भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

जातिवादः. 247 पक्षे त्वस्मिन् विप्रताद्यं व्यवहारनिबन्धनम् । अनादिर्व्यवहारोऽयं वारादिव्यवहारवत् ॥ या चोत्कर्षापकर्षाभ्यां सप्तमे पञ्चमेऽपिवा । वर्णान्तरापत्तिरुक्ता पर्यायाच्छुद्धिरेव सा ॥ संभवः तदभिव्यङ्ग्या जातिर्वा विप्रता यदि । मुखबाहूरुजातानां मानसानां कथंनु सा ॥ द्रौपद्यगस्त्यवाल्मीकिदृष्टद्युम्नादिधीमताम् । पौराणिकानामन्येषां कथं सा व्यवतिष्ठते ॥ तयोनिजायोनिजादिक्रोडीकरणनिर्मलम् । ब्राह्मण्यमभिनिर्वाच्यं तद्धि सत्त्वादिलक्षणम् ॥ सत्त्वादयो गुणा एव स्वभावप्रभवा गुणाः । तद्धेतुभूतं प्राचीनं कर्म स्वो भाव उच्यते ॥ प्रजापतेः ऋषीणां च प्रत्यक्षं तत्तु मादृशाम् । गोत्रप्रवरसंबन्धपारंपर्यौपदेशिकम् ॥ सवर्णान्येन संयोगे सांकर्यं नैव संभवि । महर्षिषु प्रमादोऽपि तपोभिरनुपप्लुतः ॥ 12 तद्ब्राह्मण्यं द्विधा प्रोक्तं शारीरं मानसं त्विति । सत्त्वादिरूपं शारीरं मानसं तु शमादिकम् ॥ शरीरसत्तापर्यन्तं शारीरनियमः स्थितः । मानसं सर्वपूज्यं स्यात् मनोवृत्तिनिबन्धनम् ॥

248 मानमेयरत्नश्लोकवार्तिके ब्राह्मण्यमासीत्प्रथमं ततः क्षत्रादि वैभवम् । इतिच ब्रह्म वेत्यादि बृहदारण्यके श्रुतम् ॥ आदौ कृतयुगे शूद्राद्यभावो भारतादिषु । प्रपञ्चितस्सच्चरित्ररक्षायामप्यनूदितः ॥ बीजप्राधान्यतो जातिव्यवस्थाऽदावभूत्ततः । क्षेत्रप्राधान्यत इति चाधुना ज्ञायते गतिः ॥ ब्राह्मणानां पुनः बीजं क्षत्राणां क्षेत्रमित्यपि । मेधातिथेरभिप्रायः ज्ञायते दशमे मनोः ॥ पुराणादिषु चान्येषु विविधा ज्ञायते गतिः । सर्वे सर्वानुग्रहाय मुखभेदा इति स्थितिः ॥ (52) असंबद्धवादः. 1 सम्बन्धस्य च संबन्धे तस्यापीत्यनवस्थितिः । ततस्तस्य परित्यागे स्वरूपे पर्यवस्यति ॥ एवं विशेषे सामान्ये कारणे धर्मधर्मिणोः । आधारेऽवयवे शक्तौ शेषिण्यङ्गे च संविदि ॥ अनवस्थाप्रसङ्गेन व्यवहारः स्वरूपतः । वरमित्याहुरपरे संबन्धोऽत्र कुतः कयोः ॥ 2 अथ संबन्धतत्त्वापलापिनामिह कारिका । प्रमेयाम्बुजमार्तण्डोदाहृतैषाऽवधार्यताम् ॥

[Header] असंबन्धवादः 249

पारतन्त्र्यं हि संबन्धः सिद्धे का परतन्त्रता । तस्मात्सर्वस्य भावस्य संबन्धो नास्ति तत्त्वतः ॥ रूपश्लेषो हि संबन्धः द्वित्वे स च कथं भवेत् । तस्मात्प्रकृतिभिन्नानां संबन्धो नास्ति तत्त्वतः ॥ द्वयोरेकाभिसंबन्धात्संबन्धो यदि तद्द्वयोः । कस्संबन्धोऽनवस्था च, न संबन्धमतिस्ततः ॥ तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः । इत्यमिश्राः स्वयं भावाः तान्मिश्रयति कल्पना ॥ तामेवचानुरुन्धानैः क्रियाकारकवाचिनः । भावभेदप्रतीत्यर्थं संयोज्यन्तेऽभिधायकाः ॥ 3 कार्यकारणभावाख्यः संबन्धो न भविष्यति । तयोरसहभावेन द्विष्ठस्यास्याप्यसंभवात् ॥ क्रमेण भाव एकत्र वर्तमानोऽन्यनिस्पृहः । तद्भावेऽपि तद्भावात् संबन्धो नैकवृत्तिमान् ॥ यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते । उपकारी ह्यपेक्ष्यः स्यात् कथं चोपकरोत्यसन् ॥ यद्येकार्थाभिसंबन्धात्कार्यकारणता तयोः । प्राप्ता द्वित्वाभिसंबन्धात्सव्येतरविषाणयोः ॥ द्विष्ठो हि कश्चित्संबन्धो नातोऽन्यत्तरस्य लक्षणम् । येन चैतस्य संख्यादेः व्यवस्थाप्येत भिन्नता ॥

[Footer] M.R. 32

भावाभावोपाधियोगः कार्यकारणता यदि । योगोपाधी न तावेव कार्यकारणताऽत्र किम् ॥ पश्यन्नेकमदृष्टस्य दर्शने तददर्शने । अपश्यन् कार्यमन्वेति विनाऽप्याख्यातृभिर्जनैः ॥ दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसंभवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थं निवेशिता ॥ तद्भावाभावतः कार्यगतिर्याऽप्यनुवर्ण्यते । संकेतविषयाख्या सा सास्नादेर्गौर्गतिर्यथा ॥ भावे भाविनि तद्भावः भाव एवच भाविता । प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः ॥ एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः । विकल्पा दर्शयन्त्यर्थान्मिथ्यार्थाः घटितानिव ॥ भिन्ने का घटनाऽभिन्ने कार्यकारणताऽपि का । भावे ह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥ 4 संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् । अन्योन्यानुपकाराच्च न संबन्धी च तादृशः ॥ जनने चापि कार्यस्य केनचित्समवायिना । समवायि तदा नासौ न ततोऽतिप्रसङ्गतः ॥ तयोरनुपकारेऽपि समवाये परत्र वा । संबन्धो यदि विश्वं स्यात्समवायि परस्परम् ॥

संयोगजननेऽप्येतौ नहि संयोगिनौ मतौ । कर्मादेर्योगितापत्तौ स्थितिश्च प्रतिवारिता ॥ इत्यादिको विस्तरोऽसौ सर्वशून्यत्ववादिनाम् । ग्रन्थेषु तूपलभ्येत प्रायस्ते शिथिला इह ॥ 5 एवमादीन् विवादांश्च समादधति केचन । तान् शून्याद्वैतसिद्धान्तशुद्धान्तस्तम्भलक्षणान् ॥ अनवस्था द्विधा त्वाद्या सिद्धा स्यात्कारणाश्रया । प्रमाणसिद्धा धारेयं न प्रसङ्गमिहार्हति ॥ कल्प्या द्वितीया सैवात्र संसर्गादौ प्रसञ्जिता । तत्र स्वपरनिर्वाहः नैरपेक्ष्यमिति द्वयी ॥ गतिरस्ति प्राथमिक्या निर्वाहः प्रकृते भवेत् । ज्ञातेन ज्ञानजनने नैरपेक्ष्यात्मिका गतिः ॥ इन्द्रियाण्यथ संस्कारः कारणं हि स्वरूपसत् । क्वचित्स्वपरनिर्वाहः स्वस्वभावनिबन्धनः ॥ परश्शतपरिक्षोदात्परस्तादपि वादिभिः । उपलब्धबले स्थेयं तदादावेव गृह्यताम् ॥ अतः कृत्स्नैकदेशादिविकल्पानुपपत्तितः । संबन्धतत्त्वापलापः शून्यवादस्य चाङ्कुरः ॥ निरंशत्वादथैकत्वात् न विकल्पोऽत्र तादृशः । स च सावयवानेकपदार्र्थविषयो मतः ॥

152 मानमेयरहस्यश्लोकवार्तिक

समाप्यवृत्तिः व्यासज्यवृत्तिश्चेति द्विधा स्थितिः । केवलैकत्रवृत्तिर्या सा समाप्येति कीर्त्यते ॥ सापेक्षेषु त्वनेकेषु वृत्तिः व्यासज्यपूर्विका । प्रथमा जातिरूपादेस्संयोगादेरनन्तरा ॥ (53) संबन्धवादः. 1 अप्राप्तिपूर्विका प्राप्तिस्संयोग इति कीर्त्यते । समवायस्तु निष्पत्तिप्राप्तयोः स्यादैककालिकः ॥ प्रतीतिभेदाद्भेदोऽस्ति देशभेदस्तु नेष्यते । तेनात्र कल्प्यते वृत्तिः समवायस्स उच्यते ॥ ये चेह वृत्ती स्रक्सूत्रभूतकण्ठगुणादिषु । जात्यादीनामनंशत्वात् ताभ्यां वृत्तिर्विलक्षणा ॥ नैयायिकास्तं प्रत्यक्षमाहुर्योगास्त्वतीन्द्रियम् । निर्विकल्पैकविषयं तं विदुर्भूषणानुगाः ॥ स निर्विकल्पानपेक्षसविकल्पकगोचरः । इति सिद्धान्तयन्त्यत्र त्वाचार्या इति च श्रुतम् ॥ कारणे समवायो हि कार्याणां जन्म कथ्यते । सत्तायास्समवायो वाऽथवाऽऽद्यक्षणयोगिता ॥ समवायस्य जन्मत्वे विशेषणविशेष्यताम् । जनयन् कारकस्तोमः नित्येऽपि सफलो मतः ॥

सम्बन्धवादः 253 स च व्योमवदेवैकः नित्यस्सर्वगतोऽपिच । तस्यानेकत्वमिच्छन्ति चापरे नव्यतार्किकाः ॥ इति तार्किकसिद्धान्तः तत्र कौमारिलाशयः । समवायो हि संबन्धान्तराभावेऽपि योजयेत् ॥ स्वभावादेव तावेव यथा संबन्धिनौ तथा । विशिष्टव्यवहारं तमातन्वाते स्वभावतः ॥ द्रव्याद्रव्ये च तादात्म्यात्, समवायेन किं फलम्। त्रैकाल्यं यदि नित्यत्वं कालायोगिनि तत्कथम् ॥ यदि कारणशून्यत्वं यद्वा प्रध्वंसशून्यता । नित्यत्वं तत्प्रसज्येत प्रध्वंसप्रागभावयोः ॥ उभयान्तविहीनत्वं नित्यत्वं चेन्निरुच्यते । नित्ययोरिव सर्वेषां नित्यताऽत्र प्रसज्यते ॥ विशेषणविशेष्यात्मस्वभावान्नियमो यदि । अजागलस्तनसमस्समवायः प्रकल्पितः ॥ प्राभाकराः पुनस्तत्र काश्यपं मतमास्थिताः । तयोरेकत्वनित्यत्वाविवादोऽस्ति विशेषतः ॥ समवायाख्यसंबन्धानेकानित्यत्वहेतुतः । व्यक्त्यैक्यं सितनीलादेः विभुत्वं चोपपाद्यते ॥ नीलो नष्टस्सितो जातः इत्याद्या अपि बुद्धयः । संबन्धमूलास्सिद्ध्यन्ति लाघवं च महत्ततः ॥

254 मानमेयरहस्यश्लोकवार्तिके इदं सर्वाद्वैतवादप्राग्रूपमिति केचन । समवायैक्यपक्षेऽपि तथैवेत्यपरे विदुः ॥ २ अथ संयोगसंबन्धः सौगतैर्नाभ्युपेयते । प्रत्यासत्तिः प्रतिघातावसानेति हि तन्मतम् ॥ अर्थान्तरस्य हेतुत्वान्नासौ निह्नवमर्हति । शब्दरूपस्पर्शहेतुः कश्चिदागन्तुको ह्यसौ ॥ अमृते गरले तूले चोपले ब्राह्मणे गवि । चण्डाले कपिकच्छ्वादौ स्पर्शभेदोऽनुभूयते ॥ संयोगेनान्यथासिद्धिमातिष्ठन्ते विपश्चितः । संयोगापह्नवे सर्वो व्यवहारो विरुध्यते ॥ निरन्तरस्थितिः काचित्संयोग इति केचन । स्थितिः तद्देशसंयोग एवेत्यन्यैः प्रतीर्यते ॥ संयोगदेशकालाद्यैः प्रसिद्धैश्च ह्युपाधिभिः । परिषद्वाशिविपिनयूथसंघातपङ्क्तयः ॥ मण्डलव्यूहसंकीर्णचतुरश्रादिमूर्तयः । अबाधितव्यवहृतिविषया निरुपाधिकाः ॥ महत्त्वैकत्वयुक्तत्वप्रमुखा बहवो गुणाः । संयुक्तद्रव्यनिष्ठास्तत्संयोगोऽशक्यनिह्नवः ॥ सादृश्यवच्च संयोगः कैश्चिन्मीमांसकैः पुनः । अनुयोगिप्रतियोगिभेदाद्भिन्न इतीष्यते ॥

संबन्धवादः 25. विभूनां चेदसंयोगः सान्तरत्वं प्रसज्यते । अतएवाजसंयोगः शब्दश्रवणयोर्मतः ॥ सर्वाधारत्वसिद्ध्यर्थमीश्वरेऽपीष्यते बुधैः । गुणवादे च संयोगविस्तरश्चावधार्यताम् ॥ 3 एकार्थसमवायादिस्समवायनिबन्धनः । तादात्म्यनामकः भाट्टैः भिन्नाभिन्नत्वलक्षणः ॥ समवायस्य च स्थाने संबन्धः पर्यभाष्यत । तादात्म्यलक्षणो भेदाभेदो ज्ञातश्चतुर्विधः ॥ जातिव्यक्त्योस्तु तादात्म्यं स्यात्सामान्यविशेषयोः । क्रियाक्रियावतोस्तावत् अवस्थातद्वतोर्मतम् ॥ अंशांशिभावस्तार्तीयः स मतो गुणतद्वतोः । कार्यकारणतादात्म्यं अवयव्यादिसंश्रितम् ॥ गोत्वं समुद्रो वृक्षश्च मृच्चोदाहरणं क्रमात् । व्यक्तिस्तरङ्गः शाखादिः कुम्भश्च प्रतियोगिनः ॥ 4 अभावस्यापि वैशिष्ट्यं संबन्धान्तरमिष्यते । कौमारिलैस्तार्किकैस्तु गौरवात्सोऽपलप्यते ॥ 5 कार्यकारणभावाख्यस्संबन्धोऽन्यत्र विस्तृतः । अन्यथा स्वप्रवृत्त्यादेश्शास्त्रादेरप्यनुत्थितिः ॥ 6 वाच्यवाचकसंबन्धनिषेधे लोकबाधनम् । विरोधश्च स्ववाक्येषु किं कथं प्रतिपाद्यते ॥

256 मानमेयरहस्यश्लोकवार्तिके औत्पत्तिकस्सामयिक इति वादोऽत्र भिद्यते । प्रथमो वैदिकः पक्षः द्वितीयो यौक्तिको मतः ॥ 7 विषयत्वाख्यसंबन्धे बह्व्यो विप्रतिपत्तयः । संक्षेपतो निदर्श्यन्ते बुधास्सङ्ग्रहबुद्धयः ॥ 8 स्वच्छा स्वतो धीस्समनन्तरप्रत्ययलक्षणात् । साकारा वासनाभेदात् नियतैवोपजायते ॥ वासना साऽनादिभूता वैचित्र्यं तन्निबन्धनम् । ज्ञानार्थयोस्तत्तादात्म्यं संसर्गो ग्राह्यलक्षणः ॥ न संभव्यपरः, नोचेत्सर्वसर्वज्ञता भवेत् । इति शून्यख्यातिवादियोगाचारव्यवस्थितिः ॥ 9 अत्र सौत्रान्तिकाः प्राहुः ज्ञानाकारार्पणक्षमम् । हेतुत्वं, केवलं हेतुः चक्षुराद्यपि विद्यते ॥ 10 केचित् ज्ञानार्थयोस्तुल्यावाकारावनुजानते । समानाकारता तेषां संसर्गस्स्याद्यथोच्यते ॥ अर्थेन घटयत्येनां न हि मुक्त्वाऽर्थरूपताम् । तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥ तत्र दोषं विदुश्चेत्थं योगाचारमतानुगाः । एकदेशेन सारूप्ये सर्वस्स्यात्सर्ववेदकः ॥ सर्वात्मना तु सारूप्ये ज्ञानमज्ञानतां व्रजेत् । नान्योऽनुभाव्यो बुद्ध्याऽस्ति स्वयं सैव प्रकाशते ॥

संबन्धवादः 11 केचित्त्वादर्शसंकाशे ज्ञाने नीलादिवस्तुनः । प्रतिबिम्बं तु संबन्धं विदुस्तद्ग्राह्यलक्षणम् ॥ 12 ये त्वर्थमपि विज्ञानं निराकारं विदुस्तयोः । योगादाकारनिष्पत्तिं चूर्णहारिद्रयोगवत् ॥ एते हि संसर्गधर्माकारवादिन ईरिताः । संसृष्टयोश्चोभयोरप्याकारं तं प्रचक्षते ॥ 13 केचिदर्थो निराकारस्सदा तद्योगभेदतः । ज्ञानं साकारमिति च प्राहुस्संसर्गवादिनः ॥ 14 साधारणोऽसावाकारः स्यादर्थज्ञानयोर्यथा । लाक्षा द्युमणिमध्यस्था तथेत्येके विदुर्बुधाः ॥ 15 पृथगेवाकारवन्तौ ज्ञानार्थावपरैर्बुधैः । सादृश्यादविवेकेन त्वाभासेते इतीष्यते ॥ 16 व्यवहारानुगुण्यं तद्विषयत्वं विदुः परे । कर्तृकर्मक्रियादीनां साधारणमिदं हि तत् ॥ 17 ज्ञानात्मकक्रियाजन्यफलभागित्वलक्षणम् । कर्मत्वं विषयत्वं तत् प्राकट्यं भाट्टसम्मतम् ॥ आत्मार्थयोः कर्तृकर्मज्ञातृज्ञेयस्वभावयोः । मानसप्रत्यक्षवेद्यः व्याप्यव्याप्तृत्वलक्षणः ॥ संबन्धः स्वस्य करणं कल्पयेत् ज्ञानलक्षणम् । ज्ञाततैवाथवाऽध्यक्षा कल्पयत्येव कारणम् ॥ M.R. 33

अनागतमतीतं च विप्रकृष्टं तथेतरम् । विषयीकुरुते बुद्धिः प्राकट्येऽपि समो विधिः ॥ अतीतानागतत्वाभ्यां अद्यापि स्तो हि वस्तुनी । अतो ज्ञानस्य सम्बन्धानुपपत्तिर्न विद्यते ॥ असतोर्पि सामान्याद्यात्मना वृत्तिसंभवात् । प्राकट्याश्रयता भाट्टैरगत्यैवोपपादिता ॥ स्वयंप्रकाशवादेऽपि संबन्धो बोध्यबोधयोः । मानसाध्यक्षवेद्यस्स्यात् अन्यथा स न सिद्ध्यति । तत्र त्रितयभावेन सर्वसाधारणोऽपरः । विषयत्वात्मकः कश्चित्पदार्थस्सेद्धुमर्हति ॥ विषयत्वं व्यवहृतिभाक्त्वं त्विति गुरोर्मतम् । अतीतादौ द्वत्वादिसंख्यावदुपपद्यते ॥ स्वरूपलक्षणः कश्चिदन्यैः विषयतात्मकः । नैयायिकैरुपगतः ह्युपलम्भानुरोधतः ॥ पदार्थान्तरमित्याहुः विषयत्वं तु केचन । नव्यनैयायिकाः तत्तु सर्वदोषप्रशान्तये ॥ 18 ज्ञानार्थयोस्तु संयोगमाहुर्धीद्रव्यवादिनः । पर्यायवादिनो ये च ये वा विकृतिवादिनः ॥ एवं निरूपिताः प्रायः विषयत्वाभिधेऽधुना । संबन्धे ये विकल्पास्स्युः सर्वदर्शनभूमयः ॥

19 प्रकाश्यता विषयता ग्राह्यतेत्येवमादयः । सर्वैर्दार्शनिकैः प्रायः समानार्था इतीष्यते ॥ कौमारिलैः पुनस्तत्र विशेषः कल्प्यते यथा । अग्न्यादयो घटादीनां प्रसिद्धा ये प्रकाशकाः ॥ न ते प्रकाश्यरूपा हि प्रकाशस्यानपेक्षणात् । ग्राह्यत्वं तु यदा तेषां तदाऽक्षं ग्राहकं मतम् ॥ अक्षग्रहणकाले तु ग्राहिका धीर्भविष्यति । इत्युक्तेर्ग्राह्यता भिन्ना प्रकाश्यत्वादिति स्थितम् । ब्रह्माद्वैतविदस्तत्र विपरीतं विदुर्यथा । संविदः स्वप्रकाशत्वाद्यद्यपि स्यात्प्रकाश्यता ॥ विषयत्वात्मिका तत्र नेष्यते त्वनुभाव्यता । नोचेदननुभूतित्वमनुभूतेः प्रसज्यते ॥ इति प्राहुस्ततो ग्राह्यताया भिन्ना प्रकाश्यता । एवं स्वयंप्रकाशत्वं त्रातुं वेद्यत्वनिह्नवः ॥ प्रकाशनिह्नवो भाट्टैः जाड्यं तस्यैव रक्षितुम् । स्वप्रकाशास्वप्रकाशधीविवादफलं त्विदम् ॥ 20 एवं कर्तृत्वकर्मत्वविरोधस्तन्निबन्धनः । कारकज्ञापकानैक्याविवेकात्सकलं त्विदम् ॥ कर्तृकर्मविरोधस्य रहस्यमिदमीरितम् । कर्ता स्वतन्त्रः कर्मादिरुपसर्जनमिष्यते ॥

स्वातन्त्र्यं पारतन्त्र्यं च युगपन्न च युज्यते । इत्येकमपरं चापि विद्वद्भिर्निरूपितम् ॥ कर्ता सिद्धः कर्म साध्यं कालभेदस्तयोर्मतः । एककालत्वमुभयोः विरुद्धमिति निर्णयः ॥ एष कालविरोधः स्यात् पूर्वो भवति दैशिकः । क्रियैव कारकं येषां सौगतानामभीप्सितम् ॥ तेषां कालोऽथवा देशः नास्त्येवहि विरोधकृत् । तस्माद्विरोधाविरोधविवादो वासनानुगः ॥ 21 समवायस्थले कश्चिदपृथक्सिद्धिलक्षणः । संबन्धः स्वीकृतः प्राज्ञैः तत्स्वरूपं निशम्यताम् ॥ सिद्धिर्नाम स्थितिः ज्ञप्तिः उत्पत्तिश्चापि कथ्यते । पृथक्स्थित्यादयो यस्य न सन्ति यदपेक्षया ॥ तयोस्स्यादपृथक्सिद्धिः संबन्ध इति गम्यते । कार्यादिकारणादीनां सा स्यादयुतसिद्धयोः ॥ अविष्वग्भावनाम्नाऽयं संबन्धः पुनरार्हतैः । स्वीकृतः सोऽपि देशानां भेदस्यैव निषेधकृत् ॥ कथंचित्तादात्म्यरूपमिति पातञ्जलादिभिः । स्वीकृतं वस्तुतस्तत्र फलभेदो न विद्यते ॥ 22 अथापृथक्सिद्धिवादतात्पर्यस्येह संग्रहः । क्रियते बुद्धिशुद्धयर्थं यन्मूलं सर्वदर्शनम् ॥

सम्बन्धवादः 26 यच्च वस्तुपरिच्छेदशून्यं ब्रह्माभिधीयते । तत्स्यादिदमिदं नेति निर्देशानर्हतात्मकम् ॥ तच्च स्वरूपाभेदात्स्यादपृथक्सिद्धितोऽपिवा । जडाजडविभागश्च प्रमाणपरिनिष्ठितः ॥ ततोऽपृथक्सिद्धसत्ताकत्वात्तत्स्यादिति स्थितम् । तच्च द्वैधैव घटते न प्रकारान्तरस्थितिः ॥ तत्र चैतत्सत्त्वभिन्नसत्त्वशून्यत्वतोऽथवा । यदधीना यस्य सत्ता तत्तदित्येव भण्यते ॥ इति स्मृत्यैतदायत्तसत्ताकत्वाद्भेवेद्वापि । तत्राद्यं तु विशेष्याख्यसत्ताशून्यत्वतोऽथच ॥ व्यतिरिक्तस्वरूपस्य विशेषणदलस्य वा । अभावात्तत्राद्यपक्षः बाह्याद्वैताभ्युपागतः ॥ अनन्तरस्तु वेदान्ताद्वैताभ्युपगतो मतः । विशिष्टाद्वैतसिद्धान्ते तत्सत्तायत्तसत्तया ॥ अपृथक्सिद्धिरुरीकृता तत्र द्वयी गतिः । ब्रह्मसत्त्वेनैव सत्त्वं प्रपञ्चस्योपपद्यते ॥ अतिरिक्ता नास्ति सत्ता गुणजातिनयादिति । इयमेका रीतिरन्या त्ववधानेन बुद्धयताम् ॥ प्रपञ्चे चापि सत्ताऽस्ति प्रमाणपरिनिष्ठिता । सा ब्रह्मसत्तायत्ता स्यादित्येकेषां विनिर्णयः ॥

262 मानमेयरहस्यश्लोकवार्तिके द्विधाऽपि जगतो नास्ति मिथ्यात्वं तुच्छताऽपिवा एवं द्वैतादिसिद्धान्ते निर्णीता प्रायशो गतिः ॥ (54) अभाववादः. 1 अथचाभावतत्त्वस्य जिज्ञासाऽत्र प्रवर्तते । अभावतत्त्वव्यत्यासाद्विवादाना समुद्भवः ॥ अभावो निस्स्वभावस्स्यान्न कार्यं नापि कारणम् । तस्मान्नोत्पद्यते नैवोच्छिद्यते नित्य एव सः ॥ नित्येन प्रागभावेन ध्वंसेनापिच तादृशा । ग्रस्तं विश्वं निस्स्वभावं तच्छून्यमिति सौगताः । तत्रातिरिक्तमपरे त्वभावं नानुजानते । अनुजानन्तोऽपि परे तत्तत्त्वं त्वित्थमूचिरे ॥ 2 नास्तीत्याद्यध्यक्षसिद्धो ह्यभावो भूतलादिषु । घटादेः, वस्तुभूतोऽसौ नहि निह्नवमर्हति ॥ अभावव्यवहारोऽपि निःशङ्कगमनादिकः । तन्मात्रानुभवेनैव ख्यातो निष्कण्टकाध्वसु ॥ यदा यत्र च दृश्यत्वे सत्यप्यनुपलम्भनम् । तदभावव्यवहृतिस्तदानीं संप्रवर्तते ॥ ज्ञेयाभावस्य तु ज्ञानाभावरूपत्वकल्पने । अभावाख्यपदार्थोऽङ्गीकृत एव भवेन्ननु ॥

अभाववादः 26 दर्शनादर्शनाभ्यां हि सदसत्त्वविनिर्णयः । दर्शनादर्शने एव सदसत्त्वे कथं पुनः ॥ अभावो बुद्ध्यभावश्चेत् बुद्धिस्स्यात्प्रतियोगिनी । व्यर्थस्त्वियान् प्रयासस्स्यात् जिता विज्ञानवादिनः अभाववादिनो यत्स्यादभावज्ञानकारणम् । तदेव व्यवहारस्य हेतुस्स्यादिति यो वदेत् ॥ घटादिव्यवहाराणामपि तज्ज्ञानकारणात् । संसिद्धेस्सोऽपह्नुवीत ज्ञानमात्रं च चारुवाक् ॥ जगतो मिश्ररूपत्वं स्यादभावो नचेदिह । क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ॥ शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि । अप्सु गन्धो रसश्चाग्नौ वाय्वादावपि ते गुणाः ॥ प्रागभावादिभेदेन नाभावो भिद्यते यदि । नच स्याद्व्यवहारोऽयं कारणादिविभागतः ॥ नचावस्तुन एवैते भेदाः, तेनास्य वस्तुता । मेयो यद्वदभावो हि मानमप्येवमिष्यताम् ॥ स चतुर्विध इत्युक्तः प्रागभावादिभेदतः । अपेक्षाभावसामर्थ्याभावाभ्यां षड्विदुः परे ॥ क्षीरे दध्यादि यन्नास्ति प्रागभावस्स उच्यते । गवि योऽश्वाद्यभावस्स्यात्सोऽन्योन्याभाव ईर्यते ॥

264 मानमेयरहस्यश्लोकवार्तिके शिरसोऽवयवा निम्नाः वृद्धिकाठिन्यवर्जिताः । शशशृङ्गादिरूपेण सोत्यन्ताभाव उच्यते ॥ 3 अपेक्षाऽभाव एवासौ यस्स्यात्सामयिको मतः । उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा ॥ अभावस्तत्त्वतो,ऽन्ये तु भेदास्त्वौपाधिका इति । प्राहुर्जयन्तभट्टाद्याः, नव्यनैयायिकाः पुनः ॥ संसर्गाभावतादात्म्याभावभेदाद्द्विधा विदुः । प्रागभावादिभेदेन प्रथमस्त्रिविधो मतः ॥ अजातो घटसंबन्धः प्रागभावस्सदोच्यते । उत्पद्य स विनष्टश्चेत्प्रध्वंसाभावशब्दितः ॥ शशस्य त्वविषाणित्वं विद्यते सार्वकालिकम् । सोऽत्यन्ताभाव इत्येवं आद्यस्यैव विधा त्रिधा ॥ अन्यसंबन्धिताऽन्यत्र त्रिष्वप्येषु निषिध्यते । संसर्गाभावशब्देन त्रितयं व्यपदिश्यते ॥ अन्यस्मिन्नन्यतादात्म्यनिषेधस्स्यादनन्तरः । स चेतरेतराभावस्तादात्म्याभावशब्दितः ॥ यद्यभावोऽधिकरणं धीर्वा कालोऽथवा भवेत् । एकस्यानन्तता रूपाद्यभावाग्रहणं तु वा ॥ 4 स्थितो नव्यपरिष्कारः, कापिलानां मते पुनः । परिणामविशेषाख्यादन्यः कैवल्यलक्षणात् ॥

भूतलादेर्घटाभावो नाम कश्चन नेष्यते । परिणामस्वभावा हि भावास्सर्वे प्रतिक्षणम् ॥ द्रव्यात्मना तु सर्वस्य नित्यता बहुसम्मता । अतो विरोधप्रवादो ह्यत्यन्तप्रागभावयोः ॥ प्राक्प्रध्वंसाभिधाभावौ नात्यन्ताभावतः परौ । आधारेऽपि तयोस्सोऽपि वर्तते न विरुध्यते ॥ यद्वा निराश्रयौ स्यातां यदि भिन्नौ ततो मतौ । इति वादीन्द्रसिद्धान्तं तार्किका नानुमन्वते ॥ 5 व्यतिरेकोऽतिरेकश्च कैश्चिद्भेदो द्विधेष्यते । अन्त्योऽसाधारणो धर्मः धर्मो धर्म्यपि वा परः ॥ जीवो न व्यतिरिक्तोऽपित्वातिरिक्तो महेशितुः । इति सिद्धान्तभेदोऽसौ तत्रोदाहरणं मतम् ॥ भेदेतरेतराभावप्रभेदं केचिदास्थिताः । भेदो विशेषः व्यक्तिस्स्यात् अन्त्यः सामान्यमुच्यते ॥ अपोह एव सामान्यं सौत्रान्तिकविनिश्चितम् । स्वलक्षणा विशेषास्स्युः जातिव्यक्ती इमे मते ॥ स्वरूपमेव वस्तूनां परस्परविलक्षणम् । नानात्वं तत्सुसंवेद्यं भेद इत्यभिधीयते ॥ पटरूपं घटे नास्ति घटरूपं पटे नहि । इति देशान्तराभावः अन्योन्याभाव उच्यते ॥ M.R. 34

266 मानमेयरहस्यश्लोकवार्तिके इति भास्करसिद्धान्तः प्रायस्सौत्रान्तिकानुगः । जातिर्भेदश्च संस्थानं त्रयमेतद्विलक्षणम् ॥ इति तार्किकनिष्कर्षोऽनर्थान्तरमिदं त्रयम् । इति रामानुजीयानां सिद्धान्तः प्रविविच्यते ॥ केचिद्धिङ्कुर्वते भेदं मानमेयाद्यसंभवात् । भेदो द्विधा स्यात् सादिश्चानादिश्चेत्यपि तन्मतः अनित्यमुभयं ध्वंसप्रतियोगीति कीर्त्यते । परे प्रतिब्रुवन्त्येतान् स्वप्रवृत्तिविरोधतः ॥ अपोहवादिनस्सर्वोऽप्यभावे पर्यवस्यति । भावान्तराभाववादे विपरीता ततो गतिः ॥ कैवल्याभाववादे तु पर्यायेण हि तुच्छता । अतिरिक्ताभाववादः कैश्चित्तस्मात्समाश्रितः ॥ कारणत्वमभावस्य भाट्टैः नाभ्युपगम्यते । भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥ प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः । इत्यभ्युपगमान्न्यायविद्भिश्शक्तिर्निरस्यते ॥ प्रभाकरगुरुः प्रायः न्यायसिद्धान्तवर्त्मगः । अभावतत्त्वमीमांसा विदुषामपि दुर्गमा ॥ 6 अत्र रक्तपटाः प्राहुः प्रमेये सति चिन्तनम् । युक्तं नाम प्रमाणस्य तदेवत्त्वातिदुर्लभम् ॥