ्यादित्यर्थः । स्वेत्यादि ।
स्वमात्मास्मन्मते मनस्तत्समवेतत्वेन स्वत्यापेक्षत्वरूपान्तरङ्गत्यादित्यर्थः । बहिरङ्गत्यादिति प्रयो-
गोपाधित्वेन तथात्वादित्यर्थः । तथाहि, संमाननेत्यायुक्तसूत्रे उत्सञ्जनज्ञानव्ययविवगणनानि नयते-
र्वाच्यानि । इतरे तु प्रयोगोपाधयः । उत्सञ्जने दण्डमुद्यम्यते उत्क्षिपतीत्यर्थः । 'ब्राह्मणमुपनयीत'
विधिनात्मसमीपं प्रापयेदित्यर्थः । उपनयनपूर्वकेणाध्यापनेनोपनेतरि ह्याचार्यत्वं क्रियत इति ।
आत्मलाभानङ्गीकार इति अधिकारिरूपलाभानङ्गीकार इत्यर्थः । विश्वजिदादिवदिति ।
एतच्चतुर्थस्य तृतीयपादे 'चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत नह्यशब्दं प्रतीयते' इत्यधि-
करणे 'विश्वजिता यजेत' इत्यत्र फलाश्रवणेपि अध्याहृतफलान्वयमङ्गीकृत्य तत्किमित्यपेक्षायां 'सः स्वर्गः
स्यात् सर्वान् प्रत्यविशेषात्'इत्यधिकरणे स्वर्गः फलमिति चिन्तितं, तेन स्वर्गकामो नियोज्य इति सिद्धं,
तद्वदित्यर्थः । अत इति । प्रयोगोपाधिनाप्याचार्यत्वकामात्मलाभेन लाघवादित्यर्थः । तदाक्षिप्तेति ।
अविचारिताश्च शब्दा नार्थं प्रत्याययन्तीति भाष्यात् । 'येन विना यदनुपपन्नं तद् तेनाक्षिप्यते'
इति । प्रौष्ठपद्यामिति भाद्रपद्याम् । उपाकृत्येति उपकारं कृत्येत्यर्थः । उपाकर्म कृत्वेति वार्धः ।
अर्धपञ्चमानिति । अर्धपञ्चमः पौषो माघो वा येषु भाद्रपदाश्विनकार्तिकमार्गशीर्षेषु आश्विन-
14

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५

भाष्यप्रकाशः ।

इत्यादिभिरपेक्षितानि विधीयन्ते । तेनाचार्योच्चारणानूच्चारणरूपमध्ययनमक्षरराशिग्रहण-
फलमित्यवगम्यते । तच्च चतुर्वर्गफलस्य विधिवाक्ये कर्मत्वेन बोधितस्य स्वाध्यायस्य कार्यान्तर-
योग्यतासंपादनरूपः संस्कारः । तेनाध्ययनविधिरक्षरग्रहणमात्रपर्यवसायी । अध्ययनगृहीतं च
स्वभाषादेवार्थबोधकमिति स्वाध्यायस्यापि तथात्वात् तत्रापाततोऽवगम्यमानानामर्थानां स्वरूप-
प्रकारविशेषनिर्णयाय वेदवाक्यविचाररूपमीमांसाद्वयश्रवणेऽधीतवेदः पुरुषः स्वत एव प्रवर्तते ।
तत्र कर्मस्वरूपनिरूपणे तेषामल्पास्थिरफलत्वं दृष्ट्वाऽध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु
चाऽमृतस्वरूपानन्तस्थिरफलापातप्रतीतेस्तन्निर्णयफलकवेदान्तविचाररूपशारीरकमीमांसायामधिकरो-
तीत्याहुः ।
शैवास्तु, अध्ययनविधेरक्षरग्रहणमात्रपरत्वमङ्गीकृत्याध्ययनेनाऽऽपाततोऽर्थप्रतीतेस्तदनु ब्रह्म-
स्थुलोपासनभूतज्योतिष्टोमादिविधायकानां सूक्ष्मोपासनभूतदहरादिविद्याविधायकानां चेतरेतर-
विरोधाभासं पश्यंस्तद्विचारे पुरुषार्थाकाङ्क्षी पुरुषः स्वयमेव प्रवर्ततेऽतो नानिबन्धनो विचार
इत्याह ।
भट्टभास्कराचार्यास्तु स्वाध्यायविधेरर्थावबोधपर्यवसितत्वेऽपि ब्रह्मज्ञानं तेनाक्षेप्तुं न शक्यम् ।
'यज्ञेन दानेन' इति, 'शान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वा आत्मन्येवात्मानं पश्येत्' इति
श्रुत्या ब्रह्मज्ञानस्योपायान्तरसापेक्षत्वात् । कर्मावबोधनसमर्थेषु पुरुषेष्वध्ययनविधेः कृतार्थत्वेनो-
पायान्तराक्षेपाक्षमत्वात् । 'श्रवणायापि बहुभिर्यो न लभ्यः' इत्यादिश्रुतेर्ब्रह्मणो दुर्ज्ञेयत्वाच्च । अतो
ब्रह्मजिज्ञासा न तत्कारिता किंतु, 'श्रोतव्यो मन्तव्यः', 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः',
'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्' इत्यादिवेदान्तविधिकारिता वास्त्वित्याहुः ।
तत्राध्ययनविधेरर्थज्ञानार्थत्वकल्पनमसंगतम् । 'यं यं क्रतुमधीते तेन तेनासेष्टं
भवति' इतिवाक्येनाक्षरग्रहणमात्रेऽपि फलबोधने तदतिहाय फलान्तरकल्पनायायुक्तत्वात् ।

रश्मिः ।

कार्त्तिकमार्गशीर्षपौषेषु वा तादृशान् मासानित्यर्थः । चतुर्वर्गे त्वत्र बहुव्रीहिः । विधीति । 'स्वाध्यायोऽ-
ध्येतव्यः' इति वाक्ये । गृहीतं चेति शास्त्रमित्यर्थः । इत्याहुरिति । तेनात्राक्षरग्रहणमधिक-
मिति पूर्वस्माद्विशेषः । विरोधेत्यादि । 'आभासत्वे विरोधस्य विरोधाभास इष्यते' इत्यलंकारं
लक्षयित्वा 'विनापि तन्वि हारेण वक्षोजौ तव हारिणौ' मनोहारिणौ इत्युदाहरणम् । 'घटाद्विना
घटीयो धनेशः संराजतेऽधुने'ति चोदाहरणम्, तत्र श्लेषेपादाभासः । एवं चैकशाखाद्विरोधः । साधन-
योरेकत्र सहानवस्थानलक्षणः आभासो विरोधस्तैवं कर्माणि ज्ञानप्रयोजकतया मोक्षे समुच्चीयन्त इति
वक्ष्यन्ति । भगवांश्चैवाचार्य इति गुणकर्मत्वादङ्गत्वं ज्योतिष्टोमादीनामिति । इत्याहेति । तेनैतन्मते
विचारसार्थक्यमात्रम्, न तु तस्य वैधत्वावैधत्वविवेचनमिति । ग्रामं गच्छतीत्यादौ ग्रामसंयोगोऽवान्त-
रसंयोगान् गृह्णातीति तदनुसारेणाध्ययनस्याक्षरग्रहणमात्रं फलमित्याशयेनाहुः लभेति । दूरान्वयदीपोपि
मीमांसकमते यः सोपि न । अक्षरग्रहणमात्र इति । दृश्यमाने इह इत्यर्थः । इदानीं 'लभ्यमाने
फले दृष्ठे नादृष्टफलकल्पना । विधेस्तु नियमार्थत्वान्नार्थक्यं भविष्यति' इति वाक्यात् । स्वर्गब्रह्मज्ञानादि
तु साधनान्तरंयागविज्ञानादिभिरिष्टत्वेनोक्तं भवति ।

15

१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः।
वाक्यबलेनाऽदृष्टद्वारकत्वस्याप्यदुष्टत्वात् । तेन तेन क्रत्वध्ययनेनासाध्येतुरिष्टं मनोवाञ्छितं
भवतीति दृष्टफलार्थत्वस्यापि शक्यवचनत्वाच्च । नच प्रत्यक्षविरोधः । इदानीन्तनाध्ययनस्य व्यङ्ग-
त्वेनादोषात् । नच व्यङ्गत्वे मानाभावः । स्वाध्यायपदस्य वेदे योगरूढ्या सुष्ठुससमन्तादध्यायो
यस्येति योगस्यापि ग्राह्यत्वे देशकालगुरुशिष्यनिष्ठानां शोभनगुणानां पाठार्थानुष्ठानेषु शङ्का-
राहित्यरूपस्य समन्तत्वस्य च ग्रहणेन स्वाध्याय इति समाख्यया एव तत्र मानत्वात् । नचैवं
सत्यर्थज्ञानस्यापि प्राप्तेः कथं तदर्थत्वकल्पनस्यासंगतिरिति शङ्क्यम् । तैस्तस्य माणवकाधिकार-
रश्मिः।
ननु तत्राधीत इत्यध्ययनस्य स्वर्गब्रह्मज्ञानपर्यन्तमस्मानादिष्टपदोक्तसाध्यसाधनभावव्याहति-
रित्याशङ्काहुः वाक्यबलेनेत्यादि वाक्यं यं यं क्रतुमिति । अभ्युपगम्याहुः तेन तेनेति दृष्ट-
फलार्थत्वेन । दृष्टफलार्थत्वस्येष्टार्थत्वसेनेति यावत् । इति योगस्यापीति । पूर्वकाण्डविषयत्वेन रूढे
शब्दे । देशकालेत्यादि । यज्ञाद्यनुष्ठापका देशादयः । पूर्वतन्त्रे एकादशस्य द्वितीये पादे 'एकदेशकाल-
कर्तृत्वं' इत्यधिकरणे समे दर्शपूर्णमासाभ्यां यजेत पौर्णमास्यां पौर्णमास्या यजतीति समत्वपौर्णमासीत्वे
देशकालयोर्गुणौ चिन्तितौ । गुरुशिष्ययोस्त्वत्रैव स्पष्टा इति । समाख्याया इति । यौगिकस्य
शब्दस्येत्यर्थः । तन्मतमनुसृत्य दूषयन्ति तैस्तस्येति । मीमांसकैरित्यर्थः ।
सिद्धान्तस्तु प्राथमिकमध्ययनमध्यापनविधिप्रयुक्तम्, माणवकोपनयनस्याध्यापनाङ्गत्ववद-
ध्ययनाङ्गत्वेपि तस्य बालत्वेन स्वतोऽध्ययने प्रवर्तनादर्शनात्, किंच 'द्वितीयं प्राप्यानुपूर्व्या जन्मोपनयनं
द्विजः' इत्युपनीतमुपक्रम्य 'आचार्य मां विजानीयात्' इति तस्याचार्ये भगवद्बुद्धिकरणं विहितम् ।
तथा 'गच्छेदाचार्यसंसदि' इति स्मृत्यन्तरे चाचार्यसंसद्गमनं च विहितम् । तदुभयमपि क्रीडना-
सक्तस्य बालस्य न संभवति । तस्माच्छुतिचोदितोऽध्ययनज्ञानयोर्विधिर्न माणवकमधिकरोति । अपि
च । त्रैवर्णिकाः कर्तव्यमपेक्षमाणा अध्ययनं च कर्तारमपेक्षमाणमुभये सापेक्षा अन्योन्यं भवन्ति ।
तत्र विद्वत्तायोग्यतद्वयोग्र्यौ कर्तारावपेक्षेतेऽध्ययनम् । नाद्यः । फलोपधायकभोग्यमपेक्षमाणं न
माणवकमपेक्षेत, नेतरः तादृशफलानिष्पत्तेः । न चैवं त्रैवर्णिकाधिकारनियमभङ्ग इति वाच्यम् ।
अष्टवर्षवाक्ये उपनयनाध्यापनयोः संनिधानादध्ययनं विना चाध्यापनासिद्धेस्तदाक्षिप्तनैवाध्यय-
नेनोक्ताधिकारनियमसिद्धेः । न च स्वाध्यायवाक्यवैयर्थ्यमिति शङ्क्यम्, वेदस्य स्वाध्यायत्व-
बोधनेन तस्य कृतार्थत्वात् । एतेनाध्ययनविध्यभावे माणवकस्याध्ययनार्था प्रवृत्तिर्न स्यादिति प्रत्यु-
क्तम् । स्वस्याचार्यत्वसिषाधयिषुर्णैव तेऽध्यापनीया इति । न च किमनेन निर्बन्धेन अध्ययन-
विधिरेव माणवकं प्रवर्तयत्विति शङ्क्यम्, विधिव्यापारकौण्ठ्यप्रसङ्गात् । यत्तूपनीतव्यापारापेक्षायामु-
पनयनमुपक्रम्य विहितमध्ययनमध्यापनोपकारकत्वेन तदङ्गं नार्थज्ञानाङ्गं साध्यद्वयस्यैकत्रासंभवा-
दित्युक्तं तदपि न । एकस्यापि वाहनकरणकयानस्य सुखोद्देशदेशप्राप्त्योरङ्गत्वात् । तदप्यध्या-
पनाक्षिप्तमध्ययनं लौकिकमेवोरीकार्यम्, तावताऽध्यापनसंभवात्; विहितस्यापि तत एवाङ्गी-
कारे तुरेशाभावात् ततो नापूर्वं सिध्येदित्युक्तम्, तदपि तथा । लौकिकेन तेनाचार्यत्वासिद्धेः ।
वेदाध्ययनेनैव तत्स्मरणात् । न चापूर्वासिद्धिरिति वाच्यम्, आचार्यकृतोद्देशेनापि तत्सिद्धेः ।
पूर्वतन्त्रीयचतुर्थतृतीयांश 'फलसंयोगस्त्वचोदिते न स्याच्छेषभूतत्वात्' इत्यधिकरणचिन्तितजातेष्टौ पितु-
कृतोद्देशवदिति दिक् ।
16

त्वेनाङ्गीकारात् । वेदस्य गुरुमुखाद् ग्रहणदशायां तं प्रति स्वाध्यायत्वस्य भावित्वेन तदानी-
मभावात् । 'वेदमन्‌च्याऽऽचार्योऽन्तेवासिनमनुशास्ति, सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रमद',
इति तैत्तिरीयाणां शिक्षोपनिषच्छ्रुत्या तथानिश्चयात् । आधानाग्निहोत्रादिविधीनामपि तत्र
तदाक्षेपकत्वस्याध्ययनविधिप्रसादलभ्यत्वोपगमेन प्रसादस्य च माणवके सामर्थ्याभावादभावेन
तेषामप्याक्षेपकतायां कौण्ठ्यात् । आश्रिते चैकवाक्यत्वे, ज्ञेयश्चेति विध्यन्तरस्यापि संप्राह्यत्वात्
तद्बलादेवार्थज्ञानमङ्गीकार्यम् । अन्यथा तद्वैयर्थ्यादिति । अत एव प्राथमिकाध्ययनस्यापि
तदर्थत्वमसङ्गतम् । किंत्वध्यापनप्रयुक्तत्वं यदुक्तं तन्मात्रं युक्तम् । ज्ञातृनियोज्यस्याचार्यत्व-
कामिनस्तत्रैव विधौ सत्त्वेन लिङ्‌प्रयोगेण च तत्र विधित्वस्यासंदिग्धत्वात् । कृत्यानां त्वाव-
श्यकार्थेऽप्यनुशासनात् । वयसा जातस्नातकियाणां त्रैवर्णिकानामध्ययनस्यावश्यकत्वबोधनेन
वाक्यसार्थक्यसिद्धेः । एवं च यद्यप्यध्यापनविधावध्यापनमात्रं श्रुतं, तथापि, 'साङ्गो वेदोऽध्येयो
ज्ञेयश्च' इतिभावनावद् गुरुणाङ्गापाठनेऽर्थाज्ञापने च तदसिद्ध्या वैयर्थ्ये वाक्यस्य प्रसक्ते तद्वारणार्य
तथाध्यापनमङ्गीकरणीयम् । आचार्यलक्षणस्मृतौ वेदस्य 'सकल्पं सरहस्यं च' इति विशेषणाच्च ।
रश्मिः ।
प्रकृतमनुसरामः । दूषणमाहुः वेदस्येत्यादि । अभावादिति । तथा च माणवकं
प्रति स्वाध्यायसमाख्यासामर्थ्यविरहेणार्थज्ञानस्याप्यनुपलभ्भेन तदर्थत्वकल्पनमिति भावः । ननु
स्वस्वसाधारण्याेन पितृपितामहादिपरंपराप्राप्ता शाखा स्वाध्याय इति योगस्य सायणीयेऽङ्गीकारात्,
पूर्वोक्तं न साधीय इति शङ्कामपनुदन्तो वेदे स्वाध्यायत्वस्य भावित्वं श्रौतमित्याहुः वेदमन्-
च्येत्यादि । तथानिश्चयादिति वेदे स्वाध्यायत्वस्य भावित्वनिश्चयादित्यर्थः । अन्यथा
स्वाध्यायमन्‌च्येत्येव वदेदिति भावः । तदाक्षेपकत्वस्येति विद्वच्चैवर्णिकाक्षेपकत्वस्येत्यर्थः । आक्षे-
पकतायामिति अर्थज्ञानाक्षेपकतायामित्यर्थः । अतः परमवशिष्टमर्थज्ञानांशे नियमविधित्वम्, तदपि
प्राभाकरमतदूषणेन दूषितं भविष्यतीत्याशयेनाहुः आश्रिते चेति । इतीति । अयमत्र प्रकर्षं
श्रूते । तथा च विधिवैयर्थ्यं प्रकृष्टो हेतुरित्यर्थः । प्रत्यक्षश्रुतिलभ्यत्वसंभवे चोदकप्राप्तस्रवस्वीकार-
स्यानुचितत्वादित्यपरः । एतच्च पूर्वतन्त्रे द्वादशस्य चतुर्थे पादे 'विप्रतिषेधे परम्' इत्यधिकरणे चिन्ति-
तम् । यत्रात्विज्ययाजमानयोः कर्मणोर्युगपदालम्भास्तत्र ये यजमानास्ते ऋत्विज इति विहित-
मार्त्विज्यं चोदकप्राप्तयाजमानाद् बलीय इति । विधाविति उपनयीतेति विधावित्यर्थः । पूर्व-
तन्त्रे अपूर्वत्वोपपादनाक्षादध्ययनविधिप्रयोजनमाहुः कृत्यानामित्यादि । अनुशासनादिति ।
'आवश्यकाधमर्णयोर्णिनि'रित्येतदनन्तरं 'कृत्याश्च'इत्यनुशासनादित्यर्थः । वाक्यसार्थक्यसिद्धेरिति ।
तेन नात्र नित्यानुवादगन्धोपीत्याशयः विधिपक्षेप्युपादेय इति वक्ष्यन्ति । न चैवमनधीयाना ब्रात्या
भवन्तीति वाक्यवैयर्थ्यम् । 'तयोरेव कृत्यक्तखलर्थाः' 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च'इत्यादिसूत्रैराने-
कार्थेषु प्राप्तस्य तव्यस्यावश्यकार्थत्वावेदकत्वात् । वाक्यत्रयैकवाक्यतया यत्सिद्धं तदाहुः एवं
चेत्यादि । विशेषणाच्चेति । अनेनाध्यापनविधौ नियोज्याभावादध्यापनसमभिव्याहृतेनोपनयी-
तेत्यात्मनेपदेनाचार्यकरणलाभे तत्कामिना नियोज्याकाङ्क्षा पूरणीया । तथा सत्यध्यापनसाचार्यत्व-
सिद्धिः प्रयोजनं नत्वर्थज्ञापन्नमपि, ततश्च सिद्धे आचार्यत्वे तस्यार्थज्ञापनानावश्यकत्वान्माणव-
१ तै० आ० १०।२०

१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० १ पा ० १ अ ० १ सू ० १
भाष्यप्रकाशः ।
एवं साङ्गेऽधीते ज्ञाते च तस्य स्वाध्यायः सिध्यति । तदोक्तं फलमपि संपद्यत इति वाक्यत्रयैक-
वाक्यतयावसीयते तस्मात् प्राथमिकमध्ययनमध्यापनप्रयुक्तम्, अर्थज्ञानं च प्रत्यक्षश्रुतिलभ्य-
'मिति भाट्टप्राभाकरयोः पूर्वोक्तकल्पना असंगतैव । कृत्यप्रत्यययोर्विध्यर्थकत्वपक्षेप्युक्त एव
प्रकारो युक्तः । अन्यथा विधिकौण्ठ्यप्रसङ्गात् । एवं च रामानुजाचार्यैरध्ययनविधेरक्षरग्रहणपर्य-
वसायित्वं, स्वाध्यायस्य च स्वभावार्थबोधकत्वं यदुक्तं तदप्युक्तदिशैव युक्तम् । नत्वन्यथापि ।
एवमेव भास्कराचार्योक्ते स्वाध्यायविधेरर्थावबोधपर्यवसितत्वेपि बोध्यम् । शैवस्तु विचारसार्थक्य-
मात्रमाह, न तु शास्त्रप्रयोजकं कंचन विधिमपीति तन्मते वैधत्वमेवायाति । तेन तत्तूदासीनप्रा-
य

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९
शब्दाश्च बोधकाः ।
निःसंदिग्धं तदर्थाश्च लोकवद् व्याकृतेः स्फुटाः ॥
भाष्यप्रकाशः ।
स्वविषयमात्रावगतिसाधनं शास्त्रश्रवणत्वाद् वैद्यकशास्त्रश्रवणवदित्यनुमानेनापि प्राप्ततयाऽपूर्वत्वा-
भावात् । न द्वितीयः । अवघातवद् दृष्टफलोपायान्तरस्याप्राप्तत्वात् । नेतरः । तथा सति
श्रोतव्या एव वेदान्ता नाध्येया इति स्यात् । ततश्च विचारस्याप्ययोगात् पुरुषार्थासंभवः ।
एवं च वेदाध्ययनादिरपि निवर्तेतेति महानेवानर्थः स्यादिति विकल्पितवान् । ततुच्छम् ।
हेतोः साधारणत्वेनानुमानतोऽप्राप्तावपूर्वविधित्वस्य स्थिरत्वात् । कथं साधारणतेति चेद् वेदान्त-
श्रवणं न स्वविषयावगतिसाधनं शास्त्रश्रवणत्वात् सूत्रश्रवणवदित्येवमवच्छेदे । किंच, श्रवणपदं
शब्दग्रहणमात्रपरं वा, वाक्यार्थज्ञानपरं वा । आद्ये विधिवैयर्थ्यापत्तिः । स्वाध्यायविधिनेव
चारितार्थ्यात् । न चाध्ययननियमाभावाय पुनर्विधानमिति वाच्यम् । आचारविरोधात् ।
त्रैवर्णिकाधिकारस्यापि त्यागापत्तेश्च । द्वितीये तु निराबाधं विधित्वम् । अन्यथा वाक्यवैय-
र्थ्यापत्तेरिति ।
अतः पूर्वकाण्डविधेरर्थज्ञानमात्रार्थत्वेनोत्तरकाण्डीयस्यापि ब्राह्मणश्रमणन्यायेन विशे-
षार्थतया विचारस्यावैधत्वाच्चारम्भणीयः । ननु संदेहाभावायाध्ययनादिविधौ विचार आक्षेप्य
इत्यत आह शब्दाश्चेत्यादि ।
रश्मिः ।
वृत्तिपरो विधिः सा, पञ्च पञ्चनखा भक्ष्या इति । यथा । भक्षणस्य रागप्राप्तत्वात् पक्षेप्राप्तत्वाभावाच्च
नापूर्वनियमोऽन्यपञ्चनखभक्षणनिवृत्तिपरत्वात् पञ्चनखापञ्चनखभक्षणस्य युगपत् प्राप्तत्वात् परि-
संख्या । अत्र श्रुतस्य पञ्चनखभक्षणस्य हानाच्छ्रुतहानिः । अपञ्चनखभक्षणनिवृत्तिकल्पनादश्रुत-
कल्पना । अपञ्चनखभक्षणस्य बाधनात् प्राप्तबाध इति दोषत्रयवती । ततश्चेति अध्ययनाभावा-
देत्यर्थः । उभयस्य युगपत्प्राप्तावितरव्यावृत्तेरित्यर्थः । एवं चेति । पूर्वोक्तपरामर्शेनाध्यापनवि-
धावपि परिसंख्यापत्येत्यर्थः । श्रवणपदमिति । इदं तव्यन्तप्रकृतिरूपं ज्ञेयम् । विधिवैयर्थ्या-
पत्तिरिति श्रोतव्य इति विधिवैयर्थ्यापत्तिरित्यर्थः । चारितार्थ्यादिति शब्दग्रहणस्यैवाध्ययन-
पदार्थत्वेन तथात्वादित्यर्थः । न चेत्यादि । श्रोतव्य इति पुनर्विधानं श्रवणेऽध्ययनानन्तर्यनियमा-
भावायेत्यर्थः । तत्रैवाचारमाशङ्कय हेत्वन्तरमाहुः त्रैवर्णिकेत्यादि । अध्ययने त्रैवर्णिकाधिकारात् तस्य
चाभावाच्छ्रवणविधिः सर्वानप्यधिकुर्यादित्यर्थः । निराबाधमिति । वाक्यार्थज्ञानस्याध्ययनविधि-
नानुपलब्धेर्निराबाधं श्रोतव्य इत्यस्य विधित्वमित्यर्थः । द्वितीयार्थादरे युक्तिमप्याहुः अन्यथेति ।
ब्राह्मणश्रमणन्यायेनेति । ब्राह्मणाश्चेत् श्रमणास्तेन न्यायेनेत्यर्थः । यथा ब्राह्मणः सन् श्रमणो
भवति, पश्चाद्भूतपूर्वगत्या श्रमण इत्युच्यते तथा । विशेषार्थेति । वेदान्तार्थज्ञानपरतयेत्यर्थः । एता-
वता 'साङ्गोऽध्येयोऽथ ज्ञेयः' इति भाष्यं हेतुद्वयसमर्पकं विवृतम् । शब्दाश्चेति । शब्दाश्च
निःसंदिग्धं बोधकाः लोकवत् व्याकृतेर्व्याकरणात्तदर्थाश्च स्फुटा इत्यर्थः । व्याकरणत्वं च
महा

२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
अर्थज्ञानार्थं विचार आरम्भणीयः । तस्य च ब्रह्मरूपत्वात् तज्ज्ञाने पुरुषार्थो
भवतीति न मन्तव्यम् । विचारं विनापि वेदादेव साक्षादर्थप्रतीतेः ।
भाष्यप्रकाशः।
विशेषबोधनाय श्लोकं विभजते अर्थज्ञानेत्यादि । सर्वोऽपि प्रयोजनमुद्दिश्य कार्यमारभते ।
तत्रास्य विचारस्य प्रयोजनं वेदार्थज्ञानं वाऽन्यद् वा । तत्रान्यस्यादर्शनाद्, 'वेदान्तविज्ञानसुनि-
श्चितार्थाः' इतिवाक्यबोधितमाद्यमेवादर्तव्यम् । तत्रापि तस्य स्वतोऽपुरुषार्थत्वात् प्रयोजनान्तर-
मेष्टव्यम् । तच्च प्रयोजनमनन्तविधमप्यैहिकामुष्मिकपुरुषार्थेष्वन्तर्भूतत्वात् पुरुषार्थरूपम् । तच्च
वेदार्थज्ञानेन भवतीति तदर्थं विचार आरम्भणीयो, न तु स्वतःपुरुषार्थत्वात् । वेदार्थश्च,
'सर्वे वेदा यत्पदमामनन्ति' इति, 'वेदैश्च सर्वैरहमेव वेद्यः,'
'वेदास्त्रिकाण्डविषया ब्रह्मात्मविषया इमे, परोक्षवादा ऋषयः परोक्षं च मम प्रियम्'
इत्यादिश्रुतिस्मृतिभिर्ब्रह्मरूपः । नच 'वेदोऽखिलो धर्ममूलम्'इत्यादिस्मृतिभिर्धर्मरूप इति
वाच्यम् । 'यज्ञो वै विष्णुः' इति, 'धर्मो यस्यां मदात्मकः' इति श्रुतिस्मृतिभ्यां धर्मस्यापि
ब्रह्मरूपत्वबोधनात् तद्रूपेणैवार्थत्वात् । ब्रह्मणस्तु ज्ञानादेव पुरुषार्थसिद्धिः । 'ब्रह्मविदामोति परम्'
'आनन्दं ब्रह्म'इत्युपक्रम्य, 'य एवं वेद प्रतितिष्ठति, अन्नवानन्नादो भवति महान् भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या' । दहरविद्यायां दहरपुण्डरीकवेश्मस्थितस्याकाशस्यैतदमृतमभय-
मेतद् ब्रह्मेत्यनेन ब्रह्मत्वमुक्त्वा, एवंवित् स्वर्गं लोकमितीत्येवंविधेषु वाक्येष्वैहिकामुष्मिकपुरुषा-
र्थस्य ज्ञानमात्रेणैव श्रावणात् तावतापि पुरुषार्थसिद्धेर्ब्रह्म न मन्तव्यं न विचार्यमित्यर्थः ।
रश्मिः ।
भेदकथनात् । महाभाष्येपि 'व्यत्ययो बहुलम्' इति योगविभागेन 'सर्वे विधयश्छन्दसि विकल्प्यन्ते'
इति परिभाषासाधितोक्तवेदेषु कल्पनादिविधिमलक्ष्यलक्षणसमुदायसत्त्वे शब्दाद्वेदे आयान्त्येव । तथा
वेदेषु योगरूढिः, वेदान्ते तु योगः । तदुक्तं पत्रावलम्बने
'लौकिको वैदिकश्चैव व्यवहारो द्विधा मतः ।
लोकसिद्धं पुरस्कृत्य वैदिको बोध्यते यथा ॥
लोके शब्दार्थसंबन्धो रूपं तेषां च यादृशम् ।
न विवादस्तत्र कार्यो लोकोच्छित्तिस्तथा भवेत् ॥
ब्रह्मवादे निरुक्तिस्तु न वक्तव्यैव कुत्रचित् ।
वस्तुतो ब्रह्म सर्वं हि व्यवहारस्तु लोकतः ॥
ये धातुशब्दा यत्रार्थ उपदेशे प्रकीर्तिताः ।
तयैवार्थो वेदराशेः कर्तव्यो नान्यथा क्वचित् ॥
इति योगकथनात् । पूर्वमीमांसाकारिकासु तु लौकिकवैदिकव्यवहारकथनावसरे 'जलाग्न्योरिव संरक्षा
तयोः कार्या मनीषिभिः' इत्युक्तम् । 'विचारो योगरूढितः' इत्यपि तत्र । श्लोकमिति स्वेन कारि-
कयोक्तमित्यर्थः । प्रयोजनमिति फलमित्यर्थः । तस्य इति वेदार्थज्ञानस्येत्यर्थः । तस्य चेत्या-
दिभाष्यं विवृण्वन्ति वेदार्थश्चेत्यादि । मीमांसाकशङ्कामनूद्य निषेधन्ति न चेत्यादि । तज्ज्ञान
इत्यादि भाष्यं विवृण्वन्ति ब्रह्मणस्त्विति । वाक्यान्तरेण प्राप्तं ब्रह्मविचारं प्रत्याख्याति
20

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २१
नचार्थज्ञानमविहितम्, अविचारिताश्च शब्दा नार्थं प्रत्याययन्तीति वाच्यम्,
ज्ञेयश्चेति विधानात् ।
'गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः'
इति बाधोपलब्धेश्च । शब्दश्चाक्षुरादिवन्न संदिग्धार्थप्रतिपादकः । तदर्थश्च
भाष्यप्रकाशः ।
न च श्रोतव्य इति विधिना श्रवणं विधाय तदर्थमननाय मन्तव्य इति विध्यन्तरदर्शनादवबो-
धसामान्यस्य तदर्थत्वेनाशक्यवचनत्वाद् युक्तिभिरनुचिन्तनमेव मननपदार्थो वक्तव्य इति विचा-
रोऽपि प्राप्त एवेति वाच्यम् । तस्य शारीरपरत्वात् । प्रियत्वलिङ्गेन तथा निश्चयात् । नच वाक्यार्थः
शारीरः परमात्मा वेति संदेहे लिङ्गादिनिमित्तनिश्चितावबोधार्थमेव विचार आक्षेप्य इति वाच्यम् ।
वेदे सा

२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
व्याकरणादिना निर्णीयते । यथा लौकिकवाक्ये तथा वेदेऽपि । न च तद्विरुद्धं
निर्णेतव्यम्, । अप्रामाणिकत्वप्रसङ्गात् । तस्माद् वेदार्थज्ञानार्थं विचारो
नारम्भणीयः ।
स्यादेतत्
भाष्यप्रकाशः ।
अतोऽनेकार्थत्वादिसंकटेऽपि व्याकरणोक्तस्वरादिना सुखेन तन्निरासात् । किंच । लोके प्रत्यक्षादि-
संक्रमान्न तथा व्याकरणापेक्षेति तद्विरुद्धमपि क्वचिन्निर्णीयते । अत एव लौकिकशब्दार्थनिर्णाय-
कत्वेऽपि न तत्र तेषामङ्गत्वप्रसिद्धिः । वेदे तु तेषामङ्गत्वस्य शास्त्रप्रसिद्धत्वात् प्रमेयस्य चात्यन्ता-
लौकिकत्वेन विचारवादिनोऽपि तेषामाश्रयणीयत्वात् तद्धेतुन्यायेन तैरेवार्थज्ञानसिद्धेः कृतमजाग-
लस्तनप्रायेण विचारेणेति । तदिदमुक्तं नचेत्यादिना ।
अत्रैकदेशी स्वमतेन विचारकर्तव्यतामुपपादयति स्यादेतदिति वक्ष्यमाणप्रकारेण विचार-
रश्मिः ।
विवृण्वन्ति अत इति । व्याकरणेत्यादि । तथा च शिक्षायाम् ।
'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्' ॥ इति ।
यथा दत्त इत्युक्ते, प्रत्ययार्थसहितं दानं संज्ञाश्चेति । संकटे आद्युदात्तत्वात्संज्ञाशब्दोऽयमिति
तथा च सूत्रम् 'निष्ठा च द्व्यजनात्' इति । अथवा 'इन्द्रशत्रो' इत्यत्र स्वरेण समासनिर्णय
आद्युदात्तत्वाद् बहुव्रीहिरिति, आदिना पदान्तरसमभिव्याहारादि पदान्तरसमभिव्याहार आदिर्येषां साम-
र्थ्यादीनां, पदान्तरसमभिव्याहारस्यादयः पदान्तरसमभिव्याहारादयः संयोगादयः, ते च ते तेषां
समाहारः पदान्तरसमभिव्याहारादि, तेन 'सशङ्खचक्रो हरिः' इत्यत्र हरिशब्दो विष्णुवचन इति । न
चेत्यादिभाष्यतात्पर्यमाहुः किंचेति । क्वचिदिति घटपटकालीनादिप्रयोगेषु इत्यर्थः । व्याकरणे
तु घट चेष्टाभासचलनपरिमाणेषु, पट गतिभासप्रभृतिषु, कालाट्ठन् इति । तेषामिति । छन्दःकल्प-
शिक्षानिरुक्तज्योतिषव्याकरणानामित्यर्थः । तद्धेतुन्यायेनेति । 'हेतुहेतुमतो हेतौ तद्धेतोरेव हेतुता'
इत्यर्थः । तदिदमिति । किंचेत्यारभ्य विवृतमित्यर्थः । अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रति-
पत्तये सर्वे वेदान्ता आरभ्यन्त इति वदन्तो विप्लववादिनो निरसितुमिदमित्याहुः । यद्वा । केवल-
वैदिककृतपूर्वपक्षे षडङ्गैर्निर्वाहः, परंतु 'स्वाध्यायोऽध्येतव्यः' इति श्रुतिविरोधः, वक्ष्यमाणमा-
ध्याह्निकमध्ययनाभावात् । इति केवलवैदिकं प्रति वैदिकश्चेत् मीमांसकः, स एकदेशी तस्याक्षेपस्त-
माहुः अत्रैकदेशीति । ब्रह्मपुच्छश्रद्धालुत्वाध्यासी पूर्वमीमांसको वैदिकैकदेशीति हार्दः ।
22

, परं त्वात्मत्वेन ब्रह्मज्ञानाय

Header 3:
रश्मिः ।

Rashmi:
न वेदार्थेत्यादीति । अत्र न वेदार्थज्ञानमात्राय विचार इति भाष्ये । अयं षडङ्गमात्रेण
वेदार्थकर्ता वैदिकः । अस्य भेदः मीमांसकपूर्वकषडङ्गैरर्थकर्ता वैदिकः । उक्ताह्वयो विधयो वेदे
यद्यपि, तथापि 'स्मृतेश्च' इति सूत्रभाष्ये वेदान्तानामपि वेदत्वोक्तेः वेदान्तेपि समानाः । अत एव
वेदान्तमीमांसाया वेदविधिविचारः । अत एव वेदान्ती यस्य मन्तव्य इति विधेस्त्यागः द्रष्टव्य इति
प्रथमविधेः दर्शनानन्तरं प्रवर्तते । किंतु ब्रह्मज्ञानायेति भाष्ये वेदान्ते ब्रह्मोक्तं तस्य ज्ञानाय तत्र
ब्रह्मणि प्रकारद्वयम् । श्रुत्युदासीनात्मत्वं वेदार्थभूतात्मत्वं चेति भाष्यार्थो भविष्यति ।
तत्पदस्य पूर्वपरामर्शकत्वेन ब्रह्मज्ञानस्येत्यर्थेन भाव्यमित्याकाङ्क्षायां दृष्टान्तमाहुः पटोलपत्रमिति ।
वेदार्थमात्रत्वेनेति । पूर्वमीमांसका अङ्गीकुर्वन्ति वेदार्थमात्रत्वश्रुत्युदासीनात्मत्ववेदार्थभूतात्म-