भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

१६६ गौतमधर्मसूत्राणि

स कः पुनरसौ तमाह— पङ्क्तिपावनः षडङ्गविज्ज्येष्ठसामिकस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद्धर्मज्ञो ब्रह्मदेयानुसंतान इति ॥ २९ ॥

शिक्षा कल्पो व्याकरणं ज्योतिषं निरुक्तं छन्दोविचितिरिति षडङ्गानि । तेषां पाठतोऽर्थतश्च ज्ञाता षडङ्गवित् । ज्येष्ठसामिकः—तलवकाराणामुदुत्यं चित्रमित्येतयोर्गायको ज्येष्ठसामगश्छन्दोगानां तु तद्विदासीती तोयं तद्यो- गयेति(?) ज्येष्ठं साम तद्वेदिता ज्येष्ठसामिकः । त्रिणाचिकेतो नाचिकेतो- बहुषु शाखासु विधीयते तैत्तिरीये कठवल्लीषु शतपथे च । ते यो वेद ब्राह्मणेन सह स त्रिणाचिकेतः । "मधु वाता ऋतायते" इत्येतत्तृचं त्रिमधु । तत्र प्रत्यृचं त्रयो मधुशब्दाः । आश्वलायनोऽप्याह—'तृप्तान्ज्ञात्वा मधुमतीः श्रावयेत्' इति । इह तु तदध्यायी पुरुषस्त्रिमधुः । त्रिसुपर्ण ऋग्वेदे 'एकः सुपर्णः स समुद्रमाविवेश' इत्यादिकस्तृचः । तैत्तिरीयके ब्रह्ममेतु माम्' इत्यादयस्त्रयोऽनुवाकाः । तत्र हि "य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात्" इति श्रूयते । पूर्ववत्पुरुषे वृत्तिः । पञ्चाग्निः सभ्यावसथ्या- भ्यां सह पञ्चानामनुवाकानामध्येता । स्नातको विद्याव्रताभ्याम् । मन्त्र- ब्राह्मणविन्मन्त्रब्राह्मणयोरर्थज्ञः । धर्मज्ञो धर्मशास्त्राणामर्थज्ञः । ब्रह्मदेयानु- संतानो ब्राह्मविवाहोढासंतानः । इतिकरणाद्यश्चान्य एवंगुक्तः । ये मातृतः पितृतश्चेति दशवर्षं समनुष्ठिता विद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो नान्नब्राह्मणं निनयेयुः । पितृत इत्येक इत्येवमादिलक्षणः । स एष सर्वः पङ्क्तिपावनः ॥ २९ ॥

पंक्ति को पवित्र करने वाले व्यक्ति हैं :--छः वेदाङ्गों का ज्ञाता, ज्येष्ठ साम मन्त्रों का गान करने वाला, नाचिकेत अग्नि का तीन ग्रन्थों के साथ ज्ञान रखने वाला, सुपर्ण के तीन बार उल्लेख से युक्त मन्त्रों को जाननेवाला, पञ्चाग्नि (सभ्य और आवसथ्य के साथ पाँच अनुवाकों का अध्येता, स्नातक मन्त्रों और ब्राह्मणों का अर्थ जानने वाला, धर्मशास्त्रों का ज्ञाता ब्राह्म विवाह से उत्पन्न सन्तान ॥ २९ ॥

हविःषु चैवम् ॥ ३० ॥

हविःशब्देन दैवानि मानुषाणि च कर्माण्युच्यन्ते । ज्येष्ठ्ठा अप्येवमुक्त- लक्षणा एव ब्राह्मणा भोजयितव्या न तु प्रतिषिद्धाः स्तेनादय इति ॥३०॥

दैव एवं मानुष यज्ञ कर्मों में भी (ब्राह्मणों को भोजन कराने के सम्बन्ध में) उपर्युक्त नियम समझने चाहिएँ ॥ ३० ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १६७

दुर्वालादीञ्श्राद्ध एवैके ॥ ३१ ॥

एके तु दुर्वालानारभ्य येऽनुक्रान्तास्ताञ्श्राद्ध एव न भोजयेन्न तु दैवमानुषयोरिति मन्यन्ते । स्वमते तु ते तत्राप्यभोज्या एवेति ॥ ३१ ॥

कुछ आचार्य गंजे मनुष्य आदि पूर्वोक्त व्यक्तियों को खिलाने का निषेध केवल श्राद्ध में करते हैं। (हमारे मत से उन्हें दैव एवं मानुष कर्मों में भी नहीं खिलाना चाहिए ) ॥ ३१ ॥

अकृतान्नश्राद्धे चैवं चैवम् ॥ ३२ ॥

द्विरुक्तिः पूर्ववत् ॥ ३२ ॥

श्राद्ध में बिना पका हुआ अन्न देने पर भी उपर्युक्त नियम ही समझना चाहिए ॥ ३२ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने षष्ठोऽध्यायः ॥ ६ ॥

अथ सप्तमोऽध्यायः

श्रावणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत च्छन्दांसि ॥ १ ॥

श्रवणेन युक्ता पौर्णमासो श्रवणा। नक्षत्रेण युक्तः काल इत्युक्तस्याणो लुबविशेष इति लुप्। युक्तवद्भावस्तु न भवति। विभाषा फाल्गुनीश्रवणेति निर्देशात्। श्रावणीत्यपि भवति। पौर्णमास्यां हि लुबविशेष इति न भवति। फाल्गुनी कार्त्तिकी चैत्रीति निर्देशात्। श्रवणशब्दे तूभयं भवतीति।

मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते।
चान्द्रमासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्रादिका स्मृता।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः ॥

तदेवं सिंहस्थे सवितरि याऽमावास्या तदन्ते चान्द्रमसे मासे पौर्णमासी सा श्रवणा श्रावणीति चोच्यते। श्रवणयोगस्तु भवतु मा वा भूत्। एतेन प्रोष्ठपदी व्याख्याता। प्रोष्ठपदीमित्यधिकरणे द्वितीया। अत्यन्तसंयोगे वा कथंचित्। श्रवणायां प्रौष्ठपद्यां वा पौर्णमास्यामुपाकृत्योपाकर्माख्यं कर्म यथागृह्यं कृत्वा तदा च्छन्दांसि मन्त्रब्राह्मणलक्षणान्यधीयीत। आचार्योऽध्यापयेच्छिष्या अधीयीरन्। तदिदमध्ययनं वार्षिकमित्याचक्षते वर्षतौ प्रतिसंवत्सरं वा भवतीति। अध्यापनमप्यात्मापेक्षयाऽध्ययनं पारायणादिवत्। शिष्यापेक्षया त्वध्यापनम् ॥ १ ॥

श्रावण की पूर्णिमा (या श्रवण से युक्त पौर्णमासी) को वेदाध्ययन आरम्भ करने की वार्षिक तिथि होती है अथवा भाद्रपद की पूर्णिमा को उपाकर्म करके वेदाध्ययन प्रारम्भ करे ॥ १ ॥

कियन्तं कालमधीयीत—

अर्धपञ्चमान्मासान्पञ्च दक्षिणायनं वा ॥ २ ॥

अर्धं पञ्चमं येषां तानर्धपञ्चमानर्धाधिकांश्चतुरो मासान्पूर्णान्वा पञ्च मासान्यावद्वा दक्षिणायनम्। एवमधीयानः ॥ २ ॥

साढ़े चार महीने अथवा पूरे पाँच महीने अथवा जब तक सूर्य दक्षिणायन रहे तब तक (अध्ययन करे) ॥ २ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १६९

ब्रह्मचार्य्युत्सृष्टलोमा न मांसं भुञ्जीत ॥ ३ ॥

ब्रह्मचारी भवेत्स्त्रीसंगं वर्जयेत् । उत्सृष्टलोमा न रूढश्मश्रुः । अकस्मादित्यत्रोक्तं लोमकर्म तदुत्सृष्टं येन स उत्सृष्टलोमा । एवं भूतो भवेन्न मांसं भक्षयेत् । अयमध्यापयितुरुपदेशः । ब्रह्मचारिणः प्राप्त्यभावात् । आपस्तम्बोऽप्याह-प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेदिति । यश्च केवलानि व्रतानि पारं नीत्वा जायामुपयम्य पश्चादधीते सोऽप्येवं तस्यात्र ग्रहणार्थमप्येवम् । आश्वलायनोऽप्याह—समावृत्तो ब्रह्मचारिकल्पेनेति । तत्र ऋतुगमनं पाक्षिकमभ्युपगतम् । यथाऽऽह जायोपेयेत्येके प्राजापत्यं तदिति ॥ ३ ॥

( इस अध्ययन काल में ) ब्रह्मचारी रहे, क्षौरकर्म न करावे और न मांस का भक्षण करे ॥ ३ ॥

द्वैमास्यो वा नियमः ॥ ४ ॥

द्वौ मासौ भूतभाविनौ वा द्विमास्यः । मासाद्वयसि यत्खञौ । द्विगोर्यबवयस्यपि प्रयुज्यते । स एव द्वैमास्यः । अयं ब्रह्मचर्यादिनियमो मासद्वयं वा भवति । शक्त्यपेक्षो विकल्पः ॥ ४ ॥

अथवा इस नियम का पालन दो मास तक करे ॥ ४ ॥

अथानध्याया उच्यन्ते—

नाधीयीत वायौ दिवा पांसुहरे ॥ ५ ॥

पांसून्हरतीति पांसुहरः । वायौ दिवा पांसुहरे वाति सति नाधीयीत अपांसुहरे न दोषः । पांसुहरेऽपि रात्रौ न दोषः ॥ ५ ॥

दिन में धूलभरी वायु बहने पर अध्ययन नहीं करना चाहिए ॥ ५ ॥

कर्णश्राविणि नक्तम् ॥ ६ ॥

व्यत्ययेनायं कर्मणि कर्तृप्रत्ययः । कर्णाभ्यां श्रूयत इति कर्णश्रावी । एवं भूते महाघोषे वायौ वाति सति नक्तं नाधीयीत ॥ ६ ॥

प्रबल वायु के चलने की ध्वनि सुनाई पड़ने पर रात्रि को अध्ययन न करे ॥ ६ ॥

वाणभेरीमृदङ्गगर्तार्त्तशब्देषु ॥ ७ ॥

वाणो वीणाविशेषः । वाणः शततन्तुरिति महाव्रते दर्शनात् । भेरीमृदङ्गौ प्रसिद्धौ । गर्तौ रथः । ‘आरोहतं वरुण मित्र गर्तम्’ । ‘स्तुहि श्रुतं गर्तसदम्’ इत्यादौ दर्शनात् । आर्तो बन्धुमरणादिना दुःखितः । तेषां शब्दे श्रूयमाणे तावन्तं कालं नाधीयीत ॥ ७ ॥

अथ सप्तमोऽध्यायः

श्रावणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत च्छन्दांसि ॥ १ ॥

श्रवणेन युक्ता पौर्णमासो श्रवणा । नक्षत्रेण युक्तः काल इत्युक्तस्याणो लुबविशेष इति लुप् । युक्तवद्भावस्तु न भवति । विभाषा फाल्गुनीश्रवणेति निर्देशात् । श्रावणीत्यपि भवति । पौर्णमास्यां हि लुबविशेष इति न भवति । फाल्गुनी कार्तिकी चैत्रीति निर्देशात् । श्रवणशब्दे तूभयं भवतीति ।

मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते ।
चान्द्रमासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः ॥

तदेवं सिंहस्थे सवितरि याऽमावास्या तदन्ते चान्द्रमसे मासे पौर्णमासी सा श्रवणा श्रावणीति चोच्यते । श्रवणयोगस्तु भवतु मा वा भूत् । एतेन प्रोष्ठपदी व्याख्याता । प्रोष्ठपदीमित्यधिकरणे द्वितीया । अत्यन्तसंयोगे वा कथंचित् । श्रवणायां प्रौष्ठपद्यां वा पौर्णमास्यामुपाकृत्योपाकर्माख्यं कर्म यथागृह्यं कृत्वा तदा च्छन्दांसि मन्त्रब्राह्मणलक्षणान्यधीयीत । आचार्योऽध्यापयेच्छिष्या अधीयीरन् । तदिदमध्ययनं वार्षिकमित्याचक्षति वर्षतौ प्रतिसंवत्सरं वा भवतीति । अध्यापनमप्यात्मापेक्षयाऽध्ययनं पारायणादिवत् । शिष्यापेक्षया त्वध्यापनम् ॥ १ ॥

श्रावण की पूर्णिमा (या श्रवण से युक्त पौर्णमासी) को वेदाध्ययन आरम्भ करने की वार्षिक तिथि होती है अथवा भाद्रपद की पूर्णिमा को उपाकर्म करके वेदाध्ययन प्रारम्भ करे ॥ १ ॥

कियन्तं कालमधीयीत—

अर्धपञ्चमान्मासान्पञ्च दक्षिणायनं वा ॥ २ ॥

अर्धं पञ्चमं येषां तानर्धपञ्चमानर्धाधिकांश्चतुरो मासान्पूर्णांन्वा पञ्च मासान्यावद्वा दक्षिणायनम् । एवमधीयानः ॥ २ ॥

साढ़े चार महीने अथवा पूरे पाँच महीने अथवा जब तक सूर्य दक्षिणायन रहे तब तक (अध्ययन करे) ॥ २ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १६९

ब्रह्मचार्य्युत्सृष्टलोमा न मांसं भुञ्जीत ॥ ३ ॥

ब्रह्मचारी भवेत्स्त्रीसंगं वर्जयेत् । उत्सृष्टलोमा न रूढश्मश्रुः । अकस्मादित्यत्रोक्तं लोमकर्म तदुत्सृष्टं येन स उत्सृष्टलोमा । ए ॰भूतो भवेन्न मांसं भक्षयेत् । अयमध्यापयितुरुपदेशः । ब्रह्मचारिणः प्राप्त्यभावात् । आपस्तम्बोऽप्याह-प्रवचनयुक्तो वर्षाशरदं मैथुनं वर्जयेदिति । यश्च केवलानि व्रतानि पारं नीत्वा जायामुपयम्य पश्चादधीते सोऽप्येवं तस्यात्र ग्रहणार्थमप्येवम् । आश्वलायनोऽप्याह—समावृत्तो ब्रह्मचारिकल्पेनेति । तत्र त्वृतुगमनं पाक्षिकमभ्युपगतम् । यथाऽऽह जायोपेयेत्येके प्राजापत्यं तदिति ॥ ३ ॥

( इस अध्ययन काल में ) ब्रह्मचारी रहे, क्षौरकर्म न करावे और न मांस का भक्षण करे ॥ ३ ॥

द्वैमास्यो वा नियमः ॥ ४ ॥

द्वौ मासौ भूतभाविनौ वा द्विमास्यः । मासाद्वयसि यत्खञौ । द्विगोर्यबवयस्यपि प्रयुज्यते । स एव द्वैमास्यः । अयं ब्रह्मचर्यादिनियमो मासद्वयं वा भवति । शक्त्यपेक्षो विकल्पः ॥ ४ ॥

अथवा इस नियम का पालन दो मास तक करे ॥ ४ ॥

अथानध्याया उच्यन्ते—

नाधीयीत वायौ दिवा पांसुहरे ॥ ५ ॥

पांसूनुद्धरतीति पांसुहरः । वायौ दिवा पांसुहरे वाति सति नाधीयीत अपांसुहरे न दोषः । पांसुहरेऽपि रात्रौ न दोषः ॥ ५ ॥

दिन में धूलभरी वायु बहने पर अध्ययन नहीं करना चाहिए ॥ ५ ॥

कर्णश्राविणि नक्तम् ॥ ६ ॥

व्यत्ययेनायं कर्मणि कर्तृप्रत्ययः । कर्णाभ्यां श्रूयत इति कर्णश्रावी । एवं भूते महाघोषे वायौ वाति सति नक्तं नाधीयीत ॥ ६ ॥

प्रबल वायु के चलने की ध्वनि सुनाई पड़ने पर रात्रि को अध्ययन न करे ॥ ६ ॥

वाणभेरीमृदङ्गगर्तार्त्तशब्देषु ॥ ७ ॥

वाणो वीणाविशेषः । वाणः शततन्तुरिति महाव्रते दर्शनात् । भेरीमृदङ्गौ प्रसिद्धौ । गर्त्तो रथः । ‘आरोहतं वरुण मित्र गर्तम्’ । ‘स्तुहि श्रुतं गर्तसदम्’ इत्यादौ दर्शनात् । आर्त्तो बन्धुमरणदिना दुःखितः । तेषां शब्दे श्रूयमाणे तावन्तं कालं नाधीयीत ॥ ७ ॥

१७० गौतमधर्मसूत्राणि

७. वाण (एक विशेष प्रकार की वीणा), भेरी, मृदङ्ग, रथ और दुःखी व्यक्ति के विलाप का स्वर सुनाई पड़ने पर अध्ययन न करे ॥ ७ ॥

श्वशृगालगर्दभसंहादे ॥ ८ ॥

संहादः सहशब्दनम् । शुनां शृगालानां गर्दभानां संहादे नाधीयीत । त्रयाणां तु सहशब्देन दण्डापूपिकया सिद्धः प्रतिषेधः ॥ ८ ॥

अनेक कुत्ता, शृगाल और गर्दभ के एक साथ बोलने पर अध्ययन न करे ॥ ८ ॥

रोहितेन्द्रधनुर्नीहारेषु ॥ ९ ॥

आकाशे लोहिते, इन्द्रधनुषि दृश्यमाने, नीहारो हिमानी तस्यां च । तावन्तं कालं नाधीयीत ॥ ९ ॥

आकाश के लोहित वर्ण होने, इन्द्रधनुष दिखलाई पड़ने पर तथा ओस गिरते रहने के समय तक अध्ययन न करे ॥ ९ ॥

अभ्रदर्शने चापत्तौ ॥ १० ॥

अपर्तुरवर्षर्तुः । तत्र सोदकस्य मेघस्य दर्शने नाधीयीत ॥ १० ॥

वर्षाऋतु के अतिरिक्त किसी ऋतु में जलमय मेघ दिखाई पड़ने पर अध्ययन न करे ॥ १० ॥

मूत्रित उच्चारिते ॥ ११ ॥

संजातमूत्रेऽल्पे मूत्रितः । उच्चारितोऽपि तथा । तत्र श्रेयानपि नाधीयीत । उत्सर्गे तु मानसमप्यशुचिरिति वक्ष्यति ॥ ११ ॥

मूत्र या पुरीष त्याग करने की आवश्यकता का अनुभव करे तो अध्ययन न करे ॥ ११ ॥

निशायां संध्योदकेषु ॥ १२ ॥

निशा रात्रेर्मध्यमो भागस्तस्मिन्संध्यायामुदके चावस्थितो नाधीयीत ॥ १२ ॥

मध्यरात्रि को, सन्ध्या समय और जल में खड़ा होकर अध्ययन नहीं करना चाहिए ॥ १२ ॥

वर्षति च ॥ १३ ॥

वर्षति च देवे तावन्नाधीयीत । धात्वर्थमात्रं विवक्षितं न परिमाणविशेषः ॥ १३ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १७१

वृष्टि होते रहने पर भी (अध्ययन न करे) ॥ १३ ॥

एके वलीकसंतानाम् ॥ १४ ॥

एके मन्यन्ते वलीकसंतानं वलीकं नीध्रं गृहपटलान्तस्तत्र वर्षधारा संतन्द्यते यथा तथा वर्षति देवे नाध्येयम् ॥ १४ ॥

कुछ आचार्यों का मत है कि जब वर्षा की जलधारा घर की छत के किनारों (ओरी) से गिरे तब वेदाध्ययन नहीं करना चाहिए ॥ १४ ॥

आचार्यपरिवेषणे ॥ १५ ॥

आचार्यौ गुरुशुक्रौ तयोः परिवेषणे नाधीयीत। अपर आह—परिवेषणं भक्ष्यभोज्याद्यन्नोपहरणम्। ब्राह्मणानन्नेन परिवेष्येत्यादौ दर्शनात्। आचार्यस्य परिवेषणे नाधीयीतेति ॥ १५ ॥

जब बृहस्पति और शुक्र नक्षत्रों पर घेरा-सा दृष्टिगोचर होता हो तो अध्ययन न करे। (कुछ भाष्यकारों के अनुसार परिवेषण-भक्ष्य-भोज्याद्यन्नोपहरण) ॥ १५ ॥

ज्योतिषोश्च ॥ १६ ॥

प्रसिद्धज्योतिषी सूर्याचन्द्रमसौ। तयोश्च परिवेषणे नाधीयीत। पूर्वसूत्रे द्वितीयपक्षेऽत्रानुवृत्तस्य परिवेषणशब्दस्यार्थभेदोऽङ्गीकरणीयः ॥ १६ ॥

जब सूर्य और चन्द्र पर उपर्युक्त प्रकार का घेरा दिखाई पड़े तब भी अध्ययन न करे ॥ १६ ॥

भीतो यानस्थः शयानः प्रौढपादः ॥ १७ ॥

भीतो वर्तमानभयः। यानस्थोऽश्वाद्यारूढः। शयानः शय्यामासेवमानः प्रौढपादः पादे पादान्तराधायी पीठासनाद्यारोपितपादो वा। एवंभूतेन नाध्येयम् ॥ १७ ॥

भयभीत होने पर, अश्व आदि यान पर चढ़कर, सोकर और एक पैर के ऊपर दूसरा पैर रखकर अथवा आसन आदि पर पैर रखकर अध्ययन न करे ॥ १७ ॥

श्मशानग्रामान्तमहापथाशौचेषु ॥ १८ ॥

श्मशानं शवदाहस्थानम्। ग्रामान्तो ग्रामसीमा। महापथः प्रसिद्धः। अशौचं शौचराहित्यम्। एतेषु स्थानेषु नाध्येयम्। अथवाऽशौचं जननमरणनिमित्तमस्पर्शालक्षणं तस्मिन्नपि नाध्येयम् ॥ १८ ॥

श्मशान में, ग्राम की सीमा पर, महापथ में तथा अपवित्र होने पर अध्ययन न करे ॥ १८ ॥

१७२ गौतमधर्मसूत्राणि

पूतिगन्धान्तःशवदिवाकीर्त्यशूद्रसंनिधाने ॥ १९ ॥

पूतिगन्धे घ्राणगन्धे। दिवाकीर्त्यश्चण्डालः। अन्तःशब्द उभाभ्यां संबद्धयते। अन्तःशवेऽन्तर्दिवाकीर्त्ये च ग्राम इति। शूद्रसंनिधाने[ च ] नाध्येयम्। द्वंद्वैकवद्भावः। आपस्तम्बोऽपि—अन्तःशवेऽन्तश्चण्डाल इति ॥ १९ ॥

जहाँ दुर्गन्ध हो, जिस स्थान (ग्राम) के भीतर शव या चण्डाल हो वहाँ तथा शूद्र के निकट अध्ययन न करे ॥ १९ ॥

भुक्तके चोद्गारे ॥ २० ॥

भुक्त[ क ]मम्लमम्ले चोद्गारे वर्तमाने नाधीयीत ॥ २० ॥

जब तक खट्टी डकारें आ रही हों तब तक अध्ययन नहीं करना चाहिए ॥ २० ॥

ऋग्यजुषं च सामशब्दो यावत् ॥ २१ ॥

ऋक्च यजुश्च ऋग्यजुषम्। अचतुरित्यादिना निपातः। यावत्सामशब्दः श्रूयते तावदृग्वेदं यजुर्वेदं च नाधीयीत। षष्ठ्यन्तपाठस्तु नास्मभ्यं रोचते ॥ २१ ॥

जब तक सामगान सुनाई पड़े तब तक ऋग्वेद और यजुर्वेद का अध्ययन न करे ॥ २१ ॥

आकालिका निर्घातभूमिकम्पराहुदर्शनोल्काः ॥ २२ ॥

निर्घातोऽशनिपातः। भूमिकम्पो भूचलनम्। राहुदर्शनं ग्रहणम्। उल्कोल्कापातः। एत आकालिका अनध्यायहेतव इति प्रकरणाद्गम्यते। यस्मिन्काल एते भवन्ति परेद्युस्तत्पर्यन्तं काल आकालः। तत्संबद्ध आकालिकः ॥ २२ ॥

वज्रपात होने पर, भूकम्प होने पर, राहु के दिखलाई पड़ने पर एवं उल्कापात होने पर दूसरे दिन के उसी समय तक अनध्याय रहता है ॥ २२ ॥

स्तनयित्नुवर्षविद्युतश्च प्रादुष्कृताग्निषु ॥ २३ ॥

स्तनयित्नुर्मेघशब्दः। प्रसिद्धमन्यत्। प्रादुष्कृतेष्वग्निहोत्रहोमकाले संध्यायां स्तनयित्नुप्रभृतयो भवन्तः प्रत्येकमाकालिकानध्यायहेतवः। अपर्त्ताविदम् ॥ २३ ॥

सन्ध्याकाल में अग्निहोत्र के काल में मेघगर्जन, वृष्टि या विद्युत् की चमक होने पर अध्ययन न करे ॥ २३ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १७३

ऋतावाह —

अहर्ऋतौ ॥ २४ ॥

वर्षर्त्तावेते यदि भवेयुः संध्यायां तदा प्रातश्चेदहर्मात्रमनध्यायः । सायं तु रात्रावनध्याय इत्यर्थसिद्धत्वादनुक्तम् ॥ २४ ॥

यदि उपर्युक्त घटनाएँ वर्षा ऋतु में प्रातः काल हों तो दिन भर का अनध्याय होता है (सायंकाल होने पर रात्रि को अनध्याय होता ही है) ॥ २४ ॥

विद्युति नक्तं चाऽऽपररात्रात् ॥ २५ ॥

यदि नक्तं विद्युद् दृश्यते न संध्यायां तदाऽऽपररात्राद्रात्रेस्तृतीयो भागोऽपररात्र आ तस्मादनध्यायः । ततोऽध्येयम् । प्रातस्तु संध्यायां विद्युति जाबाल आह—विद्युति प्रातरहरनध्याय इति ॥ २५ ॥

यदि रात्रि में विद्युत् चमकती दिखाई पड़े तो रात्रि के तीसरे भाग तक अनध्याय होता है ॥ २५ ॥

त्रिभागादिप्रवृत्तौ सर्वम् ॥ २६ ॥

यद्यहस्तृतीयाद्भागादारभ्य विद्युत्प्रवर्तते न केवलायां संध्यायां नापि नक्तं तदा सर्वरात्रमनध्यायः ॥ २६ ॥

यदि दिन के तीसरे पहरे से लेकर विद्युत् चमकती रहे, तो सारी रात अनध्याय रहता है ॥ २६ ॥

उल्का विद्युत्समेत्येकेषाम् ॥ २७ ॥

उल्का च विद्युत्तुल्या । यथा विद्युत्यनध्यायो विद्युति नक्तं चापररात्रादित्येवमुल्कापातेऽपीत्येकेषां मतम् ॥ २७ ॥

कुछ आचार्यों का मत है कि उल्कापात होने पर भी विद्युत् दर्शन के समान ही (रात्रि के तीसरे भाग तक अनध्याय होता है) ॥ २७ ॥

स्तनयित्नुरपराह्ने ॥ २८ ॥

स्तनयित्नुरपराह्ने यदि भवति न संध्यायां तदा विद्युत्समो भवति । आऽपररात्रादनध्यायं करोति ॥ २८ ॥

अपराह्न में मेघों का गर्जन होने पर (विद्युत् दर्शन के समान ही रात्रि के तीसरे भाग तक अनध्याय होता है) ॥ २८ ॥

अपि प्रदोषे ॥ २६ ॥

प्रदोषेऽपि भवः स्तनयित्नुर्विद्युत्समः । आऽपररात्रादनध्यायहेतुः ॥२९॥

१७४ | गौतमधर्मसूत्राणि

प्रदोष काल में भी मेघगर्जन होने पर (विद्युत् दर्शन के समान ही रात्रि के तीसरे भाग तक अनध्याय रहता है) ॥ २९ ॥

सर्वं नक्तमार्द्धरात्रात् ॥ ३० ॥

प्रथमाद्रात्रिभागादारभ्याऽर्धरात्रात्प्रवृत्तः स्तनयित्नुः सर्वं नक्तमनध्यायहेतुः ॥ ३० ॥

रात्रि के आरम्भ से लेकर आधीरात तक के समय में मेघगर्जन होने पर सारी रात अनध्याय होता है ॥ ३० ॥

अहश्चेत्सज्योतिः ॥ ३१ ॥

अहश्चेत्स्तनयित्नुर्भवति। प्रागपराह्नात्तदा सज्योतिरनध्यायः। सकलं दिवसमित्यर्थः ॥ ३१ ॥

यदि (अपराह्न से पहले) दिन में मेघगर्जन हो तो सूर्य का प्रकाश रहने तक अर्थात् दिन भर अनध्याय होता है ॥ ३१ ॥

विषयस्थे च राज्ञि प्रेते ॥ ३२ ॥

यस्मिन्विषये ऽयं वसति तत्रस्थे तस्याधिपतौ राज्ञि प्रेते सज्योतिरनध्यायः। आकालिकमित्यन्ये ॥ ३२ ॥

जिस स्थान पर निवास किया जा रहा हो वहाँ के अधिपति राजा की मृत्यु होने पर दिन भर अनध्याय होता है ॥ ३२ ॥

विप्रोष्य चान्योन्येन सह ॥ ३३ ॥

यदा सहाध्यायिनः परस्परं विप्रवसेयुः केचिच्चाऽऽचार्येण संगतास्तदा सज्योतिरनध्यायः। आ परेषां मेलनादित्येके। आकालिकमित्यन्ये ॥ ३३ ॥

यदि एक साथ अध्ययन करने वालों में कोई शिष्य बाहर गया हो और अन्य गुरु के साथ हों तो गये हुए शिष्य के वापस लौटकर आने तक अनध्याय रहता है ॥ ३३ ॥

संकुलोपाहितवेदसमाप्तिच्छर्द्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रम् ॥ ३४ ॥

संकुलश्चोरादिभिर्ग्रामाद्युपद्रवः। उपाहितोऽग्निदादः। वेदसमाप्तिः शाखासमाप्तिः। छर्दनं भुक्तोद्गारः। श्राद्धमेकोद्दिष्टादि। मनुष्ययज्ञो वसन्तोत्सवादिः। भोजनशब्द उभाभ्यां संबध्यते। श्राद्धभोजने मनुष्ययज्ञभोजन इति। एतेषु निमित्तेष्वहोरात्रमनध्यायः। मनुष्यप्रकृतीनां

सानुवाद-मिताक्षरावृत्तिसहितानि १७५

देवानां यज्ञो मनुष्ययज्ञ इत्यन्ये । यथाऽऽहाऽऽपस्तम्बः—मनुष्यप्रकृतीनां देवानां यज्ञे भुक्त्वेत्येक इति । ये मनुष्या भूत्वा प्रकृष्टेन तपसा देवाः संपन्नास्तद्यज्ञस्तत्प्रीत्यर्थं ब्राह्मणभोजनम् ॥ ३४ ॥

गाँव में चोरों आदि का उपद्रव होने पर, आग लग जाने पर, एक वेद का अध्ययन पूरा होने पर, कै होने पर, श्राद्ध का भोजन करने पर तथा मनुष्ययज्ञ में भोजन करने पर एक दिन और रात अनध्याय होता है ॥ ३४ ॥

अमावास्यायां च ॥ ३५ ॥

अमावास्यायामहोरात्रमनध्यायः ॥ ३५ ॥

अमावस्या को दिन और रात्रि में अनध्याय होता है ॥ ३५ ॥

द्वयहं वा ॥ ३६ ॥

तदहः पूर्वेद्युश्च द्वयहमनध्यायः । शुक्लचतुर्दश्यां त्वनध्यायस्य मूलान्तरं मृग्यम् । एवं प्रतिपत्सु च ॥ ३६ ॥

अथवा दो दिन (अमावस्या का दिन तथा उसके पहले के दिन) अनध्याय रहता है ॥ ३६ ॥

कार्तिकी फाल्गुन्याषाढी पौर्णमासी ॥ ३७ ॥

कार्तिक्याद्यास्तिस्रः पौर्णमास्योऽनध्यायहेतवोऽहोरात्रम् । पौर्णमास्यन्तरेष्वनध्याये मूलं मृग्यम् ॥ ३७ ॥

कार्तिक, फाल्गुन, और आषाढ़ मासों की पौर्णमासी को दिन-रात्रि का अनध्याय रहता है ॥ ३७ ॥

तिस्रोऽष्टकास्त्रिरात्रम् ॥ ३८ ॥

ऊर्ध्वमाग्रहायण्यास्त्रिष्वपरपक्षेषु तिस्रोऽष्टकाः । तास्त्रिरात्रमनध्यायहेतवः तदहः पूर्वेद्युरपरेद्युश्च ॥ ३८ ॥

आग्रहायणी आदि तीन अष्टका तिथियों को भी तीन दिन रात्रि का अनध्याय होता है ॥ ३८ ॥

अन्त्यामेके ॥ ३९ ॥

एकेऽन्त्यामेकाष्टकामनध्यायहेतुं मन्यन्ते ॥ ३९ ॥

कुछ आचार्यों का मत है कि केवल अन्तिम अष्टका के अवसर पर अनध्याय होता है ॥ ३९ ॥

१७६गौतमधर्मसूत्राणि

अभितो वार्षिकम् ॥ ४० ॥

श्रवणादि वार्षिकमिति यदुक्तं वार्षिकमनध्ययनं तदभितस्तस्योभयोः पार्श्वयोर्ये कर्मणो उपाकरणोत्सर्जने तयोरपि कृतयोस्त्र्यहमनध्यायमेक इच्छन्ति । तथा च मनुः—

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् । इति ।
उशना—उपाकर्मणि चोत्सर्गे त्र्यहमनध्यायः ॥ इति ॥ ४० ॥

श्रवणादि वार्षिकोत्सव के समय उसके पूर्व और पश्चात् के (उपाकरण एवं उत्सर्जन के) दिनों को लेकर तीन दिन अनध्याय होता है ॥ ४० ॥


सर्वे वर्षाविद्युत्स्तनयित्नुसंनिपाते ॥ ४१ ॥

वर्षादीनां त्रयाणां युगपत्संनिपाते त्रिरात्रमनध्याय इति सर्वे एवाऽऽचार्या मन्यन्ते ॥ ४१ ॥

वर्षा, विद्युत और मेघगर्जन के एक साथ होने पर तीन रात्रि का अनध्याय होता है ऐसा सभी आचार्यों का मत है ॥ ४१ ॥


प्रस्यन्दिनि ॥ ४२ ॥

प्रकृष्टं स्यन्दनं वर्षं प्रस्यन्दस्तद्वति च काले यावत्प्रस्यन्दनमनध्यायो द्व्यहं त्र्यहं चतुरहं वा ॥ ४२ ॥

मूसलाधार वर्षा होने पर जब तक वर्षा होती रहे तब तक अनध्याय रहता है ॥ ४२ ॥


ऊर्ध्वं भोजनादुत्सवे ॥ ४३ ॥

उपनयनादावुत्सवे भोजनादूर्ध्वं तदहरनध्यायः ॥ ४३ ॥

(उपनयन आदि) उत्सव में भोजन के बाद उस दिन अनध्याय रहता है ॥ ४३ ॥


प्राधीतस्य च निशायां चतुर्मुहूर्तम् ॥ ४४ ॥

उपकृत्याध्येतुं प्रवृत्तः प्राधीतः । आदिकर्मणि क्तः कर्तरि च । तस्य निशायां चतुर्मुहूर्तं चतुरो मुहूर्तानष्टौ नाडिका अनध्यायः । ‘श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत’ इत्यापस्तम्बीयेन समानार्थमिदम् । चकारात्त्रयोदशीप्रदोषेऽपि निशायां चतुर्मुहूर्तं निषेधो दर्शितः ॥ ४४ ॥

उपाकर्म के उपरान्त अध्ययन आरम्भ करने वाले के लिए रात्रि में चार मुहूर्त तक अनध्याय होता है ॥ ४४ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १७७

नित्यमेके नगरे ॥ ४५ ॥

एक आचार्या नगरे नित्यमेवाध्ययनं नेच्छन्ति । नित्यग्रहणं निशाधिकानिवृत्त्यर्थम् ॥ ४५ ॥

कुछ आचार्यों के अनुसार नगर मे वेदाध्ययन करने का सदैव निषेध होता है ॥ ४५ ॥

मानसमप्यशुचिः ॥ ४६ ॥

अप्रयतः सन्मानसमप्यध्ययनं न कुर्यात् । एवं चान्येष्वनध्यायहेतुषु मानसमनिषिद्धम् ॥ ४६ ॥

अपवित्र रहने पर मन से भी वेदाध्ययन का विचार न करे ॥ ४६ ॥

श्राद्धीनामाकालिकम् ॥ ४७ ॥

श्राद्धमस्यास्तीति श्राद्धी श्राद्धस्य कर्ता । अत इनिठनौ । न तु श्राद्धमनेन भुक्तमिति । भोक्तरि पूर्वमेव निषिद्धत्वात् । तेषां श्राद्धदातॄणामाकालिकमनध्यायः । अपर आह—ये श्राद्धे केवलं भुक्तवन्तो न पित्राद्यर्थं पात्रताया तेषां पूर्वकोऽहोरात्रनिषेधः । अयं त्वाकालिकनिषेधः पित्राद्यर्थं पात्रताया भुक्तवतामिति ॥ ४७ ॥

श्राद्ध करने वाला दूसरे दिन के उसी समय तक अध्ययन न करे ॥ ४७ ॥

अकृतान्नश्राद्धिकसंयोगेऽपि ॥ ४८ ॥

भोजनासंभवे यद्य ( द ) कृतान्नं पितृभ्यो दीयते तदकृतान्नश्राद्धिकम् । तत्संयोगेऽप्याकालिकमनध्यायः । न केवलं भुक्तवतः । तत्र मनुः-

प्राणि वा यदि वाऽप्राणि यत्किंचिच्छ्राद्धिकं भवेत् ।
तदालभ्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृताः ॥ इति ।

आमश्राद्धस्यैतदेव लिङ्गम् ॥ ४८ ॥

श्राद्ध के समय बिना पका हुआ अन्न दिया जाय तो भी उपर्युक्त नियम से अनध्याय होता है ॥ ४८ ॥

प्रतिविद्यं च यान्स्मरन्ति [ यान्स्मरन्ति ] ॥ ४६ ॥

प्रतिविद्यं प्रतिधर्मशास्त्रं याननध्यायानस्मरन्ति स्मर्तारस्तेष्वपि हेतुषु नाधीयीत । तत्र वसिष्ठः —दिग्दाहपर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्वाकालिकमिति ।

१२ गौ०

१७८ गौतमधर्मसूत्राणि

श्लेष्मातकस्य शाल्मल्या मधूकस्य तथाऽप्यधः ।
कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥ इति ॥
एवमन्यत्रापि द्रष्टव्यम् । [ अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ ४९ ॥

प्रत्येक धर्मशास्त्र में जो अनध्याय के नियम बताये गये हैं उनका भी पालन करना चाहिए ॥ ४९ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने सप्तमोऽध्यायः ॥ ७ ॥

अथाष्टमोऽध्यायः

मानसमप्यशुचिरित्युक्तम्। तच्चाशुचित्वमाहारजनितमपि भवतीति भक्ष्याभक्ष्यप्रकरणमारभ्यते—

प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत ॥ १ ॥

स्वकर्मसु वर्णप्रयुक्तेष्वाश्रमप्रयुक्तेषूभयप्रयुक्तेषु च ये प्रशस्ताः 'अहो अयं स्वकर्मानुतिष्ठति' इति तेषां द्विजातीनां गृहे ब्राह्मणो भुञ्जीत । क्षुदुपघातार्था भोजने प्रवृत्तिः । शक्या च यस्य कस्यचिद् गृहे भुञ्जानेन क्षुदुपहन्तुम् । तत्र परिसंख्या एषामेव गृहे ब्राह्मणो भुञ्जीत नान्येषामिति ॥ १ ॥

अपने वर्ण के कर्म का भली भाँति आचरण करने के लिए प्रख्यात द्विजातियों के घर ही ब्राह्मण भोजन करे ॥ १ ॥

प्रतिगृह्णीयाच्च ॥ २ ॥

प्रतिग्रहोऽप्येषामेव सकाशान्नान्येषामिति ॥ २ ॥
और ( ऐसे ही द्विजातियों से ) दान भी ग्रहण करे ॥ २ ॥

अस्यापवादः—

एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनावसथयानपयोदधिधानासफरीप्रियङ्गुस्रङ्मार्गशाकान्यप्रणोद्यानि सर्वेषाम् ॥ ३ ॥

एधः काष्ठम् । उदकं घटादिस्थमपि । यवसं तृणादि । मूलमार्ड्रकादि । फलमाम्रादि । मधु माक्षिकम् । अभयं परित्राणम् । अभ्युद्यतमयाचितेनापि दात्रा स्वयमानीतमिदं गृह्यतामिति । शय्या कटादि । आसनं पीठादि । आवसथः प्रतिश्रयः । यानं शकटादि । दधिपयसी प्रसिद्धे । धाना सृष्टा यवाः । शफरी मत्स्यविशेषः । [ प्रियङ्गू राजिका ] । स्रङ्माला । मार्गं मृगमांसं पन्था वा मार्गः । शाकं वास्तुकादि । एतान्येधादीन्यप्रणोद्यानि सर्वतः प्रतिग्राह्याणि याचित्वाऽपि । अभ्युद्यतं पक्वान्नाद्यप्रणोद्यमप्रत्याख्येयं प्रत्याख्याने दोषः । तथाचाऽऽपस्तम्बः—

उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् ।
भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः ॥
न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ इति ।

१८० | गौतमधर्मसूत्राणि

अस्यापवादः—चिकित्सकस्य मृगयोः शल्यकृन्तस्य पाशिनः।
कुलटायाश्च षण्ढस्य तेषामन्नमनाद्यम्॥ इति ॥ ३॥
ईंधन, जल (घड़े में रखा हुआ भी), घास, (अदरख आदि) मूल, (आम्र आदि) फल, मधु, अभय, बिना माँगे ही मिला हुआ अन्न, शय्या, आसन, आश्रयस्थान, गाड़ी इत्यादि यान, दूध, दही, भुने हुए अन्न, छोटी मछलियाँ, प्रियङ्गु, माला, मृगमांस अथवा मार्ग, शाक—ये सभी मिलने पर (या माँगकर भी) किसी भी वर्ण से ग्रहण किये जा सकते हैं ॥ ३ ॥

पितृदेवगुरुभृत्यभरणेऽप्यन्यत् ॥ ४ ॥

पितृभरणमविच्छेदेन श्राद्धकरणम्। देवभरणमग्निहोत्रादि। गुरवः पित्रादयः। भृत्याः पुत्रदासादयः। तेषां भरणं भक्तादिदानम्। एतेषु निमित्तेष्वन्यदप्युक्तादन्यदप्यप्रणोद्यम्।

मनुश्च—
गुरूनभृत्यांश्चोद्धरिष्यन्नर्चिष्यन्देवतातिथीन्।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः॥ इति ॥ ४ ॥

श्राद्धकर्म, अग्निहोत्रादि देवकर्म, पिता आदि गुरुजनों की सेवा एवं आश्रित जनों (पुत्र, दास आदि) की आवश्यकता की कोई भी अन्य वस्तु (किसी भी वर्ण से मिले तो अस्वीकार नहीं करनी चाहिए) ॥ ४ ॥

वृत्तिश्चेन्नान्तरेण शूद्रात् ॥ ५ ॥

यदि शूद्रप्रतिग्रहमन्तरेण वृत्तिर्जीवनं न निर्वर्तते तदा शूद्रादपि प्रतिगृह्णीयात् ॥ ५ ॥

यदि जीवन-निर्वाह का कोई अन्य उपाय न हो तो ये वस्तुएँ एक शूद्र से भी ली जा सकती हैं ॥ ५ ॥

पशुपालक्षेत्रकर्षककुलसंगतकारयितृपरिचारका भोज्यान्नाः ॥६॥

यो यस्य पशून्पालयति क्षेत्रं च कर्षति, यश्च यस्य कुले संगत: पारम्पर्येण मित्ररूपेणाऽऽगतः, यश्च यस्य परिचारको दासस्तेषां भोज्यान्नाः। पक्वमप्यन्नं तेषां भुञ्जीरन्। कारुः कारयिता। 'ऊर्ध्वं नापितः श्मश्रूणि कारयति' इति हि दृश्यते। स च विप्राद्वैश्यायामनूढायां जातः सोऽपि भोज्यान्नः। तत्र मनुः—

क्षेत्रिकः कुलमित्रञ्च गोपालो दासनापितौ।
एते शूद्रेषु भोज्यान्ना यश्चाऽऽत्मानं निवेदयेत् ॥ इति ॥
एतच्चात्यन्तापद्विषयम् ॥ ६ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १८१

अपने पशुओं के चरवाहे, (हलवाहे), कुल के परम्परा से चले आने वाले मित्र जनों, नाई, और परिचारक का अन्न ग्रहण किया जा सकता है ॥६॥

वणिक्चाशिल्पी ॥ ७ ॥

वणिक्च भोज्यान्नः, स चेदशिल्पी कुम्भकारादिको न भवति ॥ ७ ॥

यदि वणिक् शिल्पी यथा कुम्हार आदि न हो तो उसके यहाँ भी भोजन किया जा सकता है ॥ ७ ॥

अथामोज्यमाह—

नित्यमभोज्यम् ॥ ८ ॥

नित्यं परगृहे न भोक्तव्यम् । गृहस्थस्यायं प्रतिषेधः। ‘उपासते गृहस्था ये परपाकमबुद्धयः’ इति मानवे दर्शनात् अन्येभ्यो यावत्प्रत्यहं दीयते तन्नित्यमभोज्यम् ॥ ८ ॥

प्रतिदिन दूसरे के घर या दूसरे के द्वारा दिया गया भोजन नहीं खाना चाहिए ॥ ८ ॥

केशकीटावपन्नम् ॥ ९ ॥

यच्चान्नं केशैः कीटैर्वा संबद्धं तदप्यभोज्यम् । अत्र वसिष्ठः—
कामं तु केशकीटानुत्सृज्याद्भिः प्रोक्ष्य भस्मनाऽवकीर्य वाचा प्रशस्तमुपयुञ्जीत । इति ।
मनुस्तु—पक्षिदग्धं गवा घ्रातमवधूतमवक्षुतम् ।
केशकीटावपन्नं च मृत्प्रक्षेपेण शुध्यति ॥ इति ॥
तदेषां रुचिरतो व्यवस्था । अपर आह—पाकादारभ्य यत्केशकीटावपन्नं तत्र गौतमीयमूर्ध्वं तु वासिष्ठमानव इति ॥ ९ ॥

जिस अन्न में केश या कीट पड़े हों वह अभोज्य होता है ॥ ९ ॥

रजस्वलाकृष्णशकुनिपदोपहतम् ॥ १० ॥

कृष्णशकुनिः काकः । पदग्रहणं तुण्डादेरप्यवयवस्योपलक्षणम् । रजस्वलया कृष्णशकुनिपदेन वोपहतं स्पृष्टमन्नमभोज्यम् । प्रभूते त्वन्ने पराशरः—
शृतं द्रोणाधिकं चान्नं श्वकाकैरुपघातितम् ।
न त्याज्यं तस्य शुद्ध्यर्थं ब्राह्मणेभ्यो निवेदयेत् ॥
गायत्र्यष्टसहस्रेण मन्त्रपूतेन वारिणा ।
भोज्यं तत्प्रोक्षितं विप्रैः पर्यग्निकृतमेव च ॥ इति ।
उपहतं प्रदेशमुद्धृत्येदं कार्यम् ॥ १० ॥

१८२ | गौतमधर्मसूत्राणि

रजस्वला स्त्री द्वारा, और पैर से ( या चोंच से भी ) कौए द्वारा छुवा गया अन्न अभोज्य होता है ॥ १० ॥

भ्रूणघ्नाऽवेक्षितम् ॥ ११ ॥

भ्रूणहा ब्रह्महा । तथा च वसिष्ठः—'ब्राह्मणं हत्वा भ्रूणहा भवति' इति तेन प्रेक्षितमप्यभोज्यम् ॥ ११ ॥

भ्रूण की हत्या करने वाले ( ब्रह्महत्या करनेवाले ) द्वारा देखा गया अन्न अभोज्य होता है ॥ ११ ॥

भावदुष्टम् ॥ १२ ॥

भोजयित्राऽवज्ञानेन दत्तं भोक्तुर्वा मनसो दुष्टिकरं भावदुष्टम् । तदप्यभोज्यम् ॥ १२ ॥

खिलाने वाले ने जिसे तिरस्कारपूर्वक दिया हो अथवा जो भोजन करने वाले के मन को दूषित करता हो वह अन्न अभोज्य होता है ॥ १२ ॥

गवोपघ्रातम् ॥ १३ ॥

गवा चोपसमीपे घ्रातमभोज्यम् ॥ १३ ॥

जिसके निकट गौ ने सूँघ लिया हो वह अन्न अभोज्य होता है ॥ १३ ॥

शुक्तं केवलमदधि ॥ १४ ॥

यत्पक्वं कालवशादम्लरसं तत्केवलं शुक्तम् । तदभोज्यम् । केवलग्रहणात्क्षीरोदकादिसंपृक्तमम्लमपि भोज्यम् । दधि तु केवलमप्यम्लं भोज्यम् । तक्रकाञ्जिकयोरपक्वत्वान्नायं प्रतिषेधः । आचारोऽपि तक्रे निर्विवादः । काञ्जिके सविवादः ॥ १४ ॥

जो अन्न पकाकर रख दिया गया हो और कालवश खट्टा हो गया हो वह अभोज्य होता है, किन्तु दही खट्टा हो जाने पर भी भोज्य होता है ॥ १४ ॥

पुनः सिद्धम् ॥ १५ ॥

सकृत्पक्वस्य तादृश एव पाकः पुनः क्रियते पूर्वं शुक्तपकमिति तत्पुनःसिद्धम् । तदभोज्यम् । अन्यथापक्वस्य तु पाकान्तरे भर्जनादौ न दोषः ॥ १५ ॥

एक बार पकाये गए अन्न को यदि कुछ समय बाद पुनः उसी प्रकार पकाया जाय तो वह अभोज्य हो जाता है ॥ १५ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १८३

पर्युषितमशाकभक्षस्नेहमांसमधूनि ॥ १६ ॥

उदयास्तमयान्तरितं पर्युषितम् । दिवा पक्वं रात्रौ रात्रिपक्वं दिवा तदशुक्तमप्यभोज्यम् । शाकादि तु पर्युषितमपि भोज्यम् । शाकमुक्तम् । भक्षाः पृथुकापूपादयः स्नेहो घृततैलादिः । मांसं प्रसिद्धम् । मधु च । एतानि पर्युषितान्यपि भोज्यानि । स्नेहमध्वादीनामपक्वत्वादेवापर्युषितत्वं तस्मात्स्नेहमधुग्रहणं तत्संसृष्टस्यापि पर्युषितस्य पर्युदासार्थम् । तेन तत्संसृष्टं पर्युषितमपि भोज्यमगर्हितम् ।

तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥ १६ ॥

बासी भोजन ( दिन में बनाया हुआ रात्रि को और रात्रि में बनाया हुआ भोजन दिन में ) अभोज्य हो जाता है, किन्तु शाक, पृथुक, अपूप आदि भक्ष, घी, तेल आदि, मांस एवं मधु बासी भी खाए जा सकते हैं ॥ १६ ॥


उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्षककदर्यबन्धनिकचि-

कित्सकमृगयुवनिषुचार्युच्छिष्टभोजिगणविद्विषाणाम् ॥ १७ ॥

उत्सृष्टः पितृभ्यां परित्यक्तः ।

गण्डस्योपरिजातानां परित्यागो विधीयते ।

इत्यादिना कारणेन दुर्भिक्षे रक्षणाशक्त्या, प्रातिकूल्येन वा । पुंश्चली-अनियतपुंस्का व्यभिचारिणी गणिका च । अभिशस्तः सताऽसता वा दोषेण ख्यातः । अनपदेश्य एवंभूतोऽयमिति व्यपदेशनानर्हः । स्त्रीत्वपुंस्त्ववाभ्यामनिर्देश्या तृतीयाप्रकृतिरित्यन्ये । दण्डिको राज्ञा दण्डाधिकारे नियुक्तः । शूद्रात्प्रातिलोम्येन वैश्यायां जातस्तक्षा । वैश्यात्क्षत्रियायां जातो माहिष्यः । शूद्रायामूढायां वैश्याज्जाता करणी, तस्यां माहिष्याज्जातो रथकारः । स तक्षेत्यन्ये । कदर्यो लुब्धः । यमधिकृत्य मनुराह—

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः । इति ।

बन्धनिको बन्धकागाररक्षी । चिकित्सको वैद्यः शल्यकर्ता वा । यो मृगयुः सन्निषुचारो न भवति किंतु पाशचारी स मृगयुर्वनिषुचारो वागुरिकः । उच्छिष्टभोजी निगदसिद्धः । गणो जनसमुदायः । विद्विषाणः शत्रुः । एतेषामुत्सृष्टादीनामन्नमभोज्यम् । येऽत्र प्रशस्ता द्विजातयो न भवन्ति तेषां ग्रहणमुदितप्रतिषेधार्थम् । तथा चाऽपस्तम्बः—चिकित्सकस्य मृगयोरित्यादि । आपद्यपि प्रतिषेधार्थमित्यन्ये ॥ १७ ॥

माता-पिता द्वारा परित्यक्त व्यक्ति का, व्यभिचारिणी स्त्री का, वास्तविक अथवा मिथ्या दोषारोपण द्वारा निन्दित व्यक्ति का ( नपुंसक का ), राजा द्वारा दण्ड-कार्य में नियुक्त व्यक्ति का, वैश्यस्त्री से उत्पन्न शूद्र का पुत्र ( अथवा बढ़ई