आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
२८० आपस्तम्बधर्मसूत्रे [ (प.९.) क. २४ पुनरपि गार्हस्थ्यमेव प्रकारान्तरेण स्तौति— अथाप्यस्य प्रजातिममृतमाम्नाय आह--प्रजामनु प्रजायसे तदु ते मर्त्याऽमृतमिति ॥ १ ॥ अथाऽपि अपि च अस्य गृहस्थस्य प्रजापतिं प्रजासन्तानम् अमृतम् अम- रमणम् आम्नायो वेद आह हे मर्त्य मरणधर्मन् ! प्रजां जायमानामनु त्व प्रजायसे त्वमेव प्रजारूपेण जायसे । तदेव ते मरणधर्मिणः अमृतममरणमिति । न त्व म्रियसे, यतस्त्वं प्रजारूपेण तिष्ठसीति ॥ १ ॥ उपपन्नं चैतदित्याह— अथाऽपि स एवाऽयं विरूढः पृथक्प्रत्यक्षेणोपल- भ्यते दृश्यते चाऽपि सारूप्यं देहत्वमे- वाऽन्यत् ॥ २ ॥ अपि च स एवाऽय पृथग्विरूढः प्रत्यक्षेणोपलभ्यते । स एव द्विधाभूत इव लक्ष्यते । दृश्यते हि सारूप्य द्वयोः । देहमात्रं तु भिन्नम् । देहत्वमिति स्वार्थिकस्त्वः ॥ २ ॥ यदि पुत्ररूपेणाऽवस्थानं, किमेतावतेत्याह-- ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण कीर्तिं स्वर्गं च वर्धयन्ति ॥ ३ ॥ ते पुत्राश्शिष्टेषु चोदितेषु कर्मसु वर्तमाना अवस्थिताः पूर्वेषा पितृपिता- महादीनां साम्परायेण परलोकेन सम्बद्धानां कीर्ति स्वर्ग च वर्धयन्ति—अ स्याऽयं पुत्र एवं कर्मा, अस्याऽय पौत्र इति । स्वर्गं च वर्धयन्ति । कीर्ति- मतां हि स्वर्गवासश्श्रूयते ॥ ३ ॥ एवमवरोऽवरः परेषाम् ॥ ४ ॥ एवमनेन प्रकारेण अवरोऽवर परेषां कीर्तिं स्वर्गं च वर्धयति ॥ ४ ॥ आभूतसम्प्लवात्ते स्वर्गजितः ॥ ५ ॥ भूतसम्प्लवो महाप्रलयः । आ तस्मात्ते पुत्रिणस्स्वर्गजितो भवन्ति ते च ५ पुनस्सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ॥६॥ प्रलयानन्तरं सर्गः, तत्र संसारस्य बीजार्थाः प्रजाार्थाः प्रजापतयो भवन्तीति भविष्यत्पुराणे श्रूयते ॥ ६ ॥
गार्हस्थ्यश्रैष्ठ्यम् ] उज्ज्वलोपेतं द्वितीयः प्रश्नः । २८१ अथाऽपि प्रजापतेर्वचनम् ॥ ७॥ अपि च प्रजापतेरपि वाक्यमस्मिन्नर्थे भवति । गार्हस्थ्यमेव वरि- ष्ठमिति ॥ ७ ॥ त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञ- मनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशं- सन्निति ॥ ८ ॥ त्रयीं विद्यां त्रयाणां वेदानामध्ययनम् । ब्रह्मचर्यमष्टाचत्वारिंशदादिकम् । प्रजातिं प्रजोत्पादनम् । श्रद्धामास्तिक्यम् । तप उपवासादि । यज्ञमग्निहो- त्रादिकं सोमयागान्तम् । अनुप्रदानं अन्तर्वेदि बहिर्वेदि च दानम् । य एतानि कर्माणि कुर्वते, तैरित् तैरेव सह वयं स्मः त एवाऽस्माकं सहायाः । अन्यत्तु ऊर्ध्वरेतसामाश्रमादिकं प्रशंसन् पुरुषो रजः पांसुर्भूत्वा ध्वंसते नश्यति । इतिशब्दो वचनसमाप्त्यर्थः । यथैवं तर्हि शिष्टेषु वर्तमानाः पुत्राः पूर्वेषां कीर्तिं स्वर्गे च वर्धयन्ति, तथा प्रतिषिद्धेषु वर्तमाना अकीर्तिं नरकं च वर्धयेयुः ॥ ८ ॥ तत्राऽऽह-- तत्र ये पापकृतस्त एव ध्वंसन्ते यथा पर्णं वनस्पतेर्न परान् हिंसन्ति ॥ ९ ॥ तत्र प्रजासन्ताने ये पापस्य कर्तारः, त एव ध्वंसन्ते न परान् पित्रादीन् हिंसन्ति । यथा यदेव पर्णं वनस्पतेः कीटादिभिर्दूषितं तदेव पतति, न वनस्पतिं शाखान्तरं वा पातयति तद्वत् ॥ ९ ॥ एतदेवोपपादयति-- नाऽस्याऽस्मिँल्लोके कर्मभिस्सम्बन्धो विद्यते तथा परस्मिन् कर्मफलैः ॥ १० ॥ अस्येति सामान्यापेक्षमेकवचनम् । अस्य पित्रादेः पूर्वपुरुषस्य अस्मिन् लोके पुत्रकृतैः कर्मभिः सम्बन्धो न विद्यते । दृष्टान्तोऽयम् । यथा पुत्रकृतेषु कर्मसु पित्रादेः कर्तृत्वं नाऽस्ति, तथा परस्मिन्नपि लोके कर्मफलैरपि सम्बन्धो नाऽस्तीत्यर्थः ॥ १० ॥ तदेतेन वेदितव्यम् ॥ ११ ॥ आप० ध० ३६
२८२ आपस्तम्बधर्मसूत्रे [(प्र.९.)क.२४. यदुक्तं ये पापकृतस्त एव ध्वंसन्ति न परान् हिंसन्तीति तदर्थरू- पमेतेन वक्ष्यमाणेन हेतुना वेदितव्यम् ॥ ११ ॥ प्रजापतेर्ऋषीणामिति सर्गोऽयम् ॥ १२ ॥ प्रजापतेर्हिरण्यगर्भस्य ऋषीणां च मरीच्यादीनामयं सर्गो देवादिरित्ये- गन्तः। ते चाऽध्वस्ता एव स्वे स्वे पदे वर्तन्ते । यदि च पुत्राः पापकृतः स्वयं ध्वंसमानाः परामपि ध्वंसयेयुः, तदैतन्नोपपद्यते--पुण्यकृतः सुखे- नाऽद्यापि वर्तन्ते इति ॥ १२ ॥ अत्रोदाहरणमाह- तत्र ये पुण्यकृतस्तेषां प्रकृतयःपरा ज्वलन्त्य उपलभ्यन्ते ॥ १३ ॥ तत्र स्वर्गे ये पुण्यकृतो वसिष्ठादयस्तेषां प्रकृतयश्शरीराणि परा उत्कृष्टाः ज्वलन्त्यः दीप्यमाना उपलभ्यन्ते, दिवि यथा सप्तर्षिमण्डलम्। श्रूयते च(१) 'सुकृतां वा एतानि ज्योतींषि, यन्नक्षत्राणी'ति । इदमपि प्रमाणं न पुत्राणां ध्वंसे पूर्वेषां प्रध्वंस इति ॥ १३ ॥ स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्त- वन्तं लोकं जयति सङ्कल्पसिद्धिश्च स्यान्न तु तज्ज्यैष्ठ्यमाश्रमाणाम् ॥ १४ ॥ कर्मावयवेन पूर्वार्जितानां कर्मणामेकदेशेन भुक्तशेषेण तपसा वा तीव्रेण कश्चिदूर्ध्वरेतास्सहशरीरेणाऽन्तवन्तं लोकं जयतीति यत्तत् स्यात् सम्भ- वेदपि । यच्च सङ्कल्पादेव सिद्धिरस्यादिति, तदपि स्यात् न तु तदाश्रमाणां ज्यैष्ठ्यकारणमिति । तदेव 'मैकाश्रम्यं त्वाचार्या' इत्यय- मेव पक्षः स्थापितः। अन्ये मन्यन्ते-सर्वे आश्रमा दूषिता भूषिताश्च। ततस्तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छतीत्येतदेव स्थि- तमिति ॥ १४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्विंशी कण्डिका ॥ १७ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायां उज्ज्वलायां द्वितीयप्रश्ने नवमः पटलः ॥९॥ १. तै. सं. ५. ५ १.
अथ दशमः पटलः ॥ व्याख्यातास्सर्ववर्णानां साधारणवैशेषिका धर्मा राज्ञस्तु विशेषाद्वक्ष्यामः ॥ १ ॥ उक्तवक्ष्यमाणसङ्कीर्तनं श्रोतृबुद्धिसमाधानार्थम् । अहिंसासत्यास्ते- यादयः सर्ववर्णानां साधारणधर्माः । अध्ययनादयस्त्रयाणाम् । अध्यापना- दयो ब्राह्मणस्य । युद्धादयः क्षत्रियस्य । कृष्यादयो वैश्यस्य । शुश्रूषा शूद्रस्य । राजाऽत्राभिषिक्तो विविक्षितः । तस्यैव हि वक्ष्यमाणं धर्मजातं सम्भवति । तस्य विशेषाद्विशेषतो यद्वक्तव्यं तद्वक्ष्यामः । विशेषानिति द्वितीयान्तपाठस्तु युक्तः ॥ १ ॥ दक्षिणाद्वारं वेश्म पुरं च मापयेत् ॥ २ ॥ वेश्म गृहं पुरं नगरं तदुभयमपि दक्षिणाद्वारं मापयेत् कारयेत् स्थप- त्यादिभिः । दक्षिणपार्श्वे द्वारं यस्य तत्तथोक्तम् ॥ २ ॥ अन्तरस्थां पुरि वेश्म ॥ ३ ॥ सर्वेषामेव प्राकाराणां मध्ये या पूस्तस्यामन्तरस्था पुरि वेश्म मापये- दात्मनः ॥ ३ ॥ तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ॥ ४ ॥ तस्य वेश्मनः पुरस्तादावसथः कारयितव्यः । एत्य वसन्त्यस्मिन्नि- त्यावसथः आस्थानमण्डपः । तस्यामन्त्रणमिति संज्ञा(१) ॥ ४ ॥ दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं सन्दृश्येत बहिरन्तरं चेति ॥ ५ ॥ दक्षिणेनेत्येनबन्तम् । पुरमिति(२)'एनपा द्वितीये'ति द्वितीयान्तम् ! पुरस्य दक्षिणतः अदूरे सभा कारयितव्या । दक्षिणोदग्द्वारा दक्षिणस्यामु- त्तरस्यां च दिशि द्वारं यस्यास्सा तथोक्ता । किमर्थमुभयत्र द्वारमिति चेत् । यद्वहिर्वृत्तं यच्चाऽभ्यन्तरं तदुभयमपि यथा सन्दृश्येतेत्येवमर्थ- मिति । सैषा द्यूतसभा । तस्यां द्यूतार्थिनः प्रविशन्तीति तदायस्थानं राज्ञः ॥ ५ ॥ १. तत्र ह्यातिथय आमन्त्र्यन्ते इत्यधिकः पाठः घ. पु. २. पा. सू. २. ३. ३१.
२८४ आपस्तम्बधर्मसूत्रे [ (प्र. १०.) कं. २५. सर्वेष्वेवाऽजस्रा अग्नयस्स्युः ॥ ६ ॥ वेश्मन्यावसथे सभायामित्येतेषु सर्वेष्वेव स्थानेषु लौकिका अग्न- योऽजस्राः स्युः । अविच्छेदेन धार्याः ॥ ६ ॥ अग्निपूजा च नित्या यथा गृहमेधे ॥ ७ ॥ तेषु चाग्निषु नित्यमग्निपूजा कार्या । यथा गृहमेधे औपासने सायं प्रात- र्होम इत्यर्थः । मन्त्रावपि तावेव, द्रव्यमपि तदेव ॥ ७ ॥ आवसथे श्रोत्रियावराध्यांनतिथीन् वासयेत् ॥ ८ ॥ आवसथाख्ये स्थाने अतिथीन् वासयेत् । ते विशेष्यन्ते श्रोत्रियावराध्याँ- निति । अवरपर्यायोऽवराध्यशब्दः । यदि सर्वान्वासयितुं न शक्नोति श्रोत्रियानपि तावद्वासयेदिति ॥ ८ ॥ तेषां यथागुणमावसथाः शय्याऽन्नपानं च विधेयम् ॥ ९ ॥ तेषामतिथीनां यथागुणं विद्यावृत्तानुगुणमावसथादि विदेय विशेषेण देयम् । आवसथा अपवरकादयः । शय्या खट्वाद्यः । अन्नमोदनादि । पान(१) तक्रादि ॥ ९ ॥ गुरून्मात्यांश्च नातिजीवेत् ॥ १० ॥ गुरवः पित्रादयः । अमात्या मन्त्रिणः । तान्नाऽतिजीवेत् भक्ष्यभोज्याच्छा- दनादिषु तान्नाऽतिशयीत ॥ १० ॥ न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वाऽव- सीदेदभावाद्वुद्धिपूर्वं वा कश्चित् ॥११॥ अस्य राज्ञो विषये राष्ट्रे क्षुधा आहाराभावेन बुभुक्षया रोगेण व्याधिना हिमेन नीहारेण वर्षादीनामप्युपलक्षणमेतत् । आतपः आदित्यरश्मितापः । एतैः प्रकारैरभावात् बुद्धिपूर्वं वा न कश्चिद्ब्राह्मणोऽप्यवसीदेत् अवसन्नो न स्यात् । राज्ञो ह्ययमपराधो यदाहाराद्यभावेन कश्चिदवसन्नः स्यात् । बुद्धिपूर्वं वेत्यत्रोदाहरणम् — यदा कश्चित् करमृणं वा दाप्यो भवति, तदा नाऽसौ हिमातपयोरुपनिवेशयितव्यः भोजनाद्वा निरोद्धव्यः । तथा कुर्वाणं राजा दण्डयेदिति ॥ ११ ॥ १. तक्रसूपादि इति च. पु. तक्रादिसूपादि इति क. पु.
राजधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८५ सभाया मध्येऽधिदेवनमुद्धत्याऽवोक्ष्याऽक्षान्नियपेद्युग्मान् वैभीतकान् यथार्थान् ॥ १२ ॥ पूर्वोक्तायाः सभाया मध्ये अधिदेवन यस्योपरि कितवा अक्षैर्दीव्यन्ति तत्स्थानमधिदेवनम्। तत् पूर्वं काष्ठादिना उद्धन्ति उद्धृत्याऽवोक्षति। अवो- क्ष्य तत्राऽक्षान्युग्मसंख्याकान्वैभीतकान् विभीतकवृक्षस्य विकारभूतान् यथार्थान् यावद्भिर्द्यूतं निर्वर्तते, तावतो निवपति। कः? यस्तत्र राज्ञा नियुक्तः सभिको नाम ॥ १२ ॥ आर्याः शुचयस्सत्यशीला दीवितारस्स्युः ॥ १३ ॥ आर्याः द्विजातयः । (१)शुचयोऽर्थशुद्धाः । सत्यशीलास्सत्यवादिनः । एवंभूता एव पुरुषास्तत्र दीवितारः देवितारः स्युः । त एव तत्र दीव्ये- युरित्यर्थः । तेच तत्र देवित्वा यथाभाषितं पणं सभिकाय दत्वा गच्छेयुः । स च राज्ञे तमायपहरहः प्रतिमासं प्रतिसंवत्सरं वा दद्यात् । स एव च स्थानान्तरे दीव्यतो दण्डयेत्, सभास्थाने च कलहकारान् । तत्र याज्ञवल्क्यः- (२)'ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद्धूर्त कितवादितराद्दशकं शतम् ॥ स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् । जितमुद्ग्राहयेज्जैत्रं दद्यात्सत्यं वचः क्षमी ॥' इति ॥ १३ ॥ आयुधग्रहणं वृत्तगीतवादित्राणीति राजाधीने- भ्योऽन्यत्र न विद्येरन् ॥ १४ ॥ आयुधग्रहणादीनि राजाधीनेभ्यो राजाश्रया ये पुरुषास्तेभ्योऽन्यत्र न विद्येरन् न भवेयुः । उत्सवादिष्वन्यत्रापि भवतीत्याचारः ॥ १४ ॥ क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते ॥ १५ ॥ यस्य राज्ञो विषये ग्रामेऽरण्ये च चोरभयं नास्ति स एव राजा क्षेम- कृत् क्षेमङ्करः । न त्वन्यः शतं तुभ्यं शतं तुभ्यमिति ददानोऽपि ॥ १५ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥ १. शुचयो धर्मशुद्धाः इति च. पु. २. या. स्मृ. २. १९९; २००
२८६ आपस्तम्बधर्मसूत्रे [(प.१०.)क.२६. भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्ताँल्लोकानभिजयति ॥ १ ॥ भृत्यानामनुपरोधेन भृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो यथार्हं विद्यावृत्ताद्यनुरूपं क्षेत्रं वित्तं च दद्यात् । एवं दददनन्ताँल्लोकानभिजयति ॥१॥ ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरा- त्मयूपो यज्ञोऽनन्तदक्षिण इति ॥ २ ॥ ब्राह्मणस्वानि चोरादिभिरपहृतानि अपजिगीषमाणः ब्राह्मणेभ्यो दानाया- पजित्य ग्रहीतुमिच्छन् यो राजा युद्धे चोरैर्हन्यते तमात्मयूपोऽनन्तदक्षिणो यज्ञ इत्याहुर्धर्मज्ञाः । सङ्ग्रामो यज्ञः । तस्य आत्मा यूपस्थानीयः । आत्मेति शरीरमाह । अन्तरात्मा तु पशुस्थानीयः । प्रत्यानिनीषितं तु द्रव्यं दक्षिणा । सूत्रे तु 'तं यज्ञ इत्याहु'रिति गौणो वादः ॥ २ ॥ एतेनाऽन्ये शूरा व्याख्याताः प्रयोजने युध्य- मानास्तनुत्यजः ॥ ३ ॥ प्रयोजनं चोरादिभिरपहृतानां ब्राह्मणस्वानां प्रत्यानयनादि, तदर्थं युध्यमाना ये शूरास्तनुत्यजो भवन्ति तेऽप्येतेन राज्ञा व्याख्याता आत्मयूपा यज्ञा अनन्तदक्षिणा इति ॥ ३ ॥ ग्रामेषु नगरेषु चाऽऽर्याञ्छुचीन् सत्यशीलान प्रजागुप्तये निदध्यात् ॥ ४ ॥ आर्याञ्छुचीन् सत्यशीलानिति व्याख्यातम् । एवंभूतान् पुरुषान् ग्रामेषु नगरेषु च प्रजानां रक्षणार्थं निदध्यात् नियुञ्जीत ॥ ४ ॥ तेषां पुरुषास्तथागुणा एव स्युः ॥ ५ ॥ तेषां नियुक्तानां ये पुरुषा नियोज्याः तेऽपि तथागुणा आर्यादिगुणा एव स्युः ॥ ५ ॥ सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ ६ ॥ सर्वतः सर्वासु दिक्षु योजनमात्रं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्यन्नि- त्यपपाठः ॥ ६ ॥ क्रोशो ग्रामेभ्यः ॥ ७ ॥
.राजधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८७ ग्रामेभ्यस्तु सर्वासु दिक्षु क्रोशो रक्ष्यः। ग्रामेभ्यः इति (१) यतश्चाऽध्व- कालपरिमाणं तत्र पञ्चमी वक्तव्ये'ति पञ्चमी ॥ ७ ॥ तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ॥ ८ ॥ तत्र योजनमात्रे क्रोशमात्रे वा यन्मुष्यते चोर्यते ते नियुक्ताः स्वामि भ्यस्तत्प्रतिदद्यु राज्ञा तैस्तत् प्रतिदाप्यम् राजा तैः प्रतिदापयेदिति प्रायेण दन्त्योष्ठ्यं वकारं पठन्ति ॥ ८ ॥ धर्म्यं शुल्कमवहारयेत् ॥ ९ ॥ तत्र गौतमः- (२)'विंशतिभागश्शुल्कः पण्ये' इति। यद्वणिग्भिर्विक्रीयते हिङ्ग्वादि, तस्य विंशतितमं भागं राजा गृह्णीयात् । तस्य शुल्क इति संज्ञा । एष धर्म्यः धर्म्यश्शुल्कः। तमधिकृतैरेवाऽवहारयेत् ग्राहयेदिति। मूलादिषु विशेषस्तैनेवोक्तः-(३)'मूलफलपुष्पौषधिमधुमांसतृणेन्धनानां षष्ठि- क्य'मिति ॥ ९ ॥ अकरः श्रोत्रियः ॥ १० ॥ श्रोत्रिय. करं न दाप्यः । अन्ये दाप्याँः ॥ १० ॥ सर्ववर्णानां च स्त्रियः ॥ ११ ॥ अकराः । वर्णग्रहणात् प्रतिलोमादिखियो दाप्याः ॥ ११ ॥ कुमाराश्च प्राक् व्यञ्जनेभ्यः ॥ १२ ॥ व्यञ्जनानि श्मश्रूवादीनि । यावत्तानि नोत्पद्यन्ते तावदकराः ॥ १२ ॥ ये च विद्यार्था वसन्ति ॥ १३ ॥ विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्यसमाप्तवेदा अकराः ॥ १३ ॥ तपस्विनश्च ये धर्मपराः ॥ १४ ॥ तपस्विनः कृच्छ्रचान्द्रायणादिप्रवृत्ताः । धर्मपरा, अफलाकाङ्क्षिणः नित्यनैमित्तिकधर्मनिरताः। धर्मपरा इति किम् ? ये अभिचारकामा मन्त्र- सिद्धये तपस्तप्यन्ते ते अकरा मा भुवंन्निति ॥ १४ ॥ १. पा. सू. (वा) १. ४. ३१. २. गौ. ध १०. २६. ३. गौ. ध. १०. २७.
२८८ आपस्तम्बधर्मसूत्रे [(प. १०,) क. २६. शूद्रश्च पादावनेक्ता ॥ १५ ॥ यस्त्रैवर्णिकानां पादावनेक्ता स शूद्रोऽप्यकरः ॥ १५ ॥ अन्धमूकबधिररोगाविष्टाश्च ॥ १६ ॥ एतेऽप्यकराः यावदान्ध्यादि ॥ १६ ॥ ये व्यर्था द्रव्यपरिग्रहैः ॥ १७ ॥ ये च परिव्राजकादयः द्रव्यपरिग्रहैर्व्यर्था निष्प्रयोजनाः शास्त्रतो येषां द्रव्यपरिग्रहः प्रतिषिद्धः तेऽप्यकराः । तथा च वसिष्ठः— (१)“अकरः श्रोत्रियो राजा पुमाननाथः प्रव्रजितो बालवृद्धतरुणप्र- शान्ता” इति ॥ १७ ॥ अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन् कुमारीं वा वाचा बाध्यः ॥ १८ ॥ यत्र परदारा आसते कुमारी वा पतिंवरा, तत्र युवा अलङ्कृतः अ- बुद्धिपूर्वमज्ञानादनुप्रविशन् वाचा बाध्यः-अत्रेयमास्ते, माऽत्र प्रविशेति ॥ १८ ॥ बुद्धिपूर्वे तु दुष्टभावो दण्ड्यः ॥ १९ ॥ यस्तु जानन्नेव दुष्टभावः प्रलोभनार्थी प्रविशति स दण्ड्यो द्रव्यानु- रूपमपराधानुरूपं च । दुष्टभावग्रहणामाचार्यादिप्रोषितस्य प्रवेशे दण्डो मा भूदिति ॥ १९ ॥ सन्निपाते वृत्ते शिश्नच्छेदनं सवृषणस्य ॥ २० ॥ सन्निपातो मैथुनं, तस्मिन् वृत्ते शिश्नच्छेदन दण्डः । सवृषणस्येत्युपसर्ज- नस्यापि शिश्नस्य विशेषणम् । सवृषणस्य शिश्नस्य च्छेदनमिति ॥ २०॥ कुमार्यां तु स्वान्यादाय नाश्यः ॥ २१ ॥ कुमार्यां तु सन्निपाते वृत्ते सर्वस्वहरणं कृत्वा देशान्निर्वास्यः, न शिश्नच्छेदः ॥ २१ ॥ अथ भृत्यै राज्ञा ॥ २२ ॥ अथ सन्निपातात्प्रभृति ते परदारकुमार्यौ राज्ञा भृत्यै ग्रासाच्छा- दनप्रदानेन भर्तव्ये ॥ २२ ॥
१. व. ध. १९. २३.
नियोगविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २८९ रक्षेच्चाऽत ऊर्ध्वं मैथुनात् ॥ २३ ॥ अतः प्रथमात् सन्निपातात् ऊर्ध्वं मैथुनाच्च रक्षेद्यथा पुनः मैथुनं नाचरेतस्तथा कार्ये ॥ २३ ॥ निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् ॥ २४ ॥ यदि ते एवं निरुद्धे निर्वेषणमभ्युपेतः अभ्युपगच्छतः तदा निर्वेषा- भ्युपाये तु स्वामिहस्ते अवसृजेत् दद्यात् । परदारं भर्त्रे श्वशुराय वा, कुमारीं पित्रे भ्रात्रे वा । अनभ्युपगमे तु प्रायश्चित्तस्य यावज्जीवं निरोधः ॥ २४ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने षड्विंशी कण्डिका ॥ २६ ॥ चरिते यथापुरं धर्माद्धि सम्बन्धः ॥ १ ॥ चरिते तु निर्वेषे यथापुरं यथापूर्वं धर्मात् , तृतीयार्थे पञ्चमी । धर्मेण सम्बन्धो भवति । हिशब्दो हेतौ । यस्मादेवं तस्मात् अवश्यं प्रायश्चित्तं कारयितव्ये । ततो यज्ञविवाहादौ न कश्चिद्दोष इति ॥ १॥ परदारप्रसङ्गादुच्यते - सगोत्रस्थानीयां न परेभ्यस्समाचक्षीत ॥ २ ॥ योऽनपत्यः आत्मनश्शक्त्यभावं निश्चित्य क्षेत्रजं पुत्रमिच्छन् भार्या- (१)परत्र नियुङ्क्ते, मृते वा तस्मिन् तत्पित्रादयस्सन्तानकाङ्क्षिणः, तद्वि- षयमेतत् । कुलान्तरप्रविष्टा सगोत्रस्थानीया । सा हि पूर्वं पितृगोत्रा सती(२) भर्तृगोत्रधर्मैरधिक्रियेत । अतः भर्तृपक्ष्याणां सगोत्रस्थानी- या भवति । भर्ता तु साक्षात्सगोत्रः । तां सगोत्रस्थानीयां न परेभ्यो- ऽसगोत्रेभ्यस्समाचक्षीत—इयमनपत्या, अस्यामपत्यमुत्पाद्यतामिति । सगोत्रायैव तु समाचक्षीत, तत्रापि देवराय, तदभाव(३) सर्पिण्डेभ्यः ॥ कः पुनस्सगोत्रस्य विशेषः ? तमाह-- कुलाय हि स्त्री प्रदीयते इत्युपदिशन्ति ॥ ३ ॥ हि यस्मात् स्त्री कन्या प्रदीयमाना कुलायैव प्रदीयते इत्युपदिशन्त धर्म १. परस्मै. इति. क. पु. २. भर्तृगोत्रधर्मैराधिक्रियते । ३. सपिण्डाय. इति. च पु. आप० ध० ३७
२९० आपस्तम्बधर्मसूत्रे [ (प.१०)क.२७. ज्ञाः । तस्मात् सगोत्रायैव समाचक्षीतेति(१) ॥ ३ ॥ तमिमं नियोगं दूषयति-- तदिन्द्रियदौर्बल्याद्विप्रतिपन्नम् ॥ ४ ॥ यद्यप्येवं पूर्वे कृतवन्तः, तथाऽपि तदद्यत्वे विप्रतिपन्नं विप्रतिषिद्धम् । कुतः ? इन्द्रियदौर्बल्यात् । दुर्बलेन्द्रिया ह्यद्यत्वे मनुष्याः । ततश्च शास्त्रव्या- जेनापि भर्तृव्यतिक्रमेऽतिप्रसङ्गस्स्यादिति ॥ ४ ॥ सगोत्रविषयेऽपि यो विशेषस्सोऽपि नास्तीत्याह-- अविशिष्टं हि परत्वं पाणेः ॥ ५ ॥ येन पाणिना पूर्वमग्निसाक्षिकं पाणिर्गृहीतः कन्यायाः, तस्मात् पा- णेरन्यो भवति सगोत्रस्याऽपि पाणिः । यस्मादेवं पाणेः परत्वमविशिष्टं स- मानम् ? तस्मादविशेष इति । अविशिष्टमित्यपपाठः ॥ ५ ॥ पाणिरन्यो भवतु, को दोषः ? तद्व्यतिक्रमे खलु पुनरुभयोर्नरर्कः ॥ ६ ॥ तस्य पाणेर्व्यतिक्रमे उभयोर्दम्पत्योः नरको भवति । खलुपुनरिति प्र- सिद्धियोतकौ निपातौ । अतः पत्याऽपि न स पाणिस्त्याज्यः यः पूर्वं गृहीतः । भार्ययाऽपि न स पाणिस्त्याज्यो येन पूर्वमात्मानः पा- णिर्गृहीतः ॥ ६ ॥ नियमारम्भणो हि वर्षीयानभ्युदय एवमा- रम्भणादपत्यात् ॥ ७ ॥ आरभ्यतऽनेनेत्यारम्भणः योऽयं दम्पत्योः परस्परनियमः, स आ- रम्भणो यस्य स नियमारम्भणः । एवंभूतो योऽभ्युदयस्स एवं वर्षीयान् । वृद्धतरः । कस्मात् वर्षीयान् ? एवमुक्तप्रकारेण नियोगलक्षणेन यदपत्य- मारभ्यते तस्मादेवमारम्भणादपत्याद्वर्षीयानिति । अपत्यादिति पाठः । आपत्यादिति प्रायेण पठन्ति ॥ ७ ॥ नाश्य आर्यश्शूद्रायाम् ॥ ८ ॥ आर्यस्त्रैवर्णिकः, शूद्रायां परभार्यायां प्रसक्तो राज्ञा राष्ट्रात्नाश्यः निर्वास्यः ॥ ८ ॥ १. “कुलाय कन्या क्वचिद्देशेषु दीयते । गोत्रजे न केनचिदप्यनुभूयते । उक्तं च बृहस्पतिना—अभर्तृका भ्रातृभार्या ग्रहणं चातिदूषितम् । कुले कन्या प्रदानं च दशष्व- न्येषु दृश्यते इति” इत्यधिकः पाठ. घ. पु.
परस्त्रीगमनप्रायश्चित्तम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २९१ वध्यश्शूद्र आर्यायाम् ॥ ९ ॥ शूद्रस्तु त्रैवर्णिकस्त्रियां प्रसक्तो वध्यः । एतच्च योऽन्तःपुरादिष्वधि- कृतो रक्षकस्सन् स्वयं गच्छति, तस्य भवति । अन्यस्य तु पूर्वोक्तं शिश्नच्छेदनमेव । तथा च शूद्राधिकारे गौतमः(१)-'आर्यस्यभिग- मने लिङ्गोद्धारः स्वहरणं च । गोप्ता चेद्वधोऽधिक' इति । याज्ञवल्क्येन प्रातिलोम्येन गमनमात्रे वध उक्तः- "(२)सजातावुत्तमो दण्डः आनुलोम्ये तु मध्यमः । प्रातिलोम्ये वधः(३) पुंसां स्त्रीणां नासादिकृन्तनम् ॥' इति । सोऽनुबन्धाभ्यासाद्यपेक्षो द्रष्टव्यः । तथा 'नास्य भार्य्यशूद्रायामि' त्याचार्यवचनमप्यभ्यासापेक्षम्, ब्राह्मणादेः क्रमविवाहे या शूद्रा, तद्विष- यं वा द्रष्टव्यम् ॥ ९ ॥ दारं चाऽस्य कर्शयेत् ॥ १० ॥ अस्य शूद्रस्य या दारभूता तेन भुक्ता त्रैवर्णिकस्त्री तां च कर्शयेत् व्रतनियमोपवासैः । या प्रजाता न भवति तद्विषयमेतत् । (४)'ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः॥' इति स्मरणात् ॥ १० ॥ सवर्णायामन्यपूर्वायां सकृत्सन्निपाते पादः पततीत्युपदिशन्ति ॥ ११ ॥ अन्यः पूर्वः पतिः यस्यास्सा अन्यपूर्वा परभार्या, तस्यां सवर्णायां सकृ- द्गमने पादः पतति । पतितस्य द्वादशवार्षिकं प्रायश्चित्तम् । तस्य तुर्योऽ शस्त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यमस्य प्रायश्चित्तम् । एतच्च श्रोत्रियभा- र्यायामृतुकाले कामतः प्रथम(५)दूषकस्य । तत्र गौतमः(६)-'द्वे पर- दारे । त्रीणि श्रोत्रियस्ये'ति ॥ ११ ॥ एवमभ्यासे पादः पादः ॥ १२ ॥ एवमभ्यासे प्रत्यभ्यासं पादः पादः पतति ॥ १२ ॥ १. गौ. ध. १२. २. ३. २. या. स्मृ. २. २८६. ३. पुंसो नार्याः कर्णादिकर्तनम् इति विज्ञानेश्वरारूढः पाठः । ४. श्लोकोऽयं मानवे एकादशाध्याये १७८ श्लोकानन्तर प्रक्षिप्ततया पठितः । ५. दूषकस्य ब्राह्मणस्य. इति घ. च. पु ६. गौ. ध. २२. २९, ३०.
२९२ आपस्तम्बधर्मसूत्रे [(प.१०)क.२७. चतुर्थे सर्वम् ॥ १३ ॥ अतः -चतुर्थे सन्निपाने सर्वमेव पतति । तनश्च पूर्णद्वादशवार्षिकं कर्तव्य- म् । तृतीये नव वर्षाणि । द्वितीये षड्वर्षाणि । एतच्च प्रतियोगं स्त्रीभेदेन प्रथमदूषकस्य । एकस्यामेव त्वभ्यासे कल्प्यम् । तत्र- (१)'यत् पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्, इति स्मरणात् स्त्रिया अपि प्रतियोगं पादः पादः पतति । तदनुरो- धेन कल्प्यम् ॥ १३ ॥ जिह्वाच्छेदनं शूद्रस्याऽऽर्ये धार्मिकमाक्रोशतः ॥ १४ ॥ शूद्रो द्विजातीनामन्यतमं धार्मिके(२)स्वकर्मस्थं यद्याक्रोशति निन्दति गर्हते, तदा तस्य जिह्वा छेत्तव्येति । मनुस्तु सामान्येनाह- (३)'येनाङ्गेनावरो वर्णो ब्राह्मणस्याऽपराध्नुयात् । तदङ्गं तस्य छेत्तव्यं तन्मनोरनुशासनम् इति ॥ गौतमस्तु--(४)'शूद्रो द्विजातीनातिसन्धायाऽभिहत्य च वाग्दण्डपारु- ष्याभ्यामङ्गं मोच्यो येनोपहन्द्या'दिति ॥ १४॥ वाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् ॥ १५ ॥ यस्तु शूद्रो वागादिष्वार्यैस्समीभवति, न तु न्यग्भूतः, तस्य दण्डेन ताडनं कर्तव्यम् । स दण्डेन ताडयितव्यः । अयमस्य दण्डः ॥ १५ ॥ पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः ॥१६॥ भूम्यादानं परक्षेत्रस्य बलात्स्वीकारः, पुरुषवधादिषु निमित्तेषु शूद्रस्सर्वस्वहरणं कृत्वा पश्चाद्वध्यः मारयितव्यः ॥ १६ ॥ चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ॥ १७ ॥ ब्राह्मणस्य त्वेतेषु निमित्तेषु चक्षुषो निरोधः कर्तव्यः । पट्टबन्धादिना चक्षुषी निरोद्धव्ये, यथा यावज्जीवं न पश्यति । न तूत्पाटयेतव्ये (५)'न शारीरो ब्राह्मणदण्डः । अक्षतो ब्राह्मणो व्रजे'दिति स्मरणात् । 'चक्षुनिरोध' इति रेफलोपश्छान्दसः ॥ १७ ॥ नियमतिक्रामिणमन्यं वा रहसि बन्धयेत् ॥ १८ ॥ १. म. स्मृ. ११. १७७. २. स्वधर्मस्थ. इति च. पु ३. म. स्मृ. ८. २७९. ४. गौ. १२. १. ५. गौ. ध. १२. ४६.
उज्ज्वलोपेते द्वितीयः प्रश्नः । २९३ यो वर्णाश्रमप्रयुक्तान्नियमानतिक्रामति तं नियमातिक्रमणमन्य वा प्रति- षिद्धानां कर्तारं रहसि बन्धयेत् निगलितं निरुन्ध्यात् ॥ १८ ॥ आसमापत्तेः ॥ १९ ॥ यावदसौ नियमान् प्रतिपत्स्ये प्रतिषिद्धेभ्यो निवर्तिष्य इति ब्रूयात् ॥ १९ ॥ असमापत्तौ नाशः ॥ २० ॥ यद्यसौ दीर्घकालं निरुद्धोऽपि न समापद्येत, ततो नाशः निर्वास्यः२० आचार्य ऋत्विक्स्नातका राजेति त्राणं स्युरन्यत्र वध्यात् ॥ २१ ॥ यदि दण्डे प्रवृत्तं राजानमाचार्यो ब्रूयात्-अहमेनमतः परं वारयि- ष्यामि मुच्यतामयमिति । अतोऽङ्गदण्डं प्राप्तेऽर्थदण्डम्, अर्थदण्डे प्राप्ते ताडनेम् , ताडने प्राप्ते धिग्दण्डमिति कृत्वा तद्वशे विसृजेत् । एवमृ- त्विजि । ऋत्विगाचार्यौ राज्ञस्स्वभूतौ न दण्ड्यस्य । स्नातको विद्याव्रता- भ्याम् । राजा अनन्तरादिः । सर्व एते राज्ञस्सम्मान्याः । अतस्ते दण्ड्यस्य त्राणं स्युः । उक्तेन प्रकारेण रक्षका भवेयुः । नान्यः कश्चित् । तेऽप्यन्यत्र वधात् यस्य वधानुगुणोऽपराधः न तस्याऽऽचार्यादयोऽपि त्राणम् ; हन्तव्य एव स इति ॥ २१ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तविंशी कण्डिका ॥ २७ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने दशमः पटलः ॥ १० ॥
अथैकादशः पटलः ॥ क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यस्स- मृद्धस्स भावि तदपहार्यः ॥ १ ॥ वैश्यो वैश्यवृत्तिर्वा परस्य क्षेत्रं कृष्यर्थं परिगृह्य यदि उत्थानं कृषि विषयं यत्नं न कुर्यात्, तदभावाच्च फलं न स्यात्, तत एतस्मिन्निमित्ते स कर्षकस्समृद्धश्चेत्तस्मिन् भोगे यद्भावि फलं तदपहार्यः अपहारयितव्यः । राज्ञा क्षेत्रस्वामिने दाप्यः ॥ १ ॥ अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् ॥ २ ॥ कीनाशः कर्षकः । तस्याऽवशिनः अस्वतन्त्रस्य निर्धनस्य कर्मन्यासे स चेत् कृषिकर्म न्यसेत् विच्छिन्द्यात् तस्य दण्डेन ताडन कर्तव्यं स दण्डेन ताडयितव्यः । अर्थाभावाच्चाऽर्थदण्डः । अपर आह—अवशी अवश्यः अविधेयः यः क्षेत्रं परिगृह्याऽवशिनः कीनाशस्य कृषिकर्म न्यसेत् न स्वयं कुर्यात्, तदा स परिग्राहको दण्डेन ताडयितव्य इति । यदि वा अवशिन इति बहुव्रीहिः । यस्य कीनाशस्य वशी स्वतन्त्रः क्षेत्रवान्नास्ति, स यदि पूर्वकृष्टस्य क्षेत्रस्य कृषिकर्म न्यसेत् न कुर्यात्, तस्य दण्डताडनं दण्ड इति राजपुरुष- स्योपदेशः ॥ २ ॥ तथा पशुपस्य ॥ ३ ॥ पशुपो गोपालः तस्याऽपि कर्मन्यासे पालनस्याऽकरणे दण्डेन ताडनं दण्डः ॥ ३ ॥ अवरोधनं चाऽस्य पशूनाम् ॥ ४ ॥ ये चाऽस्य पशवो रक्षणाय समर्पितास्तेषां चाऽवरोधनमपहरणं कर्त- व्यमन्यस्य गोपस्य समर्पणीया इति ॥ ४ ॥ हित्वा व्रजमादिनः कर्शयेत्पशून् ॥ ५ ॥ ये पशवो व्रजे गोष्ठे निरुद्धास्तं व्रजं हित्वा आदिनस्सस्यादेर्भक्षयि- तारो भवन्ति; तान् कर्शयेत् बन्धनादिना कृशान् कुर्यात् । कः ? यत् भ- क्षितं तद्वान्, राजपुरुषो वा ॥ ५ ॥ नाऽतिपातयेत् ॥ ६ ॥
दण्डानर्हाः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २९५ नाऽतिनिरोधं कुर्यात् न ताडयेद्वेति ॥ ६ ॥ अवरुध्य(१) पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ॥ ७ ॥ यदि पशुपः पशूनवरुध्य पालयितुं गृहीत्वा सभ्यस्थाने विसृज्यो- पेक्षया मारयेत् नाशयेद्वा । नाशनं चारादिभिरपहरणम् । स स्वामिभ्यः पशूनवसृजेत् प्रत्यर्पयेत् पश्वभावे मूल्यम् ॥ ७ ॥ प्रमादादरण्ये पशूनुत्सृष्टान् दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत् ॥ ८ ॥ यदि स्वामिनः प्रमादादरण्ये पशूनुत्सृजेयुः विना पालकेन ततस्तान् दृष्ट्वा ग्राममानीय स्वामिभ्यः अर्पयेत् । कः ? यस्तत्र रक्षकत्वेन राज्ञा नियुक्तः ॥ ८ ॥ पुनः प्रमादे सकृदवरुध्य ॥ ९ ॥ पुनः प्रमादादुत्सृष्टेषु सकृदवरुध्य स्वामिभ्योऽवसृजेत् ॥ ९ ॥ तत ऊर्ध्वं न सूक्षेत् ॥ १० ॥ ततो द्वितीयात् प्रयोगादूर्ध्वं 'ग्राममानीयै'त्यादि यदुक्तं तन्न सूक्षेत् ना- द्रियेत तस्मिन् विषये उपेक्षेत ॥ १० ॥ परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः ॥ ११ ॥ एधाश्चोदकं च एधोदकम् । ग्रासो गवाद्यर्थो यवसादिः । सर्वत्र वि- षयसप्तमी । यः परपरिग्रहोऽयमित्यविद्वानजानन् एधादिकमादत्ते गृह्णा- ति, स तस्मिन्विषये तत्र नियुक्तेन राजपुरुषेण निष्ठुरया वाचा बाध्यः निवार्यः ॥ ११ ॥ विदुषो वाससः(२) परिमोषणम् ॥ १२ ॥ यस्तु विद्वानेवाऽऽदत्ते तस्य वाससोऽपहारः कर्तव्यः ॥ १२ ॥ अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः॥१३॥ तथाशब्दस्य भोजनमित्यनेन सम्बन्धः । प्राणसंशयदशायामेधो- १. 'पशून्मारयेन्नाशयेद्वा' इति छ, पु. २. परिमोक्षणम्, इति, क, पु.
२९६ आपस्तम्बधर्मसूत्रे [ (प. ११.) क. २९. दकादेरादाने कामकृतेऽप्यदण्ड्यः । तथा भोजनमप्याददानः प्राणसंशये न दण्ड्य इति ॥ १३ ॥ प्राप्तनिमित्ते दण्डकर्मणि राजानमेनस्स्पृशति ॥ १४ ॥ प्राप्त दण्डनिमित्तं यस्य तस्मिन् पुरुषे दण्डकर्मणि दण्डस्याऽक्रि- यायां यदि दययाऽर्थलोभेन वा प्राप्तदण्डं न कुर्यात् तदा तदेनो राजान- मेव स्पृशति ॥ १४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने ऽष्टाविंशी कण्डिका ॥ २८ ॥ ननु(१) शास्त्रफलं प्रयोक्तरि, तत्कथमन्यकृतमेनोऽन्यं स्पृशतीति, बहुविधत्वात् कर्तृभेदस्येत्याह— प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः ॥ १ ॥ धर्ममधर्मं वा प्रकुर्वाणं यः प्रयुंक्ते-इदमित्थं कुर्विति, स प्रयोजयिता । स चाऽनेकप्रकारः-आज्ञापकोऽभ्यर्थायता अनुग्राहक इति । भृत्यादे र्निकृष्टस्य प्रवर्तना आज्ञा । गुर्वादेरागण्यस्य प्रवर्तनाऽभ्यर्थना । अनुग्रहो द्विविधः—उपदेशस्तत्सधर्माचरणं चेति । तत्र य इत्थमर्थमुपदिशति त्वं शत्रूमित्थं व्यापादय, धर्मार्जनेऽय तेऽभ्युपाय इति स उपदेष्टा । यः पुनः केनचिञ्जिघांसितं पलायमानं वा निरुणद्धि निरुद्धश्च हन्यते स निरोद्धाऽनुग्राहकः । मन्ता अनुमन्ता यस्याऽनुमति मन्तरेणाऽर्थो न निवर्तते स राजादिको धर्माधर्मयोरनुमन्ता । कर्ता साक्षात्क्रियाया निर्वर्तकः । एते त्रयोऽपि स्वर्गफलेषु नरकफलेषु च कर्मसु धर्मेष्वधर्मेषु च भागिनः फल स्यांशभागिनः अंशभाजः । सर्वेषां च यथाकथंचित् कर्तृत्वम् ॥ १ ॥ यो भूय आरभते तस्मिन् फलविशेषः ॥ २ ॥ तेषु प्रयोजकादिषु यो भूय आरभते यस्य व्यापारोऽर्थनिवृत्तावधि- कमुपयुज्यते तस्मिन् फलविशेषो भवति ॥ २ ॥ यद्यप्येवम्— कुटुम्बिनौ धनस्येशाते ॥ ३ ॥ कुटुम्बिनौ दम्पती । तौ धनस्य परिग्रहे विनियोगे च ईशाते । यद्य १. पूर्वमीमांसासूत्रस्य ( जै. सू. ३. ७. १८. ) नुवादोऽयम् ।
साक्ष्यविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २९७ प्येवं, तथापि भर्तुरनुज्ञया विना स्त्री न विनियोक्तुं प्रभवति । भर्त्ता तु प्रभवति । तदेतेन वेदितव्यं ‘न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेय- मुपदिशन्ती’ति (२. १४. २०) ॥ ३ ॥ तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ॥ ४ ॥ तयोर्दम्पत्योरनुमतेऽनुमतौ सत्यामन्येऽपि पुत्रादयः तयोरैहिकेष्वामु- ष्मिकेषु च हितेषु वर्तेरन् द्रव्यविनियोगेनाऽपि ॥ ४ ॥ विवादे विद्याभिजनसम्पन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ॥ ५ ॥ अर्थिप्रत्यर्थिनोर्विप्रतिषिद्धो वादो विवाद । तत्र विद्यादिगुणसंयु- क्ता निर्णोतारस्स्युरिति वाक्यशेषः । विद्या अध्ययनसम्पत्, अध्ययनस- हितं शास्त्रज्ञानं वा । अभिजनः कुलशुद्धिः । वृद्धाः परिणतवयसः । मेधा- विनः ऊहापोहकुशलाः । धर्मेषु वर्णाश्रमप्रयुक्तेषु अविनिपातिनः, विनिपातः प्रमादः तद्रहिताः ॥ ५ ॥ सन्देहे लिङ्गतो दैवेनेति विचित्य ॥ ६ ॥ ते च निर्णयन्तस्सन्देहस्थलेषु लिङ्गतोऽनुमानेन दैवेन तप्तमाषादिना इतिशब्दः प्रकारे । यच्चान्यदेवंयुक्तं वचनव्याघातादि तेन च विचि त्यार्थस्थितिमन्विष्य निर्णोतारस्स्युरित्यध्याहृतेन वाक्यपरिसमाप्तिः ॥६॥ अथ साक्ष्यविधिः— पुण्याहे प्रातरग्नाविद्धेऽपामन्ते राजवत्युभयतस्समा- ख्याप्य सर्वानुमते मुख्यस्सत्यं प्रश्नं ब्रूयात् ॥७॥ पुण्याहो देवनक्षत्रम , प्रातर्मध्याह्नादिषु अग्नावद्धे अग्निमिध्वा तत्समीपे अपामन्ते उदकमुपनिधाय तत्समीपे राजवति राजाधिष्ठिते सदसि । राज- ग्रहणं प्राड्विवाकादेरुपलक्षणम् । उभयत उभयोर्थिप्रत्यर्थिनोस्समाख्या- प्य किमहं युवयोः प्रमाणभूतः साक्षीत्यात्मानं ख्यापयित्वा । यदि वा उभयतः उभयोरपि पक्षयोस्सत्यवचने च असत्यवचने च साक्षिणो यद्भावि फलं तत्, सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि । (१) अनृतेन महाघोरं नरकं प्रतिपत्स्यसे ॥ १. उक्त्वाऽनृतं. इति. च. पु. आप० ध० ३८
इत्यादिना प्रकारेण समाख्याप्य प्राड्विवाकादिभिः पृष्ट इति शे- षः । सर्वानुमते अर्थिप्रत्यर्थिनोस्सभ्यानां चाऽनुमतौ सत्यां सभ्यो मुख्यः साक्षिगुणैरुपैतो दोषैश्च वर्जितस्साक्षी प्रश्नं पृष्टमर्थं सत्यं य- थाऽऽत्मना ज्ञातं तथा ब्रूयात् ॥ ७ ॥ अनृते राजा दण्डं प्रणयेत् ॥ ८ ॥ साक्षिणाऽनृतमुक्तमिति प्रतिपन्ने राजा(१) दण्डं प्रणयेत् । अत्र मनुः- '(२)यस्य दृश्येत सप्ताहा(३)दुक्तसाक्ष्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणं (४)दाप्यो दण्डं च तत्समम् ॥' इति ॥ ८ ॥ न केवलमसत्यवचने राजदण्डः, किं तर्हि ? नरकश्चाऽत्राधिकः साम्पराये ॥ ९ ॥ साम्परायः परलोकः, तत्र नरकश्च भवति, न तु, (५)'राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा ॥ इत्यस्यायं विषय इति ॥ ९ ॥ सत्ये स्वर्गस्सर्वभूतप्रशंसा च ॥ १० ॥ सत्य उक्ते स्वर्गो भवति । सर्वाणि च भूतान्येनं प्रशंसन्ति अपि देवाः ॥१०॥ सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च ॥ ११ ॥ स्त्रीषु शूद्रेषु च या विद्या सा निष्ठा समाप्तिस्तस्यामप्यधिगतायां विद्या- कर्म परितिष्ठतीति ॥ ११ ॥ आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति ॥ १२ ॥ अथर्वणा प्रोक्तमधीयते ये ते आथर्वणिकाः । वसन्तादिभ्यष्ठक् । तेषां समाम्नायः । “आथर्वणिकस्येकलोपश्च” आथर्वणः । तस्य वेदस्य शेष इत्युपदिशन्ति धर्मज्ञाः-या विद्या स्त्रीषु शूद्रेषु चेति ॥ १२ ॥ कृत्स्ना धर्मसमाप्तिस्समाम्नानेन लक्षणकर्मणा तु समाप्यते ॥ १३ ॥ १. तं दण्डयेत् इति क. पु. २. म. स्मृ. ८. १०८. ३ उक्तवाक्यस्य इति च पु. ४. ऋणं दाप्यो दमं च सः इति. च. पु. मुद्रितपुस्तकेषु च। ५. म, स्मृ ८. ३१८,
उज्ज्वलोपेते द्वितीयः प्रश्नः । २९९ समाम्नानं प्रतिपदपाठः । तेन धर्मसमाप्तिः कृच्छ्रान्न शक्या कर्तुम् । किं तु लक्षणकर्मणा समाप्यते येन सामान्येन भिन्नानामप्यधिगमो भवति तल्लक्षणं, तस्य कर्मणा करणेन समाप्यते । कर्मणाश्विति द्वित- कारपाठोऽयमर्षः । आदिति वा निपातस्य प्रश्लेषः । स च सद्य इत्यस्यार्थे द्रष्टव्यः ॥ १३ ॥ तत्र लक्षणम् ॥ १४ ॥ सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्य- ग्विनीतानां वृद्धानामात्मवतामलोलुपानामदा- म्भिकानां वृत्तसादृश्यं भजेत एवमुभौ लोकावभिजयति ॥ १५ ॥ पूर्वेण गतम् ॥ १५ ॥ स्त्रीभ्यस्सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीया- दित्त्येक इत्येके ॥ १६ ॥ उक्तव्यतिरिक्ता ये धर्मास्ते धर्मशेषास्तान् स्त्र्यादीनामपि सकाशात् प्रतीयादित्येके मन्यन्ते । ते च प्रतिजनपदं प्रतिकुलं च भिन्नास्तथैव प्रति- पत्तव्याः । तत्र द्राविडाः कन्यामेषस्थे सवितर्यादित्यपूजामाचरन्ति भूमौ मण्डलमालिख्य, इत्यादीन्युदाहरणानि । द्विरुक्तिरध्यायपरिस- माप्त्यर्था ॥ १६ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकोनत्रिंशी कण्डिका ॥ २९ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ श्रीहरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने एकादशः पटलः ॥ ११ ॥ समाप्तो द्वितीयः प्रश्नः ॥ समाप्तमिदमुज्ज्वलोज्ज्वलितमापस्तम्बधर्मसूत्रम् ॥