काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
उपोद्घातः ४७
ततोऽपि पूर्वतनी वक्तव्यैव। अत्र मङ्गलनिर्देशे बुद्धोल्लेखदर्शनेन बुद्धसमयमनु कतिपूर्वकले एतद्ग्रन्थरचनेति न परिच्छिद्यते। ईदृशे प्राचीनेऽस्मिन् ग्रन्थे आत्रेयस्य तदनुगानां क्षारपाणिहारीतजातूकर्ण्यपराशरभेदादीनां काश्यपजीवकयोः सुश्रुतस्य च नामानि तदीयौषधोद्धाराश्च सन्ति। तदुद्धृतानां केषाञ्चिदौषधपाठानां वर्तमानचरकसंहितायामुपलम्भेऽप्यात्रेयनाम्ना तत्र निर्देशोऽस्ति। चरकाचार्यस्य नागार्जुनस्य चात्र नामोल्ले खो नास्ति। चरकनाम्ना प्रसिद्धायाश्चरक संहिताया आविर्भावोत्तरमस्य नावनीतकस्य जन्म यद्यभविष्यत्तदा वाग्भटादिग्रन्थेष्विवात्रापि तथा प्रसिद्धस्याचार्यस्य चरकस्य नाम किमिति नोदधरिष्यत। तेन चरकसमयादप्यस्य पूर्वत्वं किमिति सन्दिह्यते। बौद्धेन निबन्धा वैद्यकेऽपि प्रसिद्धस्य बौद्धाचार्यस्य नागार्जुनस्य, एवमन्यस्यापि बौद्धाचार्यस्य वैद्यके प्रसिद्धस्य सत्त्वे तादृशस्यापि नाम किमिति नाम नोपात्तं भवेत्। तेन आत्रेयस्य तद्गण्याणां सुश्रुताचार्यस्य काश्यपजीवकयोरुद्योत्तरं नागार्जुनसमयात् पूर्वतनोऽयं ग्रन्थ इत्यवगमेन तत्राप्युपात्तस्य सुश्रुतस्य नागार्जुनादिसमयात् पूर्वभावे इदमप्युपोद्वलकं भवति॥
एवं न केवलमार्यनागार्जुनान्नवनीतकारादपि प्राचीनत्वं सुश्रुतस्य, अपितु महाभाष्यकृतः “तद्धितेष्वचामादेः (७. २. ११७), इको गुणवृद्धी (१. १. ३)'' इति सूत्रव्याख्याने “सौश्रुतः” इति, “शाकपार्थिवादीनामुपसंख्यानम् (२. १. १७०)'' इति वार्तिके 'कुतपवासाः सौश्रुतः कुतपसौश्रुतः' इति निदर्शनेन महाभाष्यकाराद्वार्तिककारादप्यस्य प्राग्भवत्वं ज्ञायते। नैतावदेव, भगवता पाणिनिनाऽपि “कार्तकौजपादद्यञ् (६.२. ३७)'' इति सूत्रीयगणे 'सौश्रुतपार्थिवाः” इति शब्दस्योद्देशेनापत्यसम्बन्ध्यादिबोधकप्रत्ययान्तेन सौश्रुतशब्देन प्रदर्शनान्न केवलं सुश्रुतस्य, तद्वंश्यस्य तदन्तेवासिनो वा तत्संबन्धिनोऽपि पाणिनितोऽपि पूर्वत्वमवगम्यते॥
अत्र महाभाष्यकृता 'सुश्रुत्-सौश्रुतः' इति निदर्शने हलन्तसुश्रुच्छब्दोपादानेन, कार्तकौजपादिगणे सौश्रुतशब्दघटितशब्दस्य दर्शनेऽपि तस्य गणे पश्चात्रदेशस्यापि सम्भवितया पाणिन्युपदिष्टत्वानिश्चयेन, भाष्यकृताऽव्याख्यातस्य तत्सूत्रस्य पाणिनीयत्वानवधारणेन, भाष्यलेखतः सुश्रुतस्य वैद्यकाचार्यत्वे साधकस्य लिङ्गस्यालाभेन च महाभाष्यकृता सूचितोऽयमेव सुश्रुत इति निर्धारयितुं न शक्यते इति पाश्चात्यविदुषो वेबरमहाशयस्य मतं दृश्यते। तत्रेद्मुच्यते-सुश्रुच्छब्दः १क्विप्प्रत्यये, सुश्रुतशब्दः क्तप्रत्यये निष्पन्नो भृत् भृतः कर्मकृत् कर्मकर इत्यादिशब्दवत्। केवलं प्रत्ययभेदकृतमांशिकविशेषमेवावबोधयन्नेकमेवार्थं बोधयितुं शक्नोति। 'इको गुणवृद्धि' इति सूत्रभाष्ये अन्त्ययोरेवेकारोकारयोर्गुण इति विशेषोक्त्या 'अग्नि वायु बभ्रु मण्डु' इत्यादीकारोकारान्तशब्दस्थल एव गुणो, न तूपधागतेकारोकारयोरिति निदर्शयितुं हलन्तशब्द एव प्रत्युदाहरणदानौचित्येन सुश्रुच्छब्दे तदभावावबोधाय 'सुश्रुत्–सौश्रुतः' इति हलन्तप्रकृतिमूपादाय भाष्यकृता निर्दिष्टं दृश्यते। सुश्रुच्छब्दादिव सुश्रुतशब्दादपि सौश्रुतशब्दो निष्पद्यत एव। बाभ्रव्यमाण्डव्यशब्दयोः केवलं बभ्रुमण्डुशब्दाभ्यां निष्पन्नतयाऽव्यभिचारेण प्रकृतिनिदर्शनस्याप्रयोजनतया बाभ्रव्यो माण्डव्य इत्येवोल्लिखितम्, न तु बभ्रु-बाभ्रव्यः मण्डु-माण्डव्य इति। सौश्रुतशब्दस्याप्येवमेव सुश्रुच्छब्दादेव निष्पत्तौ जायमानायामव्यभिचरितप्रकृतेः सुश्रुच्छब्दस्योपादानं न सप्रयोजनं जायेत। सुश्रुच्छब्दादिव सुश्रुतशब्दादपि तस्य निष्पन्नतयैव अकारान्तनिष्पन्नसौश्रुतशब्दस्यात्रोपधागतोकारगुणनिवृत्तिनिदर्शनेऽनुपयोगितया हलन्तप्रकृतिकस्यैवास्य तदुपयोगितया अदन्तान्निष्पन्ने सौश्रुतशब्दे नात्र फलवैषम्यमपितु हलन्तान्निष्पन्न एवेत्यवबोधयितुं प्रकृत्या सह तन्निदर्शनं सार्थक्याय भवति। एवं 'तद्धितेष्वचामादेः' (७/२/११७) इति सूत्रभाष्येऽपि अन्त्योपधावृद्धयपवादकत्वेनाऽऽद्यचो वृद्धिविधाने अदन्ते सुश्रुतशब्दे उपधावृद्धयप्रसक्त्या तत्प्रसङ्गवति हलन्त सुश्रुतशब्दे एव तन्निदर्शनौचित्यमनुसन्धाय हलन्तप्रकृत्या सह सौश्रुतपदं निर्दिष्टं भाष्यकारेण। एवमुभयत्रादन्तसुश्रुतशब्दे प्रकृतित्वशङ्कानिरासार्थं हलन्तप्रकृतेरुपादानायासं कुर्वन् भाष्यकारः प्रत्युत सौश्रुतशब्दस्य अदन्तः सुश्रुतशब्दोऽपि प्रकृतिरस्तीति प्रत्याययति। अत एव कार्तकौजपादिसूत्रे निर्दिष्टस्य, सौश्रुतपार्थिवशब्दस्य' “गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे (६/२/६९)'' इति सूत्रे निदर्शनीभूतस्य भार्यासौश्रुतशब्दस्य च योगार्थं निदर्शयितां
१. History of Indian Literature by Weber. P, 266.
४८ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
काशिकापद$^१$मञ्जरीन्यासकृदादीनां सुश्रुतस्य छात्राःसौश्रुताः, सुश्रुतापत्यं सौश्रुत' इति, क्वचन कस्यचित्सुश्रुतोऽपत्यं सौश्रुत इति च निर्वचनेन सुश्रुतशब्दात्सुश्रुच्छब्दाद्वा सौश्रुतशब्दस्यनिष्पादनाद्द्रोहोः समयात् पूर्वैरभिव्यकरणाचार्यैरपिसुश्रुत् सुश्रुत इत्युभावपि शब्दौ सौश्रुतशब्दप्रकृतितया स्वीकृतौ तदेप्रमाणीकुरुतः । कुतपसौश्रुता इति वार्तिकभाष्यकृद्वयां पार्थिवसौश्रुता इति गणपाठकृता च निर्दिष्टयोः शब्दयोः सुश्रुच्छब्दादेव सौश्रुतशब्दस्य निष्पत्तिर्नतु सुश्रुतशब्दादित्यत्र किन्नाम साधकम् ? पाणिनीयोपदेशरूपेणाभ्युपगते गणपाठे दृश्यमाना सब्दाः सर्वे पाणिनिनैव परिगणिता। इति न मे निर्बन्धः, समयविशेषेणापि कश्चन शब्दोऽनुप्रवेष्टुं शक्नोति; किन्तु पाणिनेःसन्निकृष्टाभ्यां विवरणकारिभ्यां प्राचीनाभ्यां भाष्यवार्तिकाराभ्यामपि सूत्रोदाहरणे प्रदर्शितो गणपाठे उपलभ्यमानः सौश्रुतशब्दो न पाणिनीय इति, विशेषवक्तव्याभावेन मध्ये मध्येऽव्याख्यातानि सूत्राणि भाष्येऽनुपादानेनापाणिनीयानीति च सन्देहनं साहसमेवानुरुन्धे। भाष्यकृताऽव्याख्यातानां बहुशः सूत्राणामपाणिनीयत्वोक्तौ तत्तदध्यायपादान्तर्गतसूत्रगणना वा कथं समन्वियात्। पाणिनीये कार्तकौजपादिगणे निर्द्दिष्टानां गणशब्दानामनुसन्धाने शेखरादिषु सौश्रुतपार्थिवा इति पाठलाभेन तदनुसरणे विभिन्नानां सौश्रुतानां पार्थिवानां च मिथः सम्बन्धोऽवगम्यते। पार्थिवशब्दादपि सौश्रुतशब्दस्य पूर्वप्रयोगस्य दर्शनेन तदात्वे सौश्रुतानां राजभिः संमाननं प्रतिष्ठा चासीदित्यनुमीयते। सौश्रुताः पार्थिवाश्चेति बहुवचनगर्भसमास एव सौश्रुतपार्थिवा इति निष्पत्त्या पाणिनिसमयेऽपि बहुशः सुश्रुतसंप्रदायानुयायिनो भिषजो बहुशः पार्थिवैः सह संबद्धा आसन्निति बहुवचनान्तपददानेन प्रत्याय्यते। सुश्रुतसंहितासूत्रस्थाने युक्त$^२$सेनीयाध्याये वैद्येन सर्वतो निरीक्ष्य नृपस्य रक्षणं, स्कन्धावारेऽपि साहित्येन वर्तनं, राज्ञाऽपि वैद्यस्य संमाननं विशेषतो विधीयते। सूत्र$^३$स्थानोपसंहारेऽप्येतच्छास्त्रं राज्ञां महात्मनां भैषज्यायाध्येतव्यमित्येतद्विद्याविदां राजभिः सह विशेषसम्बन्धोद्योत्यते। 'शतं ते राजन् भिषजः सहस्त्रम्' (ऋक् १. २४. ९) इति मन्त्रलिङ्गादपि पुराकालादेव राज्ञां भिषजां च मिथः संबन्धोऽवगम्यते। महा$^४$भारते कौटि लीयेऽपि साङ्ग्रामिके प्रसङ्गे विशेषतः शस्त्रचिकित्साविदां सहभावो निर्दिष्टोऽस्ति। यातूयातव्यासितादिसर्वावस्थासूपयोगितया शस्त्रास्त्रविमर्दवृत्तिभिःसेनापरिवृढैर्भूपतिभिः शल्यविद्यानिष्णातानां विशेषापेक्षा एकान्ततः समुचिता च। सुश्रुतस्य शल्यप्रस्थानाचार्यतया तत्साम्प्रतदायिकानां सौश्रुतानामपि पार्थिवैः सह नेदिष्ठं सम्बन्धमुपादाय प्रचलितः 'सौश्रुतपार्थिवाः' इति शब्दः पाणिनिना प्रवेशितो दृश्यमानस्तदात्वे च केवलं सुश्रुतस्य, अपितु तदनुयायिनां सौश्रुतानां शस्त्रवैद्यानामपि पूर्वतः प्रसिद्धिं, बाहुल्येन राजकुले प्रचारं चावगमयति। काशिकाद्यनुसारेण 'सौश्रुतपार्थवाः' इति पाठान्तरोपादाने सौश्रुतानां राजभिः सह सम्बन्धएतत्पददान्रावबुध्यत इत्यन्यदेतत्, परं सौश्रुतानां प्रसिद्धिरम्भेर्हितत्वं चास्मादपि शब्दात् प्रतीयत एव। व्याकरणलेखतःसुश्रुतो वैद्यकाचार्य इति विशेषतः परिच्छेदालाभेऽपि “सुश्रुतस्य छात्राः सुश्रुताः” इति सौश्रुतशब्दयोगार्थं कण्ठतो दर्शयतः
१. कार्तकौजपादयश्च (६. २. ३१)।
(क) सौश्रुतपार्थवाः सुश्रुतस्यं पृथेःश्च छात्राः (काशिका)।
सुश्रुतस्य छात्राः सौश्रुताः, पृथोश्छात्राः पार्थिवाः। (न्यासः)।
(ख) गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे (६. २. ६९)।
भार्यासौश्रुतः सुश्रुतापत्यस्य भार्याप्रधानतयाऽऽक्षेपः॥ (काशिका)।
सुष्ठु शृणोतीति सुश्रुत् तस्यापत्यं सौश्रुतः (पदमञ्जरी)। सुश्रुतोऽपत्यं सौश्रुत इत्यण् । भार्याप्रधानं सौश्रुतोभार्यासौश्रुतः, सुश्रुतस्य भार्याप्रधानतयेत्यनेन समानाधिकरणेनात्र समास इति दर्शयति । सुश्रुतोऽपत्यमित्यनेनापि सौश्रुतस्याऽण्प्रत्ययान्तत्वम् (न्यासः)।
२. युक्तसेनस्य नृपतेः परानभिजिगीषतः। भिषजा रक्षणं कार्यं यथा तदुपदेक्ष्यते ॥
चिन्तयेन्नृपतिं वैद्यः श्रेयांसीच्छन्विचक्षणः । वेद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः ॥ (सुश्रुते सूत्र. अ. ३४)
३. इमं विधिं योऽनुमतं महामुनेर्नृपर्षिमुख्यस्य पठेद्धि यत्नतः ।
स भूमिपालाय विधातुमौषधं महात्मनां चार्हति सूरिसत्तमः ॥ (सुश्रु. सूत्र. अ. ४६)
४. महाभारते उद्योगे १५१/१५२ अध्याययोः, भीष्मपर्वणि १२० अध्याये च।
उपोद्घातः ४९
प्राचीनवैयाकरणस्य काशिकाकृतस्तद्विवरणकर्तुर्न्यासकारस्यापि लेखकः स मूलभूतः सुश्रुतो न साधारणं १ व्यक्त्यन्तरमपि तु विद्यासम्प्रदायप्रवर्तनद्वारा सौश्रुतानामाचार्यभूत आसीदिति तु स्पष्टमवगम्यते। शल्याचार्यमेनं सुश्रुतं विहाय विद्यासंप्रदायप्रवर्तकस्यान्यस्य सुश्रुतस्य न क्वाप्युपलम्भोऽस्ति। भिषगाचार्यस्य सुश्रुतस्य नागार्जुनैनोपायहृदये, वाग्भटनावनीतकज्वरसमुच्चयादिलेखेषु, जयवर्मशिलालेखेऽपि कीर्तिततया, एतदीयग्रन्थस्यैव आरबादिदेशेऽप्यनुवादेन, हरिवंशलेखसंवादिनो दिवोदासस्य ब्राह्मणोपनिषदादिषूपलब्ध्या, दिवोदासाद्विश्वामित्रपुत्रेण सुश्रुतेन वैद्यविद्याया ग्रहणस्य सुश्रुतसंहितायामुल्लेखेन, महाभारतेऽपि विश्वामित्रपुत्रेषु सुश्रुतस्य दर्शनेन च शल्यप्रस्थानाचार्यस्यैवास्य सुश्रुतस्य सम्प्रदायप्रवर्तकाचार्यतया प्रसिद्धिः पूर्वसमयादवगम्यते। सुश्रुतसंहितायामार्षरचनायाः प्रायो दर्शनं, बौद्धच्छायाया अदर्शनं, धातुर्साद्यौषधानां प्रायोऽनुपयोगदर्शनं, शौनककृतवीर्यपाराशर्यमार्कण्डेयसुभूतिगौतमाख्यानां केषाञ्चिदेव प्राचीनाचार्याणामुल्लेखः, दिवोदाससुश्रुतशब्दयोः स्वरप्रक्रियायामुदाहरणस्योपलम्भश्चास्याचार्यस्य प्राचीनत्वमेव प्रगुणयन्ति। पुरासमयात् परितः प्रसिद्धतरतया सर्वेषां बुद्धावुपस्थितं शल्यवैद्यकाचार्यमेनं सुश्रुतं विहायानुपस्थितस्यान्यस्य कल्पनायां च कोऽपि मानावलम्ब इति व्याकरणसूत्रवार्तिकभाष्यकारैरपि निर्दिष्टोऽयमेव सुश्रुतः पाणिनेरपि पूर्वतनो दिवोदासवदुपनिषत्कालिक इति निश्चेतव्यं भवति। बलवन्तं प्राचीनमाश्रयं भङ्क्त्वैव न खलूदासितव्यं भवति। उक्तमेवाभियुक्तैः—"व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्" इति॥
किञ्च आग्नेयपुराणे (अ. २७९-२९२) नराश्वगवायुर्वेदजिज्ञासया पृच्छते सुश्रुताय धन्वन्तरिणा तस्योपदेशनस्योल्लेखदर्शनेन धन्वन्तरिरिव तदन्तेवासी सुश्रुतोऽपि नरायुर्वेदवदश्वायुर्वेदयोरपि विज्ञाता प्रतीयते। सोऽयमाग्नेयोक्तः सुश्रुतोऽपि धन्वन्तरिसाहचर्यात् सुश्रुतसंहिताया निबन्धेव स्यात्। एकस्यापि बहुषु विद्याप्रस्थानेषु विज्ञातृत्वं बहुशो दृश्यते। शालिहोत्रग्रन्थे प्रष्टृभावेन सुश्रुतस्य नामनिर्देश उपलभ्यते। अश्वशास्त्रप्रवर्तकस्य शालिहोत्रस्य विषये श्रीयुतगिरेन्द्र^२नाथमहोदयैर्विशेषतो निरूपितमस्ति। कलिकातामुद्रितजयदत्तीयाश्वचिकित्सितभूमिकायामपि किञ्चिदस्ति। विशेषान्तरं ततएवावसेयम्। शालिहोत्रग्रन्थस्य कियताऽप्यंशेन तत्र तत्र पुस्तकालये उपलम्भः श्रूयते। मया तस्यादर्शनोऽपि पूर्वनिर्दिष्टे हेमाद्रेलक्षणप्रकाशेऽश्वप्रकरणे शालिहोत्रीयाश्वशास्त्रवचनानि कानिचिदुद्धृतानि दृश्यन्ते। तत्र सु^३श्रुतमित्रजिद्ध्यान्तारोदिभिः पुत्रैः, गर्गादिभिः शिष्यैश्च पृष्टेन शालिहोत्राचार्येणाश्वविषयाणामुपदेशनं, प्रष्टृतया शालिहोत्रपुत्रत्वेन सुश्रुतस्योल्लेखश्च दृश्यते। शिष्यस्याप्यन्यत्र क्वचन ग्रन्थान्तरे पुत्ररूपेण निर्देशो दृश्येत नाम, परमत्र-—"पुत्राः शिष्याश्च पृच्छन्ति विनयेन महामुनिम्"। इति पुत्राणां शिष्याणां च पृथङ्निर्देशदर्शनेन, सुश्रुतस्यानेकवारं पुत्रत्वेनैव स्पष्टमुल्लेखेन च शालिहोत्रेणाश्वशास्त्रमुपदिष्ट एष सुश्रुतः शालिहोत्रस्य पुत्र एवेत्यवधार्यते। सुश्रुतसंहितायां शल्यप्रस्थानाचार्यः सुश्रुतस्तु विश्वामित्रपुत्रत्वेन निर्दिष्टोऽस्ति। महाभारतलेखादपीदं संवदतीत्यवोचाम। आ^४चार्यपरिच्छेदे पूर्वनिर्दिष्टेषु शालिहोत्रोक्ताश्वाभिषेकमन्त्रश्लोकेष्वायुर्वेदकर्त्तॄणां निर्देशे आत्रेयस्य तदन्तेवासिनामग्निवेशहारीतक्षारपाणि-जातूकूर्ण्यपराशरादीनामन्येषां चाचार्याणामुल्लेखे सत्यपि धन्वन्तरेर्दिवोदासस्य च नोल्लेखोऽस्ति। यदि नाम शालिहोत्रोपदिष्टो धन्वन्तर्युपदिष्टश्च सुश्रुत एक एवाभविष्यत् तदाऽश्ववैद्यकाचार्यः शालिहोत्रस्तदन्तेवासी सुश्रुतो वा तादात्विकप्रसिद्धतरमाचार्यं धन्वन्तरिं दिवोदासं च तत्रायुर्वेदकर्तृषु कथं नाम्नाऽपि नोदलेखिष्यत्। सुश्रुतसंहिताया निबन्धा सुश्रुतोऽपि अश्वशास्त्रविभागीयत्वेऽपि वैद्यके एकप्रस्थानप्रायतया तथाप्रसिद्धं स्वस्य पितरमाचार्यं वा शालिहोत्रं किमिति क्वापि प्रसङ्गेनापि न निरदेक्ष्यत्। आचार्यान्तरवैद्यकविषयैरपि सम्मृते पश्चात्सम्बद्धे उत्तरतन्त्रेऽपि सुश्रुतेन सौश्रुतेन संस्कर्त्रा वा किमिति तन्नाम नोल्लिखितं
१. कौटिलीये साङ्ग्रामिकाधिकरणे अ. १०। २. Indian Historical Quarterly Vol II P. 47. ३. शालिहोत्रमृषिश्रेष्ठं सुश्रुतः परिपृच्छति। एवं पृष्टस्तु पुत्रेण शालिहोत्रोऽभ्यभाषत॥ शालिहोत्रमपृच्छन्त पुत्राः सुश्रुतसङ्गताः। व्याख्यातं शालिहोत्रेण पुत्राय परिपृच्छते॥ मित्रजित्रमुखाः पुत्रा भूयः पितरमब्रुवन्। शालिहोत्रः सुतं प्राह हयानां स्वरलक्षणम्॥ इत्यादि (शालिहोत्रीये) ४. पृ. १५
५० काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
स्यात् । तेन शालिहोत्रस्योपदेश्यः पुत्रः सुश्रुतः, धन्वन्तरेरुपदेश्यो विश्वामित्रपुत्रः सुश्रुतश्च विभिन्नौ दृश्येते । दुर्लभगणकृते सिद्धोपदेशसङ्ग्रहनामकेऽश्ववैद्यकग्रन्थे—
शालिहोत्रेण गर्गेण सुश्रुतेन च भाषितम् । तत्त्वं यद्वाजिशास्त्रस्य तत्सर्वमिह संस्थितम् ।।
इति निर्देशेन सुश्रुतस्याप्यश्ववैद्यकोपदेष्टृत्वमायाति, परमाग्नेयपुराणोक्त्या धन्वन्तरिशिष्यस्य सुश्रुतस्याप्यश्ववैद्यकवित्वेनोपलम्भादेतन्निर्दिष्टः सुश्रुतः शालिहोत्रीयो धान्वन्तरो वेति स्पष्टं न परिच्छिद्यते । अस्तु वा दुर्लभगणोक्तः सुश्रुतः शालिहोत्रगर्गसाहचर्याच्छालिहोत्रीयः, तदुक्त्या एतदीयोऽपि कश्चनाश्वशास्त्रग्रन्थः स्यात्, परमस्य शालिहोत्रपुत्रस्य सुश्रुतस्य ग्रन्थो न कोऽपि साम्प्रतमुपलभ्यते, तदीयस्य ग्रन्थस्योल्लेखो वचनस्योद्धारोऽपि, किं बहुना नाममात्रमपि गणकृतग्रन्थं विना नान्यत्राश्वायुर्वेदीयग्रन्थेष्वप्युपलभ्यते । ततस्तस्य सुश्रुतस्य विषये सम्प्रति किमपि वक्तुं न शक्यते । धान्वन्तरसुश्रुतस्य तु ग्रन्थोपलम्भतः ग्रन्थान्तरनिर्देशतः, आचार्यान्तरोपग्रहणातः, शिलालेखाद्युल्लेखतश्च यथा प्रसिद्धिरस्ति, न तथा तस्य शालिहोत्रपुत्रस्य सुश्रुतस्य प्रसिद्धिर्दृश्यते । अतो यत्र सुश्रुतस्य कीर्तनं तत्र साधकबाधकान्तरोपलम्भमन्तरा शल्यप्रस्थानाचार्यो धान्वन्तरः सुश्रुत एव बुद्धावुपतिष्ठते ॥
अनयोः सुश्रुतयोरेक्यं मनसि कृत्वा शालिहोत्रलेखतः सुश्रुतस्य शालिहोत्रपुत्रत्वं नकुलकृतेऽश्वचिकित्सिते—
पायाद्वः स तुरङ्घोषतनयः श्रीशालिहोत्रो मुनिः ।
इति प्रारम्भपद्यलेखदर्शनेन तुरङ्गघोषशब्देनाश्वघोषमुपादाय शालिहोत्रस्याश्वघोषपुत्रत्वं च सङ्ग्रथ्य तुरङ्गघोषो हयघोषोऽश्वघोषश्चैकः, तत्पुत्रः शालिहोत्रः, तत्पुत्रः सुश्रुत इति कनिष्कसामयिकादश्वघोषादपि शालिहोत्रसुश्रुतयोरर्वाग्भावसाधकं व्यूहनकौशलमपि कस्यचिद्दृश्यते । परं नेपालदेशोपलब्धेऽश्वचिकित्सितस्य पुस्तकद्वये मङ्गलाचरणोक्तं तत्पद्यमेव नास्तीति मूले कुठारः, अस्तु वा तत्पद्यं, तथाऽपि शालिहोत्रग्रन्थेऽश्वचिकित्सितादौ च ब्रह्मणा इन्द्रेण वा सह सम्बद्धो मूलसंहिताकर्तृतया निर्दिष्टः शालिहोत्रः प्राचीन आचार्यः कीर्त्यते, शालिहोत्रग्रन्थे इक्ष्वाकुसगरयोः शालिहोत्रसकाशे प्रश्नस्य निर्देशोऽपि प्राक्तनत्वं दर्शयति । शालिहोत्रस्य न केवलं पञ्चतन्त्रादावेवोल्लेखोऽपि तु महाभारतेऽपि व^१नपर्वणि अश्वहृदयविदो नलस्योपाख्याने तदुल्लेखोऽस्ति । तत्राश्वकुलवित्वेन विशेषणात् प्रकरणवशाच्च तत्रोल्लिखितः शालिहोत्रः स एवायमाचार्य इति निश्चीयते । उपलब्धमाना शालिहोत्रसंहिता शालिहोत्रस्यैव हस्तलेखरूपा, किंवा संस्कारेण रूपान्तरमापन्ना, अथवा तदीयसम्प्रदायपरम्परागतोपदेशरूपेति त्वन्यदेतत्, परमश्वशास्त्रस्य परमाचार्यः शालिहोत्रः प्राचीनतर इत्यत्र न संशयः । ईदृशस्य प्राचीनस्य मुनेर्युधिष्ठिरभ्रात्रा नकुलेन स्वग्रन्थे मङ्गलाचरणे आचार्यभावेन संमाननमपि युज्यते, पूर्वापरग्रन्थसंगमनं च भवति । ईदृशं पुरासमयात् प्रसिद्धं प्राचीनमाचार्यं विहाय तुरङ्गघोषशब्देन अश्वघोषं कल्पयित्वा शालिहोत्रसुश्रुतयोस्तत्पुत्रपौत्रभावकल्पनमितिहासमेव विप्लावयति । अश्वशास्त्रस्य प्रथमप्रवर्तकः शालिहोत्रः, स चेदश्वघोषपुत्रस्तर्हि कनिष्कोत्तरमेवास्य प्रस्थानस्योदयेन भवितव्यं, तथाचाभ्युपगते कौटि^२लीयेऽर्थशास्त्रेऽपि अश्वानां शालानिर्माणमाहारकल्पना कुलजात्युल्लेखश्चैवमादयो बहवः शालिहोत्रीयविषयाः संक्षेपेण निर्दिष्टादृश्यन्ते, अश्वानां चिकित्सका अपि गृहीताः सन्ति, तेषां तत्र कुत उद्गमो वक्तव्यः । अशोकनृपतिना भारतीयभैषज्यमुपदाय स्वदेश इव देशान्तरेष्वपि शिलालेखेन प्रमाणीकृतमश्वादिपशुचिकित्सालयानामुद्घाटनं कं नाम विद्याधारमाश्रयेत । अश्वघोषो बुद्धसाम्प्रदायिकः प्रधानाचार्य इति स्पष्टमेव । शालिहोत्रलेखेऽश्वाभिषेकप्रकरणे श्रौतानामेव महर्षीणां नामानि, ब्रह्मघोषः, श्रौतं यज्ञविधानं, वाजिनां देवरूपत्वनिर्देशेऽपि श्रौतस्मार्तदेवानामेवोल्लेखश्च दृश्यमानः शालिहोत्राचार्यस्य वेदमार्गानुयायित्वमेव निश्चाययति । शालिहोत्रीये लेखे सुश्रुतसंहितायामपि बौद्धच्छायाया अनुपलब्भोऽनयोरश्वघोषस्य बुद्धाचार्यस्यापत्यत्वं व्याघट्टयति । अश्वघोषः साकेतवर्ती, शालिहोत्रः पश्चिमोत्तरप्रदेशीय इत्यनयोः प्रदेशविभेदोऽपि विसंवादमेव
१. शालिहोत्रोऽथ किन्तु स्याद्धयानां कुलतत्त्ववित् । (वनपर्वणि ७२ अध्याये)
२. कौटिलीये अश्वाध्यक्षप्रकरणे ३० अध्याये, साङ्ग्रामिकेऽपि ३७ पृष्ठे हस्त्यश्वयोः कुलजात्युल्लेखोऽस्ति ।
उपोद्घातः ५१
दर्शयति । अश्वघोषपुत्रतया कल्पितस्य शालिहोत्रस्य पुत्रेण सुश्रुतेन सह शल्यप्रस्थानाचार्यस्य सुश्रुतस्याभेदेऽभ्युपगम्यमाने कनिष्काश्वघोषयोः सामयिकेन नागार्जुनेन तत्पौत्रतया सम्भावितस्य सुश्रुतस्य सुप्रसिद्धभिषक्त्वेनाचार्यदृशा महिमगानं कथं समर्थ्येत, नागार्जुनेन सुश्रुतसंहितायाः संस्करणस्य प्रवादोऽपि विपर्यस्येत् । द्वयोः सुश्रुतयोरभेदे कनिष्कसामयिकत्वे च सति पाणिनिवार्तिकभाष्यकाराणां सुश्रुतशब्दोपादानं किमालम्बनमासादयेत् । तेन न किञ्चिदेतदिति विरम्यते ॥
अन्ततो विक्रमाब्दारम्भात् पूर्वं षष्ठशताब्द्यां सुश्रुतस्य समयं सोपपत्तिकं साधयतो हार्नले (A. F. Rudolp Hoernel) नामकस्य पाश्चात्यविदु^१षो लेखादपि ततोऽनर्वाचीनत्वं सिध्यति । केच^२न यथावदनिश्चीयमानोऽपि सुश्रुतस्य समय ईशवीयाब्दोपक्रमात् षट्शताब्दीपूर्वं एव नतु ततोऽर्वाचीन इति; अन्ये सुश्रुते सप्तविधकुष्ठनिरूपणं दृश्यते, यस्य रोगस्य^३ भारतीयैश्चीनदेशीयैरपि २५०० वर्षपूर्वं ज्ञानमुपलब्धमासीदिति सुश्रुतस्योपसार्द्धद्विसहस्त्रवर्षपूर्वत्वं सम्भाव्यते इत्यपि निर्दिशन्ति । सुश्रुतसंहिताया लेटिनभाषायामनुवादको ह्यास^४लर (Hessler) नामकः पाश्चात्यविद्वांस्तथा श्रीयुत-गिरीन्द्र^५नाथमुखोपाध्यायोऽपि ईशवीयाब्दारम्भादुपसहस्त्रवर्ष (B. C. 1000) पूर्वतनः सुश्रुत इति निर्दिशति ॥
एवंविधैर्विवेचकविदुषामुपन्यासैर्विचारदृष्ट्या च सुश्रुतसंहितायाः पूर्वो भागोऽन्ततो गत्वाऽपि इतः २६०० वर्ष पूर्वोऽवगम्यते ।
सुश्रुते पूर्वाचार्येषु निर्दिष्टः सुभूतिगौतमः शाक्यसिंहस्य शिष्य इति बुद्धोत्तरभावित्वं सुश्रुतस्येति केचिन्निदर्शयन्ति । अष्टसाहस्त्रिकाशतसाहस्त्रादिके बौद्धग्रन्थे सुभूतेर्नाम उपलभ्यते नाम । परं तत्र आयुष्मत्सुभूतिस्थविरसुभूतिशब्दैरेव व्यवहारः कृतोऽस्ति, न तु सुभूतिगौतमस्य तत्रोल्लेखो दृश्यते । बौद्धग्रन्थेषु सुभूतेरध्यात्मविषय एवोल्लेखोऽस्ति, वैद्यविद्याचार्यत्वं न कुत्रापि निर्दिष्टमिति सुश्रुतोक्तः सुभूतिर्गौतमो न बौद्धोऽन्यएव प्राचीनॊ वैद्याचार्यः । सुभूतिगौतमस्य बौद्धत्वे तमपि पूर्वाचार्यदृशा पश्यतः सुश्रुतस्य लेखे बौद्धसंप्रदायच्छायाः कथं नोपलभ्येरन् । प्रत्युत अत्र बौद्धच्छायानुपलम्भ एवास्य सुभूतेरबौद्धत्वं द्रढयति । स्थविरसुभूतेर्व्याकरणमुपलभ्यते इति नामसाम्यमात्रेण सोऽपि सुभूतिः प्राचीनो बुद्धस्य प्रधानशिष्य इति वक्तुं शक्येत किमु ? ॥
वैद्यकटीकाकृद्भिः क्वचिद्विहितस्य वृद्धसुश्रुतोक्तवचनोद्धारस्य दर्शनेन तदुद्धृतवचनानां वर्तमानसुश्रुतसंहितायामनुपलम्भेन औषधेनवमौरभ्रमिति सुश्रुतोक्तपद्ये सौश्रुतस्य पृथङ्निर्देशेन च वर्तमानसुश्रुतसंहितातः पृथगेव वृद्धसुश्रुतस्य सौश्रुततन्त्र पूर्वमासीदिति कथयितुमपि सुश्रुतसंहितायां वृद्धसुश्रुतस्य पूर्वाचार्यत्वेनानिर्देशात्, महाभारतादावपि विश्वामित्रपुत्रत्वेन सुश्रुतस्यैवोल्लेखात्, महाभाष्यकारनावनीतकनागार्जुनवाग्भटज्वरसमुच्चयादिलेखेऽपि सुश्रुतनाम्नैव निर्देशात्, एतदीयवचनानामेव तेषु संवादाच्च, आरब्यादिदूरदेशान्तरेष्वस्यैव सुश्रुतस्य संहिताया अनुवादात् प्रचाराच्च, कम्बोडियादिगतयशोवर्मशिलालेखेऽपि सुश्रुतस्यैवोल्लेखात्, वृद्धसुश्रुतनाम्नोपलब्धेषु वचनेषु प्राचीनरचनारूपप्रौढेरदर्शनेन, तद्वचनविषयतोवृद्धसुश्रुतस्य शल्यप्रस्थानाचार्यत्वानिर्धारणात्, सुश्रुतसंहिताया उपक्रमे काशिराजं उपक्रमे काशिराजं दिवोदासमुपेतानामौषधेन-वौरभ्रपौष्कलावतकरवीर्यगोपुररक्षितसुश्रुतप्रभृतीनामन्तेवासितया निर्देशोत्तरम्—
औषधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् । शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ॥
१. Studies in the Medicine of Ancient India Part 1.
२. History of Indian Medicine III P. 576. By G. N. Mukhopadhyaya.
३. History of Indian Medicine III P. 578.
४. History of Indian Medicine III P. 578.
५. Surgical Instruments of the Hindus. by G. Mukhopadhyaya P. 15.
५२ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
इति औषधेनवौरभ्रपुष्कलावतसुश्रुताचार्यप्रणीततन्त्राणि तदीयार्थकप्रत्ययान्तैः सौश्रुतादिपदैः प्रदर्श्य एतेषां सर्वेषु शल्यतन्त्रेषु प्राधान्यनिर्देशेन तन्निर्दिष्टस्य प्राधान्यनिर्देशेन तन्निर्दिष्टस्य सौश्रुतस्यान्यदीयपूर्वतन्त्रत्वे तन्न्यायेन औषधेनवादितन्त्राणामपि औषधेनवाद्याचार्यतन्त्रेभ्यः पृथक्त्वेन पूर्वसिद्धानां वक्तव्यत्वापातात्, कौटिलियादिप्राचीनग्रन्थेष्वपि स्वीयग्रन्थे स्वीयनामोल्लेखदर्शनस्य प्रायिकतया स्वीयसौश्रुततन्त्रस्य औषधेनवादितन्त्राणामिव प्राधान्यावबोधाय निर्देशौचित्याच्च, टीकाकारैरर्वाचीननिबन्धकारैश्च क्वचन गृहीतो वृद्धसुश्रुतस्तु कतमः, कदा सम्भूतः, कश्चास्य ग्रन्थः, कस्मिन्प्रस्थाने तस्याचार्यत्वमिति सर्वस्यास्य निलीनतया पूर्वोद्दिष्टं प्रसिद्धं दिवोदासान्तेवासितया सुश्रुतं सुश्रुतं परित्यज्यापरिच्छेदस्य वृद्धसुश्रुतस्य शल्यप्रस्थाने पूर्वाचार्यत्वसाधकं दृढं साधनान्तरमपेक्ष्यते । उपलभ्यमानसुश्रुतसंहितायां क्वचनार्वाचीनविषयप्रतिभासोऽपि संस्करणवशेन प्रतिफलितः, क्वचन पाठभेददोषोऽपीत्यत्र संस्करणप्रकरणे दिग्दर्शनं विधास्यते ।।
वैदिक्यामवस्थायामार्यनिवासस्थलस्य परिस्थित्यनुसारेण विभक्तानां वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिराख्यानां षण्णामृतूनामुल्लेखो वैदिके सा^१हित्ये दृश्यते । एषुव सन्तमन्यं वोपक्रम्य जात एक ऋतुपर्यावर्तः संवत्सरात्मको भवति, प्राचीन परिस्थितौ कल्पितोऽमृतुविभागः पश्चादप्यनुवर्तमानो 'वसन्तादिभ्यष्ठक् (४/२/६३)' इति सूत्रे पाणिनिनाऽपि गृहीतः, अद्यापि लोके प्रचलति च । सुश्रुतसंहिताया ऋतुचर्याध्याये उत्तरायणादिमारभ्य शिशिरादयो हेमन्तान्ताः प्रचलितप्रक्रियानुरूपाः षडृतवः पूर्वं निर्दिष्टाः, तदनुपदमेव शीतोष्णवर्षारूपसमयभेदेन त्रिदोषाणामुपचयप्रकोपशमनावस्थामुपादाय अस्मिन्समये उपचयप्रकोपौ भजन्नयं दोषोऽस्मिन्समये संशमनीय इति भैषज्यप्रक्रियोपयोगि विज्ञानाय इह त्वित्यादिनादक्षिणायनोपक्रमं विभागान्तरमपि पुनर्दर्शितम् । तत्र वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृडाख्यानां षडृतूनामुल्लेखेन प्राथमिक्यां प्रक्रियायां चतुरो मासान् शीतस्य, मासद्वयं वृष्टेः, द्वितीयप्रक्रियायां तु मासद्वयं शीतस्य, चतुरो मासान् घृष्टेः समय इति विशेष आयाति । द्वितीया प्रक्रिया भैषज्यविज्ञानोपयोगायोपात्ता दृश्यते । काश्यपीये ऋतुविमानग्रन्थस्य खण्डितत्वेऽपि आत्रेयभेदसंहितयोरपि ऋतुविमाने भैषज्यसंबद्धा द्वितीयैव प्रक्रिया गृहीताऽस्ति । एवञ्चायुर्वेदपद्धतौ भैषज्यदशाहिमशिशिरयोरभेदं प्रावृड्वर्षयोर्विभेदं भजत ऋतुविशेषक्रमस्याचार्यैरुपग्रहणामवबोधयितुम् “इह तु” इति पदेनायुर्वेदीयं पन्थानमुद्दिश्य स्वदेशानुरूपो विभागः सुश्रुते दर्शितः । इदमपरत्वमेवेहशब्दस्य केनचित्टीकाकृताऽभ्युपगतं च । परं शास्त्रविशेषे सार्वदेशिकस्यैकरूप्येण ऋतुविभागस्य बोधने न सामञ्जस्यमायाति । न हि भारतेऽन्यत्र वा सर्वत्रैकरूप ऋतुविभागः । देशभेदेन शीतोष्णदशयोर्विभेदादार्तवलक्षणानि बहुशो भिद्यन्ते । सिंहल (सीलोन) प्रदेशे प्रायः सर्वदा समया शीतोष्णदशा समप्रायाः षडृतवो भवन्तीति नैवं भावः सर्वत्र । क्वचन शैत्यमतिशयानं बहुसमयं हृदयमाकम्पयति, क्वचनौष्ण्यमभिवृद्धं बहुकालं सर्वतस्तापयति, क्वचन वृष्टिर्बहुलतां वहति । मद्रासादिप्रदेशेषु मार्गपौषयोराम्रमञ्जर्य उद्गच्छन्ति, फाल्गुने चैत्रे तत्फलानि पच्यन्ते । यथायथोत्तरीयः पर्वतीयः प्रदेशस्तथा तथा पश्चाद्भावः । येन नेपाले पार्वतप्रदेशे वैशाखे आम्रमञ्जर्युद्भवः, अन्ततो भाद्राश्विनयोस्तत्फलानि पच्यन्ते । एवमेव शाकपुष्पफलौषध्यादीनामपि देशभेदेन विभिन्नः समयोऽनुभूयते । प्रदेशविशेषतः शीतोष्णजलवाय्वादीनां परिवृत्त्या यत्र यादृशी परिस्थितिस्तदनुसारेणैव गुणागुणान् विज्ञान भिषग्भिः प्रवर्तनीयं भवति । तेन “इह तु” इत्यनेन तदुपदेशस्थलमवबोधयितुं युज्यते । पूर्वप्रचलितां पद्धतिमादौ निर्दिश्य इहत्विति उपदेशस्थलविशेषे प्रावृड्वर्षारूपवृष्टिसमयद्वैगुण्यप्रदर्शनेन शीतसमयस्य द्वैमासिकत्वं वर्षसमयस्य चातुर्मास्यत्वं तत्र बोध्यते इत्येवावगन्तुं युज्यते । स्थानभेदेन वर्षसमयस्य तारतम्यमप्यनुभूतय एव । भारतेऽपि ग्रीष्मान्ते वङ्गोपसागरस्य आरव्योपसागरस्य वा जलं निपीयप्रस्थितो जलदो वायवीयां गतिमनुगच्छंस्तत्तत्प्रदेशेषु क्रमशॊ वर्षन् स्वीययात्रायां हिमाद्रेरन्येषां वोच्चगिरीणां शिखरैः प्रतिरुद्धपरागतिश्चिरापुञ्ज्यादिप्रदेशेष्विव स्थाने स्थाने चिरं बहुलतया च जलं वर्षति । यथा यथा तथाभावः तथा तथा वृष्टिसमयस्य बाहुल्यमुपजायते इति प्राकृतिकपरिस्थित्यनुरूपो
१. यजुर्वेदे—वसन्तेन ऋतुना इत्यादि (२१. २३-२८) मन्त्रेषु, वसन्तायेति (२४. २०) मन्त्रे च । सामवेदे—वसन्त इन्नुरन्त्यो ग्रीष्म इन्नुरन्त्यः । वर्षाण्यनु शरदो हेमन्तशिशिर इन्नुरन्त्यः ॥' (६/१३/२)
उपोद्घातः | ५३
वैज्ञानिकानां सिद्धान्तः । सौश्रुते तन्त्रत्ये भैषज्यानुकूले ऋतुविभागे वर्षाप्रावृषोः स्वरूपविशेषः पृथक्त्या प्रदर्श्यते काशीप्रदेशे तु वर्षासमयस्य द्वैगुण्याभावेन वर्षाप्रावड्घटितो द्वितीयो विभागोऽननुकूलतां वहन् इहेति तदनुरूपमेव प्रदेशान्तरं दर्शयदवगमयति । सुश्रुतटीकायां काश्यपवचनत्वेन निर्दिष्टाभ्यां—
“भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे जलम् । तेन प्रावृषवर्षाख्यौ ऋतू तेषां प्रकल्पितौ ।।
गङ्गाया उत्तरे कूले हिमवद्बिमसङ्कले । भूयः शीतमत्तस्तेषां हेमन्तशिशिरावृतू” ।।
इति श्लोकाभ्यां गङ्गाया उत्तरतो हिमालयपरिसरप्रदेशे हिमशिशिरयोः, गङ्गाया दक्षिणतः प्रदेशे प्रावड्वर्षयोः परिस्थितिर्बोध्यते । अत्र गङ्गापदेन वाराणसेयगङ्गोपादाने तु तद्दक्षिणोत्तरयोरेवं विभेदस्य दुर्वचतया तत्र गङ्गापदेन गङ्गाद्वारदुपपरिवर्तिनीं गङ्गामादाय तत उत्तरतो हिमसमयद्वैगुण्यं, तद्दक्षिणकूलभागे वृष्टिसमयद्वैगुण्यं प्रदर्शितं सम्भवति । एतत्सामान्यन्यायेन इहत्विति निर्दिष्टं वृष्टिसमयद्वैगुण्योपलक्षितं स्थलं गङ्गादक्षिणविभागीयं स्थानं स्यादिति सम्भाव्यते ।।
यद्यपि भावप्र¹काशकृता काश्यां दिवोदाससकाशाद्वैद्यकविद्याध्ययनाय विश्वामित्रेण पुत्रस्य सुश्रुतस्य मुनिसूनुशतेन साकं प्रेषणस्य निर्देशेन, सुश्रुतसंहितायामाश्रमस्थं काशिराजं दिवोदासमुपेत्य सुश्रुतादीनां प्रश्नस्योपदेशलाभस्योल्लेखनेन च काश्यां क्वचनाश्रमे सुश्रुतस्योपदेशनमपि सम्भवति । परं तथात्वे इह स्थिति पश्चान्निर्दिष्टस्य चातुर्मास्यवृष्टिमतो देशस्य काश्यामनानुकूलतया, महाभारतादिगतदिवोदासकथायां हैहयैराक्रान्तस्य दिवोदासस्य राज्यभ्रंशे भरद्वाजाश्रमोगमस्य लाभेन च राज्यभ्रंशेन मुन्याश्रमोपगमे, किं वा पूर्वेषां राज्ञामन्तिमे वयसि वानप्रस्थचर्य्याया दर्शनेन वानप्रस्थमुपादाय तपोवनोपगमे, वृष्टिसमयप्राचुर्यवति गङ्गाद्वारदक्षिणप्रदेशे दिवोदासेन सुश्रुतस्योपदेशनं विहितं किलेति सम्भाव्यते । तेन इह त्विति आश्रमस्थमिति च समन्वेति । आश्रमस्थलमुपेत्योपदिष्टोऽपि दिवोदासस्य पूर्वाधिपत्यमुपादाय सुश्रुते काशिराजत्वेन निर्देशमपि युज्यते । महाभाष्यकृता शाकपार्थिवादि (२. ३. ७०) गणोदाहरणे ‘कुतपवासः सौश्रुतः कुतपसौश्रुतः’ इति निदर्श्य सुश्रुतसम्बन्धिनां सौश्रुतानां कम्बलरूपकुतपप्राधान्योल्लेखनेन सौश्रुतानामपि हिमवद्विप्रकृष्टदेशवासित्वं ज्ञायते । प्रचण्डग्रीष्मोष्मणा भर्जनकपालायितायां वाराणस्यां वसतः कुतपप्राधान्यवादे न नामकिं मपि यौक्तिकमालम्बनं भवेत् ।।
अत्रैवमृतुविभागद्वयोल्लेखो गणितप्रक्रियया संहितानिर्माणस्य संस्करणस्य च १५०० वर्षान्तरितं कालभेदं व्यनक्तीति श्रीयुतस्य एकेन्द्रनाथ²घोषमहाशयस्य विचारविशेषो दृश्यते । पूर्वोपदर्शितरीत्या बहुपुरुषानन्तरितानां धन्वन्तरिदिवोदाससुश्रुतानां तु नैतावत्समयान्तरालं सम्भवति । सुश्रुतानुयायिना सौश्रुतेनान्येन वा केनचित्पश्चात्संस्कररणे इदं संमवति । परमूत्तरतन्त्रसंहिताया वर्तमानसुश्रुतसंहिताया एव सप्तमाष्टमशताब्दयोः आरब्यादिदेशान्तरेष्वप्यनूदिततया, कम्बोडियागतयशोवर्मशिलालेखेष्वप्युल्लेखेन तावद्दूरदेशान्तरेष्वपि प्रचलितुं कालविशेषस्याप्यपेक्षिततया, वाग्भटज्वरसमुच्चयादिलेखेष्वप्युत्तरतन्त्रसहिताया एवास्याः संवादेन च नागार्जुनविहितसंस्कारप्रवादाभ्युपगमेनापि संस्कारनिष्पन्नतत्स्वरूपस्थितेरन्ततो गत्वा सप्तदशाष्टादशशतवर्षपूर्वत्वनिश्चयेन तदुपरिगणितप्रक्रियागतपञ्चदशशतवर्षयोजने मूलसंहिताया द्वात्रिंशच्छतवर्षप्राग्भाव आयाति ।।
धन्वन्तरेर्दिवोदासस्य, वायोविद³स्य वामक⁴स्यापि काशीपतित्वेन निर्देशात्कादृशैर्बहुभिर्वैद्याचार्यै राजर्षिभिः काश्यां पुराकाले वैद्यविद्यायाः प्रतिष्ठापनमवगम्यते । बुद्धकालिकस्य काशीयुवराजस्य ब्रह्मदत्तस्यायुर्वेदविद्याध्ययनाय तक्षशिलागमनस्य
१. विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान् । वत्स ! वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम् ।।
तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः । स हि धन्वन्तरिः साक्षादायर्वेदविदां वरः ।।
पितुर्वचनमाकर्ण्य सुश्रुतः काशिकां गतः । तेन सार्धं समध्येतुं मुनिसूनुशतं ययौ ।। (भावप्रकाशे)
२. Indian Historical Quarterly vol IV P. 557.
३. काश्यपसंहितायां (३३) पृष्ठे—“काशिराजं महामुनिः” इति ।।
४. चरके “काशीपतिर्वामकः” इति (सूत्र. अ. २५) ।।
५४ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
जातकग्रन्थे निर्देशोपलम्भेन पूर्वपरम्परानुवृत्तामायुर्वेदविद्यां रक्षितुं काशिराजकुले चिरकालमनुरागोऽवगम्यते। औपधेनवौरभ्रसौश्रुत-पौष्कलावेतानां चतुर्णां सुश्रुते समप्राधान्यनिर्देशेन पूर्वपुरुषीयं सौश्रुतमौपधेनवादिकं वा कतमतन्त्रं तत्र प्रसृतमासीदिति विशेषोल्लेखानुपलम्भेऽपि नागार्जुनभाष्यकारादिभिः सुश्रुतसौश्रुतानां विशेषतो ग्रहणेन औपधेनवादीनां नाम्नाप्य निर्देशेन च सौश्रुतः सम्प्रदायः पश्चिमदिग्भागेऽपि विशेषतः पूर्वप्रदेशे प्रचलित आसीदित्यूहितुं शक्यते। पश्चिमप्रदेशे कायचिकित्साप्रस्थानं, काश्यादिपूर्वप्रदेशेषु सौश्रुतं शल्यप्रस्थानं प्रचलितमासीदिति तु नियन्तुं नैव शक्यते। काशिस्थधन्वन्तरिसम्प्रदायेऽप्यष्टप्रस्थानोल्लेखो दृश्यते। "विविधानि शास्त्राणि भिषजां प्रचरन्ति लोके" (च.वि.अ.) इत्यात्रेयोऽपि सर्वतो नानाविधभैषज्यविद्यायाः प्रचारं स्वमुखेनोद्गिरति। चरकसंहितालेखात्पाञ्चालकाम्पिल्यादिषु, भेडलेखाद्धान्धारेषु, काश्यपलेखाद्गङ्गाद्वारकनखलादिष्वायुर्वेदविद्योपदेशस्य दर्शनेन तत्रापि सा विद्या प्रतिष्ठिता दृश्यते। तेन गान्धारादारभ्य, न केवलं गान्धारादपि तु बाल्हीकभिषजः काङ्कायनस्यापि तदात्वे उपलम्भेन बाल्हीकात् काशीपर्यन्तं पश्चिमोत्तरप्रदेशेषु भैषज्यविद्यायाः प्रचारः समुन्नतिश्च पूर्वमासीदित्यनुमातुं शक्यते। परं काशीयुवराजेन ब्रह्मदत्तेन तक्षशिलां गत्वा वैद्यविद्यायाअध्ययनस्य जातकग्रन्थात्, मगधान्तर्गतैन बुद्धसामयिकेन जीवकेन सन्निकृष्टां काशीमुपेक्ष्य तक्षशिलामुपेत्य भैषज्यविद्यायां विशेषवैदुष्यस्य संपादनस्य, ततोऽधीत्य निवृत्तेन तेन जीवकेन विद्यां लब्ध्वा पदस्थस्य ब्रह्मदत्तस्य समये कस्यचिच्छ्रेष्ठिपुत्रस्योदरं विदार्य काश्यां शस्त्रचिकित्सयोल्लाघनस्य, अन्येषामपि बहुशो रोगिणां तत्र तत्र शस्त्रचिकित्सया कायचिकित्सया च जीवकस्य ख्यातेश्च महावग्गलेखतोऽवगमेन, जातकग्रन्थेभ्यो देशदेशान्तरतोऽप्यधिजिगमिषूणां तत्रोपगमवृत्तोपलम्भेन च विद्यान्तराणामिव भैषज्यविद्यायाः कालक्रमेण बुद्धसन्निकृष्टसमये काश्यपेक्षया शल्यप्रस्थानीयविद्याया अपि तक्षशिलादिषु विज्ञानगौरवं प्रतीयते। काश्यां पश्चात् समये समये राज्योपप्लवस्येतिहासतोऽप्यवगमेन समयवशाद्धासः, आचार्यविशेषैश्चर्चाबाहुल्येन तक्षशिलादिष्वतिशयस्याधानमपि सम्भवति। अन्ततो गत्वा अशोकनृपसमये स्वदेश इव विदेशपर्यन्तमपि चिकित्सालयादीनामुद्घाटनेनेयं भैषज्यविद्या दूरदूरं प्रससार च। परं तादृशे विद्यापीठे तक्षशिलादिपरिसरप्रदेशेऽपि पश्चात्समयान्तरे विद्याह्रासमुपजगाम। तत्रापीतिहासलभ्येन राज्यविप्लवादिनेव हेतुना भवितव्यम्। तथैव बुद्धसमये तक्षशिलापेक्षया काश्यां तस्या विद्याया ह्रास इवानुभूयते॥
आत्रेयः
"इन्द्र ऋषिभ्यश्चतुर्भ्यः काश्यपवसिष्ठात्रिभृगुभ्यस्ते पुत्रेभ्यः शिष्येभ्यश्च प्रददुहितार्थम्" इति (पृ. ६१) काश्यपसंहितायां पूर्वसंप्रदायोल्लेखेन आयुर्वेदविद्यायामत्रेयप्रथमः संप्रदायः प्रवृत्तोऽवगम्यते। यत्र गोत्रनाम्ना आत्रेयाख्या भिक्षुरात्रेयः, कृष्णात्रेयः पुनर्वसुरात्रेयश्च आचार्या अवगम्यन्ते। अन्येऽप्यनेके अत्रिपरम्परागताआचार्या भवेयुः। यथा कश्यपपरम्परायां मारीचशब्देन विशेषितः कश्यपः कौमारभृत्यसंहितायाम्, एवमेवात्रेयपरम्परायां पुनर्वसुनाम्ना विशेषित आत्रेयः अग्निवेशादीनामुपदेशकश्चरक-संहितामूलोपदेशक आचार्यः। स एवायं पुनर्वसुरात्रेयश्चन्द्रभागाया मातुर्नाम्ना चरके "यथाप्रश्नं भगवता व्याहृतं चान्द्रभागिना" (सू. १३) इति, भेडसंहितायां "सुश्रोता नाम मेधावी चान्द्रभागमुवाच ह" (पृ. ३९) इति चान्द्रभागः चान्द्रभागी पुनर्वसुरित्यपि व्यवहृतो दृश्यते। चरके "त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता" (सूत्र. अ. ११) इति एकद्वस्थाने, भेडसंहितायामपि "कृष्णात्रेयं पुरस्कृत्य कथाश्चक्रमहर्षयः" इति क्वचन कृष्णात्रेयनाम्ना व्यवहारस्य दर्शनेन पुनर्वसुरात्रेय एव कृष्णात्रेय शब्देनापि व्यवह्रियते इत्यपि केषाञ्चिन्मतम्। अपरे तु श्रीकण्ठदत्तशिवदासादिभिः कृष्णात्रेयनाम्ना शालाक्यविषयकवचनान्तराणामुल्लेखेन आत्रेयपुनर्वसोरन्य एव कृष्णात्रेय इत्यपि वदन्ति। चरकसंहितायामादितोऽन्तपर्यन्त-मात्रेयनाम्नाऽऽत्रेयपुनर्वसुनाम्ना वा प्रायो व्यवहरणेन, भेडसंहितायामपि पुनर्वसुनाम्नाऽऽत्रेयस्य व्यवहरणस्य प्रायिकतया, आत्रेयपरम्परायां वर्तमानस्य कृष्णात्रेयनाम्न आचार्यान्तरस्यापि मतमुपादाय क्वचन तन्निर्देशनस्य चरकभेडसंहितयोः सम्भावितया, कृष्णात्रेयशब्दयोरेकत्र सहप्रयोगस्यानुपलम्भेन च कृष्णात्रेयः पुनर्वसुरात्रेयश्च विभिन्नावाचार्यौ इत्यपि वक्तुं शक्यते॥
चरकसंहितायामात्रेयपुनर्वसुना वार्योविदस्य तत्सहभाविनोमारीचिकश्यपस्य च पूर्वाचार्यदृशा उल्लेखनस्य पूर्वनिर्दिष्टतया मारीचकश्यपादुत्तरभावी, चरकसंहितागतेनोल्लेखेन काम्पिल्यराजधान्यां पाञ्चालप्रदेशे वर्तमान पुनर्वसुरात्रेय आचार्यइत्यवगम्यते॥ एवमस्यां काश्यपसंहितायां पादचतुष्कवर्णने—
उपोद्घातः ५५
अस्य पादचतुष्कस्य मन्यन्ते श्रेष्ठमातुरम् । तदर्थं गुणवन्तो हि त्रयः पादा इहेप्सिताः । नेति प्रजापतिः प्राह भिषङ्-मूलं चिकित्सितम् ।। (पृ. ३८-३९)
इति केवलं चतुष्पादकीर्तनं, तदपि संक्षिप्तलेखेन, चरकसंहितायां खुड्डकचतुष्पादाध्याये तेषां चतुष्पादानां चातुर्गुण्येन षोडशकलतयोपबृंहणम्, उत्तरत्र महाचतुष्पादाध्यायेऽपि तस्यैव विशेषविवरणं वर्ण्यमानमपि कश्यपात्रेययोः पौर्वापर्यमवगमयन् कश्यपसमयादात्रेयसमये उत्तरभाविनि क्रमप्राप्तं विचारविकासमवबोधयति ।।
एवं रोगनिर्देशे काश्यपीये संक्षिप्तक्रियया रोगविभागस्तदनुबद्ध विषयाश्चैकेनैव सप्तविंशतितमाध्यायेन निर्दिष्टाः सन्ति, आत्रेयीये तु तद्विषये चत्वारोऽध्यायाः, तत्र महारोगाध्याये एकस्मिन्नेव काश्यपीयोक्तविषयसंवादिनो विषयाः सन्ति, तत्पूर्वतने कियन्तःशिरसीयादिकेऽध्यायत्रये विशेषान्तरनिर्देशो विकासदृशमुन्मीलयति । एवमनुसन्धाने बहुशो निदर्शनानि दृश्येरन् ।।
न केवलं कश्यपात्रेययोः पौर्वापर्यमात्रमपि तु चरकसंहितायां पूर्वोपदर्शिते गर्भावक्रान्तिविषयकनानागतोपवर्णने “विप्रतिपत्तिवादास्त्वत्र बहुविधाः सूत्रकारिणामृषीणां सन्ति” इति कुमारशिरोभरद्वाजकाङ्कायनभद्रकाप्यभद्रशौनकवडिशवैदेहजनक-धन्वन्तर्याचार्यैः सह मारीचकश्यपस्यापि सूत्रकारिणामृषीणामितिपदेन सूत्रकर्तृत्वं मुखेन निर्दिश्य सनामग्राहं मतोल्लेखेन एषां महर्षीणां ग्रन्था अपि आत्रेयपुनर्वसुना दृष्टा अवगताश्चेति स्पष्टं लाभेन आत्रेयपुनर्वसोग्रन्थनिर्माणात् पूर्वमेव मारीचकश्यपीयो ग्रन्थः प्रसिद्ध आसीदित्यपि विशदीभवति ।।
चरकसंहितायां महाचतुष्पादाध्याये “प्रतिकु¹र्वन् सिध्यति प्रतिकुर्वन्म्रियते अप्रतिकुर्वन् सिध्यति अप्रतिकुर्वन्म्रियते तस्माद्भेषजमभेषजेनाविशिष्टम्” इति मैत्रेयमतमनुकूलं निर्दिश्य तत्खण्डनपरतया “मिथ्या चिन्त्यत इत्यात्रेयः” इत्यात्रेयसिद्धान्तोल्लेखेन भेडसंहितायां चतुष्पादाध्याये अप्रतिकुर्वतोऽपिसिद्धिं वदतो मतं खण्डयत आत्रेयस्य सशब्दसंवादं सनामग्राहं सिद्धान्तस्य प्रदर्शनेन चरकसंहितायां भरद्वाजालब्धं चिकित्साविज्ञानं प्रगुणीकृत्यात्रेयपुनर्वसुनोपदिष्टैर्भेडाग्निवेशादिभिः षड्भिः पृथक्तन्त्रप्रणयनोल्लेखेन तं संवादयता भेडसंहितायां प्रत्यध्यायमित्याह भगवान्नात्रेय इत्यात्रेयस्योपदेष्टतया निर्देशेन शरीरनिर्वृत्तिविषये पूर्वाचार्यमतोल्लेखे कश्यपस्यापि नामोल्लेखेन चात्रेयस्येव कश्यपस्यापि भेदात् प्राक्तनत्वमित्यपि निर्विवादमेव ।।
भेडसंहितायामात्रेयकश्यपयोः कश्यपसंहितायां भेडात्रेयपुनर्वस्वोश्चरकसंहितारूपायामात्रेयसंहितायां मारीचिकश्यपस्येति परस्परं नामोल्लेखेन, चरकसंहितायामात्रेयेण वार्योविदमारीचिकश्यपयोः पक्षप्रतिपक्षसंवादस्य कश्यपसंहितायां वार्योविदाय कश्यपेनोपदेशनस्योल्लेखेन च समसामयिकानामपि नानाचार्याणां प्रसिद्धतराणां मिथो मतोपादानस्य नामनिर्देशस्य भावितया च भेदाल्लेशतः पूर्वभाविनोः परस्परं सनामग्राहं मतमुल्लिखतोरात्रेयमारीचकश्यपयोर्वयस्तारतम्येन समसमयकत्वमपि युक्तिसहं भवति ।।
अथवा अस्यां काश्यपसंहितायां स्वोपजीवकयोर्वृद्धजीवकवात्स्ययोर्मतोल्लेखस्य कश्यपेन विधातुमयोग्यतया वृद्धजीवकवात्स्ययोर्नाममतोल्लेखः पश्चात्संस्करण प्रतिसंस्करणावसर एव प्रविष्टोऽवश्यमेव वक्तव्यः । एवमेव भेडादीनी पश्चाद्भावानां नाममतोल्लेखः संस्करणे पश्चात्प्रविष्टोऽपि सम्भवति ।।
१. सिध्यति प्रतिकुर्वाण इत्यात्रेयस्य शासनम्। अपि चाप्रतिकुर्वाण इत्याख्यद्व्रद्धशौनकः । नत्वेतां बुद्धिमत्रेयः शौनकस्यानुमन्यते । प्रतिकुर्वति सिद्धिर्हि वर्णोत्साहसमन्विता ।। (भेडसंहितायाम्, पृ. १५) अत्र भेडेन शौनकनाम्ना गृहीतस्य प्रतिमतस्य चरके मैत्रेयनाम्ना निर्देशो दृश्यते । गृहीतमतस्य संवादोपलम्भेन मुद्रितचरकपाठे समयवशेन् नामविपर्यासः, अथवा शौनक इति कुलनाम्ना मैत्रेय इति मातृनाम्ना एक एवाचार्यो निर्दिष्टोऽपि सम्भवति ।।
५ का.सं.
५६ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
एवञ्च सति कौटिलीय्यादिप्राचीनग्रन्थेषु मानवबृहस्पतित्वात्व्याधिप्रभृतीनामेवं यास्कादिगृहीतानां पूर्वाचार्याणां पक्षप्रतिपक्षभावेनोल्लेखेऽपि नैषामेतावत्तैव समकालकत्वं कल्पयितुं शक्यते। अतीताचार्यविषयानपि पुरःस्थपुस्तकादिगतान् बुद्ध्वावाकल्य्य परस्परं विमर्शरूपेण लेखनस्यापि प्राचीना शैली। तेनेतराचार्याणामेकतो नाममतोल्लेखमात्रं न समसमयकत्वं साधयति। यत्र तु द्वयोराचार्ययोर्ग्रन्थेषु मिथो नामोल्लेखो मतिनिर्देशो वा पश्चात्तनस्य पूर्वेण निर्देशात्सम्भवेन तथाभावे जीवकवात्स्यादिसदृशप्रतिसंस्कर्तृसत्त्वस्थले पूर्वोत्तरयोराचार्ययोर्मिथो ग्रन्थेषु नाममतनिर्देशं विधाय पश्चात्तनैः संस्करणमपि संभवति। किंवा तयोराचार्ययोः समसमयकतया स्वयमेव मिथो नामादिनिर्देशनमपि युज्यते, इतीदृशेषु पश्चात्प्रतिसंस्कृतेषु ग्रन्थेषु मिथो नामग्रहणादिना पौर्वापर्यं समसमयकत्वं वेति सूक्ष्मया दृशा साधनान्तरैर्विधेचनीयं भवति॥
तिब्बतीयापकथायां तक्षशिलास्थितादात्रेयाज्जीवकस्याध्ययनोल्लेखोपलम्भेन बुद्धकालीनजीवकस्य गुरुरात्रेय एव पुनर्वसुरात्रेय इति मत्वा चरकसंहितामूलाचार्यस्य पुनर्वसोरात्रेयस्य स एव बुद्धकालीनः समय इति बहुभिर्विवेचकैर्विपश्चिद्भिः सन्धार्यते। परं जीवकस्य विषये तिब्बतदेशीया इव सिंहलदेशीया ब्रह्मदेशीया अपि उपकथा दृश्यन्ते। मिथः कथांशेष्वनैकात्म्यमासु दृश्यते। जीवकस्याध्ययनोपवर्णने महावग्गलेखतस्तक्षशिलायां कस्माच्चिद्देव दिशाप्रमुखादाचार्याज्जीवकस्याध्ययनमायाति, न तु तद्गुरोरात्रेयत्वं ततः परिच्छेत्तुं शक्यते। चुल्लकसेट्ठिजातकेऽपि तक्षशिलायां पञ्चशतमाणवकाचार्यस्य दिक्प्रमुखस्य बोधिसत्त्वस्य निर्देशः, तत्कथायां पापकस्य जीवकस्य च नामनिर्देशोऽप्यस्ति। सिंहलोप$^१$कथां तु शक्रेण विशेषमहिमानं प्रापितात् कपलक्ष्य (कपिलाक्ष?) गुरोर्जीवकस्याध्ययनमुल्लिख्यते। ब्रह्मदेशीयोप$^२$कथायां तु न तक्षशिलायाम्, अपि तु वाराणस्यां गत्वा जीवकस्याध्ययनं निर्दिश्यते। इत्येवमुपकथानां मिथो विरोधेन कस्या उपकथायाः प्रमाणविधयाऽङ्गीकरणं विधीयेत। विरोध्युपकथान्तरैः सह विवदमानायास्तिब्बतीयकथायाःकेवलमुक्तिमुपादाय आत्रेयस्यावांगवतारणमर्वाग्भाव-साधनबद्धपरिकरेभ्य एव रोचताम्। ईदृशदुर्बलप्रमाणमुपादाय चरकसंहितामूलाचार्यस्यात्रेयपुनर्वसोः समयनिर्धारणं दुःसाहसंमन्ये। आत्रेयस्य जीवकगुरुत्वे जीवकेन स्वीयतन्त्रे आत्रेयस्य गुरुभावेन निर्देशनं किमिति न विधीयेत।
क्याङ्गुर-विनयस्य तृतीयभागे ६१ अध्याये (९२-१०८ पत्रेषु) जीवककुमार-(छ्वे गे सान नु) नाम्नो भिषग्राजस्यैवमाख्यानं दृश्यते– “जीवको राजानं प्रार्थ्य जीविकार्थं भेषज्यविद्यां पठित्वा कपालभेदनचिकित्सनविद्याविज्ञानाय तक्षशिलायां (ध्येजोग्) भिषग्राजस्य ध्युन् शेकि भु (नित्यप्रज्ञ?) नाम्रस्तद्विद्याविशेषज्ञस्य सकाशे सन्तुं राजानमभ्यर्थयामास। ततो नित्यप्रज्ञविदुषो भेषज्यविद्याविशेषलब्धये तत्रागच्छतो मत्पुत्रस्य जीवकस्याध्ययनप्रबन्धो विधेय इति तक्षशिलानृपतये पद्मसार (पद्म हि ङिङ् पो) नाम्ने लिखितं बिम्बसारपत्रमादाय तक्षशिलां गतो जीवकः प्राप्तपत्रेण नृपेणोक्तानित्यप्रज्ञ (घ्युन् शेकि भु) भिषग्राजाद्भेषज्यविद्यां जग्राह” इति। ‘घ्युन्=सदा अथवा नित्यः, शेकि=प्रज्ञायाः, भु=सूनु, सम्बन्धी;’ इति योगार्थमादाय तिब्बतीयभाषा-यास्तदीयगुरुवाचकस्य ‘घ्युन् शेकि भु’ इति तस्मिन्नाख्याने बहुवार प्रयुक्तस्य शब्दस्य दर्शनेन जीवकस्य गुरुस्तक्षशिलायां वर्तमानोभिषग्राजः कपालभेदनचिकित्सनविद्यायां विशेषतः प्रसिद्धो नित्य-(सदा) प्रज्ञो नामेति तिब्बतीयापाख्यानमूललेखतः समायाति। राहुलसाङ्कृत्यायनेन पालीभाषातो हिन्दीभाषायामनूदिते विनयपिटकेऽपि– “उस समय तक्षशिलामें (एक) दिशा-प्रमुख (=दिगन्तप्रसिद्ध) वैद्य रहता था” (पृ. २६७) इत्थं लिखितं वर्तते। नात आत्रेयो जीवकगुरुरिति प्रत्येतुं
१. Jivaka went to Takṣaśīlā to study medicine. The Professor agreed to teach him. At this moment the throne of S'akra trembled, as Jivaka had been acquiring merit through a Kap-Laksha, and was soon to administer medicine to Gautama Buddha.
Vide-Manual of Buddhism by Spence Hardy PP. 239.
२. Jiyaka, in order to afford relief and comfort to his fellew-creatures, he resolved to study medicine. He repaired to Banaras, placed himself under the direction of a famous physician and soon became eminent by his extreme proficiency in the profession.
Vide-Legend of the Burmese Buddha p. 197 by Right Revrent p. Bigandet.
उपोद्घातः ५७
शक्यते। ‘तिब्बतीयोपकथात आत्रेयो जीवकगुरुरवगम्यते' इति वदतां विदुषामपि नाम किमप्यवलम्बनान्तरं बलवदिति विमर्शस्थानमेतत्॥
किञ्च-आत्रेयपुनर्वसुनाऽग्निवेशस्योपदेशनस्थानं “जनपदमण्डले पाञ्चालक्षेत्रे काम्पिल्यराजधान्याम्” इति निर्देशेन काम्पिल्यप्रदेश इति स्पष्टमेव। यदि नाम बुद्धसामयिकजीवकीयेतिवृत्ते तिब्बतीयकथाजातकादिषु तक्षशिलायामात्रेयादध्ययनोल्लेखेन तक्षशिलाध्यापकं आत्रेयोऽग्निवेशस्योपदेशकः स्यात्तदा तक्षशिलाया उल्लेखोऽग्निवेशसंहितायां कथं न दृश्येत। तक्षशिलाप्रदेशे भूगर्भनिगतप्राचीननगरत्रये दक्षिणभागस्थो विर्माउण्डसञ्ज्ञको भागः पूर्वकालिकः B. C. १०००-१२०० समयात्प्रसिद्ध आसीदिति ऐतिहासिका वदन्ति। ^१पाणिनिनाऽपि तक्षशिलायाः सूत्रे निर्देशः क्रियते। बुद्धसमयादपि पूर्वसमये तक्षशिलायां विद्याप्रचार आसीदिति ऐतिहासिकैरप्युपवर्ण्यते। मागधस्य जीवकस्य काशीराजब्रह्मदत्तस्यापि तक्षशिलायां वैद्यशास्त्राध्ययनायोपगमनोल्लेखेन तदात्वे तक्षशिला विद्यान्तराणामिव आयुर्वेदविद्याया अपि प्रधानं विद्यापीठमासीदिति महावग्गजातकादिलेखेभ्योऽपि व्यक्तमेव। पुनर्वसोरात्रेयस्य तदन्तेवासिनोऽग्निवेशस्य च तत्सामयिकत्वे आत्रेयसंहिताकर्त्रा अग्निवेशसहिताकर्त्रा वा तादृश्याः प्रसिद्धविद्यापीठरूपायास्तक्षशिलाया नामोपादानं किमिति न क्रियते। तस्यामग्निवेश-संहितायामात्रेयपुनर्वसोरुपदेशस्थानानि यावन्ति कीर्तितानि तत्र नैकत्रापि तक्षशिलाऽनुस्मर्यते। एवंरूपां तक्षशिलामनुपादाय काम्पिल्यादावुपदेशनस्योल्लेखेन तक्षशिलायास्तत्समये प्रसिद्धिरेव नासीत्। तस्या विद्यापीठभावसमयात् पूर्वमेव ^२काम्पिल्ये आत्रेयपुनर्वसुनाऽग्निवेशस्योपदेशनं प्रतीयते। काम्पिल्य^३देशो हि वेदसमयात् प्रभृति प्रसिद्धः। शुक्लयजुर्वेदतैत्तिरीय-मैत्रायणीयकाठकसंहितासु च काम्पिल्यशब्दो लभ्यते। पाञ्चा^४लशब्दोऽपि वेदेषु ब्राह्मणेषु उपनिषत्स्वपि दृश्यते। नैव तक्षशिलाया वेदेषु ब्राह्मणेषु उपनिषत्सु वा प्राचीनग्रन्थेषु उल्लेखोऽस्ति। महा^५भारतेऽप्युपक्रमोपसंहारभागयोरेव, रामाय^६णेऽप्युत्तरकाण्डे एव तदुल्लेखोपलम्भात्तक्षशिलायाः पश्चाद्भावः स्पष्टमवगम्यते। न केवलमात्रेयपुनर्वसुनाऽग्निवेशेन, नानादेशानुपवर्णतया मारीचकाश्यपेन तदन्तेवासिना वृद्धजीवकेनापि तक्षशिला नोल्लिखिता। न वा सुश्रुतसंहितायां भेडसंहितायां वा तन्नामोपलभ्यते। बुद्धसामयिकजीवकाचार्यः केवलमात्रेयशब्देन तक्षशिलागतत्वेन च निर्दिश्यते। चरकीयात्रेयाचार्यो हि आत्रेयपुनर्वसुशब्देन काम्पिल्यस्थानीयत्वेन निर्दिश्यते इति स्पष्टो विशेषः। एकस्यैवात्रेयस्यान्तेवासिनौ एतौ जीवकाग्निवेशौ यद्यभविष्यतां तदा जीवककथायां तादृशप्रधानसतीर्थ्यस्याग्निवेशस्य नाम, अग्निवेशलेखे वा तादृशविशिष्टबुद्धिमत्तया प्रसिद्धस्य जीवकस्य नाम किमिति न निरदेक्ष्यत। अग्निवेशस्याचार्य आत्रेयपुनर्वसुः कायचिकित्सायामेवाचार्योऽवगम्यते। येनाग्निवेशादिभिरपि तद्विषय एव संहिता निरमायि। जीवकाचार्य आत्रेयः कायचिकित्सायां, ततोऽपि विशेषतः शल्यप्रस्थाने परिनिष्ठित आसीदिति अन्तेवासिनो जीवकस्य भैषज्यप्रक्रियातः स्पष्टीभवतीति विद्याप्रस्थानविशेषोऽप्यनयोरात्रेययोर्व्यक्तिभेदं साधयति। एवं दर्शनेन तक्षशिलाभ्युत्थानात् पूर्वतनोऽयं काश्यपात्रेयाग्निवेशभेडदिवोदासादीनामायुर्वेदविद्योपदेशनग्रहणधारणसमय इति कथं वक्तुं न शक्यते। एवं पाणिनीये कच्छादिगणे (४. २. १३३), तक्षशिलादिगणे (४. ३.९३) दृश्यमानस्य
१. सिन्धुतक्षशिलादिभ्योऽणञौ (पाणिनिसूत्रम् ४-३-९३)।
२. पार्श्वे हिमवतः शुभे (पृ. ५), वने चैत्ररथे रम्ये (पृ. १२९), जनपदमण्डले पाञ्चालक्षेत्रे काम्पिल्यराजधान्यां ... । शिष्यमग्निवेशमब्रवीत् (पृ. २३६) पञ्चगङ्गे पुनर्वसुम् (पृ. ४२४), कैलासे नन्दनोपमे (पृ. ४८०) इत्यादि।
३. अम्बे अम्बिके ........ सुभद्रिकां काम्पीलवासिनीम्-(यजुर्वेदे २३. १८)।
४. पञ्चालानां समितिमियाय (शतपथब्राह्मणे)।
५. उपलभ्यमानमहाभारते तक्षशिलाशब्द आदिपर्वणि तृतीयाध्याये द्विवारं, स्वर्गारोहणपर्वणि ५ अध्याये च दृश्यते-‘गुरवे प्राङ् नमस्कृत्य” (१/५५ अध्यायतः) इत्यारभ्य महाभारतस्योपक्रमः, ततः पूर्वतनो भागस्तु सूतेन पश्चात् पूरित इति महाभारतविमर्शं (Bhandarkar O. R. I. vol XVI part III, IV) मया निर्दिष्टमस्ति।
६. रामायणे उत्तरकाण्डे ११४ अध्याये २०१ श्लोके॥
५८ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
पाश्चात्त्यप्रसिद्धदेशवाचकस्य काश्मीरशब्दस्य वेदब्राह्मणेष्विव आत्रेयाग्निवेशसंहितायामनुपलम्भेन तदात्वे काश्मीरदेशस्य सद्भावेऽपि विद्यापीठभावेन प्रसिद्धेः पूर्वतनस्तदीयो गौणभावोऽवबुध्यते। अन्यथा काम्पिल्यपाञ्चालपरिसरप्रादुर्भूतायामात्रेयसंहितायां काम्पिल्यादिसन्निकृष्टस्य तथा प्रसिद्धस्य काश्मीरस्यानुल्लेखः कौतुकं किं न जनयति ।।
एवं च तिब्बतीयोपकथायाः प्रामाण्याभ्युपगमेन तदाचार्यस्यात्रेयत्वाभ्युपगमेऽपि गोत्रबोधकेनात्रेय शब्देन नानाव्यक्तीनां व्यवहारस्य दर्शनेन, गोत्रवाचकात्रेयशब्दमात्रमुपादाय सोऽयमेवात्रेयपुनर्वसुरिति न निश्चेतुं शक्यते । किन्तु बौद्धग्रन्थोक्तजीवकाध्ययनस्थानत्वेन निर्दिष्टायास्तक्षशिलाया अध्यापकत्वेन तिब्बतीयकथातोऽवगम्यमान आत्रेय आत्रेयपुनर्वसोः पश्चाद्भवो बुद्धकालिकोऽन्य एव गोत्रनाम्ना व्यवहृत आत्रेयः कोऽपि स्यादिति सम्भाव्यते । राजर्षेर्वयोविदस्य बुद्धसमये तदुत्तरं वा न क्वापीतिहासे उपलब्मोऽस्ति । वयोविदसहभाविनः पुनर्वसोरात्रेयस्य मारीचकश्यपेन सहाविप्रकृष्ट औपनिषदः समय इत्यवोचाम । तेनात्रेयपुनर्वसोः समयो बुद्धकालिक इति निर्धारयितुमवलम्बितं साधनं दुर्बलं प्रतिभाति ।
चरकसंहितायामात्रेयपुनर्वसोः प्रधानान्तेवासितया निर्दिष्टोऽग्निवेशः, तत्सतीर्थ्या भेडादयश्च तत्सामयिका अग्निवेशः एव भवितुमर्हन्ति ।।
अग्निवेशः
अग्निवेशसंहितायां तक्षशिलाया अनुल्लेखेन पाणिनीय¹सूत्रे तक्षशिलाया उल्लेकेन, पाणिनिना गर्गादिग²णे जतूकर्णपराशराग्निवेशशब्दानामुल्लेखेन च अग्निवेशस्य पाणिनितोऽपि पूर्वः समयः प्रतीयते । यद्यपि पाणिनीयेषु तेष तेषु गणेषु समानवर्गीया एव शब्दा उद्दिश्यन्ते इति न नियमः, तथाऽपि भाषाप्रगतिदृशा प्राय एकजातीयेषु शब्देषु प्रत्ययाद्यैकरूप्येण शब्दानां प्रायिकी एकाकारता दृश्यते । येन पाणिनीयगणेषु ऋषिदेशनदीनगरप्राण्यादिवर्गीयाः शब्दाः सह गृहीताः प्रायशो दृश्यन्ते । अस्मिन् गर्गादिगणे जतूकर्णपराशरभिषज्चिकित्सितशब्दानां पाठेन सन्निधिपाठमवाप्तः पराशरशब्दो वैद्याचार्यस्य पराशरस्य बोधकः स्यात् । तस्मिन् गणे प्रविष्टोऽग्निवेशशब्दोऽपि समानन्यायेन आत्रेयशिष्यस्य वैद्याचार्यस्याग्नि वेशस्य बोधको बहुशः सम्भवति । तथात्वेऽग्निवेशस्य पाणिनेरपि प्राक्तनत्वमायाति ।।
पू³र्व निर्दिष्टेषु हेमाद्रिलक्षणप्रकाशोद्धृतशालिहोत्रश्लोकेषु आयुर्वेदकर्तृणां नामावल्यामग्निवेशस्य हारीतक्षारपाणि-जातूकर्णपराशरादिभिः सतीर्थ्यतथा ज्ञातैराचार्येणात्रेयेन च सह नामोल्लेखो दृश्यते । पालकाप्यकृते हस्त्यायुर्वेदेऽपि चतुर्थस्थाने ४ अध्याये स्ने⁴हविशेषवर्णनेऽग्निवेशस्य मतोल्लेखोऽस्ति । चरकसंहितायां (पृ. ७७) पुनर्वसुमतत्वेनोपलभ्यमानो द्वैविध्यवादो भरद्वाजमतत्वेन, चातुर्विध्यवादो गौतममतत्वेन पालकाप्ये दर्शितः । पालकाप्ये प्रयोगतः साप्तविध्यवादोऽग्निवेशमतत्वेनोल्लिखितोऽस्ति । वर्तमानचरकसंहितायां स्नेहान्तराणामुल्लेखे सत्यपि चतुर्णां स्नेहानामेव विशेषतः प्रयोगा दृश्यन्ते । सोऽयं संस्कारकृतो विशेषः किमु ? ।।
पूर्वे ऋषयो वेदवेदाङ्गविषयेष्विव केचन आयुर्वेदविषयेष्वपि ज्ञानवन्त आसन्निति तत्र तत्र गतैर्विषयैरवगम्यते । यद्यपि समानाभिधानवन्तोऽनेके संभवन्ति, मज्झम⁵निकाये गौतमबुद्धेन सहाध्यात्मिकचर्चापरस्य सञ्चक (सत्यक) नामकस्य निगण्ठ (निर्ग्रन्थ) नाथपुत्रस्यापि गोत्रनाम्ना अग्निवेशशब्देन सम्बोधनमुपलभ्यते । साधकबाधकप्रमाणान्तरोपलम्भं विना स
१. सिन्धुतक्षशिलादिभ्योऽणञौ । (पाणिनि. सू. ४. ३. ९३)
२. गर्गादिभ्यो यञ् । (पाणिनि. सू. ४. १. १०५)
३. अत्रैवोपोद्घातलेखे आचार्यपरिच्छेदे पृ. १२ ।
४. तद्यथा-नवनीतं घृतं मस्तिष्कं मज्जा तैलं फलतैलं मेदो वसा शुक्रमित्येते नव स्नेहविशेषाः । तत्र शुक्रमस्तिष्कव्यपेता गार्ग्यः प्रोवाच, प्रयोगतः स्नेहान् सप्ताग्निवेशः, चतुरः स्नेहांस्तेषां प्राह गौतमः सर्पिस्तैलं वसा मज्जा चेति, भरद्वाजस्तु स्थावरजङ्गमौ द्वौ विशेषौ प्राह । (पालकाप्ये, पृ. ५८१) ।।
५. मज्झिमनिकाये पृ. १३८ ।
उपोद्घातः ५९
एवायं न वाऽयमिति निश्चेतुं न शक्यते, व्यक्तिविशेषनिर्धारणेन संभावनां द्रढयितुं साधनान्तरविकासोऽपेक्ष्यते, तथाऽपि ब्राह्मणोपनिषत्कालिकत्वेन समर्थितानां दिवोदासप्रतर्दनादीनामनतिविप्रकृष्टत्वेन आत्रेयस्य प्रदर्शिततया तत्कालिक आत्रेयशिष्योऽग्निवेशः शतपथब्राह्मणे आयुर्वेदीयविषयाणामुपलम्भेन तदीयवंश¹ ब्राह्मणे निर्दिष्टस्याग्निवेश्यस्य पूर्वपुरुषतया ज्ञायमानोऽग्निवेशः किमयमपि बहुशः सम्भवति । आत्रेयोऽस्मिन्नायुर्वेदप्रस्थाने परमाचार्यः, यस्याग्निवेशादयः षट् प्रधानतमाः शिष्यास्तदुपदेशाँस्तत्तत्संहितोक्तीश्चोपादाय स्वस्वविचारविशेषावनद्धैर्निबन्धैः पृथक्पृथक्प्राकाशयन् । तेषु, अग्निवेशस्य मुख्यतन्त्रकर्तृत्वेन चरकसंहिताया उपक्रमोल्लेखादग्निवेशतन्त्रं सर्वमूर्धन्यमासीदित्यपि प्रतीयते । एकस्यापि नभोमध्यमणेः प्रभायास्तत्तत्प्रदेशतारतम्यवशेन प्रतिफलनतारतम्यवदात्रेयाचार्यस्योपदेशा अग्निवेशहारीतक्षारपाणिप्रभृतीनां विदुषामन्तःकरणेषु पतिता यथास्वं ग्रहणधारणमननप्रयोगानुभवविशेषैर्विभिन्नभावेन विशेषात्मना उच्चावचविभिन्नतन्त्राणां निबन्धने कारणतामुपजग्मुः । तेष्वपि अग्निवेशस्य निबन्धनं प्राथम्यं विशिष्टतां च लोके दर्शयामास । अतः किल अग्निवेशतन्त्रमेव चरकाचार्येण संस्कृतं सर्वतः प्रसिद्धिमपदे । अस्य वैशिष्ट्यमेव हारीतक्षारपाण्याद्याचार्यान्तरग्रन्थानां प्रचारविरलीभावेनाद्यत्वे विलोपायापि हेतुतामवाप किल ? ॥
चरकः
आत्रेयपुनर्वसूपदेशमादाय निबद्धाया अग्निवेशसंहितायाः पश्चात् संस्कर्तृतयोल्लिखितश्चरकाचार्यः कतमः किंसमयको वेति विमर्शे यद्यपि तत्र तत्र ग्रन्थेषु चरकशब्दप्रयोगः, तेन शब्देन तत्र तत्र विभिन्ना ना²नार्थाः प्रतीयमाना अप्युपलभ्यन्ते; तथाऽपि एतमर्थमुपादाय वैद्याचार्यश्चरकनाम्ना प्रसिद्ध आसीत्, अमुकोऽयमाचार्य इति निर्धार्थ यथावत्परिच्छेत्तुं न शक्यते ॥
भाव³प्रकाशे आयुर्वेदाचार्याणामुपवर्णने साङ्गान् वेदानथर्वन्तर्गतमायुर्वेदं च ज्ञातवतः शेषस्य पृथिवीवृत्तमवगन्तुं चररूपेणावतीर्णस्यावताररूपो वेदवेदाङ्गवेदिनः कस्यचिन्मुनेः पुत्रः आयुर्वेदवेत्ता चरकाचार्यश्चर इवेति निर्वचनमादाय तेन नाम्नाप्रसिद्ध आत्रेयशिष्यैरग्निवेशादिभिर्विहितान्यायुर्वेदीयतन्त्राणि उपादाय संस्कृत समाहृत्य चरकसंहितानाम्ना ग्रन्थं निबबन्धेति चरकसंहिताप्रणेतुरायुर्वेदाचार्यस्य चरकस्येतिवृत्तमुल्लिखितमुपलभ्यते ॥
चरकशब्दो वैद्यरूपमर्थं बोधयति, येन एकद्वस्थले व्यक्त्येरेऽपि चरकशब्दव्यवहारो दृश्यते इत्यपि केचनोपवर्णयन्ति ।
१. आग्निवेश्यादाग्निवेश्यः (शतपथब्राह्मणे) ॥ २. I. कृष्णयजुर्वेदीया एकतमा शाखाऽपि चरकनाम्ना प्रसिद्धाऽस्ति, यच्छाखीयाश्चरका इति शतपथादिषूल्लिखिता दृश्यन्ते । II. ललितविस्तरे १ अध्याये “अन्यतीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानाम्” इति श्रमणादिश्रेण्यां केषाञ्चिच्चरणशीलानां तपोवृत्तीनां बोधकश्चरकशब्दो लभ्यते । III. वराहमिहिरेण बृहज्जातके (१५-१) प्रव्रज्यायोगवर्णने “शाक्या जीविकभिक्षुवृद्धचरका निर्ग्रन्थवन्याशनाः” इत्युपात्तस्य चरकशब्दस्य भट्टोत्पलेन “चरकश्चक्रधरः” इति, रुद्रेण “चरका योगाभ्यासकुशला मुद्राधारिणश्चिकित्सानिपुणाः पाखण्डभेदाः” इति व्याख्यानं विहितमस्ति । IV. श्रीहर्षेण नैषधचरिते (४/११६) “देवाकर्ण्य सुश्रुतेन चरकस्योक्तेन जानेऽखिलम्” इति द्वितीयार्थे चरः स्पर्श एव चरक इत्यपि बोधितमस्ति । V. ब्रह्मणे ब्राह्मणमिति तैत्तिरीयसंहितामन्त्रगते चरकाचार्यपदे भाष्यकृता सायनेन वंशाग्रनर्तक इति व्याख्यानेन नटविशेषोऽपि चरकशब्देन बोध्यते ॥ ३. अनन्तश्चिन्तयामास रोगोपशमकारणम् । सञ्चिन्त्य स स्वयं तत्र मुनेः पुत्रो बभूव ह ॥ प्रसिद्धस्य विशुद्धस्य वेदवेदाङ्गवेदिनः । यतश्चर इवायातो न ज्ञातः केनचिद्यतः ॥ तस्माच्चरकनाम्नाऽसौ ख्यातश्च क्षितिमण्डले । आत्रेयस्य मुनेः शिष्या अग्निवेशादयो भवन् ॥ मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम् । तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता ॥ चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः । (भावप्रकाशे)
६० काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
परं चरकशब्दस्य वैद्यपर्यायत्वे अभिधानग्रन्थेष्वपि वैद्यपर्यायश्रेण्यां तदुल्लेखेन, सुश्रुतादिष्वाचार्य्यान्तरेष्वपि तत्प्रयोगेण च भवितव्यं, न चैवमस्ति, अपि तु चरकसंहिताप्रणेतरि व्यक्तिविशेषे एव रूढोऽयं शब्दस्तमेव निसर्गत उपस्थापयति। तेन क्वचन व्यक्त्यन्तरे दृश्यमानोऽयं चरकशब्दः कलिभीम इत्यादिवदौपचारिक इति वक्तव्यमेव। आयुर्वेदीयविषयाणा-मथर्ववेदेविशेषोपलम्भेन कश्यपसुश्रुतसंहितयोरिव एतदीयसंहितायामप्यथर्ववेदस्यास्मिन् विषये प्राधान्यंकीर्तनं चरकशाखीयत्वेऽपि चरकाचार्य्यस्य न व्याहन्यते। तेन गोत्रनाम्नाऽऽत्रेयस्येव शाखानीम्नाऽप्यस्य चरक इति प्रसिद्धिरपि सम्भवति। किंवा तद्-व्यक्तेश्चरक इति रूढमेव संकेतनाम स्यात्। अथवा पश्चिमविभागे पूर्वं नागजातीनामितिवृत्तोपलम्भेन तज्जातीयो विद्वान् सन् भावप्रकाशोक्तरीत्या शेषावतारश्चरकः कीर्तितः किल ? । बृहज्जातकव्याख्याकृतो रुद्रस्य लेखानुसारेण वैद्यविद्याया विशेषविद्वानसौ लोकोपकारदृशा भिक्षुवृत्त्या ग्रामे ग्रामे चरित्वाँ वैद्यविद्याया उपदेशेन भैषज्येन च लोकोपकारं विदधान आसीत्। अतः किल सञ्चरणशीलभिक्षुरूपार्थमादाय चरकनाम्ना प्रसिद्धः स्यादित्यपि बहुशः सम्भवति। अस्तु नाम यथातथाऽपि अस्य चरकनाम्ना ख्यातिः, सोऽयं चरकाचार्य आत्रेयसंहितोपदेशमुपादायाग्निवेशनिबद्धस्य तन्त्रस्य प्रतिसंस्कृत्य प्रकाशनेन आयुर्वेदीयभैषज्य-विद्यायामतिनिष्णातातया पूर्वसमयादेवाचार्यकुक्षौ संमानित आसीदित्यवगम्यते, येन वाग्भटादयोऽपि चरकाचार्य विशेषतः कीर्तयन्ति। जयन्तभट्टोऽपि न्यायमञ्जर्यां-प्रत्यक्षीकृतदेशकालपुरुषादशाभेदानुसारिसमस्तव्यरस्तपदार्थशक्तिनिश्चयाश्चरकादयः'' इति सबहुमानमेनमाचार्यमनुस्मरति ॥
एतदीयसमयविचारे “कठचरकाल्लुक् (४-३-१०९) इति पाणिनिना चरकशब्दस्य निर्देशात्चरकाचार्यस्य पाणिनेरपि प्राक्तनत्वमिति कैश्चन विद्वद्वरैः प्रतिपादितम्। परमस्मिन् सूत्रे निर्दिष्टश्चरकः कठसाहचर्य्याच्चरणव्यूहोक्तिसंवादाच्च संहिताद्रष्टा, किंवा तत्सांप्रदायिकोऽन्य एव प्राचीनौ महर्षिरिति निश्चीयते। चरकशाखासंहिताऽप्यद्यत्वे मुद्रितोपलभ्यते। “माणवकचरकाभ्यां खञ्” इति सूत्रान्तरे (५-१-१४) उपात्तश्चरकशब्दोऽपि ञित्वस्य स्वरार्थतया निर्देशेन स्वरस्य विशेषतो वैदिक्यां प्रक्रियायामुपयोगाच्च लौकिकैकचरकव्यक्तिपरत्वकल्पनापेक्षया चरकशाखीयपर एव कल्पयितुमुचितः प्रतिभाति॥
याज्ञवल्क्य¹स्मृतिव्याख्यायां विश्वरूपाचार्येण “तथा च चरकाःपठन्ति” इत्युद्धृते वाक्ये अश्विनोर्भैषज्योपदेशदर्शनेन आपाततो वैद्यविषयत्वप्रतिभासेऽपि मधुन आपदि ब्रह्मचर्यप्रतिघातकत्वे साधकतया निर्दिष्टत्वेन एतत्सम्श्रेण्यां वाजसनेयिनामपि वचनोद्धारेण तत्साहचर्य्याच्च चरका इति चरकशाखीया एव निर्दिष्टा इति स्पष्टमवबुध्यते। काशिकावृत्तेर्लेखानुसारेण वैशम्पा²यनान्तेवासिनश्चरकत्वेन व्यवहारोऽपि चरकशाखाप्रवर्तकत्वेनैव दृश्यते॥
शुक्लयजुःसंहितायां ३० अध्याये पुरुषमेधप्रकरणे १८ मन्त्रे 'दुष्कृताय चरकाचार्यम्' इति मन्त्रप्रतीको दृश्यते। तस्य व्याख्याने हिन्दीभाषाभाष्यकृता मिश्रसहाशयेन चरकाचार्यो वैद्यशास्त्राचार्य इत्यर्थः कृतः, ततश्च वैद्याचार्यश्चरकोऽतिप्राचीन इत्यपि केनचिदुच्यते। परं तथाव्यक्तिपरकत्वेन व्याख्याने किंवा मूलं स्यात्। एकेनैव पुरुषेधे चरकाचार्यस्य दुष्कृतदेवतायै समुपहरणे पश्चात्तनेन यज्वना क उपह्रियेत। महीधरेण तु चरकाणामाचार्यं गुरुमिति सामान्यरूपेणाव्यक्तमेव विवरणं विहितम्। चरकशाखीयानामाचार्यमिति चरकशाखीयोपादानमपि प्रकरणासङ्गतं प्रतिभाति। यतो हि अस्मिन् प्रकरणे जातिविशेषाणां नानावृत्तिमंतां च पुरुषाणां मेधोपहरणीयतयोपादानं दृश्यते। न तु कस्यापि शाखाविशेषानुयायिनो व्यक्तिविशेषस्य वा। अस्मिन्नेव मन्त्रे कितवादयः प्रायो दुर्वृत्ति मन्तो निम्नश्रेणीकाः पुरुषास्तदुचिताभ्यो देवताभ्यो निवेद्यमाना ज्ञायन्ते, तेन दुष्कृतदेवतायै समर्प्यमाणश्चरकाचार्योऽपि कश्चन दुर्वृत्तिमानेव भवितुं युज्यते। एतत्पदं चरकाचार्यपरं तच्छाखीयानामाक्षेपपरमिति
१. तथा च चरकाः पठन्ति-श्वेतकेतुं हारुणेयं ब्रह्मचर्यं किलासौ जग्राह। तमश्विनावूचतुः, मधुमांसौ किल ते भैषज्यमिति। सहोवाच ब्रह्मचर्यमानी कथं मध्यश्रीयामिति। तौ होचतुः यदा चात्मना पुरुषो जीवति अथान्यत्सुकृतं करोतीत्यात्मानं सर्वतो गोपायेत्। अथ खल्वाहर्वाजसनेयिनः....... इत्यादि (याज्ञवल्क्यटीका बालक्रीडा १-२-३२) २. चरक इति वैशम्पायनस्याख्या, तत्संबन्धेन सर्वे तदन्तेवासिनश्चरका इत्युच्यन्ते॥ (काशिकावृत्तिः ४-३-१०४)
उपोद्घातः
६१
ज्ञानकोशकृतां मतं, परं शतपथे चरकशाखीयबोधकस्य चरकपद्यस्य बहुशो दर्शनेऽपि कर्मविशेषेतदीयसम्प्रदायमात्रं तत्रावबोध्यते, न तु तदाक्षेपः । तैत्तिरीयब्राह्मणगतमन्त्रेऽपि दुष्कृताय चरकाचार्यमिति पदमस्ति । तत्र सायनेन चरकाचार्यं वंशाग्रव(न)र्तनस्य शिक्षयितारं नटविशेषमित्यर्थः कृतः, न तत्र चरकशाखाचार्योऽभिप्रेयते । कृष्णयजुर्वेदीये मन्त्रे दृश्यमानस्य पदस्य आक्षेपदृशा तद्भागीयाचरकशाखाचार्यपरत्वं नापि युज्यते इति प्रकरणशुद्धिमल्यनुरुध्य सायनीयव्याख्यानवदत्रापि तादृश एव दुर्वृत्तिकः प्रत्येतुं युज्यते । चरः स्पर्शश्च एव चरक इति स्वार्थे प्रत्ययेन नैष¹ध इव चरकाचार्यपदेनात्र स्पर्शवृत्तीनां प्रधानतम इत्यप्यर्थः सम्भवति । तथा सति प्रकरणशुद्धिः, कितवसन्निधानं, दुर्वृत्ततया योग्यं योग्याय दातव्यमिति न्यायेन दुष्कृतदेवतायै निवेदनं च सङ्गच्छते । यजुर्भाष्यकृता दयानन्दस्वाभिना भक्षकाणामाचार्य इत्यर्थो निर्दिष्टः, अयमर्थश्चरगतिभक्षणयोरिति धातुमुपादाय लिखितः स्यात् ॥
“चरके पतञ्जलिः” इति नागेशस्य, “पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः” इति चक्रपाणिदत्तस्य च उक्त्योस्तदुपोद्बलकतया विज्ञानभिक्षुभोजभावमिश्राद्युक्तीनां प्रामाण्यमङ्गीकृत्य कैश्चिच्चरकपतञ्जल्योरेक्ये, कैश्चिदनयोरनैक्ये न स्वमतमुपवर्णितमालोक्य विचारारूढे स्वमनसि प्रतिभातं किञ्चिदुपन्त्यस्यते—
पतञ्जलिर्हि अरुणद्यवनः साकेतमिति यवनाक्रमणमतीतत्वेन, पुष्पमित्रं याजयाम इति अशोकमनु वैदिकधर्मं प्रत्युज्जीवयन्तं पुष्पमित्रं वर्तमानत्वेनोल्लिखन् विक्रमाब्दारम्भाद्विशतवर्षपूर्ववर्तितया निश्चीयते । भण्डारकरमहोदयेनापि महाभाष्यपुराणपाश्चात्त्येतिहासादीनालोच्य महाभाष्यकारस्य B. C. २०० समयो निर्धारितोऽस्ति । तथा च चरकस्य प्राचीनतरत्वाभ्युपगमे दूरे सङ्गमनम्, त्रिपिटकलेखमात्रेण कनिष्कसामयिकत्वस्वीकारे तु कनिष्कपुष्पमित्रसामयिकयोर्द्विशतवर्षान्तरितयोश्चरकपतञ्जल्याचार्ययोरेकव्यक्तिकत्वकल्पना प्रतिहन्यते । योगे व्याकरणे च पतञ्जलिनाम्ना व्यवहृतस्य वैद्यके तदनुल्लिख्यान्येनैव चरकनाम्नाऽभिधाने वा किन्नाम कारणं स्यात् । महाभाष्ये गोनर्दीयस्त्वाहति निर्देशेन भाष्यकृद्गोनर्ददेशीयत्वमात्मनो बोधयतीत्यपि विचारविशेषोऽस्ति । गोनर्दस्तु ‘एङ् प्राचां देशे’ इति सूत्रव्याख्याने काशिकाकृता गोनर्दीयशब्दोदाहरणेन प्राग्देशान्तर्गतोऽवबुध्यते इति वर्तमानो गोण्डाप्रदेश इति निरूप्यते श्रीयुतभाण्डारकरमहोदयेन । काश्मीरस्य पूर्वेतिवृत्ते गोनर्दनृपोपलम्भेन काश्मीरप्रदेशो गोनर्ददेश इत्यपि कस्यचिन्मतमस्ति । यदि भाष्यकार एव गोनर्दीयस्तर्हि तस्य चरकस्य चाभेदे चरकः प्रतिसंस्कारांशे क्वचनात्मनो गोनर्ददेशं कथं नोल्लिखति । चरकसंहितायां तु पाञ्चालपञ्चनदकाम्पिल्यप्रदेशा-नामुल्लेखोऽस्ति, नतु कुत्रापि गोनर्दस्य । चरकशब्दस्य नामान्तरत्वै गोनर्दीयस्त्वाहति वदन् व्याकरणमहाभाष्यकारश्चरकस्त्वाहति सकृदपि कथयितुं कथं नाम विस्मरेत् । तदेवं समयनामदेशानां विसंवादा अनयोर्भेदमेव साधयितुं प्रगुणीभवन्ति । पतञ्जलेर्महाभाष्यलेखोऽन्तराऽन्तरा लोकोक्तिगर्भः समासव्यासोक्तिबहुलः सहसा दुर्बोधो विभिन्नप्रकारः । चरकसंहितायां चरकलेखत्वेन संभाव्यमान आंशिकलेखस्तु गभीराथोंऽपि सरसप्राञ्जलराचनया सहृदयहृदयमनुरञ्जयन्नन्यमेवरीतिमवलम्बमानः समीक्ष्यत इति लेखशैलीविभेदोऽपि अनैक्यमेवोपोध्वलयति । चरकेणाग्निवेशतन्त्रस्य केवलं संस्कारमात्रोल्लेखाद्व्याकरणे महाभाष्यरूपं विशालं नवं ग्रन्थं, योगे सूत्ररूपं शीर्ष्वण्यं ग्रन्थं विरचयन् पतञ्जलिर्वैद्यकाचार्यों भवँस्तत्र स्वं नवं प्रतिभानमयं निबन्धलेखमपहाय परलेखसंस्कारमात्रेण कथमात्मनः सन्तोषं चापादयेत् । शिवदासेन चक्रदत्तटीकायां च ‘तदुक्तं पातञ्जले’ इत्युद्दिश्योद्धृतस्य श्लोकस्य रसविषयक तया दर्शनेन चरकसंहितायाममुपलम्भेनच रसवैद्यकेऽन्यदेव पातञ्जलतन्त्रं पतञ्जलेरासीदिति ज्ञायते । वैद्यकरसविषये ग्रन्थनिर्माता धातुरसायनाचार्यः पतञ्जलिश्चरकसंहितायां रसधात्वाद्यौषधविषयं कथं वा न प्रवेशयेत् । चरके हि धातूनां नामोद्देशं सकृद्रसेन्द्रोपादानं च विहाय नेदृशविषयः क्वापि विशेषविधया निर्दिष्ट उपलभ्यते । न वा रसवैद्यके मदीये ग्रन्थान्तरे विस्तृतमिति क्वचन
१. कन्यान्तःपुरबाधनाय यदधीकाराग्नदोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदङ्कारश्च तावूचतुः । देवाकर्ण्य सुश्रुतेन चरकस्योक्तेन जानेऽखिलं स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥ (नैषधीयचरिते ४, ११६)
६२
काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
तत्सूचनादानमपि दृश्यते। एकस्मिन्नेव वैद्यकविषये उभयथा ग्रन्थनिर्मातृत्वे रसवैद्यके पातञ्जलतन्त्रमिति, “अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते” इत्युल्लेखेन कायचिकित्सायां चरकसंहितेति विभिन्ननामभ्यां व्यवहरणे वा को हेतुः स्यात्। स्वयमात्मना चरकेण, प्रतिसंस्कर्त्रा दृढबलेन, प्राचीनटीकाकर्तृभिर्भट्टारहरिचन्द्रादिभिः, वाग्भटादिभिराचार्य्यान्तरैश्च एकेनैव चरकनाम्ना ऐकरूप्येण व्यवह्रियमाणस्याचार्यस्य पश्चाद्भूतेन चक्रपाणिना नागेशाचार्येण च पतञ्जलित्वेनोल्लेखने किन्नाम मूलं स्यात्। पतञ्जलेर्वैद्यविद्यायामप्याचार्यतया योगे व्याकरणे च ग्रन्थनिर्मातृत्वेनस्य भोजादिभिर्निर्देशो न खलु न सङ्गच्छते॥
पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः। मनोवाक्कायदोषणां हन्त्रेऽहिपतये नमः।।
इति लेखेन चरक एव पतञ्जलिरितिसाधनमपि न शब्दस्वारस्यमनुकूलं लभते। अत्र चरकपद्ं तन्नामकव्यक्तिपरं यद्यभ्युपेयते, तदा चरकायाहिपतये इति कथितव्यमासीत्। चरकशब्दस्य प्रतिसंस्कृतपदेन सहभावो नोपपद्यते, नामैकदेशे नामग्रहणमिति न्यायेन चरकसंहितायाश्चरक शब्देनोपादाने प्रतिसंस्कृतपदेन सहान्वयो भवति। तथा च चरकनाम्ना पूर्वसिद्धस्य ग्रन्थविशेषस्य प्रतिसंस्कर्ता पतञ्जलिरिति ततः प्रतीयेत, न तु चरक एव पतञ्जलिरिति। ‘इति चरके पतञ्जलिः’ इति नागेशोक्तेः को वाऽऽशयः। चरकसंहिताग्रन्थे पतञ्जलेरियमुक्तिरिति चेत्तदुद्धृतोक्तेरानुपूर्व्या चरकसंहितायां भवितव्यम्, तदुद्धृतवाक्यस्यास्यां संहितायामनुपलम्भोऽमुमाशयं वर्णयितुं प्रतिरुणद्धि। अत्र हि सूत्रस्थाने एकादशाध्याये, विमानस्थाने चतुर्थाध्यायेऽप्याप्तत्वनिर्वचनमन्ययैवानुपूर्व्या लभ्यते, न तु तदुद्धृतानुपूर्व्या। इति-चरकस्योपरिपतञ्जलिरित्यर्थमादाय चरकव्याख्याने पतञ्जलिरेवमाहेत्यपि ततः प्रत्येतुं शक्यते तथा च चरकव्याख्याकर्तुः पतञ्जलेरियमुक्तिरित्यायाति। ततश्च पतञ्जलेश्चरके व्याख्यानुपलभ्यमानाऽप्यासीदिति ततः प्रतीयते। चरकस्य व्याख्याकारः पतञ्जलिन तु चरक एव पतञ्जलिरिति केचनेदानीमुपवर्णयन्त्यपि। चरकस्य पतञ्जलिकृता मञ्जूषाख्या व्याख्याऽऽसीदिति आर्य्यप्रदीपनामके आधुनिकपुस्तके लिखितमस्तीति पतञ्जलिश्चरकस्य मञ्जूषाख्यटीकाकार इति केचन कल्पयन्ति। नागेशकृते मञ्जूषाख्ये व्याकरणग्रन्थे पूर्वोल्लिखित-चरकवाक्योद्धारोऽस्ति। मञ्जूषा तु नागेशकृतो व्याकरणग्रन्थः प्रसिद्ध एव। पतञ्जलिकृता मञ्जूषानाम्नी चरकटीका न क्वचन दृश्यते श्रूयते वा, न वा चक्रपाण्यादिभिरपि टीकाकारैस्तन्निर्देशः कृतोऽस्ति। तेन साधनान्तरोपलम्भमन्तरा निश्चयस्य कर्तुमशक्यतया “चरकप्रतिसंस्कृतैः” इति, “चरके पतञ्जलिः” इति अस्फुटार्थाः शब्दाः न द्वयोरैक्यसाधनाय व्याख्यानादिसाधनाय वाऽवलम्बनीभवितुमर्हन्ति॥
अपरञ्च, यः खलु विषयो देशादि वा येन विशेषतः परिचितः परिशीलितो भवति स एव तस्य हृदयेऽनुस्यूतः पुनः पुनरुपस्थायी च भवति। तथाहि महाभाष्ये पाटलिपुत्रस्यानैकश उल्लेखदर्शनेन तस्य विशेषतः परिचयेन निवासेन वा हृदये उपस्थानमुन्नीयते। एकस्य नानाविषयेषु ग्रन्थनिर्माणे एकत्र अपरग्रन्थसम्बद्धविषयोपन्यासप्रस्तावे अमुत्र प्रतिपादितमेतदिति उभयोरेकवाक्यतावबोधनस्य च निबन्धकृतां सम्प्रदायः। एवं नानानिबन्धकृतां केचन विषया उक्तयो युक्तयश्चातिप्रियाः सन्तो नानाप्रस्थानेषु सङ्गमय्योपन्यस्ता अपि दृश्यन्ते। यथा हि भामतीकर्त्रा ग्रन्थादावुपन्यस्ता व्यापकविरुद्धोपलब्धियुक्तिर्दर्शनान्तरस्व-निबन्धेष्वपि किञ्चिद्रूपविपर्य्यासेन बहुश उपन्यस्यते। एवमेव चरकाचार्यस्य महाभाष्यकृतः पतञ्जलेश्चैक्ये महाभाष्यगता विषयाश्चरकलेखे, चरकीयविषया वा महाभाष्ये तदीयहृदयेशयाः किमिति पदे पदे नोपलभ्येरन्। यद्यप्यात्रेयाग्निवेशसंहितायाश्चरकेण केवलं प्रतिसंस्करणान्मूलग्रन्थपरवशतया स्वीयलेखन्याः ससङ्कोचं प्रसारणीयतया व्याकरणप्रस्थानाचार्यभावनिदर्शनीभूता उक्तयः शब्दविशेषा अन्यानि लिङ्गानि वा चरकसंहितायां न प्रवेशितानीत्यपि वक्तुं शक्यते, तथाऽपि महाभाष्यलेखे सूत्रमात्रपारवश्येन यथाकामं स्वीयाभिर्वाग्धाराभिरुदाहरणैः साधकोक्तिभिर्लोकोक्तिभिरपि विज्ञानस्य व्याख्यानस्य च स्वं कौशलं प्रदर्शयता भाष्यकारेण चरकाचार्याभावानुबद्धा वैद्यकविषया लभ्यावसरेष्वपि बहुशः स्थलेषु किमिति नोल्लिखिता दृश्यन्ते। यत्रांशे सूत्रादिपारवश्येन अवश्यवक्तव्यतया वा निर्देशास्तादृशांशेषु तदीयहार्दविकास इति वक्तुं नौचित्यमावहति। यथा—वातिकं पैत्तिकं श्लैष्मिकमित्यादि शब्दसाधनोदाहरणानि, नैतादृशानि लिङ्गानि वैद्यकवित्त्वगमकानि भवितुं शक्नुवन्ति।
उपोद्घातः ६३
तत्र हि "तस्य निमित्तं संयोगोत्पातौ (५-१-३८)" इति सूत्रे तस्य निमित्तप्रकरणे “वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानं कर्तव्यं, सन्निपाताच्चेति वक्तव्यम्” इति वार्त्तिकयोः परवशताया ‘वातिकं पैत्तिकं श्लैष्मिकं सान्निपातिकम्' इत्युदाहरणानि दत्तानि। एवम् “उदःस्थास्तम्भोः पूर्वस्य (८-४-६१)” इति सूत्रे “उदःपूर्वत्वे स्कन्दे च्छन्दस्युपसंख्यानं, रोगे” इति वार्त्तिकोदाहरणत्वेनावश्यकवक्तव्यतया ‘उत्कन्दको रोगः' इत्युदाहृतं भाष्यकृता। परं यत्र तथा अन्यथा वोदाहर्तुमुपन्यस्तुं वा स्वातन्त्र्यं ग्रन्थकृतस्तत्र तदुपन्यासस्तदीयामन्तर्वासनामवगमयति। भाष्यकृता “ह्वः संप्रसारणम् (६-१-३२)” इति सूत्रव्याख्याने “अन्तरेणापि निमित्तशब्दं निमित्तार्थोऽवगम्यते” इत्युपन्यस्य “दधित्रपुसं प्रत्यक्षो ज्वरः, ज्वरनिमित्तमिति गम्यते; नड्वलोदकं पादरोगः, पादरोगनिमित्तमिति गम्यते; आयुर्वे घृतम्, आयुर्निमित्तमिति गम्यते” इति निदर्शनानि प्रदत्तानि। 'आयुर्वे घृतम्' इतिवत् दधित्रपुसं प्रत्यक्षो ज्वरः, नड्वलोदकं पादरोग इत्यपि प्राचीनाचार्यवाक्ययोरुद्धरणमवगमयते। तत्र निमित्त-निमित्तिनोरभेदोपचारप्रदर्शकेषु अन्येष्वपि बहुषु निदर्शनेषु सम्भवत्स्वेतदुपादानमस्याचार्यस्य वैद्यकसम्प्रदायवित्वमवबोधयति लोकान्। नैतावताऽय चरकाचार्यत्वमायाति। यदि नामानयोरैक्यं स्यात्तदा व्याकरणग्रन्थे प्रसङ्गोपात्ता ईदृशा विषयाः स्वीये वैद्यक ग्रन्थे असाधारण्येन किमिति नोल्लिख्येरन्। दधित्रपुसस्य ज्वरहेतुभावेन, नड्वलोदकस्य पादरोगहेतुतया उल्लेखश्चरके कथं नोपलभ्यते। न च उत्कन्दको नाम कश्चन रोगो भावप्रकाशादौ लभ्यमानोऽपि चरके लभ्यते। महाभाष्यकृतस्तथा परिचयेन निवासेन प्रेम्णा वा बहुवारमुल्लेखपदं गतं पाटलिपुत्रं चरकसंहितायां किमिति सकृदपि नोपलभ्यते। गर्गादिगणे प्रविष्टान्यग्निवेशपराशरजतूकर्णपदानि वैद्याचार्यस्मारकाण्युपादायोदाहरणदानौचित्येऽपि भाष्यकृता न तदुदाहरणानि दत्तानि। अन्यत्र स्थल^१त्रये अग्निवेश्योल्लेखेऽपि स्वरविषय एवोपादानेन वैद्याचार्यत्वरूपेणाग्निवेशस्यावबोधनं परिचयो वा भाष्यकृता न क्वापि कृतः। चर्कनिर्देशानामन्येषां प्राचीनवैद्याचार्याणामसाधारणं नामापि महाभाष्यकृता न कीर्तितम्॥
ऋतूक्थादिसूत्र (४-२-६०) व्याख्याने उक्थादिगणे प्रविष्टस्याप्यायुर्वेदशब्दस्य ठक्प्रत्ययरूपस्यान्यिदर्शनम्; तत्रैव विद्यालक्षणेत्यादिवार्तिकसम्बन्धिविद्योदाहरणे ‘वायसविधिकः, सार्पविधिकः, आङ्गविद्यः, धर्मविद्यः, त्रैविद्यः' इति निदर्श्यापि स्वयमाचार्यभावेनाधिष्ठिताया आयुर्वेदविद्यायाः ससम्भ्रमं नामानुपादानं; रोगाख्यायां वुल्बहुलम् (३-३-१०८) इति सूत्रव्याख्याने रोगवाचकशब्दोदाहरणादानं; रोगाच्चापनयने (५-४-४९) इति चिकित्सारूपविलक्षणार्थेतसिल्प्रत्ययस्य काशिकादाविव 'प्रवाहिकातः कुरु' इत्यादेरेकस्याप्युदाहरणस्यादानमपि भाष्यकारस्य चरकाचार्यभावे कौतुकं जनयति॥
‘चतुर्थ्यर्थे बहुलं छन्दसि' (२-३-६२) इति सूत्रे षष्ठ्यर्थे चतुर्थी वाच्या, इति वार्तिकोदाहरणत्वेनोदाहृते तैत्तिरीय^२वाक्ये रजस्वलाभिः पालनीया धर्मशास्त्रानुरूपा नियमाः, अन्यथाभावे सन्तत्यनिष्टोत्पत्तिरूपफलानि च सविशेषं महाभाष्येनिरूपितानि। इत्थमेव सुश्रुते शारीरद्वितीयाध्याये (पृ. २९१) सफलनिर्देशं विशदरूपेण प्रायः संवादिना स्वरूपेण निर्दिष्टमस्ति। सम्भावितपतञ्जल्यभेदेन चरकाचार्येण तु शारीरजातिसूत्राध्याये (पृ. ३३७) महाभाष्ये सविशेषमुद्धृता अपि रजस्वलानियमाः सामान्यत एवोक्ताः, फलानि च नोल्लिखितानि, पात्रांशेऽपि विसंवादश्चेत्यप्यवधेयम्॥
भाष्यकारोक्त्या स्त्यैधातोर्घनीभावार्थकात् स्त्रीशब्दः, सूधातोः प्रवृत्त्यर्थकात् पुंस्शब्दो निष्पाद्यते, तेन घनीभावरूपार्थमादाय स्त्रीत्वव्यवहार इत्यायाति। चरकलेखाद्धनीभावमादाय पुरुषत्वं प्रदर्श्यते। प्रसवस्य मातृधर्मत्वेन 'षूङ् प्राणिगर्भविमोचने'
१. आद्यन्तवदेकस्मिन् (१-१-२०) स्वरितात्संहितायामनुदात्तानाम् (१-२-३९) समासस्य (६-१-२२३) सूत्रभाष्येषु। २. तिस्रो रात्रीः या खर्वेण पिबति तस्यै खर्वो जायते, यां मलवद्वाससं सम्भवन्ति यस्ततो जायते सोऽभिशस्तः, यामरण्ये तस्यै स्तेनः, यां पराचीं तस्यै ह्रीतमुख्यन्नगल्भः, या स्नाति तस्या अप्सु मारुकः, याऽभ्यङ्क्ते तस्यै दुश्चर्मा, या प्रलिखते तस्यै खलतिरपमारी, याऽङ्क्ते तस्यै काणः, या दतो धावते तस्यै श्यावदन्, या नखानि निकृन्तते तस्यै कुनखी, या कृणत्ति तस्यै क्लीबः, या रज्जुं सृजति तस्या उद्बन्धुकः, या पर्णे न पिबति तस्य उन्मादको जायते, अहल्यायै जारमनायै तन्तुः॥
६४ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
इति पाणिनीयधातुपाठाच्च लोके इव स्त्री सूते, माता सूते इति प्रयोगः स्वारसिक एव। भाष्य¹कारोक्तप्रक्रियया तु प्रसवस्य पुरुषधर्मत्वेन निर्देशात् पुमान् सूते इत्येव स्वारसिकः प्रयोगः, माता सूते इति प्रयोगस्तु अर्थान्तरविवक्षया औपचारिक इत्यवबुध्यते, इति चरकस्य भाष्यकारस्य च प्रक्रियाभेदः। एवमुपदर्शितैः साधकैर्बाधकैश्च चरकाचार्यस्य पतञ्जलेश्चाऽभेदसाधनापेक्षया भेदाभ्युपगम एव प्रणीभवति मदीयदृष्टिकोणोन्मेषः ॥
किञ्च, चरकसंहितायां शारीरस्थानप्रथमाध्याये पुरुषवर्णनप्रसङ्गे दृष्टस्य योगविषयस्य पातञ्जलयोगविषयेण सह संवा²दोल्लेखविषयेऽपि विमृश्यमाने एवं प्रतिभाति। शारीरे प्रथमाध्याये पूर्वोद्दिष्टेषु त्रयोविंशतिप्रश्नेषु षड्धातुसमवायात्मके चतुर्विंशतितत्त्वसमवायात्मके वा वेदनायोगनिवर्तनाहे कर्मपुरुषे एकविंशतिप्रश्नान् समाधाय—‘‘क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः’’ इत्युपन्यस्तस्य सर्ववेदनानिवृत्तपुरुषविषयकस्य प्रश्नान्तरस्योत्तरणाय—
‘‘योगे मोक्षे च सर्वासां वेदनानामवर्तनम्। मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः’’ ।।
इति अन्तःकरणविषयदुर्योर्गजनितसुखदुःखराहित्यावस्थोदयस्वरूपस्य योगस्योपादानमस्ति। पुनः पञ्चमाध्याये पूर्वोक्तमेव विषयं विवरीतुमग्निवेशपृष्ठेनात्रेयेण प्रवृत्तिनिवृत्ती विभज्य दर्शयता निवृत्त्यात्मकेऽपवर्गे पूर्वोक्ताः सत्सङ्गब्रह्मचर्यादयः साधनत्वेन गद्यवाक्यैः सविशेषं पुनः प्रतिपादिताः। अनयोः पूर्वापराध्याययोरेक एव विषयो भङ्गीभेदेनात्रेयेणैव निरूपित इति प्रतिसंस्कर्तृचरकत्वेन सम्भावितात् पतञ्जलेः प्राक्तन एवासौ लेखविषय इति भाति ॥
सुश्रुते चिकित्साशास्त्रोपयोगितया तदधिकृतस्य पञ्चमहाभूतशरीरिसमवायात्मकस्य कर्मपुरुषस्य, भेडसंहितायामपि तथाविधस्यैव षड्धातुचेतनाममवाायरूपस्य, अस्यां काश्यपीयायामपि ‘‘शरीरेन्द्रियात्मसत्त्वसमुदयं (रूपं) पुरुषमाचक्षते आत्मानमेके (पृ. ६७)’’ इति शरीरशरीरिसमवायात्मकस्यैव निर्देशनेन एतदनुरूपप्राचीनसिद्धान्तरीत्या आत्रेयेणापि तावदेवनिर्दिश्य स्वीयवैद्यदर्शनपरिपालनस्यौचित्येऽस्मिन् प्रकरणे मोक्षोपयोगिनो योगविषयस्य निदर्शनं पश्चाच्चरकेणैव प्रतिसंस्करणे प्रवेशितं स्यादित्यभ्युपगमेऽपि एतदीया पातञ्जलसूत्रोक्ता च योगप्रक्रिया नैक्यरूप्येण लभ्यते। पातञ्जले ‘‘योगश्चित्तवृत्तिनिरोधः (१.२), ता एव सबीजः समाधिः (१.४५), तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः (१. ५०)’’ इत्यादिसूत्रैः अन्तःकरणस्य बहिर्वृत्तीर्निरुध्य आत्माकारैकवृत्तिस्थापनमन्तत आत्माकारवृत्तेरपि निरोधेन निवातदीपायितत्वव्यवस्थापनमिति सम्प्रज्ञाता-सम्प्रज्ञातकक्षाभेदाभ्यां द्विधा विभिन्नो योगः, तादृशयोगोदये च ऋतम्भरप्रज्ञादीनि फलानि, मोक्षस्वरूपं च ‘‘तदा द्रष्टुः स्वरूपेऽवस्थानम् (१.३), पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपनिष्ठा वा चितिशक्तेः, (४. ३४)’’ इति आत्मनोऽसङ्गकूटस्थचित्स्वरूपमात्रविश्रान्तिश्चरमसिद्धान्तरूपेण वर्ण्यते। चरकसंहितायां तु—
‘‘आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते। सुखदुःखमानरम्भादात्मस्थे मनसि स्थिरे। निवर्तते तदुभयं वशित्वं चोपजायते। सशरीरस्य योगज्ञास्तं योगमृषयो विदुः। ’’ इति
इन्द्रियान्तःकरणादिकं बहिर्विषयेभ्यः परावर्त्य मनसं आत्मनि स्थैर्यापादनं योग इति,
‘‘मोक्षो रजस्तमोऽभावाद्वलवत्कर्मसंक्षयात्। वियोगः कर्मसंयोगैरपुनर्भव उच्यते ॥’’ इति
रजस्तमोगुणनिवर्तने केवलसात्त्विकत्वापादनेन कर्मक्षये शरीरान्तःकरणादिभिः सह आत्मनः स्थायी वियोगो मोक्ष इति चोपवर्ण्यते ॥
१. स्त्रियाम् (४/१/३) सूत्रमहाभाष्ये ॥ २. प्रत्यक्षशारीरभूमिकायां पृ. ८ ॥
उपोद्घातः ६५
अनयोस्तुलनायां चरकीये शुद्धसत्त्वशेषतया केवलात्माकारान्तःकरणवृत्तिस्थैर्य्यरूपेण योगेन त्रैगुण्यावस्था-सम्पाद्यशरीरान्तःकरणसंयोगापगमस्थैर्यं मोक्षपदार्थत्वेन, पातञ्जले तु अन्ततो निर्बीजरूपतापत्त्या सर्वान्तःकरण-वृत्तिविलयपुनरनुदयरूपयोगेनान्तःकरणिकवृत्तिरूपसुखदुःखच्छायानुदयेन कूटस्थचिन्मात्ररूपतयाऽऽत्मनः प्रतिष्ठापनरूपो मोक्ष इति मुख्यप्रमेयफलयोः स्वरूपवैलक्षण्यम्। तेन चरकोक्तो योग “आत्मस्थे मनसि स्थिरे रजस्तमोऽभावात्, शुद्धसत्त्वसमाधानात्” इत्येवं विन्यस्तानां पदानां स्वारस्येन, रज स्तमोवृत्तिपरिहारेण विशुद्धसत्त्वावशेषेण सात्त्विकवृत्तिप्रधानस्य मनस आत्मनि स्थैर्योक्त्यवबोधेन पातञ्जले सम्प्रज्ञातकक्षायां प्रतिपादिते योगविषये एव विश्राम्यति। यदि मनोलयादिकं प्रतिपादितमभविष्यत्तदैव सात्त्विकवृत्तेरपि परिहारेण ध्येयमात्रप्रकाशावस्थारूपासंप्रज्ञातावस्थो योगोऽस्मादवागंस्यत। पातञ्जले तु सम्प्रज्ञातकक्षातोऽप्युपरितन्यामसम्प्रज्ञातकक्षायां योगस्य विश्रान्तिस्तत एवेष्टसिद्धिः प्रतिपाद्यते इति मुख्यकक्षावैलक्षण्यमालोच्यते॥
एवम्—
“आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया। दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम् ।।
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्। शुद्धसत्त्वसमाधानात्तत्सर्वमुपजायते” ।।
इति चरकीये परपुरप्रवेशादयोऽष्टावेव योगविभूतयः, ता अपि आत्मनि मनःस्थैर्य्यरूपस्य मुख्यप्रमेयभूतस्य विभूतयः कीर्त्यन्ते। तासामैश्वरबलरूपेणाभिनन्दनं विधायैव विश्रम्यते च। पातञ्जले तु आत्मविषयकस्य योगस्य ऋतम्भरप्रज्ञादीन्येव फलानि। तत्साधनावस्थायामभ्यासदाढर्याय त्राटकादिवत् प्रत्ययकायरूपादिषु तेषु तेषु विषयान्तरेषु विधीयमानस्य धारणाध्यानसमाधित्रिकात्मकस्य योगाङ्गभूतस्य संयमस्य विभूतिरूपपतवेन परचित्तज्ञान-सर्वभूतरुतज्ञान-पूर्वजातिज्ञान-हस्तिबलभुवनज्ञान-ताराव्यूहज्ञान-कायव्यूहज्ञानादयो बह्वयः सिद्धयो विभूतिपादे वर्ण्यन्त इति विभिन्नो हेतुहेतुमद्भावः, प्रक्रियाऽपि विभिन्ना, क्वचनैकस्मिन्नपि विषये विभिन्नानां पारिभाषिकशब्दानां व्यवहारश्च, न च विभूतीनामष्टसंख्यापालनपि। ता अपि विभूतयः “ते समाधावुपसर्गाव्युत्थाने सिद्धयः (३. ३६)” इति मुख्ययोगमार्गव्याघातकत्वाद्विघ्नस्थानीयतया न समभिनन्द्यन्ते॥
योगमोक्षोपायवर्णनेऽपि—
“सतामुपासनं सम्यगसतां परिवर्जनम्। ब्रह्मचर्योपवासश्च नियमाश्च पृथग्विधाः ।।
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः। विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः ।।
इत्यादिना सत्सङ्गसत्सङ्गवर्जनादयो बहव उपायत्वेन वर्ण्यन्ते। एषु ब्रह्मचर्यादयः केचन पातञ्जलेऽपि यमनियमाद्यङ्गेषु प्रविशन्ति, सत्सङ्गोपवासशास्त्रधारणप्रभृतयो न तत्र साधनेषूल्लिख्यन्ते, प्रत्युत तत्र अभ्यासवैराग्ये योगहेतुतया प्रणवोपासनमैत्र्यादिचित्तपरिकर्मप्राणायामासनादयोऽङ्गभावेन विशेषेण कीर्त्यमानाश्चरकंसंहितायां नोल्लिख्यन्त इति साधनांशेऽपि न सर्वाशतः सारूप्यम्। येन केनचिदंशेन तौल्यं तु मुख्योपादेयांशे सर्वत्र संभवत्येव। न च योगविद्या पतञ्जलेरेवाविर्भूता, अपि तु ततः पूर्वमपि महाभारतादिष्वापि वर्ण्यते। हिरण्यगर्भो योगस्य वक्तेति हिरण्यगर्भसमयादेव योगविद्यायाः शाश्वतिक उदयः कीर्त्यते। महेञ्जोदारोभूगर्भादपि योगस्थपुरुषमूर्तेरुपलम्भात् योगस्यातिपूर्वकालादनुवृत्तिर्भारते इति सर ¹जान्मार्सलाख्येन विदुषाऽपि स्वीये रिपोर्टपत्रेऽप्युल्लिखितमस्ति। श्रीयुतदा²सगुप्तेनापि लिखितं वर्तते। ततश्च स्वरूपतो हेतुतः फलतो विशेषोपायतः पारिभाषिकशब्दविशेषतश्च वैलक्षण्यदर्शनेन पातञ्जलयोगप्रक्रियायां कालानुक्रमिकविषयविकासस्य चानुसन्धानेन उभयोर्लेखशैल्या विभेदेन च विभिन्नलेखनीद्वयमवगम्यते॥
१. Mohenjodaro and Indus Civilization Vol. I. P. 54.
२. History of Indian Philosophy by Dasagupta Vol. I. P. 226.
६६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
महाभारते “¹अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्” इत्यारभ्योपन्यस्तायां योगविद्यायामप्येवमेव इन्द्रियनिरोधपूर्वकं मनस आत्मनि स्थैर्यपूर्वकं मोक्षयोगः कार्यः, तदुपायतया योगशास्त्राभ्यासः, एकान्तशीलतया संयमः, इन्द्रियजयादयः कार्याः, एवं योगेन यथेष्टं नानाशरीरप्रतिपत्तिः, देवानामति वशीकरणं, निर्भयत्वमक्लेशो निस्पृहत्वमित्यादीनि च जायन्ते इति निरूपितो यः प्राचीनयोगविषयस्तस्य सर्वांशे छायाननुविधानेऽप्येतदीयप्रक्रियायाः सान्निध्यमस्यां चरकीययोगप्रक्रियायां दृश्यत इति प्राचीन एव योगस्य पन्था अनेनोपात्तो न तु पातञ्जल उक्त इति भाति । तेनानयोराचार्ययोरिमौ विभिन्नौ योगप्रक्रियाविशेषौ नाभेदसाधनाय, प्रत्युत भेदसाधनायैव पुरःसरतः ॥
योगसूत्रकृतः पतञ्जलेर्महाभाष्यकृतः पतञ्जलेरप्यैक्यं विभेदो वेत्यत्रापि विदुषां मतभेदोऽस्ति । महाभाष्यकारसमयस्य धातुरसायनविषयोत्यानात् प्राक्तनत्वेन रसायनशास्त्राचार्यः पतञ्जलिरपि विभिन्नः, केवलं नामसाम्यमेषामित्यपि केषा²ञ्चिद्विचारः । तदेषामैक्यमनैक्यं वेति विमर्शान्तरे प्रकृतविच्छेदभियेदानीं विरम्यते ॥
अल्बेरूनीनामको लेखकस्तु अग्निवेशचरकयोरभेदमन्सुसन्धत्ते । 'तत्तु अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते' इति तन्त्रकर्तृतया प्रतिसंस्कर्तृतया चानयोः स्पष्टं विभेदोल्लेखेन प्रतिहन्यते । विभिन्नयोराचार्ययोर्व्यक्तिभेदेऽपि तदीयकृत्योरेकेनैव स्वरूपेण शिष्यमाणतया यशःशेषयोरनयोर्ग्रन्थतात्पर्येण हन्त ! साम्प्रतमैक्यमिव सञ्जातम् ॥
उपलभ्यमानप्रतिसंस्कृतचरकसंहितायामपि प्राचीनसांख्यदर्शनस्यैवातिमात्रयाऽवलम्बनेन, बौद्धमतच्छायाया अप्रवेशेन, संस्कारप्रविष्टतया संभाव्यमानेषु लेखविषयेष्वपि प्राचीनप्रौढरचनादर्शनेन च प्रतिसंस्कर्ता चरकोऽपि नार्वाचीनः प्रतिभाति । किन्तु भिषग्जितीयाध्याये न्यायदर्शनीया न्यायनिग्रहस्थानादयो बहुशः पदार्थाः समीक्ष्यमाणा अस्य विषयस्य प्राचीनतरत्वमभ्युपेतुं प्रतिघट्टयन्ति । श्रौतदार्शनिकग्रन्थेषु गौतमसूत्रात्पूर्वं, बौद्धदार्शनिकग्रन्थेषु नागार्जुनीयोपाय (कौशल्य) हृद³यादिग्रन्थेभ्यः पूर्वं, न्यायच्छलजातिनिग्रहस्थानादीनां विगृह्यसम्भाषायामुपयोगिनां पदार्थानां निरूपणानुपलम्भेन बौद्धानां महायानिकविचारोदये सत्युभयतः सङ्घर्षे पक्षप्रतिपक्षजयपराजयनियमव्यवस्थाया विकासस्यानुसन्धेयतया कतिपयपूर्वसमयाल्लघुमात्रया प्रवृत्त एष विवादविषयो गौतमानागार्जुनादिभिर्ग्रन्थप्रणयनेनोभयतः परिष्कृत्य नियमितोऽवगम्यते । पक्षप्रतिपक्षभावेन विवादो हि पश्चाद्भवैर्दिङ्नाग-धर्मकीर्तिप्रभृतिभिर्बौद्धाचार्यैः प्रमाणसमुच्चयप्रमाणवार्तिकवादन्यायहेतुबिन्द्वादिग्रन्थेषु, न्यायवैशेषिकाचार्यैर्वात्स्यायन-
१. महाभारते आश्वमेधिके अनुगीतापर्वणि १९ अध्याये—
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् । युञ्जन्तः सिद्धिमात्मानं यथा पश्यन्ति योगिनः ॥१५॥
तस्योपदेशं वक्ष्यामि यथातत्त्वं निबोध मे । यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥१६॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् । तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत् ॥१७॥
तपस्वी सततं युक्तो योगशास्त्रमथाचरेत् । मनीषी मनसा विप्रः पश्यन्नात्मानमात्मनि ॥१८॥
स चेच्छक्नोत्ययं साधुर्युक्तमात्मानमात्मनि । तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥१९॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः । तथाऽयमात्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति ॥२०॥
............................................
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् । न तस्येशेश्वरः कश्चित् त्रैलोक्यस्यापि यः प्रभुः ॥२४॥
अन्यान्न्यांश्चैव तनवो यथेष्टं प्रतिपद्यते । विनिवृत्य जरामृत्यू न शोचति न हृष्यति ॥२५॥
देवानामति देवत्वं युक्तः कारयते वशी । ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥२६॥ इति ॥
२. I. History of Indian Philosophy by Dasagupta Vol I. P. 261.
II. Yoga System of Patanjaly by J. H. Woods.
३. उपायहृदयं नाम बौद्धदार्शनिकाचार्येण नागार्जुनेन प्रणीतो विवादविषयको ग्रन्थः, तस्य मूलग्रन्थस्य लोपेऽपि चीनभाषायामनुवादोपलम्भेन प्रो. तुच्ची महाशयेन संस्कृते प्रत्यनुवादः कृतोऽस्ति ॥