आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
आर्यभटीये- ५९ पृथक् कल्पनां कियी जाती है । उसमें भूमध्य केन्द्र पर कक्षारूप मण्डल में म- ध्यमग्रह सदा अपनी मध्यमगति से चलता है। स्फुट ग्रह तो भूमध्य केन्द्र को अतिक्रम (नांघ कर) कर प्रति मण्डल वा वृत्ताभास में अपनी गति से भ्रमण करता है। अथवा अपनी गति से कक्षामण्डलगत मध्यमग्रह मध्यमगति से दृग्विषय में (देखने में) चलता है। ऐसी योजना है। जहां २ मन्दोच्च रहता है उस २ स्थान से अनुलोम (सीधी वा सम) गति से दिन २ केन्द्र भुक्ति से चलता है। और जहां २ शीघ्रोच्च ठहरता है। उस २ स्थान से प्रति- दिन स्व शीघ्र गत्यन्तर से तुल्य केन्द्र गति से प्रति लोम (विषम) गति से चलता है ॥ १७ ॥ कक्ष्यामण्डलतुल्यंस्वं-स्वं प्रतिमण्डलं भवत्येषाम् । प्रतिमण्डलस्य मध्यं घनभूमध्यादतिक्रान्तम् ॥ १८ ॥ कक्ष्यामण्डलं हि सर्वेषामाकाशकक्ष्यातस्स्वभगणैर्लब्धं स्यात् । प्रदर्शितञ्च तत् खयुगांशे ग्रहजव इति । (दशगीतिकायाम् ४) । स्वं-स्वं प्रतिमण्डलमपि स्वस्वकक्ष्यामण्डलतुल्यं भवति । कक्ष्यामण्डलस्य मध्यं घनभूमध्ये भवति । भू- मेरन्तर्गतो यो मध्यभागस्तत्रेत्यर्थः । प्रतिमण्डलस्य मध्यन्तु तस्माद्धनभूमध्या- दतिक्रान्तं भवति । घनभूमध्यादुच्चनीचवृत्तव्यासार्धतुल्यान्तरे । इत्यर्थः ।' तद्- ध्यति च। प्रतिमण्डल भूमध्ययोरन्तरालप्रमाणं मध्यस्फुटयोरन्तरालप्रमाणञ्चाह। भा०:-कक्षामण्डल सब ग्रहों का आकाशकक्षा से अपने २ भगणों द्वारा ज्ञात होता है। अपना २ प्रति मण्डल भी अपने २ कक्षामण्डल के तुल्य होता है। कक्षामण्डल के मध्य में घनभूत, मध्य में होता है अर्थात जहां भूमि के अन्तर्गत जो मध्य भाग हो वहां प्रतिमण्डल'का मध्यभाग तो घनभूमध्य से अति क्रान्त होता है। अर्थात् घनभूमध्य से उच्च नीच वृत्त व्यासार्द्ध तुल्य अन्तर पर होता है ॥ १८ ॥ प्रतिमण्डलभूविवरं व्यासार्धं स्वोच्चनीचवृत्तस्य । वृत्तपरिधौ ग्रहास्ते मध्यमचारं भ्रमन्त्येव ॥ १९ ॥ गीतिकासु यन्मन्दवृत्तमुक्तं तन्मन्दकर्मण्युच्चनीचवृत्तं स्यात् । तत्रोक्तं शीघ्र- वृत्तं शीघ्रकर्मण्युच्चनीचवृत्तं स्यात् । तस्य स्योच्चनीचवृत्तस्य व्यासार्धं प्रतिमण्ड- लभूमध्ययोरन्तरालमपि भवति । गीतिकोक्तवृत्तानि ज्याकर्णक्षेत्रसाधितानि । यतो भूमध्यं केन्द्रं कृत्वा त्रिज्याव्यासार्धेन कक्ष्यामण्डलमालिख्य तन्मध्यात्स्वो-
६० गीतिकापादः ॥ च्नीचवृत्तव्यासार्द्धान्तरे केन्द्रं कृत्वा त्रिज्यांतुल्यव्यासार्धेन वृत्तमालिखेत् । तत्प्र- तिमण्डलं भवति । प्रतिमण्डले व्योम्नि दृश्यमानस्साक्षाद्ग्रहश्चरति । कल्पितो मध्यमग्रहकक्ष्यामण्डले चरति । कक्ष्यामण्डले यत्र मध्यमग्रहोऽवतिष्ठते तत्र केन्द्रं कृत्वा स्ववृत्तव्यासार्धेन स्वोच्चनीचवृत्तमालिखेत् । तस्य परिधौ ग्रहा मध्य- मचारे भ्रमन्ति । मध्यमास्तस्मिन्वृत्ते मध्यमगत्या भ्रमन्ति चरन्ति । उच्चानि तस्मिन्स्वगत्या चरन्ति । इत्यर्थः । तस्मिन्वृत्त उच्चमध्यमयोरन्तरालभवा भुज- ज्यातत्प्रमाणा तत्प्रमाणा व्यासार्धमण्डले मध्यस्फुटयोरन्तरालभुजज्या भवति । क्षेत्रमानेनात्र तुल्यता नतु लिप्तादिसंख्यया । उच्चनीचवृत्ते मध्यमोच्चानां चारं प्रकल्प्य मध्यमोच्चयोरन्तरालभवभुजाज्यातुल्यं मध्यमस्फुटयोरन्तरालमिति प्र- कल्प्यम् । इत्यर्थः । गीतिकोक्तवृत्तानां (दशगीतिकायाम् ८ ।) कार्थापवर्त्ति- तत्वात्परिलेखनकर्मणि त्रिज्या कार्थापवर्तिता ग्राह्या स्यात्। तत्र भ्रमणप्रकारमाह। भा०:—गीतिकाओं में जो मन्दवृत्त कहा है वह मन्दकर्म में उच्च, नीच, वृत्त है । वहां का कहां शीघ्रवृत्त शीघ्रकर्म में उच्च, नीच, वृत्त में हो। उसके खोच्च नीच वृत्त का व्यासार्द्ध प्रतिमण्डल और भूमण्डल के बीच का भी होता है। गीतिकोक्त वृत्त सब ज्याकर्ण क्षेत्र साधित है। अतएव भूमध्य के केन्द्र करके त्रिज्याव्यासार्द्ध द्वारा कक्षामण्डल लिखकर उसके बीच से खोच्च नीच वृत्त व्यासार्द्धान्तर पर केन्द्र करके त्रिज्या तुल्य व्यासार्द्ध द्वारा वृत्त लिखे। वह प्रति मण्डल होगा। प्रतिमण्डल में आकाश में दृश्यमान साक्षात् ग्रह च- लता है। कल्पित मध्य ग्रह कक्षा मण्डल में चलता है। कक्षामण्डल में जहां मध्यमग्रह रहता है, वहां केन्द्र मानकर स्ववृत्त व्यासार्द्ध द्वारा खोच्च नीच वृत्त लिखे। उस के परिधि में मध्यमगति से ग्रह सब चलते दीखेंगे। और उच्च सब उसमें अपनी गति से चलते दीखपड़ेंगे ॥ १९ ॥ यश्शीघ्रगतिस्स्वोच्चात् प्रतिलोमगतिस्स्ववृत्तकक्ष्यायाम् अनुलोमगतिर्वृत्ते मन्दगतिर्यो ग्रहो भ्रमति ॥ २० ॥ यो ग्रहस्स्वोच्चाच्छीघ्रगतिर्भवति स्वस्वनीचोच्चवृत्ताख्यकक्ष्यायां प्रतिलोमग- तिर्भ्रमति । तत्र जाता गतिः प्रतिलोमेति कल्प्या । मध्यमादधोगतस्य स्फुट- स्य मध्यमस्य चान्तरं तत्र जाता गतिर्भुजेत्यर्थः । यो ग्रहस्स्वोच्चान्मन्दगतिर्भ- वति स स्ववृत्तेऽनुलोमं गच्छति । तस्मिन्वृत्ते जाता गतिर्भुजानुलोमेति कल्प्या। तत्र मध्यादुपरि स्फुटो भवतीत्यर्थः । अत्रोच्चादूर्ध्वगतर्राशषट्कस्थो ग्रहश्शी-
आर्यभटीये- ६१ ग्रगतिरित्युच्यते । अधोगतराशिषट्कस्थो मन्दगतिरिति च । इति द्रष्टव्यम् । मध्यमात्स्फुटस्य प्रतिलोमानुलोमगतित्वमुक्तम् । उच्चनीचवृत्तस्य भ्रमणप्रकारं तत्संख्यावस्थानञ्चाह । भा०:—जो ग्रह अपने उच्च से शीघ्रगतिवाला होता है, वह अपने २ नीचोच्च वृत्त नामक कक्षा में प्रतिलोमगति से भ्रमण करता है । उससे उत्पन्न गति प्रतिलोम करके कल्पना करनी चाहिये । मध्यम से नीचे का स्फुट और म- ध्यम के अन्तर से उत्पन्न गति ' भुजा , कहलाती है । जो ग्रह अपने उच्च से मन्दगति होता है-वह अपने वृत्त में अनुलोम चलता है । उस वृत्त में उत्पन्न गति का नाम ' भुजानुलोम , है । यहां मध्य से ऽ उपरिस्फुट होता है । यहां उच्च से ऊर्ध्वगति छः राशिस्थग्रह ' शीघ्रगति ' कहा जाता है । अधोगत छः राशिस्थ ग्रह ' मन्दगति , कहा जाता है । मध्यम से स्फुट का प्रतिलोम, अनु- लोम गति होना कहा गया ॥ २० ॥ अनुलोमगानि मन्दाच्छीघ्रात्प्रतिलोमगानि वृत्तानि । कक्ष्यामण्डललग्नस्स्ववृत्तमध्ये ग्रहो मध्यः ॥ २१ ॥ कक्ष्यामण्डले यत्र मध्यमग्रहस्तत्र केन्द्रं कृत्वा स्ववृत्तपरिलेखनं कार्यमि- त्यर्थः ॥ एवमुच्चवशात् स्फुटगतिः प्रतिदिनं भिन्ना । ततस्स्फुटगतिसिद्ध्यर्थं स्फुटकर्म क्रियते । तत्रैकोच्चयोस्सूर्येन्द्वोरेकमेव स्फुटकर्म । द्वयुच्चानां कुजादीना स्फुटकर्माणि द्वे भवतः।तत्र तेषां स्फुटकर्मद्वये कृतेऽपि कदाचिद्दृग्भेदस्सम्भवति । मन्द शीघ्रयोः कक्ष्यामण्डलभेदात् प्रतिमण्डलभेदाच्च संभवति। तद्द्दृग्भेदव्युदासार्थं मेवं क्रियते । कुजगुरुशनीनां प्रथमं मध्यान्मन्दफलमानीय तन्मध्यमे कृत्वा तस्माच्छीघ्रफलञ्चानीय तदर्धं तस्मिन्नेव कृत्वा तस्मान्मन्दफलं, सकलं केवलमध्ये कृत्वा तस्माच्छीघ्रफलञ्च सकलं तस्मिन्नेव क्रियते ।०सं स्फुटो ग्रहः । बुधशुक्रयो- स्तु प्रथमं मध्यमाच्छीघ्रफलमानीय तदर्धं मन्दोच्चे व्यस्तं कृत्वा तन्मन्दोच्चं म- ध्यमाद्विशोध्य मन्दफलमानीय तत्सकलं मध्यमे कृत्वा तस्माच्छीघ्रफलञ्च स- फलं तस्मिन्नेव क्रियते । स स्फुटस्स्यात् । इति । एतत्सर्वमार्यात्रयेण प्रदर्शयति । तत्र प्रथमं मन्दशीघ्रयोश्च साधनविभागमार्यार्धेनोक्त्वा सार्धेनार्याद्वयेन स्फुट- क्रमञ्चाह । भा०:--कक्षामण्डल में जहां मध्यग्रह रहता है वहां केन्द्र मानकर स्व- वृत्त लिखे । एवं उच्च वशतः स्फुटगतिः प्रतिदिन भिन्न २ होती है । उससे ० स्फुटगति के निश्चयार्थ स्फुट कर्म होता है । उसमें एक उच्च वाले सूर्य्य और
६२ गीतिकापादः ॥ चन्द्रमा का एक ही स्फुटकर्म्म होता है। और दो उच्च ( शीघ्रं मन्द ) वाले मङ्गल आदि के दो स्फुटकर्म्म होते हैं। उसमें उन के दो स्फुटकर्म्म करने पर भी कभी दृग्भेद सम्भव होता है। मन्द और शीघ्र के कक्षामण्डल भेद से एवं प्रतिमण्डल के भेद से सम्भव होता है। सो दृग्भेद के परित्याग (व्यु- दास) के लिये किया जाता है। मङ्गल, बृहस्पति, शनि, पहिले मध्य से मन्द फल लाकर उसको मध्यम करके और उस से शीघ्र लाकर उसका आधा उसी में करके उससे मन्दफल सब केवल मध्य में करके उससे शीघ्रफल सब उसी में आजाता है। वह स्फुटग्रह होता है। बुध और शुक्र का तो पहिले मध्यम से शीघ्र फल लाकर उसके आधे को मन्दोच्च में व्यस्त कर और उससे शीघ्र फल सब उसमें किया जाता है। वही स्फुट होता है ॥ २१ ॥ ऋणधनधनक्षयास्स्युर्मन्दोच्चाद्व्यत्ययेन शीघ्रोच्चात् । मन्दोच्चात् । मन्दोच्चहीनान्मध्यमादित्यर्थः । तस्मादुत्पन्ना जीवा पद- क्रमेण ऋणधनधनक्षयास्स्युः । व्यत्ययेन शीघ्रोच्चात् । मध्यमहीनाच्छीघ्रोच्चा- दुत्पन्ना जीवा व्यत्ययेन धनर्णार्णधनास्स्युरित्यर्थः । एतदुक्तं भवति । प्रथमपदे मन्दभुजायाः क्रमज्याफलमृणं भवति । द्वितीयपदे कोट्या उत्क्रमज्याफलम् । तृतीयपदगतसम्पूर्णभुजाफलसंस्कृते ऋणं भवति । शीघ्रे तु धनर्णव्यत्ययेन भवति । इति । मान्द्ये मेषादौ भुजाफलमृणं तुलादौ धनम्। शैघ्ये तूच्चान्मध्य- मस्य शोधन विधानान्मेषादौ धनं तुलादावृणमित्येवार्थः । भा०:—मध्यमहीन उत्पन्न जीवा पद क्रम से ऋण और धन मन्दोच्च से धन और ऋण होता है। मध्यम हीन शीघ्रोच्च से उत्पन्न जीवा विपरीत भाव से धन और ऋण, ऋण और धन होता है। इस का आशय यह है कि प्रथम पद में मन्दभुजा की क्रमज्याफल ऋण होता है। द्वितीय पद में कोटी द्वारा उत्क्रमज्या फल होता है। तृतीय पदगत सम्पूर्ण भुजफलसंस्कृत में ऋण होता है। शीघ्र में तो धन ऋण विपरीत भाव से होता है। मान्द्यकर्म में मेषादि में भुभाफल ऋण, तुलादि में धन होता है। शैघ्य में तो उच्च से मध्यम का शोधन विधान मेषादि में धन होता है, तुलादि में ऋण होता है ॥ शनिगुरुकुजेषु मन्दादर्धमृणधनं भवति पूर्वे ॥ २२ ॥ मन्दोच्चाच्छीघ्रोच्चादर्धमृणधनं ग्रहेषु मन्देषु ! मन्दोच्चात्स्फुटमध्याश्शीघ्रोच्चाच्च स्फुटा ज्ञेयाः ॥२३॥
आर्यभटीये- ६३ शनिगुरुकुजेषु मन्दोच्चात् सिद्धान्मन्दान्मन्दभुजाफलार्धं मेषादावृणं तुलादौ धनञ्च भवति । पूर्वं स्फुटकर्माङ्गेयमित्यर्थः । मन्दोच्चहीनान्मध्यमात्सिद्धान्मन्द- फलार्धं मध्यम ऋणं धनं वा यथाविधि कार्यमित्युक्तं भवति ॥ शीघ्रोच्चार्ध- स्रणधनं ग्रहेषु मन्देषु। शीघ्रोच्चान्मन्दफलार्धसंस्कृतमध्यहीनादुत्पन्नशीघ्रभुजा- फलार्धमृणं धनं वा यथाविधि मन्देषु ग्रहेषु मन्दफलार्धसंस्कृतेषु शनिगुरुकुजा- नां मध्यमेषु कुर्यात् । मन्दोच्चात्स्फुटमध्याः । मन्दोच्चात् मन्दोच्चसिद्धमन्दफ- लसंस्कारादित्यर्थः । मन्दफलार्धशीघ्रफलार्थाभ्यां संस्कृतान्मध्यमान्मन्दोच्चं वि- शोध्य तस्मादुत्पन्नेन मन्दफलेन कृत्स्नेन संस्कृतः केवलमध्यः स्फुटमध्यमाख्यो भवति । एवं शनिगुरुकुजानां स्फुटमध्या भवन्ति । शीघ्रोच्चाच्च स्फुटा ज्ञेयाः । शीघ्रोच्चात्स्फुटमध्यमहीनादुत्पन्नेन शीघ्रफलेन कृत्स्नेने संस्कृतस्स्फुटमध्यस्स्फु- टग्रहो भवति । एवं शनिगुरुकुजानां स्फुटा ज्ञेयाः ॥ भा०:-शनि, गुरु, मङ्गल में 'मन्दोच्च से सिद्ध मन्द से मन्दभुजाफलार्द्ध मेषादि में ऋण और तुलादि में धन होता है'। पूर्व ही स्फुटकर्म में मध्यम से मन्दफल से आधा मध्यम ऋण या धन यथाविधि करना चाहिये । आशय यह है कि शीघ्रोच्च से अर्द्ध ऋण, धन ग्रहों में मन्द में शीघ्रोच्च से मन्द फलार्द्ध संस्कृत मध्य हीन से उत्पन्न शीघ्र भुजाफल अर्द्ध ऋण या धन यथाविधि मन्द ग्रहों में मन्दफलार्द्ध संस्कृत में शनि, गुरु, मङ्गल के मध्य करना चाहिये । म- न्दोच्च सिद्ध मन्दफल संस्कारादि । मन्दफलार्द्ध शीघ्रफलार्द्ध द्वारा संस्कृत मध्य से मन्दोच्च को घटा कर उस से उत्पन्न कृत्स्न मन्दफल द्वारा संस्कृत केवल मध्य स्फुट मध्य नामक होता है। एवं शनि, गुरु, मङ्गल, का स्फुट मध्य होता है । शीघ्रोच्च से स्फुट मध्य घटाकर, जो उत्पन्न सम्पूर्ण शीघ्रफल, उसके द्वारा संस्कृत स्फुट ग्रहं होता है ॥ २२ । २३ ॥ शीघ्रोच्चादर्धोने कर्तव्यमृणंधनंस्वमन्दोच्चे । स्फुटमध्यौ तु भृगुबुधौ सिद्धान्मन्दात्स्फुटौ भवतः ॥२४॥ भृगुबुधयोस्तु शीघ्रोच्चान्मध्यमहीनादुत्पन्नं शीघ्रफलमर्थोनं स्वमन्दोच्चे मेषादावृणं तुलादौ धनञ्च कार्यम् । शीघ्रविधिव्यत्ययेनेत्यर्थः । स्फुटमध्यौ तु भृगुबुधौ 'सिद्धान्मन्दात् । एवं सिद्धान्मन्दान्मन्दोच्चाद्यन्मन्दफलं तेन सकलेन संस्कृतौ भृगुबुधमध्यमौ स्फुटमध्याख्यौ , भवतः । शीघ्रफलार्धसंस्कृतं मन्दोच्चं म- ध्यमाद्विशोध्य तस्मादुत्पन्नमन्दफलेन सकलेन संस्कृतो मध्यस्फुटो भवति । फ-
६४ गीतिकापादः ॥
लानयनप्रकारस्तु । मन्दकेन्द्रभुजाज्यां मन्दस्फुटवृत्तेन निहत्याशीत्या विभज्य लब्धस्य चापं मन्दफलं भवति । तथा शीघ्रकेन्द्रभुजज्यां शीघ्रस्फुटवृत्तेन निह- त्याशीत्या विभज्य लब्धं व्यासार्धेन निहत्य. शीघ्रकर्णेन विभज्य लब्धस्य चा- शीघ्रफलं भवति । कर्णास्तु तत्तत्केन्द्रादुत्पन्नभुजज्यां, कोटिज्याश्च स्ववृत्तेन निह- त्याशीत्या विभजेत् । तत्र लब्धे भुजाकोटिफले भवतः । कोटिफलं मृगादौ व्या- सार्धे निक्षिप्य कर्कादौ कोटिफलं व्यासार्थाद्विशोध्य वर्गीकृत्य तस्मिन् भुजाफ- लवर्गं प्रक्षिप्य मूलीकुर्यात्। सकर्णो भवति । एवं सकृत्कृत एव शीघ्रकर्णस्स्फुटस्स्या- त् । मन्दकर्णस्तु विशेषितस्स्फुटो भवति । तत्प्रकारस्तु । प्रथमसिद्धं कर्णं भुजा- कोटिफलाभ्यां निहत्य व्यासार्धेन विभजेत् तत्र लब्धे भुजाकोटिफले कर्णसिद्धे भवतः । पुनस्ताभ्यां व्यासार्धेन पूर्ववत् कर्णमानयेत् । तमपि कर्णं प्रथममशीत्या लब्धाभ्यां भुजाकोटिफलाभ्यामेव निहत्य व्यासार्धेन विभज्य भुजाफलं कोटि- फलञ्चानीय ताभ्यां कर्णं साधयेत् । एवं तावत्कुर्यात् यावदविशेषकर्णलब्धिः । अविशिष्टो मन्दकर्णस्स्फुटो भवति । वृत्तकर्म तु । भुजायामोजयुग्मपदवृत्तयो- रन्तरेण निहत्य व्यासार्धेन विभज्य लब्धमोजपदवृत्ते धनमृणं कुर्यात् । ओजवृ- त्तेऽन्यस्मान्नयूने धनम्। अधिके ऋणम् । तत् स्फुटवृत्तं भवति । एतत्सर्वं कक्ष्या- प्रतिमण्डलगा इत्यादिभिः प्रदर्शितमेवेति भावः ॥ “स्फुटविधियुक्तिस्सिद्धयेन्नैव विना छेद्यकेन विहगानाम् । तस्मादिह संक्षेपाच्छेद्यककर्म प्रदर्श्यते तेषाम् ॥ त्रिज्याकृतं कुमध्यं कक्ष्यावृत्तं भवेत्तु तच्छैघ्रम् । शीघ्रदिशि तस्य केन्द्रं शीघ्रान्त्यफलान्तरे पुनः केन्द्रम् ॥ कृत्वा विलिखेद्द्वृत्तं शीघ्रप्रतिमण्डलाख्यमुदितमिदम् । इदमेव भवेन्मान्दे कक्ष्यावृत्तं पुनस्तु तत्केन्द्रात् ॥ केन्द्रं कृत्वा मन्दान्त्यफलान्तरे वृत्तमपिच मन्ददिशि । कुर्यात्प्रतिमण्डलमिदमुदितं मान्दं शनीड्यभू पुत्राः । मान्दप्रतिमण्डलगास्तत्कक्ष्यायां तु यत्र लक्ष्यन्ते । तत्र हि तेषां मन्दस्फुटाः प्रदिष्टास्तथैव शैघ्रे तें । प्रतिमण्डले स्थितास्स्युस्ते लक्ष्यन्ते पुनस्तु शैघ्राख्ये । कक्ष्यावृत्ते यस्मिन् भागे तत्र स्फुटग्रहास्ते स्युः ॥ एवं सिध्यति तत्र स्फुट युग्मं तन्न भवति दृग्भेदः । यत्र खगा लक्ष्यन्ते तत्तस्या लक्षिता यतोऽन्यस्मिन् ॥”
-आर्यभटीये- ६५ क्रियंतेऽत्र तन्निमित्तं मध्ये मान्दार्थमपिच शैघ्रार्धम् । शैघ्रं मान्दं मान्दं शैघ्रम्वेति क्रमस्स्मृतोऽन्यत्र ॥ मान्दं कदयावृत्तं प्रथमं बुधशुक्रयोः कुमध्यं स्यात् । तत्केन्द्रान्मन्ददिशि मन्दान्त्यफलान्तरे तु मध्यं स्यात् ॥ मान्दप्रतिमण्डलस्य तस्मिन्न्यत्र स्थितो रविस्तत्र । प्रतिमण्डलस्य मध्यं शैघ्रस्य तस्य मानमपिच गदितम् ॥ शीघ्रस्ववृत्ततुल्यं तस्मिंश्चरतस्सदा ज्ञशुक्रौ च । स्फुटयुक्तिः प्राग्वत्स्याद्दूरभेदः पूर्ववद्भवैदिह च ॥ क्रियतेऽत्र तन्निमित्तं शैघ्रार्धं व्यत्ययेन सग्दीरुचे । तत्सिद्धं मान्दं प्राक् पश्चाच्छैघ्रञ्च सूरिभिः पूर्वैः ॥ . इति ॥ भूताराग्रहविवरानयनायाह । भा०:---शुक्र और बुध का तो मध्यम हीन शुक्नोच्च से उत्पन्न शीघ्रफल अर्द्धोन को स्वमन्दोच्च मेषादि में ऋण और तुलादि में धन करना चाहिये अर्थात् शीघ्रोच्च के नियम के उलटा इस प्रकार सिद्ध मन्दोच्च से जो मन्दफल उन सब के साथ संस्कृतशुक्र और बुध ( मध्यम ) स्फुट मध्य होते हैं । शीघ्र फलार्द्ध संस्कृत मन्दोच्च को मध्यम घटाकर उससे उत्पन्न मन्दफल सब के साथ संस्कृतमध्य स्फुट होता है। फलानयन प्रकार तो मन्दकेन्द्र भुजा की ज्या को मन्दस्फुट वृत्त के साथ गुणनकर ८० से भाग देवे, भागफल चापीय मन्दफल होगा। उसी प्रकार शीघ्रकेन्द्र भुजज्या को शीघ्रस्फुट वृत्त के साथ गुणनकर, गुणनफल में ८० का भाग देवे, भागफल शीघ्रफल होगा। कर्ण तो उस २ केन्द्र से उत्पन्न भुजज्या को एवं कोटीज्या को स्ववृत्त से गुणनकर ८० का भाग देवे भागलब्ध भुजाफल और कोटीफल होंगे । कोटीफल को सिंह ( राशि ) आदि में व्यासार्द्ध में मिलाकर, कर्कट ( राशि ) आदि में कोटीफल को व्यासार्द्ध से घटाकर, वर्गकर उसमें भुजावर्गफल को मिलाकर मूल करे तो कर्ण होगा। एवं एक बार करने ही से शीघ्रकर्ण स्फुट होता है। मन्दकर्ण तो विशेषित स्फुट होता है । उस प्रकार प्रथम सिद्धकर्ण को भुजा कोटी द्वारा गुणन कर व्यासार्द्ध में भाग देवे, भागफल भुजाफल, कोटीफल कर्ण सिद्ध होते हैं । पुनः उन दोनों से व्यासार्द्ध से पूर्ववत् कर्ण लावे। उस कर्ण को भी ८० द्वारा भाग देने पर लब्धि भुजाफल और कोटीफल ९ से गुणन कर व्यासार्द्ध से भाग देकर भुजाफल और कोटीफल को लाकर उनसे वर्ग मूल ९
६६ गीतिकापादः ॥ धन करे । यह क्रिया उस समय तक करे जब तक अविशेष कर्ण लब्ध न हो अवशिष्ट मन्दकर्ण स्फुट होगा। वृत्तकर्म तो भुजज्या को ओजपद औ युग्मपद के वृत्त के अन्तर से गुणन कर व्यासार्द्ध से भाग देवे, भागफल ओज पद वृत्त में धन को ऋण करे । ओजपद वृत्त में धन को ऋण करे । औ ओजवृत्त में अन्य से न्यून द्वारा धन और अधिक में ऋण । वह स्फुट वृत्त होता है ॥ २४ ॥ भूताराग्रहविवरं व्यासार्धहृतस्स्वकर्णसंवर्गः । कक्ष्यायां ग्रहवेगो यो भवति स मन्दनीचोच्चे ॥२५॥ अन्त्योपान्त्यस्फुटकर्मसिद्धयोश्शीघ्रकर्णमन्दकर्णयोस्संवर्गो व्यासार्धहृतो भूताराग्रहविवरं भवति । भूमेस्ताराग्रहणाञ्चान्तरालं कलात्मकमित्युक्तं भवति । ताराग्रहाणां विक्षेपानयने भूताराग्रहविवरं भागहारो भवति । तत्र स्वपातो- नभुजज्यां स्वपरमविक्षिप्त्या निहत्य स्वेन भूताराग्रहविवरेण विभजेत् । तत्र लब्धं स्वविक्षेपो भवति । तत्रास्य विनियोगः कक्ष्यायामिति । अत्र प्रकाशि- काकारः । भूताराग्रहविवरव्यासार्धविरचितायां कक्ष्यायां यो ग्रहस्य जवस्सम- न्दनीचोच्चे भवति । तावत्प्रमाणायां कक्ष्यायां ग्रहो मन्दस्फुटगत्या गच्छती- त्यर्थः । इत्याह । अस्मान् किन्त्वेतन्नोपपन्नमिति प्रतिभाति । अथवा योजना । कक्ष्यावृत्ते स्फुटग्रहस्य मध्यादधि भवति । एवं शीघ्रेऽपीति । अथवा कक्ष्यायां गच्छतो ग्रहस्य प्रतिमण्डलतो बहिरन्तर्वा यावती परमा गतिस्तावत्प्रमाणव्या- सार्धं मन्दनीचोच्चवृत्तं भवति । एवं शीघ्रेऽपीति ॥ भा०:—तारा और ग्रहों के विक्षेप लाने में भूतारा ग्रह विवर भाग हार होता है । उसमें अपने पात से ऊन भुजज्या को स्वपरम विक्षिप्ति से अन्तर गुणन कर अपने भूतारा ग्रह से भाग देवे भागफल स्वविक्षेप होता है । कक्षा वृत्त में स्फुट ग्रह का मध्य से होता है । एवं शीघ्र में भी अथवा कक्षा में चले ग्रह का प्रति मण्डल से बाहर या भीतर जितनी परमागति होती है उतने परिमाण व्यासार्द्ध मन्दनीचोच्च वृत्त होता है । इसी प्रकार शीघ्र में भी जानना ॥ २५ ॥ इति पारमेश्वरिकायां भटदीपिकायां कालक्रियापादस्तृतीयः । ───::0::───
आर्यभटीये- ६१ अथ गोलपाद आरभ्यते । तत्रापमण्डलसंस्थानमाह । मेषादेः कन्यान्तं सममुदगपमण्डलार्धमपयातम् । तौल्यादेर्मीनान्तं शेषार्धं दक्षिणेनैव ॥१॥ · मेषादिकन्यान्तै राशिभिरुपलक्षितमपमण्डलस्यार्धमुदगपयातम् । तौल्या- दिमीनान्तै राशिभिरुपलक्षितं शेषार्धं दक्षिणेनापयातम् । सममपयातम् । ए- तदुक्तं भवति । मेषादेः क्रमेण कन्यादेरुत्क्रमेण च सममपयाति । मेषसमं कन्या या अपयानम् । वृषसमं सिंहस्य । इत्यादि । अपयानं हि मण्डलस्य क्रमेण भ- वंति । तथा तुलासमं मीनस्यापयानम् । वृश्चिकसमं कुम्भस्य । इत्यादि । मेषादेः कन्यान्ताच्च त्रिराश्यन्तरे परमापयानं भवति । चतुर्विंशतिभागाः परमापयानम् । भापक्रमो ग्रहांशा इति गीतिकासूक्तं तत् ( श्लो० ३ । ) . अत्र मेषादिकन्यान्त- शब्दौ पूर्वस्वस्तिकापरस्वस्तिकयोगेतराविभागयोर्वाचकौ । अतो यदा धनात्मक। अयनसंस्कारभागाः पञ्चदश भवन्ति' तदा मीनमध्यं पूर्वस्वस्तिकगतं कन्यामध्य- मपरस्वस्तिकगतम् । तदा मीनमध्यात् कन्यामध्यान्तमर्धमुदगपयातं शेषमर्धं दक्षिणतोऽपयातम् । यदा ऋणात्मकाः पञ्चदशभागा अयनाख्यास्स्युस्तदा मेष- मध्यं पूर्वस्वस्तिकगतं तुलामध्यमपरस्वस्तिकगतम् । तदा मेषमध्यात्तुलामध्या- न्तमर्धमुदगपयातं शेषमर्धं दक्षिणतोऽपयातम् । इति वेद्यम् । अतएव मेषादितः प्रवृत्तेष्वपक्रममानयनायनसंस्कारः क्रियते ॥ अथापक्रममण्डलधारिण आह । भा०;-मेष राशि से कन्या तक अर्थात् मेष, वृष, मिथुन, कर्कट, सिंह, कन्या, अपमण्डल का आधा भाग उत्तर की ओर ढलता है । और तुला से मीन राशि तक अर्थात् तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन तक अपमण्डल दक्षिण की ओर चलता है । सम अपयान का अर्थ यह है कि मेष राशि के तुल्य कन्या का अपयान, ( चलना ) वृष के तुल्य सिंह का, मिथुन के तुल्य । मेष राशि से कन्या राशि पर्य्यन्त तीन ३ राशि अन्तर पर परमापयान होता है । चौबीस २४ भाग परमापयान होता है । यहां मेष, वृष, मिथुन, कर्कट, सिंह, कन्या, इन छः राशियों को अर्थात् राशि चक्र के आधे भाग को "पूर्वस्व- स्तिक " कहते हैं । और तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन, इन छः रा- शियों को अर्थात् राशिचक्र के अपरार्द्ध को "अपरस्वस्तिक" कहते हैं । इस लिये जब धनात्मक अयन संस्कार १५ भाग होता है तो मीन मध्य 'पूर्वस्व- स्तिक, गत और कन्या मध्य अपरस्वस्तिगत होता है । तब मीन मध्य से कन्या मध्यांन्तर्गत आधा मण्डल उत्तर को चलता है और शेषार्द्ध दक्षिण को चलता है । जब ऋणात्मक १५ भाग अयन नाम होता है । तब मेष मध्य पूर्व
६८ गीतिकापादः ॥ स्वस्तिकगत एवं तुल्य मध्य अपरस्वस्तिकगत होता है। तब मेष के मध्य से तुला मध्यान्त-आधा उत्तर अपयान होता है और शेषार्द्ध दक्षिण से अप- यान होता है । इसलिये मेष की आदि से अपक्रम लाने का संस्कार होता है ॥ १ ॥ ताराग्रहेन्दुपाता भ्रमन्त्यजस्रमपमण्डलेऽर्कश्च । अर्काच्च मण्डलार्धे भ्रमति हि तस्मिन् क्षितिच्छाया ॥ २॥ ताराग्रहाणां पाताश्चेन्दुपातश्चार्कश्च सदापमण्डले भ्रमन्ति। अर्काच्चमण्डलार्धे ऽपमण्डले भूच्छाया सदा भ्रमति। शशिकुजादयश्च स्वे-स्वे विक्षेपमण्डले चरन्ति॥ विक्षेपमण्डलस्य संस्थानमाह । भा०:-तारा, ग्रह, चन्द्रमा, इनके पात और सूर्य सदा अपमण्डल में भ्रमण करते हैं। सूर्य से मण्डल के आधे अपमण्डल में भूच्छाया सदा भ्रमण करती है। चन्द्रमा, मङ्गल आदि अपने २ विक्षेपमण्डल में चलते हैं ॥ २ ॥ अपमण्डलस्य चन्द्रः पाताद्यात्युत्तरेण दक्षिणतः । गुरुकुजकोणाश्चैवं शीघ्रोच्चेनापि बुधशुक्रौ ॥ ३ ॥ स्फुटचन्द्रो यदापमण्डलस्थपातसमो भवति तदा चन्द्रोऽपमण्डले चरति । ततः क्रमेणोत्तरेण याति । पातात्त्रिराश्यन्तरे परमविक्षेपसममुद्गमनम् । पा- तात् षड्राश्यन्तरे स्थितश्चन्द्रोऽपण्डले चरति । तत्र हि द्वितीयपातस्य स्थिति- रुक्ता । तस्माद्द्वितीयपातात् क्रमेण दक्षिणतो याति । तत्रापि पातात्त्रिराश्य- न्तरे परमविक्षेपसमं दक्षिणायनम् । एवं चन्द्राधारस्य विक्षेपमण्डलस्य संस्थान मुदितम् । परमविक्षेपस्तु कार्धमित्युक्तं (दशगीतिकायाम् ८।) सार्धाश्चत्वारोंऽशा इत्यर्थः ॥ गुरुकुजकोणाश्चैवम् । यथा मन्दस्फुटसिद्धश्चन्द्रस्स्वपातसमोऽपमण्डले च- रति तथा गुरुकुजकोणाश्च स्वमन्दस्फुटे पातसमेऽपमण्डले चरन्ति । ततः क्रमे- णोत्तरेण यान्ति । पातात्त्रिराश्यन्तरे मन्दस्फुटे परमविक्षेपसममुद्गमनम् । पा तात् षड्राश्यन्तरे मन्दस्फुटेऽपमण्डले चरन्ति । ततः क्रमेण दक्षिणतो यान्ति । तत्रापि त्रिराश्यन्तरे परमविक्षेपसमं दक्षिणगमनम् । एवं गुरुकुजमन्दानामा- धारभूतस्य विक्षेपमण्डलस्य संस्थानम् । शीघ्रोच्चेनापि बुधशुक्रौ । स्वशीघ्रोच्चे- नाप्यपमण्डलादुदग्दक्षिणतश्च चरतो बुधशुक्रौ । अपिशब्दान्मन्दस्फुटवशाच्च । एतदुक्तं भवति । बुधशुक्रयोस्स्वमन्दफलं स्वशीघ्रोच्चे व्यस्तं कृत्वा, तस्मात्स्वपातं विशोध्य विक्षेपस्साध्य इति । अतो मन्दफलसंस्कृते शीघ्रोच्चे स्वपातसमेऽपम- ण्डले चरतः । ततः क्रमेणोद्गयातः । पातात्त्रिराश्यन्तरे शीघ्रोच्चे परमविक्षेपस-
आर्यभटीये- ६९ तमुद्ग्गमनं षड्राश्यन्तरेऽपमण्डले चरतः। तस्मात् क्रमेण दक्षिणतश्चरतः। तत्रा- पे त्रिराश्यन्तरे परमविक्षेपसमं दक्षिणगमनम्। इति। एवं सर्वेषां विक्षेपम- ण्डलम् अपमण्डले स्वपातद्वयभागयोर्बद्धताभ्यां त्रिराश्यन्तरे उदग्दक्षिणतश्चापमण्ड- लात्परमविक्षेपान्तसितं भवति। परमविक्षेपस्तु शनिगुरुकुज खकगार्धं भृगुबुध ष इत्युक्तम्। (दशगीतिकायाम् ६।) केचिदाचार्या गुरुकुजशनीनां शीघ्रोच्चफलं स्वपातेऽपि ग्रहवत् कृत्वा तथाकृतं स्वपातं स्फुटग्रहाद्विशोध्य विक्षेपानयनं कुर्वन्ति बुधशुक्रयोस्तु स्वमन्दफलं स्वपाते कृत्वा तं पातं शीघ्रोच्चाद्विशोध्य विक्षेपं कुर्वन्ति। तथाच लल्लाचार्यः। "क्षितिसुतगुरुसूर्यसूनुपाताः स्वचलफलेन युता ग्रथा तथैव। शशिसुतसितयोः स्वपातभागाः स्वमृदुफलेन च संस्कृताः स्फुटाः स्युः॥" इति। अस्मिन् पक्षे कुजगुरुशनीनां स्फुटग्रहात्पातो नम्रं। इन्द्रादीनामर्क- क्षेपप्रकर्षसन्निकर्षकृतोदयास्तमयस्य परिज्ञानमाह। भा०:—स्फुट चन्द्रमा जब अपमण्डलस्थ पात सम होता है। तब क्रम से उत्तर ओर होकर जाता है। पात से तीन राशि के अन्तर पर परमविक्षेप सम-उत्तर गमन करता है। पात से ६ राशि के अन्तर पर स्थित चन्द्रमा अप- मण्डल में चलता है। उसी स्थान में दूसरे पात का सम्भव होता है। इस लिये उसकी स्थिति कही गयी। उस दूसरे पात से क्रमशः दक्षिण करके जाता है। वहां भी पात से तीन राशि के अन्तर पर परमविक्षेप सम दक्षिणायन होता है। एवं चन्द्राधार विक्षेपमण्डल का संस्थान कहा है। और परम विक्षेप ४ अंश ३० कला है (पा० ३। गी० ८) जिन राशियों का सम अप- यान होता उनकी निम्न लिखित चक्र द्वारा दिखलाया जाता है:— समअपयानचक्र ॥ ० जिन दो राशियों में सम अपयान होता। जिन दो राशियों में सम अपयान होता। राशि के | तुल्य || राशि के | तुल्य मेष | कन्या || तुला | मीन वृष | सिंह || वृश्चिक | कुम्भ मिथुन | कर्कट || धनु | मकर कर्कट | मिथुन || मकर | धनु सिंह | वृष || कुम्भ | वृश्चिक कन्या | मेष || मीन | तुला यह चक्र इसी पाद के दूसरी गी० के आशय से बना है।
४. गोल पाद (खगोल मण्डल, ग्रहण व उपसंहार)
७० गीतिकापादः ॥ भा०:—जिस प्रकार मन्दस्फुट चन्द्रमा स्वपात सम अपमण्डल में चलत है उसी प्रकार गुरु, कुज, और कोण स्वमन्दस्फुट पात सम अपमण्डल मे चलते हैं। तब क्रमशः उत्तर होकर जाता है। पात से तीन राशि के अन्तर पर मन्दस्फुट में परमविक्षेपसम उत्तर गमन करता है। पात से ६ राशि के अन्तर पर मन्दस्फुट अपमण्डल में चलते हैं। तब क्रम से दक्षिण से जाते हैं। वहां भी तीन राशि के अन्तर पर परम विक्षेप सम दक्षिण को जाता है। एवं गुरु, कुज, मन्द के आविर्भूत विक्षेपमण्डल का संस्थान है बुध और शुक्र के स्वमन्दफल को अपने शीघ्रोच्च में व्यस्त (उलटा) करके उससे अपने पात को घटाकर विक्षेप साधे। इसलिये मन्दफल संस्कृत शीघ्रोच्च स्वपात सम अपमण्डल में चलते हैं; तब क्रम से उत्तर जाते हुए पात से तीन राशि के अन्तर पर शीघ्रोच्च में परम विक्षेपसम उत्तर गमन छः राशि अन्तर पर अपमण्डल में चलने से। तब क्रम से दक्षिण जाते हुए वहां भी राशि के अ- न्तर पर परमविक्षेप सम दक्षिण गमन करतां है। इसीप्रकार सब का वि- क्षेपमण्डल अपमण्डल में स्वपात के दोनों भाग में बन्धा उन दोनों से तीन राशि के अन्तर पर उत्तर दक्षिण करके अपमण्डल से परम विक्षेपान्तमित होता है ॥ ३ ॥ चन्द्रोऽशैर्द्वादशभिर्विक्षिप्तोऽर्कात्तरस्थितैर्दृश्यः । नवभिर्भृगुर्भृगोस्तैर्द्वयधिकैर्द्वयधिकैर्यथाश्लक्ष्णाः ॥४॥ अविक्षिप्तो मृगाङ्कस्स्वार्कान्तरस्थितैर्द्वादशभिरंशैर्दृश्यः । (नवभिर्भृगुः । न वभिः कालांशैर्भृगुर्दृश्यः )। नवभिर्विनाडिकाभिरित्यर्थः । भृगोस्तैस्तैर्द्वयधि कैर्गुरुर्दृश्यः । एकादशभिः कालभागैरित्यर्थः । तैर्द्वयधिकैर्बुधो दृश्यः । त्रयोद शभिः कालभागैरित्यर्थः । तैर्द्वयधिकैश्शनिर्दृश्यः । पञ्चदशभिः कालभागैरि- र्थः । तैर्द्वयधिकैः कुजोदृश्यः सप्तदशभिः कालभागैरित्यर्थः । यथाश्लक्ष्णाः । थासूक्ष्मा इत्यर्थः । शुक्राद्गुरुस्सूक्ष्मः । ततो बुधः । ततो मन्दः । ततः कुजः । * गुरुबुधशनिभौमाशशिशिङअपानमांश्का इति (दशगीतिकायाम् ५ ।) ह्यदशात्र श्लोक्तः । विक्षिप्ते ग्रहे तु दर्शनसंस्कारयुतग्रहसूर्ययोरन्तरालग तैरंशैर्यथोक्तसं र्दृश्यो भवति । स्वतोप्रकाशस्य भूम्यादेः प्रकाशहेतुमाह । भा०:—सूर्य्य से १२ अंश दूर पर चन्द्रमा दृश्य होता है, ९ नौ काल अर्थात् विनाडिका से शुक्र दृश्य होता है, गुरु ११ कालांश, बुध १३ काल
आर्यभटीये- ७१ शनि १५ कालांश, मङ्गल १७ कालांश पर दृश्य होते हैं। जो २ ग्रह जैसे २ सूक्ष्म होते हैं। वह २ ग्रह वैसे २ अधिक कालांश पर दीख पड़ते हैं। शुक्र से गुरु सूक्ष्म, पुनः बुध, तब शनैश्चर, फिर मङ्गल है ॥ ४ ॥ · भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि। अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥५॥ भूमेश्चन्द्रादीनां ग्रहाणां भानामश्विन्यादितारकाणामितरतारकाणाञ्च गो- लार्धानि सर्वतोवृत्तानां स्वशरीराणामर्धानि स्वच्छायया विवर्णानि स्वभावसि- द्धेन रूपेण विवर्णानि । अप्रकाशात्मकानि । अथवा स्वच्छायया स्वशरीरेणार्क- करव्यवधानादुत्पन्ना या छाया तमोरूपा तया विवर्णानीति। सूर्याभिमुखा- न्यन्यान्त्यर्धानि यथासारं दीप्यन्ते । अल्पशरीरा अल्परूपा दीप्यन्ते महाश- रीरा महारूपा दीप्यन्ते इत्यर्थः । चन्द्रस्य चार्धं सदा प्रकाशवद्भवति । अमावास्यायां चन्द्रस्योध्वार्धं प्रकाशवद्भवति । तस्मादस्माभिस्तदर्धमदृश्यं भवति । प्रतिपदादिषु क्रमेण सितभागोऽधो लभ्यते । पूर्णायमधोऽर्धं सर्वं सितं भवति । तस्मादस्माभिर्दृश्यमर्धं सितं भवति । बुधशुक्रावर्कादधस्स्था- वपि तयोस्सूर्यस्यच्या सूर्यबिम्बस्य महत्त्वाच्च सदा सितमेव तयोर्बिम्बं भवति । कक्ष्यासंस्थान भूस्थानञ्चाह । भा०:-पृथिवी, चन्द्रमा, एवं अन्यान्य ग्रह, अश्विनी आदि तारागण के गो लार्ड् अर्थात् आधा भाग-अपने शरीर का आधा भाग अपनी छाया से (सूर्य्य के प्रकाश के कारण) अप्रकाशात्मक होता है। और शेषार्द्ध इनके सूर्य्य के सम्मुख होने से प्रकाशित होते हैं। अल्प शरीर वाले अल्प रूप से, बड़े शरीर वाले बड़े रूप से प्रकाशित होते हैं। चन्द्रमा का आधा भाग सदा प्रकाशवान् होता है ॥ ५ ॥ वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः । मृज्जलशिखिवायुमयो भूगोलस्सर्वतोवृत्तः ॥६॥ भपञ्जरो नक्षत्रकक्ष्यां । वृत्ताकारनक्षत्रकक्ष्याया मध्ये भूर्भवति । कक्ष्यापरिवे- ष्टितः । चन्द्रादीनां ग्रहाणां कक्ष्यामध्यगत इत्यर्थः । खमध्यगतः । ब्रह्माण्डक- टाहावच्छिन्नास्याकाशस्य मध्यगतः । मृज्जलशिखिवाय्वात्मकः सर्वतोवृत्तश्च भू- गोलो भूमिर्भवति । भानामध इत्यादि सिद्धस्य भूस्थानस्य पुनर्वचनं प्राणि- चारप्रदर्शनशेषतया एवंभूतायां भुवि सर्वत्र प्राणिनस्संचरन्तीतिप्रदर्शनार्थं तत्प्रा- ण संचारं प्रदर्शयति ॥
७२ गीतिकापादः ॥ भा०:-वृत्ताकार नक्षत्र कक्षा में पृथिवी है, चन्द्रमा, सूर्य्य आदि ग्रहकक्षा से परिवेष्टित आकाश के बीच जिस प्रकार दो कटाह के सम्पुट की नाईं अवस्थित है । मृतिका, जल, वायु, अग्निमय सब ओर से घिरा हुआ भूगोल अवस्थित है ॥ ६ ॥ यद्वत् कदम्बपुष्पग्रन्थिः प्रचितस्समन्ततः कुसुमैः । तद्वद्धि सर्वसत्त्वैर्जलजैस्स्थलैश्च भूगोलः ॥७॥ यथा कदम्बाख्यवृक्षस्य कुसुमग्रन्थिसमन्ततः सर्वत ऊर्ध्वभागे पार्श्वेषु कुसुमैः प्रचितः । तथा वृत्ताकारो भूगोलश्च जलजैस्सर्वसत्त्वैः स्थलजैस्सर्वसत्त्वैः सर्वतः प्रचितः । भूमौ सर्वत्र स्थावरजङ्गमा नदीतटाकादयश्च भवन्तीत्यर्थः कल्पेन संभूतं भूमेर्वृद्ध्यु पचयमाह । भा०:-यह भूगोल कदम्ब के फूल के केशर के फैलावसा सब ओर पर्वत आराम, ग्राम, नदी आदि से घिरा हुआ है ॥ ७ ॥ ब्रम्हदिवसेन भूमेरुपरिष्टाद्योजनं भवति वृद्धिः। दिनतुल्ययैव रात्र्या मृदुपचितायास्तदिह हानिः ॥८॥ ब्रह्मदिवसेन भूमेरुपरिष्टाद्योजनं वृद्धिर्भवति । समन्ताद्योजनं वृद्धिर्भवती- त्यर्थः । दिन तुल्यया रात्र्या ब्रह्मणो रात्र्या मृदोपचिताया भूमेस्तद्धानिर्भवति। योजनं हानिर्भवतीत्यर्थः । अतः कल्पादौ पञ्चाशदधिकं योजनसहस्रं भूमेर्विष्क- म्भः । अन्तरालेऽनुपातेन कल्प्यः । इत्युक्तं भवति । भूमेः प्राग्गमनं नक्षत्राणां गत्यभावञ्चेच्छन्ति केचित् तन्मिथ्याज्ञानवशादित्याह । भा०:-एक ब्राह्म दिन में सब ओर से पृथिवी की एक योजन वृद्धि होती है, एवं ब्राह्मरात्रि में पृथिवी की एक योजन हानि होती है । इसलिये कल्प की आदि में पृथिवी का १०५० योजन व्यास होता है ॥ ८ ॥ अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् । अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम् ॥९॥ यथा नौस्थो नौयानं कुर्वन् पुरुषोऽनुलोमगतिस्स्वाभिमतां पश्चिमां दिशं गच्छन्नचलं नद्या उभयपार्श्वगतमचलं वृक्षपर्वतादिवस्तु विलोमगं प्राचीं दिशं गच्छदिव पश्यति तथा भानि नक्षत्राणि लङ्कायां समपश्चिमगानि कर्तृभूतानि अचलानि भूमिगतान्यचलवस्तूनि कर्मभूतानि विलोमगानीव प्राचीं दिशं गच्छन्तीव पश्यन्ति। लङ्कादि विषुवद्देशे ह्येव नक्षत्रपञ्जरस्य समपश्चिमगत्वम् ।
आर्यभटीये- ७३ वं ताराणां मिथ्याज्ञानवशादुत्पन्नां प्रत्यग्गमनप्रतीतिमङ्गीकृत्य भूमेः प्राग्ग- तैरभिधीयते । परमार्थतस्तु स्थिरैव भूमिरित्यर्थः । भपञ्जरस्य भ्रमणहेतुमाह । भा०:-जैसे नौका में बैठा हुआ मनुष्य किनारे की स्थिर वस्तुओं को दू- सरी ओर को चलते हुए देखता है, ऐसे ही मनुष्यों को सूर्य्यादि नक्षत्र जो स्थिर हैं, पश्चिम की ओर चलते हुए दीखते हैं और पृथिवी स्थिर मालूम होती है, परन्तु वास्तव में भूमि ही चलती है ॥ ९ ॥ उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुनाक्षिप्तः । लंकासमपश्चिमगो भपञ्जरस्सहग्रहो भ्रमति ॥१०॥ रव्यादीनामुदयास्तमयहेतुभूतो भपञ्जरो नक्षत्रगोलो राशिश्चक्रात्मकः प्रव- हाख्येन वायुना सदा आक्षिप्तो लङ्कायां समपश्चिमो ग्रहैस्सह भ्रमति । मेरु- मानं तत्स्वरूपञ्चाह । भा०:-सूर्य्यादि के उदय और अस्त के हेतु भूत भपञ्जर अर्थात् नक्षत्रगोल प्रवह नामक वायु द्वारा सदा आक्षिप्त लङ्का में सम पश्चिम ग्रहों के साथ चलता है ॥ १० ॥ मेरुर्योजनमात्रः प्रभाकरो हिमवता परिक्षिप्तः । नन्दनवनस्य मध्ये रत्नमयस्सर्वतोवृत्तः ॥११॥ मेरुर्योजनमात्रोच्छ्रितस्तावद्विस्तृतश्च । सर्वतोवृत्तो रत्नमयत्वात्प्रभाकरश्च प्रभाशामाकरः । हिमवता पर्वतेन परिक्षिप्तो नन्दनवनस्य मध्ये भवति । भू- मेरुर्ध्वमधश्च निर्गतो मेरुरित्याह । तथाच मयः । ( सूर्यसिद्धान्ते भूगोला- ध्याये श्लो० ३२—३४ । ) “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ॥ तदन्तरपुटास्सप्त नागासुरसमाश्रयाः । दिव्यौषधिरसोपेता रम्याः पातालभूमयः ॥ अनेकरत्ननिचयो जाम्बूनदमयो गिरिः । भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः ॥” इति ॥ मेरुबडवामुखाद्यवस्थानप्रदेशमाह । भा०:-मेरु योजनमात्र ऊंचा है और योजनमात्र विस्तृत है, सब ओर से घिरा हुआ रत्नमय होने से प्रकाशवान् है । हिमवान् पर्वत से परिक्षिप्त नन्दन . वन के बीच में अवस्थित है ॥ जैसा कि सूर्य्यसिद्धान्त में लिखा है:—ब्रह्मा की १०
१४ गीतिकापादः ॥ धारणात्मिका परमाशक्ति के ऊपर यह भूगोल अण्ड (ब्रह्माण्ड) के बीच आ- काश में भ्रमण करता हुआ अवस्थित है ॥ उस भूगोल के भीतर नाग और असुर आदि मनुष्य विशेष के निवास को ७ पाताल कहते हैं (अतल, वितल, सुतल, तल रसातल, रसातल, पाताल, जिन में अनेक प्रकार स्वप्रकाश युक्त रमणीक ओषधि हैं ॥ ( सू० सि० अ० १२ श्लोक ३२।३४) ॥११॥ स्वर्मेरू स्थलमध्ये नरको बडवामुखञ्च जलमध्ये । अमरमरा मन्यन्ते परस्परमधःस्थितान्नियतम् ॥१२॥ मेरुभागगतं भूमेरर्धं भूप्राचुर्यात्स्थलसंज्ञम् । बडवामुखमधं जलप्राचुर्याज्ज- लसंज्ञम् । तत्र स्थलमध्ये 'मेरुस्स्वर्गश्च भवति । जलमध्ये नरको बडवामुखञ्च भवति । अमरास्स्वर्गवासिनः । मरा नरकवासिनः । स्वर्गवासिनोऽस्माकमध- स्स्थिता नरकवासिन इति मन्यन्ते । नरकवासिनश्च तथास्माकमधस्स्थिता- स्स्वर्गवासिन इति मन्यन्ते । “उपरिष्टात् स्थितास्तस्य सेन्द्रां देवा महर्षयः । अधस्तादसुरास्तद्वद्द्विषन्तोऽन्योन्यमाश्रिताः ॥” इति । (सूर्य्यसिद्धान्ते भूगोलाध्याये श्लो० ३५ । ) तस्य मेरोरिति शेषः । “ततः समन्तात्परधिः क्रमेणायं महार्णवः । मेखलावत् स्थितो धात्र्या देवासुरविभागकृत् ॥” इति च (तत्रैव श्लो० ३६ । ) ॥ स्थलजलांशयोस्सन्धौ भूमेः परितो भूप- रिधिचतुर्थभागान्तरालव्यवस्थितांश्चतस्रो नगरीराह । भा०:-मेरु भागगत भूमि का आधा भाग मृत्तिका की अधिकता से स्थल संज्ञक है। और बड़वामुख शेष आधा भाग जल की अधिकतर से नरक संज्ञक है। उस स्थल में मेरु (स्वर्ग) रहता है। जल में बडवामुख (नर- क) है। अमर, (स्वर्गवासी) मरा (नरकवासी) स्वर्गवासी गण समझते हैं कि नरकवासी लोग हमारे नीचे रहते हैं एवं नरकवासी गण जानते हैं कि स्वर्गवासी गण हमारे नीचे रहते हैं ॥ १२ ॥ उदयो यो लङ्कायां सो ऽस्तमयस्सवितुरेव सिद्धपुरे । मध्यान्हो यवकोट्यां रोमकविषये ऽर्धरात्रस्स्यात् ॥१३॥ लङ्का दक्षिणदिग्गता । तस्यां य उदयः । यदा सूर्योदय इत्यर्थः । सिद्धपुरे स एवास्तमयः । तदारवेरस्तमयस्स्यादित्यर्थः । सिद्धपुरी नाम नगर्युत्तरदिशि
आर्यभटीये १५ द्यतेत्यनेनोक्तं भवति । स एव लङ्कोदयो यवकोट्यां मध्याह्नस्स्यात् । तदा ध्याह्नकाल इत्यर्थः । पूर्वदिशि यवकोटिसंज्ञा नगरीत्यनेनोक्तं भवति । रोम- विषये स एवोदयोऽर्धरात्रस्स्यात् । पश्चिमदिशि स्थिता सा नगरीत्यनेनोक्तं प्रति । तथाच मयः (तत्रैव श्लो० ३९–४० ।) “समन्तान्मेरुमध्यात्तु तुल्यभागेषु तोयधेः । द्वीपेषु दिक्षु पूर्वादिन्गम्यो देवनिर्मिताः ॥ भूपृत्तपादे पूर्वस्यां यवकोटीति विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥ याम्यायां भारतवर्षे लङ्का तद्वन्महापुरी । पश्चिमे केतुमालाख्ये रोमकख्या प्रकीर्तिता ॥ उदक् सिद्धपुरी नाम कुरुवर्षे प्रतिष्ठिता । तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः ॥” इति ॥ रखेस्समन्ताद्भ्रमणात्प्रतिदेशं कालभेदस्य पूर्वादिदिग्विभागोऽत्र ङ्कामधिकृत्य मेरुस्थानात् कृतः ॥ मेरुलङ्कयोर्बडवामुखलङ्कयोश्चान्तरालप्रदेशं ङ्कोज्जयिन्योरन्तरालप्रदेशञ्चाह । भा०:--जिस समय लङ्का (दक्षिण दिशा में) में सूर्योदय होता, उस मय सिद्धपुरी (उत्तर दिशा में है) में सूर्यास्त, यव कोटी में मध्यान्ह (पूर्व शा में है) और रोमक नगर (पश्चिम दिशा में है) में आधीरात होती है ॥१३॥ स्थलजलमध्याल्लङ्का भूकक्ष्याया भवेच्चतुर्भागे । उज्जायिनी लङ्कायास्तच्चतुरंशे समोत्तरतः ॥१४॥ स्थलमध्यान्मेरुस्थानात् भूकक्ष्यायाश्चतुर्भागान्तरे लङ्का भवति । तथा जल मध्याद् बडवामुखस्थानाच्च भूकक्ष्यायाश्चतुर्भागान्तरे लङ्का भवति । लङ्कावत्सि- द्वयवकोटिरोमकविषयाश्च स्थलजलमध्याद्भूकक्ष्यांचतुर्भागे भवन्ति । लङ्का- स्समोत्तरदिशि चतुरंशे । भूकक्ष्याचतुर्भागस्य चतुरंशे । भूकक्ष्यायाष्षोडशांशे । जयिनी नाम नगरी भवति । उज्जायिनी लङ्कायास्समोत्तरदिशि भूकक्ष्यायाः देशांशे । इति केचिद्वदन्ति । तैरन्यान्तरञ्च प्रदर्शितम् । “लङ्कोत्तरतोज्जयन्ती भूपरिधेः पञ्चदशभागे ॥” ते ब्रह्मगुप्तः ॥ भूपृष्ठस्थितैर्ज्योतिश्चक्रस्य दृश्यमदृश्यञ्च भागमाह । भा०:--स्थल मध्य से अर्थात मेरुस्थान से भू कक्षा के चतुर्थ भाग अन्तर
७६ गीतिकापादः ॥ पर लङ्का है। जल स्थान से अर्थात बड़वा मुख स्थान से चतुर्थ भाग अन्तराल में लङ्का है। लङ्कां की नाई सिद्धपुर, यवकोटी और रोमक भी भूकक्षा के चतुर्थ भाग अन्तराल में है। लङ्का के समान उत्तरदिशा में भूकक्षा के चतुर्थ अंश के चौथे भाग में अर्थात् १६ अंश पर उज्जायिनी नगरी है ॥ १४ ॥ भूव्यासार्धेनोनं दृश्यं देशात्समाद्भगोलार्धम् । अर्धं भूमिच्छन्नं भूव्यासार्धाधिकञ्चैव ॥१५॥ समाद्देशात् पर्वतादिव्यवधानरहिताद्भू पृष्ठाद्भगोलार्धं ज्योतिश्चक्रस्योपर्यर्धं भूव्यासार्धेनोनं भूव्यासार्धतुल्यांशहीनं दृश्यं भवति। अपरमर्धं भूव्यासार्धेना- धिकं भूमिच्छन्नमदृश्यं भवति। एतदुक्तं भवति । ज्योतिश्चक्रस्य यदूर्ध्वार्धं तस्य पूर्वभागे भूव्यासार्धतुल्योंऽशोऽस्माभिरदृश्यो भवति भूपृष्ठव्यवधानात्। तथा प- श्चिमभागेऽपि भूव्यासार्धतुल्यांशोऽस्माभिरदृश्यो भवांत। अतस्ताभ्यामंशाभ्यां हीनमुपर्यर्धं समदेशे भूपृष्ठेऽवस्थितैर्दृश्यं भवति । अपरमर्धं ताभ्यामंशाभ्यां युतं भूमिच्छन्नत्वात् समदेशे भूपृष्ठेऽवस्थितैरदृश्यं भवति ॥ ज्योतिश्चक्रे देवासुर दृश्य- भागमाह । भा०:-सम देश से अर्थात् पर्वत आदि से व्यवधान रहित भूपृष्ठ से भगोलार्ध ज्योतिश्चक्र के ऊपर का आधा-भूव्यासार्द्ध से ऊन-अर्थात् भूव्यासार्द्ध तुल्यांश हीन दृश्य होता है। दूसरा आधा भूव्यासार्द्ध से अधिक भूमिच्छन्न-अदृश्य होता है। आशय यह है कि भूपृष्ठ के व्यवधान से ज्योतिश्चक्र का जो ऊर्ध्व अर्द्ध भाग है उस के पूर्व भाग में भूव्यासार्द्ध तुल्यांश हम लोगों से अदृश्य होता है। तथा पश्चिमभाग में भूव्यासार्द्ध तुल्यअंश हम लोगों से अदृश्य होता है। इस कारण उन अंशों से हीन ऊपर नीचे देश में भूपृष्ठ में अव स्थित पुरुष से दृश्य होता है। दूसरा अर्द्ध उन अंशों से युक्त भूमि से छिपे होने से समदेश में भूपृष्ठ पर अवस्थित पुरुष से अदृश्य होता है ॥ १५॥ देवाः पश्यन्ति भगोलार्धमुद्ङ्मेरुसंस्थितास्सव्यम् । अपसव्यगं तथार्धं दक्षिणबडवामुखे प्रेताः ॥१६॥ उद्ङ्गतमेरुसंस्थिता देवास्सव्यं भगोलार्थं ज्योतिश्चक्राभिमुखस्य लङ्काराज्य- स्य पुरुषस्य सव्यभागतं पश्यन्ति । उद्ङ्गतमर्धमित्यर्थः । दक्षिणभागतबड- वामुखे स्थिताः प्रेता नरकवासिनोऽपसव्यगं दक्षिणभाग्गतमर्धं पश्यन्ति ।
मेषादिगमुदगधं देवाः पश्यन्ति । तुलादिगं दक्षिणमर्धं नरकवासिनः पश्यन्ति । इत्यर्थः । केचिदेवं वदन्ति । ज्योतिष्चक्रस्योदगधं सव्यं सव्यगं मेरुस्था देवाः पश्यन्ति । दक्षिणमर्धमपसव्यगमसुराः पश्यन्ति । तथाच ब्रह्मगुप्तः । " सौम्यमपमण्डलार्ध मेषाद्यं सव्यगं सदा देवाः । पश्यन्ति तुलार्धं दक्षिणमपसव्यगं दैत्याः ॥ " इति । अत्रैवं योज्यम् । मेरुवडवामुखयोर्ज्योतिश्चक्रवद्भ्रमतां देवासुराणां सव्यगमपसव्यगञ्चेति । अपसव्यगशब्दो हि दक्षिणवाचकः । देवादीनां दिनप्र- माणमाह । भा०:—मेरुनिवासी ( देवगण ) ज्योतिष्चक्र के उत्तर गोलार्द्ध को देखते हैं और दक्षिण मेरुनिवासी ( प्रेत ) असुरगण दक्षिण गोलार्द्ध को देखते हैं । अर्थात् मेष, वृष, मिथुन, कर्क, सिंह, कन्या, इन छः राशि पर्य्यन्त भगोलार्द्ध को देवगण देखते, उस समय दक्षिण मेरुनिवासी ( असुर ) तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन, राशि पर्य्यन्त दक्षिण गोलार्द्ध को देखते हैं ॥ १६ ॥ रविवर्षार्धं देवाः पश्यन्त्युदितं रविं तथा प्रेताः । शशिमासार्धं पितरश्शशिगाः कुदिनार्धमिह मनुजाः ॥१७ रविवर्षार्धे मेषमासादिकन्यामासान्तं देवासदोदितं रविं पश्यन्ति मेषा- दिकन्यान्तराशीनां मेरुक्षितिजादूर्ध्वगतत्वात् क्षितिजवच्चक्रमणाच्च । अतो मेषादिमासषट्कं देवानां दिनं भवति । तुलामासादि मीनमासान्तं देवा रविं कदाचिदपि न पश्यन्ति तुलादिराशिपट्कस्य मेरुक्षितिजादधोगतत्वात् क्षिति- जानुसारेण चक्रमणाच्च । अतस्तुलादिमासषट्कं देवानां रात्रिर्भवति । तथा प्रेताः । नरकवासिनश्च तथा रविवर्षार्धं रविं पश्यन्ति । किन्तु तुलामासादि मीनमासान्तं रविं पश्यन्ति । अतस्तदा तेषां दिनं भवति । मेषमासादि मीन- मासान्तं रविं कदाचिन्न पश्यन्ति ॥ अतस्तदा तेषां रात्रिर्भवति । मेरुबडवा मुखयोरूर्ध्वाधोदिशौ व्यत्यायाद्भवतः । अतस्तयोर्द्दिनरात्री च व्यत्ययेन भवतः ॥ मृगादिमासषट्कं देवानां दिनमिति यो व्यवहारस्स तु तत्र वैदिककर्मणां विहितत्वात् कृतः कर्कादिमासषट्के अविहितत्वात्तेषां रात्रिरिति च व्यवहारः कृतः । अत्र वराहमिहिरः । " मेषवृषमिथुनसंस्थे दिनमर्के कर्कटादिगे रात्रिः । मेरुस्थितदेवानामिनि यैरूक्तं नमस्तेभ्यः ॥ "
९८ गीतिकापादः ॥ ङति ॥ शशिगाःशशिमण्डलोर्ध्वभागगता पितरश्शशिमासस्य चान्द्रमास- स्यार्धं रविं पश्यन्ति । शशिमासस्यापरार्धं न पश्यन्ति। अतः पितॄणां चान्द्रमा- सार्धं दिनं भवति । तदर्धं रात्रिश्च । अमावास्यायां हि चन्द्रमण्डलादूर्ध्वगतो ऽर्को भवति । अतस्तदानीं पितॄणां दिनार्धं भवति । पौर्णमास्यां चन्द्रमण्ड- लादधोगतोऽर्कः । अतस्तदा पितॄणां रात्र्यर्धं भवति । अष्टम्यर्थयोरुदयास्त- मयौ च । कुदिनार्धमिह मनुजाः । मानुजास्तावन्दिनस्यार्धं रविं पश्यन्ति । अपरमर्धं न पश्यन्ति । गोलकल्पनामार्याद्वयेनाह । भा०:--मेष, वृष, मिथुन, कर्कट, सिंह, कन्या, इन छः मास पर्य्यन्त देव गण सदा सूर्य्य को उदित देखते हैं, इस कारण देवताओं का छः मास का एक दिन होता है। और तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन, इन छः मास पर्य्यन्त देवगण सूर्य्य को नहीं देखते अतएव इन छः मास की उनकी एक रात्रि होती है । और प्रेत या असुरगण तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन, इन छः मास पर्य्यन्त सूर्य्य को सदैव उदित देखते इस लिये असुरों को छः मास का एक दिन होता है। एवं मेष, वृष, मिथुन, कर्कट, सिंह, कन्या, इन छः मास पर्य्यन्त असुरगण सूर्य्य को नहीं देखते इस कारण इतने समय इनकी छः मास की एक रात्रि होती है । और पितृगण ( चन्द्रलोकनिवासी ) चान्द्र मास के आधे भाग पर्य्यन्त सूर्य्य को देखते हैं अतएव इनका हमारे १५ दिन का एक दिन होता एवं इतने ही (१५) की उनकी एक रात्रि होती है। क्यों कि अमावास्या को चन्द्रमण्डल के उपरले भाग में सूर्य्य दीख पड़ता इस का- रण पितृगण को उस समय मध्यान्ह होता है और पौर्णमासी को चन्द्रमण्डल से नीचे सूर्य्य रहता अतएव इस समय पितृगण की आधीरात होती है । और कृष्णपक्ष के अष्टमी को पितृ लोगों का सूर्य्योदय और शुक्लपक्ष की अष्टमी को सूर्य्यास्त होता है । मनुष्यों को सावन दिन के आधा भाग पर्य्यन्त सूर्य्य दीखता एवं अपरार्द्ध नहीं दीखता ॥ १७॥ पूर्वापरमधऊर्ध्वं मण्डलमथ दक्षिणोत्तरञ्चैव । क्षितिजं समपार्श्वस्थं भानां यत्रोदयास्तमयौ ॥ १८ ॥ वंशशलाकादिना निर्मितमेकं मण्डलं वृत्तं पूर्वापरमधऊर्ध्वं निदध्यात् । तत् सममण्डलं नाम भवति । तत्प्रमाणमेवापरं मण्डलं दक्षिणोत्तरमधऊर्ध्वं निदध्यात् । तद्दक्षिणोत्तराख्यं भवति । पुनरन्यन्मण्डलं तत्प्रमाणं समपार्श्वस्थं