जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
राजयोगाध्यायः ॥ ७ ॥ २११
अन्योन्यगौ तथा स्वे स्वे संयुतावव्यये स्थितौ । पूर्णेक्षितौ मिथो वाऽपि चैकवर्गगतौ यदा ॥ पराशरः । अपि च द्वयोर्द्वयोः सम्बन्धाद्योगा उदाहृताः पराशरेण— १. <sup>१ २</sup>लग्नवित्तौ, २. <sup>२ ३</sup>स्वदुश्चिक्यौ, ३. <sup>३ ४</sup>त्रितुर्यौ, ४. <sup>४ ५</sup>तुर्यपञ्चमौ । ५. <sup>६ ५</sup>द्विषात्मजौ, ६. <sup>६ ७</sup>षष्ठमारौ, ७. <sup>५ ८</sup>धीरन्ध्रौ, ८. <sup>८ ९</sup>मृतिभाग्यगौ ॥ ९. <sup>९ १०</sup>धर्मकर्मणौ, १०. <sup>१० ११</sup>खलाभौ च, ११. <sup>१२ ११</sup>रिःफलाभौ, १२. <sup>१ १२</sup>तनुव्ययौ । पुष्कलाः, १. लाभयोगाख्यं, २. राजमर्त्यं, ३. चमूपकम् । ४. अमात्यं, ५. दारुणं कर्म, ६. राजयोगं, ७. प्रियामृतिम् ॥ ८. भाग्यव्ययं, ९
२१२ सटीकजातकापारिजाते- चन्द्रे वृषोदयगते यदि षड्भिरन्यैर्दृष्टेऽतिबाल्यवयसि क्षितिनायकः स्यात् । तुङ्गस्थितैकखचरे निजमित्रयातैरन्यैः समेति नरपालसमानभोग्यम् ॥ २४ ॥ चन्द्र इति । वृषोदयगते = वृषराशिलग्ने ( स्वोच्च इति यावत् ), चन्द्रे विलसति, अन्यैः = स्वेतरैः ( सू. मं. बु. गु. शु. श. ) षड्भिर्ग्रहैर्दृष्टे जातोऽतिबाल्यवयसि ( कौमार एव ) क्षितिनायकः = राजा स्यात् । तुङ्गेति । तुङ्गस्थितैकखचरे = स्वोच्चंगत एकस्मिन् ग्रहे, निजमित्रयातैः = स्वराशिगतैर्वा मित्रराशिस्थितैरन्यैः षड्भिर्ग्रहैः । इदमुक्तं भवति । कश्चिदेको ग्रह उच्चं गतो भवेत्तस्योच्चगतस्येतरे ये षड् ग्रहाः स्वराशिगता वा मित्रराशिगता भवेयुस्तदा जातो नरपालस्य = राज्ञः समानभाग्यं समेति राजसमो भवेदित्यर्थः ॥ २४ ॥ जिस मनुष्यके जन्म-समयमें वृषलग्नमें चन्द्रमा हो उसे अन्य छः ग्रह देखते हों तो अत्यन्त बचपनमें ही राजा होवे । एक ग्रह उच्च का हो और अन्य सब ग्रह निज या मित्र- गृहमें प्राप्त हों तो उसका भाग्य राजाके समान हो ॥ २४ ॥ वर्गोत्तमे वा यदि पुष्करांशे सारेन्दुदेवेन्द्रगुरौ नृपालः । कर्मस्थिते शोभनदृष्टियुक्ते सम्पूर्णगात्रे शशिनि क्षितीशः ॥ २५ ॥ वर्गोत्तम इति । सारेन्दुदेवेन्द्रगुरौ = भौमचन्द्राभ्यां सहिते गुरौ ( मं. चं. बृ. ) वर्गो- त्तमे = स्वत्रवर्गोत्तमनवांशे पूर्वोक्ते, यदि वा पुष्करांशे = प्रति राशि ये केचिदंशाः पुष्करांशाः शुभदाः पठिताः ( १ अ० ५८ श्लो० द्रष्टव्यः ) तस्मिन्पुष्करांशे गत इति. जातो नृपालः = राजा भवति । कर्मस्थिते इति । सम्पूर्णगात्रे = पूर्णबिम्बे (पूर्णिमायां) शशिनि चन्द्रे, कर्मस्थिते= दशमभावगते, शोभनदृष्टियुक्ते=शुभग्रहावलोकिते च जातः क्षितीशो राजा भवतीति ॥ २५॥ जिस मनुष्यके जन्मसमयमें वर्गोत्तम वा पुष्करांशमें बृहस्पति मङ्गल और चन्द्रमाके साथ हो वह राजा हो । पूर्ण चन्द्रमा शुभग्रहसे दृष्ट युत होकर कर्ममें स्थित हो तो राजाहोवे॥२५॥ गुरुसितयुतचन्द्रे चापगे चन्द्रसूनौ यदि तनुगृहयाते भूमिजे कन्यकायाम् । मृगसुखभवनस्थे भानुपुत्रे नृपः स्यादतिशयबलयुक्तः सर्वभूपालपूज्यः ॥ २६ ॥ गुर्विति । गुरुसिताभ्यां युक्ते चन्द्रे ( बृ. शु. चं. ) चापगे = धनुराशिगे, चन्द्र- सूनौ = बुधे, यदि तनुगृहयाते=लग्नमुपगते, भूमिजे=मङ्गले कन्यकायां=कन्याराशि गते, भानुपुत्रे=शनैश्चरे, मृगसुखभवनस्थे = मृगो मकर एव सुखभवनं चतुर्थो भावस्तस्मिन् स्थिते (मकरगतचतुर्थभावमुपगत इत्यर्थः) ।
राजयोगाध्यायः ॥७॥ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ \ २१५ अत्रेदमुक्तं भवति। चतुर्थो भावो मकरराशिस्तत्र शनिर्भवेत्तदा धनूराशिस्तृतीयो भावस्तत्र गुरुशुक्रचन्द्रा भवेयुः, तदानीं लग्नं तुलाराशिस्तत्र बुधो भवेत्तथा कन्या द्वादशो भावस्तत्र कुज इति। तदानीं जातोऽतिशयबलयुक्तः = महाबलशाली, सर्वभूपालपूज्योऽखिलनृपति- वन्द्यो नृपः = राजाधिराजो भवेदिति ॥ २६ ॥ जिसके जन्मसमयमें गुरु और शुक्रसे युक्त चन्द्रमा धनुमें हो, बुध लग्नमें हो, मंगल कन्यामें हो, मकरका शनि सुख (४) में हो तो वह अत्यन्त बलसे युक्त सब राजाओंका पूज्य राजा होवे ॥ २६ ॥ कन्यावसानयुगचापमृगाननस्थैः सौम्येन्दुभौमगुरुभानुसुतैनृपालः। मीनोदये शशिनि पूर्णतनौ बलाढ्ये स्वोच्चे कुजे रविसुते घटगे नरेशः॥२७॥ कन्येति। कन्यावसानयुगचापमृगाननस्थैः=कन्या-मीन-मिथुन-धनुर्धर-मकरराशि- गतैः, सौम्येन्दुभौमगुरुभानुसुतैः=बुध-चन्द्र-मङ्गल-बृहस्पति-शनैश्चरैः। एतदुक्तं भवति। बुधः कन्यायां, चन्द्रो मीने, मङ्गलो मिथुने, गुरुर्धनुषि, शनिर्मकरे स्थितो भवेत्तदा जातो नृपालो राजा भवति। अत्र केवलं राशिनिर्देश एव कृतो न भावनिर्देशः। किन्तु बृहज्जातके वराहेण तेष्वेव राशिषु तेषामेव ग्रहाणां भावपरत्वेन स्थितिरुक्ता। तथथा— नृगे मन्दे लग्ने सहजरिपुधर्मव्ययगतैः शशाङ्काद्यैः ख्यातः पृथुगुणयशाः पुङ्गलपतिः। इति॥ एवं सारावल्याम्— मृगे मन्दे लग्ने कुमुदवनबन्धुश्च तिमिगः तथा कन्यां त्यक्त्वा बुधभवनसंस्थः क्षितनयः। स्थितो नार्यां सौम्यो धनुषि सुरमन्त्री यदि भवेत् तदा जातो भूपः सुरपतिसमः प्राप्तमहिमा। इति॥ तथात्वे लग्ने मकरगतः शनिः। कन्यागतो नवमे बुधः। मीने तृतीये चन्द्रः। मिथुने षष्ठे भौमः। धनुषि द्वादशे गुरुश्च भवेदिति। मीनोदय इति। पूर्णतनौ = सकलकले, बलाढ्ये = सबले च, शशिनि=चन्द्रे, मीनोदये= मीनराशिगतलग्ने विलसति, कुजे = मङ्गले, स्वोच्चे=मकरराशौ, (लाभगते) रविसुते=शनौ, घटगे = कुम्भराशिगते (व्ययगते) जातो नरेशो भवति। तथा सारावल्याम्— उदयति मीने शशिनि नरेन्द्रः सकलकलाढ्यः, क्षितिसुत उच्चे। मृगेपतिसंस्थे दशशतकररमौ घंटे धरगे स्याद्दिनकरपुत्रे ॥ इति ॥ २७ ॥ जिसके जन्मसमय बुध, चन्द्रमा, मंगल और शनि यदि कन्या, मीन, कर्क, धनु और मकरमें क्रमशः स्थित हों तो वह राजा हो। यदि मीन लग्न हो उसमें पूर्ण बली चन्द्रमा हो मंगल उच्च (मकर) में हों शनि कुम्भमें हो तो राजा होता है ॥ २७ ॥
[चक्र १: नृपयोग:]
- ११ | १० श. | ९ वृ.
- १२ चं. | ८
- १ | नृपयोगः | ७
- २ | ६ बु.
- ३ मं. | ४ | ५
[चक्र २:]
- १ | १२ चं. | ११ श
- २ | १० मं.
- ३ | ९
- ४ | ६ | ८
- ५ गु. | ७
२१४ सटीकजातकपारिजाते- मृगोदयस्थे यदि भूकुमारे कुलीरगे चन्द्रमसि क्षितीशः । धराजपूषामरवन्द्यमाना मृगाजकुम्भोपगता नरेशः॥ २८ ॥ मृगेति । यदि भूकुमारे = मङ्गले, मृगोदयस्थे = मकरराशिलग्ने गतवति, चन्द्रमसि, कुलीरगे=कर्कराशिरगते ( सप्तमभाव इति ) तदा जातः क्षितीशो राजा, भवति । धराजेति । धराजपूषामरवन्द्यमानाः = भौमसूर्य्यगुरवः, मृगाजकुम्भोपगताः = मकरमेषकुम्भगताः अर्थात्त्र तत्र भौमो मकरे, सूर्यो, मेषे, गुरुः कुम्भे स्थितो भवेत्तदा जातो नरेशः = राजा भवति ॥ २८ ॥ जिस मनुष्यके जन्म-कालमें मंगल मकर लग्नमें हो, कर्कका चन्द्रमा हो तो वह राजा होता है। यदि मंगल, सूर्य और वृहस्पति मकर, मेष, कुम्भमें क्रमशः स्थित हों तो राजा होता है ॥ २८ ॥ लग्नाधिपेतरयुते यदि पूर्णचन्द्रे शुक्राज्ञदेवगुरुदृष्टियुते तु राजा । वर्गोत्तमांशसहिता गुरुशुक्रभौमाः पापा न केन्द्रभवनोपगता नरेशः ॥ २६ ॥ लग्नेति । यदि पूर्णचन्द्रे=सकलकलान्विते चन्द्रे, लग्नाधिपेतरयुते=लग्नपतिं विहायान्येन केनचिद् ग्रहेण युते, तथाभूते शुक्राज्ञदेवगुरुदृष्टियुते = शुक्रबुधगुरूणामन्यतमेन सर्वैर्वा निरीक्षिते तु जातो राजा भवति । अथ च गुरुशुक्रभौमाः वर्गोत्तमांशसहिताः = स्वस्ववर्गो- त्तमन्वांशगताः स्युः, पापाः ( सूर्यशनिक्षीणचन्द्राः ) केन्द्रभवनोपगताः ( १।४।७।१० भावगताः ) न भवेयुस्तदा जायमानो नरो नरेशः = राजा भवेदिति ॥ २९ ॥ जिसके जन्मसमय चन्द्रमा लग्नाधिपके अतिरिक्त ग्रहसे युक्त और शुक्र-बुध-बृह- स्पतिसे दृष्ट हो तो वह राजा हो यदि गुरु, शुक्र और मंगल वर्गोत्तमांशमें हों और पापग्रह केन्द्रमें न हों तो राजा होता है ॥ २९ ॥ शीर्षोदयेषु निखिलद्युचरेषु चन्द्रे सौम्यग्रहेक्षणयुते कटके महीपः । लग्नाधिपे नवमगे दशमस्थिते वा लग्ने सुधाकरयुते पृथिवीपतिः स्यात् ॥३०॥ शीर्षेति । निखिलद्युचरेषु = सकलग्रहेषु चन्द्रवर्जितेषु, शीर्षोदयेषु = सिंहकन्यातुला- वृश्चिकमिथुनकुम्भेषु राशिषु गतेषु, चन्द्रे सौम्यग्रहेक्षणयुते=शुभग्रहदृष्टिसहिते, कटके=कर्क- राशिलग्ने विलसति जातो महीपः=राजा भवति । तथा हि सारावल्याम्— शीर्षोदयर्क्षेषु गताः समस्ता नीचारिवर्गे स्वगृहे शशाङ्कः । सौम्येक्षितोऽन्यूनकलो विलग्ने दद्यान्महीं रत्नगजाश्वपूर्णाम् ॥ इति । लग्नाधिप इति । लग्नाधिपे=लग्नेशे, नवमगे वा दशमस्थिते, लग्ने च सुधाकरेण चन्द्रेण युते ( चन्द्रे लग्नगत इत्यर्थः ) जातः पृथिवीपतिः = राजा स्यादिति ॥ ३० ॥ जिसके जन्मसमय शीर्षोदयराशि ( मि० सिं० क० तु० वृ० कु० ) में सभी ग्रह हों और चन्द्रमा शुभ ग्रहसे दृष्ट या युत होकर कर्कमें हो तो वह राजा होता है । लग्नेश नवम वा दशम हो और लग्नमें चन्द्रमा हो तो राजा होता है ॥ ३० ॥ चापाङ्कं गतवान् सहस्रकिरणस्तत्रैव ताराधिपो लग्ने भानुसुतेऽतिवीर्यसहिते स्वोच्चे च भूनन्दनः । यद्येवं भवति क्षितेरधिपतिः सन्त्यज्य शौर्यं भयाद् दूरादेव नमन्ति तस्य रिपवो दग्धाः प्रतापाग्निना ॥ ३१ ॥
राजयोगाध्यायः ॥ ७ ॥ २१५ चापार्द्धमिति । सहस्रकिरणः = सूर्यः, चापा- र्द्धं = धनुषः प्राग्दलं गतवान् भवेत् , तत्रैव = चापार्द्ध एव (रविणा सह) ताराधिपः = चन्द्रो भवेत्, अतिवीर्यसहिते = स्वस्थानं गतवति, भानुसुते = शनौ लग्ने = मकरराशिलग्ने प्राप्ते, भूनन्दनः = मङ्गलः, स्वोच्चे = मकरराशौ (शनि- ना सह लग्नगत इत्यर्थः ) यद्येवं स्यात् तदा जातः क्षितेः = भुवः, अधिपतिः = स्वामी ( राजा ) भवति । तस्य रिपवः = शत्रवः, स्वीयं शौर्यं = बलं, सन्त्यज्य, भयात् = साध्वसात्, दूरादेव नमन्ति = प्रणमन्ति तमिति । यतस्ते रिपवस्तस्योक्तयोगसमुद्भूतस्य प्रतापाग्निना = पराक्रमरूपानलेन दग्धा निस्तेजस्का भव- न्ति । उक्तयोगे जातस्य बलीयांसोऽपि शत्रवो वश्यमेवोपगच्छन्तीति भावः । तथा च माण्डव्यः — आदित्यश्च निशाकरश्च भवतो वागीशराशौ यदा सार्द्धं भास्करिणा स्ववीर्यसहितः प्राप्तो मृगे मङ्गलः । प्राप्नोति प्रभवं तदा स सुकृती क्ष्मापालचूडामणिः त्रस्यन्ति प्रतिपन्थिनो रणमुखे यस्मात् कृतान्तादिव ॥ एवं वराहोऽपि— 'कुजे तुङ्गेऽर्केन्दोधर्नुषि यमलग्ने च कुपतिः' इति ॥ ३१ ॥ धनुराशिके आधे (१५°) पर सूर्य हो, वहां ही चन्द्रमा भी हो और मकर लग्नमें अति बलवान् शनि हो तथा मंगल उच्च ( मकर ) का यदि हो तो उसके प्रतापाग्निके भयसे जलकर शत्रु पराक्रम त्यागकर भयसे दूरसे ही नमस्कार करते हैं। (सु. शा. कार) ॥३१॥ उपचयगृहसंस्थो जन्मपो यस्य चन्द्रात् शुभगृहनवमांशे केन्द्रयाताश्च सौम्याः । सकलबलवियुक्ता ये च पापाभिधानाः स भवति नरनाथः शक्रतुल्यो बलेन ॥ ३२ ॥ उपचयेति । यस्य नरस्य जन्मपः = जन्मलग्नेशः, चन्द्रात्, उपचयगृहसंस्थः = त्रिषडे- कादशदशमानामन्यतमगृहं गतो भवेत्, सौम्याः = शुभग्रहाः ( बुधगुरुशुकशुक्लचन्द्राः ) केन्द्रयाताः = प्रथम-चतुर्थ-सप्तम-दशमभावोपगताः, शुभगृहनवमांशे = शुभग्रहराशिनवांशं चोपगता भवेयुः। ये च पापाभिधानाः = पापग्रहाः ( रविभौमशनिकृष्णचन्द्राः ) ते, सकल- बलवियुक्ताः = सकलैः स्थानादिबलैः वियुक्ताः, ( अतिनिर्बलाः ) भवेयुः स जातो नरः, बलेनात्मपराक्रमेण, शक्रतुल्यः = इन्द्रसमः, नरनाथः = नृपो भवति ॥ ३२ ॥ जिसके जन्मकालमें चन्द्रमासे उपचय ( ३।६।१०।११ ) स्थानमें लग्नेश हो शुभग्रह शुभराशिके नवांशका होकर केन्द्रमें स्थित हों और पापग्रह हर एक प्रकारसे बल रहित हों तो वह मनुष्य बलसे इन्द्रके समान राजा होता है । ( सु. शा. कार ) ॥ ३२ ॥ उच्चाभिलाषी सविता त्रिकोणे स्वर्क्षे शशी जन्मनि यस्य जन्तोः । स शास्ति पृथ्वीं बहुरत्नपूर्णां वृहस्पतिः कर्कटकोपगश्चेत् ॥ ३३ ॥ उच्चाभिलाषीति । यस्य जन्तोः = मनुष्यस्य, जन्मनि = जन्मकाले, उच्चाभिलाषी = स्वकीयोच्चराशिं गन्तुकामः ( मेषं गन्तुमिच्छुः, मीनान्ते विद्यमान इत्यर्थः ) सविता = सूर्यः, त्रिकोणे = लग्नात् पञ्चमे नवमे वा भावे विद्यमानः स्यात् ( कर्के वा वृश्चिके लग्ने
२१६ सटीकजातकपारिजाते- 'उच्चाभिलाषी सविता त्रिकोणे' सम्भाव्यते ) तदानीं शशी=चन्द्रः, स्वक्षे=कर्कै स्थितो भवेत्, चेद्यदि बृहस्पतिः, कर्कटकोपगः=कर्कराशौ ( स्वोच्चे चन्द्रयुक्तश्च ) स्थितो भवे- त्तदा स जातः बहुरत्नपूर्णा=विविधरत्नपूरितां पृथिवीं शास्ति = राजा भवतीत्यर्थः ॥ ३३ ॥ जिस मनुष्यके जन्मसमय उच्चराशि (मेष) में जानेवाला सूर्य त्रिकोणमें हो, चन्द्रमा कर्कका हो और गुरु भी कर्कका हो तो वह बहुत रत्नोंसे परिपूर्ण भूमिका राजा होता है॥३३॥ ┌──────┬───────┬──────┐ ┌──────┬───────┬──────┐ │ \ ५ │ │ ३ / │ │ \ ९ │ │ ७ / │ │ \ │वृ. ४ चं.│ / │ │ \ │ ८ │ / │ │ ६ \│ │/ २│ │ १० \│ │/ ६│ ├──────┼───────┼──────┤ ├──────┼───────┼──────┤ │ ७ │ । │ १ │ │ ११ │ ॥ │ ५ │ ├──────┼───────┼──────┤ ├──────┼───────┼──────┤ │ ८ /│ │\१२र.३०│ │सू.३०°/│ │\४ चं.│ │ / │ १० │ \ │ │१२ / │ २ │ \ बृ.│ │ / ९ │ │ ११ \│ │ / १ │ │ ३ \│ └──────┴───────┴──────┘ └──────┴───────┴──────┘ स्वस्य त्रिकोणे रविरुच्चगोऽपि वा स्वस्वांशकस्था रविशुक्रसोमजाः । तृतीयषष्ठाष्टमगा निशाकरात् कुर्वन्ति गोपालमिव क्षितीश्वरम् ॥ ३४ ॥ स्वस्येति । रविः=सूर्यः, स्वस्य=आत्मनः, त्रिकोणे = मूलत्रिकोणे ( सिंहे ) अपि वा उच्चगः = मेषगतो भवेत् । रविशुक्रसोमजाः=सूर्यशुक्रबुधाः, स्वस्वांशकस्थाः=निजनिज- नवांशगताः, सूर्यः सिंहनवांशे, शुक्क्रो वृषस्य तुलाया वा नवांशे, बुधो मिथुनस्य कन्याया वा नवांशे स्यादिति । तथाभूतास्ते त्रयः, निशाकरात्=चन्द्रात्, तृतीयषष्ठाष्टमगाः, सूर्य- श्चन्द्रात्तृतीये, शुक्रश्चन्द्रात्षष्ठे, बुधश्चन्द्रादष्टमे भवेत्तदा जातं गोपालं ( गोपालकुलोत्पन्नमपि ) क्षितीश्वरमिव = नृपतुल्यं कुर्वन्ति । किम्पुना राजकुलोत्पन्नमिति ॥ ३४ ॥ जिसके जन्मसमय सूर्य अपने मूल-त्रिकोणमें वा उच्च राशिमें हो, रवि शुक्र और बुध अपने २ नवांशका होकर चन्द्रमासे तृतीय षष्ठ और अष्टममें हों तो वे गोपालको भी राजाके समान बनाते हैं ॥ ३४ ॥ रविशशिबुधशुक्रैर्व्योम्नि मित्रांशकस्थैर्न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नीचैः । स भवति नरपुत्रो भूपतिर्यत् प्रयाणे गजमदजलसेकैः सिच्यते यस्य रेणुः ॥३५॥ रविशशीति । रविशशिबुधशुक्रैः=सूर्य-चन्द-बुध-शुक्रैः, व्योम्नि=दशमे भावे, मित्रांशकस्थैः=प्रत्येकं स्वमित्रग्रहनवांशगतैः, न च रिपुभवनस्थैः=ते चत्वारो ग्रहाः शत्रु- ग्रहस्थानगता न भवेयुः । चतुर्णां रिपवः शुक्रशनिचन्द्रसूर्यास्तेषां गृहाणि २,७,१०,११, ४,५ एतेषु ते चत्वारो ग्रहा न भवेयुः । नाप्यदृश्यैः = ते रविशशिबुधशुक्रा अदृश्या अस्त- ङ्गता न भवेयुः । अत्र सूर्येण सह ग्रहा अस्तं यान्ति, परं कालांशाल्पान्तरेणान्तरिताः । अत एव शशिबुधशुक्राणां सूर्येण सह कालांशाधिकं अन्तरं भवेदिति । रविश्च रात्रावस्तं- गच्छतीति दिने जन्म भवेत् । न नीचैः । ते रविशशिबुधशुक्रा नीचं गताः ७,८,१२,६ राशिगता न भवेयुः । अत्रेदंमवधेयम् । दशमे भावे २।४।५।६।७।८।१०।११।१२ राशि- नवके न कश्चिद्राशिर्भवेदुत मेषो मिथुनं धनूराशिर्वा दशमे भवेदिति । तत्र रविशशिबुध- शुक्राः स्वमित्रनवांशगता भवेयुस्तदा स नरपुत्रः = मनुष्यजातः, भूपतिः = राजा भवति । यस्य राज्ञः, प्रयाणे=भ्रमणयात्रायां, गजमदजलसेकैः=गजानां दन्तिनां यानि मदजलानि
राजयोगाध्यायः ॥ ७ ॥ २१७ तेषां सेकैः सीकरैः, रेणुः=पांशुः ( धूलिः ) सिच्यते=आर्द्रत्वं नीयते । अस्मिन्योगे जातो नरः गजाश्वसङ्कुलधलतीति भावः ॥ ३५ ॥ जिसके जन्म-समय रवि, चन्द्र, बुध और शुक्र मित्रांशकमें होकर दशम स्थानमें हों, शत्रु की राशिमें न हों, अस्तङ्गत न हों, न नीच राशिमें हों तो वह मनुष्य राजा होता है, उसकी यात्रामें धूलियोंको मतवाले गजराज अपने मदसे सींचते हैं ॥ ३५ ॥ क्ष्मासुतः स्वोच्चमुपाश्रितो बली रवीन्दुवाचस्पतिभिर्निरीक्षितः । भवेन्नरेन्द्रो यदि कुत्सितस्तदा समस्तपृथ्वीपरिरक्षणक्षमः ॥ ३६ ॥ क्ष्मासुत इति । बली = दिगादिबीर्यसहितः, क्ष्मासुतः = भौमः, स्वोच्चं = मकरराशिं, उपाश्रितः = प्राप्तो भवेत् । तथा भूतः, रवीन्दुवाचस्पतिभिः=सूर्येन्दुगुरुभिः, निरीक्षितः= दृष्टो यदि भवेत्तदा कुत्सितः = नीचकुलजातोऽपि, समस्तपृथ्वीपरिरक्षणक्षमः=निखिलाया भुवः शासने दक्षो नरेन्द्रः = राजा भवेदिति ॥ ३६ ॥ जिस मनुष्यके जन्म-समय मङ्गल उच्च राशिका हो, बली हो, उसको सूर्य, चन्द्र और बृहस्पति देखते हों तो वह यदि कुल-हीन भी हो तो भी समस्त भूमण्डलका पालन करने में समर्थ राजा होवे ॥ ३६ ॥ बुधोदये सप्तमगे बृहस्पतौ चन्द्रे कुलीरे सुखराशिगेऽमले । वियद्गते भार्गवनन्दने ग्रहे प्रशास्ति पृथ्वीमगदो निराकुलः ॥ ३७ ॥ बुधोदय इति । बुधोदये=बुधे उदयो लग्नमिति बुधोदयस्तस्मिन् ( लग्नगते बुध इत्यर्थः ) बृहस्पतौ सप्तमराशिगे = लग्नात्सप्तमे भावे गते, अमले चन्द्रे=शुक्लचन्द्रे, कुलीरे सुखराशिगे = कर्कराशिगतचतुर्थभावगते, भार्गवनन्दने=शुक्रे, वियद्गते=दशमे भावे गत- वति । एतदुक्तं भवति । 'कुलीरे सुखराशिगे' इत्यनेन वाक्येन कर्कराशिश्चतुर्थो भावस्तत्र चन्द्रस्तदा लग्नं मेषराशिस्तत्र बुधः, सप्तमस्तुलाराशिः तत्र गुरुः, दशमो मकरस्तत्र शुक्नो भवेत्तदा जातो नरोऽगदः=रोगरहितः, निराकुलः= सुखेन, पृथ्वीं प्रशास्ति । निरामयो निर्म- यश्च राज्यं करोतीति भावः ॥ ३७ ॥ बुध लग्नमें, गुरु सप्तममें, पूर्ण चन्द्रमा कर्क और सुखमें, शुक्र दशम गृहमें हों तो वह मनुष्य निराकुल पृथिवीका राज्य करता है ॥ ३७ ॥ प्रधानबलसंयुक्तः सम्पूर्णः शशलाञ्छनः । एकोऽपि कुरुते जातं नराधिपमरिन्दमम् ॥ ३८ ॥ प्रधानेति । सम्पूर्णः=सकलकलान्वितः, शशलाञ्छनः=चन्द्रः, प्रधानबलेन=उच्चबलेन स्थानबलेन वा संयुक्तः एकोऽपि तथाभूतश्चन्द्रो जातं नरम्, अरिन्दमं=विद्विषोन्मूलकं, नरा- धिपं=नृपालं कुरुते। अत्रेदमवधेयम् । एकाकी अपि चन्द्रः शुभभावस्थ उच्चे स्वभे वा विद्यमानो राज्यं ददातीति ॥३८॥ जिसके जन्म-समय एकभी पूर्ण चन्द्रमा [कुण्डली: २ भावे 'बृ. शु.', १ भावे 'ल.'] प्रधान बलसे युक्त हो तो बालकको शत्रुओंका दमन करनेवाला राजा बनाता है ॥ ३८ ॥ देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः । करोति वसुधानाथं निर्जितारातिमण्डलम् ॥ ३६ ॥ देवमन्त्रीति । स्पष्टार्थः ॥ ३९ ॥ जिस मनुष्यके जन्म-समय बृहस्पति शुक्रसे युक्त होकर दूसरे स्थानमें स्थित हो, १६ जा०
२९८ सटीकजातकपारिजाते- वह उस बालकको शत्रु-मण्डलको जीतनेवाला भूपति बनाता है ॥ ३९ ॥ लग्नेशे केन्द्रराशिस्थे कर्मेशे वृद्धिराशिगे । भाग्येशे लाभगे जात- श्चिरञ्जीवी महीपतिः ॥ ४० ॥ लग्नेशे इति । सरलार्थः ॥ ४० ॥ जिस मनुष्यके जन्म-समय लग्नेश केन्द्र- में हो, कर्मेश ४ थे में हो, भाग्येश लाभमें हो वह दीर्घजीवी राजा होवे ॥ ४० ॥ रविलुप्तकरः सौम्यः स्वस्थो मूलत्रिकोणगः । सर्वविद्याधिको राजा नेतरेषां खचारिणाम् ॥ ४१ ॥ रविलुप्तकर इति । सरलार्थः ॥ ४१ ॥ जिसके जन्मकालमें बुध सूर्यके साथ अस्त होकर भी यदि स्वस्थ (अपनेगृह ३ का) हो वा अपने मूलत्रिकोण (६) में हो तो वह जातक हर एक विद्याको जाननेवाला राजा होवे। यहां दूसरे ग्रहोंकी आवश्यकता नहीं है ॥४१॥ अर्कज्ञौ सुखराशिस्थौ मन्देन्दू दशमस्थितौ । कुजोदये च सञ्जातो यदि राजा न संशयः ॥ ४२ ॥ अर्कज्ञाविति । स्पष्टार्थः ॥ ४२ ॥ जिसके जन्म-समय सूर्य और बुध सुखमें हों, शनि और चन्द्रमा दशवेंमें स्थित हों और यदि मङ्गल लग्नमें हो वह राजा हो इसमें सन्देह नहीं है ॥ ४२ ॥ दिवाकरोदये सिंहे शुक्रांशकविवर्जिते । कन्यागते बुधे जातो नीचोऽपि पृथिवीपतिः ॥ ४३ ॥ दिवाकरोदये इति । सिंहे = सिंहराशौ, दिवाकरोदये = सूर्यगतलग्ने, अर्थात् सिंहरा- शिगते जन्मलग्ने सूर्यो भवेत्। तस्मिन् शुक्रां- शकविवर्जिते, सिंहराशौ द्वितीयसप्तमौ (वृषतु- लयोः) शुक्रस्य नवांशौ, ताभ्यां रहिते सिंह- लग्न इत्यर्थः । बुधे, कन्यागते = कन्याराशौ (द्वितीयभाव इत्यर्थः) गतवति, जातः नीचोऽपि = नीचकुले समुद्भूतोऽपि, पृथिवीपतिः = राजा भवति । किम्पुनः उच्चकुले जात इति ॥ ४३ ॥ Notes—सूर्यः सिंहोदये भाद्रमास एव भवितुमर्हतीति ज्ञेयम् ।
राजयोगाध्यायः ॥ ७ ॥ २१५ जिसके जन्म-समय शुक्रके नवांशसे रहित सिंहका सूर्य लग्नमें हो, कन्यामें बुध हो तो वह नीच कुलमें उत्पन्न हो तो भी राजा होता है। भाद्रमासमें इसकी सम्भावना है। (सु. शा. कार ) ॥ ४३ ॥ मानपुत्रोदयस्थौ वा मन्दावनिसुतौ यदि । पूर्णेन्दौ गुरुराशिस्थे जातो राजा भविष्यति ॥ ४४ ॥ मानेति । यदि, मन्दावनिसुतौ = शनिमङ्गलौ, मानपुत्रोदयस्थौ = माने ( दशमे ) पुत्रे ( पञ्चमे ) उदये ( लग्ने ) वा गतौ भवेताम् । पूर्णेन्दौ = पूर्णकलान्विते चन्द्रे, गुरुराशिस्थे = धनुषि मीने वा विलसति जातो नरो राजा भविष्यति ॥ ४४ ॥ यदि शनि और मङ्गल १० वें, ५ वें, या लग्नमें हों और पूर्ण चन्द्रमा गुरुके ( ९।१२ ) राशिमें हो ऐसे समयमें जो बालक उत्पन्न हो वह राजा हो । (सु. शा. कार ) ॥ ४४ ॥ बली विलग्नाधिपतिश्च केन्द्रे भूपालयोगं कुरुते नराणाम् । तन्मित्रदृष्टे यदि नीचवंशे जातोऽपि राजा नृपवन्दितो वा ॥ बलीति । सरलार्थः ॥ ४५ ॥ लग्नेश बली होकर केन्द्रमें हो तो मनु- ष्योंका राजयोग करता है। वह मित्रसे दृष्ट हो तो नीच वंशमें जन्म हो तो भी राजा हो, वा राजासे पूजानेवाला हो ॥ ४५ ॥ [कुण्डली/चक्र:] । २ । १ । १२ । । ३ । । ११ । । ४ चं. बृ. । । १० मं. । । ५ । । ९ । । ६ । ७ । ८ । जन्माधिपः स्वोच्चगृहे मृगाङ्कं पश्यत्यवश्यं यदि भूमिपालः । गजादिसेना तुरगादिसङ्घैर्जितारिकोटिर्जगति प्रजातः ॥ ४६ ॥ जन्माधिप इति । जन्माधिपः = लग्नेशः, स्वोच्चगृहे विद्यमानः, मृगाङ्कं = चन्द्रं पश्यति, ( यत्र तत्रस्थमिति ) अन्यत्स्पष्टमेवेत्यलम् । उदाहरणं ४५ श्लोके चक्रं विलोक्यम् ॥ ४६ ॥ यदि उच्चगत लग्नेश चन्द्रमाको देखता हो तो अवश्य ही वह जातक हाथी, घोड़े, सेनाओंसे परिपूर्ण होकर करोड़ों शत्रुओंको जीतनेवाला प्रसिद्ध राजा होवे ॥ ४६ ॥ लग्नं विहाय केन्द्रस्थे चन्द्रे पूर्णकलान्विते । गुरुभार्गवसन्दृष्टे जातो राजा भवेन्नरः ॥ ४७ ॥ लग्नमिति । स्पष्टमेव ॥ ४७ ॥ लग्नके अतिरिक्त केन्द्र ( ४।७।१० ) में चन्द्रमा पूर्ण बली हो उसको बृहस्पति और शुक्र देखते हों ऐसे समयमें जायमान बालक राजा हो ॥ ४७ ॥ लग्नेशे केन्द्रभावस्थे नीचमूढारिभं विना । नान्यग्रहयुते राजा सार्वभौमो भविष्यति ॥ ४८ ॥ लग्नेश इति । लग्नेशे = जन्मलग्नपतौ, नीचमूढारिभं विना = स्वनीचराशिं, सूर्येण संयोगं, शत्रुराशिं च त्यक्त्वा केन्द्रभावस्थे अर्थात् केन्द्रराशिः लग्नेशस्य नीचं, सूर्यसहितः, लग्नेशस्य शत्रुगृहं च न भवेदिति । तथा नान्यग्रहयुते = केनाप्यन्येन ग्रहेण न युक्ते, जातो सार्वभौमः = चक्रवर्ती राजा Emperor, भविष्यति ॥ ४८ ॥ जिस मनुष्य के जन्म समयमें लग्नेश नीच, अस्त, और शत्रु राशिके अतिरिक्त केन्द्रमें हो अन्यग्रहसे युत न हो तो वह सार्वभौम राजा होता है ॥ ४८ ॥
६२० सटीकजातकपारिजाते- गुरुचन्द्रदिवानाथाः सुत⁵विक्रम³धर्म⁹गाः । जातो यदि महीपालः कुबेरसमवित्तवान् ॥ ४६ ॥ गुर्विति । सरलार्थः ॥ ४९ ॥ जिस मनुष्यके जन्म-समयमें गुरु, चन्द्र और सूर्य पञ्चम, तृतीय और धर्म भावमें स्थित हों तो वह बालक कुबेरके सदृश धनवाला राजा हो ॥ ४९ ॥ [कुण्डली १: लग्न: ल. | ३: चं. | ५: बृ. | ९: सू. | केन्द्र: कुबेरसमः] चापोदयस्थे बलिनि प्रभाकरे महीसुते कर्म¹⁰गते सशीतगौ । उपान्त्य¹¹गे वा भृगुजे व्य¹²यस्थिते सुरेन्द्रतुल्यो नृपतिः प्रजायते ॥५०॥ चापेति । सरलार्थः ॥ ५० ॥ धनु लग्नमें बलवान् सूर्य हो, चन्द्रमाके साथ मङ्गल दशवें हो, ग्यारहवें वा बारहवें शुक्र हो ऐसे योगमें जायमान बालक इन्द्रके समान राजा होता है। पूस महीनेमें इस योगकी सम्भावना है। (सु. शा. कारः) ॥ ५० ॥ [कुण्डली २: ९ (धनु लग्न): सू. | १०: रिक्त | ११: रिक्त | १२: रिक्त | १: रिक्त | २: रिक्त | ३: रिक्त | ४: रिक्त | ५: रिक्त | ६: मं. चं. | ७: शु. | ८: शुं. | केन्द्र: इन्द्रतुल्यः] विक्र³मार्य¹¹रि⁶गाः पापा जन्मपः शुभवीक्षितः । राजा भवति तेजस्वी समस्तजनवन्दितः ॥ ५१ ॥ विक्रमेति । सरलार्थः । जन्मपः= लग्नेश इति ॥ ५१ ॥ जिस मनुष्यके जन्मके समय पापग्रह तृतीय, एकादश और षष्ठस्थ हों, लग्नेश शुभ ग्रहसे दृष्ट हो तो वह सब जनोंसे पूजनीय तेजस्वी राजा हो ॥ ५१ ॥ [कुण्डली ३: लग्न १: रिक्त | २: रिक्त | ३: मं. | ४: रिक्त | ५: रिक्त | ६: र. | ७: शु. बु. | ८: रिक्त | ९: वृ. | १०: रिक्त | ११: रिक्त | १२: रिक्त | केन्द्र: तेजस्वी राजा] मृगोदयस्थे बलिनि क्ष्मासुते शनौ तपः⁹स्थानगतेऽथवाऽन्त्य¹²गे । दिवाकरे सप्तमगे सशीतगौ महीपतिश्चञ्चलमानसो भवेत् ॥५२॥ मृगोदयस्थ इति । स्पष्टार्थः ॥५२॥ जिस मनुष्यके जन्म-समय बलवान् मङ्गल मकर राशिमें हो, शनि नववें वा १२ वें हो, सूर्य चन्द्रमाके साथ ७ वें हो तो वह चञ्चल चित्तवाला राजा होता है ॥ ५२ ॥ [कुण्डली ४: लग्न १०: मं. | ११: रिक्त | १२: रिक्त | १: रिक्त | २: रिक्त | ३: रिक्त | ४: र. चं. | ५: रिक्त | ६: श. | ७: रिक्त | ८: रिक्त | ९: श. | केन्द्र: चञ्चलो राजा]
राजयोगाध्यायः ॥ ७ ॥ २२१ लाभे सुखे वा दशमे समन्दश्चन्द्रमा यदि । जातो नृपकुले राजा तत्समो वा धनी भवेत् ॥ ५३॥ लाभ इति । स्पष्टम् ॥ ५३ ॥ यदि शनिके सहित चन्द्रमा लाभमें, वा सुखमें, अथवा दशवेंमें हो तो राज- कुलमें उत्पन्न होने वाला राजा हो, अन्य राजाके सदृश धनी हो ॥ ५३ ॥ [प्रथम चक्र: लग्न: ल. | चतुर्थ भाव: I. चं. श. | दशम भाव: राजा वा धनी, चं. श. II. | एकादश भाव: III. चं. श.] जातश्चोपचयस्थिते तनुपतौ चन्द्रे तपःस्थानगे केन्द्रस्थाः शुभवर्गा यदि शुभा वीर्यान्विता भूपतिः । जीवेन्दू वृषभस्थितौ बलयुतः कोणस्थितो लग्नपः शन्यारेक्षणवर्जितो यदि तदा जातोऽवनीशो भवेत् ॥ ५४ ॥ जातश्चेति । तनुपतौ=जन्मलग्नेशे,
२२२ सटीकजातपारिजाते- सूर्य मीन राशिका हो, कर्क लग्नमें चन्द्रमा हो ऐसे योगमें जायमान नर राजा होता है। उपर्युक्त जितने राजयोग कारक ग्रह हैं वे अपने शत्रु और नीचगत ग्रहसे देखे जावें तो राजयोग नहीं करते। (सु० शा० कार) ॥ ५५ ॥ जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः प्रचुरगुणसमेतं मित्रयोगाच्च सिद्धम् । विवसुविसुखमूढंव्याधितो बन्धुतप्तो वधदुरितसमेतः शत्रुनिम्नर्क्षगेषु ॥ ५६॥ जनयतीति । एकः अपि उच्चगः = स्वकीयोच्चराशिस्थो ग्रहो मित्रदृष्टः = मित्रग्रहेणा- वलोकितश्च यदि भवेत्तदा एकोऽप्यसौ ग्रहो जातं प्रचुरगुणसमेतं नृपं = भूपतिं जनयति करोति । मित्रयोगाच्च = उच्चस्थ एकोऽपि ग्रहो मित्रग्रहेण युक्तो भवेत्तदा सिद्धं = सिद्धियुक्तं नृपं जनयति । विवसु-इति । उक्तयोगकारकेषु ग्रहेषु, शत्रुनिम्नर्क्षगेषु = शत्रुराशिगतेषु, [L
राजयोगाध्यायः ॥७॥ २२३ मालव्य-चारुशशेति योगकरा भवन्ति । अर्थात् बलवान् भौमो मूलत्रिकोणोच्चगृहं गतः केन्द्रवर्ती स्यात्तदा रुचको योगः स्यात् । तथाभूतेन बुधेन भद्रयोगः । एवं गुरुणा हंस- योगः । शुक्रेण मालव्ययोगः । शनिना चारुशशयोगो वाच्य इति । तथा च जातकाभरणे— “स्वगेहतुङ्गाश्रयकेन्द्रसंस्थैरुच्चोपगैर्वावनिसूनुमुख्यैः । क्रमेण योगा रुचकाख्य-भद्र-हंसाख्य-मालव्य-शशाभिधानाः ॥ इति ॥५६॥ यदि बलवान् मंगल मूलत्रिकोण, स्वगृह, उच्चगृहमें प्राप्त होकर केन्द्रमें स्थित हो तो “रुचक” योग होता है । बुध हो तो “भद्र” योग होता है । बृहस्पति हो तो “हंस” योग होता है । शुक्र हो तो “मालव्य” योग होता है और शनि हो तो “शश” योग होता है ॥५९॥ अथ रुचक-योगफलम् । जातः श्रीरुचके बलान्वितवपुः श्रीकीर्तिशैलान्वितः शास्त्री मन्त्रजपाभिचारकुशलो राजाऽथवा तत्समः । लावण्यारुणकान्तिकामलतनुस्त्यागी जितारिर्धनी सप्तत्यैब्दमितायुषा सह सुखी सेनातुरङ्गाधिपः ॥ ६० ॥ श्लोकेनानेन रुचकयोगे जातानां फल- मुच्यते—जात इति । सरलार्थः ॥ ६० ॥ रुचक योगमें उत्पन्न होने वाला मनुष्य बलयुक्त शरीरवाला, कीर्ति और शीलसे युक्त, शास्त्री, मंत्रके जप और अभिचारमें कुशल, राजा, वा उसके सदृश धनी, सौन्दर्ययुक्त लाल कान्ति, कोमल शरीर, त्यागी, शत्रु- जित् , धनी और ७० वर्षकी आयु तक सुखी, सेना और घोड़ोंसे युक्त होता है ॥ ६० ॥
+-----------------------------+
| \ १० / |
| \ मं. ल. / |
| \ / |
| १२ > ।. < ८ |
| / रुचकयोगः \ |
| / \ |
| / \ |
|-----+ +-----|
| | | |
| १ | | ७ |
| | | |
|-----+ +-----|
| \ / |
| \ / |
| \ / |
| २ > ४ < ६ |
| / \ |
| / \ |
| / ३ \ |
+-----------------------------+
धर्मेशालाभेशधनेश्वराणामेकोऽपि शीतद्युतिकेन्द्रवर्ती । स्वयं च लाभाधिपतिर्गुरुश्चेदखण्डसाम्राज्यपतित्वमेति ॥ ६१ ॥ धर्मेशेति । धर्मेश-लाभेश-धनेश्वराणां= नवमेशैकादशेशद्वितीयेशप्रहाणां मध्ये एकः अपि कश्चित्, शीतद्युतेश्चन्द्रात् केन्द्रवर्ती (चन्द्रतः १।४।७।१० भवने) भवेत् , गुरुः= बृहस्पतिश्चेद्यदि लाभाधिपतिः=एकादशभावे- शो भवेत्तदा जातः स्वयं स्वपराक्रमेणाख- ण्डसाम्राज्यपतित्वमेति=चक्रवर्तित्वं प्राप्नोति ॥
+-----------------------------+
| \ ११ / |
| १२ \ ल. चं. / १० |
| \ / |
|---------+---------+---------|
| १ | | ९ |
| | अखण्ड- | |
|---------| साम्राज्य |---------|
| २ बृ. | पतिः | ८ |
| | | |
|---------+---------+---------|
| / ५ \ |
| ३ / \ ७ |
| / ४ \ |
| / \ ६ |
+-----------------------------+
नवमेश, लाभेश, धनेश, उनमें एक भी चन्द्रमासे केन्द्रमें हो और लाभाधिपति खास बृहस्पति हो तो जातकको अखंड राज्यका पति बनावे ॥ ६१ ॥ अथ भद्रयोगफलम् । शार्दूलप्रतिमाननो गजगतिः पीनोरुवक्षःस्थलो लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्च्छ्रयः । मानी बन्धुजनोपकारनिपुणः श्रीभद्रयोगोद्भवो राजाऽशीतिमितायुरेति विपुलप्रज्ञायशोवित्तवान् ॥ ६२ ॥ 16
२२४ सटीकजातकपारिजाते- इदानीं भद्रयोगे जातस्य फलमाह— शार्दूलेति । स्पष्टम् ॥ ६२ ॥ भद्र योगमें जायमान मनुष्य शेरके समान मुख, मत्तवाले हाथीके सदृश गति, मोटे जंघा, छाती, लम्बा-मोटा और गोला दोनों बाहु उसीके समान ऊंचा, मानी, बन्धु- जनोंके उपकारमें निपुण, विशेष बुद्धिवाला, तथा यश-धन-वाला और ८० वर्षकी आयु प्राप्त करनेवाला राजा होता है ॥ ६२ ॥
[कुण्डली - II. भद्रयोगः]
- लग्न (प्रथम भाव): ३ ल.
- द्वादश भाव: ४
- एकादश भाव: ५
- दशम भाव: ६ बु.
अथ हंसयोगफलम् । रक्तास्योन्नतनासिकः सुचरणो हंसस्वरः श्लेष्मको गौराङ्गः सुकुमारदारसहितः कन्दर्पतुल्यः सुखी । शास्त्रज्ञानपरायणोऽतिनिपुणः श्रीहंसयोगे गुणी जातोऽशीतिकमायुरेति सयुगं ८४ साधुक्रियाचारवान् ॥ ६३ ॥ इदानीं हंसयोगफलमाह-रक्तास्येति सरलार्थः ॥ ६३ ॥ हंस योगमें उत्पन्न होनेवाला मनुष्य लाल मुख, ऊंची नासिका, सुन्दर चरण, हंस स्वर, कफ प्रकृति, गौरांग, सुकुमार स्त्रीयुत, कामदेवके तुल्य सुन्दर, सुखी, शास्त्रज्ञानमें परायण, अत्यन्त निपुण, गुणी, अच्छी क्रियाका आचारवाला और ८४ वर्षकी आयुवाला होता है ॥ ६३ ॥
[कुण्डली - III. हंसयोगः]
- लग्न (प्रथम भाव): १ ल.
- द्वादश भाव: २
- एकादश भाव: ३
- चतुर्थ भाव: ४ वृ.
अथ मालव्ययोगफलम् । स्त्रीचेष्टो ललिताङ्गसन्धिनयनः सौन्दर्यशाली गुणी तेजस्वी सुतदारवाहनधनी शास्त्रार्थवित्पण्डितः । उत्साहप्रभुशक्तिमन्त्रचतुरस्त्यागी परस्त्रीरतः सप्तत्यब्दमुपैति सप्तसहितं (७७) मालव्ययोगोद्भवः ॥ ६४ ॥ इदानीं मालव्ययोगफलमाह-स्त्रीति । स्पष्टम् ॥ ६४ ॥ मालव्य योगमें जायमान प्राणी स्त्री- की तरह स्वभाववाला, सुन्दर शरीरकी सन्धि और नेत्रवाला, सुन्दर, गुणी, तेजस्वी, पुत्र-स्त्री-वाहन-वाला, धनी, शास्त्रार्थज्ञ पंडित, उत्साही, प्रभुशक्ति- वान् , मन्त्रज्ञ, चतुर, त्यागी, परस्त्रीरत और ७७ वर्षकी आयुवाला होता है ॥६४॥
[कुण्डली - IV. मालव्ययोगः]
- लग्न (प्रथम भाव): ल. १
- सप्तम भाव: शु. ७
अथ शशयोगफलम् । भूपो वा सचिवो वनाचलरतः सेनापतिः क्रूरधी- र्धातोर्वादविनोदवञ्चनपरो दाता सरोपेक्षणः ॥
राजयोगाध्यायः ॥ ७ ॥ २२५ तेजस्वी निजमातृभक्तिनिरतः शूरोऽसिताङ्गः सुखी जातः सप्ततिरायुुरेति शशके जारक्रियाशीलवान् ॥ ६५ ॥ इदानीं शशयोगफलमाह-भूपो वेति । स्पष्टार्थकम् ॥ ६५ ॥ शशक योगमें उत्पन्न होनेवाला पुरुष राजा वा राजमंत्री हो, वन और पर्वत में रत, सेनानायक, क्रूरबुद्धि, धातुके वादमें विनोदी, ठगहारीमें निरत, दानी, रोषा- न्वित दृष्टि-वाला, तेजस्वी, अपनी मातृ- भक्तिमें निरत, पराक्रमी, श्यामाङ्ग, सुखी, जारक्रिया (छिनारी) में तत्पर होता है और ७० वर्ष आयु पाता है ॥ ६५ ॥
[चक्र १: शशकयोगः]
- लग्न (१): ८ ल.
- द्वितीय (२): ९
- तृतीय (३): १०
- चतुर्थ (४): ११ श.
- केन्द्र: ४. शशकयोगः
गर्गहोरायाम् । श्लोकेनानेनोक्तानां वक्ष्यमाणानाञ्च योगानां फलप्राप्तिकालमाह— यस्य योगस्य यः कर्ता बलवान् जितदृग्युतः । अधियोगादियोगेषु स्वदशायां फलप्रदः ॥ ६६ ॥ यस्येति । बलवान् = स्वस्थानादिबलयुक्तो, वा जितदृग्युतः = जितेन ग्रहेण दृष्टो युतश्चा- र्थात् क्षीणबलो भवेत् । अत्र जितलक्षणम्— “दक्षिणदिक्स्यः पुरुषो वेपथुरप्राप्य सञ्चिवृत्तोऽणुः । अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः” इति ॥ एतादृशो यो ग्रहो यस्य योगस्य कर्त्ता = कारको भवति, तथा चाधियोगादियोगेषु वक्ष्यमाणचन्द्रलग्नाधियोगेषु (अस्यैवाध्यायस्य ११३-११५ श्लोका द्रष्टव्याः ) यो ग्रहः कर्त्ता भवति स स्वदशायां फलप्रदो भवति । बलवतो ग्रहस्य दशायां तदधिष्ठितयोगस्य । प्रातिरेवं जितदृग्युतस्य नीचारिगृहगतस्य न दशायां तदधिष्ठितभावस्य (यद्भावस्यासौ कार- कस्तस्येति) हानिश्च भवतीति वाच्यम् ॥ ६६ ॥ किसी भी योगका जो ग्रह कारक होवे वह यदि बली और बली ग्रहसे दृष्ट या युत हो तो वह ग्रह अपनी दशामें उस उस विशिष्ट योगका फल देता है । एवं वह कारक ग्रह यदि निर्बल हो, नीचमें या शत्रुगृहमें प्राप्त और निर्बल ग्रहसे दृष्ट हो तो वह अपनी दशामें अपने भाव और योगको नष्ट करता है। (सु० ज्ञा० कार) ॥ ६६ ॥ अथ भास्करादियोगाः । भानोर्र्थेऽनंगते बुधे शशिसुताल्लग्नेऽभिस्थितश्चन्द्रमा- श्चन्द्रात्कोणगतैः पुरन्दरगुरुर्योगस्तदा भास्करः ॥ शूरो भास्करयोगजः प्रभुसमः शास्त्रार्थविद्रूपवान् गान्धर्वश्रुतिवित्तवान् गणितविद्धीरः समर्थो भवेत् ॥ ६७ ॥ इदानीं भास्करादीन कांस्र्चिद्योगान् विव- क्षुरादौ सफलं भास्करयोगमाह—भानोरिति । श्लोकः सरलार्थ एवेति । स्पष्टार्थं चक्रं द्रष्टव्यम् ॥ ६७ ॥ Notes-अत्रेदं फलितं-सूर्याद् द्वितीये बुधो द्वादशे चन्द्रश्चतुर्थेऽष्टमे वा गुरुर्भवेत्तदा भास्करयोगः स्यादिति । यदि सूर्यसे दूसरेमें बुध हो, बुधसे ग्यार-
[चक्र २: भास्करयोगः]
- द्वितीय: चं.
- चतुर्थ: सू.
- पञ्चम: बु.
- सप्तम: बृ.
- नवम: बृ.
- केन्द्र: भास्करयोगः
२२६ सटीकजातकपारिजाते- हवेंमें चन्द्रमा हो, चन्द्रमासे कोणमें वृहस्पति हो तो भास्कर योग होता है। भास्कर योग में उत्पन्न होनेवाला मनुष्य पराक्रमी, प्रभुके सदृश, शास्त्रार्थवित्, रूप- वान्, गान्धर्व विद्याका ज्ञाता, धनी, गणितज्ञ, धीर और समर्थ होता है॥ ६७ ॥ अथ इन्द्रयोगः । चन्द्राद्विक्रै³मगः कुजोऽवनिसुताद्दंस्ते शनिः सूर्यजा- दँस्ते दैत्यगुरुः सितान्मदनँगो जीवो यदीन्द्राह्वयः । ख्यातस्तत्रभवः सुशीलगुणवान् भूपोऽथवा तत्समो वाग्मी वित्तविचित्रभूषणयशोरूपप्रतापान्वितः ॥ ६८ ॥ इदानीं सफलमिन्द्रयोगमाह—चन्द्रादिति । स्पष्टार्थः श्लोकः ॥ ६८ ॥ Notes—अत्रेदं फलितम्—चन्द्रात् तृतीये मङ्गलशुक्रौ, नवमे शनिगुरू च भवेतां तदा इन्द्रयोगो भवतीति । यदि चन्द्रमासे तीसरेमें मंगल हो, और मंगलसे सातवेंमें शनि हो, शनिसे सातवें शुक्र हो और शुक्रसे सातवें गुरु हो तो "इन्द्र" संज्ञक योग होता है। इन्द्र योगमें उत्पन्न होनेवाला मनुष्य विख्यात, शीलवान्, गुणवान्, राजा वा राजा के तुल्य धनी, वाचाल, अनेक प्रकारके धन-भूषण-यश-रूप-प्रतापसे युत होता है ॥ ६८ ॥ [कुण्डली १ (इन्द्रयोगः): लग्न: चं. | तृतीय: मं. शु. | नवम: बृ. श. | केन्द्र: इन्द्रयोगः] अथ मरुद्योगः । शुक्रात् कोर्णगै¹तो गुरुः सुरगुरोः पु²त्रे शशी शीतगोः केन्द्रस्थानसमाश्रितो दिनकरो योगो मरुत्संज्ञकः । वाग्मी वायुभवो विशालहृदयः स्थूलोदरः शास्त्रवित् सम्पन्नः क्रयविक्रयेषु कुशलो राजाऽथवा तत्समः ॥ ६६ ॥ इदानीं सफलं मरुत्-योगमाह-शुक्रादिति । स्पष्टार्थ एव ॥ ६६ ॥ Notes—अत्रेदं फलितम्-शुक्रात्- नवमे वा प्रथमे चन्द्रः, १।३।४।६।७।९।१०। १२ भावान्यतमे सूर्यः, पञ्चमे वा नवमे गुरु- र्भवेत्तदा मरुन्नामको योगो भवतीति । यदि शुक्रसे कोणमें गुरु हो, गुरुसे पांचवें चन्द्रमा हो, चन्द्रमासे केन्द्रमें सूर्य हो तो “मरुत” योग होता है । इस मरुत् ( वायु ) योगमें उत्पन्न होने बाला मनुष्य वाचाल, विशाल हृदयवाला, स्थूल उदरवाला, शास्त्रका ज्ञाता, धन सम्पन्न, क्रय-विक्रयमें निपुण, राजा वा राजाके सदृश धनी होता है ॥ ६९ ॥ [कुण्डली २ (मरुद्योगः): लग्न: शु. चं. | तृतीय: १० बु. | पञ्चम: चं. बृ. | नवम: बृ. | एकादश: सू. | द्वादश: सू. | केन्द्र: मरुद्योगः] अथ बुधयोगः । लग्नेऽथ्यो गुरुक्रेन्द्रगो हिमकरश्चन्द्राद्विहिंर्वित्तगः सौर्यस्थानगतौ च भानुरुधिरौ योगो बुधः कीर्तितः ।
राजयोगाध्यायः ॥ ७ ॥ २२७ राजश्रीबुधयोगजोऽतुलबलप्रख्यातनामा विदुः शास्त्रज्ञानकरक्रियासु चतुरो धीमानशत्रुर्लवेत् ॥ ७० ॥ इदानीं सफलं बुधयोगमाह-लग्नेष्विति । स्पष्टम् ॥ ७० ॥ Notes-गुरुर्लग्ने, चन्द्रः लग्नात् १। ४।७।१० एतदन्यतमे, राहुः लग्नात् २।५। ८।११ एतदन्यतमे, सूर्य्यभौमौ लग्नात् ३।६। ९।१२ एतदन्यतमे भावे सति बुधनामको योगो भवतीति । यदि लग्नमें गुरु, गुरुसे केन्द्रमें चन्द्रमा हो, चन्द्रमासे दूसरे राहु हो, पराक्रमके ३ रे स्थानमें सूर्य और मंगल हों तो बुधयोग होता है । [कुण्डली चक्र: लग्न (१)-बृ. ल.; २-१; ३-१२; ११-११; १०-मं. सू.; ९-रा.; ७-चं.; केन्द्र-बुधयोगः] इस बुध योगमें उत्पन्न होनेवाला मनुष्य राजश्रीसे युक्त, विशेष बली, बड़ा नामी, शास्त्र- ज्ञाता, व्यापारमें चतुर, बुद्धिमान् और शत्रुरहित होता है ॥ ७० ॥ अथ सुनफा-अनफा-धुरन्धुरा-केमद्रुमयोगाः । लग्नस्थिते हिमकरे यदि वा मदस्थे केमद्रुमो भवति जीवदृशा विहीने । अत्यल्पबिन्दुसहिता यदि खेचरेन्द्राः केमद्रुयोगफलदा विबलाश्च सर्वे ॥ ७१ ॥ द्वितीये द्वादशे पार्श्वे द्वये खेचरसंयुते । शीतांशोः सुनफायोगस्त्वनफानाम कीर्तितः ॥ ७२ ॥ योगो धुरन्धुराख्यः स्याद्विना सर्वत्र भास्करम् । एतद्योगत्रयाभावे केमद्रुमफलं वदेत् ॥ ७३ ॥ इदानीं केमद्रुमयोगमाह-लग्नस्थित इति । लग्नस्थिते, यदि वा मदस्थे = सप्तमस्थे हिमकरे = चन्द्रे, जीवदृशा = गुरुदृष्ट्या विहीने सति केमद्रुमो योगो भवति । अथ च यदि सर्वे ग्रहाः, अत्यल्पबिन्दुसहिताः = अष्टकवर्गेऽल्पशुभचिह्नकास्तथा विबलाः = बलहीनाश्च भवेयुस्तेऽपि केमद्रुमयोगफलदा भवन्ति । केमद्रुमयोगफलं वक्ष्यते ८२ तमे श्लोके ॥७१॥ अथ सुनफाऽनफाधुरन्धुराकेमद्रुमयोगानाह-द्वितीयेतिश्लोकयुग्मेन । शीतांशोः = चन्द्रात्, द्वितीये स्थाने, खेचरसंयुते = सूर्येतरग्रहयुक्ते ( विना सर्वत्र भास्करमित्युक्तेः ) सुनफा नाम योगो भवति । चन्द्राद् द्वादशे स्थाने सूर्येतरग्रहयुते अनफा नाम योगः सुधी- भिः कीर्तितः । चन्द्राद् द्वये पार्श्वे = द्वितीये द्वादशे च भावे सूर्येतरखेचरसंयुते धुरन्धुराख्यः ( दुरुधुरेति ग्रन्थान्तरे ) योगो भवति । एतत्पूर्वोक्तयोगत्रयाभावे = चन्द्राद् द्वितीये द्वादशे च स्थाने शून्ये सति केमद्रुमयोगस्य फलं वदेदर्थात्तदानीं केमद्रुमो योगो भवति । तथा च लघुजातके वराहः— रविवर्ज्यं द्वादशगैरनफा चन्द्राद् द्वितीयगैः सुनफा । उभयस्थितैर्दुरुधुरा केमद्रुमसञ्ज्ञकोऽतोऽन्यः । इति ॥ इदमप्यवधेयम् । चन्द्राद् द्वितीये वा द्वादशे सूर्यो भवतु न वा भवतु किन्तु न स योगकारको भवति । भौमादयः पञ्च ( मं. बु. बृ. शु. श. ) ग्रहाः एकैकाः सम्मिलिता वा चन्द्राद् द्वितीये सुनफायोगकराः, द्वादशे अनफायोगकरा भवन्ति । एवं पञ्चभिर्ग्रहैः ३१ भेदाः अनफाः सुनफाश्च भवन्ति । एवमेव चन्द्राद् द्वितीयद्वादशगतैः पञ्चभिर्ग्रहैः एकाकिभिः सम्मिलितैश्चाशीत्यधिकशत ( १८० ) भेदा दुरुधुराः ज्ञेयाः । तेषां विवरणं बृहज्जातके उत्प- लकृतटीकायां द्रष्टव्यम् । ग्रन्थस्तम्भयादत्र न लिखितमिति । बृहज्जातके तद्वचनम्—
२२८ सटीकजातकपारिजाते- त्रिंशत्स्वरूपाः ( ३१ ) सुनफानफाख्याः षष्टित्रयं ( १८० ) दौरुधरे प्रभेदाः । इच्छाविकल्पैः क्रमशःऽभिनीया नीते निवृत्तिः पुनरन्यनीतिः ॥ इति ॥ ७३ ॥ Notes—अत्रोक्तसुनफादिप्रभेदानां विवरणं अग्रे ( ८३ श्लोके, भाषाचक्रेषु ) द्रष्टव्यम् । [चक्र १ (सुनफा): द्वितीय भाव में मं., लग्न में चं.] [चक्र २ (अनफा): द्वादश भाव में बु., लग्न में चं.] [चक्र ३ (दुरधुरा): द्वितीय में मं., लग्न में चं., द्वादश में बु.] [चक्र ४ (केमद्रुमः): लग्न में चं.] यदि लग्नमें या सप्तममें चन्द्रमा हो उसे बृहस्पति न देखता हो तो 'केमद्रुम' योग होता है । ग्रह यदि अष्टक वर्गमें अल्प बिंदुके हों और विकल हों तो केमद्रुम योगके फल देनेवाले होते हैं ॥ ७१ ॥ सूर्यके अतिरिक्त ग्रह चन्द्रमाके दूसरे और बारहवें स्थानोंमें हो तो “सुनफा” “अनफा” ‘धुरन्धरा’ योग होते हैं । वे तीनों योग न हों तो केमद्रुम योग होता है, अर्थात् चन्द्रमासे दूसरे सूर्यके अतिरिक्त ग्रह हों तो सुनफा, बारहवें हों तो अनफा, दोनों जगह ( २।१२ ) ग्रह हों तो धुरन्धरा योग होते हैं। यदि चन्द्रमासे दूसरे, बारहवें कोई ग्रह न हो तो केमद्रुम ( दरिद्र फलद ) योग होता है ॥ ७२-७३ ॥ इदानीमन्येऽपि केमद्रुमफलदा दरिद्रयोगा उच्यन्ते— चन्द्रे समानौ यदि नीचदृष्टे पापांशके याति दरिद्रयोगम् । क्षीणेन्दुलग्नान्निधने निशायां पापेक्षिते पापयुते तथा स्यात् ॥ ७४ ॥ चन्द्रेति । समानौ = सूर्यसहिते, चन्द्रे नीचगतग्रहेण दृष्टे, पापांशके = पापग्रहनवांशे विद्यमाने सति दरिद्रयोगं ( केमद्रुमतुल्यं ) याति = प्राप्नोति जातक इति । क्षीणेन्द्विति । निशायां = रात्रिसमये जन्मनि क्षीणेन्दुलग्नात्-क्षयिष्णु-( कृष्णपक्षीय ) चन्द्रगतलग्नात् , निधने = अष्टमे भावे, पापेक्षिते = पापग्रहेण दृष्टे, पापग्रहेण युते च तथा स्यादर्थाद् दरि- द्रयोगः स्यादिति ॥ ७४ ॥ चन्द्रमा सूर्यके साथ नीच गत ग्रहसे दृष्ट पापांशक में हो तो दरिद्र योग होता है। रातके जन्ममें लग्नगत क्षीण चन्द्रमासे ८ वें पापग्रहकी दृष्टि हो, या पापग्रह बैठा हो तो दरिद्रयोग होता है ॥ ७४ ॥
राजयोगाध्यायः ॥७॥ २२६ विधुन्तुदादिग्रहपीडितेन्दौ पापेक्षते चाशु दरिद्रमेति । लग्नाच्चतुष्केन्द्रगृहे सपापे निशाकराद्वाऽऽशु दरिद्रमेति ॥ ७५ ॥ विधुन्तुदादीति । विधुन्तुदादिभिर्ग्रहैः = राहादिपापग्रहैः पीडिते, इन्दौ=चन्द्रे पापेक्षिते च जात आशु = शीघ्रमेव दरिद्रयोगमेति । लग्नादिति । लग्नात् चतुष्केन्द्र-( १।४।७।१० ) गृहे, वा निशाकरात् = चन्द्रात् चतुष्केन्द्रगृहे = चतुर्षु केन्द्रेषु सपापे = पापग्रहयुक्ते जातो नर आशु दरिद्रमेति ॥ ७५ ॥ राहु आदि उपग्रहसे निपीडित चन्द्रमा पापग्रहसे देखा जाता हो तो जल्द दरिद्र बनता है । लग्नसे वा चन्द्रसे चारों केन्द्रोंमें पापग्रह हों तो भी जल्द दरिद्र बनावै ॥ ७५ ॥ चन्द्रे पराजितशुभग्रहदृष्टियुक्ते राहादिपीडिततनौ तु दरिद्र एव । नीचारिवीक्षणयुते रिपुराशिवर्गे च
·२३० सटीकजातकपारिजाते- नीचमें, या शत्रुगृहमें, या पापग्रहके वर्गमें प्राप्त शनि और शुक्र इन दोनोंमें परस्पर दृष्टि हो या दोनों एक राशिमें हों तो राजकुलमें उत्पन्न होनेपर भी दरिद्रताको प्राप्त होवे॥७८॥ चन्द्रे पापयुते तु पापभवने पापांशके वा निशि व्योमेशेन निरीक्षिते गतबले केमद्रुयोगो भवेत् ॥ भाग्यस्थानपवीक्षिते खलयुते नीचांशकेऽब्जे तथा चन्द्रे नीचयुते निशि क्षयतनौ जातस्य केमद्रुमः ॥ ७६ ॥ चन्द्र इति । गतबले = निर्बले, चन्द्रे पापग्रहेण युक्ते, तु ( तु पक्षान्तरे ) पापग्रहस्य भवने वा पापग्रहस्य नवांशे स्थिते, निशि = रात्रौ, व्योमेशेन दशमेशेन = निरीक्षिते सति केम- द्रुयोगो भवेत् । अथ खलेन = पापग्रहेण युते, अब्जे = चन्द्रे, नीचराशिनवमांशके गतवति भाग्यस्थानपेन = नवमेशेन वीक्षिते = दृष्टे सति तथाऽर्थात्केमद्रुमो भवेत् । अथ च क्षयतनौ क्षयिष्णौ ( कृष्णपक्षीये ) चन्द्रे निशि = रात्रौ जन्मनि नीचयुते = स्वनीचराशि गते जातस्य केमद्रुमो योगो भवेदिति ॥ ७९ ॥ यदि चन्द्रमा पापग्रहसे युक्त हो, पापग्रहकी राशिमें हो, वा पाप-नवांशमें हो, रात्रिके जन्ममें दशमेशसे देखा जाता हो, निर्बल हो तो केमद्रुम योग होता है । चन्द्रमा खल ग्रहसे युत नीचांशकमें हो, भाग्येश उसे देखता हो, वा रात्रिमें क्षीण चन्द्रमा नीचगत हो, उस समय उत्पन्न होनेवालोंका केमद्रुम योग होता है ॥ ७९ ॥ अथ केमद्रुमयोगापवादः । निशाकरे केन्द्रगते भृगौ वा जीवेक्षिते नैव दरिद्रयोगः । शुभान्विते वाऽशुभमध्यगेन्दौ जीवेक्षिते नैव दरिद्रयोगः ॥ ८० ॥ चन्द्रेऽतिमित्रनिजतुङ्गगृहांशकस्थे जीवेक्षिते यदि दरिद्रतया विहीनः । पूर्णे तनौ शुभयुते दिवि तुङ्गयाते जीवेक्षिते हिमकरे न भवेद्दरिद्रः ॥ ८१ ॥ इदानीमुक्तानां केमद्रुमयोगानां कदा भङ्गो भवतीत्याह—निशाकरे, चन्द्र इति श्लोक- द्वयेन । निशाकरे = चन्द्रे, वा भृगौ = शुक्रे, केन्द्र-( १।४।७।१० भाव-) गते तस्मिन् जीवने=गुरुणा, ईक्षिते = दृष्टे सति दरिद्रयोगो नैव भवति । अथ च शुभान्विते = शुभग्रहेण सहिते, शुभमध्यगेन्दौ = शुभग्रहद्वयस्यैकैकर्क्षगस्य मध्ये विद्यमाने चन्द्रे, जीवेक्षिते = गुरुणा दृष्टे दरिद्रयोगो नैव भवति । ईदृगलक्षणे पूर्वोक्तलक्षणव्याप्तावपि केमद्रुमयोगो न भवति ॥८०॥ अतिमित्र-निजतुङ्गगृहे वा तन्नवांशे गतवति चन्द्रे जीवेक्षिते यदि पूर्वोक्तलक्षणं स्यादपि तथापि दरिद्रतया = केमद्रुमफलेन विहीनो भवति जातकः । पूर्णबिम्बे चन्द्रमसि शुभग्रहेण संयुक्ते दिवि = दशमे भावे निजोच्च-( वृष ) गते जीवेक्षिते च दरिद्रो केमद्रुमफलवान् न भवेज्जातक इति ॥ ८१ ॥ केमद्रुम योगके लक्षण होनेपर भी यदि चन्द्रमा वा शुक्र केन्द्रमें हो बृहस्पतिसे देखा जाता हो तो दरिद्र ( केमद्रुम ) योग नहीं होता है । चन्द्रमा शुभ ग्रहसे युक्त हो वा शुभग्रहोंके मध्यमें हो उसको बृहस्पति देखता हो तो दरिद्र योग नहीं होता है ॥ ८० ॥ चन्द्रमा अतिमित्रके गृहमें, अपनी उच्चराशिमें, अपने गृह या नवांश में हो उसे बृह- स्पति देखता हो तो दरिद्रतासे हीन होता है अर्थात् केमद्रुमका भङ्ग होता है। पूर्ण चन्द्रमा