भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

८६ गौतमधर्मसूत्राणि

जूता (और पादुका आदि) पहने हुए आसन पर न बैठे, अभिवादन और नमस्कार न करे ॥ ४५ ॥

न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः ॥ ४६ ॥

तृतीयार्थे चतुर्थी पञ्चमी वा । पूर्वाह्वादीनह्नस्त्रीन्भागान्धर्मार्थकामैर्यथाशक्त्यफलान्न कुर्यात् किं तर्हि सफलानेव कुर्याद्यथासंख्यम् ॥ ४६ ॥

पूर्वाह्न, मध्याह्न और सायंकाल को क्रमशः धर्म, अर्थ और काम को निष्फल न करे (अर्थात् धर्म, अर्थ और काम को सफल बनावे) ॥ ४६ ॥

तेषु तु धर्मोत्तरः स्यात् ॥ ४७ ॥

तुशब्दोऽनवस्थां परिहरति । तेषु धर्मार्थकामेषु धर्मोत्तरः स्याद्धर्मप्रधानः स्यात् । धर्माविरोधेनार्थकामौ सेवेतेति । तथा च मनुः— परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । इति ॥ ४७ ॥

उन (धर्म, अर्थ और काम) में धर्म प्रधान होना चाहिए (अर्थात् धर्म के विरुद्ध अर्थ और काम का सेवन न करे) ॥ ४७ ॥

न नग्नां परयोषितमीक्षेत ॥ ४८ ॥

परा चासौ योषिच्च परयोषित् । अन्यथा विधवानूढावेश्यादयो न स्युः । तां नग्नां सतीं नेक्षेत ॥ ४८ ॥

दूसरे की स्त्री को नग्न न देखे ॥ ४८ ॥

न पदाऽऽसनमाकर्षेत् ॥ ४९ ॥

पादेनाऽऽसनमात्मसमीपं न प्रापयेत् ॥ ४९ ॥

पैर से आसन को (अपने निकट) न खींचे ॥ ४९ ॥

न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् ॥ ५० ॥

चापलशब्दः प्रत्येकं संबध्यते । शिश्नचापलमक़ाले मैथुनेच्छा । उदरचापलं सर्वदा बिभक्षयिषा । पाणिचापलं शिल्पकर्मशिक्षामिलाषः । पादचापलं पर्यटनम् । वाक्चापलं नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छत इत्येतदतिक्रमेण व्यवहारः । चक्षुश्चापलं नृत्यादिदिदृक्षा । एतानि न कुर्यात् ॥ ५० ॥

लिंग की (अनुचित समय में संभोग आदि से), उदर की (अधिक भोजन

सानुवाद-मिताक्षरावृत्तिसहितानि ८७

की इच्छा से ), हाथ की ( शिल्पकर्म शिक्षा की इच्छा से ), पैर की ( घूमने से ), वाणी की ( अधिक बोलने से ), और नेत्र की ( नृत्य आदि देखने की इच्छा से ) चपलता न करे ॥ ५० ॥

छेदनभेदनविलेखनविमर्द्दनावस्फोटनानि नाकस्मात् कुर्यात् ॥ ५१ ॥

छेदनं तृणादीनाम्। भेदनं घटादेः। विलेखनं कुड्यभूम्यादौ नखादिभिर्विलेखनम्। विमर्द्दनं लोष्टादीनां चूर्णीकरणम्। अवस्फोटनमङ्गुलीनां सशब्दं प्रसारणम्। एतदकस्मान्न कुर्यात्। कारणे त्ववस्फोटनादिषु न दोषः। छेदनादिष्वपि यथासंभवं मृग्यम् ॥ ५१ ॥

( तृण आदि का ) छेदन, ( घड़े आदि का ) फोड़ना, ( दीवाल या पृथ्वी आदि पर नख आदि से ) लिखना, ढेले आदि को फोड़ना, अंगुली चटकाना—ये सब कार्य अकारण न करे ॥ ५१ ॥

नोपरि वत्सतन्तीं गच्छेत् ॥ ५२ ॥

वत्सबन्धनो रज्जुर्वत्सतन्ती । तामुपरि न गच्छेत् । वत्सशब्दो गोजातेरुपलक्षणम् ॥ ५२ ॥

बछड़े ( गौ आदि ) के पगहे के ऊपर से न जाए ॥ ५२ ॥

न कुलंकुलः स्यात् ॥ ५३ ॥

कुलमेव कुलं यस्य स कुलंकुलः। छान्दसो मुडागमः। एवंविधो न स्यात्। अन्यत्र गमनेऽध्ययनादिलाभे सति स्वकुल एव न तिष्ठेदिति। अपर आह—कुलात्कुलान्तरगामी कुलंकुलो दत्तादिरूपेण तथाविधो न स्यात्। स्वसूत्रपरित्यागेन परसूत्रं न भजेदिति। तत्र स्मृत्यन्तरम्—

यः स्वसूत्रं परित्यज्य परसूत्रं निषेवते।
शाखारण्डः स विज्ञेयः सर्वकर्मबहिष्कृतः ॥ इति ॥ ५३ ॥

( अन्यत्र जाकर अध्ययन करना संभव हो तो ) अपने कुल में ही न पड़ा रहे अथवा दत्तक होकर एक कुल से दूसरे कुल में ही न भटकता रहे। अथवा अपने सूत्र का परित्याग करके दूसरे के सूत्र को न अपनाए ॥ ५३ ॥

न यज्ञमवृतो गच्छेत् ॥ ५४ ॥

अवृतोऽनुपामन्त्रितो यज्ञं न गच्छेत् ॥ ५४ ॥

आमन्त्रित न होने पर यज्ञ में ( भाग लेने ) न जाए ॥ ५४ ॥

८८ गौतमधर्मसूत्राणि

दर्शनाय तु कामम् ॥ ५५ ॥

अवृतोऽपि कामं दर्शनाय यज्ञं गच्छेत् । न त्वार्त्विज्यादिलिप्सया ॥ ५५ ॥

यज्ञ देखने के लिए तो आमन्त्रित न होने पर भी अपनी इच्छा से जा सकता है ॥ ५५ ॥

न भक्ष्यानुत्सङ्गे भक्षयेत् ॥ ५६ ॥

भक्षाः पृथुकादयस्तानुत्सङ्गे कृत्वा न भक्षयेत् ॥ ५६ ॥

(पृथुक आदि) खाने की वस्तुएँ गोदी में या आंचल में रखकर न खाए ॥ ५६ ॥

न रात्रौ प्रेष्याहृतम् ॥ ५७ ॥

रात्रौ प्रेष्येण किंकरेण यदानीतं तद्यत्किंचिदपि न भक्षयेत् । न भक्षानेव । एकवचननिर्देशात् ॥ ५७ ॥

रात्रि में सेवक द्वारा लाई गई किसी भी वस्तु का भोजन न करे ॥ ५७ ॥

उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनि चाऽऽत्तवीर्याणि नाश्नीयात् ॥ ५८ ॥

आत्तवीर्याण्युपात्तसारांशानि नाश्नीयात् । कानि पुनस्तानि तेषामुदाहरणप्रपञ्चः । उद्धृतस्नेहे उपात्ताग्रमण्डे दधिपयसी । विलपनं नवनीतमलम् । यन्त्रे पीडितानां तिलानां कल्कः पिण्याकम् । यस्य मथनमात्रं नाम्बुसंसर्गस्तदपि मथितम् । यथाहूर्नैघण्टिकाः—

तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् । इति ।

तच्च द्विविधम् । आत्तनवनीतमितरच्च । तत्राऽऽद्यस्येह ग्रहणं तद्व्यात्तवीर्यस्योदाहरणम् । प्रभृतिग्रहणेन यच्चान्यदेवंविधं कल्करूपं तस्य ग्रहणम् । उद्धृतनवनीतं तक्रमाश्यमनाश्यमिति चिन्त्यम् । आचारस्त्वशनमेव । अभक्ष्यप्रकरणे वक्तव्य इह वचनात्स्नातकव्रतलोपे यत्प्रायश्चित्तं तदेवैषामशने भवति नाभक्ष्यभक्षणनिमित्तम् ॥ ५८ ॥

जिन वस्तुओं का रस निकाल लिया गया हो ऐसी वस्तुओं, मक्खन निकाले गये दधि और दूध, तिल की खली, केवल मथे गए दूध और दही तथा इस प्रकार के अन्य निःसार पदार्थों को न खाए ॥ ५८ ॥

सायंप्रातस्त्वन्नमभिपूजितमनिन्दन्भुञ्जीत ॥ ५९ ॥

तुशब्दस्त्ववधारणे । सायं रात्रिः प्रातरहस्तयोर्द्वयोरेककालयोरशनं भुञ्जीत । नान्तरेति प्राप्तस्य भोजनस्य परिसंख्येयम् । तत्र गुणविधिरभि-

सानुवाद-मिताक्षरावृत्तिसहितानि ८९

पूजितमनिन्दन्निति । अभिपूजितं रोचत इति । अनिन्दन्कदन्नत्वादिदो- षेणाकुत्सयन् । सायं प्रातरशनान्यभिपूजयेदिति वसिष्ठः ॥ ५९ ॥

सायंकाल (अर्थात् रात्रि में) और प्रातःकाल (अर्थात् दिन में) अन्न की पूजा करके (अर्थात् प्रसंसा करते हुए, और उसकी निन्दा न करते हुए भोजन करे ॥ ५९ ॥

न कदाचिद्रात्रौ नग्नः स्वपेत् ॥ ६० ॥

सुष्याद्रात्रौ न तु नग्नः स्वपेत् । तदेवं रात्रौ नग्नस्य स्वापप्रतिषेधो दिवा तु सर्वथेति । कदाचिद्ग्रहणादिदं लभ्यते । अन्यथा रात्रौ न नग्नः स्वपेदित्येव वाच्यं स्यात् ॥ ६० ॥

कभी भी रात्रि में नग्न होकर न सोए ॥ ६० ॥

स्नायाद्वा ॥ ६१ ॥

न नग्न इत्येव । नग्नो जलं नाववरेदिति स्मृत्यन्तरम् ॥ ६१ ॥

नग्न होकर स्नान भी न करे ॥ ६१ ॥

आनन्त्यादाचाराणां प्रतिपदपाठो न शक्य इति संक्षिप्याऽऽह—

यच्चाऽऽत्मवन्तो वृद्धाः सम्यग्विनीता दम्भलोभमोह-

वियुक्ता वेदविद आचक्षते तत्समाचरेत् ॥ ६२ ॥

आत्मवन्तो जितेन्द्रियाः । वृद्धाः परिणतवयसो यौवने विषयवश्य- तासंभवात् । सम्यग्विनीता गुरुभिः शिक्षिताः । दम्भो धर्मच्छलेन लोक- वञ्चनम् । लोभोऽन्यायेन परद्रव्यादित्सा । मोहोऽज्ञानं लोकविरुद्धज्ञानं वा तेन त्यक्ताः । वेदविदः पाठतश्चार्थतश्च वेदानां चोदितारः । अत्र वृद्धा इति विशेष्यम् । एवंभूता वृद्धा यदाचक्षते तत्कर्तव्यमिति । बहुवच- ननिर्देशाद्बहूनामैकमत्ये तद्भवति ॥ ६२ ॥

जितेन्द्रिय, वयोवृद्ध, भलीभाँति शिक्षा प्राप्त किये हुए, दम्भहीन, लोभरहित, अज्ञान से मुक्त तथा वेद के ज्ञाता व्यक्ति जैसा कहें उसके अनुसार आचरण करना चाहिए ॥ ६२ ॥

योगक्षेमार्थमीश्वरमधिगच्छेत् ॥ ६३ ॥

अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेमः । तदर्थमीश्वरं राजानमधिगच्छेत् । अधिशब्दप्रयोगादधिरैश्वर्य इत्यस्मादकार्पण्येन स्वतन्त्रो गच्छेदिति ॥ ६३ ॥

योग (न प्राप्त हुई वस्तु के लाभ) तथा क्षेम (प्राप्त वस्तु की रक्षा) के लिए राजा के निकट जाना चाहिए ॥ ६३ ॥

९० गौतमधर्मसूत्राणि

नान्यमन्यत्र देवगुरुधार्मिकेभ्यः ॥ ६४ ॥

अन्यं राजव्यतिरिक्तं योगक्षेमसमर्थमपि नाधिगच्छेदित्यनुवादः । देवा इन्द्रादयः । गुरवः पित्रादयः । धार्मिका धर्माचरणशीलाः । एतेभ्योऽन्यत्र । एतानविगच्छेद्वेति ॥ ६४ ॥

देवता, (पिता आदि) गुरुजन तथा धार्मिक लोगों के अतिरिक्त अन्य किसी के निकट (राजा को छोड़कर) योगक्षेम के लिए न जाए ॥ ६४ ॥

प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजनभूयिष्ठमनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ॥ ६५ ॥

एधः काष्ठमुदकं स्नानपानयोग्यं यवसं तृणानि गवार्थम् । कुशाः प्रसिद्धाः । माल्यानि पुष्पाणि देवाद्यर्चनार्थम् । उपनिष्क्रम्यते यत्र तदुपनिष्क्रमणं बहिरवकाशः संचाराद्यर्थम् । एवमादीनि प्रभूतानि यत्र । आर्यास्त्रैवर्णिकास्त एव जनास्तैर्भूयिष्ठं व्याप्तम् । अलसाः कृत्येषु निरुद्यमास्तद्विपरीता अनलसास्तैः समृद्धम् । धार्मिका धर्मशीलास्तैर्विशिष्टाचारैरधिष्ठितम् । एवंभूतं निकेतनमावसितुं यतेत । एवंभूते स्थाने यत्नेनापि वसेदिति ॥ ६५ ॥

प्रचुर ईंधन, जल, (गौ आदि के खाने योग्य) घास, कुश, पुष्प, निष्क्रमण के योग्य स्थान वाले, आर्यों (द्विजों) से व्याप्त, उद्यमी (परिश्रमी, आलस्यहीन) व्यक्तियों से समृद्ध तथा धार्मिक पुरुषों द्वारा अधिष्ठित स्थान पर निवास करने का प्रयत्न करे ॥ ६५ ॥

प्रशस्तमङ्गल्यदेवतायतनचतुष्पदं प्रदक्षिणमावर्तेत ॥ ६६ ॥

निर्गमनप्रवेशादिषु यथा ते दक्षिणपार्श्वे भवन्ति तथा कुर्यादिति ॥ ६६ ॥

पूज्य, माङ्गलिक वस्तु, देवमन्दिर और चतुष्पथों को दाहिने करके प्रदक्षिणा करके चले ॥ ६६ ॥

मनसा वा तत्समग्रमाचारमनुपालयेदापत्कल्पः ॥ ६७ ॥

संभवे तु साक्षादनुष्ठानमेवेति ॥ ६७ ॥

आपत्काल में मन से ही उन आचारों का पालन करे ॥ ६७ ॥

सत्यधर्मा ॥ ६८ ॥

सत्यवचनस्वभावः । स्यादिति वक्ष्यमाणमपेक्ष्यते ॥ ६८ ॥

सत्यवचन और सत्यस्वभाव वाला हो ॥ ६८ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि ९१

आर्यवृत्तः ॥ ६९ ॥

पूर्वभाषी प्रियंवद इत्याचार्याणां वृत्तमिव वृत्तं यस्य स तथा । उष्ट्रमुखवन्मध्यमपदलोपः ॥ ६९ ॥

आर्यों की वृत्ति का आचरण करे ॥ ६९ ॥

शिष्टाध्यापकः ॥ ७० ॥

सतामध्यापयिता न त्वयोग्यानाम् ॥ ७० ॥

सज्जन को (अर्थात् योग्य व्यक्ति को) ही शिक्षा प्रदान करे ॥ ७० ॥

शौचशिष्टः ॥ ७१ ॥

शिष्टं शास्त्रविहितं शौचं यस्यास्ति स तथा । निष्ठान्तस्य परनिपातः । शास्त्रविहितेन शौचेन तद्वान् । शौचस्य पुनः पुनर्वचनं तात्पर्यार्थम् ॥ ७१ ॥

शास्त्रविहित शौच नियमों का पालन करे ॥ ७१ ॥

श्रुतिनिरतः स्यात् ॥ ७२ ॥

वेदाभ्यासरत‌ः ॥ ७२ ॥

वेद के अध्ययन में रत रहे ॥ ७२ ॥

नित्यमहिंस्रो मृदुर्दृढकारी दमदानशीलः ॥ ७३ ॥

नित्यं निमित्ते सत्यप्यहिंस्रोऽहिंसाशीलः । मृदुः कृतापराधेऽपि सहकः । दृढकारी प्रारब्धस्य समापयिता न प्राक्रमिकः । दम इन्द्रियनिग्रहः । दानं संविभागः । तच्छीलः स्यादिति सर्वत्रापेक्ष्यते ॥ ७३ ॥

नित्य अहिंसाशील, मृदु अर्थात् सहिष्णु या क्षमाशील, दृढ निश्चयी, संयमी और दानशील हो ॥ ७३ ॥

एवमाचारो मातापितरौ पूर्वापरांश्च सम्बन्धान्दुरितेभ्यो मोक्षयिष्यन्स्नातकः शश्वद्ब्रह्मलोकान्न च्यवते न च्यवते ॥७४॥

एवमुक्तप्रकार आचारो यस्य स एवमाचारः । एवंभूतः स्नातको मातापितरौ पूर्वसंबन्धाः पितामहादयः । अपरसंबन्धाः पुत्रादयः । तांश्च पूर्वापरसम्बन्धान्दुरितेभ्यः पापेभ्यो मोक्षयिष्यन्ये पूर्वं भूतास्तांस्तदैव नरकादिभ्यो मोचयति ये तु भविष्यन्तः पुत्रादयस्तांश्च मोक्षयिष्यन् । सप्रत्ययस्यार्थो मृग्यः (?) । मोचयिष्यन्भवति । स एवंभूतः स्नातकः

९२ | गौतमधर्मसूत्राणि

शश्वद्बहुकालं ब्रह्मलोकान्न च्यवते । द्विरुक्तिरध्यायसमाप्त्यर्था । पुनः स्नातकग्रहणं स्नातकधर्माणामेवैतत्फलं न गृहस्थधर्मसहितानामित्येवमर्थम् ॥ ७४ ॥

इस प्रकार आचरण करने वाला स्नातक अपने माता-पिता, उनके पूर्व के पितामह, मातामह आदि और बाद के पुत्र पौत्र आदि संबन्धियों को पापों से मुक्त करता हुआ चिरकाल तक ब्रह्मलोक से च्युत नहीं होता है (अर्थात् अनन्त काल तक ब्रह्मलोक में निवास करता है ) ॥ ७४ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
नवमोऽध्यायः ॥ ६ ॥

प्रथमः प्रश्नः समाप्तः ।

अथ द्वितीये प्रश्ने प्रथमोऽध्यायः

उक्ताः प्रायश आश्रमधर्माः । अथ वर्णधर्मानाह—

द्विजातीनामध्ययनमिज्या दानम् ॥ १ ॥

यथासंख्यमत्र न भवति । उत्तरत्राधिकग्रहणात्तत्रैव वक्तव्यं भविष्यति । अध्ययनं वेदग्रहणाभ्यासरूपम् । इज्या यागो देवपितृपूजा । दानं पात्रे द्रव्यत्यागः । द्विजातीनामिति वचनाद्यदा द्विजातयः संपन्नाः कृतोपनयनास्तत आरभ्यैते धर्माः । तेनानुपनीतानां दानेऽप्यधिकारो नास्तीति केचित् । नेति च वयम् । द्विजातीनामित्युपलक्षणं येषां द्विजातिजन्म तेषामिति । तेनानुपनीतस्याप्यर्थवतो हितैषिभिः प्रवर्तितस्य दानं भवत्येव ॥ १ ॥

द्विजातियों ( उपनीत ब्राह्मण, क्षत्रिय और वैश्य ) के धर्म ( वेद के ग्रहण एवं अभ्यास के रूप में ) अध्ययन, यजन तथा दान हैं ॥ १ ॥

ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः ॥ २ ॥

प्रवचनमध्यापनम् । याजनमार्त्विज्यम् । प्रतिग्रहः प्रसिद्धः । एते ब्राह्मणस्याधिकाः पूर्वेभ्योऽध्ययनादिभ्यः । ते चामी च समुच्चियता इत्युक्तं भवति । अत्राप्यनुपनीतस्यापि प्रतिग्रहो भवति । याजनाध्यापने त्वसम्भवान्न भवतः । ब्राह्मणस्य प्रवचनयाजनप्रतिग्रहा इत्येव सिद्धेऽधिकग्रहणं पूर्वत्र यथासंख्यं मा भूदिति पूर्वे तावदवस्थिताः ॥ २ ॥

अध्यापन, यज्ञ कराना और दान लेना—ये तीन धर्म अन्य द्विजातियों ( उपनीत क्षत्रिय और वैश्य ) की अपेक्षा ब्राह्मण के अधिक होते हैं ॥ २ ॥

पूर्वेषु नियमस्तु ॥ ३ ॥

नियमोऽवश्यकर्तव्यता । पूर्वाण्यध्ययनादीन्यवश्यकर्तव्यानि । अकुर्वन्प्रत्यवैति कुर्वंश्चाभ्युदेति । प्रवचनादीनि तु वृत्त्यर्थानि । अतोऽकरणे न प्रत्यवायः करणे नाभ्युदयः ॥ ३ ॥

इनमें पूर्ववर्ती अध्ययन, यजन और दान तो ( ब्राह्मण के ) अनिवार्य कर्तव्य होते हैं । ( इनके न करने से प्रत्यवाय दोष होता है और करने से अभ्युदय की सिद्धि होती है; शेष तीन अध्यापन, याजन और दानग्रहण वृत्ति के लिये निर्धारित कर्म हैं अतः अनिवार्य नहीं होते ) ॥ ३ ॥

९४ | गौतमधर्मसूत्राणि

आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणः संप्रदानमन्यत्र यथोक्तात् ॥ ४ ॥

ब्रह्म वेदः। तस्य संप्रदानं सम्यक्प्रदानम्। अनुज्ञात उपविशेदित्यारभ्य शुश्रूषवोऽध्याप्या इत्युक्तं स यथोक्तो नियमः। तस्मादन्यत्र विनाऽपीति तेनाऽऽचार्यादिभ्यो ब्रह्म प्रदेयमित्युच्यते। आचार्य उक्तः। ज्ञातयो भ्रातृपितृव्यादयः। प्रियः सखा। गुरवो मातुलादयः। एतेषु ब्रह्म सम्यक्प्रदेयम्। तथा धनविद्यानियमेषु। धनेन विद्यायाः परिवर्तनं धननियमः। विद्यान्तरेण परिवर्तनं विद्यानियमः। तेष्वपि ब्रह्म संप्रदेयम्। धनविद्यानियमोऽपि योग्यविषय एव। शिष्टाध्यापक इत्युक्तत्वात्। न च तस्याप्ययमपवादः। यथावद्ग्रहणविधिनाऽध्ययनमुक्तं (क्तं त)स्यैवायमपवाद इति ॥ ४ ॥

आचार्य, बन्धु बान्धव (भाई, पितृव्य आदि), प्रियजन, मामा आदि गुरुजनों को तथा धन और विद्या के बदले में वेद का सम्यक् अध्यापन किया जा सकता है; इसके अतिरिक्त जैसा पहले कहा जा चुका है उसके अनुसार ही वेद की शिक्षा देनी चाहिए ॥ ४ ॥

कृषिवाणिज्ये वाऽस्वयंकृते ॥ ५ ॥

कृषिः कर्षणेन सस्योत्पादनं वाणिज्या क्रयविक्रयव्यवहारः। ते च ब्राह्मणस्याधिके यद्यस्वयंकृते। अन्येन कारयितुं शक्येते ॥ ५ ॥

अथवा यदि खेती और वाणिज्य (क्रय-विक्रय) ब्राह्मण स्वयं (अपने हाथों से) न करके किसी दूसरे द्वारा कराता है तो वह इन कर्मों को भी कर सकता है ॥ ५ ॥

कुसीदं च ॥ ६ ॥

कुसीदमुपचयार्थो धनप्रयोगः। तदप्यस्वयंकृतं चेद्ब्राह्मणस्याधिकम् ॥ ६ ॥

व्याज पर धन देने का कार्य भी दूसरों के द्वारा ब्राह्मण कर सकता है ॥ ६ ॥

राज्ञोऽधिकं रक्षणं सर्वभूतानाम् ॥ ७ ॥

राज्ञोऽभिषिक्तस्य सर्वभूतानां रक्षणमधिकम्। सर्वग्रहणात्स्थावरादीनामप्यश्वत्थादीनां छेदननिरोधेन ॥ ७ ॥

अभिषिक्त राजा का (अन्य द्विजातियों—ब्राह्मण और वैश्य की अपेक्षा अधिक धर्म है सभी प्राणियों की (और स्थावर वृक्षों की भी) रक्षा का कार्य ॥ ७ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि ९५

न्याय्यदण्डत्वम् ॥ ८ ॥

न्यायादनपेतो न्याय्यः शास्त्राविरुद्धो दण्डो यस्य तद्भावो न्याय्यदण्डत्वम् । न्यायदण्डत्वमित्यपि पाठ एष एवार्थः । स च राज्ञो धर्मः । रागद्वेषादिना न न्यूनाधिकदण्डः स्यादिति ॥ ८ ॥

न्यायपूर्वक (अर्थात् शास्त्रानुसार) दण्ड देना भी राजा का धर्म है ॥ ८ ॥

बिभृयाद्ब्राह्मणाञ्श्रोत्रियान् ॥ ९ ॥

श्रोत्रिया अधीतवेदस्तान्ब्राह्मणानन्नादिदानेन बिभृयात् ॥ ९ ॥

राजा को श्रोत्रिय (वेद के विद्वान्) ब्राह्मणों का भरण पोषण करना चाहिये ॥ ९ ॥

निरुत्साहांश्च ब्राह्मणान् ॥ १० ॥

जीवनार्थमुत्साहं कर्तुमसमर्था निरुत्साहास्तान्ब्राह्मणानपि बिभृयात् । किं पुनर्ब्राह्मणान्। पूर्वसूत्रे सर्जने समर्थानपि श्रोत्रियान्सममाहूय बिभृयादिति ॥ १० ॥

जीविका के लिए उद्योग करने में असमर्थ ब्राह्मणों का भी पालन-पोषण (राजा को) करना चाहिए ॥ १० ॥

अकरांश्च ॥ ११ ॥

ये पूर्वैर्दत्ता अकरा ब्राह्मणादिभ्यस्तांश्च यथापूर्वं बिभृयाद्ग्राहकादिनिरासेन । स्वयं च नापूर्व करमुत्पादयेदिति ॥ ११ ॥

जो ब्राह्मण पहले कर से मुक्त किये गये हों उनका भी पालन करे अर्थात् उनसे कर न ले ॥ ११ ॥

उपकुर्वाणांश्च ॥ १२ ॥

अधीयाना ब्रह्मचारिण उपकुर्वाणास्तांश्च बिभृयादन्नादिदानेन । यद्यर्थिनः स्वयं जीवितवन्तो वन्दसूकरादिव्यावर्तनेन । अपर आह—उपकुर्वाणा लोकोपकुर्वाणा वैद्यादय इति ॥ १२ ॥

अध्ययनरत ब्रह्मचारियों का भी पोषण करे अथवा लोकोपकार करने वाले वैद्यों का भी पोषण करे ॥ १२ ॥

योगश्च विजये ॥ १३ ॥

योग उपायो विजयविषयश्च योगः कार्यः । अयमपि राज्ञोऽधिको धर्म इति ॥ १३ ॥

९६गौतमधर्मसूत्राणि

विजय के लिए उपाय करे यह भी अन्य द्विजातियों की अपेक्षा राजा का एक अधिक धर्म है ॥ १३ ॥

भये विशेषेण ॥ १४ ॥

अन्याभिभवादिनिमित्ते विशेषेण योगः कार्यः ॥ १४ ॥

दूसरे शत्रु आदि से भय होने पर विशेष रूप से उपाय करे ॥ १४ ॥

चर्या च रथधनुर्भ्याम् ॥ १५ ॥

चरणं चर्या । बहिःप्रदेशे चरन्नरथमारूढो धनुर्हस्तश्च चरेत् । रथग्रहणं हस्त्यश्वादेरुपलक्षणं धनुर्ग्रहणं च खड्गादेः ॥ १५ ॥

रथ पर आरूढ होकर और हाथ में धनुष लेकर विचरण करे ॥ १५ ॥

सङ्ग्रामे संस्थानमनिवृत्तिश्च ॥ १६ ॥

संग्रामो युद्धं तत्र संस्थानं प्राणात्ययः । निवृत्तिः पलायनं तदभावोऽनिवृत्तिः । एतौ च राज्ञोऽधिकौ धर्मौ ॥ १६ ॥

युद्ध में सम्मुख स्थित रहना ( तथा प्राण त्याग देना ) और पलायन न करना भी ( अन्य द्विजातियों की अपेक्षा राजा के अधिक धर्म हैं ) ॥ १६ ॥

न दोषो हिंसायामाहवे ॥ १७ ॥

यत्र परस्परमाह्वयन्ते स आहवः । तादृशे युद्धे शत्रूणां हिंसायामपि न दोषः । नित्यमहिंस्र इत्यस्यायमपवादः ॥ १७ ॥

युद्ध में शत्रुओं की हिंसा करने में कोई दोष नहीं होता ॥ १७ ॥

अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः ॥ १८ ॥

विशब्दश्च त्रिभिः संबध्यते । व्यश्वो विसारथिर्व्यायुध इति यस्याश्वो हतः स व्यश्वः । यस्य सारथिर्हतः स विसारथिः । यस्याऽऽयुधं कृत्तं पतितं वा स व्यायुधः । कृताञ्जलिर्भयेन । प्रकीर्णकेशः केशानपि नियन्तुमक्षमः । पराङ्मुखो भयेन पृष्ठीकृत्य पलायमानः । उपविष्टः पलायितुमप्यसमर्थ आसीनः । स्थलवृक्षाधिरूढः । स्थलमुन्नतप्रदेशस्तं वृक्षं वाऽऽरूढः । दूतो वार्त्ताहरः । गौरस्मि ब्राह्मणोऽस्मीति ये वदन्ति ते गोब्राह्मणवादिनः । एतेभ्योऽन्यत्राऽऽहवे हिंसायां न दोषः । एतेषु दोष इति ॥ १८ ॥

बिना घोड़े वाले, बिना सारथि वाले, बिना अस्त्रों वाले, ( भय से ) हाथ जोड़ने वाले, बिखरे हुए केशों वाले ( अर्थात् जो केशों को भी संभालने में

सानुवाद-मिताक्षरावृत्तिसहितानि ९७

असमर्थ हों ) भय से पीठ दिखाकर भागने वाले, ( भागने में असमर्थ होने से ) अशक्त होकर बैठे हुए, ( छिपने के लिये भय से ) ऊँचे स्थान और वृक्ष पर चढ़े हुए को, दूत को, तथा अपने को गौ या ब्राह्मण बताने वाले को छोड़कर ( अन्य शत्रुपक्षी को हिंसा करने से राजा को कोई दोष नहीं लगता ) ॥ १८ ॥

क्षत्रियश्चेदन्यस्तमुपजीवेत्तद्वृत्त्या ॥ १९ ॥

अन्यश्चेत्क्षत्रियस्तं राजानं देशोपप्लवादिनोपजीवेत्तदा तद्वृत्त्या तस्य राज्ञो या वृत्तिश्चर्या रथधनुर्भ्यामित्यादिका तया युक्तः सञ्जीवेत्। तेन राज्ञैवमसौ संमत इति ॥ १९ ॥

कोई अन्य क्षत्रिय उस राजा के अधीन उसकी वृत्ति से निर्वाह करता हो वह राजा के समान ही ( रथ पर आरूढ़ हो तथा धनुष धारण कर घूमने एवं युद्ध में लड़ने का ) आचरण करे ॥ १९ ॥

जेता लभेत सांग्रामिकं वित्तम् ॥ २० ॥

राज्ञा नियुक्तो राजभृत्यादिः संग्रामे शत्रून्निर्जित्य यद्वित्तं लभते तत्स एव जेता लभेत न राजा ॥ २० ॥

( राजा द्वारा नियुक्त ) जेता योद्धा युद्ध में विजयोपरान्त शत्रुओं से छीनी गई सम्पत्ति का स्वामी होता है ( राजा नहीं ) ॥ २० ॥

वाहनं तु राज्ञः ॥ २१ ॥

वाहनं हस्त्यश्वादिकं निर्जित्य लब्धं राज्ञो भवति न जेतुः ॥ २१ ॥

युद्ध में जीते गये ( छीने गये ) हाथी आदि वाहन राजा को मिलते हैं ( राजा द्वारा नियुक्त विजयी योद्धा को नहीं ) ॥ २१ ॥

उद्धारश्चापृथग्जये ॥ २२ ॥

यदि सर्वे सैनिकाः संभूय जयेयुर्जित्वा च किमपि लभेरंस्तस्मिन्न- पृथग्जये राज्ञ उद्धारो विशेषद्रव्यं स्वयं वृतो देयः ॥ २२ ॥

यदि सभी सैनिक मिलकर विजय प्राप्त करें तो युद्ध में प्राप्त धन में से वे राजा को उसका विशिष्ट धन अर्पित करें ॥ २२ ॥

अन्यत्तु यथार्हं भाजयेद्राजा ॥ २३ ॥

यत्तत्स्वयं वृतं माणिक्यादि ततोऽन्यद्यथार्हं यस्य यावान्व्यापारो यावद्वा शौर्यं तदनुरूपेण भाजयेत् । यथैते तदनुरूपं भजेरंस्तथा कार- येदिति ॥ २३ ॥

७ गौ० ध०

९८ | गौतमधर्मसूत्राणि

( ऐसे सभी सैनिकों द्वारा सम्मिलित रूप से जीते गये धन में से अपने योग्य माणिक्यादि लेकर ) शेष धन को राजा सभी सैनिकों में उनकी योग्यता ( और पराक्रम ) के अनुसार वितरित करे ॥ २३ ॥

राज्ञो बलिदानं कर्षकैर्दशममष्टमं षष्ठं वा ॥ २४ ॥

कर्षकैः क्षेत्रे यल्लब्धं तस्य दशमभागोऽष्टमः षष्ठो वाऽंशो राज्ञो बलिदानं कररूपेण देयः । अस्य राज्ञः कर्षकैः क्षेत्रे यल्लब्धं तद्रक्षणनिमित्ता वृत्तिरेषा । कृष्टाया भूमेरतिभोगमध्यमभोगाल्पभोगविषयोऽयं व्यवस्थितो विकल्पः । अतिभोगे दशमांशो मध्यमभोगेऽष्टमांशोऽल्पभोगे षष्ठांश इति ॥ २४ ॥

कृषक खेत की उपज का दसवाँ, आठवाँ या छठा भाग राजा को कर के रूप में प्रदान करें ॥ २४ ॥

पशुहिरण्ययोरप्येके पञ्चाशद्भागः ॥ २५ ॥

ये पशुभिर्जीवन्ति ये या हिरण्यप्रयोक्तारो वार्धुषिकास्तैः पञ्चाशत्तमो भागो राज्ञे देय इत्येके । तद्यथा—यस्य पञ्चाशतपशवः सन्ति स प्रतिसंवत्सरमेकं पशुं राज्ञे दद्यात् । यस्य वा पञ्चाशन्निष्कैर्वृद्धिप्रयोगः स प्रतिसंवत्सरमेकैकं निष्कं राज्ञे बलिरूपेण दद्यादिति ॥ २५ ॥

कुछ आचार्यों का मत है कि पशुपालन से जीविका चलाने वाले और धन देकर ब्याज कमाने वाले ( प्रतिवर्ष क्रमशः पशुओं तथा मूलधन का ) पचासवाँ भाग राजा को करके रूप में प्रदान करें ॥ २५ ॥

विंशतिभागः शुल्कः पण्ये ॥ २६ ॥

यद्वणिग्भिर्विक्रीयते तत्पण्यम् । तत्र विंशतितमो भागो राज्ञे देयस्तस्यैव दीयमानस्य शुल्क इति संज्ञा । शुल्कप्रदेशाः प्रतिभाव्यं वणिक्शुल्कमित्यादयः ॥ २६ ॥

विक्रय वस्तुओं का बीसवाँ भाग ( राजा का कर होता है ) ॥ २६ ॥

मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षष्ठः ॥ २७ ॥

मूलं हरिद्रादि । फलमाम्रादि । पुष्पमुत्पलादि । औषधं बिल्वादि । शिष्टानि प्रसिद्धानि । एतेषु पण्येषु षष्टि (ष्ठ) तमो भागो राज्ञे देयो विक्रेत्रा ॥ २७ ॥

हल्दी आदि मूलों, आम आदि फलों, फूल, औषध ( बिल्व आदि ), मधु, मांस, तृण और ईंधन का विक्रय करने पर छठा भाग राजा को देय होता है ॥ २७ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि ९९

कस्मात्पुनरेवं राज्ञे देय इत्यत आह—

तद्रक्षणधर्मित्वात् ॥ २८ ॥

तेषां करदायिनां रक्षणरूपेण धर्मेण तद्वत्त्वात्तेषामयं रक्षक इति कृत्वेति ॥ २८ ॥

क्योंकि उन (करदाताओं) की रक्षा करना ही राजा का धर्म होता है ॥२८॥

तेषु तु नित्ययुक्तः स्यात् ॥ २९ ॥

तेषु कर्षकादिषु नित्ययुक्तः स्याद्रक्षणे नित्यमवहितः स्यात् । अपर आह—तेषु बल्यादिषु नित्ययुक्तः स्यात् । तात्पर्येणाऽऽददीत शुल्कं । ह्यस्यैतद्धनमिति ॥ २९ ॥

अतएव राजा उन ( कृषक आदि करदाताओं ) की रक्षा में नित्य सावधान होकर तत्पर रहे । अथवा करग्रहण में नित्य तत्पर रहे ॥ २९ ॥

अधिकेन वृत्तिः ॥ ३० ॥

राज्ञोऽधिकं रक्षणमिति यदुक्तं तद्वारेण यदागतं धनं तदधिकं तेनाऽत्मनः पोष्यवर्गस्य च हस्त्यश्वादीनां च वृत्तिः स्यान्न तु पूर्वैर्यत्संचित्य खातं कोशरूपेण तेन जीवेत् । आपदि तु तेनापि जीवेत् । तथा च व्याघ्रः—

कुटुम्बपोषणं कुर्यान्नित्यं कोशं च धारयेत् ।
आपदोऽन्यत्र कोशात्तु न गृह्णीयात्कदाचन ॥ इति ॥ ३० ॥

( अन्य द्विजातियों की अपेक्षा रक्षण करना राजा का ) अधिक कार्य होने से वह उस ( रक्षण कार्य ) द्वारा प्राप्त धन से अपनी (अपने आश्रितों एवं हाथी-घोड़े आदि की ) वृत्ति चलावे ( यदि आपत्काल न हो तो पूर्वकाल से सञ्चित कोश का व्यक्तिगत व्यय के लिए उपयोग न करे ) ॥ ३० ॥

शिल्पिनो मासि मास्येकैकं कर्म कुर्युः ॥ ३१ ॥

एकेनाह्ना साध्यमेकं कर्म । शिल्पिनो लोहकारादयः । तेऽपि प्रतिमासं राज्ञे स्वयमेकमहः कर्म कुर्युः । एष एषां शुल्कः ॥ ३१ ॥

कारीगर प्रत्येक मास में एक दिन राजा के लिए अपनी कर्म करें ( यह उनके लिए कर होता है ) ॥ ३१ ॥

एतेनाऽऽत्मोपजीविनो व्याख्याताः ॥ ३२ ॥

आत्मोपजीविनो ये शरीरायासेन जीवन्ति काष्ठवाहादयस्तेऽप्येते

१०० गौतमधर्मसूत्राणि

च शिल्पिषूक्तप्रकारेण व्याख्याता मासि मास्येकैकं कर्म कुर्युुरिति। नर्त- कादिष्वप्येषैव गतिः॥ ३२ ॥

शारीरिक श्रम करके जीविका निर्वाह करने वालों (लकड़हारा आदि) के लिए भी इसी प्रकार का नियम है॥ ३२ ॥

नौचक्रीवन्तश्च ॥ ३३ ॥

नौश्च चक्रं च नौचक्रे। चक्रशब्देन तद्वच्छकटं लक्ष्यते। तद्वन्तो नौचक्रीवन्तः। आसन्दीवदष्ठीवदित्यादिना कथंचिद्रूपसिद्धिः। नौवन्तो नौजीविनः। चक्र(क्री)वन्तः शकटजीविनः। तेऽपि राज्ञ एकमहस्त- त्कर्म कुर्युः॥ ३३॥

नौका एवं गाड़ी चलाकर जीविकानिर्वाह करने वाले भी (प्रतिमास एक दिन राजा के लिए कर्म करें)॥ ३३ ॥

भक्तं तेभ्यो दद्यात् ॥ ३४ ॥

शिल्पिनो मासि मासीत्यारभ्य येऽनुक्रान्तास्तेभ्यः कर्म कुर्वद्भ्यो भक्तमन्नं दिवा भोजनं दद्याद्राजा ॥ ३४ ॥

इनको राजा (जिस दिन वे उसके यहाँ श्रमदान करें उस दिन) भोजन दे॥ ३४ ॥

पण्यं वणिग्भिरर्थापचयेन देयम् ॥ ३५ ॥

मासि मास्येकैकमित्यनुवर्तते। विंशतिभागः शुल्कः पण्य इत्युक्तम्। ततः शुल्कादधिकमिदं मासि मास्येकं पण्यमर्थापचयेन प्राप्तस्य मूल्यस्य किंचिन्न्यूनतां कल्पयित्वा वणिजो राज्ञे दद्युः। तत्र बृहस्पतिः—

शुल्कं दद्युस्ततो मासमेकैकं पण्यमेव च।
अर्घावरं च मूल्येन वणिजस्ते पृथक् पृथक्॥ इति ॥ ३५ ॥

कर देने वाले व्यापारी (कर के अतिरिक्त) प्रतिमास अपनी विक्रय की एक वस्तु कम मूल्य पर राजा को अर्पित करें॥ ३५ ॥

प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रब्रूयुः ॥ ३६ ॥

प्रनष्टं स्वामिसकाशात्प्रभ्रष्टम्। अस्वामिकमज्ञायमानस्वामिकम्। अधिगम्य भूमौ पतितमुपलभ्य जनपदपालने नियुक्ता एते राज्ञे प्रब्रूयुः। अन्ये वा केचिद् दृष्टवन्तस्तेऽपि ब्रूयुः॥ ३६॥

किसी की खोई हुई वस्तु या ऐसी वस्तु को पाकर जिसके स्वामी का पता न हो उस वस्तु के विषय में राजा को बतलाना चाहिए॥ ३६ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १०१

ततः किं कर्तव्यं राज्ञा—

विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ॥ ३७ ॥

विख्याप्य—इदमेवंजातीयकं वस्त्वासादितं रक्ष्यते । यस्यैतत् स आगच्छतु, इति नगरे पटहेन घोषयित्वा संवत्सरं रक्ष्यम् प्राक्चेत्संवत्सरात्स्वाम्यागच्छति ततो लक्षणानि पृष्ट्वा साम्यं चेत्तत्तस्मै देयम् । वैषम्ये स दण्ड्यः । तथा च याज्ञवल्क्यः—

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ॥ इति ॥

एवमधिगम्याप्रब्रुवन्तो दण्ड्याः ॥ ३७ ॥

राजा उस वस्तु के मिलने की घोषणा करके एक वर्ष तक उसकी रक्षा करे ॥ ३७ ॥


अथ संवत्सरादूर्ध्वं किं कार्यमित्याह—

ऊर्ध्वमधिगन्तुश्चतुर्थं राज्ञः शेषः ॥ ३८ ॥

येनाधिगम्याऽऽख्यातं तस्मै चतुर्थमंशं दत्त्वा शेषो राज्ञा ग्राह्यः॥३८॥

एक वर्ष बाद उस वस्तु का चतुर्थांश उसके पाने वाले को देकर शेष राजा स्वयं ग्रहण करे ॥ ३८ ॥


स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ॥ ३९ ॥

रिक्थं पित्रादीनामभावे प्राप्तम् । क्रयो मूल्येन स्वीकारः । संविभागो भ्रात्रादीनां साधारणस्य परस्परविभागः । परिग्रहो वन्येष्वस्वामिकेषु वृक्षादिषु पूर्वस्वीकारः । अधिगमः प्रनष्टस्याज्ञातस्वामिकस्य निध्यादेः स्वीकारः । एतेषु कारणेषु द्रव्यस्वीकर्ता स्वामी भवति । तेन प्रनष्टेऽधिगते राज्ञोऽधिगन्तुश्च स्वाम्यनुपपन्नमिति प्रकरणसंगतिः । क्षेत्रेषूत्पन्नानि सस्यादीनि क्षेत्रवदेव क्षेत्रवतः स्वानि । एतेनाऽऽकरेत्पन्नं लवणादि व्याख्यातम् । एतानि सर्ववर्णसाधारणानि स्वाम्यकारणानि ॥ ३९ ॥

कोई भी व्यक्ति पैतृक सम्पत्ति, स्वयं खरीदी हुई वस्तु, भाइयों से बँटवारे से मिले हुए धन एवं स्वयं पाई हुई किसी की खोई हुई वस्तु ( जो पहले राजा को दी गई हो और राजा से चतुर्थांश के रूप में प्राप्त हो ) का स्वामी होता है ॥ ३९ ॥


ब्राह्मणस्याधिकं लब्धम् ॥ ४० ॥

यल्लब्धं दानरूपेण तद्ब्राह्मणस्याधिकं स्वाम्यमूलम् ॥ ४० ॥

१०२गौतमधर्मसूत्राणि

इनके अतिरिक्त दान में प्राप्त धन ब्राह्मण की अधिक सम्पत्ति होता है ॥ ४० ॥

क्षत्रियस्य विजितम् ॥ ४१ ॥

विजयेन लब्धं क्षत्रियस्याधिकं स्वम् ॥ ४१ ॥

युद्ध में जीता हुआ धन क्षत्रिय का अधिक धन होता है ॥ ४१ ॥

निर्विष्टं वैश्यशूद्रयोः ॥ ४२ ॥

निर्विष्टं कर्मणोपात्तम्। कृष्यादिना वैश्यस्य शुश्रूषादिना शूद्रस्य। तदधिकमनयोः ॥ ४२ ॥

अपने कर्म से उपार्जित धन वैश्य और शूद्र की अधिक सम्पत्ति होता है ॥ ४२ ॥

अथ प्रणष्टाधिगताधिगन्तुश्चतुर्थमित्यस्यापवादमाह—

निध्यधिगमो राजधनम् ॥ ४३ ॥

निधिश्चेदधिगतस्तद्राजधनमेव भवति। अधिगन्त्रेऽनुग्रहानुरूपं किंचिद्देयमिति ॥ ४३ ॥

पायी हुई वस्तु राजा का धन होती है ॥ ४३ ॥

ब्राह्मणस्याभिरूपस्य ॥ ४४ ॥

अभिरूपः षट्कर्मनिरतः। तस्य ब्राह्मणस्य चेन्निध्यधिगमो न तद्राजधनं किं तर्ह्यधिगन्तुर्ब्राह्मणस्यैवेति ॥ ४४ ॥

अपने छः कर्मों में रत रहने वाले ब्राह्मण को मिली हुई वस्तु उसीकी (अर्थात् ब्राह्मण की ही) सम्पत्ति होती है (राजा की नहीं) ॥ ४४ ॥

अब्राह्मणोऽप्याख्याता षष्ठं लभेतेत्येके ॥ ४५ ॥

अब्राह्मणोऽपि निधिमधिगम्य यद्याचष्ट इदमित्थमासादितमिति स तस्य निधेः षष्ठं लभेतेत्येके स्मर्तारो मन्यन्ते। ब्राह्मणेऽनभिरूपे कल्प्यः ॥ ४५ ॥

कुछ आचार्यों के मतानुसार ब्राह्मण से भिन्न वर्ण का व्यक्ति भी स्वयं पाकर राजा को अर्पित की गई वस्तु के षष्ठांश का स्वामी होता है ॥ ४५ ॥

चौरहृतमपजित्य यथास्थानं गमयेत् ॥ ४६ ॥

चौरैर्हृतं द्रव्यं तानपजित्य यथास्थानं गमयेत्। स्वामिन एव दद्यात्। जेतुस्तु जयफलं किंचित् ॥ ४६ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १०३

चुराई गई वस्तु को चोर से छीनकर जिसकी वस्तु हो उसी को देनी चाहिए ॥ ४६ ॥

कोशाद्वा दद्यात् ॥ ४७ ॥

यद्यन्विष्यापि चोरा न दृष्टास्त एव वा जित्वा गतास्तदा स्वकोशादादाय तावद्धनं स्वामिने दद्याद्यावदपहृतं चौरैरिति ॥ ४७ ॥

(यदि ढूंढने पर भी चोर न मिलें अथवा धन चुराकर भाग जायें तो) अपने कोश से उतना धन स्वामी को दे ॥ ४७ ॥

रक्ष्यं बालधनमा व्यवहारप्रापणात् ॥ ४८ ॥

बालोऽप्राप्तषोडशवर्षः। तस्य यदि हितैषिणो रक्षकाश्च पित्रादयो न सन्ति सन्तो वा मूर्खाश्चाधार्मिकाश्च तदा तद्धनं राज्ञा रक्ष्यम् । आ कुतः। व्यवहारप्रापणात्। यावदसौ व्यवहारप्राप्तः षोडशवर्षो भवति ॥ ४८ ॥

सोलह वर्ष से कम अवस्था वाले बालक के धन की उसके व्यवहार प्राप्ति तक (अर्थात् सोलह वर्ष की अवस्था प्राप्त करने तक) राजा रक्षा करे ॥ ४८ ॥

समावृत्तेर्वा ॥ ४९ ॥

आङनुवर्तते । अधीतवेदस्य गुरुकुलान्निवृत्तिः समावृत्तिः । आ वा तस्या इति ॥ ४९ ॥

अथवा उस बालक के समावर्त्तन तक (गुरुगृह से लौटने के समय तक रक्षा करे ) ॥ ४९ ॥

एवं राज्ञोऽधिकं स्वत्वमूलमुक्तम् । सांप्रतं वैश्यस्याऽऽह—

वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ॥ ५० ॥

कृषिः प्रसिद्धा । वणिगिति वाणिज्यम् । पशुपालस्य कर्म पाशुपाल्यम् । कुसीदं वृद्ध्यर्थो धनप्रयोगः । कृष्यादिभिर्यल्लब्धं तदधिकं स्वं वैश्यस्य ॥ ५० ॥

कृषि, व्यापार, पशुपालन और व्याज से प्राप्त धन वैश्य का अधिक धन होता है ॥ ५० ॥

शूद्रश्चतुर्थो वर्ण एकजातिः ॥ ५१ ॥

चतुर्थो वर्ण इति । वर्णसामान्यत्त्वे सत्यपि चतुर्थग्रहणं पूर्वेषां त्रयाणां ब्राह्मणादिवर्णानां पृथग्वर्णत्वोपपादनार्थम् । त्रैवर्णिका इति सिद्धत्वादेकजातिरुपनयनं पूर्वेषां द्वितीयजन्म तदस्य नास्तीति । उपनयनप्रति-

१०४गौतमधर्मसूत्राणि

षेधात्तत्पूर्वकमध्ययनमपि न भवति। तद्विषये गृह्यकार आह— शूद्रस्यापि निषेकपुंसवनसीमन्तोन्नयन जातकर्मनामकरणान्नप्राशनचौळान्यमन्त्रकाणि यथाकालमुपदिष्टानि। इति विवाहोप्यमन्त्रको यथाचारं भवति ॥ ५१ ॥

शूद्र चौथा वर्ण होता है और वह एक जाति होता है (अर्थात् अन्य तीन वर्णों के समान उपनयन संस्कार द्वारा 'द्विज' नहीं होता) ॥ ५१ ॥

तस्यापि सत्यमक्रोधः शौचम् ॥ ५२ ॥

उपनयनाध्ययनरहितत्वेऽपि यथावृत्तित्वं मा भूदिति तस्यापि शूद्रस्य सत्यादयो धर्मा भवन्ति। सत्यं यथादृष्टार्थवादित्वम्। अक्रोधः परानभिद्रोहबुद्धिः। शौचं पूर्वोक्तद्रव्यशौचं मनःशौचमित्यादि।

वसिष्ठस्तु— सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं चेति ॥ ५२ ॥

उसके लिए भी सत्य, अक्रोध और शौच के नियमों का विधान है ॥५२॥

आचमनार्थे पाणिपादप्रक्षालनमेवैके ॥ ५३ ॥

पूर्वेषां वर्णानां यत्राऽऽचमनमुक्तं तस्मिन्विषये शूद्रस्य पाणिपादप्रक्षालनमेव भवति नान्य आचमनकल्प इत्येके मन्यन्ते। मनुस्तु— सकृदम्बुपानमिच्छति स्त्रीशूद्रौ तु सकृत्सकृदिति। नित्यस्नानविषये तूशना— सच्छूद्रः स्नायादसच्छूद्रः पाणिपादं प्रक्षालयेत्। इति ॥ ५३ ॥

कुछ आचार्यों का मत है कि शूद्र (ब्राह्मणादि तीन वर्णों के लिए विहित) आचमन के स्थान पर केवल हाथ पैर धोने का विधान है ॥ ५३ ॥

श्राद्धकर्म ॥ ५४ ॥

अमावास्यायामित्यारभ्य यच्छ्राद्धकर्म वक्ष्यते तदपि शूद्रस्य कर्तव्यं मन्त्रवर्जम् ॥ ५४ ॥

श्राद्धकर्म भी शूद्र के लिए विहित है ॥ ५४ ॥

भृत्यभरणम् ॥ ५५ ॥

भृत्यो भरणीयः पोष्यवर्गः। तस्य च भरणं कर्तव्यम्। तेन तदनुरूपमर्थार्जनमप्यस्य कर्तव्यमिति ॥ ५५ ॥

आश्रित जनों का भरण पोषण (भी शूद्र करे) ॥ ५५ ॥

स्वदारवृत्तिः ॥ ५६ ॥

स्वेष्वेव दारेष्वस्य वृत्तिः। सजातीयेष्वपि परदारेषु वेश्यासु च प्रसञ्जन् दण्ड्य इति। अपर आह— स्वदारवृत्तिरेवास्य भवतिनाऽऽश्रमान्तरप्राप्तिरिति ॥ ५६ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १०५

अपनी ही पत्नियों से सम्बन्ध रखे ॥ ५६ ॥

परिचर्या चोत्तरेषाम् ॥ ५७ ॥

उत्तरेषां त्रयाणां वर्णानां परिचर्या शुश्रूषा च ॥ ५७ ॥
अपने से उच्च वर्णों की सेवा करे ॥ ५७ ॥
सैषा वृत्त्यर्थेत्याह—

तेभ्यो वृत्तिं लिप्सेत ॥ ५८ ॥

तेभ्यः परिचरितेभ्यो जीवनं लिप्सेत ॥ ५८ ॥
(उच्चवर्णों की सेवा करके) उन्हीं से जीविका निर्वाह की इच्छा रखे ॥ ५८ ॥

तत्र पूर्वं पूर्वं परिचरेत् ॥ ५९ ॥

तथा चाऽऽपस्तम्बः—पूर्वस्मिन्पूर्वस्मिन्वर्णै निःश्रेयसं भूय इति। तदेवं यथा याजनाध्यापनप्रतिग्रहेषु ब्राह्मणस्य प्रतिग्रहो मुख्या वृत्तिस्तथा शूद्रस्य परिचर्या। तत्रापि पूर्वस्मिन्पूर्वस्मिन्वर्ण इति ॥ ५९ ॥
उन वर्णों में भी यथासंभव पहले वाले वर्ण की सेवा करे। (अर्थात् ब्राह्मण की सेवा करे; ऐसा संभव न होने पर क्षत्रिय की सेवा करे, अन्यथा वैश्य की सेवा करे) ॥ ५९ ॥

जीर्णान्युपानच्छत्रवासःकूर्चादीनि ॥ ६० ॥

कूर्चं तृणादि। शेषं प्रसिद्धम्। जीर्णान्युपभुक्तान्युपानदादीनि परिचरते शूद्राय देयानि। अयं तु शुश्रूषावृत्तेः शूद्रस्य नियमो न गृहस्थवृत्तेः। तस्य तु वृत्त्यनपेक्षं सामान्याकारेण विशेषत्वम् ॥ ६० ॥
(द्विजों द्वारा दिये गये) पुराने जूते, छाते, वस्त्र और चटाई आदि का उपयोग करे ॥ ६० ॥
पुनः प्रकृतमनुसरति—

उच्छिष्टाशनम् ॥ ६१ ॥

भोजनपात्रे यद्भुक्तावशिष्टं तदस्याशनम्। नाब्राह्मणायोच्छिष्टं प्रयच्छेदित्येतत्तु दासविषयम्। गृहस्थशूद्रविषयमन्ये। तथा च व्याघ्रः—
उच्छिष्टमन्नं दातव्यं शूद्रायागृहमेधिने।
गृहस्थाय तु दातव्यमनुच्छिष्टं दिने दिने ॥ इति ॥ ६१ ॥
द्विजातियों का जूठा (पात्र में छोड़ा हुआ) भोजन खाये ॥ ६१ ॥