भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

00 मानमेयरहस्यश्लोकवार्तिके २ अनेकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥ आद्यस्साधारणस्तु स्यादसाधारणोऽपरः । तथैवानुपसंहारी त्रिधाऽनैकान्तिको भवेत् ॥ यस्सपक्षे विपक्षे च भवेत्साधारणस्तु सः । यस्तूभयस्माद्व्यावृत्तः स चासाधारणो मतः ॥ तथैवानुपसंहारी केवलान्वयिसाध्यकः । यस्साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥ आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतः त्रिधा ॥ विरुद्धयोः परामर्शो हेत्वोस्सत्प्रतिपक्षता । साध्यशून्यो यत्र पक्षः त्वसौ बाध उदाहृतः ॥ ३ असिद्धिश्च विरुद्धश्चानैकान्तिक इति त्रयः । हेत्वाभासा इति प्राहुरार्हता अपि कोविदाः ॥ यस्संदिग्धविपक्षस्स्यात् स त्वनैकान्तिको मतः । बाधादिरप्यसिद्ध्यादावन्तर्भावमिहार्हति ॥ प्रमाणानां स्वरूपेण संख्यया विषयेण च । फलेन च चतुष्पात्त्वं आभासस्तद्विपर्ययः ॥ ४ प्रत्यक्षादिप्रमाणानामाभासस्यापि दर्शनात् । हेत्वाभासस्य चैकस्य ग्रहणं चोपलक्षणम् ॥

हेत्वाभासाः 4 5 अनुमानाभास एव साध्याभासादिसंभवात् । सोऽपि ग्राह्य इति प्राहुरपरे विबुधोत्तमाः ॥ 6 समासमाविनाभावावेकत्र स्तो यदा तदा । समेन यदि नो व्याप्तस्तयोर्हीनोऽप्रयोजकः ॥ विपक्षे बाधकाभावादुपाधेर्वाऽपि संभवात् । हेत्वाभासोऽन्यथासिद्धयन् अप्रयोजक इष्यते ॥ संदिग्धनैकान्तिकस्स्यादप्रयोजक इत्यपि । सौगतोक्तिरयुक्ता यदसिद्धेरुपजीव्यता ॥ 7 स्वेनैव स्वस्य रोधश्चेत्स्वव्याघातो ननूच्यते । स्वस्य सिद्धावासिद्धौ वा विरोधः किं करिष्यति। अत्रोच्यते या हि युक्तिः परपक्षापनुत्तये । उपात्ता तत्सजातीया स्वपक्षं चेत्प्रतिक्षिपेत् ॥ तादृश्या परपक्षस्य नच दोषः प्रसज्यते । स्वपक्ष एव दुष्टस्स्यादिति दूषकतोदिता ॥ दुष्टस्यापिच यद्यस्ति दूषकत्वं तदा भुवि । नित्यं स्यात्कलहः मौनं शरणं वाऽथ वादिनाम्। 8 सर्वं बाधितमेवास्तु वादिनामिति नैव सत् । बाधस्य बाधेऽबाधेऽपि सर्वाबाधोऽवतिष्ठते ॥ विचारो वस्तुरूपश्चेत्किं सिद्धयेत्सर्वशून्यता । विचारोऽवस्तुरूपश्चेदपि नो सर्वशून्यता ॥ M.R. 51

402 मानमेयरहस्यश्लोकवार्तिके 9 मीमांसकानां सिद्धान्ते त्वथाभासो निरूप्यते । दोषोऽनुमाने द्विविधः प्रतिज्ञाहेतुभेदतः ॥ त्रिधा प्रतिज्ञादोषस्स्यात् स्ववाग्विहतिलक्षणः । वन्ध्या मे जननीत्येवं सर्वं वाक्यं मृषेत्यपि ॥ यावज्जीवमहं मौनी धर्मिधर्मोक्तिरोधतः । असिद्धिश्चाप्यनैकान्तिकत्वं बाधकतेति च ॥ हेतुदोषस्त्रिधा ख्यातः पञ्चधाऽसिद्धिरुच्यते । स्वरूपासिद्धिसंबन्धासिद्धी च व्यतिरेकतः ॥ असिद्धिराश्रयासिद्धिः व्याप्त्यसिद्धिश्च पञ्चमी । शशशृङ्गादिहेतुत्वे स्वरूपासिद्धिरुच्यते ॥ पक्षावृत्तेस्तु हेतुत्वे संबन्धासिद्धिरुच्यते । व्यतिरेकासिद्धिरेषा हेतुः पक्षात्मको यदि ॥ आश्रयासिद्धिरत्र स्यान्नचेत्पक्षः प्रसिद्धयति । भिन्नाधारे साध्यहेत्वोः व्याप्यत्वासिद्धिसंभवः ॥ द्विधाऽनैकान्तिकत्वं स्याद्धेतुदोषोऽप्यनन्तरः । आद्यं सव्यभिचारं स्यात् परं सप्रतिसाधनम् ॥ बाधकत्वं विरुद्धत्वं तृतीयो दोष इष्यते । 10 भाट्टानां संशयोभीष्टः फलं सप्रतिसाधने ॥ गुरूणां तादृशो दोषः नेष्टः वस्तुविरोधतः । नहि वस्तु विकल्प्येत न विरुद्धसमुच्चयः ॥

एतेन वस्तुनो नानाकारता भाट्टसम्मता । सोऽनेकान्तो वाद इति गुरुभिस्त्वधरीकृतः ॥ अतएवानित्यदोषं प्राहुर्नैयायिका अपि । रत्नकोशकृतोऽप्यत्र विदुस्संशयहेतुताम् ॥ असाधारणदोषस्य शाक्यास्संशयहेतुताम् । वदन्ति तच्चानुमतं दूषितं च कुमारिलैः ॥ 11 विरुद्धव्यभिचारीति केचिज्जात्यन्तरं विदुः । साधारणविशेषं तं प्राहुः केचन सूरयः ॥ असाधारणमित्यन्ये प्रतिपक्षं परे विदुः । यथा परोदितैरेव पक्षहेतुनिदर्शनैः ॥ विरुद्धसाधने तत्र विरुद्धव्यभिचारिता । सर्वसत्प्रतिपक्षाणां विरुद्धव्यभिचारिताम् ॥ कदाचिदूचुराचार्याः समासरुचयो बुधाः । 12 पक्षेण व्यभिचारस्य चोदना शाक्यसम्मता ॥ संदिग्धानैकान्तिकता सोच्यते, नान्यसम्मता । अनुमानस्य चोच्छित्तिस्तादृग्दोषानुधावने ॥ 13 स व्यधिकरणासिद्धः हेतुः पक्षेतरस्थितः । इत्याहुरपरे सोऽपि संबन्धासिद्धिमान् भवेत् ॥ 14 असाधारण एवायमनध्यवसिताभिधः । हेत्वाभासान्तरमिति भूषणन्यायसम्मतः ॥

भासर्वज्ञादयो न्यायसारादाविममाश्रिताः । पन्थानमिति विज्ञेयं मानमेयोदयादितः ॥ सर्वोदाहरणं न्यायमञ्जर्यादिषु विश्रुतम् । पश्यन्त्वपेक्षावन्तश्चेदयं दिङ्मात्रसूचकः ॥ (82) कथा. 1 एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनौ । पृथक्परिग्रहौ पक्षप्रतिपक्षावुदीरितौ ॥ परस्परविरुद्धार्थवादिनोर्हि विवादिनोः । व्यवहारः कथेत्युक्तः सा कथा त्रिविधा मता ॥ वादजल्पवितण्डाभिः तत्स्वरूपं पुनस्त्विदम् । वीतरागकथा वादः विजिगीषुकथा परः ॥ वितण्डा स्थापनाहीना परपक्षैकदूषणम् । प्रतिज्ञा साधनं चैव दूषणं च विनिर्णयः ॥ व्यवहारश्चतुष्पादः लोकवच्चैव निर्णयः । सर्वथा सदुपायानां वादमार्गः प्रवर्तते ॥ 2 अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः । इति सत्यविदः प्राहुः, आद्यो वादस्स खण्डने । यदि शून्यविदं वादानधिकारं वदेत्सुधीः । तस्मिन्नेव विवादेनाधिकारं दित्सति स्वयम् ॥

[Header] कथा 40

यदि शून्यविदन्यं प्रत्याहानाधिकृतिं सुधीः । तस्य चाप्रतिवादित्वात् निग्रहस्थानमेव तत् ॥ अत्रोत्तरं पुनरिदं ते वादानधिकारिणः । इत्यन्तेवसतां सोऽयमुपदेशो भवेदिति ॥ कथानधिकारवाचा निष्प्रयोजनतोदिता । इति मार्गान्तरं न्यायपरिशुद्धावुदीरितम् ॥ प्रयोजनानुयोगेन वितण्डावादिनिग्रहः । वात्स्यायनोदितः सोऽध्वा विद्वद्भिरनुगम्यते ॥ विस्तरश्शतदूषण्यां वेदान्ताचार्यसूरिभिः । कृतः कथाऽनधिकारवादे नावमिके पुनः ॥ 3 वादेषु नियमा एते कल्प्यन्ते प्रौढिसिद्धये । अदन्त्यो वा निरोष्ठ्यो वा लुङ्प्रयोगोऽथवा तथा यङ्प्रयोगो यक्प्रयोगः इत्यादिश्शब्दगोचरः । अनुमानेनैव तथा शब्देनैव तथेति वा ॥ वैदिकेनागमेनैवेत्येवं मानव्यवस्थितिः । छलजात्यादयोऽप्येवं निग्रहस्थानलक्षणाः ॥ कक्ष्यादिनियमाश्चापि न्यायशास्त्रे हि विश्रुताः । एवंविधा हि निर्बन्धाः वादिनां जयहेतवः ॥ 4 अर्थिप्रत्यर्थिनोस्तावन्न द्वयोर्जयसंभवः । एकस्य विजयेऽपि स्यात् सफला सत्कथैव सा

यत्र द्वयोर्न विजयः नवा तत्त्वविनिश्चयः । कुकथां कथयन्त्येनां असदुक्तिपरंपराम् ॥ तां द्विकक्ष्यादिकामेके षट्कक्ष्यावधिकां विदुः । पूर्वत्रासंभवात् सभ्यैः उत्तरत्र निवारणात् ॥ असदप्रतिभादौ तु पक्षैकत्वमपि क्वचित् । सभ्येष्वसत्स्वदक्षेष्वप्युपर्युपरि धावति ॥ 5 अथ पत्रमुखो वादो विदुषां हृदयंङ्गमः । प्रमेयाम्बुजमार्त्तण्डोदाहृतः कश्चिदुच्यते ॥ प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकम् । साधुगूढपदप्रायं पत्रमाहुरनाकुलम् ॥ श्वान्तभासितभूताद्यत्यन्तात्मदुभान्तवाक् । परन्तद्योतितोदीप्तमितितस्वात्मकत्वतः ॥ चित्राद्यदन्तराणीयमारेकान्तात्मकत्वतः । यदित्थं न तदित्थं न यथाकिंचिदिति त्रयः ॥ तथाचेदमिति प्रोक्तौ चत्वारोऽवयवा मताः । तस्मात्तथेति निर्देशे पञ्च पत्रस्य कस्यचित् ॥ 6 छलैश्च निग्रहस्थानैः जातिभिश्चापि साधनम् । उपालम्भश्च वादे चेत् स जल्प इति निर्णयः ॥ विद्यायाः पालनार्थं सः न लाभाद्यर्थमिष्यते । छलं च त्रिविधं प्रोक्तं तद्द्वाविंशतिधा पुनः ॥

कथा 40 निग्रहस्थानमुदितं चतुर्विंशतिधा परम् । इति न्यायविदः प्राहुः परैर्विविधमिष्यते ॥ 7 छलं च प्रायशः विश्वव्यामोहनमिति स्थितम् । जातिः स्वव्याघातकत्वादसदुत्तरमुच्यते ॥ परापादितदोषाणामनभ्युपगमेन वा । तदुद्धारेण वा दोषं ब्रूयादिति विनिर्णयः ॥ तथैवाप्रतिपत्त्या वाऽथवा विप्रतिपत्तितः । प्रतिज्ञादिपरित्यागान्निग्रहस्थानसंभवः ॥ तूष्णींभावो यदा तूष्णींभावो निग्रहकारणम् । प्रलपेत्तु यदा तत्र भवेत्प्रलापितं तु तत् ॥ यथायथा चेष्टते सः तथा निग्रहहेतुता । अनन्तं निग्रहस्थानं कीर्तितं धर्मकीर्तिना ॥ एवं नानाविधकथाभासतत्त्वावलोकिनाम् । सदुत्तरैस्तदुत्थानात् तत्त्वधीजयसंभवः ॥ अन्यथा षण्डचेष्टावद्भवेयुरफलाः कथाः । इति प्रख्यापनायात्र कथाभास उदाहृतः ॥ 8 वादरूपैवैकधेति कथां तामार्हता विदुः । वीतरागकथा वाद इत्यतो विश्रुतो भुवि ॥ विश्रुता वीतरागास्ते नाम्नाऽपि प्रायशो बुधाः । पराजयभयाद्वीतरागता यशसेऽपि वा ॥

408 मानमेयरहस्यश्लोकवार्तिके इति भेदानादरस्स्यादित्याहुर्वादकौतुकाः । नियोज्यः पर्यन्नूयोज्यः न कश्चित्कस्यचिद्भुवि ॥ संभवैतिह्यचेष्टादिप्रमाणानां यथायथम् । अनुमानप्रभृतिषु ह्यन्तर्भावो बुधैर्मतः ॥ चेष्टा सामायिकी शब्दव्यवहारानुसारिणी । अस्येयं बोधिकेत्येवं भरताद्यागमे स्थिता ॥ एवं लिप्यादिकमपि यथासंभवमर्हति । अन्तर्भावं ततस्तत्र न विकल्पोऽस्ति वादिनाम् इत्येवमनुमानस्य सारांशः परिकीर्तितः । बहुभिर्बहुधा प्राज्ञैः प्रायशो विस्तरः कृतः ॥ (83) उपमानम् 1 वृद्धनैयायिकास्तत्रातिदेशवचनं श्रुतम् । संज्ञाप्रतीतिफलकमुपमानं प्रचक्षते ॥ उपायमात्रावगमे शब्दव्यापारविश्रमात् । निरपेक्षोपेयबोधतत्परादागमाद्भिदा ॥ यथा परार्थानुमानं नागमः किंतु भिद्यते । लिङ्गसामर्थ्यरूपस्योपायस्य प्रतिपादनात् ॥ 2 नव्यनैयायिकानां तु सिद्धान्तोऽथ प्रदर्श्यते । श्रुतातिदेशवाक्यस्य तथा विपिनगामिनः ॥

ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीर्गवादीनां या स्यात्सा करणं मतम् । वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार इष्यते । गवयादिपदानां तु शक्तिधीरुपमा फलम् ॥ तस्मादयं स गवयो नामेत्येवंविधा मतिः । उपमानैकजन्यैव न प्रमाणान्तरोद्भवा ॥ साधर्म्यादथ वैधर्म्याद्धर्ममात्राच्च तत् त्रिधा । गवयो गौरिवेत्यादिवाक्यं साधर्म्यमूलकम् ॥ गवादिवन्न द्विशफः भवेद्वाजीति यद्वचः । तद्वैधर्म्यनिदानं स्यात् धर्ममात्रात्पुनर्यथा ॥ दीर्घग्रीवः प्रलम्बोष्ठः कण्टकाशी क्रमेलकः । सादृश्यवचनं चैतद्द्वयोरस्यादुपलक्षणम् ॥ प्रत्यक्षप्रत्यभिज्ञास्स्युः सादृश्यादिधियो यतः । गवयेन सदृग्गौरित्येषा नोपमितिस्ततः ॥ प्रसिद्धेन हि सादृश्यमप्रसिद्धस्य गम्यते । गवा गवयपिण्डस्य न तु युक्तो विपर्ययः ॥ यच्चावगतविज्ञानं प्रत्युत्पन्ननिदानजम् । सा संगतिः स संवादः सोऽनुवाद इतीर्यते ॥ सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्वं शब्देनानुमयाऽपिवा ॥ M.R. 52

प्रायस्सर्वेऽनुमानान्तर्भावमाहुर्यथापुनः । एषैव गौरसेतिबुद्धिरनुमाऽन्योन्यहस्तवत् ॥ यद्वाऽऽप्तवाक्याद्युत्पत्तिश्चिह्नोन्नीतानिमित्ततः । ३ अथ मीमांसकैकान्तः किंचित्संगृह्यतेऽधुना ॥ दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् । असन्निकृष्टसादृश्यज्ञानं मैमांसकं मतम् ॥ गवयस्थितसादृश्यदर्शनं करणं भवेत् । फलं गोगतसादृश्यज्ञानमित्यवधार्यते ॥ तस्माद्यत्स्मर्यते तत् स्यात्साहश्येन विशेषितम् प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥ प्रत्यक्षे च यथा देशे स्मर्यमाणे च पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥ तथोपमानप्रामाण्यं विदुषां हृदयङ्गमम् । आग्नेयवाक्यं स्वसदृक्सौर्येणोपमितं यदा ॥ तदाचोपस्थिते स्वार्थे तृतीयोंऽशो ह्यपेक्षितः । सौर्यभावनया ग्राह्य इत्यस्त्येतत्प्रयोजनम् ॥ तथा प्रतिनिधिद्रव्यसंग्रहोऽपि क्वचिद्भवेत् । नचेदमनुमानादिनेति मानं पृथक्ततः ॥

उपमानम् 47 4 उपमानप्रमेयं चेत्संबन्धः स्यात्पदार्थयोः । स सामयिक एव स्यात् आरण्यकनरश्रुतः ॥ एवमारण्यकाः केचित् केचिन्नागरकास्तथा । केचिद्देशान्तरनरविश्रुताः कतिचित्पुनः ॥ द्वीपान्तरनरप्रोक्ता एवं सर्वे पदात्मकाः । शब्दास्स्युरिति संकेतसिद्धान्तः विजयी भवेत् ॥ औत्पत्तिकं तु संबन्धं शब्दस्यार्थेन ये विदुः । अर्थापत्तिप्रमाणेन साक्षात्तैस्तद्ग्रहो मतः ॥ प्रत्यक्षं चानुमानं च तदुत्पादे प्रवर्तते । अतस्संबन्धविज्ञानं त्रिप्रमाणकमुच्यते ॥ संबन्धाक्षेपशान्त्यन्ते वागेषा श्लोकवार्तिके । शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति ॥ श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया । अन्यथाऽनुपपत्त्या च बुद्धयेत् शक्तिं द्वयाश्रिताम् ॥ अर्थापत्त्याऽवबुध्यन्ते संबन्धं त्रिप्रमाणकम् । न च सामयिकस्तस्मात्संबन्ध इति निर्णयः ॥ ये तु सामयिकं तं च संबन्धं तार्किका विदुः । तेषां व्याकरणादीनि प्रमाणानीति निश्चितम् ॥ अतस्संकेतसंबन्धसिद्ध्यर्थं मार्गशोधनम् । तन्मार्गप्रतिरोधाय त्रिप्रमाणकतोदिता ॥

412 मानमेयरहस्यश्लोकवार्तिके सर्वमेतच्च वेदस्यापौरुषेयत्वसिद्धये । तत्पौरुषेयतायै च नदीनां सागरो गतिः ॥ (84) अर्थापत्तिः 1 प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवेत् । अदृष्टं कल्पयेदन्यं साऽर्थापत्तिरुदाहृता ॥ तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता । तथैवानुमितात्सूर्ये यानात्तच्छक्तिशालिता ॥ तथैवोपमितार्थात्स्यादर्थान्तरकल्पना । इत्यायूह्यं बुधैस्तत्र निर्णयांशोऽवगम्यताम् ॥ साधारणप्रमाणानामसाधारणमानतः । विरोधादविरुद्धांशे धीरर्थापत्तिरुच्यते ॥ यथा जीवनमानस्य मन्दिराभावमानतः । विरोधात्करणीभूतात् बहिर्भावस्य कल्पना ॥ तस्माद्यो विद्यमानस्य गृहाभावोऽवगम्यते । स हेतुस्स बहिर्भावमगृहीत्वा न गृह्यते ॥ प्रमेयस्य प्रवेशोऽयं विशेषोऽस्त्यनुमानतः । विलक्षणप्रमाणत्वात् तस्य नास्त्यत्र दोषता ॥ 2 तार्किकध्वंसनोपायमेतादृशमजानता । गुरुणा कल्पितः कश्चिज्जीवनस्यात्र संशयः ॥

अर्थापत्तिः 413 जीवनं किल विज्ञातं वेश्मवर्तितया पुरा । तस्माज्जीवनसंदेहः भवेद्वेश्मन्यदर्शनात् ॥ संदिग्धं जीवनं त्वेतत् बहिर्भावस्य बोधकम् । अर्थापत्तेः प्रभावोऽयं यत्सन्दिग्धोऽपि बोधयेत् ॥ एवं जीवनसंदेहे स्यात्संदिग्धविशेषणः । हेतुरित्यनुमानत्वनिरासः सुकरो मतः ॥ तत्संदेहव्युदासाय कल्पना या प्रवर्तते । संदेहापादकादर्थादर्थापत्तिरसौ मता ॥ दृष्टान्तदृष्टनियमस्मरणे त्वनुमा मता । प्रतिघातालोचने स्यादर्थापत्तिर्विलक्षणा ॥ विना कल्पनयाऽर्थेन दृष्टेनानुपपन्नताम् । नयता दृष्टमर्थं या साऽर्थापत्तिस्तु कल्पना ॥ 3 अर्थापत्तेस्तु नैवेह प्रमाणान्तरतेष्यते । व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः ॥ सत्त्वभोजनयोर्व्याप्ये स्यातां जीवनपीनते । जीवित्वे च गृहासत्त्वं बहिसत्त्वं प्रसाधयेत् ॥ पीनत्वे च दिवाऽभुक्तिः रात्रिभोजनसाधनम् । इति नैयायिकाः प्राहुः इतरेऽपि तदध्वगाः ॥ अनियम्यस्य नायुक्तिः नानियन्तोपपादकः । न मानयोर्विरोधोऽस्ति प्रसिद्धे चाप्यसौ समः ॥

इदमादित्येन पद्यं तस्य चार्थोऽयमुच्यते । व्याप्यमेवोपपाद्यं स्यात् व्यापकश्चोपपादकः ॥ विरोधे नैव मानं स्यात् अनुमानेऽपि सा भवेत् विस्तरो न्यायकुसुमाञ्जल्यादौ वीक्ष्यतां बुधैः । 4 यत्र त्वपरिपूर्णस्य वाक्यस्यान्वयसिद्धये । शब्दोऽध्याह्रियते तत्र श्रुतार्थापत्तिरिष्यते ॥ पीनो दिवा च नात्तीति सांकाङ्क्षवचनश्रुतेः । तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥ तामर्थगोचरां केचिदपरे शब्दगोचराम् । कल्पयन्त्यागमाच्चैनामभिन्नां प्रतिजानते ॥ प्रायशश्चानया वेदे व्यवहारः व्यवस्थितः । सोऽवैदिकः प्रसज्येत यद्येषा भिद्यते ततः ॥ वह्निसंसर्गतो दाहस्यान्यथाऽनुपपत्तितः । क्लृप्तिर्दहनशक्तेस्तु दृष्टार्थापत्तिरुच्यते ॥ प्रमाणग्राहिणीत्वेन दृष्टार्थापत्तितोऽधिका । श्रुतार्थापत्तिरेष्टव्या प्रमेयग्राहिणी परा ॥ 5 प्राभाकरास्त्विमं भेदं न विवक्षन्ति तद्यथा । अर्थं बुद्ध्वा शब्दक्लृप्तिरिति सर्वत्र विश्रुता ॥ केवलं द्वारमित्युक्ते पिधेहीति न कल्प्यते । किंतु क्लृप्तिः पिधानस्य तदर्थस्यैव लाघवात् ॥

अतएवच शब्दस्य नाध्याहारमिमे विदुः । भाट्टा नैयायिकाश्चापि शब्दाध्याहारवादिनः ॥ पुष्पेभ्य इति शुद्धोक्तौ स्पृह्यार्थो यदि कल्प्यते । चतुर्थ्यनुपपत्तिस्स्यात् शब्दस्तदुपपादकः ॥ अर्थाध्याहारपक्षे तु कार्यं वेदार्थ इष्यते । स एव धर्मः वेदैकगम्यता न विरोत्स्यते ॥ द्रव्यक्रियागुणादीनां धर्मत्वं ये विदुर्बुधाः । अन्यथाऽनुपपत्त्या हि तेषां वेदस्य कल्पना ॥ लौकिकोऽलौकिकश्चेति यथा शब्दो द्विधा मतः । लौकिक्यलौकिकी चेति श्रुतार्थापत्तिरप्यसौ ॥ (85) अनुपलब्धिः. 1 प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि। तत्र तृतीयपादेनानुपलब्धिर्विवक्षिता । तुरीयेन तु पादेनाभावबुद्धिर्विवक्षिता ॥ प्रमायाः करणत्वे तु फलं हानादिबुद्धयः । इति न्यायोऽभ्युपेतव्य इति वार्तिककृन्मनः ॥ अथ तस्यैव विवृतिः सम्प्रदायप्रवर्तकैः । प्रकाशितो लिख्यतेऽत्र पुनः वैशद्यसिद्धये ॥

2 अधोपलम्भयोग्यत्वे सत्यप्यनुपलम्भनम् । अभावाख्यं प्रमाणं स्यात् अभावस्यावबोधकम् ॥ विषयं तद्घधीनांश्च सन्निकर्षादिकान्विना । उपलम्भस्य सामग्रीसंपत्तिरिह योग्यता ॥ सा च ज्ञाततयाऽभावज्ञानस्य सहकारिणी । अज्ञातोऽनुपलम्भस्तु सत्तामात्रेण बोधकः ॥ योग्यत्वावगमार्थं हि सूक्ष्मार्थाभाववेदने । सूक्ष्मबोधकनेत्रांशुसंपातार्थं प्रयस्यते ॥ योग्यत्वस्य च संदेहे विपर्यासेऽथवा सति । अभावेऽपि हि संदेहः भ्रमो वाऽस्त्येव तद्यथा ॥ तमसि भ्रष्टमन्विष्यन् कराभ्यामङ्गुलीयकम् । सर्वोर्वीस्पर्शसंदेहात् अभावेऽप्येति संशयम् ॥ तथैव सर्वतोऽस्पर्शो मत्वा सर्वाभिमर्शनम् । सत एवाङ्गुलीयस्याप्यभावं बुध्यते भ्रमात् ॥ द्विविधोऽनुपलम्भः स्यात्प्रतियोगिप्रभेदतः । प्रमितिश्च स्मृतिश्चेति तत्राद्या प्रतियोगिनी ॥ प्रत्यक्षादिप्रभेदेन प्रमितिः पञ्चधा स्थिता । तथैवानुपलम्भोऽपि प्रविभागमिहार्हति ॥ अभावाख्यं तु वस्त्वेव नास्तीत्याह प्रभाकरः । हसन्ति चिन्तां तस्यान्तेवसन्तः पुनरीदृशीम् ॥

अनुपलब्धिः 4 3 इति मीमांसकाः प्राहुः अत्र नैयायिका जगुः । अभावः प्रत्यक्ष इति सर्वानुभवसाक्षिकः ॥ येनेन्द्रियेण या व्यक्तिः गृह्यते तेन तद्गता । जातिश्च तदभावश्च गृह्येते इति निर्णयः ॥ विशेषणतया सन्निकर्षेणैष प्रतीयते । सां हि स्वरूपसंबन्धः न च ज्ञाननिरूपिता ॥ स्याद्योग्यानुपलब्धिश्च करणे सहकारिणी । प्रतियोग्युपलम्भे चाभावो नैवोपलभ्यते ॥ यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते । तादृशप्रतियोगित्वं योग्यताऽनुपलब्धिगा ॥ तस्मात्तमसि कुम्भादेरभावो नोपलभ्यते । तत्र कुम्भोपलब्धिस्तु प्रसङ्गं नैव चार्हति ॥ तस्मादनुपलब्धिस्तु न मानान्तरमिष्यते । अपिचानुपलम्भस्याज्ञातस्य यदि हेतुता ॥ ज्ञानाकरणकत्वेन प्रत्यक्षत्वमिहाक्षतम् । यदि ज्ञातस्य हेतुत्वं तत्रापि तदपेक्षया ॥ दुरुद्धराऽनवस्था स्यात् साऽपि चाभावलक्षणा । भावान्तराभाववादेऽनुपलब्धिः न विद्यते ॥ स्वरूपेण पुनर्जाने भावरूपेण वेद्यते । प्रतियोगिस्पर्शितायां अभावत्वेन तद्ग्रहः ॥ M.R. 53

4 दृश्यसत्ता भवेद्व्याप्या दर्शनं व्यापकं मतम् । व्यापकानुपलब्ध्यैव व्याप्याभावोऽवसीयते ॥ लिङ्गेनानुपलब्ध्यैव ह्यभावस्य गतार्थता । इति बौद्धाः तन्न युक्तं लिङ्गज्ञानानवस्थितेः ॥ अभिप्रायस्सौगतानां तेषामेषोऽवधार्यताम् । यो न्यायमञ्जरीन्यायरत्नाकरविशोधितः ॥ दृश्यं सद्यत्र यत्किंचिद्वस्तु नैवोपलभ्यते । नास्ति तद्वस्तु तत्रेति बुद्धिसत्त्वे पुमानिव ॥ न दृश्यते चात्र देशे दृश्योऽपि कलशस्त्विति । स्वभावहेतुरनुपलब्धिः स्यात्प्रतिषेधकः ॥ यैवैकज्ञानसंसर्गिवस्त्वन्यतरगोचरा । धीस्सैवैकतरस्येष्टाऽनुपलब्ध्यभिधा ततः ॥ उपलब्धेरभावोऽन्यो नोपलब्ध्यतिरेकतः । तस्मान्न तस्यानुपलब्ध्यन्तरापेक्षयाऽस्थितिः ॥ योऽसावन्यतरस्योपलम्भः स स्वयमेवहि । संवेद्य इत्यपि ततो नैव चात्रानवस्थितिः ॥ नास्तीत्यादिव्यवहृतियोग्यताऽभावशब्दिता । तादात्म्यमेव संबन्धः तया तस्या इति स्थिति ॥ बहुधाऽनुपलब्धिर्हि तीर्थकृद्भिर्निरूपिता । एकादशविधामेके परे षोडशधा विदुः ॥

व्यापकानुपलब्धिस्तु प्रायशस्सर्वसम्मता । व्यापकानुपलब्ध्या हि पक्षे व्याप्यं निवर्त्यते ॥ या व्यापकविरुद्धस्य चोपलब्धिरनन्तरा । पृथिवीत्वव्यापकस्य द्रव्यत्वस्य विरोधिनः ॥ गुणत्वस्योपलम्भेन पृथिवीत्वनिषेधधीः । तया संपद्यत इति साऽपि सर्वत्र सम्मता ॥ 5 अत्र प्रतिब्रुवन्त्येवं कुमारिलमुखा बुधाः । अक्षादेवोत्पद्यतेऽसावभावो मानमिष्यते ॥ त्रिरूपलिङ्गजन्यार्थदृक्प्रमाणमितीरयन् । कथं तुच्छस्वरूपस्य कारणापेक्षितां वदेत् ॥ अनुमा दुर्निरूपाऽत्र मानमित्यैक्यवादिना । तस्मादनुपलम्भोऽस्ति, प्रमाणं वाऽथवा न सः अक्षापेक्षा तु नाभावग्रहणायोपयुज्यते । किंतु दृश्यादर्शनाय भूतलाद्यवबुद्धये ॥ दृश्यादर्शनमक्षं च मिलित्वैवावबोधयेत् । अभावेन विशिष्टं तं भावं यद्भूतलादिकम् ॥ नच भिन्नेन्द्रियग्राह्यं किंचिदस्त्यनुरागकृत् । नहि लाक्षानुरक्तेऽपि स्फटिके धीस्त्वगादिभिः इत्यादिवचनं तु स्यात्संबन्धाग्रहगोचरम् । प्रकृते तूभयोश्चैव संसर्गोऽभावगोचरः ॥