मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
व्यापकानुपलब्धिस्तु प्रायशस्सर्वसम्मता । व्यापकानुपलब्ध्या हि पक्षे व्याप्यं निवर्त्यते ॥ या व्यापकविरुद्धस्य चोपलब्धिरनन्तरा । पृथिवीत्वव्यापकस्य द्रव्यत्वस्य विरोधिनः ॥ गुणत्वस्योपलम्भेन पृथिवीत्वनिषेधधीः । तया संपद्यत इति साऽपि सर्वत्र सम्मता ॥ 5 अत्र प्रतिब्रुवन्त्येवं कुमारिलमुखा बुधाः । अक्षादेवोत्पद्यतेऽसावभावो मानमिष्यते ॥ त्रिरूपलिङ्गजन्यार्थदृक्प्रमाणमितीरयन् । कथं तुच्छस्वरूपस्य कारणापेक्षितां वदेत् ॥ अनुमा दुर्निरूपाऽत्र मानमित्यैक्यवादिना । तस्मादनुपलम्भोऽस्ति, प्रमाणं वाऽथवा न सः अक्षापेक्षा तु नाभावग्रहणायोपयुज्यते । किंतु दृश्यादर्शनाय भूतलाद्यवबुद्धये ॥ दृश्यादर्शनमक्षं च मिलित्वैवावबोधयेत् । अभावेन विशिष्टं तं भावं यद्भूतलादिकम् ॥ नच भिन्नेन्द्रियग्राह्यं किंचिदस्त्यनुरागकृत् । नहि लाक्षानुरक्तेऽपि स्फटिके धीस्त्वगादिभिः इत्यादिवचनं तु स्यात्संबन्धाग्रहगोचरम् । प्रकृते तूभयोश्चैव संसर्गोऽभावगोचरः ॥
-20 मानमेयरहस्यश्लोकवार्तिके त्वाचं क्षीरं तस्य रसः संसर्गोऽपि च रासनः । तथाच मधुरं क्षीरमिति लोके विशिष्टधीः ॥ शब्दस्तु श्रावणः तस्य चार्थे श्रोत्रो न चान्वयः । तस्मान्न चक्षुः शब्दादिरहितस्यावबोधकृत् ॥ 6 अत्र नैयायिकानां तु सिद्धान्तोऽयं निरर्गलः । सर्वोपाख्यावियुक्तत्वान्नेयमस्तीति वोच्यताम् ॥ अभावश्चाक्षुषज्ञानविषयो वाऽभ्युपेयताम् । अभावस्य विचारे तु कृत एतस्य विस्तरः ॥ (86) शब्दाक्षेपः. 1 नन्वत्र प्रथमं शब्दे प्रामाण्यं नावकल्पते । प्रामाण्येऽपि पृथग्भावो नास्तीत्यथ परीक्ष्यते ॥ अर्थप्रतीतिजनकं प्रमाणमिति सम्मतम् । विकल्पमात्रमूलत्वान्नार्थं शब्दाः स्पृशन्त्यमी ॥ अङ्गुल्यग्रे हस्तियूथशतमित्यादिवाक्यतः । एष वन्ध्यासुतो यातीत्यतो वाऽर्थः क इष्यते ॥ लोलाक्षीणां लक्षमभिरमयेद्यः पुमानिह । स गन्धर्वपदं प्राप्नोतीति च श्रूयते स्वनः ॥ स्वर्गकामो दर्शपूर्णमासाभ्यां च यजेदिति । वाक्यस्यार्थे कथं लोके न स्यात् श्रद्धैव केवलम्॥
शब्दक्षेपः 421 अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते । वक्तुं, न जातिः न व्यक्तिः न तद्वानाम् कश्चन ॥ संबन्धोऽप्यस्य नार्थेन नित्योऽस्ति समयोऽथवा । शक्यः संन्नपि वा बोद्धुं अर्थे कथमतीन्द्रिये ॥ वाक्यार्थोऽपि न निर्णेतुं पार्यते पारमार्थिकः । नियोगभावनाभेदसंसर्गादिस्वभावकः ॥ तत्प्रतीत्यभ्युपायश्च किं पदार्थः पदानि वा । वाक्यं वा व्यतिषिक्तार्थं स्फोटो वेति न लक्ष्यते ॥ सिद्धायामपि तबुद्धौ तस्याः द्रढिमकारणम् । नित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते ॥ पदे नित्येऽपि वैदिक्यो रचनाः कर्तृपूर्विकाः । नित्या वा कृतकत्वेऽपि कृताः केनेति दुर्गमम् ॥ कर्ताऽस्ति स च निर्द्वन्द्वः स चैकः स च सर्ववित् । स च कारुणिको वेति प्रतिपत्तुं न शक्यते ॥ परस्परविरुद्धाश्च सन्ति भूयांस आगमाः । तेषां कस्येश्वरः कर्ता कस्य नेति न गम्यते ॥ वेदे दोषाश्च विद्यन्ते व्याघातः पुनरुक्तता । फलस्यानुपलम्भश्च तथा फलविपर्ययः ॥ सिद्धकार्योपदेशाच्च वेदे संशेरते जनाः । किमस्य कार्ये प्रामाण्यं सिद्धेऽर्थे वोभयत्र वा ॥
२२ मानमेयरहस्यश्लोकवार्तिके तेन वेदप्रमाणत्वं विषमे पथि वर्तते । जीविकोपायबुद्ध्या वा श्रद्धया वाऽभ्युपेयताम् ॥ २ विकल्पयोनयश्शब्दा विकल्पाश्शब्दयोनयः । कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यतः ॥ भिक्षुणा जातिमात्रस्य तथा जातिमतोऽपि वा । जातिमद्योगस्य चापि वाच्यत्वमिह दूषितम् ॥ एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥ वस्तुरूपं हि निर्भागं तत् प्रत्यक्षनिवेदितम् । अतो बलाल्लिङ्गशब्दौ अपोहविषयौ मतौ ॥ नागोर्निवृत्तिर्नासप्तिनिवृत्तिर्वाऽवबुध्यते । किंतु वस्तुस्वरूपेण स शब्दार्थोऽवगम्यते ॥ व्यावृत्तेष्वनुवृत्तं तं अपश्यन्तः परीक्षकाः । अतद्व्यावृत्तिरूपं तं सुनिष्कृष्य प्रचक्षते ॥ अनादिवासनावेगात् व्यावृत्तिरपि सा पुनः । सद्रूपमिव भिन्नं च तत्रतत्रावभासते ॥ ३ इति सौगतसिद्धान्तः एष शाब्दिकसौगतः । तद्वाक्यार्थात्मना वाक्यं निर्भागं हि विवर्तते ॥ वाक्यार्थो वाक्यतो नार्थान्तरमित्यवधार्यते । शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति ॥
शब्दप्रामाण्यवादः 423 विभागैः प्रक्रियामात्रमविद्वान् प्रतिपद्यते । शाब्दवैवर्तवादोऽयं वाक्यार्थे ह्यस्य विस्तरः ॥ 4 शाक्या वैशेषिकाश्चापि पृथक् शब्दस्य मानताम्। नाङ्गीकुर्वन्ति तैरुक्तं वचनं चेदमुच्यते ॥ प्रत्यक्षमनुमानं च प्रमाणे सदृशात्मनः । अप्रत्यक्षस्य संबन्धात् अन्यतः प्रतिपत्तितः ॥ अपोद्धृताभिधायी च शब्दः वस्तु न संस्पृशेत् । अपोहवाचोयुक्त्या च शून्यता सैव सम्मता ॥ प्रशस्तपादभाष्यानुवादोऽप्येष निशम्यताम् । वक्तृप्रामाण्यसापेक्षः श्रुतिस्मृत्यादिलक्षणः ॥ आम्नायोऽप्यनुमानं तद्वचनादिति सूत्रणात् । वक्तृज्ञानानुमानेन प्रामाण्यं तस्य सम्मतम् ॥ (87) शब्दप्रामाण्यवादः. 1 अत्रोच्यते वेदविदां सम्प्रदायस्य संग्रहः । यदर्थं सकलं शास्त्रं मीमांसाख्यं प्रवर्तितम् ॥ पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः । वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति ॥ तेनाभिधातृदौरात्म्यकृतेयमयथार्थता । प्रत्ययस्येति, शब्दानां नार्थासंस्पर्शिता स्वतः ॥
हस्तसंज्ञाद्युपायेन जनयत्येव विप्लवम् ॥ या तु जात्यादिशब्दार्थपराकरणवर्त्मना । अर्थासंस्पर्शिता सैषाऽपोहवादे निराकृता ॥ 2 तत्रानुमानमेवेदं बौद्धैर्वैशेषिकैःश्रितम् । भेदस्सांख्यादिभिस्त्विष्टः न सूक्तं भेदकारणम् ॥ पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते । यदाधिक्यं भवेत्किंचित् तत्पदस्य न गोचरः ॥ धूमादौ देशकालादिद्वारा त्ववगते सति । संबन्धनियमे तेन गमकत्वं प्रतीयते ॥ शब्दस्य गमकत्वं तु प्राग्वृद्धेभ्योऽवगम्यते । न संबन्धान्तरं तत्र नचाप्यत्रात्मसंश्रयः ॥ वृद्धेषु पूर्वपूर्वेषु गमकत्वं हि गृह्यते । अथोत्तरोत्तरेषां तु गमकत्वग्रहो भवेत् । यावन्तो यादृशा येच यदर्थप्रतिपादने । वर्णाः प्रज्ञातसामर्थ्याः ते तथैवावबोधकाः ॥ तेषां तु गुणभूतानामर्थप्रत्यायनं प्रति । साहित्यमेकवक्तृत्वं क्रमश्चापि विवक्षितः ॥ तस्माद्गमकतैवादावभिधायकता ततः । ज्ञायते तन्निमित्तेति संज्ञासंज्ञित्वलक्षणा ॥
शब्दप्रामाण्यवादः प्रसिद्धा हीन्द्रियं लिङ्गं अभिधायकमित्यपि । एवमन्येऽपि गमकविशेषाः तत्र चेन्द्रियम् ॥ सत्तामात्रेण गमयत्यर्थं सन्निहितं पुनः । यत्तु व्याप्यतया ज्ञायमानं लिङ्गं तदुच्यते ॥ गमकं व्यापकस्यैतत्, यत्त्वेतदभिधायकम् । गमकत्वस्यावगमादेव तद्गमयत्यदः ॥ तत्संज्ञापरपर्यायमभिधायकतात्मकम् । संबन्धमध्यवस्यन्ति नान्यमित्यवधार्यते ॥ औत्पत्तिकस्स शब्दस्यार्थेनेत्येष हि विश्रुतः । यस्त्रिप्रमाणक इति चोपमाने निरूपितः ॥ वाक्यार्थे तु पदार्थेभ्यस्संबन्धानुभवाहते । बुद्धिरुत्पद्यते तेन भिन्नाऽसावक्षबुद्धिवत् ॥ संकेतमूलो वेदस्स्याच्चेष्टावद्बोधकत्वतः । शब्दत्वाद्वा देवदत्तनिन्दादिवदित्यसत् ॥ संकेतयितुरज्ञानात्संप्रदायेऽपि संतते । बोधकत्वं ततो नित्यमनुमानं तु बाधितम् ॥ यथा वह्नौ दाहकता यथा बोधकतेन्द्रिये । तथा शब्दे गमकता दृष्टा स्वाभाविकी च सा तस्याश्च ग्रहणं चापि शब्दे लिङ्गवदिष्यते । तथाऽपि शब्दो नार्थस्य लिङ्गं भवितुमर्हति ॥ M.R. 54
426 मानमेयरहस्यश्लोकवार्तिके बोध्यबोधकभावोऽत्र संबन्धोऽन्यत्रचापरः । व्याप्यव्यापकभावस्स्यात् धीद्वारं तु द्वयोस्समम् । ३ तत्राकाङ्क्षादिमद्वाक्यतादृग्वाक्यार्थयोरपि । स्वभावाद्यदि संसर्गः नियमो व्याप्तिरेव सः ॥ इति वैशेषिकस्वान्तमेष नैयायिकाशयः । संकेतरूपस्संबन्धः संबन्धत्वेन भासते ॥ न साहचर्यरूपेण तेन न व्याप्तिलक्षणः । साहचर्यं च संबन्धः संमतो लिङ्गलिङ्गिनोः ॥ शब्दार्थयोश्च समयस्सामग्रीभेदतो भिदा । वह्निः क्षुरं मोदकश्चेत्यादिशब्दप्रयोगतः ॥ दाहनं पाटनं च स्यात्पूरणं सहितौ यदि । साहचर्यं नैव तस्मात् शब्दो मानान्तरं मतम् । मीमांसकानां सिद्धान्ते नियमो व्याप्तिरुच्यते । शक्तिर्बोधकता, तेन नानुमानं प्रसज्यते ॥ संबन्धग्रहणं चापि त्वनन्तैर्न च संभवि । अपूर्वोऽपि च वाक्यार्थः कदाचिदनुभूयते ॥ येचान्विताभिधानस्य वादिनः तन्मते पुनः । गृहीत एव संबन्ध इति शङ्का भवेदपि ॥ शब्दो मानान्तरं लोकवेदसाधारणं मतम् । वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते ॥
शब्दप्रामाण्यवादः 42 पदानां सन्निधिर्वाक्यं तद्राशिः ग्रन्थ इष्यते । इति कौमारिलमतं अथ प्राभाकरं पुनः ॥ 4 गुरुर्लौकिकशब्दानामनुमानत्वमिच्छति । सर्वशब्दानुमानत्ववादिनः कणभोजिनः ॥ अत्र लौकिकवाक्यानां व्यभिचाराभिमानतः । अर्थासंस्पर्शितां शब्दस्याहुः केचित्पुराविदः ॥ 5 अत्र प्रतिब्रुवाणानामभिप्रायोऽयमुच्यते । विवक्षितार्थविज्ञानमिन्द्रियार्थनिबन्धनम् ॥ तस्य ज्ञानं च वाक्येन लिङ्गभूतेन गम्यते । ज्ञात्वैवार्थं ब्रवीतीति य एवमवधारितः ॥ तस्य ज्ञानेन नियतं वाक्यं ज्ञानानुमापकम् । ज्ञानं चार्थविनाभावि तेनार्थेऽपि विनिश्चयः ॥ ततोऽर्थे निश्चिते पश्चात्सोऽर्थो वाक्येन गम्यते । तस्यां दशायां वाक्यस्य तस्य स्यादनुवादता ॥ वाक्यार्थस्यानुमानेन व्यभिचारभये गते । अभिधत्ते पुनर्वाक्यमनुवाद इति स्थितम् ॥ 6 नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह । नार्थसिद्धिस्ततस्ते हि वक्तृभिप्रायसूचकाः ॥ इति कीर्तिवचोमूलो विचारोऽत्रावधार्यताम् । व्यवहाराविसंवादान्मानतेन्द्रियलिङ्गयोः ॥
428 मानमेयरहस्यश्लोकवार्तिके आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति । पूर्वं वाक्यं लिङ्गभूतं वक्तुर्ज्ञानावधारणे ॥ वक्तृज्ञानप्रसूतं हि वाक्यं तत्कार्यमिष्यते । कार्यात्कारणसिद्धिश्च सर्वेषामपि सम्मता ॥ ततश्च पुंवाक्यमात्रं न शास्त्रमभिधीयते । नन्वर्थ एव प्रथमं पुंवाक्येनावगम्यते ॥ अन्यथा तु कथं वक्तुः धीर्विशिष्टाऽनुमीयते । अर्थेनैव विशेषो हि निराकारतया धियाम् ॥ नचाप्रतीतेनार्थेन विशेषो ह्यवगम्यते । अत्र ब्रूते यथार्थत्वशङ्कयाऽर्थो न निश्चितः ॥ अनिश्चितो नहि ज्ञात इति तात्पर्यसंग्रहः । वाक्याद्वाक्यार्थानुमानवादिनस्सौगतानुगाः ॥ वैशेषिकाश्च गुरवः वक्तृज्ञानानुमाविदः । तत्रापि गुरवो लोकवाक्यमात्रानुमाविदः ॥ अपौरुषेयमेवैकं शास्त्रं वाक्यचयात्मकम् । तत्रापि चोदना शास्त्रं नाभिधेति विनिर्णयः ॥ आप्तवादाविसंवादसामान्यादनुमानतः । अभिन्नत्वमनूद्येत्थं दूषितं श्लोकवार्तिके ॥ आप्तवादाविसंवादादत्रचेदनुमानता । निर्णयस्तावता सिद्धयेद्बुद्धयुत्पत्तिर्न तत्कृता ॥
वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरं ततः ॥ तत्रचेदाप्तवादेन सत्यत्वमनुमीयते । वाक्यार्थप्रत्ययश्चात्र कथं वाऽनुमितिस्त्विति ॥ 7 अलंकारविदः प्राहुश्शब्दानां विषयो द्विधा । प्रतिपाद्योऽनुमेयश्च प्रथमोऽपि द्विधा मतः ॥ वाच्यो व्यङ्ग्यश्चेति ततः विवक्षालक्षणः परः । विवक्षाविषयत्वे तु शब्दानां लिङ्गता मता ॥ व्यङ्ग्यस्वरूपे विषये शाब्दता स ध्वनिर्मतः । असौ वादः पूर्वमुक्तवादसंस्कारमूलकः ॥ (88) शब्दप्रमाणपरिकरः. 1 आप्तवाक्यं तु शब्दः स्यादाप्तत्वमिदमुच्यते । प्रतारणाद्यप्रयोज्यहिताहितमनीषयोः ॥ प्रयोजकत्वमाप्तत्वं समानं वेदलोकयोः । इति कैश्चिन्निरुक्तं स्यात् अन्यैरपरथा यथा ॥ यदनाप्तानुच्चरितं वाक्यं शब्द स्स इष्यते । प्रमाणं तल्लोकवेदसाधारणमिति स्थितम् ॥ 2 अर्थावबोधकशब्द इत्याहुस्स्फोटवादिनः । श्रोत्रग्राह्यश्शब्द इति तत्प्रतिद्वन्द्विदृष्टिः ॥
430 मानमेयरहस्यश्लोकवार्तिके ३ आप्तवाक्यं शब्द इति प्राहुर्न्यायविशारदाः । आप्तो यथार्थवक्तेति पौरुषेयत्वसिद्धये ॥ वेदानां प्रोच्यते, तेन प्रामाण्यं परतो मतम् । पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः ॥ शाब्दबोधः फलं तत्र शक्तिधीस्सहकारिणी । आसत्तियोग्यताऽऽकाङ्क्षा तात्पर्यज्ञानमिष्यते ॥ कारणं, सन्निधानं तु पदस्यासत्तिरुच्यते । पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ॥ यत्पदेन विना यस्यानुभावकता भवेत् । साऽऽकाङ्क्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम् ॥ इति न्यायविदां मार्गः वैदिकानां पुनस्त्वसौ । परस्परापेक्षितत्वमाकाङ्क्षा स्यात्पदार्थयोः ॥ तात्पर्यविषयार्थानां बाधाभावो हि योग्यता । पदजन्या पदार्थानामासत्तिः स्यादुपस्थितिः ॥ तत्तदर्थप्रतीतीच्छा तात्पर्यं वक्तृरवस्थिता । वेदेऽपीच्छासमाकारः व्यापारोऽभ्युपगम्यते ॥ शरीरवादे प्रागुक्ता तन्त्रवार्तिकपद्धतिः । तन्निर्णयाय मीमांसा न्यायनिर्णयलक्षणा ॥ लोके तु वक्तुरिच्छेयं ज्ञेया प्रकरणादिना । लौकिकोऽलौकिकश्चेति शब्दोऽतो द्विविधो मतः॥
शब्दप्रमाणपरिच्छेदः 43 4 शब्दार्थयोस्तु संबन्धो वृत्तिस्सा हि चतुर्विधा । मुख्या गौणी लाक्षणिकी तात्पर्यं चेति भेदतः । मुख्या वृत्तिश्शक्तिरेषा सा पदार्थान्तरं मता । जातावेव हि शक्तिस्स्यात् व्यक्तिधीस्तुल्यवित्तिचितः आक्षेपाद्वा स चाक्षेपः लक्षणा लिङ्गमेव वा । अर्थापत्तिः कुब्जशक्तिरित्येवं हि विकल्प्यते ॥ या स्वरूपसती शाब्दबोधे शक्तिः प्रयोजिका । व्यक्तिनिष्ठा कुब्जशक्तिरिति प्राभाकरा विदुः ॥ 5 अवस्थानेऽपि चैकत्र मुख्यवृत्तेरसौ पुनः । तात्पर्यवृत्तिरन्यत्र दूरे संक्रमतेऽन्यथा ॥ सामान्यतः प्रयोगेऽपि विशेषावगतिः कथम् । तात्पर्यवृत्तिरभिधावृत्तेरपि बलीयसी ॥ यत्परस्स हि शब्दार्थ इति तस्माद्विदुर्बुधाः । प्रवृत्तिस्सर्वशास्त्राणां यस्मात्तात्पर्यनिर्णये ॥ पदार्थपर्यवसितोऽभिधाव्यापार इष्यते । तथापि तात्पर्यवृत्तिरपर्यवसिता मता ॥ अपर्यवसिता वृत्तिर्यत्र तत्रैकवाक्यता । सा पर्यवसिता या स्यात्पदे वाक्ये च केवले ॥ गुणसंबन्धतो गौणी लक्षणा शक्ययोगतः । तात्पर्यशक्तिः तात्पर्यनिर्णयात्सा बलीयसी ॥
432 मानमेयरहस्यश्लोकवार्तिके तां लक्षणां केचिदाहुः बोध्यसंबन्धरूपतः । असतोऽपि हि शब्दोत्थज्ञानगोचरतेष्यते ॥ तथाऽगृहीतसंबन्धाः पदार्था एव सर्वशः । आगमार्थं बोधयन्तः बलीयांसो भवन्ति हि ॥ नियमस्मरणापेक्षाल्लिङ्गात्प्रबल आगमः । विशेषतश्च वेदस्य निर्दोषत्वाद्वलिष्ठता ॥ अव्युत्पन्नशब्दराशिः स्वस्वरूपं हि बोधयेत् । अतश्च देवताशब्दः स्वरूपे पर्यवस्यति ॥ 6 अभिधेयेन संबन्धात्सादृश्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥ भर्तृमित्रवचस्त्वेतत् अपरैष्षड्विधा मता । जहदादिविभेदेन त्रिविधा नव्यवैदिकैः ॥ 7 पदार्थबोधनं शब्दशक्तिजन्यत्वतः पदैः । पार्थसारथ्यादिबुधैः अभिधानमितीर्यते ॥ संस्कारोद्बोधनद्वारा पदार्थानां तु बोधनम् । तत्स्यात् स्मरणमेवेति चिदानन्दादयो विदुः ॥ पदार्था एव वाक्यार्थं पुनस्संसर्गलक्षणम् । बोधयेयुर्लक्षणया तात्पर्यानुपपत्तितः ॥ मीमांसाशास्त्रनिष्णात़ाः नव्याः प्राहुर्बुधोत्तमाः । तस्मान्नानापदार्थानुरक्तो वाक्यार्थ इष्यते ॥
शब्दविभागः 433 पदार्थमूलो नामूलो नच संकेतमूलकः । विस्तरोऽस्य त्वन्विताभिधाने चाभिहितान्वये ॥ (89) शब्दविभागः. 1 ऋऌक्सूत्रे महाभाष्ये शब्दभेदो निरूपितः । चतुष्टयी हि शब्दानां प्रवृत्तिरिह जायते ॥ जातिशब्दाः क्रियाशब्दाः गुणशब्दाः तथा परे । यदृच्छाशब्दसंज्ञाः स्युः ते च डित्थादयो मताः ॥ ये प्रवृत्तिनिमित्तं तदर्थस्थमनपेक्ष्य च । प्रयोक्तृभिप्रायमात्रात्प्रवर्तन्ते हि ते पुनः ॥ शब्दस्वरूपमेवात्र निमित्तमिति निर्णयः । अथचालंकारिकोक्तो विभागस्त्वपरो यथा ॥ 2 चतुर्धा वाचकश्शब्दः जातिवाचक आदिमः । द्वितीयो गुणवाची स्यात् तृतीयः कर्मवाचकः ॥ द्रव्यवाची तुरीयः स्यात् तेषां विवरणं त्विदम् । अनुप्राणनहेतुर्यः धर्मः तस्य हि वाचकः ॥ जातिवाचक इत्युक्तः तत्रानुप्राणनं पुनः । विशेषतो याऽऽकाङ्क्षा स्यात् शान्तिस्तस्या इतीर्यते जातिः प्राणप्रदात्रीति चात एवाभिधीयते । अर्थस्यानुप्राणितस्य सिद्धधर्मो विशेषणम् ॥ M.R. 55
यत्स्यात्तद्वाचकश्शब्दः गुणवाचक उच्यते । तादृशो यस्साध्यधर्मः तद्वाची कर्मवाचकः ॥ एतत्त्रितयसंयुक्तं वस्तु द्रव्यमितीर्यते । तद्वाचको द्रव्यवाचीत्येवं प्राज्ञैरनूदितम् ॥ जातिस्सामान्यमित्याद्या जातिमात्रस्य वाचकाः। व्यक्तिस्स्वरूपमित्याद्या व्यक्तिमात्रस्य वाचकाः॥ गोघटाश्वादयो जातिविशिष्टव्यक्तिवाचकाः । गुणादिवाचकाश्शब्दाः द्रव्यपर्यन्तबोधकाः ॥ असौत्रोऽपि च मत्वर्थीयादिस्तद्गुणवाचिनः । निष्कर्षप्रतिरुद्धायाः शक्तेरुत्तम्भको मतः ॥ वैभवात्क्वचिदायातः भूरिकेवलदर्शनात् । नचेत्तेषामसाधुत्वप्रसङ्गो दुर्निवारणः ॥ गुणैकनियतास्तावद्गन्धरूपरसादयः । गन्धत्वाद्यवच्छिन्नगन्धादिगुणवाचिनः ॥ तेषां न द्रव्यपर्यन्ता वृत्तिः क्वचन दृश्यते । न गन्धः पद्ममित्यस्ति सामानाधिकरण्यधीः ॥ सामान्यतश्च शब्दानांमर्था अपि चतुर्विधाः । मुख्यो गौणो लाक्षणिकस्तात्पर्यार्थ इति श्रुताः॥ स्याद्वाचको लाक्षणिको व्यञ्जकश्चेति च त्रिधा । इतिचाप्यपरैरालंकारिकैः प्रविभज्यते ॥
शब्दविभागः 435 3 नामाख्यातनिपातोपसर्गभेदैः चतुर्विधम् । पदं विभज्यते शास्त्रे सर्वस्मिन् पदवेदिभिः ॥ 4 प्रादयो ह्युपसर्गास्स्युः निपाताश्चादयो मताः । तिङन्तास्त्वाख्यातसंज्ञाः सुबन्ता नामसंज्ञिताः ॥ उपसर्गा निपाताश्च वाचका द्योतका इति । मतद्वयं, वाचकत्वं शक्तिस्स्यात्सामुदायिकी ॥ विशेषणं द्योतकत्वं तच्च शक्त्यपवादनम् । सर्वं सर्वार्थशक्तं चेदपवादो ह्यपेक्ष्यते ॥ तदा पदान्तरं तत्स्यात् अन्वाख्यानमनर्थकम् । उक्ते विशेषणं, किंचिदुच्यमानविशेषणम् ॥ तेन शक्त्यपवादोऽयं भवेदर्थापवादवत् । चादयो वाचकाः प्राद्या द्योतका इति तार्किकाः । सर्वेऽपि द्योतका एवेत्याहुश्शाब्दिककोविदाः । मीमांसकास्तु मध्यस्थाः चिन्तनश्रमभीरवः ॥ 5 नैयायिकविभागोऽपि किंचिदत्र निरूप्यते । प्रकृतिः प्रत्ययश्चेति निपातश्चेति स त्रिधा ॥ निरुक्ता प्रकृतिर्द्वेधा नामधातुविभेदतः । यत्प्रातिपदिकं प्रोक्तं तन्नाम्नो नातिरिच्यते ॥ रूढं च लक्षकं चैव योगरूढं च यौगिकम् । तच्चतुर्धा परैरूढयौगिकं मन्यतेऽधिकम् ॥
436 मानमेयरहस्यश्लोकवार्तिके 6 अम्बाम्बेति यदा बालश्शिक्षमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः ॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ नापभाषतवै न म्लेच्छतवै इति यद्यपि । निषेधो वर्ततेऽथापि प्रमादो धीमतामपि ॥ कल्पसूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः । शिष्टाः दृष्टाः प्रयुञ्जानाः अपशब्दाननेकंशः ॥ शब्दशास्त्रप्रवक्तारस्त्रयोऽपि मुनयः पुनः । शास्त्र एव स्खलन्तीति विवृतं तन्त्रवार्तिके ॥ अन्तो नास्त्यपशब्दानामतिहासपुराणयोः । मरणान्तो व्याधिरसौ यद्व्याकरणमुच्यते ॥ इति चौशनसाः प्राहुरिति प्राह बृहस्पतिः । दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः ॥ पितृभ्यामभिशस्तो वा कुर्याद्व्याकरणे श्रमम् । वृत्तिः सूत्रं तिलाः माषाः कपत्री कोद्रवौदनः ॥ अजडाय प्रदातव्यं जडीकरणमुत्तमम् । इत्थं शङ्कासंग्रहोऽथ समाधेरपि संग्रहः ॥ रूपान्तरेण देवास्ते विचरन्ति महीतले । ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥
यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुरुषौ लोके पङ्क्तिपावनपावनौ ॥ वरं हि जातास्तिमयः गभीरे हि जलाशये । न मानवाः व्याकरणशुद्धिहीनमुखा भुवि ॥ ऐन्द्रं चान्द्रं च माहेशं दौर्गं कौमारमेवच । कालापं चैवाऽऽपिशलं कातन्त्रादिकमुच्यते ॥ अष्टादश पुराणानि चाष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् ॥ 7 ननुचाशक्तिजा दोषाः प्रमादजनिताश्च ये । परिहर्तुमशक्यत्वान्न निषेध्या इति त्वसत् ॥ प्रमादमेव मा कार्षीः सामर्थ्याय यतस्व च । एवमर्थो निषेधोऽयं नाद्रियेतान्यथा ह्यसौ ॥ अन्ये सुखमुखारूढाः न क्लेशेन विवक्षवः । शक्ताश्चैवाप्रमत्ताश्च वदेयुरनिवारिताः ॥ अशक्तैर्नाशिताश्चान्ये दाक्षिण्याद्यनुवर्तनात् । जानन्तोऽपि प्रयुञ्जीरन् यदि शास्त्रं न वारयेत् ॥ तत्कथं नाम यत्किञ्चित् स्यादपभ्रंशकारणम् । दूरात्परिहरेयुस्तदिति यत्नो नियम्यते ॥ रीतिरेषा निषेधेषु चान्येषु परिगृह्यताम् । प्रमादश्चाप्यशक्तिश्च न पुरस्कृत्यतां बुधैः ॥
आर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् पदान्तराक्षरोपेतं कल्पयन्ति कदांचन ॥ तस्माद्ये याज्ञिकैर्यैषां वैद्यैर्वार्था निरूपिताः । तेषां त एव शब्दानांमर्थाः मुख्या नचेतरे ॥ 8 भेदो नाम पदार्थानामवच्छेदः परस्परम् । संसर्गोऽपि पदार्थानामन्योन्येनानुरञ्जनम् ॥ स्वप्राधान्यात्पदार्थानां धर्मावेतावुभावपि । धर्मिभेदेन भिद्येते न ह्येकत्वमुपाश्रितम् ॥ अर्थैकत्वादेकवाक्यमित्यत्रेदं विचिन्तितम् । भाष्यवार्तिकयोः पूर्वमीमांसायां विलोक्यताम् । 9 नाम्नां द्विधैव संबन्धः सर्ववाक्येष्ववस्थितः । सामानाधिकरण्येन षष्ठ्या वा प्रतिपाद्यते ॥ सामानाधिकरण्यं च धर्मः शब्दगतः स्थितः । तस्य तात्पर्यविषयोऽप्यर्थस्ताच्छब्द्यमश्नुते ॥ सामानाधिकरण्यं तत्तादात्म्यमिति कीर्त्यते । विरोधैकान्तसिद्धान्ते तत्स्वरूपैक्यलक्षणम् ॥ तद्धि तावद्धर्मधर्मिजातिव्यक्त्यादिषूच्यते । धर्मधर्मिविभेदे तु सर्वथा नैक्यसंभवः ॥ धर्मभेदे तदायत्तो धर्मिभेदः व्यवस्थितः । स सिद्धान्तस्सौगतानामिति धीमद्भिनिश्चितः ॥