भारतकोश
संग्रह पर लौटें

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

उपोद्घातः २७

विषयविशेषे रचनायां भैषज्येऽपि संवादः साम्यं छायानुविधानमपि। तान्त्रिकप्रक्रियानुसारिणी विभिन्नैवेयमेतन्नाम्ना निर्दिष्टा संहिता। एतदीय उपदेष्टा काश्यपशब्दितोऽपि विभिन्न एवावगम्यते॥

काश्यपसंहिता¹ नाम्ना मद्रासप्रदेशे मुद्रितोऽगदतन्त्रविषयकविभिन्नोऽन्यो ग्रन्थोऽप्येक उपलभ्यते। तत्र गारुडीविद्या, विषहरा भैषज्यप्रयोगाः, मान्त्रिकप्रयोगाः, विषवत्यो जातयस्तत्प्रभेदाः, दंशादिविशेषाश्च वर्णिताः। एतदीयो लेखो डल्लनमधुकोशोद्धृतयोरगदतन्त्रविषयकयोः श्लोकयोर्लेशतोऽपि समकक्षतां प्रौढतां नार्हति। न चात्र तौ श्लोकौ। तेनागदतन्त्रीयस्यान्यस्यैवार्वाचीनकाश्यपस्य प्राचीनगदाचार्यकाश्यपसांप्रदायिकोपदेशानुसारिणोऽन्यस्यैव वा कस्यचिल्लेख इत्यनुमीयते। एतदीयच्छायागन्धोऽपि नास्यां कौमारभृत्यप्रस्थानीयायां संहितायाम्॥

तदेवं कश्यपकाश्यपशब्दयोर्विभिन्नतया दर्शनेन एषामुपरिनिर्दिष्टानां काश्यपानां प्राचीनत्वेन दृश्यमानानामपि विषयविसंवादेन, काश्यपसंहितानाम्ना लभ्यमानयोरुपरिनिर्दिष्टयोर्ग्रन्थयोर्वाचीनग्रन्थान्तरत्वेन, एषां काश्यपानां मारीचत्वेनाऽविशेषेणेन च कौमारभृत्याचार्यो मारीचकश्यपो नाम विभिन्नः प्राचीन आचार्यः, तन्मूला चेयं नवोपलब्धा प्राचीना संहिता विभिन्नैवेति निर्धार्यते। कश्यपोपदिष्टत्वेऽपि तदीय त्वावबोधिना प्रत्ययेन सह प्रयुज्यमानया समानाधिकरणसमासे पुंवद्भावे च काश्यपी संहिता इत्यर्थमादाय काश्यपसंहितेत्यस्या नाम समुचितमेव॥

अष्टाङ्गहृदये बालामयप्रतिषेधाध्याये वृद्धक²श्यपनाम्ना कश्यप³नाम्ना द्वावौषधयोगावुल्लिखितौ दृश्येते। वृद्धकश्यपस्य कश्यपस्य च विभिन्नतया निर्देशनास्यां कश्यपस्य संहितायां वृद्धकश्यपोक्तविषयासंवादेऽपि कश्यपनाम्ना निर्दिष्टो बालानां ग्रहहरो दशाङ्गधूपो धूपप्रकरणे (कल्पस्थाने) किञ्चिद्वस्तुविशेषे पाठविभेदेनोपलभ्यते। बालानां यक्षरक्षःप्रभृतिबाधाहरतया अभयघृतनाम्ना कश्यपेन (पृ. ६) निर्दिष्टं घृतं वाग्भटे⁴नापि (पृ. ४५५) निर्दिष्टं दृश्यते। यावद्रस्तूनां रक्षोघ्नत्वादेश्च संवादेन तदेवेति निश्चीयते॥

खोटाङप्रदेशभूगर्भान्निष्कासितो वावरमनुस्क्रिप्टाख्ययाप्रसिद्धो नावनीतकं नाम प्राचीनौ वैद्य⁵कग्रन्थः। यस्य भूर्जपत्रीयप्राचीनलिपिमात्रानुसन्धानेनापि तृतीयचतुर्थशताब्दीलिखितमिदं पुस्तकमिति निर्धार्यते विवेचकैः। ग्रन्थरचना तु सुतरां ततोऽपि प्राचीना। अत्रात्रेयक्षारपाणिजातुकर्णपराशरभेडहारीतसुश्रुतकाशपजीवकानां नामान्यप्युपात्तानि दृश्यन्ते। प्राचीनानामेषामाचार्याणां संहितोक्तयोगौषधानामात्र सङ्गृहीततया अष्टाङ्गहृदयोक्तयोगस्यैकस्याप्यनुल्लेखेन कश्यप-काश्यपात्रेयसुश्रुतभेदादिभ्य उत्तरं वाग्भटात् पूर्वं तन्निबन्धनमनुमातुं शक्यते। एतदीये चतुर्दशाध्याये कौमारभृत्यरूपे काश्यपनाम्ना जीवकनाम्ना च तदीयोपदेशतो भावानुवादेन कानिचिद्योगौषधानि निर्दिष्टान्युपलभ्यन्ते। कौमारभृत्यप्रकरणेऽस्मिञ्जीवकेन


१. अस्या आरम्भः—काश्यपं तं महात्मानमादित्यसमतेजसम्। अभिवाद्याभिसङ्गम्य गौतमः पर्यपृच्छत॥
गौतमः—त्वं हि वेदविदां श्रेष्ठो ज्ञानानां परमो निधिः। प्रजापतेरात्मभवो भूतभव्यविदुत्तमः॥
समाप्तिः—अभिषेकात् परं मन्त्री यन्त्रधारणमाचरेत्। पूर्ववद्दक्षिणां दद्यात् पूर्ववत्फलमाप्नुयात्॥
एवं प्रकारं यः कुर्यात्तस्य सिद्धिर्भवेद्ध्रुवम्।
इति काश्यपीये गरुडपञ्चाक्षरीकल्पे अभिषेकयन्त्रधारणविधिर्नाम त्रयोदशोऽध्याय इति॥
२. समङ्गाधातकीलोध्रकुटन्नटबलाह्वयैः। महासहाक्षुद्रसहाक्षुद्रबिल्वशलाटुभिः॥
सकार्पासफलैस्तोये साधितैः साधितं घृतम्। क्षीरमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान्॥
विविधानानामयानेतद्वृद्धकश्यपनिर्मितम्॥ (अष्टाङ्गहृदये पृ. ४५८)
३. वचाहिङ्गुविडङ्गानि सैन्धवं गजपिप्पली। पाठा प्रतिविषा व्योषं दशाङ्गः कश्यपोदितः॥ (अष्टाङ्गहृदये पृ. ४६२)
४. ब्राह्मीसिद्धार्थकवचासारिवाकुष्ठसैन्धवैः। सकणैः साधितं पीतं वाङ्मेधास्मृतिकृद् घृतम्॥
आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम्॥ (अष्टाङ्गहृदये उत्तरस्थाने अ. १)
५. एष ग्रन्थो युरोपप्रदेशे लाहोरप्रदेशेऽपि मुद्रितोऽस्ति।

२८काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

सह निर्दिष्टः काश्यपः सोऽयमेवैतत्संहिताचार्यो भवितुमर्हति। स्वार्थेऽणि तद्गोत्रीयबोधने वा कश्यपस्य काश्यप शब्देनापि व्यवहार्तुं शक्यता कश्यपपदस्थाने काश्यपपदमापातितं स्यात्। तत्रैवं दृश्यते —

आसवेन सुजातेन बालानां दापयेद्भिषक्। सुखं भवति तेनास्य काश्यपस्य वचो यथा ॥११०॥
तेन कोष्ठगतो वायुः क्षिप्रमेव प्रमुच्यते। शिरोरोगेषु शमनं वमनं चैव शाम्यति ॥१११॥
कृमिर्गुदगतो यस्य गुटिकायाः प्रलेपयेत्। तेनास्य सौख्यं भवति काश्यपस्य वचो यथा ॥११२॥
शर्कराक्षौद्रसंयुक्तां पाययीत चिकित्सकः। सुखीभवति तां पीत्वा काश्यपस्य वचो यथा ॥११३॥

इति किञ्चन गुटिकौषधमुपादाय कश्यपोक्त्यनुवादरूपेण योगविशेषः प्रतिपाद्यते। नावनीतके तत्पूर्वश्लोकानां विलुप्ततया किंरूपमिदं गुटिकौषधमिति न ज्ञायते। काश्यपसंहितायां तत्र तत्र (खिलस्था. १७, १८ अ.) गुटिकौषधानां रचना उपयोगश्च दृश्यते। तेष्वेवान्यतममुपादाय स्वानुभवसिद्धेनानुपानविशेषेण साकमत्र निर्दिष्टं विभाव्यते ॥

प्राचीने रावणीये बालतन्त्रे काश्यपस्य वृद्धकाश्यपस्य च नामोल्लेखोऽस्ति। कौमारतन्त्रऽस्मिन्नाचार्यभावेन वृद्धकाश्यपेन सह निर्दिष्टः काश्यपोऽप्ययमेव कौमारभृत्याचार्यः कश्यप इति ज्ञायते ॥

ज्वरसमुच्चयो नाम ज्वरविषये प्राचीनार्षमूलवचनानामेकत्रसंग्रहरूपः प्राचीनॊ ग्रन्थः। यदीयं ताडपुस्तकं लिप्यनुमानेन सप्ताष्टशतवर्षपूर्वतनमेकं, द्वितीयं च ४४ नेपाली (A. D. 924) संवत्सरे लिखितं मत्सकाशेऽस्ति। पुस्तकलखेससमयेनाप्येवं प्राचीने रचनासमयेन तु ततोऽपि प्राचीनेऽस्मिन् ग्रन्थे बहुशः श्लोकाः कश्यपनाम्नोद्धृताः सन्ति, अपि तेषां श्लोकानामस्र्यां संहितायां पूर्णतया संवादाेऽस्ति। स संवादः पश्चान्निद्रेक्ष्यते। तेन तदुपात्तः काश्यपोऽप्येतत्संहिताचार्यः कश्यप एव, तदुद्धृताः श्लोका अप्येतत्संहितागता एवेति सविशेषं निश्चीयते ॥

सुश्रुतव्याख्यायां निबन्ध<sup></sup>संग्रहे अष्टाङ्गहृद<sup></sup>यटीकायां चरकचक्रपाणिटीकायां कश्यपनाम्नोद्धृता द्वित्राः श्लोका अन्येऽप्युपलभ्यन्ते। परमस्याः संहिताया बहुशो भागेषु त्रुटिततयाऽत्रानुपलभ्यमानास्ते श्लोकास्त्रुटितभागपतिताः स्युः ॥

पीयूषधारायां गर्भाधा<sup></sup>नप्रकरणे—'उक्तं च कश्यपसंहितायां, वर्षाद्वादशकादूर्ध्वमित्युपक्रम्य—
अन्तःपुष्पं भवत्येव पनसोदुम्बरादिवत्। अतस्तु तत्र कुर्वीत तत्सङ्गं बुद्धिमन्नरः ॥

इति श्लोकोद्धारो दृश्यते। अस्य श्लोकस्य ज्योतिर्विषयके ग्रन्थे उद्धारदर्शनेन ज्योतिषविषयिण्या अन्यस्याः कश्यपसंहिताया अपि भवितुं संभवाेऽस्ति। काश्यपसंहितायां जातिसूत्रीयाध्याये (पृ. ७९) उपक्रान्तस्य गर्भाधानादिसम्बद्धस्य विषयस्यांशतोऽवशिष्टस्यांशातस्त्रुटिततया अस्मिंश्चश्लोके आर्षरचनया गर्भाधानविषयप्रतिपादनेन चैतत्काश्यपसंहितायामयं श्लोकस्तत्र त्रुटितभागे पतितोऽपि सम्भवति। तथात्वे तत्र पीयूषधारोद्दिष्टा कश्यपसंहिता इयमेव भवितुमर्हति ॥

जीवकस्य विमर्शः

पूर्वोद्दिष्टसंहिताकल्पाध्यायोक्त्या (कल्पस्थाने) कश्यपोपदिष्टा महातन्त्ररूपा संहिता कनखलस्थेन ऋचीकपुत्रेण वृद्धजीवकनाम्ना प्रसिद्धेन महर्षिणाऽधिगत्य संक्षिप्य तन्त्ररूपेण प्रकाशिता इत्यवगम्यते ॥


१. कश्यपोक्तं श्लोकमाह गयदासः—
अरजस्कां यदा नारीं श्लेष्मरेता व्रजेदृतौ। अन्यसक्ता भवेत्स्त्रीतिर्जायते कुम्भिलस्तदा ॥ (सुश्रुतटीकायां निबन्धसंग्रहे)
२. कश्यपः— भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे जलम्। तेन प्रावृषवर्षाख्यौ ऋतू तेषां प्रकल्पितौ ॥
गङ्गाया उत्तरे कूले हिमवद्विमसंकुले। भूयः शीतमत्तस्तेषां हेमन्तशिशिरावृतू ॥
(हेमाद्रेरष्टाङ्गटीकायां चक्रपाणेश्चरकटीकायाञ्च)
३. मुहूर्त्तचिन्तामणेः संस्कारप्रकरणे प्रथमश्लोकव्याख्यायाम्।

उपोद्घातः २१

महाभारतादौ जामदग्न्योपाख्याने ऋचीकनाम्नो महर्षेरुल्लेख उपलभ्यते। असीरियन्देशीयपूर्ववृत्तेऽपि गालवादिनामवत् ऋचीकस्यापि नामोपलभ्यते। साधकान्तरोपसम्भमन्तरा अस्य वृद्धजीवकस्य पिता कतमोऽयमृचीक इति न निश्चेतुं शक्यते। पुराणेतिहासादिप्राचीनग्रन्थेष्वानत्रेयसुश्रुतादिप्राचीनवैद्यकग्रन्थेष्वपि वृद्धजीवकनाम जीवकनाम वा न दृष्टिपथमुपैति। परं नावनीतके कौमारभृत्यप्रकरणे काश्यपीयस्येव जीवकीयस्याप्यौषधस्य छर्दिरोगे उरोघाते च सनामग्राहमु^१ल्लेखो बालभैषज्यविषयानुषङ्गेण काश्यपसाहचर्येण चामुमेव वृद्धजीवकमवबोधयन् प्रतीयते। अस्मिन् वृद्धजीवकीये छर्दिरोगप्रकरणस्य खण्डिततया तदीयौषधं न संवादाय। उरोघातप्रकरणे औषधनिर्देशिनां श्लोकानां मध्ये त्रुटिततयाऽवशिष्टभागे पिप्पल्या सहोपयोज्यस्यान्तर्लीनस्य कस्यचिदौषधस्य प्रयोगो गम्यमानः संवादमनुमापयति। सुश्रुतस्योत्तरतन्त्रे “ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः” इति सामान्यतो निर्दिष्टे कौमारभृत्ये “पार्वतकजीवकबन्धकप्रभृतिभिः” इति विशदीकुर्वता डल्लनाचार्येण निर्दिष्टोऽपि जीवकः कौमारभृत्याचार्यश्रेण्यामुल्लिखिततयाऽयमेव वृद्धजीवको भवितुमर्हति। चक्रदत्तेनापि जीवकनाम्ना सौरेश्वरघृतमुद्धृतमस्ति। अन्यत्रापि टीकाग्रन्थे कुमारसुखावहस्य कासश्वासादिहरौषधविशेषस्य जीवकनाम्ना उद्धारो दृश्यते॥

कोऽयं वृद्धजीवक इत्यनुसन्धाने बुद्धसमये वर्तमानस्य ‘कुमारभच्च’ शब्देन विशेषितस्य जीवकनाम्नः कस्यचित्प्रसिद्धवैद्यस्य महावग्गनामके पालीग्रन्थे बौद्धजातके तिब्बतीयोपकथायां च इतिवृत्तमुपलभ्यते। तत्र कुमारभच्चविशेषणस्य जीवकनाम्नः प्रसिद्धवैद्यत्वस्य च दर्शनेन विमृश्य तेषु बौद्धग्रन्थेषु निर्दिष्टं तदीयेतिवृत्तं किञ्चिदिहोपन्यस्यते—

महावग्गनामके पालीग्रन्थे अष्टमाध्याये एवमुल्लिखितमस्ति—राजगृहे शालावतीनाम्या कयाऽपि गणिकया प्रसूतमात्रं सूर्पे निधाय दासीद्वारा बहिरुत्सृष्टं बालकं राजकुमारोऽभयो नाम दृष्ट्वा प्रासादमानीय परिचारिकाद्वारा पुपोष। सोऽयं बालक उत्सृष्टोऽपि जीवतीत्यर्थेन जीवक इति नाम्नाऽभ्यधीयत्। राजकुमारेण पालितः पोषित इति पालीभाषानुसारेण कु(को)मारभच्च (कौमारभृत्यः, कुमारभृतः) इत्यपि तन्नामाभूत्। ततः समयेन विवृद्धः स जीविकायै विद्यामर्जयितुं राजकुमारमननुमान्यैव तक्षशिलामुपेतस्तत्रत्यादिकप्रमुखत् कस्माच्चिद्वैद्यात् सप्तवर्षाणि वैद्यविद्यामग्रहीत्। ग्रहणधारणपटुः स भैषज्यविद्यानिपुण आचार्येण पाथेयं दत्त्वा विसृष्टस्ततः प्रत्यागमत्। मार्गे साकेतमुपगतः सप्तवर्षेभ्यः शिरोवेदनयाऽर्दिताया एकस्याः श्रेष्ठिन्या गृहमुपेतः स तरुणभिषक् घृतनस्यौषधेनारोग्यं सम्पाद्य सत्कारलब्धेन बहुद्रव्यदासरथादिना सह राजगृहं प्राप। अर्जितमैश्वर्यं पोषणप्रत्युपकाररूपेण राजकुमारायाभयाय निवेदयन् स तेनास्वीकारेण सदक्रियत। राजप्रासादाभ्यन्तर एवास्य वासभवनं निरमीयत। ततो मागधनुपतेर्बिम्बसारस्य तीव्रं भगन्दररोगमेकेन लेपेन न्यवारयत्। तेन प्रीतः स राजा पञ्चशतनार्याभूषणैः सत्कृत्य तं तरुणजीवकं स्वस्यान्तःपुरस्य बुद्धप्रमुखभिक्षुसङ्घानामपि भैषज्यसेवानुमतिदानेनानुजग्राह। ततः सप्तवर्षेभ्यः शिरोवेदनयाऽर्दितस्य कस्यचिच्छ्रेष्ठिनो भैषज्याय बहुकालं शयनं प्रतिज्ञाप्य प्रवृत्तस्तदीयं कपालं निर्भिद्य ततः कृमिद्वयं निष्कास्य परिवीव्य कतिपयैर्दिनैः स्वास्थ्यं सम्पाद्य प्रभूतधनसत्कारं प्राप। ततो राजाज्ञया वाराणसीमुपेत्यन्त्रग्रन्थिरोगेण पीडितस्य कस्यापि श्रेष्ठिपुत्रस्योदरं विदार्य चिकित्सयाऽऽरोग्यं सम्पादयात्। तेनापि श्रेष्ठिना धनैः सदक्रियत। ततो नरपतेराज्ञयोज्जयिनीमुपेत्य तद्भूभुजःप्रद्योतस्य पाण्डुरोगं घृतप्रयोगेण शमयितुं प्रवृवृते। घृतमनिच्छन्तं नृपतिं कषायरूपेण तन्निपाय्य वमने राजकोपाद्भयेन पूर्वोपस्थापितां हस्तिनीमारुह्यपलायितो राजगृहं प्रत्यायौ। औषधप्रयुक्तेन वमनेन नीरोगो राजा शिबिदेशोद्भववराङ्गवाद्युपायनं जीवकाय प्रैषयत्। तत आनन्दतथागतस्य सूचनया जीवको रुग्णं भगवन्तं बुद्धं विरेचनौषधप्रयोगेण स्वस्थीचकार। जीवकः प्रद्योतेन वाराणसीपतिना चार्पितं राङ्कवकम्बलादिकं भिक्षुसङ्घार्थं भगवते तथागतायार्पयाससेति॥


१. भार्गी सपिप्पलीं पाठां पयस्यां मधुनाऽन्विताम्। श्लैष्मिकायां लिहेच्छर्द्यामिति होवाच जीवकः ॥
द्वे बृहत्यौ रुवूकत्वक् श्वदंष्ट्रा यासकस्तथा। शृङ्गवेरं यवांश्चैव दार्वां वृक्षादनीं तथा ॥
क्षीरमुत्क्वाथयेदेभिः पिप्पलीघृतसंयुक्तम्। उरोघातेषु दातव्यमिति होवाच जीवकः॥ (नावतीतके १४/१०५)

३० | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

तिब्ब^१तदेशीयोपकथासु बिम्बसारस्य भुजिष्यायामुत्पन्नः पुत्रो मात्रा मञ्जूषायामुत्सृष्टो बालको जीवको राजकुमारेण अभयेन पालित इति कुमारभृत (भृत्य) नाम्ना प्रसिद्धिं गतः । सोऽधीतभैषज्यविद्यो राजकुमाराज्ञया कपालभेदनादिशल्यतन्त्रविज्ञानाय तक्षशिलामुपेत्य शल्यतन्त्रे परमविदुष आत्रेयाच्छिक्षां लब्ध्वाऽतिनिष्णातो बभूव । स्वगुरोरात्रेयादप्यस्य क्वचन भैषज्यकौशलं दृढशे, इति विशेषोऽस्ति । 450 A. D. समयलिखितायां बुद्धघोष (?) कृतायां धम्मपदव्या^२ख्यायां जीवकेन पञ्चशतभिक्षुसहितबुद्धस्य भोजनं, बुद्धस्य पादव्रणस्य चिकित्सनं च निर्दिष्टमस्ति । सतीगुम्बजातके, संकिच्चजातके, चुल्लहंसजात^३के च जीवकस्य निर्देशोऽस्ति ।।

स कदाचिदम्बपालीनामकोध्याने विहारमेकं निर्माय सार्द्धद्वादशशतभिक्षुभिः सह बुद्धमामन्त्र्य सञ्चकार । राजगृहे श्रीगुप्तपरिखायां कश्चन स्तूपोऽपि तेन निरमायि । सोऽयं जीवको बिम्बसारपुत्रमजातशत्रु बुद्धदर्शनाय प्रेरयत् । इत्याद्या अन्या अपि तदाख्यायिका जातकादिबौद्धग्रन्थेषूपलभ्यन्ते । एतद्विषये बु^४द्धनामके पुस्तके श्री Oldenberg विदुषा श्रीयुतगिरीन्द्रनाथ^५महोदयेनापि बहु लिखितमस्ति । जीवकेन स्वगृहस्य समीपे श्रीगुप्तपरिखायामुद्यानं बुद्धस्य व्याख्यानचत्वरं च निर्मितमासीत् । गृहचत्वरवृक्षादीनां विन्यासस्य किञ्चिच्छेषचिह्नमद्याप्युपलभ्यत इति विल्ममहाशयैनोक्तं^६मस्ति ।।

एवमुपवर्णनेन बुद्धस्य बिम्बसारस्य च सामयिक इतः २५०० वर्षपूर्वं (B. C. 600) प्रसिद्धो भिषग्जीवको नाम बभूवेति ज्ञायते ।।

बौद्धग्रन्थोक्तोऽयं जीवको मगधदेशीयो बिम्बसारस्य वेश्यायां भुजिष्यायां वोत्पन्नः पुत्रस्तरुणवैद्यत्वेन निर्दिष्टः । स बाल्योत्तरं तक्षशिलामुपेत्य तत्रत्यादाचार्यात् सप्तवर्षाणि वैद्यविद्यामधीत्य लब्धतदवबोध इति महावग्गलेखेन बुद्धस्य बौद्धभिक्षूणां सत्कर्ता वैद्यश्चेति, तिब्बतीयकथया स्तूपनिर्माता पश्चात्तथागतपथे प्रविष्ट इति, मज्झमनिकायलेखेन बुद्धस्य बद्धाञ्जलिः शरणागत उपासकोऽभूदिति चावगम्यते । एतत्तन्त्राचार्यस्तु जीवकः कनखलस्थः ऋचीकपुत्रः पञ्चवार्षिकोऽपिवलीपलितवत्तया वृद्धरूपेण दृश्यमानो वेदवेदाङ्गपारगस्य हिताग्नेः कश्यपस्यान्तेवासी महर्षिभिरादृतो निजवंशोद्भवस्य शिवकश्यपभक्तस्य साङ्गवेदाध्यायिनः प्रतिसंस्कर्तुर्वातस्यस्य पूर्वपुरुषः श्रौतस्मार्तपथैकनिष्ठ इत्यस्माद् ग्रन्थात् प्रतीयते ।।

बुद्धसामयिकस्य जीवकस्य भेषज्येतिवृते राजगृहश्रेष्ठिनः कपालं वाराणसीश्रेष्ठिनश्चान्त्रं विदार्य चिकित्सनोल्लेखेन शल्यतन्त्रे विशेषज्ञत्वं प्रकाशते, बालचिकित्सावृत्तान्तो न लभ्यते । शल्यतन्त्रवेत्तृत्योल्लेखेन तस्य बालचिकित्सायां चिकित्सान्तरे वाऽवेदनं भवतीति न मेऽभिप्रायः, शल्यतन्त्राचार्यस्यापि सुश्रुतस्यावशिष्टान्तरोपदेशोऽस्त्येव, तथाऽपि सुश्रुतस्य शल्य तन्त्रे इव अस्य बालभैषज्ये समादृतत्वे तद्विषयका वृत्तान्ता लब्धुं योग्याः, नत्वेवं निर्दिश्यते । एतत्तन्त्राचार्यस्य जीवकस्य तूपक्रमात् प्रभृति बालानामेव चिकित्सा प्रधानविषयत्वेनानुस्यूतेति बालतन्त्राचार्यत्वं स्पष्टमेव ।।

बुद्धसमये काश्यपस्य जीवकस्य चैतिहासिन सहोपलम्भेन एतत्तन्त्रे सहभूतौ काश्यपो जीवकश्चोभौ बुद्धसामयिकौ बौद्धग्रन्थोक्तावित्यपि शङ्कितुं न युज्यते । काश्यपस्त्रिषु भ्रातृषु ज्येष्ठः पूर्वं दार्शनिको याज्ञिकश्चासीत्, स उरुबिल्वग्रामे बुद्धेन बौद्धधर्मे दीक्षितः, तमालोक्य बिम्बसारोऽपि बौद्धधर्मं जग्राहेति बौद्धमतप्रविष्टस्य काश्यपस्येतिवृत्तं महावग्गे उपलभ्यते । ततश्चास्य दार्शनिकत्वमेवावगम्यते, न पुनर्वैद्यकविद्वत्त्वं, नतरां कौमारभृत्याचार्यत्वं, न वाऽस्य मरीचिपुत्रत्वोल्लेखः ।


१. Tibetan Tales P. 75-109, and History of Indian Medicine Vol III P. 641-144.
२. Buddhist Legends Part II P 198.
३. The Jataka edited by Fansboll.
४. Buddha by Oidenberg P. 147. 163.
५. History of Indian Medicine II P. 681.
६. Buddhist Records of the Western World Vol II P. 152.

उपोद्घातः | ३१

बौद्धग्रन्थोक्तजीवकस्य तिब्बतीयकथोपादानेऽपि तक्षशिलास्थादात्रेयादध्ययनमायाति, न तु काश्यपात् मगधदेशीयादिति बौद्धकाश्यपस्य कश्यपस्य च बहुशो वैरूप्यान्न नामसाम्यमात्रेण साहित्यं जीवकपरिच्छेदाय कल्पते ।।

किञ्च, बुद्धसामयिकस्य जीवकस्य पालीलेखे कुमारभच्च इति कुमारभृत्यत्वेनोल्लेखादेतत्तन्त्राचार्यस्य कौमारभृत्यवित्त्या चोभयोरेकत्वशङ्काऽपि विचारे नावतिष्ठते । यत आयुर्वेदस्य पुराकालाद्विभक्तेष्वष्टसु प्रस्थानेष्वन्यतमं बालचिकित्सनात्मकं कौमारभृत्यं, तदुपदेष्टारस्तद्विदश्च कौमारभृत्या उच्यन्ते । प्रकृतस्यास्य ग्रन्थस्य बालचिकित्साप्रधानतया “कौमारभृत्यमष्टानां तन्त्राणामाद्यमुच्यते (पृ. ६१), कौमारभृत्यमतिवर्धनमेतदुक्तम् (ओषधभेषजीयेन्द्रियाध्याये)” इति ग्रन्थलेखेन, “काश्यपीयसंहितायां कौमारभृत्ये” इति पुष्पिकालेखेन च कौमारभृत्यत्वं “कौमारभृत्यास्त्वपरे जङ्गमस्थावराश्रयात् । द्वियोनिं ब्रुवतेधूपं कश्यपस्य मते स्थिताः (धूपकल्पे), भिषक्कौमारभृत्यैस्तैः (धात्रीचिकित्साध्याये)” इत्युल्लेखेन एतदाचार्यस्य कश्यपस्य एतत्प्रस्थानविदां वैद्याचार्यान्तराणामपि कौमारभृत्यत्वं निर्दिश्यते । बुद्धसामयिकजीवकस्य तु कुमारेणाभयेन पालितः पोषितश्चेति कृत्वा विद्याभ्यासनात् पूर्वमेव कुमारभृत्यशब्देन तदेकनियतो व्यवहारो बौद्धग्रन्थे निर्दिष्टो, नतु कौमारभृत्यवेत्तृतया । तथात्वे बालचिकित्सनं तद्धेतृत्वं च कथं तत्र नोल्लिख्येत । कुमारभृतस्य जीवकभिषजो विशेषविद्यारूपतयाऽस्य प्रस्थानस्य कौमारभृत्यरूपत्वमित्यपि पुरासमयादेवास्य प्रस्थानस्यैतन्नाम्ना व्यपदेशेन, सुश्रुतनावनीतकादिष्वपि तथोल्लेखेन, न केवलं जीवकस्य; अपि त्वेतत्प्रस्थानविदां केनापि कुमारेणापालितानां पार्वतकबन्धकादीनामपि कौमारभृत्याचार्यत्वेनोल्लेखेन च न कथयितुं शक्यते । न चास्य तन्त्राचार्यस्य बौद्धत्वं कुतोऽप्यायाति । बौद्धविदुषो लेखनी वाग्धारा वाऽन्तःकरणात्रिःसरन्तीं बौद्धच्छायामस्मिंस्तन्त्रे क्वापि कथं न प्रतिपद्येत । तेन बौद्धग्रन्थोक्तजीवकस्य एतत्तन्त्राचार्यस्य वृद्धजीवकस्य च बहुशो वैरूप्यकृतो विभेदः ।।

जैनग्रन्थपरिदृष्टयोरुत्सर्पिण्यवसर्पिणीपदयोस्त्र दर्शनेन जैनैतिहासपर्यालोचनेऽपि श्रुतन्धरराजकुमारो जीवन्धर-जीवस्वाम्यपराभिधानो जीवकनामैकः प्रसिद्धः पुरुष उपलभ्यते । यस्य महापुराण-जीवन्धरचरित्र-गद्यचिन्तामण्यादि-जैनग्रन्थेष्वितिवृत्तमुपलभ्यते । स राजकुमारः पितृजनपदात्प्रिरस्तः स्ववीर्यकौशलेन प्रसिद्धो वैरिणो निहत्य राजपदे प्रतिष्ठितो जैनधर्मनिष्ठित उपवर्ण्यते । अस्य स्वोपकृतगन्धर्वप्रदत्तविपहरमन्त्रप्रभावेण स्पर्शादेव विषापहरणशक्तिरासीदिति ज्ञायते । नास्य ततो वैद्यविद्याचार्यत्वं नतरां कौमारभृत्यवित्वं लेशतोऽप्यवगम्यते ।।

जीवकीयेऽस्मिंस्तन्त्रे $^१$श्रौतमार्गानुस्यूता एव अनेके विषयालेखाश्चोपलभ्यन्ते । एतावता बुद्धजनसाम्प्रदायिकाम्यां बौद्धजैनग्रन्थोक्ताभ्यां जीवकाभ्यां विभिन्नतया दृश्यमानोऽन्य एव प्राचीनः ऋचीकस्य पुत्रो वृद्धजीवकोऽस्य तन्त्रस्य निबन्धा इति ग्रन्थमर्यादयाऽवगम्यते ।।


१. दन्तजन्माध्यायेऽशुभदन्तशान्तये मारुतीष्टिविधानम् । (पृ. १२)
शिष्योपक्रमणीये वैदिकं शिष्यसंस्कारविधानम् । (पृ. ५७)
आयुर्वेदस्य वेदसम्बद्धत्वं तत्स्थानीयत्वं शिक्षाकल्पसूत्रनिरुक्तवृत्तच्छन्दोयज्ञसंस्तरज्ञ .... क्षणीयत्वनिर्देशश्च । (पृ. ६२)
गर्भावक्रान्तौ ईश्वरगुणोपेतसर्वगतसंसारिजीवनिर्देशः । (पृ. ७२)
जातिसूत्रीये श्रौतं पुत्रेष्टिविधानम् । (पृ. ८१)
ओषधभेषजीये स्वप्रदोषशमनः सावित्रीहोमः ।
धूपनकल्पे वैदिकमन्त्रोल्लेखः । (पृ. १३६)
रेवतीकल्पे शाब्दी आर्थी च वैदिकी प्रक्रिया ।
जातकर्मात्तरीये श्रौतप्रक्रियया निष्क्रमणादिविधानम् ।
तत्र तत्र वैदिकमन्त्रदेवताद्युल्लेखः ।

३२ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

वात्स्यः

संहिताकल्पाध्यायलेखेन (कल्पस्थाने) वृद्धजीवकीयतन्त्ररूपतामापन्नामिमां काश्यपसंहितां कालवशेन विलुप्तामनायासनाम्नो यक्षादधिगत्य जीवकवंशोद्भवोऽधीतवेदवेदाङ्गः शिवकश्यपभक्तो वात्स्यो नाम लोककल्याणाय पुनः संस्कृत्य प्रकाशयामासेत्यवगमेन कोऽयं प्रतिसंस्कर्ता वात्स्यः कश्च तत्समय इति जिज्ञासायामुपस्थितायामेवावदिह बुद्धावुपतिष्ठते ।।

वात्स्य इति वत्सगोत्रोद्भवत्वमुपादाय केवलं कुलनाम् । जीवकस्य भार्गवत्वेनोल्लेखाद्वत्सस्य भृगुकुलोद्भवत्वाज्जीवक-वंशोद्भवत्वेन निर्दिष्टस्यास्य प्रतिसंस्कर्तुर्वात्स्यत्वं युज्यते । वंशब्राह्मणादावपि ‘वात्स्याद्वात्स्यः’ इति वात्स्योल्लेख उपलभ्यते । वंशनाम्नः साधारणतया ब्राह्मणोल्लिखितो वात्स्योऽयमन्यो वेति निर्धारयितुं न शक्यते । किमभिधानोऽयं प्रतिसंस्कर्ता वात्स्यः कतमश्च जीवकसन्ततिपरम्परायामिति न विशेषतः परिच्छिद्यते । अनायासयक्षं प्रसाद्य तस्मादेतत्त त्रावाप्तिं स्वस्य निर्दिशन्नसौ यक्षजातीनां विद्यासमृद्धानां सत्त्वसमये सत्त्वमात्मनोऽभिव्यनक्ति । यक्षजातयः पुराकालात् प्रसिद्धा आसन् । यक्षाणां भारतीयैः सह परिचयः सम्पर्कश्च प्राचीन एव । यक्षाणां सम्प्रदायो बौद्धधर्मादपि प्राचीन इत्युल्लिखता श्रीयुतकुमारस्वामिना¹ तद्विषये बहु विवेचितमस्ति । स सम्प्रदायः पश्चाद्बौद्धजैनसम्प्रदाययोरन्तर्भावमलब्ध । प्राचीनेषु बौद्धग्रन्थेषु जैनाङ्गोपाङ्गग्रन्थेष्वपि यक्षाणां निर्देशो दृश्यते । बुद्धसमयेऽपि भारते यक्षाणां पूजा प्रचलिताऽऽसीत् । भारते इतस्ततो यक्षाणां प्राचीना मूर्तयोऽपि लभ्यन्ते । न केवलं भारत एव, रमठजागुड-बाल्हिकादिसीमान्तप्रदेशेष्वपि यक्षाणां पुरा पूज्यताऽवगम्यते । नहि कस्यापि जीवनसमये एव देववत्पूज्यभाव उपजायते । बलवीर्यविद्यादिसमृद्धाया जातेः समयान्तरेण देववत्संमाननमपि भवितुमर्हति । तत्र वात्स्येन विलुप्तैतत्तन्त्रलाभे हेतुतया निर्दिष्टस्तेन सह सङ्गतः कोऽयमनायासो नाम यक्ष इति विचारे तन्नाम्नो यक्षस्योल्लेख एवमेकत्रोपलभ्यते । पञ्चरक्षानामकं बौद्धतन्त्रमेकमिदानीं यदुपलभ्यते, तस्य चीनभाषायामपि बहुशो वाराननुवादा बभूवुः । येष्वेकतमोऽनुवादः A. D. 317-322 वर्षाभ्यन्तरे मध्यैशयागतेन कूचभिक्षुणा पोश्रीमित्रेण विहित इति निरूप्यते । भारतीयस्यास्य ग्रन्थस्य तावति दूरे तत्समये जातोऽनुवाद उपलभ्यमानो रचनाकालं सुतरां ततोऽपि बहुप्राचीनमनुमाषयति । तस्मिन्नपि ग्रन्थे उपशतद्वयं यक्षाणां निर्देशस्तत्तद्देशरक्षकत्या वैश्रवणादीनां यक्षाधिपानामाराधनविधानं, तदाराधनतो वातपित्तश्लेष्मरोगनिवृत्तेः, वैद्यानां, गर्भबालबाधकबालग्रहपूजनादीनामुल्ले खोऽपिदृश्यते । तत्रैव ग्रन्थे महामायूरीविद्या प्रकरणे रमठदेशरक्षकत्या रावणस्य निर्देशोऽस्ति । मन्त्रविद्यया रोगनिवृत्तिविषये रावणोल्ले खोऽन्यत्राप्युपलभ्यते । मान्त्रिकप्रक्रियया बालचिकित्सां प्रदर्शयद्रावणतन्त्रमपि प्राचीनमवेक्षते । पञ्चरक्षाया महामायूरीविद्यायां तत्तद्देशगतपूज्ययक्षोद्देश—

“कौशाम्ब्यां चाप्यनायासौ भद्रिकायां च भद्रिकः ॥”

इति कौशाम्बीरक्षकत्वेनाऽनायासनाम्नो यक्षस्य निर्देशोऽस्ति । कौशाम्बी बुद्धसमयेऽपि प्रसिद्धाऽऽसीत् । एवं तद्धन्यलेखेन तदात्वेऽपि पूज्यश्रेण्यां निर्दिष्टस्यानायासस्य बहुप्राग्गतत्वं गम्यते । बुद्धसमयेऽपि पूज्यबुद्धौ प्रविष्टाया यक्षजातेः प्राक्सत्त्वसमये वर्तमानादनायासाद्वात्स्यस्यैतत्तन्त्राधिगमोक्त्या बुद्धसमयादनर्वाग्भावस्तद्विप्रकर्षो वा वात्स्यस्यापीत्यवधारयितुं शक्यते । एकस्मिन्प्राचीनपुस्तके महामायूरीविद्याया उपसंहारे 'आर्यमहामायूरीविद्या विनष्टा यक्षमुखात् प्रतिलब्धा' इत्युल्लेखदर्शनेन यक्षेभ्योऽपि विद्यासंप्रदायावगमो लभ्यते । तेनानायासयक्षादेतत्तन्त्राधिगमोऽपि न खलु न युज्यते । आत्रेयगार्ग्यशौनकादिवदार्षेयनाम्ना व्यवहरणमप्यस्य वात्स्यस्य प्राचीनतामवगमयति । सोऽयं वात्स्योऽधीतवेदवेदाङ्गत्वेन शिवकश्यपभक्तत्वेन च निर्दिष्टतया वेदमार्गानुयायीत्यपि ग्रन्थमर्यादयाऽऽयाति ।।

परमेतद्रं विचारणीयमापतति—यदस्मिन् वृद्धजीवकीये शारीरस्थाने (पृ. ६५) कालनिरूपणे आदियुगं दैवयुगं कृतयुगमिति त्रिधा विभक्त उन्नतावस्थारूपः शुभकाल उत्सर्पिणीशब्देन, त्रेता द्वापरं कलिरिति त्रिधा विभक्तोऽव-


१. Cf. his article on Yaksas.

उपोद्घातः ३३

नत्यवस्थारूपोऽशुभकालोऽवसर्पिणीशब्देन, उत्तरोत्तरमवहीयमानानि शरीरसंहननानि नारायणादिशब्दैः, आयुर्मानानि च पलितोपमशब्देन व्यवहृतानि दृश्यन्ते। एतत्तन्त्रीयेऽस्मिन्नंशे निरूपितं युगभेदेनाश्रुतादृष्टमद्भुतमीदृशं शरीरविन्यासवैचित्र्यं गर्भावस्थास्थितिं विकासवादसिद्धान्तमवनतिवादसिद्धान्तं वा कथमवलम्बते, किं वाऽस्य वक्तव्यमिति तत्तद्विषयावगाहनकुशलानां विचारपथे समुपस्थाप्यते। एतदुक्तायाः प्रक्रियायाः सर्वांशतः संवादाभावेऽपि चरके विमा¹नस्थाने तृतीयाध्याये कृतयुगस्य आदिकालरूपोऽवान्तरविभागः, शरीरसंहननायुर्मानादीनामपि यथोत्तरमवनतिः संक्षिप्य निर्दिष्टोपलभ्यते। ²तद्व्याख्यायां चक्रपाणिना यथापूर्वमुत्कर्षवादे यथोत्तरमपकर्षवादे उपष्टम्भकं व्यासवचनमप्युद्धृतमित्येवमुत्कर्षापकर्षतारतम्यनिर्देशः श्रुतिस्मृत्यनुयायिसम्प्रदायेऽप्यंशतो दृश्यते। ³श्रीजाकोवीमहाशयोऽप्येषा प्रक्रिया पुराणसंमतेति वर्णयति॥

महापुराणकर्मप्रकृतिजीवसमासवृत्तिप्रभृतिषु जैनग्रन्थेषु उत्सर्पिण्यवसर्पिणीकालविभागस्य वज्रादिशरीरसंहननप्रभेदस्य पल्योपमाद्यायुर्मानविशेषस्य चोपवर्णनोपलम्भेऽपि तेषु वज्रऋषभनाराचादिषड्विधसंहननानामुद्देशेन, आयुर्मानस्य पल्योपमसागरोपमशब्दाभ्यां निर्देशेन, अस्मिन् वृद्धजीवकीये तु नारायणार्धनारायणकैशिकप्रज्ञप्तिशितरूपाणां चतुर्विधसंहननानामायुर्मानस्यापि पलितोपमशब्दितस्य निर्देशेन विषयस्यच्छायोपलम्भेऽपि न सर्वात्मना संवादो दृश्यते॥

बाह्यसम्प्रदायानामिव श्रौतसम्प्रदायस्यापि बहुशः पूर्वग्रन्था विलुप्ताः। पूर्वसमयप्रसिद्धाः शब्दाः पश्चात्तनैरुपात्ता अपि पूर्वसम्प्रदायग्रन्थ्यानुपलम्भे यत्र दृश्यन्ते तदीयत्वेनानुसन्धीयमाना भवन्ति। पूर्वापरग्रन्थपर्यालोचनेऽपि एतावन्तं विषयलेशमन्तरा नात्र ग्रन्थे आर्हती बौद्धी वा आध्यात्मिकी अन्या वा काचन प्रक्रिया दृश्यते। प्रत्युत यस्मिन्नध्याये उत्सर्पिण्यवसर्पिणीनिर्देशस्तत्रैवोत्तरवाक्येषु समुदयकारणोल्लेखे (पृ. ६७) अव्यक्तमहदादिक्रमेण सांख्यदर्शनानुरूपा सृष्टिप्रक्रिया, उत्तरस्मिन् गर्भावक्रान्त्यध्याये (पृ. ७१) ईश्वरगुणोपेतसर्वगतसंसारिजवनिर्देशता श्रौतदर्शनानुगतैव दृश्यत इति, एष उन्नतावनतशुभाशुभकालसंहननायुर्मानाद्युपन्यासोऽपि श्रौतस्मार्तपूर्वसम्प्रदायपरम्परागत एव स्यादिति वक्तु न खलु न शक्यते। तथाऽपि उत्सर्पिण्यवसर्पिणीशब्दयोर्मृग्यमाणेषु श्रौतस्मार्तग्रन्थेषु क्वाप्यनुपलब्धिः, जैनग्रन्थेषु बाहुल्येनोपलब्धिः, नामसंख्यावैषम्येऽपि संहननविशेषाणामपि तत्रैवोल्लेखदर्शनं च एतत्तन्त्रीयेऽस्मिन्नंशे जैनसम्प्रदायविषयानुबिम्बनं बुद्धावुपस्थापयति। अत्रत्य आयुर्मानीयः पलितोपशब्दोऽपि तेषु व्यवहृतस्य पल्योपमशब्दस्य विकृतरूपं किलेति बोध्यते। सेन्टपिटर्सबर्गबृहत्कोशे, ⁴Encyclopaedia of Religion and Ethics ग्रन्थेऽपि एते शब्दा जैनसाम्प्रदायिकतया निर्दिष्टाः सन्ति। अभिधानराजेन्द्रनामके जैनबृहत्कोशेऽप्येषां शब्दविशेषाणामर्थविवरणं तदीयप्रक्रियानुसारि दृश्यते। जैनसम्प्रदाय-विषयमुपादायोत्सर्पिण्यवसर्पिणीशब्दयोरर्थविवरणं कालविशेषपरत्वेन Mrs ⁵Stevenson विदुष्या प्रदर्शितमस्ति। बौद्धसम्प्रदायलेखेऽपि श्रीहा⁶र्डौविदुषा एष विषयो निरूपितोऽस्ति। तदेवमार्हतसम्प्रदायविषयस्यांशतोऽप्यत्र प्रतिच्छायादृष्टिरतत्सम्प्रदायोद्गमोत्तरतां प्रतिभासयति॥

किन्तु जैनसम्प्रदाये महावीरस्य बुद्धसम्प्रदाये गौतमबुद्धस्य विशेषप्रसिद्धतया तत्तन्मताचार्यत्वेन दर्शनेऽपि तेषामेव ग्रन्थेषु महावीरात् पूर्वभूतानां पार्श्वनाथादीनां त्रयोविंशतितीर्थङ्कराणां गौतमबुद्धात् पूर्वभूतानां कनकमुन्यादीनामप्युल्लेखेन,


१. आदिकाले शैलेन्द्रसारसंहननस्थिरशरीराःपुरुषा बभूवुरमितायुषः ..... कृतयुगस्यादौ। भ्रश्यति तु कृतयुगे केषाञ्चिदत्यादानात् साम्प्रतिकानां शरीरगौरवमासीत् .......... ततस्त्रेतायां ........ प्राणिनां ह्रासमवापुरायुषः। (चरकविमानस्थाने अ. ४३)
२. पुरुषाः सर्वसिद्धाश्च चतुर्वर्षशतायुषः। कृते त्रेतायुगेऽप्येवं पादशो हसति क्रमात्॥ (चरकटीकायां चक्रपाणिः)
३. Encyclopaedia of Religion and Ethics Vol I P. 202, H. Jacobi.
४. Vol I by H. Jacobi P. 202.
५. The Heart of Jainism P. 272-76.
६. Manual of Buddhism P, 7-8 by S, Hardy.

३४काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

अशोकनृपतिना गौतमबुद्धात् पूर्ववर्तिनः कनकमुनेः स्तूपस्य जीर्णोद्धारशिला¹लेखस्य तत्स्तूपस्य चोपलम्भेन पूर्वमप्येतन्मतयोरनेनैव रूपेण रूपान्तरेण वा सत्त्वं प्रतीयते । तेन महावीरोपक्रमं जैनसम्प्रदायो गौतमोपक्रमं बौद्धसम्प्रदाय इत्यवधारणाय पुनः पुनर्गवेषणेन शोध्यमान इतिहासोऽद्याप्यपूर्ण एव । वेदबाह्यपथानुयायिनां पूर्वकालेऽपि सत्त्वं दीघ²निकायग्रन्थलेखतोऽप्यायाति । उपनिषदादिष्वपि तादृशाक्षेपदर्शनेन तथाविधानां पुरासमयेऽपि सत्त्वं सूच्यते । अस्तिनास्तिदिष्टं मतिः (४. ४. ६०) इति सूत्रेण पाणिनिरप्युभयेषां सद्भावमवबोधयति । जैनग्रन्थलेखानुसारेण पार्श्वनाथादीनां पूर्वाचार्याणां बहन्तरालस्य लाभेन पल्योपमसागरोपमादिशब्दवाच्यसंख्याविशेषस्य महत्या च आर्हतसम्प्रदायपूर्वपरम्पराया द्राघिष्ठतया उत्सर्पिण्यादयो विशेषा आर्हता अपि भवन्तो महावीरात् पूर्वेषां समयत एव प्रसिद्धा बहुशः सम्भवन्ति, किंवा श्रौतस्मार्तग्रन्थेषु लभ्यमानेषु अनुपलब्धेऽपि विलुप्तप्राचीनग्रन्थेषु व्यवहृता अपि सम्भवन्ति । तादृशानामेषां महावीरात् पूर्वमेवास्मिंस्तन्त्रे उपादान-सम्भवेऽस्मिन्नर्वाचीनविषयानुवेधशङ्का न दृढीभवति ।।

रेवतीकल्पाध्याये (कल्पस्थाने) मातङ्गीविद्यायाः प्राकृतशाबरशब्दघटितस्य केयूरीशब्देन गर्भितस्य मन्त्रस्यापि निर्देशोऽस्ति । मातङ्ग्या उल्लेखो दक्षिणाम्नाय इव बौद्धसम्प्रदायेऽप्युपलभ्यते । नैतावताऽस्या बौद्धविद्यात्वमेवेत्यवसातुं शक्यते । अत्रैवैतद्दिग्धोपक्रमलेखे वैदिकमग्निमुखं निर्दिश्य 'मातङ्गी नाम विद्या ब्रह्मर्षिराजर्षिसिद्धचारणपूजिताऽर्चिता मतङ्गेन महर्षिणा कश्यपपुत्रेण कनीयसा महता तपसोग्रेण पितामहादेवासादिता' इति तदुत्पत्तिं श्रौतसम्प्रदायोद्भवां स्पष्टमभिधाय वैदिक्यैव पद्धत्या तद्विधानमुपसंहतमपि । तेन मातङ्गी विद्या बौद्धतन्त्रेष्वपि कचन पश्चादुपलभ्यतां नाम, परमेषा विद्या प्रागार्षसमयेऽप्यासीदेवेति एतदुल्लिखिताया मातङ्ग्या न बौद्धविद्यात्वशङ्कास्थानमत्रोदेति । ष्टाइनमहाशयेन तूह्वाहाङ्ग्स्थलोपलब्धे प्राचीनग्रन्थे भगवतो बुद्धस्य जीवकं प्रत्युपदेशे, बावरमॅनुस्क्रिप्टगते नावनीतकसहस्थिते ग्रन्थे, पञ्चरक्षादिषु, प्राचीनबौद्धग्रन्थेष्वपि प्राकृतभाषाशब्दघटितमन्त्रव्यवहारदर्शनेन चतुरशीतिसिद्धानां नाथादीनां समयात् पूर्वतरकालेऽपि प्राकृतशब्दघटितमन्त्रव्यवहार आसीदेवेति मन्त्रे प्राकृतशब्दप्रवेशनमपि न किञ्चिदेव ।।

किञ्च रेवतीकल्पाध्याये (कल्पस्थाने) जातहारिणीनिर्देशप्रसङ्गे भिक्षुणीविशेषेषु श्रमणिका निर्ग्रन्थी चेत्यनयोरप्युल्लेखोऽस्ति । यद्यपि बौद्धसम्प्रदायभिक्षुबोधकतया श्रमणशब्दो बौद्धैः पश्चात्तनग्रन्थकृद्भिश्च व्यवह्रियते नाम, महाभाष्यकृता 'येषां च विरोधः शाश्वतिकः' (२. ४. ९) इत्यत्र शाश्वतिकविरोधे श्रमणब्राह्मणमित्युदाहरणस्य दानेन तत्समये बौद्धब्राह्मणयोर्मिथः सङ्घर्षमादाय श्रमणशब्दो बौद्धभिक्षुपरोऽवगम्यते च, तथाऽपि ततः पूर्वमपि 'कुमारः श्रमणादिभिः' इति (३. १. ७०) सूत्रकृता पाणिनिना श्रमणशब्दोल्लेखाद्बौद्धजैनसम्प्रदायोदये सति ततः प्रतिफलितोऽयं शब्द इति वक्तुं नार्हति । श्रमणशब्दः कायक्लेशादिश्रमशीलत्वरूपं निर्वचनमादाय वैखा³नससूत्रे तृतीयाश्रमस्थबोधकतया, बृहदा⁴रण्यके त्यागिभिक्षुबोधकतया, तैत्तिरीया⁵रण्यकेरामाय⁶णा⁷दिषु


१. “देवानां प्रियेण प्रियदर्शिना राज्ञा चतुर्दशवर्षाभिषिक्तेन बुद्धस्य कनकमुनेः स्तूपो द्वितीयं वर्धितः (विंशतिव) र्षाभिषिक्तेन चात्मनाऽऽगत्य महीयितं (स्तम्भश्चो) त्थापितः” इति । Iuscription of Asoke by Hultzsch P. 165.
२. दीघनिकाये—(१) पूरणकस्सप, (२) मक्खलिगोसाल, (३) अजितकेशकम्बलिन, (४) पबुद्धका च्यायन, (५) सञ्जयवेलत्थिपुत, (६) निगन्त्यनाथपुत. Buddhist Studies B. C. Law P. 73.
३. वैखानससूत्रे—श्रामणीयकविधानेनाधायाधारं हुत्वा श्रामणकाग्निमादाय तृतीयाश्रमं गच्छेत् ....... श्रमणकाय स्वाहा ।
(वैखानसधर्मप्रश्नः १-६)
४. बृहदारण्यके—अत्र पिताऽपिता भवति ..... श्रमणोऽश्रमणस्तापसोऽतापसः । श्रमणः परिव्राडिति भाष्यम् ।
(१४. ७. १. २२)
५. तैत्तिरीयारण्यके—वातरशना ह वा ऋषयः श्रमणा ऊर्ध्वमन्थिनो बभूवुः (२. ७. १)
सायणव्याख्यायां-वातरशनाख्या ऋषयः श्रमणास्तपस्विनऊर्ध्वमन्थिन ऊर्ध्वरेतसो बभूवुः ।
६. रामायणे—तपसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते (१-१४-१२) श्रमणां धर्मनिपुणामभिगच्छेति राघवः । (१-१)
७. श्रमणा वातरशना मुनयो धर्मकोविदाः ।

उपोद्घातः ३५

च नैकेषु प्रत्नतरग्रन्थेषु भिक्षुतापसविशेषबोधकतया पुराकालात् प्रयुक्तो बहुश उपलभ्यते। श्रमणशब्दः पुराकालादेव व्यवहृत आसीदिति श्रीयुतचिन्ताम१णिवैद्यमहाशयादिभिरपि निर्दिष्टमस्ति॥

निर्ग्रन्थशब्दानुसन्धाने दिग्घ२निकाये तदात्वे प्रचलितानां सम्प्रदायान्तराणां श्रेण्यां कस्यचित् प्रस्थानान्तरीयस्य प्रतिपक्षभावेन निर्दिष्टस्य निग्गन्थनाथपुत्त (निर्ग्रन्थनाथपुत्र) शब्देनोल्लेख उपलभ्यते। निर्ग्रन्थशब्दस्य जैनसाम्प्रदायिकभिक्षुषु प्रसिद्ध्या तदात्वे महावीरस्य तथाविधप्रतिपक्षभावस्य सम्भवितया च निर्ग्रन्थनाथपुत्रशब्देन निर्दिष्टो महावीर इति विवेचकैरुच्यते। किन्तु महावीरो निर्ग्रन्थनाथपुत्रः, तस्य पिता आचार्यों वा निर्ग्रन्थनाथः, ततश्च नाथपदस्वारस्येन पितृसमयेऽपि निर्ग्रन्थानां प्रसिद्ध्या बाहुल्येन च भवितव्यमिति न महावीरोद्भावितत्वं निर्ग्रन्थसम्प्रदायस्य, अपितु ततोऽपि पूर्वतः प्रचलितत्वमेव वक्तव्यं भवति। श्रीविन्टरनीजमहोद३योऽपि महावीरादपि पूर्वकालत एव निर्ग्रन्थसम्प्रदायोदय इति निरूपयति। जैनसम्प्रदाये महावीरादपि पूर्वेषामादिनाथपार्श्वनाथादीनामपि आचार्यभावस्य जैनग्रन्थेष्वोऽपि दृश्यमानतया, पूर्वतीर्थङ्कररूपेण तत्सम्प्रदाये तेषामप्यद्यावधि संमान्यमानतया च एतत्सम्प्रदायस्य महावीरेण विशेषतो विकासनेन तस्य प्रधानाचार्यभावेन पश्चात् प्रसिद्धावपि निर्ग्रन्थसम्प्रदायो जैनसम्प्रदायोऽपि भवन् पूर्वपूर्वतीर्थङ्करपरम्परानुवृत्तो विज्ञायते। जैनैः स्वसाम्प्रदायिकभिक्षुबोधाय व्यवहियतां नाम, निवृत्तहृदयग्रन्थित्वरूपां निरुक्तिमुपादाय विवेकज्ञानकक्षामारूढमवबोधयन्निर्ग्रन्थ४शब्दः, हृदयग्रन्थिविमोक्षस्याध्यात्मिकसम्पद्रूपेणोल्लेखश्च५ आस्तिकसम्प्रदायग्रन्थेष्वपि पुराकालादेव प्रचलितोदृश्यते॥

पूर्वसमयतः प्रसिद्धानैवेदशास्त्राच्छब्दानुपादाय बौद्धैर्जैनैः श्रमणनिर्ग्रन्थात्मना स्वस्वसम्प्रदायभिक्षुव्यवहारः पश्चात्कृतोऽवगम्यते। भाषातत्त्वसिद्धान्तदृशा घटिकादिशब्दवत् कालपरम्परया प्रत्नानामपि शब्दानां रूपान्तरेऽर्थान्तरे वा सङ्क्रमणं बहुश उपलभ्यते। प्रत्नैर्बौधायनाश्वलायनवराहापस्तम्बादिभिः सूत्रकारप्रमुखैः श्रौतस्मार्तयागभूमिबोधकतया बहुशस्तत्र तत्र प्राचीनग्रन्थेषु प्रयुक्तो विहा६रशब्दो बौद्धभिक्षुसङ्घावासबोधनाय, श्मशानस्थचित्ताभीष्टदेवताश्वत्यदेवायतनक्षेत्रज्ञाद्यर्थेषु प्रयुक्तश्चैत्य७शब्दः स्तूपबोधनाय


१. History of Sanskrit Literature (Vedic Period) C. V. Vaidya. २. (१) पूरणकस्सप, (२) मक्खलिगोसाल, (३) अजितकेशकम्बलि, (४) पबद्धकाच्चायन, (५) सञ्जयवेलत्थिपुत्त () निग्गन्थनाथपुत्र। ३. Mahāvīra, "the great hero" the founder or reformer of the sect of the Jainas, which had developed out of the far older sect of the Niganthas (i. e. the Fetter-less). History of Indian Literature-M. Winternitz Vol II (P. 424). ४. आत्मरामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः॥ (भागवते) ५. भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः। (मुण्डकोपनिषदि भगवद्गीतायां च) यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः। (कठोपनिषदि २-१५) ६. विहारः—यागार्थं यत्र यत्र यावती भूमिः श्रुत्यादिभिः परिमाणविशिष्टत्वेन विहिता। तत्र तत्र तावती भूमिर्विहारशब्दवाच्या। (श्रौतपदार्थनिर्वचने पृ. २)। उत्तरत उपचारो विहारः (बौधानीयधर्मसूत्रे १-७-१) गां चोपसंसृष्टां विहारं चान्तरेण मा संचारिष्टेति संप्रेष्यति। (आपस्तम्बश्रौतसू. १-१२-१२) दक्षिणावद्विहारं प्रपद्यते पूर्वेणोत्करमपरेण प्रणीताः। (आश्वलायनश्रौतसू. १-१-४), न विहारादपपर्यावर्तेत। (मैत्रायणीयवाराहगृह्यसूत्रे पृ. १) ७. चैत्यः—चैत्यवृक्षं चितिं यूपं चण्डालं वेदविक्रयम्। एतानि ब्राह्मणः स्पृष्ट्वा सचेलो जलमाविशेत्॥ (बोधायनधर्मसूत्रे १-९-५) चैत्ययज्ञे प्राक्स्विष्टकृतश्चैत्याय बलिं हरेत्। (आश्वलायनगृह्यसू. १-१२-१) चित्ते भवाश्चैत्याः, शङ्करः पशुपतिः, इत्येवमादय इति टीका। वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च। (इति महाभारते ६-३-४०)

३६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

बौद्धैः प्रयुज्यते। पुराकालात्तपोज्ञानवयोवृद्धेषु प्रयुक्तः स्थ^१विरशब्दोऽपि श्रेष्ठविद्वद्विशेषबोधाय बौद्धैः प्रयुज्यते। अर्वाचीनसन्निकृष्टव्यवहारानुरक्तहृदयानामद्यत्वे ते विहारादयः शब्दा बौद्धसाम्प्रदायिका इव प्रतिभान्तु नाम, नैतावता प्राचीनव्यवहारमपर्यालोच्यार्वाचीनत्वं वक्तुं शक्यते। एवमेवात्रोल्लिखिताः श्रमणनिर्ग्रन्थादयः शब्दाः प्राचीनतापसविशेषानेवावबोधयन्ति॥

तत्रैव "लिङ्गिनी परिव्राजिका श्रमणका निर्ग्रन्थी कण्डनी चीरवल्कलधारिणी चरिकी मातृमण्डलिकी अवेक्षणिका" (रेवतीकल्पे) इति भिक्षावृत्त्या गृहाद् गृहान्तरे गमने स्वसंसर्गेण जातहारिणीं सङ्क्रामयन्तीनां नानाभिक्षुकीणां श्रेण्यां निर्दिष्टेषु प्रभेदेषु परिव्राजिकाश्रमणकानिर्ग्रन्थीर्विहाय नान्येषां भेदानां क्वचन ग्रन्थान्तरेषु लोकसम्प्रदायेषु वाऽद्यत्वे विशेषतउपलब्धिरस्ति। पश्चात्तनग्रन्थेषु दृश्यमानान् हंसपरमहंसकुटीचकबहूदकादिभेदाननुल्लिख्य कालवशान्नामतोऽपि विलुप्तप्रायाणामेषां सम्प्रदायविशेषाणामुल्लेखस्य दर्शनं सर्वेषु प्रभेदेषु प्राचीनभावमवबोधयति॥

तत्रैव रेवतीकल्पाध्याये जातहारिणीनिर्देशप्रसङ्गे सिंह लोह्लादयो देशविशेषाः, सूतमागधादयो जातिविशेषाश्च निर्दिष्टाः सन्ति। तत्र खशशकयवनपल्हवतुषारकम्बोजादीनामुल्लेखोऽस्ति। यवनशब्दवत्खशादयः शब्दा अपि मनुस्मृत्यादिषूपलभ्यन्ते। ऐतिहासिकैरपि खशादयो जातयः पुराकालावस्थितत्वेन निरूप्यन्ते। इन्साइक्लोपीडिया ब्रिटानिकापुस्तके हूणानां चतुर्थशताब्यां (372 A. D.) यूरोपप्रवेशस्योल्लेखेऽपि इतः २५०० वर्षेभ्यः पूर्वभवे अवेस्ताग्रन्थे हुनु (हूण)-जातेः प्रतिपक्षिवीरजातितया तज्जातीयानां जरथुष्ट्रादपि पूर्वभवेन केरसप (Kerasop) नाम्ना ईरानदेशनृपतिना विजयस्य चोल्लेखेन हूणानां (B. C. 700) समय इति जे. जे. मोदीम^२हाशयेन प्रतिपादितमस्ति। महा^३भारतेऽपि हूणपल्लवयवनशकपुण्ड्रकिरातद्रविडखशादीनामुल्लेख उपलभ्यते। गर्गादिभ्यो यञ् (४-१-१०५) इति पाणिनिसूत्रोक्तगणे शकस्य, इन्द्रवरुणेति (४-१-४९) सूत्रे यवनस्य, कम्बोजालुक् (४-१-१७५) इति सूत्रवार्तिकोक्तकम्बोजादिगणेऽपि शकयवनयोरुल्लेखोऽस्ति। तेनेदृशाः शब्दाः पुराकालेऽपि प्रसिद्धा एवासन्निति ज्ञायते॥

अस्मिन् ग्रन्थे प्रत्यध्यायम् 'अमुकाध्यायं व्याख्यास्यामः' इत्युपक्रम्य 'इति ह स्माह भगवान् कश्यपः' इत्युपसंहरणं, शिष्योपक्रमणीयाध्याये (पृ. ५७) शाब्देनार्थेन च वैदिकविधानेन शिष्योपनयनं, तत्रैवाग्निसोमप्रजापत्यादिवैदिकदेवतानां स्वाहाकारः, जातिसूत्रीयाध्याये (पृ. ७९) वैदिकी वाक्यरचना, हीन्दन्तोद्भवे (पृ. ४८) मारुतीष्टिस्यालीपाकहोमविधानं, पुत्रीयेषु नानाविधानेषु सर्वाण्यपहायेष्टेर्विधानं (पृ. ८६), स्वप्रदोषनिर्हरणाय (इ. स्था.) सावित्रीहोमविधानं, शिशुरक्षाधूपने (धू. क.) अग्निरस्त्वेतिवैदिकवाक्यप्रयोगः, रेवतीकल्पाध्याये (कल्पस्थाने) ब्राह्मणवाक्यानुरूपाणि ऐतिहासिकवाक्यानि, तत्रैव देवतोद्देशे वसुरुद्रादित्यानामेव कीर्तनं, दीर्घजिव्ही च छन्दसि (४-१-५९) इति सूत्रकृता पाणिनिनाछान्दसत्वेनाभ्युपगताया ङीप्प्रत्ययवत्या दीर्घजिव्ह्या उल्लेखः, भोजनकल्पाध्याये (कल्पस्थाने) काशीपुण्ड्राङ्गवङ्गकाचसागरानूपकोशलकलिङ्गदेशानां, देशसात्म्याध्याये (खिलस्थाने) कुमारवर्तनिकटिवर्षवर्षभद्रीपपौण्ड्रवर्धनमृत्तिकावर्धमानादीनां बहूनां प्राचीनदेशविशेषाणां कीर्तनं, प्रत्युत प्रसिद्धतरस्य पाण्ड्यस्याकीर्तनं, तत्रैव बाह्लीकभिषगुल्लेखे (पृ. २६) सत्यपि यवनरोमकादिभिषजामनुल्लेखनं, राजतैलप्राशस्त्यबोधने (भोजनकल्पे) इक्ष्वाकुसुबाहुसगरनहुषदिलीपभरतगयपर्यन्तानामेव प्राचीननृपाणामुपादानं, रसधातुरत्नौषधानां


'चैत्यमायतनं तुल्ये' इत्यमरः।
चतुष्पथाश्चैत्यवृक्षः समाजाः प्रेक्षणानि च। (मनुस्मृतौ ९-२६४)।
अहङ्कारस्तमो रुद्रश्चित्तं चैत्यस्ततोऽभवत्। (भागवतपुराणे ३-२३-६०)।
१. यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः (मनुस्मृतिः)।
२. R. G. Bhandarker Commemoration Volume P. 65
३. आदिपर्वणि १७५ अध्याये, एवमादिस्थलेषु।

उपोद्घातः ३७

प्रायः काप्यव्यवहरणं, समुदायकारणोल्लेखे (पृ. ६७) अष्टभूतप्रकृतीन् षोडशविकारांश्च निर्दिश्य प्राचीनसांख्यदर्शनस्यैवोपजीवनं, बौद्धानां जैनानां तदीयाध्यात्मवादस्याप्यनुपादानं, ‘दीप्ताग्नयो घस्मराः स्नेहनित्याः’ (पृ. २०) ‘क्षीरं सात्म्यं क्षीरमाहुः पवित्रम्’ (भोजनकल्पे) इत्यादिदैविकच्छायछन्दःपद्योप्रदर्शनमित्यादीनि बहुशः प्रत्नभावसाधनान्युपलभ्यमानानि अस्य वृद्धजीवकीयतन्त्रस्य बहुप्राचीनतामवगमयन्ति । हेमाद्यादौ पुराणवचनैरारोग्यशालानिर्माणविधाने सत्यपि आधुनिकशोधकाहृदयदार्थ्याय शिलालेखदेशान्तरीयमतान्तरीयलेखादीन् संवादकानपेक्षन्ते इति तदनुसारिण्या सप्रमाणैतिहासिकदृष्ट्याऽऽलोचने २३०० वर्षपूर्वमशोकस्य सर्वसाधारणचिकित्सालयोद्घाटनसुयशोलाभस्य दर्शनिन, कौटिलियेऽपि दुर्गनिवेशने भैषज्यगृहविन्यासस्योल्लेखेन, चरकादिषु रसायनशालानिर्देशे सत्यपि सर्वसाधारणाय आरोग्यशालाया अनिर्देशेन, अत्रकल्पोल्लेखेऽपि रसायन- शालायास्तादृशचिकित्सालयादेश्च निर्माणस्यानुल्लेखनं, प्रत्युत (पृ. ५९) रोगिगृहमुपगम्य भिषग्भिर्भैषज्यस्य विधानस्य प्रक्रियोपदेशदर्शनमप्यस्य ग्रन्थस्य प्रत्नतरसमयनिबन्धनमवबोधयति । कश्यपेन सह प्रश्नप्रतिवचनभावेन निर्देशनमपि वृद्धजीवकस्य प्राचीनमेव समयं प्रत्याययति । काश्यपीयमहासंहितां संक्षिप्य वृद्धजीवकेनास्य तन्त्रस्य प्रणयनोल्लेखेन काश्यपीयसंहिताकालस्तु सुतरां ततोऽपि प्राचीन एव ।।

किन्तु श्रमणशब्दस्य ब्राह्मणादिग्रन्थेषूपलम्भवद्ग्रन्थिशब्दस्योपनिषदादिषूपलम्भेऽपि निर्ग्रन्थशब्दस्य तापसविशेषादिबोधकतया भागवतपुराणवर्जं वैदिकग्रन्थेषु महाभारतादिप्राचीनग्रन्थेषु च स्पष्टतया नोपलम्भोऽस्ति । पश्चाद्भवैर्नागार्जुनादिभिरुपायहृदये ललितविस्तरे च जैनावबोधकतयैवायं निर्ग्रन्थशब्दोव्यवहृतोऽस्ति । आस्तिकदार्शनिकैर्वाचस्प१त्यादिभिरपि वेदबाह्यदार्शनिकश्रेण्यामिमे निर्दिष्टा दृश्यन्ते । निर्ग्रन्थसम्प्रदायोजैनसम्प्रदाय एवेति आधुनिकविदुषामपि धारणाऽस्ति । अस्यां संहितायां दृश्यमानौ जैनसम्प्रदायस्यासाधारणावुत्सर्षिपण्यवसर्षिपणीशब्दावप्येतस्य सहयोगेनोपोद्वलनाय पुरो भवतः । ततश्च महावीरादपि पूर्वेषां तीर्थङ्कराणां समयतो न चेत्, अस्मिन् सम्प्रदाये प्रधानाचार्यभावमापन्नस्य महावीरस्य सन्निकृष्टात्समयत एषां शब्दविशेषाणां लोके प्रसिद्ध्या तादात्विकोऽयं सम्प्रदायान्तरशब्दविशेषानुप्रवेशोऽस्मिंस्तन्त्रे इति वक्तव्यमेव । शकहूणपल्हवखशयवन- कम्बोजादिशब्दविशेषाणां सहभावोबुद्धसमयादर्वाग्भावमवगमयतीत्यर्वाचीनविवेचकानां धारणाऽप्यस्ति । तथा च महावीरोत्तरमेवास्य ग्रन्थस्योदय इति शङ्कास्थानमत्रोदेति । परमनिश्चितसमयानां कतिपयशब्दविशेषाणामनुप्रवेशदर्शनमात्रेण ग्रन्थस्य कालोऽवधारयितुं न शक्यते । तत्रापि पश्चात्प्रतिसंस्कृतत्वेन स्पष्टमुक्तेषु ग्रन्थेषु गर्भगतान संन्दिग्धान् कियतः । शब्दविशेषानुपादायैव समुच्चितस्य ग्रन्थस्य कालावधारणं तु साहसमेव । विवेचकानां पूर्वतर्कावधारिताअपि कति विषयाः समयवशेन बलवत्तरतर्कान्तरोदये विपरिवृत्ता दृश्यन्ते । उक्तञ्चाभियुक्तैः ‘तर्काप्रतिष्ठा’नात्’ इति ।। प्राचीनत्वावबोधाय जागरूकणि पूर्वोक्तलक्षणानि क्षणमपसार्य अर्वाचीनविवेककधारणाया अवलम्बनेऽपि कालवशाद्विलुप्तस्य तन्त्रस्य वात्स्येन यक्षादधिगत्य पश्चात् संस्करणस्यात्रैव संहिताकल्पाध्याये स्वमुखोल्लेखेन, अस्मिन् रेवतीकल्पाध्याये दृश्यमाना निर्ग्रन्थादयो न केवलमत्रैव, पूर्वत्र दृश्यमाना उत्सर्पिण्यादयोऽपि पश्चाद्भवत्वसंशयकाः शब्दविशेषा विषयविशेषाश्च जीवकीयतन्त्रसिद्धिमनु संस्करणावसरे वात्स्यलेखनीत: प्रविष्टाअपि भवितुं सम्भवन्ति । चरकसंहितायां सुश्रुतपूर्वभागे च परतन्त्रीयस्य बालग्रहविषयस्याभावेऽपि सुश्रुतस्योत्तरतन्त्रे शालाक्यकौमारभृत्यादिप्रस्थानान्तरीयविषयाणामपि संगृहीततया तत्र २७ तः ३८ पर्यन्ताध्यायेषु कौमारभृत्यविषयनिर्देशे मूले आचार्यनामानुल्लेखेऽपि पार्वतकजीवकबन्धकप्रभृतिभिरिति विवरणकर्तुर्लेखेन कश्यपजीवकादीनां कौमारभृत्यतन्त्रादेवैतद्विषयोपग्रहणं बहुशः सम्भवति सुश्रुतीये बालतन्त्रप्रकरणे (उ. तं. अ. २७) निर्दिष्टाः स्कन्दरेवतीशीतपूतना शकुनीमुखमण्डिकानैगमेषादयो ये स्त्रीरूपाः पुंरूपाश्च बालग्रहास्तत्संवादिन एव ग्रहा अत्र वृद्धजीवकीये चिकित्सितस्थानीयबालग्रहाध्याये दृश्यन्ते । रेवतीकल्पाध्याये रेवत्याः प्रभेदरूपेण जातहारिणीनां ये विशेषास्तेषां प्रतिफलनं


१. सांख्यतत्त्वकौमुद्याम्—शाक्यभिक्षुनिर्ग्रन्थकसंसारमोचकादीनामागमाभासाः परिहृता भवन्ति । २. शारीरकसूत्रे ।

३८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

सुश्रुतोत्तरतन्त्रे न दृश्यते। द्वयोरध्याययोर्विषयाणां समकाललिखितत्वे जातहारिणीविषयाणामपि न्यूनाधिकतया सुश्रुतोत्तरतन्त्रे प्रतिफलनेन भवितव्यम्। रेवतीग्रहस्कन्दादीनां चिकित्सितस्थानीयबालग्रहाध्याये निरूपणे उपजातेऽपि पुनः रेवतीकल्पाध्याये रेवतीविकासरूपाणां बहुविधानां जातहारिणीनां पूर्वापरग्रन्थलेखापेक्षयाऽतिविकसितप्रक्रियया निरूपणदर्शनेन सोऽयं रेवतीकल्पाध्याये विकसितो लेखः कश्यपजीवकसमयादनु वात्स्यसमये उपजातः किमु इति बहुशः सम्भाव्यते। अविभागेन प्रतिसंस्कारे ईदृशान्येव संशयावहानि फलानि फलन्तीत्यग्रे वक्ष्यते। संहिताकल्पाध्यायपूर्त्तौ संश्लिष्टस्य वात्सीयत्वेनाभ्युपगतस्य खिलभागस्य देशसात्म्याध्याये खिलात्पूर्ववर्तिनि, भोजनकल्पाध्यायेऽपि सात्म्यसम्बन्धमुपादाय बहवः प्राचीनदेशाः कीर्तिताः सन्ति। भोजनकल्पाध्यायीयलेखे कुरुक्षेत्रमुपक्रम्य चतुर्दिग्गतेषु बहुदेशेषूल्लिखितेषु सिन्धुसौवीरादयः पाश्चात्याः, काश्मीरचीनादय उदीच्याः, काशीपुण्ड्राङ्गवङ्गादयः पौरस्त्याः सामान्यदेशाः, दक्षिणतः कलिङ्गपट्टननामधेया एव देशा निर्दिष्टाः सन्ति। रामायणसमये दाक्षिणात्यनगराणां विशेषतोऽनुपलम्भवदत्रापि कलिङ्गपट्टनयोर्नर्मदापर्यन्तमेव च निर्देशोऽस्ति। खिलभागीयदेशसात्म्याध्याये तु त्रुटिततया उपलब्धे पूर्वदक्षिणदेशनिर्देशेऽन्येषां प्राचीनदेशविशेषाणामुल्लेखे सत्यपि चिरिपाली-चीर-चोर-पुलिन्दद्रविडादयो दूरगता अपि दाक्षिणात्यदेशाः, पूर्वतोऽपि कुमारवर्तनिकटवर्षादयो विशेषदेशा इति विकसितप्रक्रियया निर्देशोदृश्यते। अशोकशिलालेखे प्राचीनसाहित्यान्तरेष्वप्युपलभ्यमानतया एते देशा अपि प्राचीना एवेत्यत्र दिग्दर्शनं पश्चाद्विधास्यते। तथाऽप्युभयतो देशनिर्देशस्य तुलनयाऽनुसन्धाने वृद्धजीवकीयपूर्वभागसमयस्य वात्सीयखिलभागसमयस्य च बहन्तरालं स्पष्टीभवति। खिलभागीयदेशसात्म्याध्याये मगधासु महाराष्ट्रमिति चोल्लेखोऽस्ति। वेदेऽपि मगधोल्लेखेन, जरासन्धसमयेऽपि मगधराज्यस्य निर्देशेन, पुरातत्त्वान्वेषिभिरद्यत्वे राजगृहे तत्स्थानोपलम्भेन चात्र निर्दिष्टं मगधराज्यं प्राचीनतरमप्यवबोद्धुं शक्यते, तथाऽपि पूर्वभागे देशोद्देशे नाम्नाऽप्यनुल्लिखितस्य मगधस्योत्तरत्र महाराष्ट्रतयोल्लेखेन, पाण्ड्यदेशस्य पाटलिपुत्रस्याप्यनुल्लेखेन, बौद्धग्रन्थे प्रसिद्धदानायासयक्षात् स्वपूर्वपुरुषतन्त्रलाभोल्लेखेन च बुद्धमहावीरोत्तरं नन्दचन्द्रगुप्तादिसमये वोपजाते मगधस्य महाराष्ट्रप्रतिष्ठाकाले वात्स्यस्य समुद्भवः सम्भाव्यते। तेन तदीयसंस्कारेऽनुप्रविष्टैः किमु एभिः शब्दविशेषैः सन्देह आपादित इत्यत्र दृष्टिः प्रवणीभवति॥

नावनीतकदृढल्लाणादिलेखतः कौमारभृत्यभिषजो जीवकनाम्न उपलम्भेन, महावग्गादिबौद्धग्रन्थेषु कौमारभृत्यशब्देन विशेषितस्य प्रसिद्धवैद्यस्य जीवकाभिधानस्येतिवृत्तलाभेन च उभयोर्वैद्यकवैदुष्यं, नामसाम्यं, कौमारभृत्यशब्दोल्लेखं च सामान्यत उपादाय बौद्धग्रन्थोक्तो जीवक एव कौमारभृत्याचार्यो जीवक इति केषाञ्चिद्विदुषां मतं दृश्यते। यावदिदं वृद्धजीवकीयं तन्त्रं नोपलब्धमासीत्तावत् कौमारभृत्यभिषजोवृद्धजीवकस्य परिच्छेदकानां साधनानाममितोऽनुपलब्धिः, बौद्धग्रन्थेषु बहुशो जीवकस्य सिद्धिश्चेति दग्धाश्वरथन्यायदृशा उभयोरैक्यमभिमनुं समुचितमेवासीत्, एतत्तातकर्तुर्जीवकस्य बौद्धग्रन्थनिर्दिष्टस्य जीवकस्य च तादात्म्ये एतत्तन्त्राचार्यो वृद्धजीवको बुद्धसामयिक इति निश्चयतया पूर्वोपदर्शितानाममुत्सर्पिण्यादिशब्दानामनुवेधस्यापि समन्वयेन संशयोत्पत्तिस्थानं न दृश्यते च। परमिदानीमेतदीयस्यैतत्तन्त्रस्योपलब्ध्या ततो बहुभिरंशैर्वृद्धजीवकीयपरिचयविशेषस्यावगमे पूर्वोक्तदिशा पितृभेदः, देशविभेदः, गुरुविभेदः, सविशेषणनिर्विशेषणनामभेदः, धार्मिकपथविभेदश्चैवमादयो बहवो विसंवादा उपलभ्यन्ते। बौद्धग्रन्थोक्तजीवकस्य कौमारभृत्यत्वे कुमारेण पालितत्वं निदानतया महावग्गे उल्लिख्यते, न तु कौमारभृत्यप्रस्थानाचार्यत्वम्। तथा प्रसिद्धस्य महावैद्यस्य कौमारभृत्यविद्याऽपि चेतसि चकास्तु नाम, किन्तु बहुषु बौद्धग्रन्थेषु तदीयेतिवृत्तानां चिकित्सनादीनां च सविस्तरसुपवर्णने सत्यपि किमिति नाम कौमारभृत्यवित्त्वं तद्विषयकैतादृशप्रौढतन्त्रस्य निर्मातृत्वं च लेशतोऽपि न सूचितं स्यात्। एतत्तन्त्रस्यान्तरङ्गदृशा विचारणेऽपि विसंवादकमेवोपलभ्यते। तूङ्ग्हाङ्गतहार्नलोपलब्धप्राचीनग्रन्थलेखतो बुद्धेन स्वसामयिकजीवकाय भेषज्यविषयस्य उपदेशनं दृश्यते। स एवायं वृद्धजीवको यद्यभविष्यत्तदा तन्त्राभ्यन्तरे तत्र तत्र धन्वन्तर्यादीनामिव बाल्हिकभिषजः काङ्कायनस्य वैदेशिकम्लेच्छभिषगादीनामपि नामानि भेषज्यविषयविशेषांश्चानुदर्शयन्नसौ स्वोपदेशकं भगवन्तं बुद्धं, तदीयोपदेशलब्धौषधविशेषान्, प्रसङ्गतस्तदीयाध्यात्मिकविषयं वा कथं लेशतोऽपि नासूचयिष्यत्। न चात्र बौद्धी च्छाया लेशतोऽप्युपलभ्यते। महावग्गादिलेखतस्तदीयजीवकस्य

उपोद्घातः ३९

शल्यतन्त्रेऽपि विशेषणनिष्णातत्वं कृतहस्तत्वं च प्रतीयते। अस्मिंस्तन्त्रे तु शल्यतन्त्रीयविषयस्य परतन्त्रीयत्वेन तटस्थतया निर्देशोऽस्ति। तदेवं बौद्धग्रन्थोक्तान्मागाधादभयपुत्राद् भुजिष्यागर्भसम्भवाज्जीवकाद्विभिन्नः प्राचीनः कनखलप्रान्तीय ऋचीकपुत्रः कश्यपशिष्यो महर्षिभिरादृतः कौमारभृत्याचार्य एतत्तन्त्रकर्ता वृद्धजीवको दृश्यत इत्यलम्।


प्रसङ्गस्मृतानि आचार्यान्तराणि

तदेवं कश्यपेनोपदिष्टाम् प्राथमिकीं संहितां महानिबन्धस्वरूपामधिगत्य वृद्धजीवकस्तदीयं विस्तृतांशं संक्षिप्य संक्षिप्तरूपान्तरं व्यदधात्, तदेव समयान्तरेण वात्स्यः प्रतिसंस्कृत्य प्रकाशयामासेति संहिताकल्पाध्यायनिर्देशेन यथाऽऽत्रेयेण प्रथमोपदिष्टां संहितामन्तर्भाव्य अग्निवेशस्तन्त्ररूपतामानिनाय, तदेव तन्त्रं चरकेण पुनः संस्कृत्य वर्तमानरूपेण प्रकाशितं; यथा वा दिवोदासरूपेण धन्वन्तरिणा प्रथमोपदिष्टां संहितामन्तर्भाव्य सुश्रुतः संहितारूपेण निबबन्ध, तामेव नागार्जुनत्वेन संभावितोऽन्यो वा कश्चन प्रतिसंस्कर्ता संस्कृत्य वर्तमानरूपेण प्रकाशयामास; तथैव कश्यपेनोपदिष्टा मूलभूता महासंहिता वृद्धजीवकेन संक्षिप्य तन्त्ररूपतामवापिता समयान्तरेण वात्स्येन प्रतिसंस्कृत्य प्रकाशिता वर्तमानरूपेणास्मद्दृष्टिपथमुपगतेतीदानीं मूलसंहितानां तद्रूपान्तरभूततन्त्राणां च पृथगनुपलम्भेनोपलभ्यमानग्रन्थात्मना वर्तमाना चरकसंहितैवाग्निवेशतन्त्रमात्रेयसंहिता च, वर्तमाना प्रतिसंस्कृतसुश्रुतसंहितैव मूलसुश्रुतसंहिता धन्वन्तरिसंहिता च, वर्तमाना वात्स्यसंस्कृतसंहितैव वृद्धजीवकीयतन्त्रं मूलकाश्यपसंहिता च भवन्ती एकाऽपि ग्रन्थत्रयात्मनाऽस्माकं पुरो भवति। उपलभ्यमानेष्वेषु प्राचीनग्रन्थेषु प्रतिसंस्कर्तॄणां चरकस्य नागार्जुनादेरनिश्चितस्य वात्स्यस्य च कक्षा तृतीया, तत उपरि तन्त्रकर्तॄणामग्निवेशस्य सुश्रुतस्य वृद्धजीवकस्य च कक्षा द्वितीया, ततोऽप्युपरि मूलसंहिताकर्तॄणामात्रेयस्य दिवोदासरूपतामापन्नस्य धन्वन्तरेर्मरीचिकश्यपस्य च कक्षा प्रथमेत्यात्रेयधन्वन्तरिकश्यपा एषु प्रस्थानेषु प्राचीनतमा मूलाचार्याः॥

प्राचीनतमत्वेन दृष्टानानेषामात्रेयधन्वन्तरिकश्यपानांमूलाचार्याणां यथास्वं समयविशेषनिर्धारणस्य दुष्करत्वेऽपि किDataType... किंरूपमेषां पौर्वापर्यं, सहभावो वा कयोश्चित्, यैरात्रेयाग्निवेशचरक-धन्वन्तरिदिवोदाससुश्रुत-कश्यपवृद्धजीवकवात्स्यादिभिरन्यैरपि पूर्वाचार्यैरितद्विज्ञानं प्रतिष्ठामवापितं, तेषां कदोद्भवइति निश्चितं समयं प्रदर्शयितुं न कोऽपि धारावाहिक ऐतिहासिकलेखोऽस्माकमवलम्बनायेति तत्परिच्छेदाय प्रवर्त्तनं दुःसाहसमिव। तथाऽपि कियन्तमवधिं यावदेते उपर्यरूढुं प्रभवन्ति, कियतो वाऽवधेरधोऽवतरितुमृते प्रतिरुध्यन्ते, तथाविधविचारसाधनानां केषाञ्चिदुपलम्भेनापि कश्चनास्फुटोऽपि समयोऽवगम्येत; येनैषामेकस्यापरेण साकं स्वीयसमविषयरङ्गभूमाववतीर्णानां पर्यालोचने कश्यपस्य जीवकस्य वात्स्यस्यापिसमयावधारणे कोऽप्यालोकः प्रदीयेतेति तत्र तत्र विवेचकानां विदुषामभिप्रायैः सह स्वस्य हृदये प्रतिभातमपि निदर्शयितु किमपीहोपन्यस्यते—

धन्वन्तरिदिवोदासश्च

सुश्रुतसंहितायां धन्वन्तरिरूपेण काशिराजेन दिवोदासेन सुश्रुतस्योपदेशनं निर्दिष्टमस्ति। धन्वन्तरेर्दिवोदासस्य परिचयाय पर्यालोचने वेदेषु वैद्याचार्यस्य धन्वन्तरेरुल्लेखो न दृश्यते। ऋङ्मन्त्रेषु यत्र वैद्यकविषया दृश्यन्ते तत्र विशेषतोदेवभिषजोरश्विनोरेव भिषग्भावेनोपवर्णनं लभ्यते। ऋग्वेद प्रथममण्डलादिषु बहुषु स्थानेषु दिवोदासनाम्नो नृपस्योल्लेखोऽस्ति। वैदिके तदुपवर्णने ‘अतिथिग्वः शम्बरशत्रुः सुदासपिता' इत्यादयो विशेषाः शौर्यवीर्यकर्माणि चोपलभ्यन्ते। काठकसंहितायामपि, मन्त्रभागे ब्रध्नश्चदिवोदासस्योल्लेखोऽस्ति। अस्य वैदिकदिवोदासस्य काश्या राजत्वं धन्वन्तरिणा सह सम्बन्धश्च न ततः प्रतीयते। तेनास्य ऋग्वेदोल्लिखितस्य काठकोल्लिखितस्य च दिवोदासस्य अतिप्राचीनः कालः, न वाऽयं वैद्याचार्यः॥


४ का.सं.

४०काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

पौराणिकेतहासेष्वप्यनेके दिवोदासनामान उपलभ्यन्ते । तेषु ^१हरिवंशे २९ अध्याये काशस्य वंशे धन्वन्तरेर्दिवोदासस्य च काशिराजत्वेनोपलम्भोऽस्ति । तद्वंशानुक्रमश्चेत्थम्—

$$\begin{gathered} \text{काशः} \ | \ \text{दीर्घतपाः} \ | \ \text{धन्वः} \ | \ \text{धन्वन्तरिः} \ | \ \text{केतुमान्} \ | \ \text{भीमरथः (भीमसेनः)} \ | \ \text{दिवोदासः} \ | \ \text{प्रतर्दनः} \ | \ \text{वत्सः} \ | \ \text{अलर्कः} \end{gathered}$$

अत्र काशपौत्रो धन्वनामा नृपः समुद्रमथनोत्पन्नस्याब्जनाम्नोदेवस्याराधनेन धन्वन्तरिनामानमब्जावताररूपं पुत्रमवाप । स धन्वन्तरिर्भरद्वाजादायुर्वेदविद्योपदेशमादाय तद्विज्ञानमष्टधा व्यस्य शिष्येभ्य उपादिशत् । अस्य प्रपौत्रो दिवोदासो वारणं^२सीं नगरीं निवेशयामास । दिवोदासस्य पुत्रः प्रतर्दनोऽभवत् । दिवोदाससमये शून्यां वाराणसीं प्रतर्दनस्य पौत्रोऽलर्को नाम काशिराजः पुनर्निवेशयामासेति हरिवंशलेखादवगम्यते । हरिवंशलेखे शून्याया वाराणस्या दिवोदासेन स्थापनस्योल्लेखेन वाराणस्यास्ततः पूर्वमपि सत्त्वागमेऽपि महाभा^३रतानुशासनपर्वलेखाद्दिवोदासेनैव वाराणस्या निर्माणमवगम्यते ।।

महाभारतेऽपि चतुर्षु स्था^४नेषु दिवोदासस्य नामास्ति । महाभारतलेखादपि दिवोदासस्य ^५काशीपतित्वं, वाराणसीप्रतिष्ठापकत्वं, हैहयेभ्यः पराजये भरद्वाजशरणगमनं, तद्विहितपुत्रेष्ट्या प्रतर्दननामकवीरपुत्रोत्पादनमित्यादय एतत्संवादिनएव विषया दृश्यन्ते । तत्र दिवोदासस्य पूर्वपुरुषेषु अन्तरान्तरागतानि व्यक्त्यन्तराणि अन्तर्निधाय प्रसिद्धतया दृष्टानां हर्यश्वादीनामेव नामोल्लेखः प्रतीयते । अग्निपुराणे (अ. २७८) गरुडपुराणेऽपि (अ. १३९, श्लो. ८-११) वैद्यस्य धन्वन्तरेर्वंशे चतुर्थो दिवोदासः कीर्तितोऽस्ति ।।


१. हरिवंशस्य वाराणस्यां गोविन्दचन्द्रविजयराज्ये १२०१ संवत्सरे लिखितं प्राचीनं ताडपत्रपुस्तकमस्मत्संग्रहालयेऽस्ति, तदीयपाठसंवादेऽप्ययमेव वंशानुक्रम आयाति ।
२. तेन वारणरनामकः कश्चन वाराणसीं निर्ममे इति प्रवादो निर्मूलः । (हिन्दीविश्वकोशे काशी-शब्दे)
३. सौदेवस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत । दिवोदासस्तु विज्ञाय वीर्यं तेषां यतात्मनाम् ।। वाराणसीं महातेजा निर्ममे शक्रशासनात् । अनुशासन अ. २९ ।
४. उद्योगपर्वणि अ. ११७, अनुशासनिके दानधर्मप्रकरणे अ. २९, राजधर्मप्रकरणे अ. ९६, आदिपर्वणि च ।
५. महाबलो महावीर्यः काशीनामीश्वरः प्रभुः । दिवोदास इति ख्यातो भौमसेनिनराधिपः ।। (उद्योगे अ. ११७)

उपोद्घातः | ४१

म$^१$हाभारते समुद्रमथनोपाख्याने धन्वन्तरेर्देवस्याविर्भावोल्लेखाऽस्ति। पुराणादिष्वपि धन्वन्तरेर्निर्देश उपलभ्यते। आ$^२$ग्नेयपुराणे समुद्रादुत्पन्नस्य धन्वन्तरेरायुर्वेदप्रदर्शकत्वेनापि निर्देशोऽस्ति। परं वेदे धन्वन्तरेरुल्लेखानुपलम्भेन, हरिवंशे समुद्रमथनादाविर्भूतस्याब्जदेवस्य धन्वन्नृपपुत्रतयाऽवतरणे यौगिकेन धन्वन्तरिनाम्ना व्यवहारस्य दर्शनेन चोभयोः सङ्गमनेऽब्जस्यैव धन्वन्तरिभावेन द्वयोरभेदमनुसन्धाय समुद्रादुत्पत्तेः प्रसङ्गे देवस्याब्जस्यापि भाविना धन्वन्तरिनाम्ना क्वचन व्यवहारः कृतः किमु इति प्रतिभाति। येन वैद्याचार्यस्य दिवोदासपूर्वपुरुषस्य धन्वन्तरेरब्जदेवरूपतया लौकिकैस्तार्किकैश्च देवभावेन व्यवहारणमपि युज्यते॥

अस्मिन्दिवोदासे भरद्वाजसम्बन्धस्य, वाराणसीनिवेशवस्य, पुत्रस्य प्रतर्दननाम्नश्च संवादेन हरिवंशोक्तस्य भारतोक्तस्य चैक्यमवगन्तुं शक्यते। कौषीतकि (साङ्ख्यायन) $^३$ब्राह्मणे कौषीतकिब्रा$^४$ह्मणोपनिषद्वपि दैवोदासः प्रतर्दन इति शब्दानिर्देशेन दिवोदासपुत्रस्य प्रतर्दनस्य ब्रह्मविद्यालब्धेराख्यायिका दृश्यते। काठकसंहिता$^५$यामपि ब्राह्मणांशे आरुणिसमकालिकस्य भैमसनेर्दिवोदासस्योल्लेख उपलभ्यते॥

एवं दर्शनेन काशनृपतिसन्ततिरूपाः सर्वेऽप्यमी काशनृपेण प्रतिष्ठापिततया किल काशिनाम्ना प्रसिद्धस्य देशस्य नृपतितया काशिराजशब्देन कीर्तिताः, धन्वन्नृपस्य पुत्रतया तदात्मजस्य धन्वन्तरिनाम्ना व्यवहारः, आत्रेयादीनामिव पूर्वाचार्यार्द्धरद्वाजादेव धन्वन्तरेरपि आयुर्वेदविद्यालाभो हरिवंशलेखात्प्रतीयते। महाभारतहरिवंशादिलेखे धन्वन्तरेः प्रपौत्रस्य दिवोदासस्य काशिराजस्य वैद्यविद्याचार्यत्वाकीर्त्तनेऽपि सुश्रुते काशीराजस्य दिवोदासस्य सुश्रुताद्युपदेष्टृत्वोल्लेखसंवादेन च वैद्याचार्यस्य धन्वन्तरेः सन्कृष्टचतुर्थसन्ततित्वेन पूर्वपुरुषविद्यासमादरणेन दिवोदासस्यापि वैद्यविद्याचार्यभावः सुसङ्गत एव। धन्वन्तरेः सन्कृष्टसन्ततित्वेन, तदीयसंप्रदायप्रकाशकत्वेन धन्वन्तरिस्थानापन्नतया धन्वन्तरेरवताररूपत्वेन संमान्य सुश्रुतसंहितायां “धन्वन्तरिं दिवोदासं सुश्रुतप्रभृतय ऊचुः” (सू. अ. १) इति द्वयोरौपचारिकॊऽभेदव्यवहारो न खल्वनुचितः। आयुर्वेदाचार्यत्वेनावगतस्य धन्वन्तरेः प्रपौत्रो दिवोदासः, सुश्रुते चायुर्वेदोपदेष्टा धन्वन्वर्त्यवतारूपो दिवोदास इत्युभयोः सङ्गमनेन धन्वन्तरेरायुर्वेदीयसम्प्रदायः शिष्यपरम्परायामिव स्वसन्ततौ दिवोदासेऽपि अनुवृत्तः स्पष्टं प्रतीयते। मत्सकाशस्थताड$^६$पत्रये सुश्रुतसंहितापुस्तके सर्वादौ 'इत्युवाच भगवान् धन्वन्तरिः' इति वाक्यं नास्ति। धन्वन्तरिदिवोदाससकाशे सुश्रुतादीनामुपगमोल्लेखात् पूर्वं तादृशवाक्यस्य सत्त्वमपि नोचितं दृश्यते॥

पूर्वोद्दिष्टे हरिवंशलेखे कलियुगे दिवोदासेन वाराणस्याः प्रतिष्ठापनोक्त्या धन्वन्तरेस्तत्प्रपौत्रस्य दिवोदासस्य च समयः कलियुगीनः प्रतीयते। कतमश्च सः कलियुगसमय इति ततः परिच्छेतुं न शक्यते॥

काशीयुवराजस्य ब्रह्मदत्तस्य तक्षशिलायामायुर्वेदाध्ययनायोपगमनं जातकग्रन्थे, काशिराजपदमधितिष्ठता ब्रह्मदत्तेन सह जीवकस्य समागमवृत्तं महावग्गे उपलभ्यते। महावग्गे काशीशब्दोष्यस्ति, परं वाराणसीशब्दो बाहुल्येन प्रयुज्यते। बुद्धेनापि वाराणसीशब्दिते प्रदेशे धर्मचक्रस्य प्रवर्तनमुल्लिख्यते। जातकग्रन्थेष्वपि बहुशो वाराणसीशब्दः समायाति। पाणिनिना देशवाचकः काशीशब्दः सूत्रे$^७$ स्पष्टं निर्दिष्टः। नगरवाचको वाराणसीशब्दो नद्या$^८$दिगणे प्रवेशितो दृश्यते।


१. धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत। श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति॥ (आदिपर्वणि अ. १६)
२. ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रदर्शकः। बिभ्रत्कमण्डलुं पूर्णममृतेन समुत्थितः॥ (अग्निपुराणे ३ अ.)
३. अथ ह स्माह दैवोदासः प्रतर्दनो नैमिषीयाणां सत्रमुपगम्योपास्य ..... विचिकित्सां पप्रच्छ। (कौषीतकिब्राह्मणे २६-५)
४. प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोप जगाम। (कौषीतक्युपनिषदि ३-१)
५. दिवोदासो भैमसेनिरारुणिमुवाच (काठकसंहिता ७-१-८)।
६. अस्मिन् पुस्तके बहवः पाठभेदा दृश्यन्ते। तत्संहितान्ते सौश्रुतो निघण्टुरप्यस्ति। एतत् पुस्तकपाठसंवादेन सह सुश्रुतसंहितायाः संस्करणान्तरमिदानीं श्रीमदाप्ततमयादवजीमहाभागैः प्रकाश्यते॥
७. काश्यादिभ्यष्ठञ्जिठौ ४/२/११६।
८. नद्यादिभ्यो ढक् ४/२/९७ वाराणसेयः।

४२ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

भाष्यकृताऽपि वाराणसेय इत्युदाहरणं बहुशः प्रदत्तमस्ति। जाबालोपनिषदादिषु वाराणसीशब्दस्याप्युपलम्भेऽपि ब्राह्मणग्रन्थेषु प्राचीनोपनिषत्सु काशीशब्दस्योपलम्भसत्त्वेऽपि, वाराणसीशब्दस्यानुपलम्भेन देशविशेषवाचकः काशीशब्दः पुराकालात् प्रचलितः, नगरीविशेषवाचको वाराणसीशब्दस्तु प्राचीनोपनिषत्समयादनन्तरमेव प्रसिद्धिमुपगत इत्युपगम्यते। पुराणादिषु काशीवाराणसीशब्दावुभावेवोपलभ्येते। इतिहासपर्यालोचने बुद्धसमयादनु कदाचित्कोशलनृपतिभिः, कदाचिन्मागधैः शिशुनागैः, तदनु मौर्यशुङ्गगुप्तनृपतिभिः, हर्षवर्धनेनापि वाराणस्या विजयस्येतिहासा उपलभ्यन्ते। तत्तदीयनृपाणामितिवृत्तानुसन्धाने धन्वन्तरिदिवोदासप्रतर्दनानां नामान्यर्वाक्समये नोपलभ्यन्ते। प्रत्युत वार्तिककृतो ‘दिवश्च दासे’ इति दिवोदाससाधनस्य महाभाष्यकृतो ‘दिवोदासाय ^१गायते’ इति निदर्शनस्य दर्शनेन, कौषीतकिब्राह्मणे तदुपनिषदि ऋक्सर्वानुक्रम^२सूत्रेऽपि दैवोदासः प्रतर्दनस्य, काठकसंहिताया ब्राह्मणभागवाक्ये भौमसेनेर्दिवोदासस्योल्लेखेन, एतत्संवादिनोः महाभारतहरिवंशयोः वैद्यविद्याचार्यधन्वन्तरिप्रपौत्रस्य वाराणसीनिवेशकस्य प्रतर्दनपितुरलर्कप्रपितामहस्य दिवोदासस्य कलियुगीनस्योपलम्भेन च दिवोदासस्य समयः कलियुगे ऐतरेयब्राह्मणकाले काठकब्राह्मणस्य कौषीतकिब्राह्मणस्य तदुपनिषदश्च समयेन सन्निकृष्टः किञ्चित्पूर्वतनो वा इत्यायाति॥

कौषीतकिब्राह्मणस्य समयविचारे श्वेतकेतोरारुणेर्नाम्नः कथान्तराणां च संवादेन कौषीतक्युपनिषदो बृहदारण्यकस्य च समः समय इति पाश्चात्यविदुषा वेबरम^३हाशयेन निर्दिष्टमस्ति। श्रीयुत विन्ट^४रनिजविदुषोऽप्यत्र समान एवाभिप्रायः। तेन कौषीतकिब्राह्मणमैतरेयब्राह्मणात् पश्चात्तनमङ्गीक्रियते। श्रीयुत चिन्तामणिवैद्य^५महाशयस्तु ऐतरेयब्राह्मणे (७-११) कौषीतकिब्राह्मणवाक्योद्धारो दृश्यते, वेबरमहोदयेन विनैव साधनं तस्य तत्र प्रक्षिप्तत्वमुच्यते; तेनैतरेयब्राह्मणात् पूर्वतनं कौषीतकिब्राह्मणं B C. 2500 सामयिकमिति साधयति। एस. बी. दीक्षितम^६हाशयो ज्यौतिषगणनाधारेण B. C. 2900-1850 एतदन्तरालं समयं कौषीतकिब्राह्मणस्य दर्शयति। कौषीतकिब्राह्मणस्य (१७-४) यास्कनिरुक्ते (१-९) उपादानात्, त्रिंशदध्यायात्मकस्य कौषीतकिब्राह्मणस्य “त्रिंशच्चत्वारिंशतो ब्राह्मणे संज्ञायां डण्” (५-१-६२) इति सूत्रे कौषीतकिपूर्वपुरुषस्य कुषीतकस्य “विकर्णकुषीतकात् काश्यपे” (४-१-१२४) इति सूत्रे पाणिनिना ग्रहणाच्च कौषीतकिब्राह्मणं पाणिनेर्यास्कादपि प्राचीनमिति श्रीयुतकीथ^७महाशयोऽपि वदति। पाणिनेः समयविचारे मञ्जुश्रीमूलकल्पाधारेण लिखिते इतिहासे जा^८यसवालमहोदयः B. C. 366-338 पाणिनेः समय इति, अन्ये केचन B. C. 400 इति वदन्ति। परं पाणिनीये वेदवेदाङ्गसंप्रदायप्रवर्तकर्षिदेशनगरग्रामनदनदीप्रभृत्युल्लेखसम्भृते गौतमबुद्धमहावीरसंप्रदायसम्बन्धिन एकस्यापि विषयस्यालाभेन श्रीयुतबुद्धमहावीराभ्यां प्राक् (B. C. 700-800) पाणिनिसमय इति बहून् समयानेतद्विषये निमज्य विचारं प्रकटीकुर्वतो गोल्डस्टूक^९रमहोदयस्य सिद्धान्तः। श्रीयुतबेल^१०वल्करमहाशयस्य श्रीयुतभा^११ण्डारकरमहाशय-स्याप्येवंप्रायोऽभिप्रायः। श्रीयुतचिन्ता^१२मणिविनायकैः B. C. 900 समयो निर्दिष्टोऽस्ति। एवं विभिन्नमतानां दर्शनेऽपि


१. 'गायति' इति काशिका।
२. प्रसेनानीश्रुतविंशतिर्दैवोदासः प्रतर्दनः। (कात्यायनीयऋक्सर्वानुक्रमण्यां सू. ५२)।
३. History of Indian Literature by Weber P. 52.
४. History of Indian Literature by Winternitz.
५. History of Sanskrit Literature C. V. Vaidya.
६. History of Indian Astronomy S. B. Dikshit.
७. Rigveda Brahmanas Translated by Keith P. 42.
८. An Imperial History of India, by K. P. Jayaswal P. 15.
९. Panini his Place in Sanskrit Literature by Goldstucker.
१०. Systems of Sanskrit Grammar, by S. K. Belvalkar.
११. History of the Deccan by Bhandarkar.
१२. History of Sanskrit Literature Vedic period by C. V. Vaidya p. 129.

उपोद्घातः | ४३


पाणिनिना ततोऽपि पूर्वतनेन यास्केन च गृह्यमाणं ततोऽपि पूर्वतनं कौषीतकिब्राह्मणं बहुपूर्वसमयकत्वेन प्रतिभासमानमप्यन्ततो गत्वा बुद्धसमयार्वाचीनमिति सर्वैषामैकमत्यमेव । एवमैतरेयकौषीतकिब्राह्मणयोरन्तरालिकोऽयं दिवोदास उपनिषत्कालिकोऽवगम्यमानः स्वप्रपितामहं धन्वन्तरिं स्वस्मादपि प्राक्तनं निश्चाययति ॥

मिलिन्दपह्नोनामके $^१$पालीग्रन्थे B. C. द्वितीयशताब्दीगतं मिलिन्दं (Menander King of Bactria) प्रति नागसेनेनस्योक्तौ ‘‘चिकित्सकानां पूर्वका आचार्याः’’ इत्युपक्रम्य कीर्तितेष्वाचार्येषु धन्वन्तरेरप्युपादानमस्ति । तत्र रोगोत्पत्तिनिदानस्वभावसमुत्थानचिकित्साक्रियादिवेत्राचार्यरूपेणोपादानात्, चिकित्सकानां पूर्वकाचार्या इति नागसेनेन स्वस्मात् पूर्ववर्त्याचार्यरूपेण चिकित्सकाचार्यभावेन तस्य निर्देशनाच्च एतन्निर्दिष्टोधन्वन्तरिः महाभारतादिषु आयुर्वेदीयग्रन्थेष्वपि लभ्यमानः सुश्रुतसंहितायामाचार्यभावेन दृष्टो यः प्राचीनोधन्वन्तरिः स एवायमिति स्पष्टमवबुध्यते । किंवा अत्र कपिलनारदादिभिः सहोपादानेन धन्वन्तरिशब्दो मूलधन्वन्तरिमभिप्रैति । किञ्च B. C. द्वितीयतृतीयशताब्दीनिर्मितयोर्भरुचसाचीस्तूपयोः शिलाचित्रलेखानां संवादेन, भरुचस्तूपे जातकानां नामतोऽप्युल्लेखेन च पालीजातकग्रन्थानां तदात्वेऽपि सत्त्वं प्रसिद्धिश्च सिद्ध्यति । B. C. चतुर्थशताब्द्यां वैशाल्यामुपजातायां बौद्धमहासभायामपि तेषां जातकग्रन्थानां प्रसिद्धिरासीदिति मेकडोनलादयः पाश्चात्यविद्वद्वरा अपि वदन्ति । ग्रन्थप्रसिद्धेरव्यवेभावे ग्रन्थस्य ततः प्राक्तनत्वं तु सुतरामेव । तत्र अयोधरनाम्नि $^२$पालीजातके बुद्धस्यैकस्मिन् पूर्वजन्मनि राजपुत्रावस्थायां धर्मचर्य्यायै राज्ञोऽनुज्ञालब्धये धन्वन्तरिवैतरणभोजाख्यांश्चिकित्सकान्नामग्राहं गृहीत्वा ओषधिभिर्विषापहरणेन च लोकोपकारिणो धन्वन्तरिसदृशा विद्वांसोऽपि मृत्युमुखं प्रविष्टा इति मृत्योर्महिमानमुल्लिख्य दर्शितो धर्मानुरागस्तत्कथायां प्रदर्श्यते । तत्कथोल्लेखेन बुद्धस्य पूर्वजन्मावस्थायामपि धन्वन्तरिवैतरणभोजानामस्माल्लोकादप्यतीतत्वम्, इदमपि कतमस्मिन् पूर्वजन्मनीति बहुपूर्वत्वं ततो ज्ञायते । आर्यसूरीयजात$^३$कमालायामपि अयोगृहजाके व्याधिनाशकवैद्यवर्या धन्वन्तरिप्रभृतयोऽपि विनाशं गता इति धन्वन्वर्यादीनामतीतभावेन ससंमानं निर्देशोऽस्ति । आर्यसूरीयलेखेधन्वन्तरेरेव नाम गृहीतम्, अन्ये त्वाचार्याः प्रभृतिशब्देनैव गृहीताः । पालीलेखे तु धन्वन्तरिनाम्ना सह वैतरणभोजयोरपि चिकित्सकत्वेनोपादानमस्ति । सुश्रुतसंहितायां प्रारम्भवाक्ये धन्वन्तरिरूपदिवोदाससकाशाद्विद्यालब्धये समुपेतानामन्तेवासिनामुल्लेखे वैतरणस्यापि निर्देशोऽस्ति । तत्रसुश्रुतप्रभृतय ऊचुरिति प्रभृतिपदेन भोजादीनां ग्रहणमिति डल्हनाचार्येण व्याख्यातमस्ति । मत्सकाशस्थे प्राचीने सुश्रुतस्य ताडपुस्तके तु ‘औषधेनववैतरणौरभ्रपौष्कलावतकरवीयगोपुररक्षितभोजसुश्रुतप्रभृतय ऊचुः’ इति मूले एव वैतरणस्येव भोजस्यापि स्पष्टमुल्लेखोऽस्ति । अस्मिन् पालीजातकलेखे दिवोदासान्तेवासिनोवतरणभोजयोः साहचर्येण तदुपात्तो धन्वन्तरिर्न मूलाचार्यः, अपितु धन्वन्तर्य्यवताररूपतया धन्वन्तरिशब्देन सुश्रुतसंहितायां व्यवहृतस्तद्वंशीयो दिवोदासः प्रतीयते । अत्र सुश्रुतादीनामन्येषामनुल्लेखेऽपि उपनिषत्काले दिवोदासस्योपलम्भेन, सुश्रुतसंहितायां दिवोदासस्य धन्वन्तरिरूपतया व्यवहारणाद्दिवोदासात्मकस्य धन्वन्तरेरन्तेवासिनोर्वैतरणभोजयोः सुश्रुतसंहितोक्तयोः संवादेन, जातके निर्दिष्टस्य विषप्रतीकारविषयस्य सुश्रुतसंहितायां कल्पस्थाने संवादेन च भोजवैतरणाभ्यां सह निर्दिष्टानां सुश्रुतादीनामपि समानकालिकमन्तेवासित्वं सुश्रुतोक्तं संवदति । आग्नेयपुराणलेखतः सुश्रुतस्यापि आयुर्वेदविद्याग्रहणे धन्वन्तर्य्यन्तेवासित्वं स्थिरीभवति च । तदेवं दिवोदासरूपमवाप्तस्य धन्वन्तरेर्बौद्धजातकग्रन्थेष्वोऽप्यतिप्राचीनत्वेनोपलम्भात्तत्पूर्वपुरुषस्य मूलधन्वन्तरेस्ततोऽपि प्राग्भावः सुतरामेव ॥


१. भन्ते नागसेन, ये ते अहेसुं टिकिच्छकानां पुव्वका आचारिया, नारदो, धम्मन्तरि, अङ्गिरसो, कपिलो, कण्डरग्गिसामो, अनुलो, पुव्वकच्चायनो, सव्वे ये ते आचारिया स किं येव रोगुप्पत्तिं च निदानं च सभावे च समुत्थानं च टिकिच्छां च किरिया च सिद्धासिद्धां च सव्वान् तं निरवसेसं जानित्वा इमस्मिन् काये एतका रोगा उपज्‍जिसन्तीति एकापहारेन कलापग्गाहां कारित्वा सुत्तं बन्धिसुअसव्वनुतो एते सव्वे । (मिलिन्दपन्हो Pali Text Ed by Trenckner P. 272).
२. आसीविसा कुपिता यं दसन्ति टिकिच्छका तीसं विसं दसन्ति ।
नमञ्झनो दट्ठविसं हनन्ति तं मे मति होति चरामि धम्मम् । धम्मन्तरि वैतरणि च भोजो विसानि हत्वा च भुजङ्गमानम् ।
सूयन्ति ते कालकता तयेव (अयोधरजातके)
३. हत्वा विषाणि च तपोबलसिद्धमन्त्रा व्याधीतृणामुपशम्य च वैद्यवर्याः ।
धन्वन्तरिप्रभृतयोऽपि गता विनाशं धर्माय मे नमति (भवति) तेन मतिर्वनान्ते ॥ (आर्यसूरिये जातके)

४४काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

धन्वन्तरिक्षपणकामरसिंहेत्यादिशलोकोक्तो विक्रमीयनवरत्नेष्वन्यतमो धन्वन्तरिरेव प्रसिद्धवैद्याचार्य इत्यपि कस्यचिन्मतमस्ति । परं पूर्वोक्तदिशा प्राचीनस्य वैद्याचार्यधन्वन्तरेरुपलम्भेन धन्वन्तरिनामसाम्यं तद्भ्रान्तयेऽजायत । नवरत्नेषु गणितो धन्वन्तरिः कविः, नास्य वैद्याचार्यत्वं कुतोऽप्यायाति ॥

काश्यपसंहितायां शिष्योपक्रमणीयाध्याये (पृ. ५७) सौम्यदेवतानिर्देशेप्रजापतीन्द्राणां, स्वीयतन्त्रपूर्वाचार्यस्य कश्यपस्येव, अग्न्यादीननुल्लिख्य प्रस्थानान्तराचार्यस्य धन्वन्तरेरपि स्वाहाकारविधानेन धन्वन्तरेरुपादानं समादरोपलभ्यते । दिवोदासस्य सुश्रुतस्य धन्वन्तर्य्यनुयायिनोऽपि नात्रोल्लेखाऽस्ति । तेन द्विव्रणीये परतन्त्रस्य समयमिति (चि.अ.श्लो. ५) शल्यविषयस्य परतन्त्रीयत्वेनोपादानमपि धान्यन्तरं सम्प्रदायमुपस्थापयति । आत्रेयसंहितायाम् 'इति धन्व^१न्तरिः, धान्वन्तरं मतं, धान्वन्तराः' इति बहुशो धन्वन्तरेस्तत्सांप्रदायिकानां च पूर्वाचार्यत्वेन ससंमानं निर्देशनमस्ति, परं दिवोदासस्य सुश्रुतस्य च तत्रापि नाम स्पष्टं नोट्टङ्कितम् । सुश्रुतेऽपि आत्रेयस्य कश्यपस्यापि न नामोल्लेखाऽस्तीति मारीचिकश्यपात् पुनर्वसोरात्रेयाच्च धन्वन्तरेः पूर्वाचार्यत्वमवगम्यते । काश्यपीये धन्वन्तरिमात्राल्लेखः, आत्रेयीये तु धन्वन्तरिसाम्प्र दायिकानामप्युल्लेख इति धन्वन्तरिसम्प्रदायस्य बहुलीभावे सति आत्रेयपुनर्वसोरुदयः प्रतीयते । आत्रेयादपि धन्वन्तरेः पूर्वत्वे सति तदनुयायिन अग्निवेशाद्भेदाच्च धन्वन्तरेः पूर्वत्वं सुतरामेव । भेडसंहितायां चरकसंहितायामपि धान्वन्तरघृतादीनामूल्लेखोऽप्येतदेव स्पष्टयति । सुश्रुते शारीरस्थाने तृतीयाध्याये शौनककृतवीर्यपाराशर्यमार्कण्डेयसुभूतिगौतमानां प्राचीनतमानां पूर्वाचार्याणां निर्देशः । आत्रेयकाश्यपसंहितयोस्तु काङ्कायनादीनामपि पूर्वाचार्यत्वेन निर्देशोऽस्ति । डल्लनलेखाद्दिवोदासान्तेवासित^२या काङ्कायनस्याभ्युपगमः कस्यचिन्मतेन निर्दिष्टः । तथात्वे दिवोदासान्तेवासितया ज्ञातस्य काङ्कायनस्य आत्रेयसंहितायां काश्यपसंहितायामपि निर्देशेन आत्रेयकाश्यपाभ्यां दिवोदासस्य धन्वन्तरेश्च पूर्वत्वं प्रगुणीभवति ।

भरद्वाजाद्धन्वन्तरेरायुर्वेदविद्यालाभस्य, दिवोदासेनापि भरद्वाजस्याश्रयणस्य हरिवंशे उल्लेखेन त्रिपुरुषान्तरिताभ्यां धन्वन्तरिदिवोदासाभ्यां सह सम्बद्धो भरद्वाज एकैव व्यक्तिरुत तद्गोत्रीयं व्यक्तिद्वयमिति नावधार्यते । चरकसंहितायामपि उपक्रमग्रन्थे भरद्वाजादात्रेयस्यायुर्वेदविद्यालाभः, उत्तरत्र क्वचन भरद्वाजमतस्यात्रेयेण प्रतिक्षेपः, वातकलाकलीये ‘कुमारशिर’ इति विशेषितस्य भरद्वाजस्य निर्देशः, काश्यपसंहितायां रोगा ध्याये (पृ. ३९) कृष्णभारद्वाजस्य निर्देशश्चास्ति । तेनायुर्वेदविद्यायां नानाभरद्वाजानामाचार्यभावोऽवगम्यते । तदेवमेकेन तद्गोत्रगतविभिन्नव्यक्तिरूपेण वा भरद्वाजेन सह धन्वन्तरिमारीच-कश्यपात्रेयपुनर्वसुदिवोदासानां नातिविप्रकृष्टकालिकः सम्बन्धः प्रतीयते । आत्रेयपुनर्वसुना मारीचकश्यपेन च गृह्यमाणो धन्वन्तरिः धन्वन्तरिसन्ततित्वेन तन्नाम्ना व्यवह्रियमाणो दिवोदासोऽपि भवितुं संभवतीति धान्वन्तरमतरूपेण दिवोदासमतनिर्देश इत्यपि वक्तुं शक्यते, तथाऽपि कश्यपेन स्वाहाकारदेवतात्वेनापि धन्वन्तरेर्निर्देशादात्रेयकश्यपाभ्यामुभाभ्यां काशिराजत्वेन प्रसिद्धस्य दिवोदासस्य ग्राहकं काशीपतित्वदिवोदासत्वादिकं कमपि विशेषमनिर्द्दिश्य केवलं धन्वन्तरिशब्दमात्रेण तस्य निर्देशनात्, महाभारतादिलेखतो धन्वन्तरेरष्टप्रस्थानाचार्यत्वेन तदीयसंहिताया अपि पूर्वं सत्त्वावगमाच्च मूलधन्वन्तरिसंहितागतं विषयमेवाभिलक्ष्यात्रेयकश्यपाभ्यां धान्वन्तरमतमुपात्तं बहुशः सम्भवति । पूर्वोपदर्शितदृश्या दिवोदासनृपेण सह संगताय गालवाय केवलं मारीचकाश्यपीयाश्रमनिर्देशनस्य महाभारते उपलम्भेन दिवोदाससमये मारीचस्य कश्यपस्यातीतत्वं, किंवा तदाश्रमे मारीचस्य कश्यपस्यापि सत्त्वमासीदित्यपि वक्तुं शक्यते । तेन धन्वन्तरेः पश्चाद्दिवोदासात् पूर्वं, किंवा दिवोदाससमये मारीचः कश्यप आसीत् । चरककाश्यपसंहितयोरात्रेयेण मारीचिकश्यपस्य, मारीचकश्यपेनात्रेयपुनर्वसोरुल्लेखेन, आत्रेयसंहितायां वातकलाकलीये मारीचिकश्यपात्रेयपुनर्वसोः संवादरूपोल्लेखस्योपलम्भेन, उभयत्र शब्दान्तरेण विशेषितस्याविशेषितस्य च भरद्वाजस्योल्लेखेन च, एषामाचार्याणामनतिविप्रकृष्टः समयो ग्रन्थमर्यादयाऽऽयाति ॥


१. सर्व्वाङ्गिनिवृत्तिर्युगपदिति धन्वन्तरिः (सूत्र ६. १८), दाहे धान्वन्तरीयाणामत्रापि भिषजां मतम् (चिकित्सा. ५. ६४), इदं तु शल्यहर्तॄणां (चि. १३. १८२), ताः शल्यविद्भिः कुशलैश्चिकित्स्याः (चिकित्सा ६.५८) इत्यादि चरकसंहितायाम् ।
२. “अन्ये तु—औषधेनवादयोऽष्टौ, प्रभृतिग्रहणात् निमिकाङ्कायनगार्ग्यगालवाः, एवमेतान् द्वादश शिष्यानाहुः' इति सुश्रुतसंहिताटीकायां डल्लनः (पृ. २) ।

उपोद्घातः ४५

सुश्रुतः

सुश्रुतसंहिताया निर्माता सुश्रुताचार्यो विश्वामित्रपुत्र इति¹ सुश्रुतसंहितायामेवोक्तमस्ति । चक्रदत्तेनापि तट्टी² कायां तथैव निर्दिष्टमस्ति । महा³भारतेऽपि विश्वामित्रस्य पुत्रेषु सुश्रुतस्य नामोपलभ्यते । ऋग्वेदे तत्तन्मन्त्राणां द्रष्टा रामाय धनुर्विद्योपदेष्टा च विश्वामित्रो महर्षिरन्य एवं प्राचीनतरः स्यात् । सुश्रुतस्य औपनिषत्कालिकदिवोदासशिष्यत्वेनोल्लेखेन सुश्रुतसंहितायां कृष्ण⁴नामोपलम्भेन च दिवोदासवदौपनिषदे काले श्रीकृष्णोद्भवादुत्तरं जातस्य कश्यपात्रेयवद्धोत्रपरम्परागतस्य विश्वामित्रस्यात्मजोऽयं सुश्रुताचार्यः प्रतीयते । विश्वामित्रमुनिः स्वपुत्रं सुश्रुतं काशिराजधन्वन्तरि (दिवोदास) सकाशेऽध्ययनाय प्रैषयदिति भाव⁵प्रकाशेऽप्यस्ति । डल्लनव्याख्यायां विश्वामित्रनाम्नोद्धृतं वैद्यकविषयकं वचन⁶मपि लभ्यते । कोऽयं विश्वामित्र इति न सम्यक् परिचीयते ।

सुश्रुतसंहितायाः समयविचारे हैस (Haas) नामा पाश्चात्यविद्वान् सुश्रुतादयो द्वादशशताब्दीवर्तिन इति, श्रीयुत जोन्स विल्सनादयः (Jones, Wilson) नवमदशमशताब्दीवर्तिन इति, अन्येऽपि पञ्चमचतुर्थशताब्दीषु सुश्रुतस्य समय इत्यर्वागाकर्षणवचांसि जल्पन्ति ॥

‘‘⁷Sus'ruta seems to have lived not later than the fourth century A.D., as the Bower manuscript contains passages not only parallel but verbally agreeing with passages in the works of Caraka and Sus'ruta.’’

इत्थं म्याग्डोनल (Macdonell) महाशयो लिखति ॥

⁸In language and style, it (Sus'ruta) and the works resembling it with which I am acquainted manifestly exhibit a certain ffinity to the writings of Varaha Mihira इत्थं वेबर (Weber) महाशयोऽपि लिखति ॥

अ⁹न्ततो गत्वा हवर्ट गोवन (H. Gowen) नामको विद्वांस्तु सुश्रुतो नाम न कोऽपि बभूवेति बहवो जल्पन्ति । यदि कोऽपि स्यात्तदाऽपि साक्रेटिस एवेत्यपि मुक्तकण्ठं वदति ॥

तत्रैवमुपन्यस्यते—उपद्विसहस्रवर्षपूर्वतनस्य दार्शनिकस्यार्यनागा१०र्जुनस्य उपायहृदयं नाम दार्शनिकग्रन्थ उपलब्धः । भारते मूलसंस्कृतलेखानुपलम्भेऽपि पुरासमयाच्चीनभाषायां वर्तमानानुवादादस्मत्परममित्रेण श्रीयुततुच्चीमहाशयेन संस्कृतभाषायां


१. विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति । (सुश्रुतसंहिता उ. तं अ. ६६) ।
विश्वामित्रासुतं शिष्यमृषिं सुश्रुतमन्वशात् । (सुश्रुतसंहिता चि. अ. २) ।
२. अथ परमकारुणिको विश्वामित्रसुतः सुश्रुतः शल्यप्रधानमायुर्वेदतन्त्रं प्रणेतुमारब्धवान् (चक्रदत्ते) ।
३. आनुशासनिके पर्वणि ४ अध्याये ।
४. महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा वापि प्रशाम्यध्वं शिवाय वै ॥ (सुश्रुते चिकित्सास्थाने. अ. ३०)
५. अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन् । अयं धन्वन्तरिः साक्षात्काशिराजोऽयमुच्यते ॥
विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान् । वत्स वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम् ॥ (भावप्रकाशे)
६. ‘तथा चोक्तं विश्वामित्रेण—यावशूकस्य पानं तु कुलत्थक्षारवारिभिः’ (सु.टी. डल्हणः) ।
७. History of Sanskrit Literature by A. A. Macdonell p. 436.
८. History of Indian Literature by Weber p. 168.
९. By many Sus'ruta has been denied actual substance in the flesh, or has been identified with Socrates.
A History of Indian Literature. H. H. Gowen pp. 144-145.
१०. नागार्जुननामानोऽनेके विद्वांसः प्राक्तना उपलभ्यन्ते । नागार्जुनरचनारूपेणोपलब्धेषु कक्षपुट-योगशतक-तत्त्वप्रकाशिषु बहुषु ग्रन्थेषु कक्षपुटादिकौतुकग्रन्थानां प्रणेता सिद्धनागार्जुन इति विशेषनाम्ना व्यवह्रियते । वैद्यकविषये योगशतकं नाम प्राप्तप्रकाशमेव, यस्य तिब्बतभाषायामप्यनुवाद उपलभ्यते । नागार्जुनीय एवान्यः ‘‘चित्तानन्दपटीयसी’’ नाम

४६ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

प्रत्यनुद्घात्यत्वे यः प्रकाशितोऽस्ति, तस्मिन् ग्रन्थे पूर्वं तन्त्रान्तराणां विषयोद्देशप्रसङ्गे- "ओषधिविद्या षड्विधा-ओषधिनाम, ओषधिगुणः, ओषधिरसः, ओषधिवीर्यं, सन्निपातो, विपाकश्चेति भैषज्यधर्माः" इति भैषज्यविद्यायाः प्रधानविषयान् प्रदर्श्य पश्चादागमवर्णनप्रसङ्गे "यथा सुवैद्यको भेषजकुशलो मैत्रचित्तेन शिक्षकः सुश्रुतः" इति भैषज्यविद्याया आचार्यप्रवररूपेण ससंमानगौरवं सुश्रुतस्य कीर्तनमुपलभ्यते । तदेवमुपद्विसहस्रवर्षसमयेनार्यनागार्जुनेनाप्याचार्यदृशा सनामनिर्देशं सुश्रुतस्योल्लेख-उपलभ्यमानस्ततोऽर्वाचीनत्ववादप्रतिरोधाय पर्याप्तमेकमपीदं साधनम् ।।

अपरञ्च, पूर्वोद्दिष्टस्य खोटाडोपलब्धस्य भूर्जपत्रीयनावनीतकपुस्तकस्य लिपिमात्रानुसन्धानेऽपि तृतीया चतुर्थी वा शताब्दी लेखसमय इति सर्वैर्निर्धारितमस्ति । अद्यत्वे इव झटिति प्रापकैर्बाष्पशकटव्योमयानशब्दवाहकादिसाधनैर्विनाकृते पूर्वकाले भारतीयस्यास्य ग्रन्थस्य दुर्गमतावद्दूरपर्यन्तं प्रचाराय प्राप्तये च विशेषतः समयस्यापेक्षिततया तद्ग्रन्थरचना

ताडपत्रीयः संस्कृतवैद्यकग्रन्थस्तिब्बतप्रदेशे गीममठे वर्तते इति श्रूयते । तन्त्रसंवलितबौद्धाध्यात्मविषये तत्त्वप्रकाशः, परमहरयसुखाभिसंबोधिः, समयमुद्रा एवमादयः । केवलबौद्धदार्शनिकविषये माध्यमिकवृत्तिः, तर्कशास्त्रम्, उपायहृदयमेवमादयो ग्रन्था दृश्यन्ते । एषां प्रस्थानविशेषग्रन्थानां निर्माता नागार्जुनो विभिन्न एको वेति विचारणीयं भवति । तत्र-अष्टमशताब्द्यां भारते पर्यटितुमागतः अल्बेरुनीनामको यात्रिकः स्वस्माच्छतवर्षपूर्वं रसायनविद्यानिपुणो बोधिसत्त्वोऽतीव प्रसिद्धो नागार्जुननामा विद्वान् बभूवेति निरूपयति । सप्तमशताब्द्यां भारतमुपागतो हुएनसङ्गनामा चैनिकयात्रिकः स्वस्मात् सप्ताष्टशताब्दीपूर्वतनः शान्तिदेवाश्वघोषादिवत् प्रसिद्धतरो बौद्धविद्वान् बोधिसत्त्वः पाषाणमपि रसायनेन स्वर्णं विदधानो नागार्जुनः शातवाहनमित्रं बभूवेति वर्णयति । राजतरङ्गिणीकारो बुद्धाविर्भावात् सार्धशतवर्षोत्तरं नागार्जुनो नाम महाविद्वानभूदित्युल्लिखति । तदेवमनेकधा विभेदेन ज्ञायमानाः समयाः संवादकान्तरसाहाय्येनान्यतरस्यैव प्रामाण्यमथवा नांगार्जुनानामेव विभेदमनभ्युपगम्य नैकस्मिन्नागार्जुने संगम्यन्ते । शालवाहनाय नागार्जुनेन पत्रप्रेषणस्य वृत्तमन्यत्र प्रकाशितमेवास्ति । मदीये संग्रहे ताडपत्रीयं विशकलितं संस्कृतभाषानिबद्धमेकं शालवाहनचरितमस्ति । तत्र "दृष्टतत्त्वो बोधिसत्त्वो महासत्त्वो महाराजगुरुः श्रीनागार्जुनाभिधानः शाक्यभिक्षुराजः" इति स्पष्टोल्लेखेन बोधिसत्त्वस्थानीयः कुरुकुल्लाया उपदेशनोल्लेखेन तान्त्रिकः शाक्यभिक्षुर्नागार्जुनः शालवाहनसामयिक इति सिध्यति । हुएन्-सङ्गो हि बोधिसत्त्वतया धातुवादविद्वत्तया च शालवाहनसामयिकं नागार्जुनमुल्लिखति । नागार्जुनेन शालवाहनाय रसायनगुटिकौषधस्य प्रदानमपीतिवृत्ते लभ्यते । नागार्जुनेन स्वसुहृदे शातवाहनाय रत्नावल्याः प्रदानस्य "समतिक्रामति च कियत्यपि काले तामेकावलीं तस्मान्नागराजात्रागार्जुनो नाम ...... लेभे च, त्रिसमुद्राधिपतये शातवाहनाय नरेन्द्राय सुहृदे स ददौ ताम्" इति हर्षचरिते (उ. ८) बाणभट्टस्य लेखनादप्ये तयोः समकालसौहार्दं प्रतीयते । ततश्च शातवाहनसामयिको नागार्जुनो बोधिसत्त्वस्थानीयो महाविद्वांस्तन्त्रविद्यानिपुणो रसायनेऽपि प्रसिद्धो वैद्यकेऽपि विद्वानासीदिति निश्चीयते । तेन च तन्त्रसंवलितबौद्धाध्यात्मग्रन्थास्तत्त्वप्रकाशादयोऽस्यैव तान्त्रिकबोधिसत्त्वनागार्जुनस्य भवितुमर्हन्ति । पाटलिपुत्रे शिलापट्टके उत्कीर्णा "नागार्जुनेन लिखिताः स्तम्भे पाटलिपुत्रके" इति वृन्देन चक्रपाणिना च लिखिता नागार्जुनीयास्तत्तद्रोगप्रतीकारका औषधयोगविशेषा अप्यस्येव नागार्जुनस्य भवेयुः । सप्तमशताब्दीसमयं निर्दिशन् अलबेरुनीलेखस्तु हुएनसङ्गलेखादपि प्रतिहततया तदुक्तनागार्जुनान्तरस्यानुपलम्भेन च आनुश्रविकं काल्पनिकं समयमुल्लिख्य शातवाहनसामयिकमेव नागार्जुनमभिप्रैतीति प्रतिभाति । तान्त्रिकविषयासंसृष्टा केवलमध्यात्मप्रधाना प्रौढा माध्यमिकवृत्तौ उपायहृदये (छायानुवादरूपेण प्रकाशिते) च लेखशैली दृश्यमाना तान्त्रिकनागार्जुनाद्विभिन्नस्यैव नागार्जुनस्य कृतिमवबोधयति । उपायहृदये दर्शनान्तरविषयसूचनाप्रसङ्गे भैषज्यविद्यायाः प्रधानविषयरूपेण षण्णां भैषज्यधर्माणां केवलं साधारणनाममात्रेणोद्देशननाद्धातुरसायनविषयाणां लेशतोऽप्यसूचनेन चास्योपायहृदयस्य माध्यमिकवृत्तेश्च निर्माता महायानपथप्रतिष्ठापको दार्शनिक आर्यनागार्जुनः प्राचीन इत्यवगम्यते । राजतरङ्गिण्यां निर्दिष्टो नागार्जुनस्तु बौद्धोऽपि सत्ररपतित्वेन वर्ण्यते । माध्यमिकादिकर्तुर्नागार्जुनस्य कुतोऽपि नृपतिभावस्यालाभेन विभिन्न एवायं समाननामा नृपतिर्नागार्जुन इति भाति ॥