गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
अथ द्वितीयोऽध्यायः
उपनीतप्रसङ्गेनानुपनीतधर्मा उच्यन्ते—
प्रागुपनयनात्कामचारः कामवादः कामभक्षः ॥ १ ॥
आषोडशाद् ब्राह्मणस्येत्यापत्कल्पोपनयनविषयम् । कामचार इच्छाचरणम् । अपण्यान्यपि विक्रीणीयाच्छूद्रवृत्त्याऽपि जीवेदिति । कामवादोऽश्लीलानृतादिवचनम् । कामभक्षो लशुनपर्युषितान्नादिभक्षणं चतुःपञ्चकृत्वो वा भोजनमित्येतावद्यस्य स तथोक्तः । न तु ब्रह्महत्यासुरापानाद्यतिप्रसङ्गः ॥ १ ॥
उपनयन होने के पूर्व (बालक) इच्छानुसार कार्य (न बेचने योग्य वस्तुओं का विक्रय आदि कर्म) कर सकता है; जैसा चाहे वैसा (अर्थात् अश्लील या असत्य) बोल सकता है और इच्छानुसार (जैसे लहसुन, बासी, या चार-पाँच बार) भोजन कर सकता है ॥ १ ॥
अहुतात् ॥ २ ॥
हुतशेषं पुरोडाशादि । तदत्तीति हुतात् । तद्विपरीतोऽहुतात् । अनुपनीतो हुतं नाद्यादिति ॥ २ ॥
जिसका यज्ञोपवीत न हुआ हो वह हवन के उपरान्त अवशिष्ट (पुरोडाश आदि) का भोजन न करे ॥ २ ॥
ब्रह्मचारी ॥ ३ ॥
कामचारादेरयमपवादः । आषोडशादित्युक्तत्वात्स्त्रीषु प्रसङ्गयोग्यताऽस्त्यतो ब्रह्मचारी जितेन्द्रियः स्यादिति । तथा च स्मृत्यन्तरे—
प्रायश्चित्तं विलुप्तमवकीर्णिब्रतेन शुद्धमुपनयेन्न सप्तदशमत ऊर्ध्वं व्रात्यावकीर्णिब्रताभ्यामिति ॥ ३ ॥
(यज्ञोपवीत के पूर्व भी बालक) ब्रह्मचारी रहे (अर्थात् इन्द्रियों पर संयम रखे, स्त्रीप्रसंग न करे) ॥ ३ ॥
यथोपपादितमूत्रपुरीषो भवति ॥ ४ ॥
मूत्रपुरीषे यथोपपद्येते यस्य स तथोक्तः प्राङ्मुखादिरपि कुर्यात् । न भूमावनन्तर्धायेत्यादिस्थाननियमोऽपि नास्ति ॥ ४ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि १७
जिस ढंग से सुविधा हो उस ढंग से मूत्र और पुरीष का त्याग कर सकता है ॥ ४ ॥
नास्याऽऽचमनकल्पो विद्यते ॥ ५ ॥
कल्पनषेधादाचमनमनुज्ञातं स्त्रीशूद्रवत् ॥ ५ ॥
उस ( अनुपनीत बालक ) के लिए आचमन का विधान नहीं है ॥ ५ ॥
अन्यत्रापमार्जनप्रधावनावेक्षणेभ्यः ॥ ६ ॥
अपमार्जनादीनि वर्जयित्वाऽऽचमनकल्पो नास्ति । अपमार्जनादिकमस्तीति यावत् । यद्यप्यपमार्जनादीन्याचमनकल्पे नान्तर्भवन्ति तथापि पर्युदासमुखेन तानि विधीयन्ते । अत्र (त्राप)मार्जनं सोदकेन पाणिना परिमार्जनमुच्छिष्टादिलिप्तस्य । प्रधावनममेध्यादिलिप्तस्याद्भिर्मृदा च क्षालनम् । अवेक्षणं रजस्वलादिस्पृष्टस्य । इदमत्यन्तबालविषयम् षड्वर्षादूर्ध्वं स्नानमिच्छन्ति । अस्यानुपनोतस्यैतावदुक्तमात्रकामचारादिव्यतिक्रमे प्रायश्चित्तमस्ति । तत्र स्मृत्यन्तरे—
अशीतिर्यस्य वर्षाणि बालो वाऽप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥
ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च ।
चरेद्गुरुः सुहृच्चैव प्रायश्चित्तं विशुद्धये ॥
अतो बालतरस्यास्य नापराधो न पातकम् ।
राजदण्डश्च तस्यातः प्रायश्चित्तं च नेष्यते ॥ इति ॥ ६ ॥
भोजनोपरान्त उच्छिष्ट को धोने, मल आदि दूषित पदार्थों के लेप और गन्ध को दूर करने और रजस्वला आदि के स्पर्श से शुद्धि करने के अतिरिक्त अन्य किसी आचमन का विधान अनुपनीत बालक के लिए नहीं है ॥ ६ ॥
न तदुपस्पर्शनादशौचम् ॥ ७ ॥
तदुपस्पर्शनात्तस्याकृतोपनयनस्योदक्यादिस्पृष्टस्याप्युपस्पर्शनादशौचं न स्यात् । स्पृष्टास्पृष्टिरुपस्पर्शनम् । तेन स्नानं न कर्तव्यम् । भुक्तोच्छिष्टस्य कृतमूत्रपुरीष[स्य] स्पर्शनादपि नाऽऽचमनम् । इदमपि षड्वर्षात्प्रागेव । किमर्थं तर्हि तस्य शौचं विहितम् । न तावदनुष्ठानार्थं नापि स्पर्शयोग्यतार्थम् । अकृतशौचस्यापि स्पर्शयोग्यत्वात् । रक्षणार्थमिति ब्रूमः । तथा च स्मृत्यन्तरम्—
'बालस्य पञ्चमाद्वर्षाद्रक्षार्थं शौचमाचरेत् । इति ॥ ७ ॥
उसके ( अनुपनीत बालक के छः वर्ष की अवस्था से पहले ) रजस्वला
२ गौ०
२८ | गौतमधर्मसूत्राणि
स्त्री द्वारा छुए जाने, भोजन के उपरान्त जूठे हाथ होने या मूत्र और मलत्याग करने से अशुद्ध होने पर भी ) स्पर्श से अशौच नहीं होता ॥ ७ ॥
नत्वेवैनमग्निहवनबलिहरणयोर्नियुञ्ज्यात् ॥ ८ ॥
एनमनुपनीतमग्निहवन औपासनहोमादौ बलिहरणे वैश्वदेवादौ न नियुञ्ज्यान्न नियुञ्जीतेति यावत् । तुशब्दादुक्तादन्यत्रापि समन्त्रके कर्मणि न नियुञ्जीतेति । एवकारोऽवधारणे । अथाऽऽश्वलायनः—"पाणिग्रहणादि गृह्यं परिचरेत्स्वयं पत्न्यपि वा पुत्रः कुमार्यन्तेवासी वा" इति । छन्दोगाश्च पत्नी जुहुयादिति पत्नीकमर्याद्यनुज्ञातेऽस्मिन्पक्षे नत्वेवैनमित्यर्थः ॥ ८ ॥
इस ( अनुपनीत बालक ) को औपासन होम आदि में और वैश्वदेव आदि बलिकर्म में न लगावे ॥ ८ ॥
न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात् ॥ ९ ॥
ब्रह्म वेदः । एनमनुपनीतं ब्रह्म नाभिव्याहारयेन्नोच्चारयेत् । किमविशेषणेति नेत्याह । अन्यत्र स्वधानिनयनात् । पित्र्यस्य सर्वस्य कर्मण उपलक्षणम् । अन्यत्रोदकर्मस्वधापितृसंयुक्तेभ्य इति वासिष्ठे दर्शनात् । अगृहीताक्षरः पुत्रः पित्रोः संस्कारमर्हतीत्यादि च । अन्यस्यासंभवे सर्वं पित्र्यं कर्म तदानीं मन्त्रान्न्राहयित्वाऽसौ कारयितव्यः ॥ ६ ॥
स्वधा ( उदकदान आदि श्राद्ध ) कर्म को छोड़कर इस अनुपनीत बालक से वेदमंत्रों का उच्चारण नहीं कराना चाहिए ॥ ९ ॥
उपनयनादनियमः ॥ १० ॥
अग्नीन्धनादिर्यो नियमो वक्ष्यते स उपनयनादिरेव । अनुपनीताधिकारेणं विच्छिन्नत्वादुपनीताधिकारार्थमिदम् ॥ १० ॥
आगे ( अग्नीन्धन आदि जो ) नियम बताये जायँगे वे उपनयन से आरम्भ होते हैं ॥ १० ॥
उक्तं ब्रह्मचर्यम् ॥ ११ ॥
अनुपनीतस्य यदुक्तं ब्रह्मचर्यं तदुपनीतस्यापि समानम् । ननु च स्त्रीप्रेक्षणालम्भने इति निषेधो वक्ष्यते । तथाऽपि स्मरणकीर्तनादिनिषेधार्थमिदम् ॥ ११ ॥
अनुपनीत बालक के लिए जिस ब्रह्मचर्य का नियम बताया गया है वह उपनीत बालक के लिये भी समझना चाहिए ॥ ११ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि १९
अग्नीन्धनभैक्षचरणे ॥ १२ ॥
अग्नीन्धनं समिद्धोम। भिक्षाणां समूहो भैक्षम् । तदर्थं प्रतिगृहं चरणं भैक्षचरणम् । ते प्रत्यहं कर्तव्ये । तत्र मनुः—
दूरादाहृत्य समिधः संनिदध्याद्विहायसि ।
सायं प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ॥
अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ इति ।
आपस्तम्बस्तु—सायमेवाग्निपूजेत्येक इति ॥ १२ ॥
(प्रतिदिन) अग्निकर्म अर्थात् समिधाओं से होम और भिक्षाचरण करे ॥ १२ ॥
सत्यवचनम् ॥ १३ ॥
उपनीतेन सत्यमेव वक्तव्यम् ॥ १३ ॥
उपनीत को सत्य ही बोलना चाहिए ॥ १३ ॥
अपामुपस्पर्शनम् ॥ १४ ॥
उपस्पर्शनं स्नानम् । तदप्यहरहः कर्तव्यम् ॥ १४ ॥
जल से प्रतिदिन स्नान करे ॥ १४ ॥
एके गोदानादि ॥ १५ ॥
गोदानं नाम षोडशे वर्षे कर्तव्यं व्रतम् । तद्व्रतेषु द्वितीयम् । छन्दोगानामेक आचार्या गोदानादि स्नानमिच्छन्ति न ततः प्राग्दीक्षितवदस्यापि ब्रह्मचर्यदीक्षानियुक्तत्वात् । नित्यस्नानस्यायं प्रतिषेधः । नैमित्तिकं तु कर्तव्यं, तत्र दण्डवदा प्लवनम् । नाप्सु श्लाघमानः स्नायादित्यापस्तम्बस्मरणात् ॥ १५ ॥
छन्दोगों के कुछ आचार्य गोदान (सोलहवें वर्ष में किये जाने वाले केश और श्मश्रु के काटने के संस्कारः) के बाद से उपनीत व्यक्ति के लिये स्नान कर्म विहित करते हैं ॥ १५ ॥
बहिःसंध्यत्वं च ॥ १६ ॥
सायंप्रातद्वे संध्ये यस्य ग्रामाद्बहिर्भवतः स बहिःसंध्यस्तस्य भावः ग्रामाद्बहिरेव संध्योपासनं कर्तव्यमिति ॥ १६ ॥
गांव से बाहर ही (उपनीत व्यक्ति) सायं एवं प्रातः की सन्ध्याएँ करे ॥ १६ ॥
२० गौतमधर्मसूत्राणि
तत्कदा कथं चेत्याह—
तिष्ठेत्पूर्वामासीतोत्तरां सज्योतिष्याज्योतिषो दर्शनाद्वा- ग्यतः ॥ १७ ॥
प्रातःसंध्यां तिष्ठेत्सायंसंध्यामासीत । अत्यन्तसंयोगे द्वितीया । स्थानासनयोरुपक्रमोपसंहारौ कथयति-सज्योतिषि काले समारभ्याऽऽज्यो-तिरन्तरदर्शनात् । प्रातर्नक्षत्रज्योतिरारभ्याऽऽसूर्यज्योतिर्दर्शनात्सायमादि-त्यज्योतिरारभ्याऽऽनक्षत्रदर्शनादिति । तावन्तं कालं वाग्यतश्च स्यात् । तथा च मनु :— पूर्वां संध्यां जपस्तिष्ठेत्सावित्रीमाऽर्कदर्शनात् । पश्चिमां तु समासीत सम्यगृक्षविभावनात् ॥ इति ॥ १७ ॥
प्रातः सन्ध्या में नक्षत्रों के दिखाई पड़ते रहने के समय से लेकर सूर्योदय के समय तक खड़ा होवे और सायं सन्ध्या में सूर्य की ज्योति दिखाई पड़ते रहने के समय से लेकर नक्षत्रों के दिखाई पड़ने के समय तक बैठे और मौन होकर ( सन्ध्योपासन ) करे ॥ १७ ॥
नाऽऽदित्यमीक्षेत ॥ १८ ॥
ब्रह्मचारिणोऽयं सदाऽऽदित्यदर्शने प्रतिषेधः । स्नातकस्य तु— मानवी०—नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥ इति ॥ १८ ॥
ब्रह्मचारी कदापि सूर्य को न देखे ॥ १८ ॥
वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जनयानोपान- च्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षणृत्यगीतपरि- वादभयानि ॥ १९ ॥
मध्वादीनि वर्जयेत् । मधु माक्षिकम् । मांसं मृगादेः । गन्धश्चन्द-नादिः । माल्यानि पुष्पाणि । दिवास्वप्नो दिवानिद्रा । अञ्जनमक्ष्णोः । अभ्यञ्जनं तैलाभ्यङ्गः । यानं शकटादि । उपानच्छत्रे प्रसिद्धे । कामः स्त्री-सङ्गः । क्रोधः कोपः । लोभो द्रव्याभिलाषः । मोहो विवेकशून्यता । वादो बहुजल्पः । वादनं वीणादीनाम् । स्नानं सुखार्थमुष्णतोयादिना कण्ठादधः प्रक्षालनम् । दन्तधावनं दन्तमलापकर्षणम् । हर्षोऽभिमतलाभाच्चित्तोद्रेकः । नृत्यगीते प्रसिद्धे । परिवादः परदोषकथनम् । भयं भयहेतुः कान्तारप्रवे-शादिः । इदं हर्षेऽपि द्रष्टव्यम् ॥ १९ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २१
(ब्रह्मचारी को) मधु, (मृग आदि का) मांस, (चन्दन आदि) गन्ध, पुष्प, दिन में शयन, आंखों में अञ्जन लगाना, शरीर के अंगों में तेल या सुगन्धित लेप लगाना, रथ या गाड़ी की सवारी, जूता, छाता, काम, क्रोध, लोभ (द्रव्य आदि की इच्छा), मोह (विवेकशून्यता), अधिक भाषण, वीणा आदि का वादन, आनन्द के लिये स्नान, दन्तधावन, हर्ष प्रकट करना, नृत्य, गीत, परनिन्दा और भय के कर्म (जैसे घोर वन में प्रवेश)—इन सबका परित्याग करना चाहिए ॥ १९ ॥
गुरुदर्शने कण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि ॥
गुरवः पित्राचार्यादयः । तेषां दर्शनयोग्ये देशे कण्ठप्रावृतादीनि वर्जयेत् । कण्ठप्रावृतं कण्ठप्रावरणं वस्त्रादिना । अवसक्थिका, गु(ऊ)रौ पादमारोप्यावस्थानम् । अपाश्रयणं कुड्यस्तम्भाद्याश्रित्यऽऽसनम् । पादप्रसारणं प्रसिद्धम् । गुरुजनसकाशे विनयसंकोचेन तिष्ठेदित्यर्थः ॥ २० ॥
गुरु (पिता, आचार्य आदि श्रेष्ठ जनों) के सम्मुख कण्ठ ढकना, गुरु की ओर पैर करके बैठना (या जाँघ पर पैर रखकर बैठना), दीवाल या खम्भे आदि का सहारा लेकर बैठना तथा पैर फैलाना (वर्जित है) ॥ २० ॥
निष्ठीवितहसितविष्क(जृ)म्भितावस्फोटनानि ॥ २१ ॥
वर्जयेदिति । निष्ठीवितं कण्ठाच्छ्लेष्मणः सशब्दं बहिर्निर्सनम् । हसितं हासः । विजृम्भितं जृम्भिका । अवस्फोटनमङ्गुलीनां सशब्दमुपमर्दनम् ॥ २१ ॥
खखारना, हँसना, जम्हाई लेना और अंगुलियों को चटकाना ये कार्य भी गुरु के समक्ष न करे ॥ २१ ॥
स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् ॥ २२ ॥
स्त्रीणां प्रेक्षणमवयवशो निरूपणं न यादृच्छिकं दर्शनम् । आलम्भनं स्पर्शनं ते अपि वर्जयेत् । मैथुनशङ्कायामिति वचनाद्बालवृद्धातुरासु स्वयं च तथाविधस्य न दोषः ॥ २२ ॥
मैथुन की शंका हो तो स्त्री (के अङ्गों) की ओर (कामुकतापूर्वक) दृष्टिपात और उनका स्पर्श न करे अर्थात् सहसा दृष्टि पड़ जाने और मैथुन की शंका न होने पर छोटी बच्ची, वृद्धा या रोगिणी को देखने एवं स्पर्श करने में दोष नहीं है ॥ २२ ॥
२२ गौतमधर्मसूत्राणि
द्यूतं हीनसेवामदत्तादानं हिंसाम् ॥ २३ ॥
द्यूतं वर्जयेदिति । द्विविधं [ द्यूतम् ] प्राण्यप्राणिभेदात् । प्राणिद्यूतं मेषयुद्धाद्यप्राणिद्यूतमक्षक्रीडादि । हीनसेवा हीनस्य सेवामधोजातिप्रभृतेः । हीना चासौ सेवा च शौचादिजलाहरणम् । अदत्तादानं केनाप्यदत्तस्योत्सृष्टस्याप्यस्वामिकस्याऽऽदानम् । हिंसा प्राणिपीडा ॥ २३ ॥
जुआ, निम्नजाति के व्यक्ति की सेवा ( अथवा निम्नकोटि की सेवावृत्ति ), बिना दी हुई वस्तु का ग्रहण और प्राणियों की हिंसा न करे ॥ २३ ॥
आचार्यतत्पुत्रस्त्रीदीक्षितनामानि ॥ २४ ॥
आचार्यस्य तत्पुत्रस्य तत्स्त्रिया दीक्षितस्य नामानि वर्जयेत् । परोक्षेऽप्यौपाधिकनामग्रहणं कर्तव्यमिति ॥ २४ ॥
आचार्य, उनके पुत्र, उनकी पत्नी तथा ( यज्ञ में दीक्षणीया इष्टि करके ) दीक्षा लेने वाले के नाम नहीं लेने चाहिए ॥ २४ ॥
मधुमांसाद्येतत्पर्यन्तं वर्जयेदिति क्रियान्वयोऽस्यापि सूत्रस्य—
शुक्लवाचो मद्यं नित्यं ब्राह्मणः ॥ २५ ॥
ब्राह्मणः शुक्ला अश्लीलाः परोद्वेगकारिण्यः । मद्यं मदकरं द्रव्यम् । ताश्च तच्च नित्यं वर्जयेत् । नित्यं ब्राह्मण इति वचनात् क्षत्रियवैश्ययोर्गृहस्थयोः पैष्टीव्यतिरिक्तमद्योपयोगे न प्रत्यवाय इति ॥ २५ ॥
ब्राह्मण अश्लील या दूसरे को कष्ट देने वाले वचन एवं मादक द्रव्यों के सेवन का नित्य ही ( अर्थात् सर्वदा ) परित्याग करे ॥ २५ ॥
अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ॥ २६ ॥
अस्यार्थो मानवे स्पष्टः—
नीचं शय्यासनं चास्य नित्यं स्याद्गुरुसंनिधौ ।
उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ इति ॥ २६ ॥
ब्रह्मचारी गुरु की शय्या की अपेक्षा नीची शय्या पर सोवे, गुरु के आसन की अपेक्षा नीचे आसन पर बैठे, गुरु के जागने से पहले ही उठे और उनके सोने के बाद सोवे ॥ २६ ॥
वाग्बाहूदरसंयतः ॥ २७ ॥
वाक्संयमो बहुप्रलापविरहः । बाहुसंयमो लोष्टमर्दनाद्यभावः । उदरसंयमो मितभोजनम् ॥ २७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २३
वाणी, बाहुओं और पेट का संयम रखे (अर्थात् अधिक न बोले, ढेला आदि न चलावे और परिमित भोजन करे) ॥ २७ ॥
नामगोत्रे गुरोः समानतो निर्दिशेत् ॥ २८ ॥
आत्मनो नामगोत्रे गुरोः समानतो निर्दिशेत् । समानतो यथावदपलापरहितमित्यर्थः । अपर आह—गुरोर्नामगोत्रे समानतः सम्यगानतः प्रह्वो भूत्वा निर्दिशेदिति ॥ २८ ॥
गुरु को अपना नाम और गोत्र उचित रूप में शुद्धता के साथ (अथवा भली भाँति नम्रता के साथ) बतावे ॥ २८ ॥
अर्चिते श्रेयसि चैवम् ॥ २९ ॥
अर्चितो लोके पूजितः । श्रेयान्विद्यादिभिरधिकः । तयोरप्येवमेव सम्यगानत इति । अत्र स्मृत्यन्तरम्—
आचार्यं चैव तत्पुत्रं तद्भार्यां दीक्षितं गुरुम् ।
पितरं वा पितृव्यं च मातुलं मातरं तथा ॥
हितैषिणं च विद्वांसं श्वशुरं पतिमेव च ।
न ब्रूयान्नामतो विद्वान्मातुश्च भगिनीं तथा ॥
अर्चिते श्रेयसि चेत्येवंशब्दो यच्च यावच्च गुरावुक्तं तत्सर्वमतिदिशति । तेन शय्यासनादिकमपि तयोः संनिधौ नोच्चं भवतीति ॥ २९ ॥
पूज्य और (विद्या आदि में) श्रेष्ठ जनों को भी (इसी प्रकार अपना नाम और गोत्र बतावे) ॥ २९ ॥
शय्यासनस्थानानि विहाय प्रतिश्रवणम् ॥ ३० ॥
गुरावाज्ञापयति सति प्रतिश्रवणं प्रतिवचनं कुर्वन्शय्यासनस्थानानि विहायाभिगच्छन्कुर्यात् ॥ ३० ॥
गुरु के आज्ञा देने पर (या कुछ कहने पर) शय्या, आसन और स्थान से उठकर उत्तर देना चाहिए ॥ ३० ॥
अभिक्रमणं वचनाददृष्टेन ॥ ३१ ॥
यदि बहिःस्थितो गुरुरपश्यन्नेव शिष्यं ब्रवीति तदा शिष्येणाभिक्रमणमुपसर्पणं कर्तव्यं न पुनरदृष्टोऽस्मीत्यनादरः कर्तव्यः ॥ ३१ ॥
(यदि गुरु अन्यत्र से कुछ कहें तो उनके) दिखलाई न पड़ते रहने पर शिष्य को उनके समीप जाना चाहिए ॥ ३१ ॥
| २४ | गौतमधर्मसूत्राणि |
|---|
अधःस्थानासनस्तिर्यग्वातसेवायां गुरुदर्शने चोत्तिष्ठेत् ॥ ३२ ॥
यदा गुरुर्नीचैः स्थानमासनं चाधितिष्ठति स्वयमुच्चैःस्थानासनस्थस्तदा गुरुं दृष्ट्वोत्तिष्ठेत् । तिर्यग्वातसेवायां मूत्रपुरीषोत्सर्गादौ च गुरुं दृष्ट्वोत्तिष्ठेत् । चकारः पूर्वापेक्षया समुच्चयार्थः ॥ ३२ ॥
गुरु को ( अपनी अपेक्षा ) नीचे स्थान या आसन पर स्थित और मूत्र या मलत्याग के समय गुरु को देखकर खड़े हो जाना चाहिए ॥ ३२ ॥
गच्छन्तमन्व्रजेत् ॥ ३३ ॥
गच्छन्तं गुरुमनुगच्छेत् ॥ ३३ ॥
( गुरु के ) चलने पर उनके पीछे-पीछे चले ॥ ३३ ॥
कर्म विज्ञाप्याऽऽख्याय ॥ ३४ ॥
यत्किंचिदस्य शिष्यस्य कर्तव्यं तस्य निष्कृतिरिदं करिष्यामीत्याचार्याय विज्ञाप्य यच्चाऽऽचार्यो( यों )पयिकमुदकुम्भहरणादि तत्स्वयमेव ज्ञात्वा कृत्वा च तस्मै कृतमित्याख्याय वर्तितव्यमित्यर्थः ॥ ३४ ॥
जो कर्म करना हो उसे तथा जो कुछ कार्य कर चुका हो उसे गुरु को बतलावे ॥ ३४ ॥
आहूतोऽध्यायी ॥ ३५ ॥
गुरुणाऽऽहूतः सन्नधीयीत न तु स्वयं चोदयेदिति ॥ ३५ ॥
गुरु के बुलाने पर अध्ययन के लिये जाये ( उन्हें स्वयं प्रेरित न करे ) ॥ ३५ ॥
युक्तः प्रियहितयोः ॥ ३६ ॥
आचार्यस्य यत्प्रियं हितं च तत्र युक्तस्तत्परः स्यात् । प्रियं तत्कालप्रीतिकरम् । हितं कालान्तरे* तत्करम् ॥ ३६ ॥
आचार्य को प्रसन्न करने वाले एवं उनका हित करने वाले कर्मों में तत्पर रहे ॥ ३६ ॥
तद्भार्यापुत्रेषु चैवम् ॥ ३७ ॥
तस्याऽऽचार्यस्य भार्यापुत्राश्च तेषु चैवमाचार्यवद्वर्तितव्यम् ॥ ३७ ॥
आचार्य की पत्नी एवं उनके पुत्रों से ( आचार्य के ) समान ही व्यवहार करे ॥ ३७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २५
अस्यापवादः—
नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसंग्रहणानि ॥ ३८ ॥
उच्छिष्टाशनं भुक्तशेषाशनम् । स्नापनं स्नानोयादिभिः शिरोऽङ्गमर्दनपूर्वकमभिषेकः । प्रसाधनमलंकरणम् । पादप्रक्षालनं प्रसिद्धम् । उन्मर्दनमभ्यङ्गशरीरसंवाहनादि । उपसंग्रहणं व्यत्यस्तपाणिनेत्यादि पूर्वोक्तम् । एतानि गुरोर्भार्यापुत्रेषु च न कर्तव्यानि । अत एवाऽऽचार्ये कर्तव्यानीति सिद्धम् ॥ ३८ ॥
( किन्तु गुरु की पत्नी एवं उनके पुत्रों के विषय में ) उनका जूठा भोजन करना, उन्हें ( जल से शिर आदि को मलते हुए ) स्नान कराना, अलंकृत करना, पैर धोना, शरीर दबाना और ( पूर्वोक्त उपसंग्रहण की विधि से ) दाहिने हाथ से दाहिने और बाएँ हाथ से बायें पैर को छूकर प्रणाम करना—ये कार्य न करे ॥ ३८ ॥
अथोपसंग्रहणस्य प्रतिप्रसवः—
विप्रोष्योपसंग्रहणं गुरुभार्याणाम् ॥ ३९ ॥
विप्रोष्य प्रवासं गत्वा प्रत्यागतेन गुरुभार्याणामुपसंग्रहणं कार्यम् ॥ ३९ ॥
यात्रा से लौटकर आने पर ( पूर्वोक्त उपसंग्रहण के नियमानुसार ) गुरु की पत्नियों के चरण का स्पर्श करे ॥ ३९ ॥
तत्रापि—
नैके युवतीनां व्यवहारप्राप्तेन ॥ ४० ॥
एके त्वाचार्या युवतीनां गुरुभार्याणां व्यवहारप्राप्तेन षोडशवर्षप्रायेण शिष्येण विप्रोष्याप्युपसंग्रहणं न कार्यमिति मन्यन्ते ॥ ४० ॥
कतिपय आचार्यों का मत है कि ( यात्रा से लौटकर आने पर भी ) युवक ( प्रायः सोलह वर्ष की आयु वाले ) शिष्य को युवती गुरुपत्नियों का चरण नहीं छूना चाहिए ॥ ४० ॥
अग्नीन्धनभैक्ष्यचरण इत्युक्तम् । तत्राग्नीन्धनस्य प्रतिगृहं व्यवस्थितत्वात्साधारणभैक्ष्यचरणे विधिमाह—
सार्ववर्णिकभैक्ष्यचरणमभिशस्तपतितवर्जम् ॥ ४१ ॥
सर्वेषु वर्णेषु भवं सार्ववर्णिकम् । अभिशस्तान्पतितांश्च वर्जयित्वा सर्वेषु वर्णेषु भैक्ष्यं चरितव्यम् । अभिशस्ता उपपातकिनः ॥ ४१ ॥
२६ | गौतमधर्मसूत्राणि
पातकी और पतित ( अपने कर्म से च्युत ) व्यक्तियों को छोड़कर सभी वर्णों ( के गृहस्थों के घर ) से भिक्षा मांगकर लाये ॥ ४१ ॥
आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुक्रमेण ॥४२॥
भिक्षां देहीति पदद्वयस्याऽऽदिमध्यान्तेषु वर्णक्रमेण भवच्छब्दः संबुद्ध्यन्तः प्रयोक्तव्यः । स्त्रीषु स्त्रीलिङ्गः । ब्राह्मणस्य भवन्भिक्षां देहि । ब्राह्मण्यां भवति भिक्षां देहि । क्षत्रियस्य भिक्षां भवन्देहि । भिक्षां भवति देहि । वैश्यस्य भिक्षां देहि भवन् । भिक्षां देहि भवति ॥ ४२ ॥
( भिक्षा माँगते समय भिक्षा देने वाले के ब्राह्मण क्षत्रिय या वैश्य ) वर्ण के अनुसार 'भिक्षां देहि' इन पदों के आदि, मध्य, या अन्त में 'भवत्' ( स्त्री हो तो 'भवति' ) शब्द का प्रयोग करे ॥ ४२ ॥
आचार्यज्ञातिगुरु [ स्वे ] ष्वलाभेऽन्यत्र ॥ ४३ ॥
आचार्य उक्तः । ज्ञातिः पितृव्यादिः सपिण्डः । गुरुर्मातुलादिः । स्वमात्मीयग्रहणम् । अन्यत्र भिक्षाया अभावे, आचार्यादिगृहेषु भैक्ष्यं चरितव्यम् ॥ ४३ ॥
अन्यत्र भिक्षा न मिलने पर आचार्य, अपने सपिण्ड जनों, गुरुजनों ( मामा आदि ) के या अपने घर से भिक्षा मांगे ॥ ४३ ॥
तेषां पूर्वं पूर्वं परिहरेत् ॥ ४४ ॥
तेषामाचार्यादीनां यो यः प्रथमनिर्दिष्टस्तं तं परिहरेत् । अन्यत्रालाभे स्वगृहे, तत्रालाभे गुरुषु, तत्रालाभे ज्ञातिषु, तत्रालाभ आचार्यगृह इति ॥ ४४ ॥
इनमें क्रमशः पहले-पहले वाले को बचावे ( अर्थात् अन्यत्र भिक्षा न मिलने पर अपने घर से माँगे; वहाँ न मिलने पर गुरुजनों के यहाँ माँगे; वहाँ भी न मिलने पर सपिण्डजनों के यहाँ माँगे और कहीं न मिले तब गुरु के घर से भिक्षा माँगे ॥ ४४ ॥
निवेद्य गुरवेऽनुज्ञातो भुञ्जीत ॥ ४५ ॥
इदमानीतं भैक्ष्यमिति गुरवे निवेद्य तदनुज्ञातो भुञ्जीत । यदि गुरुः स्वयं गृह्णीयात्ततोऽन्यदाहरेत् ॥ ४५ ॥
मिली हुई भिक्षा को गुरु के सम्मुख प्रस्तुत करे और उनकी आज्ञा मिलने पर ही उसका भोजन करे । ( यदि गुरु उसे स्वयं ग्रहण करें तो दूसरी भिक्षा माँगकर लानी चाहिए—मिताक्षरा ) ॥ ४५ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २७
असंनिधौ तद्भार्यापुत्रसब्रह्मचारिभ्यः ॥ ४६ ॥
आचार्यासंनिधाने तद्भार्यादिभ्यो यथासंभवं निवेद्य तैरनुज्ञातो भुञ्जीत ॥ ४६ ॥
गुरु के कहीं दूर होने पर उनकी पत्नी, उनके पुत्र या अपने साथ के ब्रह्मचारियों के समक्ष रखकर (उनका अनुमति मिलने पर भिक्षान्न का भोजन करे) ॥ ४६ ॥
वाग्यतस्तृप्यन्नलोलुप्यमानः संनिधायोदकम् ॥ ४७ ॥
यावद्भुक्ति वाचंयमः । तृप्यन्नन्नदर्शनेन हृष्यन् । अलोलुप्यमानोऽतिस्पृहामकुर्वन् । संनिधायान्तर्भावितण्यर्थः । संनिधाप्येति । उदकमुदकभाजनमिति ॥ ४७ ॥
(भोजन करते समय) मौन रहे, प्रसन्न रहे, लालच न करे और जल का पात्र अपने निकट रखे ॥ ४७ ॥
शिष्यशासनप्रकारमाह—
शिष्यश्शिष्टिरवधेन ॥ ४८ ॥
वधस्ताडनम् । अताडयता गुरुणा भर्त्सनादिभिः शिष्यः शास्यः ॥४८॥
गुरु शिष्य को बिना मारे-पीटे केवल उसकी भर्त्सना करके अनुशासित रखे ॥ ४८ ॥
अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ॥ ४९ ॥
यदि भर्त्सनादिभिः शासितुमशक्यस्ततो रज्ज्वा तन्वा, तनुना वेणुविदलेन वेति । द्वंद्वनिर्दिष्टयोरपि विकल्पो रज्ज्वा वेणुदलेन वेति मानवे दर्शनात् । ताभ्यां दुर्बलाभ्यां ताडयित्वाऽपि शासनीयः ॥ ४९ ॥
यदि भर्त्सना से (उद्दण्ड शिष्य) वश में न रहे तो पतली रस्सी या बाँस की पतली छड़ी से मारकर (अनुशासित रखे) ॥ ४९ ॥
अन्येन घ्नन् राज्ञा शास्यः ॥ ५० ॥
हस्तादिना क्रोधवशेन ताडयन्नराज्ञा शास्य आचार्यः । एवं शिष्यस्य गुरुकुले वास उक्तः॥ ५० ॥
अन्य किसी प्रकार से (क्रोधवश होकर हाथ आदि से शिष्य को) मारने पर (आचार्य) राजा द्वारा दण्डनीय होता है ॥ ५० ॥
२८ | गौतमधर्मसूत्राणि
कियन्तं कालमित्यत आह—
द्वादश वर्षाण्येकवेदे ब्रह्मचर्यं चरेत् ॥ ५१ ॥
यद्यप्येकैकस्य वेदस्य बह्व्यः शाखाः । एकत्रिंशतिधा बह्वृच एकशतं यजुः शाखाः सहस्रवर्त्मा सामवेदो नवधाऽऽथर्वणो वेद इति । तथाऽपि तत्र तत्र वेदे पूर्वैरध्ययनानुष्ठानाभ्यां परिगृहीता यावती शाखा तावत्यत्र वेदशब्देन विवक्षिता । य एकं वेदमधीते स द्वादश वर्षाणि गुरुकुले ब्रह्मचर्यं चरेत् ॥ ५१ ॥
एक वेद के अध्ययन के लिए बारह वर्ष तक ब्रह्मचर्य का आचरण करे ॥ ५१ ॥
प्रतिद्वादश वा सर्वेषु ॥ ५२ ॥
यस्तु चतुरो वेदानध्येतुं शक्तः स प्रतिद्वादश प्रतिवेदे द्वादश वर्षाणीत्यर्थः । यथाऽऽहाऽऽपस्तम्बः— उपेतस्याऽऽचार्यकुले ब्रह्मचारिवासोऽष्टाचत्वारिंशद्वत्सराणीति ॥५२॥
अथवा यदि चारों वेदों का अध्ययन करने में समर्थ हो तो प्रत्येक वेद के लिये बारह वर्ष तक गुरुकुल में निवास करे ॥ ५२ ॥
ग्रहणान्तं वा ॥ ५३ ॥
यावता कालेनैको वेदो द्वौ त्रयश्चतुरो वा ग्रहीतुं शक्यास्तावन्तं कालमिति ॥ ५३ ॥
अथवा जितने समय में (एक, दो, तीन या चारों वेद का) ग्रहण कर सके उतने समय तक ब्रह्मचर्याश्रम में रहे ॥ ५३ ॥
विद्यान्ते गुरुरर्थेन निमन्त्र्यः ॥ ५४ ॥
विद्यासमाप्तौ गुरुरर्थेन प्रयोजनेन निमन्त्र्यः प्रष्टव्यः । गुरो, इदं धनमाहराणीति ॥ ५४ ॥
विद्याध्ययन समाप्त कर लेने पर गुरु से (गुरुदक्षिणा) धन के विषय में पूछे ॥ ५४ ॥
कृत्वाऽनुज्ञातस्य वा स्नानम् ॥ ५५ ॥
तत आहरेत्याचार्योक्तं कृत्वा स्नानं कर्तव्यम् । वत्स त्वद्गुणैरेवाहमस्मि तोषितो धनेनालमिति तेनानुज्ञातस्य वा, स्नानं समावर्तनं कर्तव्यमिति ॥ ५५ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २९
( गुरु की आज्ञानुसार गुरुदक्षिणा प्रदान ) करके अथवा उनके द्वारा प्रसन्नतापूर्वक ( बिना दक्षिणा लिये ही ) आज्ञा दी जाने पर समावर्तन स्नान करे ॥ ५५ ॥
आचार्यः श्रेष्ठो गुरूणां मातेत्येके [ मातेत्येके ] ॥ ५६ ॥
गुरूणां पित्रादीनां मध्य उक्तलक्षण आचार्यः श्रेष्ठः । स हि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म। तेनानेकगुरुसमवाये स एव प्रथमं पूज्यः। एके त्वाचार्या माता श्रेष्ठेति मन्यन्ते । तथा च वसिष्ठः—
उपाध्यायाद्दशाऽऽचार्य आचार्याणां शतं पिता ।
पितुर्दशगुणं माता गौरवेणातिरिच्यते ॥
आपस्तम्बोऽपि—
माता पुत्रत्वस्य भूयाँसि कर्माण्यरभते तस्याँ शुश्रूषा नित्या पतितायामपि। द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥ ५६ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
प्रथमप्रश्ने द्वितीयोऽध्यायः ॥
पिता आदि पूज्य जनों में आचार्य श्रेष्ठ होता है; किन्तु कतिपय आचार्यों का मत है कि माता ( सभी पूज्य जनों में ) श्रेष्ठ होती है ॥ ५६ ॥
गौतमधर्मसूत्र के प्रथम प्रश्न में द्वितीय अध्याय समाप्त ॥
अथ प्रथमप्रश्ने तृतीयोऽध्यायः
तस्याऽऽश्रमविकल्पमेके ब्रुवते ॥ १ ॥
तस्यैवमधीतवेदस्य ब्रह्मचारिणो वक्ष्यमाणाश्चत्वार आश्रमा विकल्प्यन्त इत्येक आचार्या ब्रुवते । अन्ये तु समुच्चीयन्त इति । तत्राऽऽपस्तम्बः—
तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छतीति । बुद्ध्वा कर्माणि यत्कामयेत तदारभेतेति च ।
तथा च ब्रह्मचर्याश्रममुक्त्वा “अत एव ब्रह्मचर्यवान्प्रव्रजति” इति बौधायनः ।
मनुना तु समुच्चयो दर्शितः—
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु ब्रजमानः पतत्यधः ॥
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् । इति ॥ १ ॥
कतिपय आचार्यों का मत है कि उस (वेद का अध्ययन पूरा कर लेने वाले) ब्रह्मचारी को (चारों आश्रमों में से) किसी भी आश्रम को स्वीकार करने की छूट होती है ॥ १ ॥
के पुनस्त आश्रमाः—
ब्रह्मचारी गृहस्थो भिक्षुर्वैखानसः ॥ २ ॥
यद्यप्यसौ पूर्वमपि ब्रह्मचर्याश्रम उक्तस्तथाऽपि प्रपित्सितनैष्ठिकब्रह्मचारित्वमत्र विवक्षितम् । भिक्षुः संन्यासी । वैखानसो वानप्रस्थः । वैखानसप्रोक्तेन मार्गेण वर्त्तत इति । तेन स आश्रमः प्राधान्येन दर्शितः । शास्त्रान्तरेषु वैखानसस्तृतीयो भिक्षुश्चतुर्थ आश्रमः । इह तु क्रमभेदः प्रागुक्तास्त्रय आश्रमिरण इत्यत्र वैखानसवर्ननार्थः ॥ २ ॥
(वेदाध्ययन समाप्त करने के उपरान्त) ब्रह्मचारी, गृहस्थ, संन्यासी या वानप्रस्थ का जीवन आरम्भ कर सकता है (यहाँ प्रधानता के भेद से संन्यास को वानप्रस्थ के पहले रखा गया है) ॥ २ ॥
तेषां गृहस्थो योनिरप्रजनत्वादितरेषाम् ॥ ३ ॥
तेषां चतुर्ष्वप्याश्रमेषु वर्तमानानां गृहस्थो योनिरुपस (त्प) त्तिस्थानम् । गृहस्थेनैवोत्पादिताश्चतुर्भिराश्रमैरधिक्रियन्ते । गृहस्थव्यतिरिक्ताश्रमस्थानां प्रजोत्पादनस्य निषिद्धत्वात् । तत्र शातातपः—
सानुवाद-मिताक्षरावृत्तिसहितानि ३१
चण्डालाः प्रत्यवसिताः परिव्राजकतापसाः ।
तेषां जातान्यपत्यानि चण्डालैः सह वासयेत् ॥ इति ॥ ३ ॥
इन आश्रमों में ( स्थित पुरुषों का ) गृहस्थाश्रम ही उत्पत्तिस्थान है; क्योंकि गृहस्थाश्रम के अतिरिक्त अन्य आश्रमों में सन्तान-उत्पत्ति की व्यवस्था नहीं है ॥ ३ ॥
इदानीमाश्रमधर्मान्वक्ष्यन्प्रथमनिर्दिष्टस्य ब्रह्मचारिण आह—
तत्रोक्तं ब्रह्मचारिणः ॥ ४ ॥
तत्र तेषां मध्ये ब्रह्मचारिणो नैष्ठिकस्य यदुपकुर्वाणस्योपनयनादिर्नियम इत्यारभ्योक्तं तदेवास्यापीत्युक्तं भवति ॥ ४ ॥
इन आश्रमों में ब्रह्मचारी के नियम पहले बता दिये गये हैं ( अर्थात् नैष्ठिक ब्रह्मचारी को उन्हीं नियमों का पालन करना चाहिए ) ॥ ४ ॥
तत्र विशेषः—
आचार्याधीनत्वमान्तम् ॥ ५ ॥
आन्तमादेहपातम् । आचार्यकुल एव तच्छुश्रूषया वर्तेत ॥ ५ ॥
नैष्ठिक ब्रह्मचारी जीवनपर्यन्त आचार्य के अधीन ( गुरुकुल में निवास करते हुए एवं आचार्य की सेवा करते हुए ) रहे ॥ ५ ॥
गुरोः कर्मशेषेण जपेत् ॥ ६ ॥
आचार्ये प्रकृते गुरुशब्दः पित्रोरपि ग्रहणार्थः । ततश्चाऽऽचार्यं पितरौ च शुश्रूषमाणस्तद्व्यतिरिक्ते काले जपेद्वेदमधीयीत । न तु स्वाधीनो भवेत् ॥ ६ ॥
आचार्य ( और माता-पिता ) की सेवा के उपरान्त शेष समय में जप करे ॥ ६ ॥
गुर्वभावे तदपत्यवृत्तिस्तदभावे वृद्धे सब्रह्मचारिण्यग्नौ वा ॥ ७ ॥
आचार्ये या वृत्तिरभिहिता सा तदभावे तत्पुत्रे, तत्पुत्राभावे वृद्धे विद्यया वयसा वाऽधिके, वृद्धाभावे तथाभूते सब्रह्मचारिणि, सब्रह्मचार्याभावेऽग्नौ वा कर्तव्या । समिदाधानादिभिरग्नौ वृत्तिः ॥ ७ ॥
गुरु के न होने पर उनके प्रति बताई गई वृत्ति का आचरण उनके पुत्र के प्रति करे; उनके पुत्र के अभाव में ( विद्या में या आयु में ) श्रेष्ठ व्यक्ति के प्रति और उसके अभाव में अपने सहाध्यायी ब्रह्मचारी के प्रति उस वृत्ति का
३२ गौतमधर्मसूत्राणि
आचरण करे और उसके भी अभाव में अग्नि में (समिधाओं का हवन आदि कर्म द्वारा) वृत्ति करे ॥ ७ ॥
एवंवृत्तो ब्रह्मलोकमवाप्नोति जितेन्द्रियः ॥ ८ ॥
स्पष्टोऽर्थः । जितेन्द्रियत्वं मनुना दर्शितम्—
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ ८ ॥
इन्द्रियों पर विजय प्राप्त करके इस प्रकार आचरण करने वाला नैष्ठिक ब्रह्मचारी ब्रह्मलोक प्राप्त करता है ॥ ८ ॥
उत्तरेषां चैतदविरोधि ॥ ९ ॥
उत्तरेषामप्याश्रमाणामस्मिन्वृत्ते यदविरुद्धं तत्समानम् । यथा द्यूतादिवर्जनम् । विरुद्धं यथा—अग्निकार्यं प्रव्रजितस्य, गुरुकुलवासो वैखानसस्य, ब्रह्मचर्यं गृहस्थस्येत्यपरा वृत्तिः । उत्तरेषां चाऽऽश्रमाणां धर्मजातमेतस्य द्रष्टव्यम् । किमविशेषेण । न एतदविरोधि । एतदाश्रमधर्माविरोधि न म्लेच्छाशुच्यधार्मिकैः सह संभाषेतेत्येवमाद्यस्यापि भवति ॥ ९ ॥
ब्रह्मचर्य के बाद के आश्रमों में भी ब्रह्मचर्याश्रम के जो आचरण प्रतिकूल नहीं हैं वे समान रूप से विहित हैं ॥ ९ ॥
बहुवक्तव्यत्वात्क्रमप्राप्तमपि गृहस्थ्यमुल्लङ्घ्य भिक्षोधर्मानाह—
अनिचयो भिक्षुः ॥ १० ॥
निचयो द्रव्यसंग्रहस्तद्रहितः स्यात् ॥ १० ॥
संन्यासी को (द्रव्य आदि का) संग्रह नहीं करना चाहिए ॥ १० ॥
ऊर्ध्वरेताः ॥ ११ ॥
उत्तरेषां चैतदविरोधीति जितेन्द्रियत्वे सिद्धेऽपि पुनरूर्ध्वरेता इति रेतसः स्रोतोभङ्गो यथा भवेत्तथा प्रयतेतेत्येवमर्थम् ॥ ११ ॥
(संन्यासी को) ऊर्ध्वरेता होना चाहिए (अर्थात् वीर्यभंग नहीं होने देना चाहिए) ॥ ११ ॥
ध्रुवशीलो वर्षासु ॥ १२ ॥
वर्षाशब्दो नित्यं बहुवचनान्तः । वर्षर्तौ सति ध्रुवशीलः स्यादेकत्र तिष्ठेदिति ॥ १२ ॥
वर्षाऋतु में एक स्थान पर ही निवास करे ॥ १२ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ३३
भिक्षार्थी ग्राममियात् ॥ १३ ॥
भिक्षाकाल एव ग्रामं प्रविशेत् । शेषकालं देवालयादौ वृक्षमूलेषु वा वसेत् ॥ १३ ॥
भिक्षा माँगने के लिये ( ही ) गाँव में जाये ॥ १३ ॥
जघन्यमनिवृत्तं चरेत् ॥ १४ ॥
भिक्षाकाले यद्गृहमनुपपत्त्या विलम्बितं न तद्भूयस्तदहः प्रविशेत् ।
तत्र मनुः—
विधूमे सन्नमुसले व्यङ्गारेऽभुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ १४ ॥
भिक्षा के समय किसी घर में देर हो जाय तो बिना लौटे ही भिक्षा ग्रहण करे ( दुबारा न जावे ) ॥ १४ ॥
निवृत्ताशीः ॥ १५ ॥
अधिकभिक्षालाभार्थं गृहेष्वाशीर्वादपरो न स्यात् ॥ १५ ॥
अधिक भिक्षा के लोभ से आशीर्वाद नहीं देना चाहिए ॥ १५ ॥
वाक्चक्षुःकर्मसंयतः ॥ १६ ॥
वाक्संयमो मौनम् । चक्षुःसंयमः पदविक्षेपप्रदेशादन्यत्र चक्षुषोरप्रवर्तनम् । कर्मसंयमो भिक्षोश्चोदितकर्मानतिक्रमः । अत्र वाक्संयमविरोधे तु स्मृत्यन्तरम्—
धर्मयोगं पथिप्रश्नं स्वाध्यायं च तथैव च ।
भिक्षार्थं देहिवचनं न निन्दति यतेरपि ॥ इति ॥ १६ ॥
वाणी, नेत्र और कर्म में संयम करे ( अर्थात् अधिक न बोले, इधर-उधर न देखे और विहित कर्म के अतिरिक्त कर्म न करे ) ॥ १६ ॥
कौपीनाच्छादनार्थं वासो बिभृयात् ॥ १७ ॥
कौपीनमिति गुह्यप्रदेशस्य नाम । तदाच्छाद्यते यावता तावदेव वासो बिभृयात् । अधिकं तु प्रावरणादि न बिभृयात् ॥ १७ ॥
केवल गुप्त अंगों के आच्छादन भर के लिये पर्याप्त वस्त्र धारण करे ॥ १७ ॥
प्रहीणमेके निर्णिज्य ॥ १८ ॥
एके मन्यन्ते तदपि कौपीनाच्छादनं प्रहीणं जीर्णं तथाऽन्यैस्त्यक्तं प्रक्षाल्य बिभृयात् ॥ १८ ॥
३ गौ० ध०
३४ | गौतमधर्मसूत्राणि
कुछ आचार्यों का मत है कि वह कौपीन वस्त्र (लंगोटी) भी पुराना हो और (दूसरे द्वारा त्यक्त हो तो) उसे धोकर पहने ॥ १८ ॥
नाविप्रयुक्तमोषधिवनस्पतीनामङ्गमुपाददीत ॥ १६ ॥
वृक्षलतादीनामङ्गं फलपत्राद्यविप्रयुक्तं ततोऽप्रच्युतं नोपाददीत न गृह्णीयात् । स्वयं पतितं तु गृह्णीयात् ॥ १९ ॥
अपने आप न गिरे हुए (अर्थात् गिराये गये) ओषधियों और वृक्ष एवं लताओं के पत्ते, फूल, फल, मूल या शाखा आदि को ग्रहण न करे ॥ १९ ॥
न द्वितीयामपर्तु रात्रिं ग्रामे वसेत् ॥ २० ॥
यत्र वर्षर्तौ ध्रुवशीलतोक्ता तमृतुं वर्जयित्वा, ऋत्वन्तरेषु यत्रैकां रात्रिमुषितस्तत्र ग्रामे न द्वितीयां वसेत् । ग्रामैकरात्रः स्यादिति ॥ २० ॥
(वर्षाऋतु के अतिरिक्त अन्य ऋतु में) जिस गाँव में एक रात्रि निवास करे उसमें दूसरी रात्रि न रहे ॥ २० ॥
मुण्डः शिखी वा ॥ २१ ॥
सर्वानैव केशान्सह शिखया वापयेत् । शिखावर्जं वापयेद्वा । मुण्डः शिखी वेति विकल्पेनैकदण्डत्रिदण्डग्रहणविकल्पोऽप्युक्तः । अत्र श्रुतिस्मृती—
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ इति ।
सशिखं वपनं कृत्वा बहिः सूत्रं त्यजेद् बुधः ।
एकदण्डं गृहीत्वा च भिक्षुधर्मं समाचरेत् ॥
शिखी यज्ञोपवीती च यद्वा सम्यक्प्रबोधितः ।
त्रिदण्डग्रहणं कृत्वा भिक्षुधर्मं समाचरेत् ॥ २१ ॥
संन्यासी (शिखा सहित) सभी केशों को मुँड़ाकर रखे अथवा शिखा छोड़कर सिर मुड़ाये ॥ २१ ॥
वर्जयेद् बीजवधम् ॥ २२ ॥
बीजानि व्रीह्यादीनि तेषां वधो मुसलादिनाऽवघातस्तं न कुर्यात् । तेन तण्डुलस्यौदनोकरणमप्युपलक्षितम् । पक्वान्नस्यैव स्वामित्वादस्य॥२२॥
(व्रीहि आदि) बीजों को न कूटे । (केवल पकाये हुए अन्न की भिक्षा ग्रहण करे ।) ॥ २२ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ३५
समो भूतेषु हिंसानुग्रहयोः ॥ २३ ॥
हिंसायामनुग्रहे च भूतेषु समो यो हिनस्ति यो वाऽनुगृह्णाति तत्र तत्र निर्विकार इति ॥ २३ ॥
पीड़ा पहुँचा पर या अनुग्रह करने पर ( पीड़ा पहुँचानेवाले और अनुग्रह करनेवाले ) प्राणियों के प्रति एक समान व्यवहार रखे ॥ २३ ॥
अनारम्भी ॥ २४ ॥
ऐहिकं पारत्रिकं च न कंचिदारम्भं कुर्यात् । यथाऽऽहाऽऽपस्तम्बः—
अनिहोऽनमुत्रञ्चरेदिति ॥ २४ ॥
ऐहिक और पारत्रिक किसी कर्म को आरम्भ न करे ॥ २४ ॥
अथ वैखानसस्याऽऽह—
वैखानसो वने मूलफलाशी तपःशीलः ॥ २५ ॥
वैखानसो वानप्रस्थो वने वसन्मूलानि फलानि च पक्वानि वाऽश्नीयान्न पुनरोदनम् । तपः कायपरिशोषणम् । ततश्च मूलफलान्यपि स्वल्पान्येवाश्नीयादिति ॥ २५ ॥
वानप्रस्थ वन में निवास करे, मूल और फल खाये और तपस्या करता रहे ॥ २५ ॥
श्रावणेकेनाग्निमाधाय ॥ २६ ॥
श्रावणकं नाम वैखानसं शास्त्रम् । तदुक्तेन प्रकारेणाग्निमाधाय सायं प्रातर्जुहुयादिति शेषः ॥ २६ ॥
श्रावणकशास्त्र के अनुसार अग्नि का आधान करके सायं एवं प्रातःकाल हवन करे ॥ २६ ॥
अग्राम्यभोजी ॥ २७ ॥
फलमूलान्यपि ग्राम्याणि न भुञ्जीत ॥ २७ ॥
ग्राम की कोई वस्तु ( फल-मूल भी ) न खाये । २७ ॥
देवपितृमनुष्यभूतर्षिपूजकः ॥ २८ ॥
वन्यैरेव फलमूलैरहरहः पञ्च महायज्ञान्कुर्यात् । अत्र मनुः—
आरण्यैर्विविधैर्मेध्यैः शाकमूलफलेन वा ।
एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् ॥ इति ॥ २८ ॥