भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
| वेदानामन[ादित्वम् ] | हिन्दीसहितभामतीसंवलितम् | ४०७ |
|---|
यिष्यति चाचार्यः संसारस्यानादित्वम्- 'उपपद्यते चाप्युपलभ्यते च' (ब्र० २।१।३६) इति। अनादौ च संसारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रवणेऽपि पूर्वप्रबोधवदुत्तर-प्रबोधेऽपि व्यवहारान्न कश्चिद्विरोधः एवं कल्पान्तरप्रभवप्रलययोरपीति द्रष्टव्यम्। स्वापप्रबोधयोश्च प्रलयप्रभवौ श्रूयेते - 'यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं
भामती
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ इति ।
ते चावधिं प्राप्य परमेश्वरेच्छाप्रचोदिताः, यथा कूर्मदेहलीनीनाम्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्रावृमुद्भावनि मण्डूकशरीराणि तद्वासनावासिततया घनघनाघनासारावसेकसुहितानि पुनर्मण्डूकदेहभावमनुभवन्ति । तथा पूर्ववासनावशात्पूर्वसमाननामरूपाण्युपपद्यन्ते । एतदुक्तं भवति- यद्यपीश्वरात्प्रभवः संसारमण्डलस्य, तथापीश्वरः प्राणभृत्कर्माविद्यासहकारी तदनुरूपमेव सृजति । न च सर्गप्रलयप्रवाहस्यानादितामन्तरेणैतदुपपद्यते इति सर्गप्रलयाभ्युपगमेऽपि संसारानादिता न विरुध्यत इति । तदिदमुक्तम् ॐ उपपद्यते, चाप्युपलभ्यते च आगमत इति ॐ । स्यादेतत् - भवत्वनादिता संसारस्य, तथापि महाप्रलयान्तरिते कुतः स्मरणं वेदानामित्यत आह ॐ अनादौ च संसारे यथा स्वापप्रबोधयोः इति ॐ । यद्यपि प्राणमात्रावशेषतातन्निःशेषते सुषुप्तप्रलयावस्थयोर्विशेषः, तथापि कर्मविक्षेपसंस्कार-
भामती-व्याख्या
होते, तथापि अपने कारणीभूत अनादि और अनिर्वचनीय अविद्या में कर्म-प्रवर्तक भ्रान्तिज वासनाओं के साथ सूक्ष्मरूपेण अवस्थित रहते ही हैं, जैसा कि स्मृतिकारों ने कहा है—
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ ( मनु. १।५ )
[ अर्थात् यह समस्त जगत् अपने मूल कारण तमोरूप अज्ञान में विलीन, अप्रज्ञात (अप्रत्यक्ष), अलक्षण (अनुन्मेय), तर्क की पहुँच से बाहर, शब्द के द्वारा भी अज्ञेय और प्रसुप्त (कार्याक्षम) के समान था ]। वे (प्रसुप्त जगत् के घटकीभूत अन्तःकरणादि पदार्थ) अपनी प्रसुप्तावस्था की अवधि (सीमा) पार कर परमेश्वर की इच्छा से अनुप्राणित हो सृष्टिकालीन नाम-रूप के समान नाम-रूप में वैसे ही प्रकट हो जाते हैं, जैसे कच्छुए के शरीर में सिमटे अङ्ग समय पाकर शरीर से बाहर निकल आते हैं, अथवा वर्षा के समाप्त होने पर मेढकों के सूखे एवं पृथिवी की दरारों में चिपके शरीर घनघोर वर्षा के समय सजीव से होकर टरटराने लगते हैं। आशय यह है कि यद्यपि इस संसार-मण्डल का प्रभव ईश्वर से होता है, तथा ईश्वर प्राणियों की अविद्या, कामना और वासनाओं की सहायता से संसार की प्रत्येक इकाई को वही नाम और रूप देता है, जो विगत कल्प में प्रचलित नाम-रूप के समान ही होता है। सृष्टि-प्रलय-प्रवाह की अनादिता के बिना यह सब कुछ सम्भव नहीं, अतः संसार की सृष्टि एवं प्रलय मान लेने पर भी अनादिता विरुद्ध नहीं, केवल इतना ही नहीं, "उपपद्यते चाप्युपलभ्यते चागमतः" मान लेते हैं—संसार की अनादिता, किन्तु महाप्रलय का मध्य में व्यवधान आ जाने पर पूर्वाधीत वेदों का स्मरण क्योंकर होगा ? इस प्रश्न का उत्तर है— "अनादौ च संसारे यथा स्वापप्रबोधयोः" । यद्यपि सुषुप्ति में केवल प्राण रहता है और प्रलय में वह भी नहीं, तथापि कर्म-विक्षेप संस्कारों से युक्त अविद्या का अवस्थान सुषुप्ति और प्रलय-
| ०८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ३० |
|---|
विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः (कौ० ३।३) इति। स्यादेतत् — स्वापे पुरुषान्तरव्यवहाराविच्छेदात्स्वयं च सुप्तप्रबुद्धस्य पूर्वप्रबोधव्यवहारानुसंधानसंभवादविरुद्धम्। महाप्रलये तु सर्वव्यवहारोच्छेदाज्जन्मान्तरव्यवहारवच्च कल्पान्तरव्यवहारस्यानुसंधातुमशक्यत्वाद्वैषम्यमिति। नैष दोषः, सत्यपि सर्वव्यवहारोच्छेदिनि महाप्रलये परमेश्वरानुग्रहादीश्वराणां हिरण्यगर्भादीनां कल्पान्तरव्यवहारानुसंधानोपपत्तेः। यद्यपि प्राकृताः प्राणिनो न जन्मान्तरव्यवहारमनुसंदधाना दृश्यन्त इति, तथापि न प्राकृतवदीश्वराणां भवितव्यम्। यथा हि प्राणित्वाविशेषेऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्वर्यादिप्रतिबन्धः परेण परेण भूयान्भवन्दृश्यते, तथा मनुष्यादि-
भामती
सहितलयलक्षणाविद्यावशेषतासाम्येन स्वापप्रलयावस्थयोर्भेद इति द्रष्टव्यम्। ननु नापर्यायेण सर्वेषां सुषुप्तावस्था, केषाञ्चित्सदा प्रबोधात्, तेभ्यश्च सुप्तोत्थितानां ग्रहणसम्भवात् प्रायणकालविप्रकर्षयोश्च वासनोच्छेदकारणयोरभावेन सत्यां वासनायां स्मरणोपपत्तेः शब्दार्थसम्बन्धवेदव्यवहारानुच्छेदो युज्यते। महाप्रलयस्त्वपर्यायेण प्राणभृन्मात्रवर्ती प्रायणकालविप्रकर्षौ च तत्र संस्कारमात्रोच्छेदहेतू स्तः, इति कुतः सुषुप्तवत्पूर्वप्रबोधव्यवहारवदुत्तरप्रबोधव्यवहार इति चोदयति ॐ स्यादेतत् स्वापः इति ॐ। परिहरति ॐ नैष दोषः। सत्यपि व्यवहारोच्छेदिनि इति ॐ। अयमभिसन्धिः—न तावत्प्रायणकालविप्रकर्षौ सर्वसंस्कारोच्छेदकौ, पूर्वाभ्यस्तस्मृत्यनुसन्धानाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः। मनुष्यजन्मवासनानां चानेकजात्यन्तरसहस्रव्यवहितानां पुनर्मनुष्यजातिसंवर्तकेन कर्मणाऽभिव्यक्त्यभावप्रसङ्गात्। तस्मान्निकृष्टधियामपि यत्र सत्यपि प्रायणकालविप्रकर्षौ पूर्ववासनानुवृत्तिः, तत्र कैव कथा परमेश्वरानुग्रहेण धर्मज्ञानवैराग्यैश्वर्यातिशयसम्पन्नानां हिरण्यगर्भप्रभृतीनां महाधियाम्। यथा वा आ च मनुष्येभ्य आ च कृमिभ्यो ज्ञानादीनामनुभूयते निकर्षः। एवमा मनुष्येभ्य एवा च भगवतो हिरण्यगर्भाज्ज्ञानादीनां
भामती-व्याख्या
दोनों में समानरूप से रहता है, इसी समानता को लेकर स्वाप और प्रलय का अभेद व्यवहृत हुआ है।
शङ्का—खण्ड प्रलय में एक ही समय सभी प्राणियों की सुषुप्ति अवस्था नहीं आती, किन्तु कुछ प्राणियों की सुषुप्ति में भी अन्य प्राणी जागते रहते हैं, उनसे ही सुप्तोत्थित प्राणी वेदों का ग्रहण कर सकते हैं, वासनाओं के नाशक काल का व्यवधान न होने के कारण संस्कार और स्मरण की परम्परा विच्छिन्न नहीं होती, शब्दार्थ-सम्बन्धरूप वेद-व्यवहार का अनुच्छेद रह जाता है किन्तु महाप्रलय में सभी प्राणियों का एक साथ प्रायण हो जाने के कारण संस्कार-मात्र का उच्छेद हो जाता है, अतः प्रलय से पूर्व जैसी स्वाप-प्रबोध की धारा थी, वैसी प्रलय के पश्चात् क्योंकर सम्भव होगी ? भाष्य के शब्दों में वही शङ्का है—"स्यादेतत् स्वापे पुरुषान्तरव्यवहारानुच्छेदात्"।
समाधान—उक्त शङ्का का परिहार करते हुए भाष्यकार कहते हैं—"नैष दोषः"। सत्यपि सर्वव्यवहारोच्छेदिनि महाप्रलये परमेश्वरानुग्रहाद् हिरण्यगर्भादीनां कल्पान्तरव्यवहारानुसन्धानोपपत्तेः"। अभिप्राय यह है कि प्रायण (मृत्यु) और काल का व्यवधान—ये दोनों समस्त संस्कारों के उच्छेदक नहीं होते, अन्यथा योगसूत्रोक्त पुनः मनुष्यजाति-संवर्तक कर्मों के द्वारा संस्कारों की अभिव्यक्ति क्योंकर होगी ? जब कि निकृष्ट योनी के प्राणियों के मरण और प्रलय का व्यवधान रहने पर भी संस्कार अक्षुण्ण रहता है, तब ईश्वर के कृपापात्र धर्म, ज्ञान, वैराग्य और ऐश्वर्यरूप अतिशय से युक्त हिरण्यगर्भादि महान् आत्माओं की बात ही क्या ? अथवा जैसे मनुष्यों से लेकर कीट-पतङ्गादि निकृष्ट प्राणियों में ज्ञान का निकर्ष
देवताया विग्रहादिमत्त्वम् ] हिन्दीसहितभामतीसंवलितम् ४०९
ष्वेव हिरण्यगर्भपर्यन्तेषु ज्ञानैश्वर्याद्यभिव्यक्तिरपि परेण परेण भूयसी भवतीत्येतच्छ्रु-
तिस्मृतिवादेष्वसकृदनुश्रूयमाणं न शक्यं नास्तीति वदितुम् । ततश्चातीतकल्पानुष्ठित-
प्रकृष्टज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्वरा-
नुगृहीतानां सुप्तप्रतिबुद्धवत्कल्पान्तरव्यवहारानुसंधानोपपत्तिः । तथा च श्रुतिः—
'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये' ( श्वे० ६।१८ ) इति । स्मरन्ति च शौनकादयः 'मधुच्छन्दः-
प्रभृतिभिर्ऋषिभिर्दाशतय्यो दृष्टाः' इति । प्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्यन्ते ।
श्रुतिरप्यृषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्शयति—यो ह वा अविदितार्षेयच्छन्दोदैव-
तब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा प्रतिपद्यते'
( सर्वानु० परि० ) इत्युपक्रम्य 'तस्मादेतानि मन्त्रे मन्त्रे विद्याद् इति । प्राणिनां च
सुखप्राप्तये धर्मो विधीयते। दुःखपरिहाराय चाधर्मः प्रतिषिध्यते । दृष्टानुभविकसुखदुः-
भामती
प्रकर्षोऽपि सम्भाव्यते । तथा च तदभिवदन्तो वेदस्मृतिवादाः प्रामाण्यमप्रत्यूहमश्नुवते । एवं चात्र भवतां हिरण्यगर्भादीनां परमेश्वरानुगृहीतानामुपपद्यते कल्पान्तरसम्बन्धिनिखिलव्यवहारानुसन्धानमिति । सुगममन्यत् ।
स्यादेतत्—अस्तु कल्पान्तरव्यवहारानुसन्धानं तेषामस्यां तु सृष्टावन्य एव वेदाः, अन्य एव चैषामर्थाः, अन्य एव वर्णाश्रमाः । धर्माच्चानर्थोऽर्थश्चाधर्मात् । अनर्थश्चेप्सितोऽर्थश्चानीप्सितोऽपूर्वत्वात् सर्गस्य । तस्मात्कृतमत्र कल्पान्तरव्यवहारानुसन्धानेन, अकिञ्चित्करत्वात् । तथा च पूर्वव्यवहारोच्छेदा-दुच्छिन्नार्थसम्बन्धश्च वेदश्चानित्यो प्रसज्येयातामित्यत आह ॐ प्राणिनां च सुखप्राप्तये इति ॐ । यथावस्तु-स्वभावसामर्थ्यं हि सर्गः प्रवर्तते, न तु स्वभावसामर्थ्यमन्यथयितुमर्हति । न हि जातु सुखं तत्त्वेन जिहा-स्यते, दुःखं चोपाधित्स्यते । न च जातु धर्माधर्मयोः सामर्थ्यविपर्ययो भवति, न हि मृत्पिण्डाद् पटः,
भामती-व्याख्या
(न्यूनत्व) देखा जाता है, वैसे ही मनुष्यों से लेकर भगवान् हिरण्यगर्भ तक उत्तरोत्तर ज्ञान का प्रकर्ष भी सम्भावित है, अतः श्रुति, स्मृति, इतिहास और पुराणों में असकृत् श्रूयमाण उत्तरोत्तर ज्ञानादि का प्रकर्ष मानकर वेद-सम्प्रदाय का प्रामाण्य व्यवस्थित किया जा सकता है ।
**शङ्का—**मान लेते हैं कि कल्पान्तराधीत वेद का स्मरण हिरण्यगर्भादि को होता है किन्तु इस वर्तमान सृष्टि में वेद और उनके अर्थ अन्य ही हैं, वर्णाश्रमादि भी भिन्न हैं, धर्म से पाप और अधर्म से पुण्य का प्रसव होता है। आज हिंसादि अनर्थभूत कर्म अभीष्ट और श्रौत-स्मार्त कर्मरूप उपादेय पदार्थ भी अनिष्ट और अनुपादेय माने जाते हैं। सृष्टि की विलक्षणता नितान्त प्रसिद्ध है। अतः कल्पान्तराधीत वेद का स्मरण यहाँ किस काम का ? इस प्रकार पूर्वप्रचलित व्यवहार का उच्छेद हो जाने से शब्दार्थ-सम्बन्ध एवं वेद—दोनों अनित्य क्यों न होंगे ?
**समाधान—**उक्त शङ्का का निराकरण करते हुए भाष्यकार कहते हैं कि "प्राणिनां सुखप्राप्तये धर्मो विधीयते, दुःखपरिहाराय चाधर्मः प्रतिषिध्यते"। आशय यह है कि वस्तुओं के स्वभाव और सामर्थ्य के अनुरूप ही सृष्टि प्रवृत्त होती है। वस्तु के स्वभाव और सामर्थ्य का अन्यथाकरण कभी नहीं किया जा सकता, क्योंकि सुख को सुखरूपेण त्याज्य और दुःख को दुःखरूपेण कभी उपादेय नहीं माना जा सकता। इसी प्रकार धर्म और अधर्म भी अपने स्वभाव और सामर्थ्य के विपरीत नहीं किए जा सकते। क्या कभी मृत्तिका-पिण्ड से पट और
५२
४१० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ १ पा. ३ सू. ३०
खविषयौ च रागद्वेषौ भवतः, न विलक्षणविषयावित्यतो धर्माधर्मफलभूतोत्तरा सृष्टिनिष्पद्यमाना पूर्वसृष्टिसदृइयेव निष्पद्यते । स्मृतिश्च भवति - तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥ (म.भा. शां. १२।८५) हिंस्त्राऽहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥' (म.भा. शां. २५।७) इति ।
प्रलीयमानमपि चेदं जगच्छक्त्यवशेषमेव प्रलीयते । शक्तिमूलमेव च प्रभवति; इतरथाऽऽकस्मिकत्वप्रसङ्गात् । न चानेकाकाराः शक्तयः शक्याः कल्पयितुम् । ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूर्यादलोकप्रवाहाणां, देवतिर्यङ्मनुष्यलक्षणानां च प्राणिनिकायप्रवाहाणां, वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियतत्वमिन्द्रि- यविषयसंबन्धनियतत्ववत्प्रत्येतव्यम् । न हीन्द्रियविषयसंबन्धादेर्व्यवहारस्य प्रतिसर्ग- मन्यथात्वं षष्ठेन्द्रियविषयकल्पं शक्यमुत्प्रेक्षितुम् । अतश्च सर्वकल्पानां तुल्यव्यवहार- त्वात्कल्पान्तरव्यवहारानुसंधानक्षमत्वाच्चेश्वराणां समाननामरूपा एव प्रतिसर्ग विशेषाः प्रादुर्भवन्ति । समाननामरूपत्वाच्चावृत्तावपि महासर्गमहाप्रलयलक्षणायां जगतोऽभ्युपगम्यमानायां न कश्चिच्छब्दप्रामाण्यादिविरोधः । समाननामरूपतां च श्रुतिस्मृती दर्शयतः - 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः' (ऋ० सं० १०।१९०।३) इति । यथा पूर्वस्मिन्कल्पे सूर्याचन्द्रमः- प्रभृति जगत्क्लृप्तं तथास्मिन्नपि कल्पे परमेश्वरोऽकल्पयदित्यर्थः । तथा 'अग्निर्वा अकामयत । अन्नादो देवानां स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्' (तै० ब्रा० ३।१।४।१) इति नक्षत्रेष्टिविधौ योऽग्निर्भिरवपद्यस्मै वाऽग्नय निरवपत्तयोः समाननामरूपतां दर्शयतीत्येवंजातीयका श्रुतिरिहोदाहर्तव्या ।
भामती घटश्च तन्तुभ्यो जायते । तथा सति वस्तुसामर्थ्य नियमाभावात् सर्वं सर्वस्माद्द्भवेदिति पिपासुरपि दहन- माहृत्य पिपासामुपशमयेत् , शीतातों वा तोयमाहृत्य शीतातिमिति । तेन सृष्टयन्तरेऽपि ब्रह्महत्यादिरन- र्थहेतुरेवार्थहेतुश्च यागादिरित्यानुपूर्व्यं सिद्धम् । एवं च य एव वेदा अस्मिन् कल्पे त एव कल्पान्तरे त एव चैषामर्थास्त एव च वर्णाश्रमाः । दृष्टसाधर्म्यसम्भवे तद्वैधर्म्यकल्पनमनुमानागमविरुद्धम् । आगमाश्चेह भूयांसो भाष्यकारेण दर्शिताः । श्रुतिस्मृतिपुराणाख्यास्तद्बाधकोपोऽन्यथा भवेत् ॥
भामती-व्याख्या तन्तुओं से घट उत्पन्न होता है ? यदि हो जाय, तब वस्तुओं के सामर्थ्य का कोई नियम नहीं रह जाता, फिर तो अग्नि से प्यास और हिम से ठिठुरन दूर होनी चाहिए। फलतः अन्य सृष्टियों के समान ही इस सृष्टि में भी ब्रह्महत्यादि कर्म अनर्थ के एवं अश्वमेधादि याग अर्थ के ही जनक होते हैं-यह सिद्ध हो जाता है। जो वेद कल्पान्तर में प्रचलित था, वही इस कल्प में भी है, वे ही उनके अर्थ और वे ही वर्णाश्रम हैं। दृष्ट पदार्थों की समानधर्मता जब अदृष्ट पदार्थों में बाधित नहीं, तब उनके वैधर्म्य की कल्पना अनुमान और आगमादि प्रमाणों से बाधित हो जाती है। आगमाश्च भूयांसो भाष्यकारेण दर्शिताः । श्रुतिस्मृतिपुराणाख्याः तद्बाधकापोऽन्यथा भवेत् ॥
देवताया विग्रहादिमत्त्वम् ] हिन्दीसहितभामतीसंवलितम् ४११
स्मृतिरपि— ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥ यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्याये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ यथाभिमानिनोऽतीतास्तुल्यास्ते सांप्रतैरपि । देवा देवैरतीतैर्हि रूपैर्नामभिरेव च ॥' (वायुपु. ९।५७-६५) इत्येवंजातीयका द्रष्टव्या ॥ ३० ॥
मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ३१ ॥ इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्रतिज्ञातं तत्पर्यावर्त्यते । देवादीनामनधिकारं जैमिनिराचार्यो मन्यते । कस्मात् ? मध्वादिष्वसंभवात् । ब्रह्मविद्यायामधिकाराभ्युपगमे हि विद्यात्वाविशेषान्मध्वादिविद्यास्वप्यधिकारोऽभ्युपगम्येत । न चैवं संभवति । कथम् ? 'असौ वा आदित्यो देवमधु' ( छा० ३।१।१) इत्यत्र मनुष्या आदित्यं मध्वध्यासेनोपासीरन् । देवादिषु ह्युपासकेष्वभ्युपगम्यमानेष्वादित्यः कमन्यमादित्यमुपासीत ? पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्युपक्रम्य वसवो रुद्रा
भामती तस्मात् सुष्ठूक्तं ॐ समाननामरूपत्वाच्चावृत्तावपि अविरोध इति ॐ । 'अग्निर्वा अकामयत' इति भाविनीं वृत्तिमाश्रित्य यजमान एवाग्निरुच्यते । नह्यग्नेर्देवतान्तरमग्निरस्ति ॥ ३० ॥ ब्रह्मविद्यास्वधिकारं देवर्षीणां ब्रुवाणः प्रष्टव्यो जायते—किं सर्वासु ब्रह्मविद्यास्वविशेषेण सर्वेषां किम्वा कासुचिदेव केषाञ्चित् ? यद्यविशेषेण सर्वासु, ततो मध्वादिविद्यास्वसम्भवः । ॐ कथम् ? असौ वाऽऽदित्यो देवमध्वित्यत्र हि मनुष्या आदित्यं मध्वध्यासेनोपासीरन् ॐ । उपास्योपासकभावो हि भेदाधिष्ठानो न स्वात्मन्यादित्यस्य देवतायाः सम्भवति । न चादित्यान्तरमस्ति । प्राचामादित्यानामस्मिन् कल्पे क्षीणाधिकारत्वात् । ॐ पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्युपक्रम्य इति ॐ । अयमर्थः—असौ वा आदित्यो
भामती-व्याख्या यह जो कहा गया है कि "अग्निर्वा अकामयत ।" यहाँ अग्नि देवता के उस भावी जन्म को ध्यान में रख कर कहा गया है कि जब अग्नि देवता अपने भावी जन्म में अग्नि नाम का यजमान बनता है, तब वह उक्त कामना एवं कामना के अनुरूप कर्म करता है, जिसमें देवता उस यजमान से भिन्न होता हुआ भी अग्नि नामवाला ही होता है ॥ ३० ॥ जो वादी ब्रह्मविद्या में देवताओं और ऋषियों को अधिकार प्रदान कर रहा है, उससे यह पूछा जाना चाहिए कि क्या सभी प्रकार की ब्रह्म-विद्याओं में सभी को अधिकार है ? अथवा किसी ब्रह्म-विद्या में ही किसी को ही अधिकार है ? यदि सभी में सभी को अधिकार है, तब मध्वादि-विद्याओं में असम्भव हो जाता है, क्योंकि "असौ वा आदित्यो देवमधु" ( छां. ३।१।१) यहाँ मनुष्य तो आदित्य देवता की मधु-बुद्धि से उपासना कर सकता है, किन्तु स्वयं आदित्य देवता किस अन्य आदित्य की उपासना करेगा ? उपास्योपासकभाव सदैव उपास्य और उपासक के भेद की अपेक्षा करता है, अतः आदित्य देवता ही उपासक और वही उपास्य क्योंकर होगा ? उपास्यभूत आदित्य से भिन्न और कोई आदित्य देवता है ही नहीं। पूर्व कल्प के जो आदित्यादि देवता इस समय मनुष्यरूप में हैं, वे देवतारूपता का अधिकार खो बैठे हैं, वे देवता ही नहीं माने जा सकते। "पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्युपक्रम्य"—इत्यादि भाष्य ग्रन्थ
४१२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. ३१
भादित्या मरुतः साध्याश्च पञ्च देवगणाः क्रमेण तत्तदमृतमुपजीवन्तीत्युपदिश्य ‘स य
भामती
देवमध्विति देवानां मोदनान्मध्विव मधु । भ्रामरमधुसारूप्यान्माहात्म्य श्रुतिः । ‘तस्य मधुनो द्यौरेव तिरश्चीनवंशः । अन्तरिक्षं मध्वपूपः’ । आदित्यस्य हि मधुनोऽपूपः पटलमन्तरिक्षमाकाशं तत्रावस्थानात् । यानि च सोमाज्यपयःप्रभृतीत्यग्नो हूयन्ते तान्यादित्यरश्मिभिरग्निसंवलितैस्तप्तन्नपाकामृतीभावमापन्नान्यादित्यमण्डलम्ऋङ्मन्त्रमधुपैर्नीयन्ते । यथा हि भ्रमराः पुष्पेभ्य आहृत्य मकरन्दं स्वस्थानमानयन्त्येवमृङ्मन्त्रभ्रमराः प्रयोगसमवेतार्थस्मारणाविभक्तऋग्वेवविहितभ्यः कर्मकुसुमेभ्य आहृत्य तन्निष्पन्नमकरन्दमादित्यमण्डलं लोहिताभिरस्य प्राचीनरश्मिनाडीभिरानयन्ति, तदमृतं वसव उपजीवन्ति । तथास्यादित्यमधुनो दक्षिणाभिः रश्मिनाडीभिः शुक्लाभिर्यजुर्वेदविहितकर्मकुसुमेभ्य आहृत्याग्नो हुतं सोमादि पूर्ववदमृतभावमापन्नं यजुर्वेद मन्त्रभ्रमरा आदित्यमण्डलमानयन्ति, तदेतदमृतं रुद्रा उपजीवन्ति । तथास्यादित्यमधुनः प्रतीचीभी रश्मिनाडीभिः कृष्णाभिः सामवेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं साममन्त्रस्तोत्रभ्रमरा आदित्यमण्डलमानयन्ति, तदमृतमादित्या उपजीवन्ति । अथास्यादित्यमधुन उदीचीभिरतिकृष्णाभिः रश्मिनाडीभिरथर्ववेदविहितभ्यः कर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादिपूर्ववदमृतभावमापन्नमथर्वाङ्गिरसमन्त्रभ्रमरा, तथाश्वमेधवाचःस्तोम-कर्मकुसुमादितिहासपुराणमन्त्रभ्रमरा आदित्यमण्डलमानयन्ति । अश्वमेधे वाचःस्तोमे च पारिप्लवं शंसन्तीति श्रवणादितिहासपुराणमन्त्राणामध्यक्षस्ति प्रयोगः । तदमृतं मरुत उपजीवन्ति । अथास्य या आदित्यमधुन ऊर्ध्वा रश्मिनाड्यो गोप्यास्ताभिरुपासनभ्रमराः प्रणवकुसुमादाहत्यादित्यमण्डल-
भामती-व्याख्या
का आशय यह है कि "असौ वादित्यो देवमधु"—इस वाक्य के द्वारा आदित्य को देवताओं का मधु इस लिए कहा गया है कि वह देवताओं के मोद का हेतु है, जैसा कि इस वाक्य का भाष्य करते हुए भाष्यकार ने कहा है—"देवानां मोदनान्मध्विव मधु असौ आदित्यः" (छां. पृ. १३२) । भ्रामर [ भ्रमर अर्थात् मधु-मक्खियों के बनाए गए शहद ] की समानता श्रुति ने दिखाई है—तस्य मधुनो द्यौरेव तिरश्चीनवंशः, अन्तरिक्षं मध्वपूपः" । अर्थात् जैसे किसी तिरछे बाँसादि के सहारे मधु-मक्खियाँ अपना शहद का छत्ता लगाती है, ऐसे स्वर्गरूप तिरछे बाँस में लगा हुआ यह अन्तरिक्ष (आकाश) मधु का अपूप (छत्ता) और उसमें अवस्थित आदित्य शहद है । जितने भी सोम-रस, आज्य (घृत) और दुग्धादि हवि द्रव्य अग्नि में आहुत होते हैं, वे अमृतरूप से परिणत होकर रश्मिरूपी मधुपों (मधु-सञ्चय करने वाली मक्खियों) के द्वारा आदित्य-मण्डल में पहुँचाए जाते हैं । जैसे शहद की मक्खियाँ फूलों से मकरन्द (पुष्प-रस) लाकर शहद के छत्ते में सञ्चित करती है, वैसे ही ऋचारूपी मक्खियाँ कर्मरूपी पुष्पों से कर्म-फलरूप अमृत लाकर आदित्य-मण्डल में सञ्चित करती हैं । मन्त्रों का लक्षण किया जाता है—"प्रयोगसमवेतार्थस्मारकाः मन्त्राः", अतः कर्म के प्रयोग (अनुष्ठान) में विनियुक्त आदित्यादि देवताओं का मन्त्र ही स्मरण दिलाते हैं, [ जैसा कि भाष्यकार ने कहा है—"मन्त्रस्य हि एतत् प्रयोजनं यत् स्मारयति क्रियां साधनं वा" (शाबर. पृ. १४१८) ] । आदित्य-मण्डल की (१) पूर्व दिशा में अवस्थित लाल रश्मियों के द्वारा सञ्चित अमृत का उपभोग वसुसंज्ञक देवगण, (२) दक्षिण दिशा की श्वेत किरणों के द्वारा आनीत यजुर्वेदीय कर्म-फलरूप अमृत का उपभोग रुद्रगण, (३) पश्चिम दिशा की कृष्ण किरणों के द्वारा आहृत सामवेदीय कर्मों के फलरूप अमृत का सेवन आदित्यगण एवं (४) उत्तर दिशा की अत्यन्त कृष्ण रश्मियों के द्वारा आनीत अथर्ववेदीय कर्म के फलरूप अमृत एवं इतिहास पुराणादिरूप रश्मियों के द्वारा आनीत अश्वमेध और वाचःस्तोमसंज्ञक कर्मों के फलरूप अमृत का आसेवन मरुद्गण करते हैं । अश्वमेध और वाचःस्तोम नाम के एकाह क्रतु में "पारिप्लवं
देवताया विग्रहादिमत्त्वम् ] हिन्दीसहितभामतीसंवलितम् ४१३
एतद्देवामृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति' इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिमहिमप्राप्तिं दर्शयति। वस्वादयस्तु कान्यान्यन्त्वस्वादीनमृतोपजीविनो विजानीयुः ? कं वाऽन्यं वस्वादिमहिमानं प्रेप्स्युः ? तथा अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः' ( छा० ३।१८।२ ), 'वायुर्वाव संवर्गः' (छा० ४।३।१) 'आदित्यो ब्रह्मेत्यादेशः' ( छा० ३।१९।१ ) इत्यादिषु देवतात्मोपासनेषु न तेषामेव देवतात्मनामधिकारः संभवति । तथा 'इमावेव गोतमभरद्वाजौ चायमेव गोतमोऽयं भरद्वाजः ( बृ० २।२।४ ) इत्यादिष्वृषिसंबन्धेषूपासनेषु न तेषामेवर्षीणामधिकारः संभवति ॥ ३१ ॥
कुतश्च देवादीनामधिकारः ?
भामती
मानयन्ति, तदमृतमुपजीवन्ति साध्याः। ता एता आदित्यमध्यपाश्याः पञ्च रोहितादयो रश्मिनाड्य ऋगादिसम्बद्धाः क्रमेणोपविष्येति योजना। एतदेवामृतं दृष्ट्वोपलभ्य यथास्वं समस्तैः करणैर्यशस्तेज-इन्द्रियसाकल्यवीर्य्यान्नाद्यान्यमृतं तदुपलब्ध्यादित्ये तृप्यन्ति। तेन खल्वमृतेन देवानां वस्वादीनां मोदनं विवक्षवादित्यो मधुः। एतदुक्तं भवति—न केवलमुपास्योपासकभाव एकस्मिन् विरुध्यते, अपितु ज्ञातृज्ञेयभावश्च प्राप्यप्रापकभावश्चेति । ॐ तथाग्निः पादः इति ॐ । अधिदेवतं खल्वाकाशे ब्रह्मदृष्टिविधानार्थं मुक्तम्। आकाशस्य हि सर्वगतत्वं रूपविहीनत्वं च ब्रह्मणा सारूप्यं, तस्य चैतस्याकाशस्य ब्रह्मणश्चत्वारः पादा अग्न्यादयोऽग्निः पाद इत्यादिना दर्शिताः। यथा हि गोः पादा न गवा वियुज्यन्ते, एवमग्न्यादयोऽपि नाकाशेन सर्वगतेनेत्याकाशस्य पादास्तदेवमाकाशस्य चतुष्पदो ब्रह्मदृष्टिं विधाय स्वरूपेण वायुं संवर्गगुणकमुपास्यं विधातुं महीकरोति । ॐ वायुर्वाव संवर्गः ॐ तथा स्वरूपेणैवादित्यं ब्रह्मदृष्ट्योपास्यं विधातुं महीकरोति ॐ आदित्यो ब्रह्मेत्यादेशः ॐ उपदेशः। अतिरोहितार्थमन्यत् ॥ ३१ ॥
भामती-व्याख्या
शंसन्ति" का विधान किया गया है, अर्थात् जब तक उस कर्म का समय पूरा न हो, तब तक वेद, पुराण धर्मशास्त्र और इतिहासादि जो भी कण्ठस्थ हो निरन्तर पारिप्लव (अव्यवस्थित) रूप से बोलते रहना चाहिए। इस प्रकार कर्मानुष्ठान-काल में वेद-मन्त्रों के समान इतिहास और पुराणादि के वाक्य भी विनियुक्त हैं। आदित्यरूप मधु की गोप्य ऊर्ध्वगामी रश्मियों के द्वारा जो प्रणवरूपी फूलों से जो अमृत लाया जाता है, उसका साध्यगण उपभोग करते हैं। इस प्रकार आदित्य की पाँच प्रकार की ऋगादि-सम्बन्धित रश्मियों के द्वारा आनीत अमृत वसु आदि देवगणों को मुदित करता है, अतः अमृत के आधारभूत आदित्य गोलक को देव-मधु कहा जाना सर्वथा उचित है। कहने का अभिप्राय यह है कि केवल उपास्य-उपासकभाव ही एक तत्त्व में विरुद्ध नहीं होता, [अपितु ज्ञातृ-ज्ञेयभाव और प्राप्य-प्रापकभाव भी विरुद्ध होता है। अर्थात् आदित्य-मण्डल में वसु आदि देवताओं के द्वारा जो मधुरूपता का ध्यान किया जाता है, उसका फल बताया गया है—वसु आदि देवताओं के स्वरूप की प्राप्ति, किन्तु वसु आदि देवता ही उपासक और उपास्य एवं प्रापक और प्राप्य नहीं हो सकते]।
उसी प्रकार अग्नि, वायु, आदित्य और दिशा में आकाशरूप ब्रह्म के पादों की भावना का इस लिए ध्यान विहित है कि जैसे गो के पाद गौ से बाहर नहीं होते, वैसे ही अग्नि आदि पदार्थ भी आकाश से बाहर नहीं। वायु में संवर्गरूपता की और आदित्य में ब्रह्म की भावना का उपदेश किया गया है। यहाँ भी उन्हीं उपास्यभूत देवताओं को अधिकार क्योंकर होगा ? "इमावेव गोतमभरद्वाजौ अयमेव गोतमोऽयं भरद्वाजः" (बृह. उ. २।२।४) यहाँ पर दो कर्ण, दो नेत्र, दो नासिका और एक वाणी—इन सात इन्द्रियों में सप्त ऋषियों का
४१४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. ३२
ज्योतिषि भावाच्च ॥ ३२ ॥
यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जगद्वभासयति, तस्मिन्नादित्यादयो देवतात्ववचनाः शब्दाः प्रयुज्यन्ते । लोकप्रसिद्धेर्वाक्यशेषप्रसिद्धेश्च । न च ज्योतिर्मण्डलस्य हृदयादिना विग्रहेण चेतनतयाऽर्थित्वादिना वा योगोऽवगन्तुं शक्यते, मृदादिवदचेतनत्वावगमात् । एतेनाग्न्यादयो व्याख्याताः । स्यादेतत्, —
भामती
यद्युच्येत नाविशेषेण सर्वेषां देवादीनां सर्वासु ब्रह्मविद्यास्वधिकारः किन्तु यथासम्भवमिति । तत्रेदमभ्युपतिष्ठते ज्योतिषि भावाच्च लौकिको ह्यादित्यादिशब्दप्रयोगप्रत्ययो ज्योतिर्मण्डलादिषु दृष्टो न चैतेषामस्ति चैतन्यं, नह्येतेषु देवदत्तादिवत्तदनुरूपा दृश्यन्ते चेष्टाः । ॐ स्यादेतन्मन्त्रार्थवादेतिहासपुराणलोकेभ्य इति ॐ । तत्र जगृभ्माते दक्षिणमिन्द्रहस्तमिति च, काशिरिन्द्र इदिति च । काशिर्मुष्टिः । तथा 'तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे । इन्द्रो वृत्राणि जिघ्नते' इति विग्रहवत्त्वं देवताया मन्त्रार्थवादा अभिवदन्ति । तथा हविर्भोजनं देवताया दर्शयन्ति । अद्धीन्द्र पिब च प्रस्थितस्येत्यादयः । तथैशानम्—'इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् । इन्द्रो वृधाम् इन्द्र इन्मेधिराणामिन्द्रः क्षेमं योगे हव्य इन्द्रः' इति । तथा 'ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुष' इति । तथा वरिवसितारं प्रति देवतायाः
भामती-व्याख्या
ध्यान विहित है। इस ऋषि-सम्बन्धी उपासना में उन्हीं ऋषियों को अधिकार कैसे हो सकेगा ? ॥ ३१ ॥
'सामान्यतः सभी देवताओं और सभी ऋषियों को सभी प्रकार की ब्रह्म-विद्याओं में अधिकार नहीं, किन्तु यथासम्भव उपास्य और उपासक का जहाँ भेद है, वहाँ ही अधिकार दिया जा सकता है—"ज्योतिषि भावाच्च"। अर्थात् प्रत्यक्षतः अनुभूयमान ज्योतिर्मण्डल को ही आदित्य नाम से अभिहित किया जाता है, 'आदित्य' शब्द से जनित प्रतीति भी उसी लौकिक ज्योतिर्मण्डल को ही विषय करती है किन्तु यह ज्योतिर्मण्डल चेतन नहीं जड़मात्र है। इसमें देवदत्तादि के समान किसी प्रकार की चेष्टा नहीं पाई जाती। यह किसी प्रकार का शारीरिक या मानसिक कर्म नहीं कर सकता।
शङ्का—मन्त्र, अर्थवाद, इतिहास, पुराण और लोक-प्रसिद्धि के द्वारा देवताओं में विग्रहवत्त्व और चैतन्यादि का प्रतिपादन किया गया है, जैसे कि "जगृभ्माते दक्षिणमिन्द्रहस्तम्" (ऋ. सं. १०।४७।१) अर्थात् हे इन्द्र ! हमने आपका दक्षिण हाथ पकड़ा है। "इमे चिदिन्द्र रोदसी अपारे यत् संगृभ्णा मघवन् काशिरित् ते।" (ऋ. सं. ३।३०।५) अर्थात् हे मघवन् ! तू यदि इन द्यु और पृथिवी को पकड़ता है, तब ये तेरी मुट्ठी में समा जाते हैं। "तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे । इन्द्रो वृत्राणि जिघ्नते" (ऋ. सं. ८।१७।८) अर्थात् स्थूल ग्रीवा, मोटे पेट और विशाल बाहुवाले इन्द्र ने सोमरस से मद-मत्त होकर वृत्रासुर का वध कर डाला। ये मन्त्र देवताओं के विग्रह का प्रतिपादन करते हैं। हवि का भक्षण भी वे कहते हैं—'अद्धीन्द्र। पिव च प्रस्थितस्य" (ऋ. सं. १०।११६।७) अर्थात् हे इन्द्र ! प्रस्थित (यजमान के द्वारा प्रदत्त) सोमरस का पान करो। देवताओं का ऐश्वर्य भी प्रतिपादित है—"इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत् पर्वतानाम् । इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥" (ऋ. सं. १०।८९।१०)। अर्थात् इन्द्र स्वर्ग, पाताल, वृधा (स्थावर) मेधिर (जङ्गम) के योग-क्षेम में समर्थ है, अतः इन्द्र हवि-समर्पित करने के योग्य है। इसी "ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः" (ऋ. सं. ७।३२।२२)। अर्थात् हे इन्द्र ! आप इस स्थावर और जङ्गम जगत् के शासक और
देवताया विग्रहादिमत्त्वम् ] हिन्दीसहितभामतीसंवलितम् ४१५
मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रहवत्त्वाद्यवगमादयमदोष इति, नेत्युच्यते, नहि तावल्लोको नाम किञ्चित्स्वतन्त्रं प्रमाणमस्ति । प्रत्यक्षादिभ्य एव ह्यविचारितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्धयन्नर्थो लोकात्प्रसिध्यतीत्युच्यते । न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति । इतिहासपुराणमपि पौरुषेयत्त्वात्प्रमाण-
भामती
प्रसादं प्रसन्नायाश्च फलदानं दर्शयति आहुतिभिरेव देवाम् हुतावः प्रीणाति तस्मै प्रीता इषमूर्जं च यच्छन्ति' इति । 'तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति' इति च । धर्मशास्त्रकारा अप्याहुः— ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । इति ।
पुराणवचांसि च भूयांसि देवताविग्रहादिपञ्चकप्रपञ्चमाचक्षते । लौकिका अपि देवताविग्रहादिपञ्चकं स्मरन्ति चोपचरन्ति च । तथाहि- यमं दण्डहस्तमालिखन्ति, वरुणं पाशहस्तम्, इन्द्रं वज्रहस्तम् । कथयन्ति च देवता हविर्भुज इति । तथेशनामिमामाहुः--देवग्रामो देवक्षेत्रमिति । तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाहुः-प्रसन्नोऽस्य पशुपतिः पुत्रोऽस्य जातः । प्रसन्नोऽस्य धनदो धनमनेन लब्धमिति । तदेतत् पूर्वपक्षी दूषयति ॐ नेत्युच्यते । न हि तावल्लोको नाम इति ॐ । न खलु प्रत्यक्षादिव्यतिरिक्तो लोको नाम प्रमाणान्तरमस्ति, किन्तु प्रत्यक्षादिमूला लोकप्रसिद्धिः सत्यतामश्नुते, तदभावे त्वन्धपरम्परावनमूलाभावाद्विप्लवते । न चात्र विग्रहादौ प्रत्यक्षादीनामन्यतममस्ति प्रमाणम् । न चेतिहासादिविमूलं भवितुमर्हति तस्यापि पौरुषेयत्वेन प्रत्यक्षाद्यपेक्षणात् । प्रत्यक्षादीनां चात्राभावादित्याह ॐ इतिहासपुराणमपि इति ॐ । ननूक्तं मन्त्रार्थवादेभ्यो विग्रहादिपञ्चकप्रसिद्धिरित्यत आह ॐ अर्थवादा
भामती-व्याख्या
स्वर्दृशं ( दिव्य दृष्टि-सम्पन्न ) हैं, हम आप की स्तुति करते हैं। यह मन्त्र भी देवताओं के ऐश्वर्य का प्रकाशक है। देवता अपने उपासक पर प्रसन्न हो वर-प्रदान करता है—"आहुतिभिरेव देवान् हुतादः प्रीणाति तस्मै प्रीता इषमूर्जं च यच्छन्ति" ( तै. सं. ५।४।४।१ ) अर्थात् देवतागण यजमान पर प्रसन्न होकर उसको अन्न और बल प्रदान करते हैं। इसी प्रकार "तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति"—यह मन्त्र भी तृप्ति आदि का अभिधायक है।
धर्मशास्त्रों में भी कहा है—"ते तृप्ताः तर्पयन्त्येनं सर्वकामफलैः शुभैः" । पुराणों में तो देवताओं के विग्रहादि-पञ्चक पर पुष्कल प्रकाश डाला गया है। [(१) विग्रह ( शरीर ), (२) हविर्भक्षण, (३) ऐश्वर्य, (४) प्रसन्नता और (५) फल-दातृत्व—ये देवता के विग्रहादिपञ्चक कहे जाते हैं ] । लौकिक-व्यवहार में भी देवताओं को विग्रहादि से युक्त ही माना जाता है, जैसे कि यमराज का चित्र लोग बनाते हैं—एक विकराल पुरुष आँखें फाड़े खड़ा है, उसके एक हाथ में सुदृढ़ मोटा दण्ड है। वरुण देवता के हाथ में पाश, इन्द्र के हाथ में वज्र दिखाया जाता है। लोग कहते भी हैं कि देवगण हवि का भक्षण करते हैं। देवता के प्रभुत्व का वर्णन करते हैं—'देवग्रामोऽयम्', 'देवक्षेत्रमिदम्'। इसी प्रकार देवता की प्रसन्नता और फल-दातृता का बखान भी किया जाता है—'प्रसन्नोऽस्य पशुपतिः', 'पुत्रोऽस्य जातः' । प्रसन्नोऽस्य धनदः, धनमनेन लब्धम्' ।
पूर्वपक्षी कथित पक्ष पर दोषाभिधान करता है—"नेत्युच्यते, न हि तावल्लोको नाम किञ्चित् स्वतन्त्रं प्रमाणमस्ति"। आशय यह है कि प्रत्यक्षादि प्रमाणों के आधार पर ही टिकी लोक-प्रसिद्धि यथार्थ मानी जाती है, स्वतन्त्र नहीं। जिस लोक-प्रसिद्धि में प्रत्यक्षादि का बल नहीं होता, वह एक अन्ध-परम्परामात्र रह जाती है, इतर प्रमाणों के द्वारा वह विप्लुत (बाधित) हो जाती है। देवता के विग्रहादि में प्रत्यक्षादि प्रमाण सम्भावित नहीं। इतिहासादि को भी देव-विग्रहादि का साधक नहीं मान सकते, क्योंकि इतिहासादि ग्रन्थ पुरुष-रचित होने के कारण प्रत्यक्षादि-सापेक्ष ही होते हैं और विग्रहादि में प्रत्यक्षादि का
| ४१६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ३२ |
|---|
न्तरं मूलमाकाङ्क्षति। अर्थवादा अपि विधिनेकवाक्यत्वात्स्तुत्यर्थाः सन्तो न पार्थग्- र्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्ते। मन्त्रा अपि श्रुत्यादिविनि- युक्ताः प्रयोगसमवायिनोऽभिधानार्था न कस्यचिदर्थस्य प्रमाणमित्याचक्षते। तस्माद्-
भामती
अपि इति ॐ । विध्युद्देशेनैकवाक्यतामापद्यमाना अर्थवादा विधिविषयप्राशस्त्यलक्षणापरा न स्वार्थे प्रमाणं भवितुमर्हन्ति । 'यत्परः शब्दः स शब्दार्थ' इति हि शाब्दन्यायविदः, प्रमाणान्तरेण तु यत्र स्वार्थोऽपि सम्पद्यते यथा वायोः क्षेपिष्ठत्वम् । तत्र प्रमाणान्तरवशात्सोऽभ्युपेयते न तु शब्दसामर्थ्यात् । यत्र तु न प्रमाणान्तरमस्ति यथा विग्रहादिपञ्चके सोऽर्थः शब्दादेवावगन्तव्यः । अतत्परश्च शब्दो न तदवगमयितुमलमिति तदवगमायास्य तत्रापि तात्पर्यमभ्युपेतव्यम् । न चैकं वाक्यमुभयपरं भवतीति, वाक्यं भिद्येत । न च सम्भवत्येकवाक्यत्वे वाक्यभेदो युज्यते । तस्मात्प्रमाणान्तरानधिगता विग्रहादिमत्ता-ऽन्यपराच्छब्दादवगन्तव्येति मनोरथमात्रमित्यर्थः । मन्त्राश्च व्रीह्यादिवच्छ्रुत्यादिविधिभिस्तत्र तत्र विनियुज्य- मानाः प्रमाणभावाननुप्रवेशिनः कथमुपयुज्यन्तां तेषु तेषु कर्मस्वेत्यपेक्षायां दृष्टे प्रकारे सम्भवति नादृष्ट-
भामती-व्याख्या
अभाव है, यही कहा जाता है—"इतिहासपुराणमपि पौरुषेयत्वात् प्रमाणान्तरं मूलमाकां-क्षति"। यह जो कहा गया कि मन्त्र और अर्थवाद वाक्यों के द्वारा विग्रहादि-पञ्चक अवगत होता है, उसका खण्डन किया जाता है—"अर्थवादा अपि विधिनेकवाक्यत्वात् स्तुत्यर्थाः"। महर्षि जैमिनि ने अर्थवादवाक्यों के स्वतन्त्र प्रामाण्य का निराकरण करते हुए कहा है—"विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः" (जै. सू. १।२।७) अर्थात् विधि-वाक्य के साथ एकवाक्यतापन्न होकर अर्थवाद वाक्य विधेय की प्रशंसा और निषेध्य पदार्थ की निन्दामात्र में पर्यवसित होते हैं, स्वाभिधेय अर्थ में प्रमाण ही नहीं होते, क्योंकि सर्व-सम्मत न्याय है कि "यत्परः शब्दः, स शब्दार्थः"। अर्थात् जिस पदार्थ में जिस शब्द का तात्पर्य अवसित होता है, वह शब्द उसी अर्थ का अभिधान किया करता है, अन्य अर्थ का नहीं। यदि अन्य अर्थ किसी प्रमाणान्तर से समर्थित होता है, तब वह प्रमाणान्तर ही उस अर्थ में प्रमाण माना जाता है, अर्थवाद वाक्य नहीं, जैसे "वायुर्वे क्षेपिष्ठा देवता" (तै. सं. २।१।१) इस अर्थवाद वाक्य के द्वारा ध्वनित वायु का शीघ्रगामित्व प्रत्यक्ष प्रमाण से समर्थित है, अतः प्रत्यक्ष प्रमाण ही उस अर्थ में प्रमाण माना जाता है, अर्थवाद वाक्य नहीं। किन्तु अर्थवाद के द्वारा ध्वनित जिस विग्रहादि-पञ्चकरूप अर्थ में कोई प्रमाणान्तर भी नहीं, वह अर्थ केवल अर्थवाद-वाक्य से प्रमाणित हो सकता था। जब कि अर्थवाद वाक्य का उसमें तात्पर्य ही नहीं, तब वह, उससे प्रमाणित क्योंकर होगा। एक ही अर्थवाद वाक्य विधेयार्थ की प्रशंसा भी करे और विग्रहादि-पञ्चक का प्रतिपादन भी—ऐसा मानने पर वाक्य-भेद हो जाता है—"अर्थभेदाद् वाक्यभेदः" (शाबर. पृ. ७८६)। वाक्य-भेद एक ऐसा दोष है, जिसे यथासम्भव नहीं होने देना चाहिए—"सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते" (श्लो. वा. पृ. १३५)। फलतः देवता में विग्रहादिमत्ता अन्यार्थपरक अर्थवाद वाक्य से प्रमाणित होगी—यह मनोरथ मात्र है।
इसी प्रकार मन्त्र वाक्य भी विग्रहादि को प्रमाणित नहीं कर सकते, क्योंकि वे स्वयं श्रुति, लिङ्गादि प्रमाणों के द्वारा वैसे ही किसी अर्थ में विनियुक्त होते हैं, जैसे "व्रीहिभिर्य-जेत"—यहाँ तृतीया विभक्तिरूप श्रुति के द्वारा व्रीहि का याग में विनियोग होता है। वे किसी अर्थ में प्रमाण ही नहीं माने जाते। 'मन्त्राः कर्मसु कथं विनियुज्यन्ताम्'—इस प्रकार की कैमर्थ्याकांक्षा में दृष्ट प्रकार सम्भव होने पर अदृष्ट-कल्पना उचित नहीं होती। इस प्रकार तो
| देवादेर्ज्ञानेऽधिकारः ] | हिन्दीसहितभामतीसंवलितम् | ४१७ |
|---|
भावो देवादीनामधिकारस्य ॥ ३२ ॥
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
तुशब्दः पूर्वपक्षं व्यावर्तयति । बादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यते । यद्यपि मध्वादिविद्यासु देवतादिव्यामित्रास्वसंभवोऽधिकारस्य, तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां संभवः । अर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्षत्वादधिकारस्य । न च क्वचिदसंभव इत्येतावता यत्र संभवस्तत्राप्यधिकारोऽपोद्येत । मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः संभवति । तत्र यो न्यायः सोऽत्रापि भविष्यति । ब्रह्मविद्यां च प्रकृत्य भवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्—'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्' (बृ० १।४।१०) इति । 'ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्' इति । 'इन्द्रो ह वै देवानामाभिप्रवव्राज विरोचनोऽसुराणाम्' (छा० ८।७।२) इत्यादि च । स्मार्तमपि गन्धर्वयाज्ञवल्क्यसंवादादि । यदप्युक्तं—ज्योतिषि भावाच्चेति । अत्र ब्रूमः—ज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथाव्यवहारात् । अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्या-
भामती
कल्पनोचिता । दृष्टश्च प्रकारः प्रयोगसमवेतार्थस्मरणं, स्मृत्वा चानुतिष्ठन्ति बल्यनुष्ठातारः पदार्थान् । औत्सर्गिकी चार्थपरता पदानामित्यपेक्षितप्रयोगसमवेतार्थस्मरणातत्पर्याणां मन्त्राणां नानधिगते विग्रहादावपि तात्पर्यं युज्यत इति न तेभ्योऽपि तत्सिद्धिः । तस्माद् देवताविग्रहवत्तादिभावग्राहकप्रमाणाभावात् प्राप्ता षष्ठप्रमाणगोचरतास्येति प्राप्तम् ॥ ३२ ॥
एवं प्राप्तेऽभिधीयते—भावन्तु बादरायणोऽस्ति हि—
ॐ तुशब्दः पूर्वपक्षं व्यावर्तयति ॐ इत्यादि, ॐ भूतधातोरित्यादिष्वचेतनत्वमभ्युपगम्यते ॐ इत्यन्तमतिरोहितार्थम् । ॐ मन्त्रार्थवादादिव्यवहाराद् इति ॐ । आदिग्रहणेनेतिहासपुराणधर्मशास्त्राणि
भामती-व्याख्या
यही है कि मन्त्रों से कर्मानुष्ठान में अपेक्षित क्रिया और उसके साधनीभूत देवतादि का स्मरण करके ही कर्मानुष्ठान सम्भव होता है । पदों में पदार्थपरता का होना एक औत्सर्गिक नियम है, अतः मन्त्र वाक्य का प्रयोग-समवेतार्थ के स्मरण को छोड़ कर विग्रहादि-पञ्चकरूप अनधिगतार्थ में तात्पर्य नहीं माना जा सकता, अतः मन्त्रादि के द्वारा भी देव-विग्रहादि की सिद्धि नहीं हो सकती । फलतः सद्भाव-साधक प्रत्यक्षादि पाँच प्रमाणों के द्वारा जब विग्रहादि की सिद्धि नहीं हो सकी, तब अनुपलब्धिरूप छठे प्रमाण के द्वारा उनका अभाव ही सिद्ध होता है ॥ ३२ ॥
कथित पूर्व पक्ष का निराकरण किया जाता है—"भावं तु बादरायणोऽस्ति हि" । सूत्रस्थ 'तु' शब्द के द्वारा पूर्वपक्ष की व्यावृत्ति करते हुए आचार्यवर बादरायण का कहना है कि ब्रह्मविद्या में देवताओं के अधिकार का सद्भाव है । यह जो कहा गया कि लोक-प्रसिद्ध ज्योतिर्मण्डल में ही 'आदित्य' पद का प्रयोग होता है, ज्योतिर्मण्डल चेतन नहीं, जड़मात्र है, अतः आदित्य उपासना कर ही नहीं सकता कि उसे अधिकार दिया जाय । वह कहना संगत नहीं, क्योंकि प्रसिद्ध ज्योतिर्मण्डल को आदित्य न कह कर उसके अधिष्ठातृ देव को आदित्य कहते हैं, वह चेतन है, जड़ नहीं । मन्त्र और अर्थवादादि वाक्यों में वैसा ही व्यवहार देखा जाता है । 'मन्त्रार्थवादादि'—यहाँ 'आदि' शब्द के द्वारा इतिहास, पुराण और धर्मशास्त्र का
५३
४१८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. ३३
तमभिश्वावस्थातुं, यथेष्टं च तं तं विग्रहं ग्रहीतुं सामर्थ्यम् । तथा हि श्रूयते सुब्रह्म- ण्यार्थवादे—मेधातिथेर्मेषेति । 'मेधातिथिं ह काण्वायनमिन्द्रो मेषो भूत्वा जहार' ( षड्विंश० ब्रा० १।१ ) इति । स्मर्यते च—आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम ह' इति । मृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते 'मृदब्रवीदापोऽब्रुवन्' इत्या- दिदर्शनात् । ज्योतिरादेस्तु भूतघातोरादित्यादिष्वचेतनत्वमभ्युपगम्यते । चेतना- स्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिव्यवहारादित्युकम् । यदप्युक्तं - मन्त्रार्थ- वादयोरन्यार्थत्वान्न देवताविग्रहादिप्रकाशनसामर्थ्यमिति । अत्र ब्रूमः-प्रत्ययाप्रत्ययौ हि सद्भावासद्भावयोः कारणं, नान्यार्थत्वमनन्यार्थत्वं वा । तथाह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिपद्यते ।
अत्राह-विषम उपन्यासः । तत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति, येन तदस्तित्वं प्रतिपद्यते । तत्र पुनर्विध्युद्देशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे न पार्थग्- र्थ्येन वृत्तान्तविषया प्रवृत्तिः शक्याऽध्यवसातुम् । नहि महावाक्येऽर्थप्रत्यायकेऽवा- न्तरवाक्यस्य पृथक्प्रत्यायकत्वमस्ति यथा 'न सुरां पिबेत्' इति नञ्वति वाक्ये पद- त्रयसंबन्धात्सुरापानप्रतिषेध एवैकोऽर्थोऽवगम्यते, न पुनः सुरां पिबेदिति पदद्वय-
भामती
गृह्णन्ते । मन्त्रादीनां व्यवहारः प्रवृत्तिस्तस्य दर्शनादिति । पूर्वपक्षमनुभाषते । ॐ यदप्युक्तम् इति ॐ । एकदेशिमतेन तावत्परिहरति ॐ अत्र ब्रूमः इति ॐ । तदेतत् पूर्वपक्षिणमुत्थाप्य दूषयति ॐ अत्राह ॐ पूर्वपक्षी । शाब्दी खल्वियं गतिः । यत्तात्पर्याधीनवृत्तित्वं नाम नह्यन्यपरः शब्दोऽन्यत्र प्रमाणं भवितु- मर्हति । नहि श्वित्रिनिमार्जनपरं श्वेतो धावतीति वाक्यम् , इतः सारमेयवेगवद्गमनं गमयितुमर्हति । न च नञ्वति महावाक्येऽवान्तरवाक्यार्थो विधिरूपः शक्योऽवगन्तुम् । न च प्रत्ययमात्रात्सोऽप्यर्थोऽस्य भवति,
भामती-व्याख्या
ग्रहण किया गया है। 'मन्त्रादि-व्यवहार' का अर्थ है—मन्त्रादि वाक्यों की अर्थ-बोधन में प्रवृत्ति, वह अनुभव-सिद्ध है।
पूर्व-पक्ष का अनुवाद किया जाता है—"यदप्युक्तं मन्त्रार्थवादयोरन्यार्थत्वान्न देवता- विग्रहादिप्रकाशनसामर्थ्यम्"। इस पूर्वपक्ष का वेदान्त के एकदेशी आचार्य के मत से परिहार किया जाता है—"अत्र ब्रूमः"। इस एकदेशी आचार्य के मत का पूर्वपक्षी के माध्यम से खण्डन किया जाता है—"अत्राह पूर्वपक्षी"। यह शाब्दी मर्यादा है कि जिस शब्द का जिस अर्थ में तात्पर्य है, उस शब्द की उसी अर्थ में वृत्तिता (अभिधेयता) मानी जाती है, अत एव अन्यपरक शब्द अन्य अर्थ में प्रमाण नहीं हो सकता, जैसे कि 'श्वेतो धावति'—इस वाक्य में 'श्वेतः' शब्द के दो अर्थ होते हैं—( १ ) श्वेत कुष्ठवाला व्यक्ति और ( २ ) 'श्वा इतः'—ऐसा छेद करने पर कुत्ता इधर—ऐसा अर्थ होता है। उसी प्रकार 'धावु गतिशुद्ध्योः' धातु से निष्पन्न 'धावति' क्रिया पद के भी दो अर्थ होते हैं ( १ ) धोता है और ( २ ) दौड़ता है। 'श्वेत कुष्ठवाला (श्वित्री) व्यक्ति अपना कुष्ठ धोता है'—इस अर्थ के बोधक 'श्वेतो धावति'—इस वाक्य के द्वारा 'कुत्ता इधर दौड़ रहा है'—ऐसा अर्थ नहीं किया जा सकता । इसी प्रकार "नातिरात्रे षोडशिनं गृह्णाति'—इस महावाक्य का षोडशिग्रहण-कर्त्तव्यतारूप अवान्तर वाक्यार्थ में तात्पर्य पर्यवसित नहीं हो सकता । 'किसी वाक्य को सुनने के अनन्तर किसी अर्थ की जैसे-तैसे प्रतीति हो गई'—एतावता उस अर्थ में उस वाक्य का तात्पर्य नहीं माना जा सकता, क्योंकि प्रतीति भ्रमात्मक भी हो सकती हैं। शब्द प्रमाण ही वक्ता के तात्पर्य की अपेक्षा करता है, प्रत्यक्षादि प्रमाण नहीं, क्योंकि जो व्यक्ति जलाहरण के उद्देश्य से
अर्थवादानामुपयोगः ] हिन्दूसहितभामतीसंवलितम् ४१९
संबन्धात्सुरापानविधिरपीति । अत्रोच्यते—विषम उपन्यासः । युक्तं यत्सुरापान- प्रतिषेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणम् । विध्युद्देशार्थवादयोस्त्वर्थवाद-
भामती
तत्प्रत्ययस्य भ्रान्तत्वात् । न पुनः प्रत्यक्षादीनामियं गतिः । नह्युदकाहरणार्थिना घटदर्शनायोन्मीलितं चक्षुर्घटपटौ वा पटं वा केवलं नोपलभते । तदेवमेकदेशिनि पूर्वपक्षिणा दूषिते परमसिद्धान्तवाद्याह ॐअत्रो- च्यते । विषम उपन्यासः इति ॐ । अयमभिसन्धिः--लोके विशिष्टार्थप्रत्यायनाय पदानि प्रयुक्तानि तदन्त- रेण न स्वार्थमात्रस्मरणे पर्यवस्यन्ति । नहि स्वार्थस्मरणमात्राय लोके पदानां प्रयोगो दृष्टपूर्वः । वाक्यार्थे तु दृश्यते । न चैतान्यस्मारितस्वार्थानि साक्षाद्वाक्यार्थं प्रत्याययितुमीशते इति स्वार्थस्मरणं वाक्यार्थमि- तयेऽवान्तरव्यापारः कल्पितः पदानाम् । न च यदर्थं यत् तत् तेन विना पर्यवस्यतीति न स्वार्थमात्रा- भिधानेन पर्यवसानं पदानाम् । न च नञ्वति वाक्ये विधानपर्यवसानम् । तथा सति नञ्पदमनर्थकं स्यात् । यथाहूः—
साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् ।
वर्णस्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ इति ।
सेयमेकस्मिन्वाक्ये गतिः । यत्र तु वाक्यस्यैकस्य वाक्यान्तरेण सम्बन्धस्तत्र लोकानुसारतो भूतार्थ-
भामती-व्याख्या
घट देखने के लिए आँख खोलता है, वह पुरोऽवस्थित घट और पट—दोनों या केवल पट को क्या नहीं देखता ?
इस प्रकार पूर्वपक्षी के द्वारा एकदेशी का खण्डन हो जाने के पश्चात् परम सिद्धान्त- वादी कहता है—"अत्रोच्यते विषम उपन्यासः" । अभिप्राय यह है कि लोक में जिस विशिष्ट अर्थ की प्रतीति कराने के लिए पद प्रयुक्त होते हैं, उसके बिना पद केवल स्वार्थमात्र के स्मरण में पर्यवसित नहीं होते, क्योंकि केवल (असंसृष्ट) पदार्थ का स्मरण दिलाने के लिए पदों का प्रयोग नहीं देखा जाता, वाक्यार्थरूप विशिष्टार्थ की प्रतीति कराने के लिए तो स्वार्थ- स्मारकत्वेन पदों का प्रयोग देखा जाता है, क्योंकि पद अपने स्वार्थ का स्मरण न दिला कर साक्षात् वाक्यार्थ का बोध नहीं करा सकते । पदों के ही दो व्यापार माने जाते हैं—(१) पदार्थ स्मरण और (२) स्मृत पदार्थों के द्वारा वाक्यार्थ का अवबोधन । फलतः पदार्थ-स्मारण पदों का अवांतर व्यापार है। पदों का परम तात्पर्य वाक्यार्थ-बोधन है, उसके बिना केवल स्वार्थाभिधानमात्र से पदों का पर्यवसान नहीं माना जाता । नञ्-घटित वाक्य का विधानरूप वाक्यार्थैकदेश में तात्पर्य सम्भव नहीं, अन्यथा नञ् पद का प्रयोग ही निरर्थक हो जाता है, जैसा कि वार्तिककार ने कहा है—
साक्षाद् यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् ।
वर्णास्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥ (श्लो. वा. पृ. ९४३)
[पद यद्यपि साक्षात् पदार्थों का अभिधान ही करते हैं, तथापि उतने मात्र से उनका तात्पर्य समाप्त नहीं होता, अपितु वाक्यार्थ-बोध कराने के लिए पदों का पदार्थ-प्रतिपादन व्यापार वैसा ही नान्तरीयक (अनिवार्य) है, जैसा कि ओदनादि के पाक का निष्पादन करने के लिए चूल्हे में लगी लकड़ियों का अग्नि प्रज्वलित करना]। यह तो एक वाक्य की प्रक्रिया है।
| ४२० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ३३ |
|---|
स्थानि पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्यान्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते । यथा हि—'वायव्यं श्वेतमालभेत भूतिकामः' इत्यत्र विध्युद्देशवर्तिनां वायव्यादिपदानां विधिना संबन्धः, नैवं 'वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति' इत्येषामर्थवादगतानां पदानाम् । न हि भवति वायुर्वा आलभेतेति क्षेपिष्ठा देवता वा आलभेतेत्यादि । वायुस्वभावसंकीर्तनेन त्ववान्तरमन्वयं प्रतिपद्यैव विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्ति । तद्यत्र सोऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति, तत्र तदनुवादेनार्थवादः प्रवर्तते । यत्र प्रमाणान्तरविरुद्धस्तत्र गुणवादेन । यत्र तु तदुभयं नास्ति तत्र किं प्रमाणान्तराभा-
भामती
व्युत्पत्तौ च सिद्धायामेकैकस्य वाक्यस्य तत्तद्विशिष्टार्थप्रत्यायनेन पर्यवसितवृत्तिनः पश्चात् कुतश्चिद्धेतोः प्रयोजनान्तरापेक्षायामन्वयः कल्प्यते । यथा 'वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति वायव्यं श्वेतमालभेत' इत्यत्र । इह हि यदि न स्वाध्यायाध्ययनविधिः स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थतामनेष्यत्ततो भूतार्थमात्रपर्यवसितार्थवादा विध्युद्देशेन नैकवाक्यतामगमिष्यन् । तस्मात् स्वाध्यायविधिवशात् कैमर्थ्याकाङ्क्षायां वृत्तान्तादिगोचराः सन्तस्तत्प्रत्यायनद्वारेण विधेयप्राशस्त्यं लक्षयन्ति, न पुनरविवक्षितस्वार्था एव तल्लक्षणे प्रभवन्ति; तथा सति लक्षणैव न भवेत् । अभिधेयाविनाभावस्य तद्बीजस्याभावात् । अत एव गङ्गायां घोष इत्यत्र गङ्गाशब्दः स्वार्थसम्बद्धमेव तीरं लक्षयति न तु समुद्रतीरं, तत्कस्य हेतोः, स्वार्थप्रत्यासत्त्यभावात् । न चैतत्सर्वं स्वार्थाविवक्षायां कल्पते । अत एव यत्र प्रमाणान्तरविरुद्धार्था अर्थवादा दृश्यन्ते, यथादित्यो वै यूपो यजमानः प्रस्तर इत्येवमादयः । तत्र
भामती-व्याख्या
जहाँ एक वाक्य का वाक्यान्तर से सम्बन्ध होता है, वहाँ लोक-व्यवहार के आधार पर सिद्धार्थ-बोधकता को सिद्धवत् मान कर प्रत्येक वाक्य अपने विशिष्टार्थ के अवबोधन में पर्यवसित हो जाता है, किन्तु पश्चात् किसी विशेष आकाङ्क्षा को लेकर एक वाक्यार्थ का दूसरे वाक्यार्थ के साथ सम्बन्ध जोड़ा जाता है, जैसे 'वायव्यं श्वेतमालभेत भूतिकामः, वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेनभागधेयेनोपधावति स एवैनं भूतिं गमयति” ( तै. सं. २।१।१ ) यहाँ “वायव्यमालभेत भूतिकामः”—इतना विधि वाक्य और शेष अर्थवाद वाक्य है। “स्वाध्यायोऽध्येतव्यः” ( तै. आ. २।१५ ) यह विधि वाक्य यदि 'स्वाध्याय' पद से अभिहित अर्थवादादि-घटित सकल वेद-राशि में पुरुषार्थ-पर्यवसायिता अवगमित न करता, तब भूतार्थ-मात्र का प्रतिपादन कर अर्थवाद वाक्य चरितार्थ हो जाते और विधि-वाक्य के साथ एकवाक्यतापन्न नहीं होते । अतः स्वाध्यायाध्ययन-विधि के द्वारा 'किमर्थमिदमर्थवादवाक्यम् ?' इस प्रकार की उत्थापित कैमर्थ्याकांक्षा में अर्थवादवाक्य एक अपने किसी वृत्तान्तान्वाख्यान के माध्यम से वायुदेवताक कर्मादिरूप विधेयार्थ की प्रशंसा कर देते हैं कि 'प्रशस्तमिदं कर्म, तस्मादवश्यं कर्त्तव्यम्' । अर्थवाद वाक्य अपने अभिधेयार्थ का प्रतिपादन करके ही कथित प्राशस्त्य के लक्षक होते हैं, अन्यथा नहीं, जैसा कि वार्तिककार कहते हैं—'अभिधेयाविनाभूते-प्रतीतिर्लक्षणोच्यते' ( तं. वा. पृ. ३५४ ) अत एव 'गङ्गायां घोषः'—यहाँ पर 'गङ्गा' पद अपने प्रवाहरूप अभिधेय ( शक्य ) अर्थ से सम्बन्धित तट का ही लक्षक होता है, समुद्र-तटादि का नहीं, ऐसा क्यों ? इस लिए कि समुद्र-तट के साथ गङ्गा के शक्यार्थ का सम्बन्ध नहीं होता। यह सब कुछ स्वार्थ की अववक्षा करके अर्थवाद वाक्य नहीं कर सकते। अत एव जहाँ अर्थवाद वाक्य प्रमाणान्तर से विरुद्ध अर्थ का अभिधान करते हैं, जैसे—"आदित्यो वै यूपः" (तै. ब्रा. २।१।५ ), "यजमानः प्रस्तरः" ( तै. सं.
अर्थवादानामुपयोगः ] हिन्दीसहितभामतीसंवलितम् ४२१
भामती
यथा प्रमाणान्तराविरोधः यथा च स्तुत्यर्थता तदुभयसिद्धयर्थं गुणवादस्त्विति च तत्सिद्धिरिति चासूत्र- यज्जैमिनिः । तस्माद्यत्र सोऽर्थोऽर्थवादानां प्रमाणान्तरविरुद्धस्तत्र गुणवादेन प्राशस्त्यलक्षणेति लक्षित- लक्षणा । यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादिवाsubार्थवादादपि सोऽर्थः प्रसिध्यति । द्वयोः परस्परा- नपेक्षयोः प्रत्यक्षानुमानयोरिवैकत्रार्थे प्रवृत्तेः । प्रमात्रपेक्षया त्वनुवादकत्वं, प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्यक्षादिभ्योऽर्थमवगच्छति न तथाऽऽम्नायतस्तत्र व्युत्पत्त्याद्यपेक्षत्वात्, न तु प्रमाणापेक्षया द्वयोः स्वार्थे-
भामती-व्याख्या
२।६।५।३) इत्यादि स्थलों पर प्रमाणान्तर के अविरोध एवं विधेयार्थ के प्राशस्त्य का सम्पादन जैसे हो सके, वैसा मार्ग अपनाने के लिए महर्षि जैमिनि ने सङ्केत किया है—"गुणवादस्तु" (जै. सू. १।२।१०), "तत्सिद्धिः" (जै. सू. १।४।२३) अर्थात् प्रमाणान्तर से विरुद्ध अर्थ का प्रतिपादन करनेवाले अर्थवाद वाक्यों की गौणी वृत्ति अपनाकर विधि वाक्यों के साथ एकवाक्यता की जा सकती है, जैसे कि प्रस्तर (एक मुट्ठी भर कुशा) को वेदी में बिछाकर उसके ऊपर जुहू आदि पात्र रखे जाते हैं। उस प्रस्तर को यजमान इसलिए कह दिया गया है कि उससे यजमान के कार्य (यागानुष्ठान) की सिद्धि होती है, अतः प्रस्तर उतना ही श्रेष्ठ और उपादेय है, जितना कि यजमान। [जैसे 'सिंहो माणवकः'—यहाँ 'सिंह' पद की स्वशक्यार्थगत शूरत्वरूप गुण के सम्बन्ध से माणवक में वृत्ति (प्रवृत्ति) मानी जाती है, अतः इस वृत्ति का नाम गौणी वृत्ति कहा जाता है। वैसे ही 'यजमानः प्रस्तरः'— यहाँ पर यजमान में जो याग-साधनत्व गुण है, उसके सम्बन्ध से 'यजमान' पद की प्रस्तर में प्रवृत्ति का नाम गौणी वृत्ति है। तत्सिद्धि-पेटिका में इतना ही प्रदर्शित किया गया है और अर्थवादाधिकरण में जो अर्थवाद-वाक्यों की विधि-वाक्य के साथ एकवाक्यता सिद्ध की गई है, वह यहाँ लक्षितलक्षणा के द्वारा सम्पन्न होती है, क्योंकि "अभिधेयाविनाभूते प्रतीति- र्लक्षणोच्यते" (तं० वा० पृ० ३५४) इसके अनुसार 'यजमान' पद का जो अभिधेय (शक्य) अर्थ है—यजमानत्व, उससे अविनाभूत है—याग-साधनत्व और याग-साधनत्व का अविनाभूत प्रशस्तत्व है, जिसकी आधारता यहाँ प्रस्तर में विवक्षित है। "प्रस्तरं बर्हिष उत्तरं सादयति" (तै. सं. २।६।५) इस विधि वाक्य के द्वारा प्रस्तर का विधान किया जाता है, विधेयार्थ की प्रशंसा करके ही अर्थवाद वाक्य विधि वाक्य से एकवाक्यतापन्न होते हैं, अतः यहाँ 'यजमान' पद के द्वारा लक्षित की लक्षणा प्राशस्त्य में होने के कारण लक्षितलक्षणा कही जाती है। वस्तुतः जैसे 'द्विरेफ' पद की लक्षणा दो रकारों से घटित 'भ्रमर' पद में होती है और 'भ्रमर' पद का अभिधेय भौंरा होता है, अतः 'द्विरेफो गुञ्जति'—यहाँ लक्षित-लक्षणा मानी जाती है, वैसे ही प्रायः सर्वत्र अर्थवाद वाक्यों की 'प्रशस्तम्', पद में लक्षणा करके 'प्रशस्तत्वाद् विधे- यम्'—ऐसी पदैकवाक्यता विवक्षित होती है, फलतः लक्षितलक्षणा पर्यवसित हो जाती है ]। जहाँ पर अर्थवाद वाक्यों का प्रत्यक्षादि प्रमाणान्तर से संवाद (समर्थन) प्राप्त होता है, वहाँ पर विवक्षित पदार्थ में प्रमाणान्तर के समान ही अर्थवाद वाक्य भी प्रमाण माना जा सकता है, क्योंकि किसी-किसी वस्तु की सिद्धि में प्रत्यक्ष और अनुमान—दोनों प्रमाण परस्पर निरपेक्ष होकर जैसे प्रवृत्त हो जाते हैं, वैसे ही प्रमाणान्तर और अर्थवाद वाक्य— दोनों ही एक ही अर्थ के साधक माने जाते हैं किन्तु प्रमाता की दृष्टि में वैसे स्थल पर अर्थ- वाद वाक्य को अनुवादक माना जाता है, क्योंकि प्रमाता व्यक्ति जब तक अव्युत्पन्न (अगृहीतशक्तिक) है, तब तक शब्द के द्वारा अर्थावबोध नहीं कर सकता, प्रत्यक्षादि प्रमाणों के द्वारा वह जैसे पदार्थों की अवगति करता है, वैसे शब्द के द्वारा नहीं, वहाँ
| ४२२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ३३ |
|---|
भामती ऽनपेक्षत्वादित्युक्तम् । नन्वेवं मानान्तरविरोधेऽपि कस्माद् गुणवादो भवति यावता शब्दविरोधे मानान्तर- मेव कस्मान्न बाध्यते । वेदान्तैरिवाद्वैतविषयैः प्रत्यक्षादयः प्रपञ्चगोचराः कस्माद्धार्थवादवद्वेदान्ता अपि गुणवादेन न नीयन्ते । अत्रोच्यते—लोकानुसारतो द्विविधो हि विषयः शब्दानाम् , द्वारतश्च तात्पर्यतश्च । यथैकस्मिन् वाक्ये पदानां पदार्था द्वारतो वाक्यार्थश्च तात्पर्यतो विषयः । एवं वाक्यद्वयैकवाक्यतायामपि यथेयं देवदत्तीया गौः क्रेतव्येत्येकं वाक्यमेषा बहुक्षीरेत्यपरं, तदस्य बहुक्षीरत्वप्रतिपादनं द्वारम् । तात्पर्यं तु क्रेतव्येति वाक्यान्तरार्थे । तत्र यद् द्वारतस्तत्प्रमाणान्तरविरोधेऽन्यथा नीयते । यथा विषं भक्षयेति वाक्यं माऽस्य गृहे भुङ्क्ष्वेति वाक्यान्तरार्थपरं सत् । यत्र तु तात्पर्यं तत्र मानान्तरविरोधे पौरुषेयमप्रमाणमेव भवति । वेदान्तास्तु पौर्वापर्यपर्यालोचनया निरस्तसमस्तभेदप्रपञ्चब्रह्मप्रतिपादनपरा अपौरुषेयतया स्वतःसिद्धतात्त्विकप्रमाणभावाः सन्तस्तात्त्विकप्रमाणभावात् प्रत्यक्षादीनि प्रच्याव्य सांव्यावहारिकेतस्मिन् व्यवस्थापयन्ति । न चादित्यो वै यूप इति वाक्यमादित्यस्य यूपत्वप्रतिपादनपरमपि तु यूपस्तुतिपरम् । तस्मात्प्रमाणान्तरविरोधे द्वारभूतो विषयो गुणवादेन नीयते, यत्र तु प्रमाणान्तरं विरोधकं नास्ति
भामती-व्याख्या व्युत्पत्ति की ही अपेक्षा होती है, प्रमाणान्तर की नहीं, क्योंकि दोनों प्रमाण परस्पर निरपेक्ष होकर ही प्रमेय-प्रवण माने जाते हैं, यह कहा जा चुका है। शङ्का—प्रमाणान्तर का विरोध रहने पर भी वाक्यों को अत्यन्त अप्रमाण न मानकर गौणी वृत्ति क्यों अपनाई जाती है ? प्रमाणान्तर के विरोध पर शब्द को गौणी वृत्ति अप- नाने के लिए क्यों विवश किया जाता है, प्रमाणान्तर का ही विरोधी शब्द के द्वारा वैसे ही बाध क्यों नहीं मान लिया जाता, जैसे अद्वैतविषयक प्रत्यक्षादि प्रमाणों का बाध होता है ? अथवा प्रमाणान्तर-विरुद्ध अर्थवाद वाक्यों में जैसे गुणवाद माना जाता है, वैसे प्रत्यक्षादि से विरुद्ध अर्थ के प्रतिपादक वेदान्त वाक्यों में गुणवाद क्यों नहीं लागू किया जाता ? समाधान — लौकिक व्यवहार के आधार पर शब्दों की द्विविध प्रवृत्ति मानी जाती है—(१) द्वार ( साधन) रूपेण और (२) तात्पर्यतः । जैसे एक ही वाक्य में पदों के पदार्थ और वाक्यार्थ — दोनों ही विषय माने जाते हैं, द्वाररूपेण पदार्थ और तात्पर्य रूपेण वाक्यार्थ । अर्थात् पद अपने पदार्थ-स्मरण के द्वारा वाक्यार्थ के बोधक होते हैं। वैसे ही दो वाक्यों की एकवाक्यता में भी माना जाता है, जैसे- 'इयं देवदत्तीया गौः क्रेतव्या' और 'एषा बहुक्षीरा' यहाँ पर बहुक्षीरत्वादि का प्रतिपादन द्वारमात्र है, परमतात्पर्य तो क्रयण की कर्तव्यता में ही होता है। उनमें द्वारभूत पदार्थों का यदि प्रमाणान्तर से विरोध उपस्थित होता है, तब गौणादि वृत्तियों के द्वारा शब्दों का अन्यथा-नयन किया जाता है, 'विषं भक्षय'—इस वाक्य का तात्पर्य 'मा अस्य गृहे भुङ्क्ष्व'—इस वाक्य के विषयीभूत अर्थ में ही प्रमाणान्तर का विरोध उपस्थित होता है, वहाँ पौरुषेय वाक्य तो अत्यन्त अप्रमाण हो जाते हैं, किन्तु वेदान्त- वाक्यों का पौर्वापर्य की आलोचना से द्वैत-प्रपञ्च-रहित ब्रह्म तत्त्व में ही परम तात्पर्य निश्चित होता है। अपौरुषेय होने के कारण वेदान्त वाक्यों का प्रामाण्य स्वतःसिद्ध है, अतः इस प्रमाणभाव से गिरा कर प्रत्यक्षादि द्वैतविषयक प्रमाण वेदान्त-वाक्यों का अन्यथा-नयन नहीं कर सकते, प्रत्युत वेदान्त के अनुरोध पर प्रत्यक्षादि प्रमाणों का केवल व्यावहारिक सत्ता के बोधन में ही तात्पर्य पर्यवसित होता है । "आदित्यो वै यूपः" (तै. ब्रा. २।१।५) यह वाक्य आदित्य में यूपत्व (यूपरूपता) का विधायक नहीं, अपितु यूप की स्तुति ही करता है कि यूप पर घृत का लेप कर देने से धूप में वह आदित्य के समान तेजस्वी और चमकीला हो जाता है। इस प्रकार प्रमाणान्तर से विरुद्धार्थक अर्थवाद वाक्यों का गौणी वृत्ति के द्वारा
अर्थवादानामुपयोगः ] हिन्दीसहितभामतीसंवलितम् ४२३
भामती
यथा देवताविग्रहादौ तत्र द्वारतोऽपि विषयः प्रतीयमानो न शक्यस्त्यक्तुम् । न च गुणवादेन नेतुं, को हि मुख्ये सम्भवति गौणमाश्रयेदतिप्रसङ्गात् । तथा सत्यनधिगतं विग्रहमपि प्रतिपादयद् वाक्यं भिद्येतेति चेत् । अद्धा भिन्नमेवैतद्वाक्यं, तथा सति तात्पर्यभेदोऽपीति चेत्, न, द्वारतोऽपि तदवगतौ तात्पर्यान्तरकल्पनाया अयोगात् । न च यत्र यस्य न तात्पर्यं तस्य तत्राप्रामाण्यं तथा सति विशिष्टपरं वाक्यं विशेषणेऽप्रमाणमिति विशिष्टपरमपि न स्यात्, विशेषणाविषयत्वात् । विशिष्टविषयत्वेन तु तदाक्षेपे परस्पराश्रयत्वम् । आक्षेपादिशेषणप्रतिपत्तौ सत्यां विशिष्टविषयत्वं विशिष्टविषयत्वाच्च तदाक्षेपः । तस्माद्विशिष्टप्रत्ययपरेभ्योऽपि पदेभ्यो विशेषणानि प्रतीयमानानि तस्यैव वाक्यस्य विषयत्वेनानिच्छताप्यभ्युपेयानि यथा, तथाऽन्यपरेभ्योऽप्यर्थवादवाक्येभ्यो देवताविग्रहादयः प्रतीयमाना असति प्रमाणान्तरविरोधे न युक्तास्त्यक्तुं, न हि मुख्यार्थसम्भवे गुणवादो युज्यते । न च भूतार्थमप्यपौरुषेयं वचो मानान्तरापेक्षं स्वार्थे येन मानान्तरासम्भवे भवेदप्रमाणमित्युक्तम् ।
स्यादेतत्—तात्पर्यभेदेऽपि यदि वाक्यभेदः कथं तर्ह्यर्थैकत्वादेकं वाक्यम् । न, तत्र तत्र यथास्वं तत्तत्पदार्थविशिष्टैकपदार्थप्रतीतिपर्यवसानसम्भवात् । स तु पदार्थान्तरविशिष्टः पदार्थ एकः क्वचिद् द्वारभूतः क्वचिद् द्वारीत्येतावन् विशेषः ।
भामती-व्याख्या
सामञ्जस्य किया जाता है ।
जहाँ पर अर्थवाद वाक्यों का कोई प्रमाणान्तर विरोधी नहीं होता, वहाँ द्वारभूत अर्थ में भी गौणी वृत्ति नहीं अपनाई जाती, जैसे देवता-विग्रहादि के प्रतिपादक अर्थवाद वाक्य । ऐसे स्थल पर मुख्यार्थ का परित्याग नहीं किया जाता, क्योंकि प्रमाणान्तर-विरोधरूप निमित्त के बिना मुख्यार्थ का त्याग कर देने पर अतिप्रसङ्ग उपस्थित होता है । अर्थवाद वाक्य यदि प्रमाणान्तरानधिगत देव-विग्रहादि के भी प्रतिपादक माने जाते हैं, तब वाक्यभेदापत्ति क्यों नहीं ? इस प्रश्न का उत्तर यह है कि ऐसे स्थल पर वाक्य-भेद माना ही जाता है । यदि वाक्य-भेद है, तब उन वाक्यों के तात्पर्य का भी भेद क्यों नहीं ? देवता-विग्रहादि की सिद्धि जब अर्थवादों के द्वारभूत अर्थ के द्वारा हो जाती है, तब उनमें तात्पर्य मानना व्यर्थ है । द्वारभूत अर्थ में जिस वाक्य का तात्पर्य नहीं, उसका उसमें प्रामाण्य नहीं होगा ? यदि यहाँ प्रामाण्य नहीं माना जाता, तब विशिष्टार्थ-परक वाक्य के अविषयीभूत विशेषणात्मक अर्थ में भी प्रामाण्य क्योंकर होगा ? 'विशिष्टार्थपरकं वाक्यं विशेषणविषयकम्, विशिष्टार्थविषयकत्वात्'—ऐसा अनुमान करने पर अन्योन्याश्रयता होती है, क्योंकि आक्षेप या अनुमान के द्वारा विशेषण की प्रतिपत्ति होने पर विशिष्टविषयकत्व और विशिष्टविषयकत्व के द्वारा विशेषणविषयकत्व की सिद्धि होती है । अतः विशिष्टार्थपरक वाक्यों के द्वारा प्रतीयमान विशेषणभूत अर्थों में जैसे उन वाक्यों की विषयता मानी जाती है, वैसे ही अन्यपरक अर्थवाद वाक्यों के द्वारा प्रतीयमान विग्रहादि का प्रमाणान्तर से विरोध न होने पर परित्याग नहीं किया जा सकता । मुख्यार्थ की उपपत्ति होने पर गौण अर्थ नहीं अपनाया जाता—यह कहा जा चुका है । भूतार्थविषयक अपौरुषेय वाक्य भी मानान्तर-सापेक्ष नहीं होते कि उनका मानान्तरानपेक्षत्वात्मक प्रामाण्य समाप्त हो जाता ।
तात्पर्य की एकता होने पर भी यदि वाक्य-भेद माना जाता है. तब महर्षि जैमिनि ने उनमें जो एकत्व का प्रतिपादन किया है—"अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्" (जै. सू. २।१।४६ ) । वह उपपन्न क्योंकर होगा ? इस शङ्का का समाधान यह है कि वहाँ पर भी तत्तत्पदार्थ-विशिष्ट एकपदार्थ की प्रतीति में पर्यवसान माना जा सकता है। वह पदार्थान्तर से विशिष्ट पदार्थ कहीं द्वारभूत होता है और कहीं द्वारी ( मुख्य )—यह अन्य बात है ।
| ४२४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ३३ |
|---|
वाद् गुणवादः स्यात्, आहोस्वित्प्रमाणान्तराविरोधाद्विद्यमानवाद इति प्रतीतिशरणैर्विद्यमानवाद आश्रयणीयो न गुणवादः। एतेन मन्त्रो व्याख्यातः। अपि च विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम्। न हि स्वरूपरहितेन्द्राद्यश्वस्तस्यारोपयितुं शक्यन्ते। नच चेतस्यानारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते। श्रावयति च — 'यस्य देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्' (ऐ० ब्रा० ३।८।१) इति। नच शब्दमात्रमर्थस्वरूपं संभवति शब्दार्थयोर्भेदात्। तत्र
भामती
नन्वेवं सत्योदनं भुक्त्वा ग्रामं गच्छतीत्यत्रापि वाक्यभेदप्रसङ्गः। अन्यो हि संसर्ग ओदनं भुङ्क्तेति, अन्यस्तु ग्रामं गच्छतीति। न एकत्र प्रतीतेरपर्यवसानाद्, भुङ्क्तेति हि समानकर्तृकता पूर्वकालता च प्रतीयते। न चेयं प्रतीतिरपरकालक्रियान्तरप्रत्ययमन्तरेण पर्यवस्यति। तस्माद्यावति पदसमूहे पदाहिताः पदार्थस्मृतयः पर्यवस्यन्ति तावदेकं वाक्यम्। अर्थवादवाक्ये चेताः पर्यवस्यन्ति, विनैव विधिवाक्यं विशिष्टार्थप्रतीतेः। न च द्वाभ्यां द्वाभ्यां पदाभ्यां विशिष्टार्थप्रत्ययपर्यवसानात् पञ्चषट्पदवति वाक्ये एकस्मिन्नानात्वप्रसङ्गः। नानात्वेऽपि विशेषणानां विशेष्यस्यैकत्वात्, तस्य च सकृच्छ्रुतस्य प्रधानभूतस्य गुणभूतविशेषणानुरोधेनावर्त्तनायोगात्। प्रधानभेदे तु वाक्यभेद एव। तस्माद्विधिवाक्यादर्थवादवाक्यमन्यदिति वाक्ययोरेव स्वस्ववाक्यार्थप्रत्ययावसितव्यापारयोः पश्चात् कुतश्चिदपेक्षायां परस्परान्वय इति सिद्धम्।
भामती-व्याख्या
शङ्का — विभिन्नार्थ के प्रतिपादक वाक्यों की एकवाक्यता नहीं मानी जाती है, तब 'ओदनं भुक्त्वा ग्रामं गच्छति'— इत्यादि स्थल पर भी वाक्य-भेद होना चाहिए, क्योंकि 'ओदनं भुक्त्वा'— इसका अर्थ अन्य है और 'ग्रामं गच्छति'— इसका अन्य।
समाधान — उक्त स्थल पर एक अर्थ में प्रतीति का पर्यवसान नहीं होता, क्योंकि 'भुक्त्वा'— ऐसा कहने पर दो क्रियाओं की समानकर्तृता और भोजन क्रिया में पूर्वकालता प्रतीत होती है, जैसा कि आचार्य पाणिनि कहते हैं— "समानकर्तृकयोः पूर्वकाले क्त्वा" (पा. सू. ३।४।२१)। अतः यह प्रतीति अन्यकालीन क्रियान्तर की प्रतीति के बिना सम्भव नहीं। फलतः जितने पद-समूह में पदों के द्वारा उपस्थापित पदार्थों की स्मृतियाँ पर्यवसित होती हैं, उतने समूह को एक वाक्य कहते हैं। अर्थवाद वाक्य में उक्त पदार्थ-स्मृतियाँ पर्यवसित हो जाती हैं, क्योंकि विधि-वाक्य के बिना ही विशिष्टार्थ की प्रतीति उपपन्न हो जाती है। 'इस प्रकार तो दो-दो पदों के द्वारा विशिष्टार्थ की प्रतीति पर्यवसित हो जाती है, अतः पाँच-छः पदवाले एक वाक्य में भी नानात्व (वाक्य-भेद) होना चाहिए'— इस आपत्ति का परिहार यह है कि उक्त स्थल पर विशेषणों के अनेक होने पर भी विशेष्य एक ही है। वह प्रधानभूत है, अतः सकृत् श्रुत है, उसकी आवृत्ति गुणीभूत पदार्थों के अनुरोध पर नहीं हो सकती, अपितु 'प्रतिप्रधानं गुणावृत्तिः'— इस न्याय के आधार पर गुण (अङ्ग) रूप पदार्थों की आवृत्ति होती है, [जैसा कि महर्षि जैमिनि का सङ्केत है— "शेषस्य हि परार्थत्वाद् विधानात् प्रतिप्रधानभावः स्यात्" (जै. सू. ११।१।४)। भाष्यकार भी कहते हैं— "न च प्रधानं प्रतिगुणं भिद्यते, प्रतिप्रधानं हि गुणो भिद्यते" (शाबर. पृ. ६६७)। वार्तिककार की भी स्पष्ट उक्ति है—
प्रधानं नीयमानं हि तत्राङ्गान्न्यपकर्षति।
अङ्गमाकृष्यमाणं तु नाङ्गान्तरमसज्जते ॥ (तं. वा. पृ. ४८६) ]
दो प्रधान पदार्थ एक वाक्य के द्वारा प्रतिपादित नहीं होते, क्योंकि प्रधान पदार्थों का भेद होने
देवताया ब्रह्मविद्यायामधिकारः ] हिन्दीसहितभामतीसंवलितम् ४२५
भामती
ॐ अपि च विधिभिरेवेन्द्रादिदैवत्यानि इति ॐ । देवतामुद्दिश्य हविरवमृश्य च तद्विषयस्वत्वत्याग इति यागशरीरम् । न च चेतस्यानालिखिता देवतोद्देष्टुं शक्या, न च रूपरहिता चेतसि शक्यते आलेखितुमिति यागविधिनेव तद्रूपापेक्षिणा यावद्गम्यमपरेभ्योऽपि मन्त्रार्थवादेभ्यस्तद्रूपमवगतं तदभ्युपेयते । रूपान्तरकल्पनायां मानाभावात् । मन्त्रार्थवादयोरत्यन्तपरोक्षवृत्तिप्रसङ्गाच्च । यथा हि 'व्रात्यो व्रात्यस्तोमेन यजेत' इति व्रात्यस्वरूपापेक्षायां 'यस्य पिता पितामहो वा सोमं न पिबेत् स व्रात्य' इति सिद्धवद् व्रात्यस्वरूपमवगतं व्रात्यस्तोमविध्यपेक्षितं सद्गिधिप्रमाणकं भवति, यथा वा स्वर्गस्वरूपमलौकिकं स्वर्गकामो यजेतेति विधिनापेक्षितं सदर्थवादतोऽवगम्यमानं विधिप्रमाणकम् , तथा देवतारूपमपि । ननूद्देशो रूपज्ञानमपेक्षते न पुनः रूपसत्तामपि, देवतायाः समारोपेणापि च रूपज्ञानमुपपद्यते इति
भामती-व्याख्या
पर वाक्य-भेद हो ही जाता है। फलतः विधि वाक्य से अर्थवाद वाक्य भिन्न है। विधि और अर्थवादरूप दोनों भिन्न वाक्य अपने-अपने वाक्यार्थों का बोध जब करा चुकते हैं, तब उत्थापित आकाङ्क्षा के द्वारा दोनों का परस्पर अन्वय होता है यह सिद्ध हो गया।
"अपि च विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम्"— इस भाष्य का आशय यह है कि देवता के उद्देश्य से द्रव्य (हवि) का निर्देश करते हुए द्रव्यगत स्वत्व का मानस त्याग ही याग कहलाता है। [ "यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात्" (जै. सू. ४।२।२७) की व्याख्या में भाष्यकार ने कहा है—"द्रव्यं देवतामुद्दिश्य त्यज्यते, तस्य च क्रिया, यया क्रियया तयोः सम्बन्धो भवति"। वार्तिककार ने याग और होम का स्वरूप बताते हुए कहा है—देवतोद्देशेन स्वत्वत्यागमात्रं यागः, देवतोद्दिश्यत्यज्यमानस्वत्वद्रव्यप्रक्षेपो जुहोतिः" (तं. वा. पृ. ९८१)]। देवता को तभी उद्देश किया जा सकता है, जब कि मन में उसका आलेख (रेखाङ्कन) हो। रूप-रहित पदार्थ का चित्त में आलेख कभी नहीं हो सकता, अतः याग-विधि के द्वारा ही देवता का वह रूप स्वीकृत किया जाता है, जो विधेय-स्तुतिपरक अर्थवाद वाक्यों से अवगत होता है। उससे भिन्न रूपान्तर की कल्पना में कोई प्रमाण नहीं। किसी प्रकार यदि रूपान्तर की कल्पना करते हैं, तब देवता के स्वरूप का रेखाङ्कन करनेवाले मन्त्र और अर्थवाद वाक्य अत्यन्त उपेक्षित और निरर्थक-से हो जाते हैं। जैसे "व्रात्यो वा व्रात्यस्तोमेन यजेत" [अपने कर्मों और संस्कारों से रहित द्विज व्रात्य कहलाता है, उसके लिए प्रायश्चित्त के रूप में व्रात्यस्तोम नाम के एकाह क्रतु का विधान 'लाट्यायन' (८।६), 'ताण्ड्य' (१७।२।१) और 'कात्यायन' (१७।४।१) इत्यादि शास्त्रों में किया गया है। सब व्रात्य चार प्रकार के माने गए हैं—(१) हीनाचार, (२) निन्दित, (३) कनिष्ठ और (४) ज्येष्ठ। व्रात्यस्तोम भी चार ही होते हैं। उनमें से प्रथम स्तोम का अधिकारी हीनाचार, द्वितीय का निन्दित, तृतीय का कनिष्ठ और चतुर्थ का ज्येष्ठ अधिकारी माना जाता है]। इन व्रात्यस्तोमों के विधि वाक्य को अपना कर्म-विधान सम्पन्न करने के लिए "यस्य पिता पितामहो वा सोमं न पिबेत्, स व्रात्यः"—इत्यादि वाक्यों से प्रतिपादित व्रात्य के स्वरूप की अपेक्षा है, अतः उस व्रात्य के स्वरूप में विधि-वाक्य ही मौलिक प्रमाण माना जाता है। अथवा जैसे "स्वर्गकामो यजेत"— इस विधि के द्वारा अलौकिक स्वर्ग-स्वरूप अपेक्षित है। वह किसी अर्थवाद से अवगत होने पर भी विधिप्रमाणक ही माना जाता है। वैसे ही अर्थवादादि से अवगत देवता-स्वरूप भी विधिप्रमाणक ही माना जाता है।
शङ्का—यह जो कहा गया कि यागरूप स्वत्व-त्याग किसी देवता के उद्देश्य से किया
५४
४२६ [ अ. १ पा. ३ सू. ३३
यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम् । इतिहासपुराणमपि व्याख्यातेन मार्गेण संभवन्मन्त्रार्थवादमूलत्वात् प्रभवति देवताविग्रहादि साधयितुम् । प्रत्यक्षादिमूलमपि संभवति-भवति ह्यस्माकमप्रत्य- क्षमपि चिरंतनानां प्रत्यक्षम् । तथा च व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते । यस्तु ब्रूयादिदानींतनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्य- मिति, स जगद्वैचित्र्यं प्रतिषेधेत् । इदानीमिव च नान्यदापि सार्वभौमः क्षत्रियोऽ- स्तीति ब्रूयात् । ततश्च राजसूयादिचोदनोपरुन्ध्यात् । इदानीमिव च कालान्तरेऽप्य- व्यवस्थितप्रायान्वर्णश्रमधर्मान्प्रतिजानीते । ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं स्यात् । तस्माद्धर्मोत्कर्षवशाच्चिरंतना देवादिभिः प्रत्यक्षं व्यवजह्रुरिति श्लिष्यते । अपि च स्मरन्ति- 'स्वाध्यायादिष्टदेवतासंप्रयोगः' (यो० सू० २।४४) इत्यादि ।
भामती
समारोपितमेव रूपं देवतायाः मन्त्रार्थवादैरुच्यते । सत्यं, रूपज्ञानमपेक्षते । तच्चान्यतोऽसम्भवान्मन्त्रार्थ- वादेभ्य एव, तस्य तु रूपस्यासति बाधकेऽनुभवारूढं तथाभावं परित्यज्यान्यथात्वमननुभूयमानमसाम्प्रतं कल्पयितुम् । तस्माद्विध्यपेक्षितमन्त्रार्थवादैरन्यपरेरपि देवतारूपं बुद्धावुपनिधीयमानं विधिप्रमाणकमेवेति युक्तम् । स्यादेतत् - विध्यपेक्षायामन्यपरावपि वाक्यादवगतोऽर्थः स्वीक्रियते, तदपेक्षैव तु नास्ति, शब्द- रूपस्य देवताभावात्, तस्य च मानान्तरवेद्यत्वादित्यत आह ॐ न च शब्दमात्रम् इति ॐ । न केवलं मन्त्रार्थवादतो विग्रहसिद्धिरपि त्वितिहासपुराणलोकस्मरणेभ्यो मन्त्रार्थवादमूलेभ्यो वा प्रत्यक्षादि- मूलेभ्यो वेत्याह ॐ इतिहास इति ॐ । ॐ श्लिष्यते ॐ युज्यते । निगदव्याख्यातमन्यत् । तदेवं मन्त्रार्थ-
भामती-व्याख्या
जाता है, उसके लिए देवता-स्वरूप की अपेक्षा होती है। वहाँ यह शङ्का होती है कि अपेक्षित देवता का स्वरूप वस्तुसत् न होकर भी यदि आरोपित मान लिया जाता है, तब भी देवता के स्वरूप का ज्ञान सम्पन्न हो जाता है, अतः वास्तविक देव-स्वरूप की क्या आवश्यकता ?
समाधान-यह ठीक है कि देवता के रूप-ज्ञान की अपेक्षा है, वह ज्ञान अन्य प्रकार से सम्भव न होकर मन्त्र और अर्थवाद वाक्यों से उत्पन्न होता है। मन्त्रादि से प्रकाशित देवता के स्वरूप का जब कोई बाधक प्रमाण उपलब्ध नहीं होता, तब उसे वास्तविक न मान कर आरोपित मानना सर्वथा अनुचित है। इस प्रकार मन्त्र और अर्थवाद वाक्यों के द्वारा बुद्धि में देव-स्वरूप का जो चित्रण किया जाता है, वह विधिप्रमाणक ही है, अर्थवादादि- प्रमाणक नहीं, क्योंकि अर्थवादादि वाक्यों का तात्पर्य कर्म की प्रशंसा में ही होता है, देवता- स्वरूप-प्रकाशन में नहीं।
यह जो "यस्यै देवतायै हविगृहीतं स्यात् तां मनसा ध्यायेत्" (ऐ. ब्रा. ३।८।१)-इस वाक्य में निर्दिष्ट देवता-ध्यान का स्वरूप बताते हुए देवस्वामी ने कहा है-"देवतासम्बन्धिनः शब्दस्यैव ध्येयत्वम्, श्रुतिसमवायात् । आग्नेयम्, ऐन्द्रमित्यादौ श्रुत्यैव देवताप्रतिपादकस्यैव तद्धितेन ध्येयत्वम्, नार्थं (सङ्कर्ष. पृ. २०५) । इससे शब्दात्मक देवता की ही प्रतीति होती है, उसका निराकरण किया जाता है-"न च शब्दमात्रमर्थस्वरूपं सम्भवति, शब्दार्थयो- र्भेदात्"। केवल मन्त्र और अर्थवाद वाक्यों से ही देवता के विग्रहादि की सिद्धि नहीं होती, अपितु इतिहास, पुराण, लोक-प्रसिद्धि से भी होती है-"इतिहास-पुराणमपि व्याख्यातेन मार्गेण सम्भवन्मन्त्रार्थवादमूलत्वात् प्रभवति देवताविग्रहादि साधयितुम्" । "चिरन्तना देवादिभिः प्रत्यक्षं व्यवजह्रुरिति श्लिष्यते"। यहाँ 'श्लिष्यते' का अर्थ है-युज्यते । अर्थात् यह जो प्रसिद्धि है कि व्यासादि महर्षियों में योगज धर्म का इतना उत्कर्ष था कि वे देवगणों