भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

१५८ आयुर्वेदौयग्रन्थमाला । [लेहाधिकारः कुलिङ्गः कृष्णसारश्च तेषां मांसानि योजयेत् । नालिकेरपयःपानं सुनिषण्णकवास्तुकम् ॥ २१५ ॥ शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् । फलं वार्ताकपक्वामं खर्जूरं स्वादुदाडिमम् ॥ २१६ ॥ ककारपूर्वकं यच्च मांसं चानूपसंभवम् । वर्जनीयं विशेषेण खण्डखाद्यं प्रकुर्वता ॥ २१७ ॥ रक्तपित्ते द्वितीयो वासावलेहः । तुलामादाय वासायाः पचेदष्टगुणे जले । तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ २१८ ॥ चूर्णानामभयानां तु खण्डाच्छुद्धाच्छतं तथा । द्वे पले पिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् ॥२१९। कुडवं पलमानं तु चातुर्जातं सुचूर्णितम् । क्षित्वा विलोडितं खादेद्रक्तपित्ती यथाबलम् ॥२२०। श्वासकासक्षतच्छर्दिर् यक्ष्माणं च नियच्छति । श्वासकासयोर्भार्गीगुडावलेहः । शतं संग्राह्य भार्ग्यास्तु दशमूल्यास्तथा परम् ॥ २२१। शतं हरीतकीनां च पचेत्तोये चतुर्गुणे । पादशेषे च तस्मिंस्तु रसे वस्त्रपरिस्रुते ॥ २२२ ॥ आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः । पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमागतम् ॥ २२३ ॥ शीते तु मधुनश्चात्र षट्पलानि प्रदापयेत् । त्रिकटु त्रिसुगन्धं च पालिकं च पृथक् पृथक् ॥२२४। कर्षद्वयं यवक्षारं संचूर्ण्य प्रक्षिपेत्ततः । भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत् ॥ २२५ ॥ श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा । स्वरवर्णप्रदो ह्येष जठरानलदीपनः ॥ २२६ ॥ हरीतकीशतैकस्य वारिप्रस्थमिहाधिकम् ।

गदनिग्रहः । १५९ श्वासकासयोः कुलत्थगुडावलेहः । कुलत्थो दशमूलं च तथैव द्विजयाष्टिका ॥ २२७ ॥ शतं शतं च संगृह्य चतुर्द्रोणेऽम्भसः पचेत् । अष्टभागावशेषे तु गुडस्यार्धतुलां क्षिपेत् ॥ २२८ ॥ शीतीभूते च पके च मधुनोऽष्टौ पलानि च । पलानि षट् तुगाक्षीर्याः पिप्पल्या द्वे पले तथा॥२२९॥ त्रिसुगन्धिसुगन्धं तं खादेदग्निबलं प्रति । श्वासं कासं ज्वरं हिक्कां नाशयेत्तमकं तथा ॥ २३० ॥ मानसान्निध्यसंवादाद्विपलं त्रिसुगन्धिनः । श्वासकासयोः पिप्पलीगुडावलेहः । पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी ॥ २३१ ॥ श्वासकासज्वरहरा पाण्डुप्लीहोदरापहा । कासाजीर्णारुचिश्चासहुत्पाण्डुकृमिरोगिषु ॥ २३२ ॥ जीर्णज्वरेऽग्निसादे च शस्यते गुडपिप्पली । अतिसारे कुटजावलेहः । कुटजस्य तुलां दत्त्वा चतुर्द्रोणेऽम्भसः पचेत् ॥२३३॥ द्रोणशेषे रसे तस्मिन्पूते गुडतुलार्धकम् । घृतस्य कुडवं तत्र क्षित्वा मृद्वग्निना पचेत् ॥ २३४ ॥ प्रतिवापे च देयानि द्रव्याण्येतानि धीमता । समङ्गा बिल्वपेशी च मज्जा जम्ब्वाम्रसंभवा ॥ २३५ ॥ पिप्पली चाजमोदं च शुण्ठीमरिचवत्सकम् । मुस्ता भल्लातकं रोध्रं धातकी गजपिप्पली ॥ २३६ ॥ अम्बष्ठा वालकं चैव द्वे बृहत्यौ सचित्रकौ । षड्ग्रन्था पिप्पलीमूलं विडङ्गानि हरीतकी ॥ २३७ ॥ नागकेसरयष्टीकार्लुत्वकूपत्रकेसरम् । विषा चेन्द्रयवाः पाठा सूक्ष्मैला जीरकद्वयम् ॥ २३८॥

१६० आयुर्वेदौयग्रन्थमाला । [लेहाधिकारः एभिः कर्षसमैर्भागैर्लेहवत्सं प्रसाधयेत् । मधुनः कुडवं सिद्धे शीते तस्मिन्विनिक्षिपेत् ॥ २३९। अपेक्ष्य कायाग्निवलं मात्रया योजयेद्भिषक् । तक्रेण वा सतक्रं वा भोजनं हितमिष्यते ॥ २४० ॥ एतद्धि ग्रहणीरोगमतीसारान् सुदारुणान् । प्रवाहिकां निहन्त्याशु वृक्षमन्द्राशनिर्यथा ॥ २४१ ॥ अतीसारे कुटजावलेहः । शतं कुटजमूलस्य क्षुण्णं तोयार्मणे पचेत् । क्वाथे पादावशेषेऽस्मिन्पूते लेहं पुनः पचेत् ॥ २४२ ॥ सौवर्चलयवक्षारबिडसैन्धवपिप्पली- । धातकीन्द्रयवाजाजीचूर्णं दत्त्वा पलद्वयम् ॥ २४३ ॥ लिह्याद्वदरमात्रं तु शीतं क्षौद्रेण संयुतम् । पक्वापकमतीसारं नानावर्णं सवेदनम् ॥ २४४ ॥ दुर्वारं ग्रहणीदोषं जयेच्चैव प्रवाहिकाम् । अर्शस्सु कुटजावलेहः । कुटजत्वक्तुलां द्रोणे पचेदष्टांशशेषितम् ॥ २४५ ॥ कल्कीकृत्य क्षिपेत्तत्र तार्क्ष्यशैलं कटुत्रिकम् । रोध्रद्वयं मोचरसं बालदाडिमजां त्वचम् ॥ २४६ ॥ बिल्वं कर्कटिकां मुस्तं समङ्गां धातकीफलम् । पलोन्मितं दशपलं कुटजस्यैव च त्वचः ॥ २४७ ॥ विंशतिः सर्पिषः पूते पलानि त्रिंशतिर्गुडात् । तत्पक्वं लेहतां यातं धान्ये पक्षस्थितं लिहन् ॥ २४८॥ सवातं ग्रहणीदोषं कासश्वासं निवर्हति । जरायां च्यवनप्राशावलेहः । बिल्वाग्निमन्थश्योनाककाश्मर्यः पाटला बला ॥२४९॥ पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् । शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु ॥ २५० ॥

५.] गदनिग्रहः । १६१ अभया चामृता मुस्ता जीवकर्षभकौ शठी । ऋद्धिः पुनर्नवा मेदा सेव्यं चन्दनमुत्पलम् ॥ २५१ ॥ विदारी वृषमूलानि काकोली काकनासिका । एषां पलोन्मितान् भागान् शतान्यामलकस्य च २५२ पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् । ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् ॥ २५३ ॥ तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः । पलद्वादशके भृष्ट्वा दद्याच्चार्धतुलां भिषक् ॥ २५४ ॥ मत्स्यण्डिकायाः शुद्धाया लेहवत्साधु साधयेत् । षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् ॥ २५५ ॥ चतुष्पलं तुगाक्षीर्याः पिप्पल्या द्विपलं तथा । पलमेकं निदध्याच्च त्वगेलापत्रकेसरात् ॥ २५६ ॥ इत्ययं च्यवनप्राशः परमुक्तो रसायनः । कासश्वासहरश्चैव विशेषेणोपदिश्यते ॥ २५७ ॥ क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः । स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् ॥ २५८ ॥ पिपासां मूत्रशुक्रस्थान्दोषांश्चाप्यपकर्षति । अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् ॥ २५९ ॥ अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत्पुनर्युवा । मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम् । स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥ २६० ॥ रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् । जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥ २६१ ॥ जरायां ब्राह्मरसायनावलेहः । पञ्चानां पञ्चमूलानां भागान्दशपलोन्मितान् । हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥ २६२ ॥

An accurate transcription of the Sanskrit/Ayurvedic text presented in the image:

१६२ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः विदारिगन्धां बृहतीं पृश्निपर्णी निदिग्धिकाम् । विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ॥ २६३ ॥ बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा । पुनर्नवा शूर्पपर्ण्यौ बला चैरण्ड एव च ॥ २६४ ॥ जीवकर्षभकौ वीरा जीवन्ती सशतावरी । शरेक्षुदर्भकासानां शालीनां मूलमेव च ॥ २६५॥ एतेषां पञ्चमूलानां पञ्चानामुपकल्पयेत् । भागान्यथोक्तान् तत्सर्वं साध्यं दशगुणेऽम्भसि २६६ दशभागावशेषं तु पूतं तद्ग्राहयेद्रसम् । हरीतक्यश्च ताः सर्वाः सर्वाण्यामलकानि च ॥ २६७॥ तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चकैः । विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ॥ २६८ ॥ मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च । मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ॥ २६९ ॥ मधुकस्य हरिद्राया वचायाः कनकस्य च । भागान् पञ्चपलांस्कृत्वा सूक्ष्मैलायास्त्वचस्तथा ॥२७०॥ सितोपलासहस्रं च चूर्णितं तुल्याधिकम् । तैलं स्यादाढकं तत्र तथा त्रीणि च सर्पिषः ॥ २७१॥ साध्यं ताम्रमये पात्रे तत्सर्वं मृदुनाऽग्निना । ज्ञात्वा लेहमदग्धं च शीतं क्षौद्रेण संसृजेत् ॥ २७२ ॥ क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने । तिष्ठेत्सम्मूच्छितं तस्य मात्रां काले प्रयोजयेत् ॥ २७३ ॥ या नोपरुन्ध्यादाहारमेवं मात्रा तु सा स्मृता । षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥ २७४ ॥ वैखानसा वालिखिल्यास्तथा चान्ये तपोधनाः । रसायनमिदं प्राश्य बभूवुरमितायुषः ॥ २७५ ॥

५.] गदनिग्रहः । १६३ मुक्त्वा जीर्णं वपुश्चाम्यमवापुस्तरुणं वयः । वीततन्द्रा-क्लम-श्वासा निरातङ्काः समाहिताः ॥ २७६ ॥ मेधास्मृतिबलोपेताश्चिरकालं तपोधनाः । ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥ २७७ ॥ आयुष्कामः प्रयुञ्जानो ब्राह्मं हीदं रसायनम् । दीर्घमायुर्बलं चाग्र्यं कामांश्चेष्टान्समश्नुते ॥ २७८ ॥ क्षतक्षीणेऽमृतप्राशावलेहः । जीवकर्षभकौ वीरा जीवन्ती नागरं शठी । पर्ण्यश्चतस्रो द्वे मेदे काकोल्यौ द्वे निदिग्धिके ॥२७९॥ पुनर्नवे द्वे मधुकमात्मगुप्ता शतावरी । ऋद्धिः पुरुषकं भार्गी मृद्वीका बृहती तथा ॥ २८० ॥ शृङ्गाटकी तामलकी पयस्या पिप्पली बला । बदराक्षोटखर्जूरवातामामिषुकाणि च ॥ २८१ ॥ फलानि चैवमन्यानि कल्कान्कुर्वीत कार्षिकान् । धात्रीरसविदारीक्षुच्छागमांसरसान् पयः ॥ २८२ ॥ दत्त्वा प्रस्थोन्मितान् भागान् घृतप्रस्थं विपाचयेत् । प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥ २८३ ॥ ततो मात्रां प्रयुञ्जीत क्षीरमांसरसाशनः । नष्टशुक्रक्षतक्षीणदुर्बलान् व्याधिकर्षितान् ॥ २८४ ॥ स्त्रीप्रसक्तान् कृशान्वर्णस्वरहीनांश्च बृंहयेत् । कासहिक्काज्वरश्वासतृष्णादाहान् सपैत्तिकान् ॥ २८५॥ निहन्ति छर्दिमूर्च्छाहृद्योनिमूत्रामयापहम् । लघुच्यवनप्राशोऽवलेहः । बिल्वादिपञ्चमूलाब्दबलापर्णीचतुष्टयम् । ऋद्धिकृष्णाशठीपथ्याजीवकर्षभकामृताः ॥ २८६ ॥ द्राक्षा पुनर्नवा मेदे जीवन्ती काकनासिका । उत्पलैलाजशृङ्गयश्च काकोली वृषचन्दनम् ॥ २८७ ॥

१६४ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः विदारीगोक्षुरव्याघ्रीपौष्करं च पलोन्मितम् । शतानि पञ्च धात्र्याश्च जलद्रोणे विपाचयेत् ॥२८८॥ पलद्वादशके भृष्टा धात्रीस्तास्तैलसर्पिषोः । सितार्धतुलया युक्ताः क्वाथं लौहे पुनः पचेत् ॥ २८९ ॥ द्वे पिप्पल्या पले वांश्याश्चत्वारः षट् च माक्षिकात् । चातुर्जातपलं तस्मिन् सिद्धशीते नियोजयेत् ॥ २९० ॥ हृद्रोगश्वासहृत्कासवातरक्तक्षयार्तिजित् । सेव्योऽयं च्यवनप्राशः स्वर्यो वृष्यो रसायनः ॥२९१॥ शोषेऽमृतप्राशोऽवलेहः । छागमांसरसक्षीरविदारीक्षुरसाढकम् । धात्रीफलरसं चैव मृद्वीकानां रसं घृतम् ॥ २९२ ॥ पृथक्प्रस्थोन्मितैरेतैः पचेत्कर्षसमैर्भिषक् । वाताममधुकाक्षोटशृङ्गाटककसेरुकाः ॥ २९३ ॥ परूषकं शठी भार्गी जीवन्ती च पुनर्नवा । खर्जूरं पिप्पली शृङ्गी ह्यात्मगुप्ता सजीवका ॥ २९४ ॥ सिंही व्याघ्रपदी स्याच्च द्राक्षा तामलकी स्थिरा । बदरं कदरं चैव जीवनीयानि यानि च ॥ २९५ ॥ तत्सिद्धं राजते पात्रे निधेयं साधु साधितम् । प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥ २९६ ॥ त्वगेलापत्रमरिचचूर्णं चार्धपलोन्मितम् । विनीय भक्षयेन्मात्रां लिह्याद्वापि यथाबलम् ॥ २९७॥ बलवर्णकरं वृष्यं बृंहणं स्वरबोधनम् । कासश्वासारुचिं हन्यात्तृण्मूर्च्छासृग्दरं तथा ॥ २९८ ॥ परं क्षीणक्षतहितं वन्ध्यापुत्रप्रदायि च । अमृतप्राशनामेदममृतं देवताविव ॥ २९९ ॥ इति श्रीवैद्यसोढलप्रथिते गदनिग्रहेऽवलेहाधिकारः पञ्चमः संपूर्णः ॥

६.] गदनिग्रहः । १६५ ॥ अथातः षष्ठ आसवाधिकारः प्रारभ्यते ॥ कुमार्थासवः । द्रोणमानं कुमार्यास्तु रसं भाण्डे निधापयेत् । तुलार्धं दशमूलं तु तदर्धं पौष्करी जटा ॥ १ ॥ तत्समं धन्वयासं च चित्रार्थं च परिक्षिपेत् । प्रस्थार्थममृता ज्ञेया तदर्थमभया तथा ॥ २ ॥ लोध्रकामलकं पथ्यं मञ्जिष्ठा च कलिद्रुमः । चव्यं च कुष्ठमधुकं कपित्थं सुरदारुकम् ॥ ३ ॥ कृमिशत्रुर्मागधिका भार्गी स्यादष्टवर्गकम् । जीरकं क्रमुको रास्ना शठी रेणुकमेव च ॥ ४ ॥ शृङ्गी निशा प्रियङ्गुश्च मांसी मुस्ता च सारिवा । वासा वरी शक्रबीजं नागकेसरमेव च ॥ ५ ॥ पुनर्नवा समांशानि षड्भिर्द्रोणैर्जलस्य तु । क्वाथयेदनया रीत्या चतुर्थांशं जलं नयेत् ॥ ६ ॥ त्रिंशत्पला च मृद्वीका दन्तसंख्यापलं मधु । गुडस्तुलाचतुष्कं च तदर्धा धातकी भवेत् ॥ ७ ॥ पलद्वयं लवङ्गानि कङ्कोलं मलयोद्भवम् । चातुर्जातं तथा कृष्णा मरिचं जातिपत्रकम् ॥ ८ ॥ आकल्लुकं जातिफलं कपिकच्छुश्च दीप्यकम् । वचा खदिरसारश्च दहनं जीरकं तथा ॥ ९ ॥ यवानी वालकं विश्वा मुस्ता धान्यं हरीतकी । हपुषा तिन्तिडीकं च चूर्णमेषां प्रयोजयेत् ॥ १० ॥ भाण्डे पुराणे सुस्निग्धे धूपिते गन्धभेषजैः । कोष्ठसारे तथा तप्ते भूमौ मासं विनिःक्षिपेत् ॥ ११ ॥ यो रोगी प्रातरुत्थाय पलमेकं तु भक्षयेत् । धातुक्षयं जयेत्कासं श्वासं पञ्चविधं तथा ॥ १२ ॥

१६६ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः अशांसि वातरोगांश्च ग्रहणीपाण्डुकामलाः । हलीमकमुदावर्त्तं गुल्मं पञ्चविधं जयेत् ॥ १३ ॥ आध्मानं कुक्षिशूलं च प्रत्याध्मानं गुदग्रहम् । अष्ठीलिकां च हृद्रोगानेतान् व्याधीन्विनिर्जयेत् ॥ १४ ॥ कुमार्यासव इत्येष कथितः शूलपाणिना । द्वितीयः कुमार्यासवः । रसस्तुलार्धं कौमारस्तदर्धंगुडमिश्रितः । चातुर्जातलवङ्गानां सैन्धवस्य निशाद्वयोः ॥ १५ ॥ कुबेरकृष्णामरिचधातकीनां पलं पलम् । पथ्याचूर्णं पलयुगं पलं चाकल्लुकस्य तु ॥ १६ ॥ उग्रगन्धाजातिपत्रीविडङ्गानां पलं पलम् । एकीकृत्य शुचौ भाण्डे पक्षमेकं निधापयेत् ॥ १७ ॥ पलार्धं भक्षयेन्नित्यं गुल्मोदावर्त्तनाशनः । आध्मानं पार्श्वशूलं च जठरार्तिं कफं हरेत् ॥ १८ ॥ मन्दाग्निं शमयेच्छ्वासं कासं हिक्कां क्षयं तथा । यकृत्प्लीहं तथा शोफं नाशयेत्येष सेवितः ॥ १९ ॥ नवविधा आसवयोनिः । त्वक्पत्रकाण्डपुष्पाणि सारमूलफलानि च । धान्यानि च सिता चापि नव आसवयोनयः ॥ २० ॥ द्रव्यसंयोगतः संख्यातीताः पथ्यतमाश्च ते । द्रव्याणां भेदतो वेदवसु(८४)संख्याः प्रकीर्त्तिताः २१ तद्यथा— षड् धान्यासवाः । सुरासौवीरमैरेयधान्याम्लतुषोदकाः । समेदा रससंख्यास्ते आसवा धान्यतो मताः ॥ २२॥ षड्विंशतिः फलासवाः । द्राक्षाखर्जूरकाश्मर्यजम्ब्वामलविभीतकैः । धन्वराजादनैः पद्मातृणशून्यपरूषकैः ॥ २३ ॥

६.] गदनिग्रहः । १६७ कपित्थम्गलिण्डिकाकार्कन्धूबदरीफलैः । पियालपनसप्लक्षन्यग्रोधोदुम्बरैः सह ॥ २४ ॥ कपीनपीलुबकुलाजमोदाशङ्खिनीफलैः । शृङ्गाटाश्वत्थसंयुक्तः षड्विंशाः फलतो मताः ॥ २५॥ एकादश मूलासवाः । विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरी- । श्यामोरूबूकदन्तीभिर्बिल्ववह्नित्रिवृत्समैः ॥ २६ ॥ मूलैरेकादशैते तु मुनिभिर्मूलतो मताः । विंशतिः सारासवाः । शालप्रियङ्गुस्यन्दनचन्दनखदिरार्जुनैश्च कदरयुतैः । अशनाश्वकर्णसप्तपर्णशमीशिंशिपासहितैः ॥ २७ ॥ अरिमेदतिन्दुकणिहीशुक्तिशिरीषैश्च वञ्जुलसमेतैः । धन्वनमधुकसारैर्विंशतिरात्रेयमुनिनोक्ताः ॥ २८ ॥ दश पुष्पासवाः । पद्मोत्पलनलिनकुमुदसौगन्धिकपौण्डरीकशतपत्रैः । पुष्पैर्मधूकजातैः प्रियङ्गुना धातकीकुसुमैः ॥ २९ ॥ दश पुष्पासवाः पूर्वं मुनिभिः परिकीर्तिताः । चत्वारः काण्डासवाः । चत्वारः काण्डकैः पुण्ड्रेक्षुकाण्डेक्ष्विक्षुवालिकैः ॥३०॥ द्वौ पत्रासवौ । पटोलकतमालाभ्यां द्वौ हि पत्रासवौ मतौ । चत्वारस्त्वगासवाः । तिल्वैलवालुक्रमुकैः सलोध्रैस्त्वकृता हिताः ॥ ३१ ॥ शर्करासवः । शर्करासवं एवैको द्रव्यसंयोगमागतः । आसवानां विकल्पसंस्कारगुणाः । विकल्पा बहुधा ज्ञेयाः संस्कारश्च यथाविधिः ॥ ३२ ॥

१६८ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः स्वयोनिसंस्कृता ह्येते स्वं स्वं कर्म प्रकुर्वते । संयोगसंस्कृतैर्देशकालमात्रस्वभावतः ॥ ३३ ॥ पृथक्तेषां स्वभावांस्तु ज्ञात्वा कार्ये प्रयोजयेत् । श्लोकद्वयमिहार्थे तु मुनिरात्रेय उक्तवान् ॥ ३४ ॥ मनःशरीराग्निवलप्रदानामश्मशोकारुचिनाशनानाम् । हर्षप्रदानां प्रवरासवानामशीतिरुक्ता चतुरुत्तरैषा ॥ ३५ ॥ शरीररोगप्रकृतौ मतानि तत्त्वेन चाहारविनिश्चयाय । उवाच यज्ञःपुरुषादिकेऽस्मिन्मुनिस्तथाग्याणि वरासवांश्च ३६ वातव्याधौ विडङ्गासवः । विडङ्गं पिप्पलीमूलं पाठा धात्र्येलवालुकम् । कुटजत्वक्फलं रास्नां भार्गी पञ्चपलोन्मितान् ॥ ३७ ॥ अष्टद्रोणेऽम्भसः पक्त्वा द्रोणशेषं तु कारयेत् । पूते शीते क्षिपेत्तस्मिन्माक्षिकस्य शतत्रयम् ॥ ३८ ॥ धातक्या विंशतिपलं चूर्णं कृत्वा तु दापयेत् । व्योषस्य तु पलान्यष्टौ त्रिजातद्विपलान्यपि ॥ ३९ ॥ फलिनीहेमतोयानां सरोद्राणां पलं पलम् । घृतभाण्डे समाधाय मासमेकं विधारयेत् ॥ ४० ॥ एष योगो हरत्येव प्रत्यष्ठीलाभभगन्दरान् । ऊरुस्तम्भाश्मरीमेहगण्डमालां सविद्रधिम् ॥ ४१ ॥ आढ्यवातं हनुस्तम्भं विडङ्गाख्यो महासवः । प्रमेहे रोध्रासवः । रोध्रं शठीं पुष्करमूलमेलां मूर्वा विडङ्गं त्रिफलां यवानीम् । चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च ४२ भार्गीनतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषां च पाठाम् । कलिङ्गकान् केसरमिन्द्रसाह्वं नखं सपत्रं मरिचं प्लवं च ॥ ४३ ॥ द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे । रसेऽर्धमाघे संक्षुनः प्रदक्ष्य पक्षं निधेयो घृतभाजनस्थः ॥ ४४ ॥

६.] गदनिग्रहः । १६९ रोध्रासवोऽयं कफपित्तमेहान्क्षिप्रं निहन्याद्विपलप्रयोगात् । पाण्ड्वामयार्शांस्यर्रुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम् ४५ प्रमेहे देवदार्वासवः । देवदारुतुलार्धं तु वासायाः पलविंशतिः । शक्राह्वदन्तीमञ्जिष्ठास्तगरं रजनीद्वयम् ॥ ४६ ॥ रास्ना मुस्तं शिरीषं च कृमिघ्नं खदिरार्जुनौ । भागान्दशपलान्कृत्वा गुडूच्याश्चित्रकस्य च ॥ ४७ ॥ चन्दनस्य यवान्याश्च रोहिण्या वत्सकस्य च । भागान् पञ्चपलानेतानष्टद्रोणेऽम्भसः पचेत् ॥ ४८ ॥ द्रोणशेषे कषाये तु पूते शीते प्रदापयेत् । धातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ॥ ४९ ॥ चतुःपलं त्रिजाताच्च व्योषस्य च पलद्वयम् । पलद्वयं केसरस्य प्रियङ्गोश्च पलद्वयम् ॥ ५० ॥ घृतभाण्डे निदध्याच्च मासमेकं प्रयत्नतः । प्रमेहान्मूत्रकृच्छ्रांश्च वातरोगान् सुदारुणान् ॥ ५१ ॥ ग्रहण्यर्शोविकारांश्च देवदार्वासवो जयेत् । कुष्ठे कनकारिष्टः । खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य । पलिकां मात्रां क्षेप्यां कृत्वा तामेव सूक्ष्मचूर्णं तु ॥ ५२ ॥ त्रिफलात्रिकटुकराजनीकतकत्वग्बाकुचीगुडूच्यश्च । सविडङ्गमत्र मधुपलशतद्वयं प्रक्षिपेत्सर्वम् ॥ ५३ ॥ धातकीपलान्यष्टौ क्वाथे चास्मिन्प्रदेयानि । प्रातः प्रातस्तु पिबेन्नाशयति चिरोत्थितं कुष्ठम् ॥ ५४ ॥ मासेन सर्वरोगान्निहन्ति च शोफमेहांश्च । निर्जितकासश्वासो गुदकीलभगन्दरैर्विनिर्मुक्तः ॥ ५५ ॥ कनकारिष्टं प्रपिबन्भवति पुमान्कनककान्तिश्च । १५

१७० आयुर्वेदौयग्रन्थमाला । [ आसवाधिकारः अर्शसि द्वितीयकनकारिष्टः । नवस्यामलकसैकां कुर्याज्जर्जरीतां तुलाम् । कुडवांशश्व मागध्या विडङ्गं मरिचानि च ॥ ५६ ॥ यवासः पिप्पलीमूलं क्रमुकं चव्यचित्रकौ । मञ्जिष्ठैल्वालुकं रोध्रं पलिकान्युपकल्पयेत् ॥ ५७ ॥ कुष्ठं दारुहरिद्रां च सुराहं सारिवाद्वयम् । मुस्तमिन्द्रयवांश्चैव कुर्यादर्धपलोन्मितान् ॥ ५८ ॥ चत्वारि नागपुष्पस्य पलान्यभिनवस्य च । जलद्रोणद्वयेनैतत्सादधित्वाऽवतारयेत् ॥ ५९ ॥ द्रोणावशेषे पूते च शीते तस्मिन्प्रदापयेत् । मृद्वीकाद्वाढकरसं शीतं निर्यूहसाधितम् ॥ ६० ॥ शर्करायाश्च शुद्धाया दद्याद्द्विगुणितां तुलाम् । कुसुमस्वरसस्यैकमर्धप्रस्थं नवस्य च ॥ ६१ ॥ त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेसरान् । संचूर्णयित्वा मतिमान्कार्षिकान्संप्रदापयेत् ॥ ६२ ॥ तत्सर्वं स्थापयेत्पक्षं सुचौक्षे घृतभाजने । प्रलिप्ते सर्पिषा किंचिच्छर्करागुरुधूपिते ॥ ६३ ॥ पक्षादूर्ध्वमरिष्टोऽयं कनको नाम विश्रुतः । पेयः खांडुरसो हृद्यः प्रयोगाद्भक्तरोचकः ॥ ६४ ॥ अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम् । हृत्पाण्डुरोगश्वयथुगुल्मवर्चोनिलग्रहान् ॥ ६५ ॥ कासान्कफामयांश्चोग्रान्सर्वानेवापकर्षति । वलीपलितखालित्यं दोषजं तु व्यपोहति ॥ ६६ ॥ ग्रहण्यां दुरालभारिष्टः । दुरालभाया द्विप्रस्थं प्रस्थमामलकस्य च । शुण्ठी चित्रकदन्त्योर्द्वे प्रत्यग्रं चाभयाशतम् ॥ ६७ ॥ चतुर्द्रोणेऽम्भसः क्वाथ्यं शीतं द्रोणावशेषितम् ।

६.] गदनिग्रहः । १७१ गुडस्य द्विशतं पूतं मधुनः कुडवान्वितम् ॥ ६८ ॥ तद्धत्प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णकम् । कुडवं घृतकुम्भस्थं पक्षादूर्ध्वं पिबेन्नरः ॥ ६९ ॥ ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत् । स्वरवर्णकरश्चैव रक्तपित्तकफापहः ॥ ७० ॥ अर्शसि दन्त्यरिष्टः । दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः । भागान्पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥ ७१ ॥ त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत् । रसे चतुर्थशेषे तु पूते शीते प्रदापयेत् ॥ ७२ ॥ तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने । तन्मात्रया पिबेन्नित्यमर्शेभ्यः स विमुच्यते ॥ ७३ ॥ ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम् । दीपनं चारुचिहरं दन्त्यरिष्टमिमं विदुः ॥ ७४ ॥ अर्शसि अभयारिष्टः । हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च । कपित्थानां दशपलं ततोऽर्धं चेन्द्रवारुणी ॥ ७५ ॥ विडङ्गं पिप्पली रोध्रं मरिचं सैलवालुकम् । द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ७६ ॥ द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् । गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ ७७ ॥ पक्षादूर्ध्वं भवेत्पेया ततो मात्रा यथाबलम् । अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ७८ ॥ ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः । कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ७९ ॥ सिद्धोऽयमभयारिष्टः कामलाशिव्रनाशनः । कृमिग्रन्थ्यर्बुदव्यङ्गराजक्ष्मज्वरान्तकृत् ॥ ८० ॥

१७२ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः ग्रहण्यां द्वितीयोऽभयारिष्टः । हरीतकीदलप्रस्थं प्रस्थमामलकस्य च । विशालायाः कपित्थस्य पाठाचित्रकमूलयोः ॥ ८१ ॥ द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम् । पादशेषे च पूते च रसे तस्मिन्प्रदापयेत् ॥ ८२ ॥ गुडसैकां तुलां वैद्यः संस्थाप्य घृतभाजने । पक्षस्थितं पिबेन्नित्यं ग्रहणीर्शोविकारनुत् ॥ ८३ ॥ प्लीहहृत्पाण्डुरोगघ्नः कामलाविषमज्वरान् । कासं श्वासमुदावर्तं फलारिष्टो व्यपोहति ॥ ८४ ॥ प्रमेहे तृतीयोऽभयारिष्टः । पलाष्टकांशा वर्षाभूदशमूलार्कचित्रकाः । दन्तीश्यामात्रिवृद्द्द्वाक्षाश्चैवं स्युस्त्रिफलाढका ॥ ८५ ॥ अम्बुद्रोणाष्टके पक्त्वा पादशेषे रसे हृते । द्वे गुडस्य तुले पूते तत्पश्चाद्धटके क्षिपेत् ॥ ८६ ॥ गवां मूत्राढकं, प्रस्थौ द्वावयोरजसस्तथा । विडङ्गं कुटजं कुष्ठं चित्रकं मरिचं वचा ॥ ८७ ॥ संचूर्ण्य द्विपलान्यस्मिन्दत्त्वा मासस्थितं पिबेत् । आभयोऽयमरिष्टेन्द्रो मेहार्शःकुष्ठशोफहा ॥ ८८ ॥ प्लीहपाण्ड्वामयान् गुल्मान् जठराणि च नाशयेत् । पाण्डुरोगे मण्डूरारिष्टः । मण्डूरस्य तु शुद्धस्य तुलार्धं परिकल्पितम् ॥ ८९ ॥ तद्वल्लोहस्य पत्राणि तिलोत्सेधप्रमाणतः । गुडाज्जीर्णात्तु पञ्चाशत्कोलप्रस्थत्रयं तथा ॥ ९० ॥ निकुम्भचित्रकाभ्यां च पले द्वे द्वे सुचूर्णिते । पिप्पलीनां विडङ्गानां कुडवं कुडवं पृथक् ॥ ९१ ॥ त्रींश्चापि त्रिफलाप्रस्थान् जलद्रोणे विपाचयेत् । अर्धमासस्थितो धान्ये पेयोऽरिष्टः प्रमाणतः ॥ ९२ ॥

६.] गदनिग्रहः । १७३ दोषानुभयतः स्राव्य पाण्डुरोगं नियच्छति । कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान् ॥ ९३ ॥ एषोऽरिष्टस्तु माण्डूरः शोफपाण्ड्वामयापहः । क्षयरोगे पिप्पल्यारिष्टः । पिप्पलीरोध्रमरिचपाठाधात्र्येलवालुकम् ॥ ९४ ॥ चव्यचित्रकजन्तुघ्नक्रमुकोशीरचन्दनम् । मुस्ताप्रियङ्गुलवलीहरिद्रामिशिप्लवम् ॥ ९५ ॥ पत्रत्वक्कुष्ठतगरं नागकेसरसंयुतम् । एषामर्धपलान् भागान् द्राक्षां षष्टिपलां क्षिपेत् ॥ ९६ ॥ पलानि दश धातक्या गुडस्य च शतत्रयम् । तोयद्रोणद्वये सिद्धो भवत्येष सुखावहः ॥ ९७ ॥ ग्रहणीपाण्डुरोगार्शःकासगुल्मोदरापहः । पिप्पल्यादिररिष्टोऽयं ज्वरारुचिविनाशनः ॥ ९८ ॥ शोफेऽष्टशतारिष्टः । काश्मर्यधात्रीमरिचाभयाक्षक्षुद्राफलानां तु सपिप्पलीनाम् । शतं शतं क्षौद्रगुडात् पुराणात्तुलां च कुम्भे मधुना प्रलिप्ते ९९ सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेच्चा । शोफान्निबन्धान्कफवातजांश्च संहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च १०० तक्रारिष्टः । हपुषा सुषवी धान्यमजाजी कारवी शठी । पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥ १०१ ॥ यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम् । मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने ॥ १०२ ॥ व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम् । पाययेन्मात्रया कालेष्वन्नस्य तृषितं त्रिषु ॥ १०३ ॥ दीपनो रोचनो बल्यः कफवातानुलोमनः । १. ‘क्षयक्षयकरः परम्’ इति पाठान्तरम् ।

१७२ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः ग्रहण्यां द्वितीयोऽभयारिष्टः । हरीतकीदलप्रस्थं प्रस्थमामलकस्य च । विशालायाः कपित्थस्य पाठाचित्रकमूलयोः ॥ ८१ ॥ द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम् । पादशेषे च पूते च रसे तस्मिन्प्रदापयेत् ॥ ८२ ॥ गुडस्यैकां तुलां वैद्यः संस्थाप्य घृतभाजने । पक्षस्थितं पिबेन्नित्यं ग्रहण्यर्शोविकारनुत् ॥ ८३ ॥ प्लीहहृत्पाण्डुरोगघ्नः कामलाविषमज्वरान् । कासं श्वासमुदावर्तं फलारिष्टो व्यपोहति ॥ ८४ ॥ प्रमेहे तृतीयोऽभयारिष्टः । पलाष्टकांशा वर्षाभूर्दशमूलार्कचित्रकाः । दन्ती श्यामात्रिवृद्राक्षाश्चैवं स्युस्त्रिफलाढका ॥ ८५ ॥ अम्बुद्रोणाष्टके पक्त्वा पादशेषे रसे हृते । द्वे गुडस्य तुले पूते तत्पश्चाद्धटके क्षिपेत् ॥ ८६ ॥ गवां मूत्राढकं, प्रस्थौ द्वावयोरजसस्तथा । विडङ्गं कुटजं कुष्ठं चित्रकं मरिचं वचा ॥ ८७ ॥ संचूर्ण्य द्विपलान्यस्मिन्दत्त्वा मासस्थितं पिबेत् । आमयोऽयमरिष्टेन्द्रो मेहार्शःकुष्ठशोफहा ॥ ८८ ॥ प्लीहपाण्ड्वामयान् गुल्मान् जठराणि च नाशयेत् । पाण्डुरोगे मण्डूरारिष्टः । मण्डूरस्य तु शुद्धस्य तुलार्धं परिकल्पितम् ॥ ८९ ॥ तदर्द्धलोहस्य पत्राणि तिलोत्सेधप्रमाणतः । गुडाज्जीर्णात्तु पञ्चाशत्कोलप्रस्थत्रयं तथा ॥ ९० ॥ निकुम्भचित्रकाभ्यां च पले द्वे द्वे सुचूर्णिते । पिप्पलीनां विडङ्गानां कुडवं कुडवं पृथक् ॥ ९१ ॥ त्रींश्चापि त्रिफलाप्रस्थान् जलद्रोणे विपाचयेत् । अर्धमासस्थितो धान्ये पेयोऽरिष्टः प्रमाणतः ॥ ९२ ॥

६.] गदनिग्रहः । १७३ दोषानुभयतः स्राव्य पाण्डुरोगं नियच्छति । कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान् ॥ ९३ ॥ एषोऽरिष्टस्तु माण्डूरः शोफपाण्डामयापहः । क्षयरोगे पिप्पल्यारिष्टः । पिप्पलीरोध्रमरिचपाठाधात्र्येलवालुकम् ॥ ९४ ॥ चव्यचित्रकजन्तुघ्नक्रमुकोशीरचन्दनम् । मुस्ताप्रियङ्गुलवलीहरिद्रामिशिप्लवम् ॥ ९५ ॥ पत्रत्वक्कुष्ठतगरं नागकेसरसंयुतम् । एषामर्धपलान् भागान् द्राक्षां षष्टिपलां क्षिपेत् ॥ ९६ ॥ पलानि दश धातक्या गुडस्य च शतत्रयम् । तोयद्रोणद्वये सिद्धो भवत्येष सुखावहः ॥ ९७ ॥ ग्रहणीपाण्डुरोगार्शःकासगुल्मोदरापहः । पिप्पल्यादिररिष्टोऽयं ज्वरारुचिविनाशनः ॥ ९८ ॥ शोफेऽष्टशतारिष्टः । काश्मर्यधात्रीमरिचाभयाक्षक्षुद्राफलानां तु सपिप्पलीनाम् । शतं शतं क्षौद्रगुडात् पुराणात्तुलां च कुम्भे मधुना प्रलिप्ते ९९ सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना । शोफान्निबन्धान्कफवातजांश्च संहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च १०० तक्रारिष्टः । हपुषा सुषवी धान्यमजाजी कारवी शठी । पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥ १०१ ॥ यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम् । मन्दाम्लकटुकं विद्वान् स्थापयेद्घृतभाजने ॥ १०२ ॥ व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम् । पाययेन्मात्रया कालेष्वन्नस्य तृषितं त्रिषु ॥ १०३ ॥ दीपनो रोचनो बल्यः कफवातानुलोमनः । १. 'क्षयक्षयकरः परम्' इति पाठान्तरम् ।

१७४ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः गुदश्वयथुकण्ठार्त्तिनाशनो बलवर्धनः ॥ १०४ ॥ अरोचके लघुचुक्रसन्धानम् । गुडक्षौद्रारनालाનાં समस्तूनां यथोत्तरम् । शंसन्ति द्विगुणान्भागान्सम्यक्चुक्रस्य सिद्धये ॥ १०५ ॥ यन्मस्त्वारि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ १०६ ॥ मन्दाग्नौ बृहच्चुक्रसन्धानम् । प्रस्थं तण्डुलतोयतस्तुषजलात्प्रस्थत्रयं चाम्लतः प्रस्थार्धं दधितोऽथ मूलकपलान्यष्टौ गुडान्मानिका । मान्यौ शोधितशृङ्गवेरशकलाद् द्वे सिन्धुजातात्पले द्वे कृष्णोषणयोर्निशापलयुगं निःक्षिप्य भाण्डे दृढे ॥१०७॥ स्निग्धे धान्ययवादिराशिनिहितं त्रीन्वासराSubन्वासयेत् ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पाममे । षट् शीतेऽष्टदिनान्यतः परमिदं विस्राव्य संचूर्णितै- श्चातुर्जातपलैः सुसंहितमिदं शुक्तं च चुक्रं ततः ॥१०८॥ हन्याद्वातकफामदोषजनितान्नानाविधानामयान् । दुर्नामानिलशूलगुल्मजठरान्हृत्वाऽनलं दीपयेत् ॥ १०९ ॥ लवङ्गासवः । लवङ्गपिप्पलीलोहमरिचं सैलवालुकम् । द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ११० ॥ द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् । गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ १११ ॥ पक्षादूर्ध्वं जातरसे दद्यान्मात्रां यथाबलम् । अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ११२ ॥ ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः । कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ११३ ॥ सद्यः क्षयहरोऽरिष्टः कामलाश्रित्रनाशनः ।

६.] गदनिग्रहः । १७५ कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरान्तकृत् ॥ ११४ ॥ प्लीहे रोहीतकासवः । रोहीतकशतमेकं कथितं द्रोणे चतुर्थशेषे तु । तस्मिन्गुडशतमेकं योज्यं शेषैः सुचूर्णितैरेभिः ॥ ११५ ॥ पलमेकं त्रिफलाया देयं त्रिपलं च धातकीपुष्पात् । पलिकं च पञ्चकोलाद्धृतभाण्डे स्थापयेत्पक्षम् ॥ ११६ ॥ ज्वरगुल्मार्शःप्लीहरुग्विग्रहपाण्डुरोगघ्नः । अर्शस्सु गण्डिकाद्रोणः । दद्यात्सलिलद्रोणं कृतमन्येक्षुगण्डिकाद्रोणम् ॥ ११७ ॥ धान्ययवानीदीप्यकपृथ्वौकाश्वेति कुडवांशाः । द्विपलीनाः स्युर्देयास्तेजवतीचव्यचित्रकाजाज्यः ॥ ११८॥ मधुनः कुडवं दत्त्वा घृतरूढे भाजने स्थाप्यः । एष काञ्जिकराजो लवणयुतः कट्कतृणार्द्रकसुगन्धः॥११९॥ दशरात्रात्पातव्यः सलिलं च पुनः पुनर्देयम् । अर्शोभगन्दरगदग्रहणीमेदःप्रमेहदोषांश्च ॥ १२० ॥ नाशयति सेव्यमानो वह्निकरो गण्डिकाद्रोणः । कुष्ठे खदिरासवः । खदिरस्य तुलार्धं तु तत्तुल्यं देवदार्वपि ॥ १२१ ॥ वराया विंशतिर्दान्व्यर्याः पलानां पञ्चविंशतिः । बाकुच्या द्वादशपलांन्यष्टद्रोणेऽम्भसः पचेत् ॥ १२२ ॥ द्रोणशेषे कषाये तु पूते शीते विनिक्षिपेत् । धातक्या विंशतिपलं माक्षिकस्य शतद्वयम् ॥ १२३ ॥ शर्करायास्तुलामेकां चूर्णानीमानि दापयेत् । कङ्कोलकं लवङ्गं च एला जातीफलं त्वचम् ॥ १२४ ॥ केसरं मरिचं पत्रं पलिकान्युपकल्पयेत् । पिप्पलीनां तु कुडवं स्थापयेद्धृतभाजने ॥ १२५ ॥ १ 'वचायाः' इति पाठान्तरम् ।