भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

विशेषतोऽतिदेशोऽथ प्रावर्तिष्टास्य कर्मणः । इदं प्रकृतिरित्यादिनिर्णयोऽष्टमलक्षणे ॥ सामसंस्कारमन्त्राणामूहः प्रकृतिगामिनाम् । विकृतावन्धथाकृत्वा संबन्धो नवमे मतः ॥ प्रत्याम्नान द्वारलोप पर्युदासनिषेधतः । विकृतौ प्राकृताङ्गानां निवृत्तिर्बाधलक्षणे ॥ तन्त्रं त्वनेकोद्देशेनानुष्ठानं सकृदिष्यते । अन्यार्थानुष्ठितेनान्यस्योपकारः प्रसञ्जनम् ॥ एकादशद्वादशयोः प्रमेयार्थाविमौ मतौ । कालसंख्यामन्त्ररूपनिमित्तफलकर्तृभिः ॥ सकृद्विशेषाग्रहणेऽनुष्ठानं तन्त्रमित्यपि । सप्तस्वेकविधेनापि विशेषग्रहणे सति ॥ सकृदेव ह्यनुष्ठानं प्रसङ्ग इति वोच्यते । एषोऽतिदेशषट्कार्थः प्रत्यध्यायं निरूपितः ॥ (95) वेदानिरुक्तिवादः 1 मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मृतम् । कर्तव्यार्थस्मारकत्वं मन्त्रलक्षणमुच्यते ॥ परप्रत्यायनार्थास्तु मन्त्रा निगदसंज्ञिताः । विधायकपदव्यूहः ब्राह्मणं परिकीर्त्यते ॥

466 मानमेयरहस्यश्लोकवार्तिके हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पः व्यवधारणकल्पना ॥ उपमानं दशैते तु विधयो ब्राह्मणस्य हि । 2 इति प्राचां विभागस्स्यादर्वाचामथचोच्यते । धर्मः प्रयोजनयुतो ह्यर्थस्स्याद्वेदबोधितः । सर्वस्यापिच वेदस्य धर्मे तात्पर्यमिष्यते ॥ विधिर्मन्त्रो नामधेयः निषेधश्च ततःपरः । अर्थवाद इति स्पष्टः वेदराशिर्हि पञ्चधा ॥ अज्ञातार्थज्ञापको यो वेदराशिर्विधिर्मतः । विध्यर्थवादमन्त्राश्च स्मृत्याचारौ च नाम च ॥ वाक्यशेषश्च सामर्थ्यं धर्ममानमितीरितम् । तत्र कर्मोत्पत्तिवाक्यं फलवाक्यं गुणश्रुतिः ॥ फलाय गुणवाक्यं च वाक्यं सगुणकर्मणः । फलवद्गुणवाक्यं चेत्येवं वाक्यं हि षड्विधम् ॥ आद्यो धात्वर्थमात्रस्य विधिरित्युच्यते बुधैः । अन्योद्देशेन धात्वर्थविधिस्तु स्यादनन्तरः ॥ तथा धात्वर्थमुद्दिश्य तृतीयोऽन्यविधिर्मतः । अन्योद्देशेनान्यविधिः चतुर्थ इति गीयते ॥ पञ्चमो गुणसंयुक्तधात्वर्थविधिरुच्यते । अन्योद्देशेन षष्ठस्स्याद्विशिष्टविधिरेवचेत् ॥

वेदनिरुक्तिवादः 46 एवं विधिप्रकारस्स्यात् षड्विधोऽर्थविभेदतः । उत्तरोत्तरतः पूर्वपूर्वं लघ्विति निर्णयः ॥ विधिश्चतुर्विध इति विभक्तः प्रायशो बुधैः । 3 उत्पत्तेर्विनियोगस्य तत्प्रयोगाधिकारयोः ॥ कर्मस्वरूपमात्रस्य बोधको विधिरादिमः । कर्मस्वरूपनिष्ठा या त्वज्ञातज्ञाप्यतात्मिका ॥ विधेयता स्यात्तच्छालिबोधस्य जनको ह्यसौ । अङ्गप्रधानसंबन्धबोधकस्स्यादनन्तरः ॥ प्रयोगप्राशुभावस्य तृतीयो बोधको मतः । कर्मजन्यफलस्वाम्यबोधकोऽधिकृतेर्विधिः ॥ एवंविधविभागस्य निदानमवधार्यताम् । उत्पत्तिविधिराद्यो यः स द्वितीये विचार्यते ॥ विनियोगविधिस्त्वन्यः यस्तृतीये विचार्यते । चतुर्थे पञ्चमे चैव प्रयोगविधिचिन्तनम् ॥ अधिकारविधिस्त्वन्यः यष्षष्ठाध्यायगोचरः । एवं प्रमेयवैविध्याच्चातुर्विध्यं प्रकल्पितम् ॥ चतुष्टयेऽपि चैकस्मिन् क्वचित्किंचिद्विवक्षितम् । एवं द्वयं त्रयं वापि क्वचिच्चापि चतुष्टयम् ॥ प्रवर्तनालक्षणस्य विधेस्त्रेधा विधेयता । यागत्वरूपेणाद्या स्यादिष्टहेतुतयाऽपरा ॥

आकाङ्क्षाक्रमयोगेन त्रयस्ते क्रमयोगिनः ॥ शब्दान्तराभ्याससंख्यानामधेयगुणैस्सह । अन्यत्प्रकरणं चेति प्रमाणं कर्मभेदकम् ॥ कालो देशो निमित्तं च फलं संस्कार्यमेवच । सहकार्यनुपादेयपञ्चकं प्रक्रियान्तरे ॥ 4 परोद्देशप्रवृत्तस्य नरस्य कृतिकारकम् । अङ्गं स्याद्द्रव्यजात्यादिसिद्धोऽप्यङ्गं ततो भवेत् इतिकर्तव्यत्वता तु तादृक्पुंकृतिसाध्यता । सा द्विधा संनिपत्यारादुपकारकभेदतः ॥ विधीयमानव्रीह्यादिद्रव्याद्युद्दिश्य या क्रिया । तत्संनिपत्योपकारकाङ्गं सर्वार्थमेव तत् ॥ अथवाऽङ्गिस्वरूपस्य निष्पादकमितीर्यते । द्रव्याद्यनुद्दिश्य यत्स्यात्तदारादुपकारकम् ॥ अदृष्टार्थं फलापूर्वोत्पत्तावेवोपयुज्यते । अथवाोत्पत्त्यपूर्वीयशक्तिसंपादकं हि तत् ॥ 5 कर्म द्विधा ह्यर्थकर्म गुणकर्मेति भेदतः । अर्थकर्म भवेदात्मगतापूर्वस्य कारणम् ॥ परं संस्कारजनकं तच्च द्विविधमिष्यते । यथोपयुक्तोपयोक्ष्यमाणसंस्कारभेदतः ॥

वेदविरुक्तिवादः 469 उपयुक्ताकीर्णकरद्रव्यस्य विहिते स्थले । प्रक्षेपः प्रतिपत्तिस्सा ह्युपयुक्तस्य संस्क्रिया ॥ उत्पत्तिराप्तिर्विकृतिस्संस्कृतिश्च परं भवेत् । आधानाधीत्यवघातप्रोक्षणानीत्युदाहृतिः ॥ यत्स्यात्पशुपुरोडाशप्रभृतिष्वंशभेदतः । दृष्टार्थं चाप्यदृष्टार्थमाश्रयीत्युच्यते हि तत् ॥ नित्यकाम्यविभेदेन तथा कर्म विभज्यते । सर्वस्यैव च काम्यत्वे कामना न भवेद्यदि ॥ सर्वोऽपि वैदिकः पन्थाः भवेदत्तजलाञ्जलिः । सर्वस्यापि च नित्यत्वे त्वशक्त्या स्यादवत्सलः ॥ तत्र नित्यं तु शक्याङ्गं काम्यमुक्ताङ्गकं मतम् । नित्यकाम्यस्वरूपैक्ये विनियोगपृथक्त्वतः ॥ फलार्थं क्रियमाणेऽपि नित्यं भवति तन्त्रतः । नित्येन काम्यसिद्धिं तु कल्पकाराः प्रचक्षते ॥ पापक्षयफलं नित्यं काम्यं चापि क्वचिद्यदा । आरब्धे कामनाहानावुक्ताङ्गशक्तिसंभवे ॥ प्रत्यवायपरीहारफलं तन्नित्यमित्यपि । अपरे प्राहुरनयोर्विशेषस्सूक्ष्म इष्यते ॥ नित्यं सामान्यफलतः काम्यं फलविशेषतः । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥

470 मानमेयरहस्यश्लोकवार्त्तिके नैमित्तिकं कर्मभेदं प्रायश्चित्तादिलक्षणम् । प्राहुः परे तत्तु कर्म काम्यमेवेति केचन ॥ 6 प्रवर्तको नैव लिड्स्यात् तद्व्यापारोऽपि नेष्यते । तदर्थभेदो नाज्ञादिः न कार्यं नेष्टहेतुता ॥ अभिधाभावनैवेष्टा लिङाद्यभिहिता तु या । सैव प्रवर्तनाभिख्या प्रेरणेति च गीयते ॥ अर्थात्मा भावना त्वन्या सर्वाख्यातेषु दृश्यते । कृतिः प्रयत्नो व्यापार इत्यादिर्व्यपदेशभाक् ॥ निजार्थात्तु लिङर्थोऽसौ विलक्षणतया मतः । ज्ञापकव्यापार एषः स तु कारकसंश्रितः ॥ प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्ते प्रेषणं सर्वं विधित्वं प्रतिपद्यते ॥ विधिः प्रवर्तकत्वाख्यस्वरूपानुपपत्तितः । स्वर्गं साध्यतया यागं साधनत्वेन बोधयेत् ॥ भवितुर्भवनानुकूलो भावयितुर्भवेत् । व्यापारो भावना सैषा शाब्दी चार्थीति भिद्यते ॥ आद्या प्रवर्तनाभिख्या लिङाद्यभिहितोदिता । नञ्संव्यवहारे तु बोध्यते सा निवर्तना ॥ पुंप्रवृत्त्यनुकूलात्मा व्यापारः शब्दगोऽग्रिमः । पुंनिवृत्त्यनुकूलात्मा व्यापारोऽनन्तरो मतः ॥

वेदनिरुक्तिवादः 471 प्रवृत्तिस्तु भवेदार्थी भावनाऽऽख्यातबोधिता । तदभावो निवृत्तिस्तु नञा योगे तु बुद्ध्यते ॥ प्रयोजनेच्छाजनितः पुंव्यापारोऽत्र चादिमः । अनिष्टद्वेषजनितः तदभावोऽन्तिमो मतः ॥ 7 साध्यं च साधनं चेतिकर्तव्यत्वमिति क्रमात् । किं केन कथमित्येवमाकांक्षात्रयपूरकम् ॥ शाब्दी प्रवृत्तिलिङ्ग्स्तोत्रैस्त्र्यंशा भवति भावना । आर्थी तु स्वर्गयागाङ्गैः त्र्यंशेति परिनिष्ठितम् ॥ अङ्गताग्राहकं मानं षड्विधं श्रुतिरादिमम् । लिङ्गं वाक्यं प्रकरणं स्थानं सह समाख्यया ॥ निरपेक्षः कण्ठरवः श्रुतिः लिङ्गं समर्थता । समभिव्याहृतिर्वाक्यं पदयोऽशेषिशेषयोः ॥ प्रक्रिया ह्युभयाकांक्षा स्थानं सादेश्यमिष्यते । समाख्या यौगिकश्शब्दः तेषां भेदान् प्रचक्ष्महे॥ विभक्त्येकाभिधानैकपदभेदात्त्रिधा श्रुतिः । शब्दार्थसामर्थ्यभेदाल्लिङ्गं द्विविधमुच्यते ॥ इतिकर्तव्यताकाङ्क्षा द्वेधा प्रकरणं हि तत् । करणानुग्राहकं तदितिकर्तव्यतोच्यते ॥ महाप्रकरणं तत्र फलभावनया युतम् । अवान्तरप्रकरणमङ्गभावनया युतम् ॥

472 मानमेयरहस्यश्लोकवार्तिके श्रुत्यादिसमवाये तु पारदौर्बल्यमिष्यते । बोधे विलम्बाविलम्बौ बलाबलनियामकौ ॥ 8 समग्राङ्गोपदेशोऽस्ति यत्र सा प्रकृतिर्मता । चोदकाद्यत्र न प्राप्तिरङ्गानां साऽथवा मता ॥ वैकृतस्य विधेः काचिदाकांक्षा चोदको मतः । चोदकादङ्गसम्बन्धः प्रकृतौ नास्ति कश्चन ॥ तत्प्रतिद्वन्द्विभूता या विकृतिस्सा निरूप्यताम् । उपदेशो वाक्यमित्थं कुर्यादित्येवमादिकम् ॥ अतिदेशस्त्विदं तद्वत्कुर्यादित्येवमादिकम् । प्राकृतात्कर्मणो यत्र तत्समानेषु कर्मसु ॥ धर्मप्रदेशो येन स्यात्सोऽतिदेश इति स्थितिः । निष्कर्षस्तु प्रकृत्यङ्गसजातीयपदार्थगा ॥ या विकृत्यङ्गता तस्याः ग्राहकं वाक्यमिष्यते । अन्तर्नीतोपकारस्य पदार्थस्यैव सा मता ॥ उत्कर्षोऽप्राकरणिकनिवेशोऽत्रावगम्यते । अपकर्षोऽप्रकृततः प्रकृते संगमो मतः ॥ 9 स्वप्रयोज्यत्वसहितसामानाधिकरण्यतः । फलेच्छया विशिष्टा या कृतिस्साऽधिक्रियोच्यते । अधिकारो विधेः पुंसा संबन्धः प्राच्यसम्मतः । कर्मण्यैश्वर्यबोधो यः सोऽधिकारोऽधुनोरितः ॥

10 प्रयोगे श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तयः । षडेतानि प्रमाणानि पौर्वापर्यात्मनि क्रमे ॥ श्रुतिः क्त्वाथादिशब्दस्स्यादर्थस्तु स्यात्प्रयोजनम् पाठो मन्त्रब्राह्मणयोः स्थानं तादृगुपस्थितिः ॥ प्रधानक्रमतोऽङ्गानां क्रमो मुख्यक्रमो मतः । सैषा प्रवृत्तिः प्रथमक्रमतोऽनन्तरक्रमः ॥ 11 प्रयोगसमवेतार्थस्मृतिर्भवति मन्त्रतः । तस्मात् स्मृतेर्हि नियमः नादृष्टफलकल्पना ॥ तच्छाब्दबोधहेतुत्वे तत्प्रामाण्ये विवक्षिते । विनियोजकवाक्येषु मन्त्राणां वेदवर्तिनाम् ॥ पदार्थविधया शाब्दबोधस्य करणत्वतः । धर्मे प्रमाणं मन्त्रास्स्युः इति केचित्प्रचक्षते ॥ धर्मानुष्ठानोपयोगिज्ञानहेतुत्वमेव चेत् । धर्मे मतं प्रमाणत्वं मन्त्राणामिदमक्षतम् ॥ 12 नामधेयो विधेयार्थपरिच्छेदक इष्यते । मत्वर्थलक्षणापत्तिः वाक्यभेदभयं तथा ॥ तत्प्रख्यशास्त्रं तेनैव व्यपदेश इति क्रमात् । चतुर्विधं निमित्तं स्यादेके पञ्चविधं विदुः ॥ पञ्चमं तूत्पत्तिशिष्टगुणप्राबल्यमुच्यते । उद्भिच्चित्राऽग्निहोत्रं च श्येनेनेति चतुर्विधा ॥ M.R. 60

474 मानमेयरहस्यश्लोकवार्तिके क्रमेणोदाहृतिरियं वैश्वदेवं तु पञ्चमम् । तत्प्रख्यशास्त्रानामत्वं पञ्चमस्येतरे विदुः ॥ यागेनानेन यक्ष्येऽहं तेन याजय मामिति । नाम्ना विनैवमादिर्हि व्यवहारो न सिद्ध्यति ॥ मीमांसाविधिवाक्यार्थज्ञानानुष्ठानलक्षणे । त्रिविधे व्यवहारेऽस्मिन् सर्वस्मिन्नाम कारणम् 13 निषेधस्तु भवेद्वाक्यं यत्पूरुषनिवर्तकम् । प्रवर्तनारोधिनी तु नञर्थस्स्यान्निवर्तना ॥ तदन्यमात्रसंकोचपरता पर्युदासता । तन्मात्रसंकोचपर उपसंहार इष्यते ॥ उभयत्र हि सामान्यं विशेषे पर्यवस्यति । व्यापारस्तूपसंहारः विधिप्रत्ययसंश्रितः ॥ धातुनामान्यतरयुग्व्यापारस्त्वपरो मतः । उपाध्यसंकरन्यायात्समावेशः द्वयोः क्वचित् ॥ 14 स्तुतिनिन्दाऽन्यतरतत्परं वाक्यमिहेष्यते । अर्थवाद इति प्राज्ञैः तत्प्रभेदश्चतुर्विधः ॥ स्तुतिर्निन्दा परकृतिः पुराकल्प इति क्रमात् । अथ केचिद्विवक्षात्श्चान्यथा प्रविविश्वते ॥ विरोधे गुणवादस्स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधेत्यपि ॥

सामान्यनिरुक्तिवादः 47 अग्निर्हिमस्येतिवाक्यं मन्त्रत्वेन समर्थितम् । अर्थवादेऽनुवादस्य नोदाहरणमर्हति ॥ प्राशस्त्यादिमतिस्त्वर्थवादादेव नियम्यते । प्राशस्त्यादिस्ततो धर्मः नियमादृष्टसाधनम् ॥ सोऽर्थवादो धर्मशाब्दबोधे विध्येकवाक्यतः । धर्मे प्रमाणमथवा निरुक्तज्ञानकारणम् ॥ 15 यदिभागे च साकाङ्क्षमेकार्थमविभागतः । तदेकवाक्यं द्विविधं पदवाक्यविभेदतः ॥ स्वजन्योपस्थितौ स्वार्थे विषये पदपूर्वकम् । स्वजन्यबोधे विषये स्वार्थे स्याद्वाक्यपूर्वकम् ॥ एकानेकार्थभेदेन स भेदः परिभाष्यते । सार्थवादोत्पत्तिविधिप्रयोगविधिभेदतः ॥ इत्थं पञ्चविधे वेदे प्रधानार्थानुबन्धिनाम् । निरुक्तिसंग्रहो ज्ञेयः सामान्यांशोऽथ लिख्यते ॥ (96) सामान्यानिरुक्तिवादः. 1 मन्त्रब्राह्मणपर्याप्ताखण्डोपाधिर्हि वेदता । मन्त्रत्वं ब्राह्मणत्वं चाखण्डोपाधिरितीष्यते ॥ ऋक्त्वं पादव्यवस्थावन्मन्त्रत्वमिति निर्णयः । मन्त्रत्वैकाधिकरणगीतित्वं सामता मता ॥

पुरोनुवाक्या पूर्वार्धे देवतायाः प्रकाशकः । मन्त्रो याज्या तूत्तरार्धे देवतायाः प्रकाशकः ॥ प्रगीतमन्त्रसाध्येन्द्रदेवतादिगुणाभिधा । स्तोत्रं शस्त्रं त्वप्रगीतमन्त्रसाध्यतथाऽभिधा ॥ स्तोत्रस्य साधनीभूताः ऋचस्स्तोत्रीयसंज्ञिताः । स्तोमाः त्रिवृत्तादिसंख्याविशेषाः ज्योतिराह्वयाः ॥ २ अङ्गत्त्वं तु परोद्देश्यकृतिकारकरूपतः । विहितत्वं तदन्तःस्थोद्देश्यताकारकत्वयोः ॥ एकस्योपस्थापको यस्स शब्दश्श्रुतिरीर्यते । सा द्वितीयादिरूपेति नव्यतर्कपरिष्कृतिः ॥ विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्रचान्यत्रच प्राप्तौ परिसंख्येति गीयते ॥ विधिरुक्तोऽथ नियमः पक्षेऽप्राप्तांशपूरकः । अन्यव्यावृत्तिफलकः परिसंख्येति कीर्त्यते ॥ प्राप्ताप्राप्तविवेकेन परिसंख्या द्विधेष्यते । पञ्चपञ्चनखेत्याद्येमामगृभ्णन्नितीतरा ॥ श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् । प्राप्तस्य बाधादित्याद्या परिसंख्या त्रिदूषणा ॥ अन्त्यायामश्वरशनाऽङ्गत्त्वं स्वार्थो विधीयते । नेयं त्रिदोषेति केचिदेषाऽपीतीतरे विदुः ॥

3 देवतोद्देशतो द्रव्यत्यागो यागो निरुच्यते । दानं स्वस्वत्वमुन्मृद्य परस्वत्वप्रकल्पनम् ॥ प्रक्षेपसहितो यागो होम इत्यभिधीयते । यथेष्टविनियोगस्य योग्यत्वं स्वत्वमुच्यते ॥ देवतातत्वं त्यज्यमानद्रव्योद्देश्यत्वमिष्यते । अथवा विधिवाक्यस्थशब्दत्वसमवृत्तिमान् ॥ अखण्डोपाधिरथवा तच्छब्दप्रतिपाद्यता । प्रतिग्रहीतृत्वयोगे सैव स्यात्सम्प्रदानता ॥ अव्यक्तिरुत्पत्तिवाक्ये देवतानभिबोधनम् । तथाऽवदीयमानत्वं हविष्टुमिति भाष्यते ॥ 4 क्रत्वनुष्ठाप्यता यत्र क्रत्वर्थत्वं तदुच्यते । फलानुष्ठाप्यता यत्र सोच्यते पुरुषार्थता ॥ फलस्य पुरुषार्थत्वव्यवहारस्तु भक्तितः । विधानमप्रवृत्तस्य प्रवर्तनमितीरितम् ॥ उपादानमनुष्ठानमननुष्ठितगोचरम् । अनुष्ठानोद्देश्यतया विहितं स्यात्प्रयोजकम् ॥ विधेयत्वेन विहितं प्रयोज्यमिति निर्णयः । प्रधानमिह विध्यादिरङ्गं विध्यन्त उच्यते ॥ दक्षिणा नाम तद्द्रव्यं यत्स्यादानतिसाधनम् । सा चैकस्मिन् क्रतावेका वशीकरणमानतिः ॥

478 मानमेयरहस्यश्लोकवार्तिके सामान्यतो निरुक्तीनां संग्रहोऽयं विबुध्यताम् । आनन्त्यानवकाशाभ्यां संक्षेपरुचयो बुधाः ॥ (97) दोषनिरुक्तिवादः. 1 प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ श्रौतव्यापारनानात्वे शब्दानामतिगौरवम् । एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसंभवे । पदान्तरार्थो वाक्यार्थः समानार्थोऽपरो मतः ॥ विधिर्लघ्वर्थविषयः शान्ताकांक्षो भवेद्यदि । भारो लाघवतर्काख्यमीमांसाया न युज्यते ॥ करोत्यपरपर्यायभावना त्वेककर्मिका । अतस्त्वनेकोद्देश्यत्वे वाक्यभेदः प्रवर्तते ॥ विधेयतोद्देश्यता चाप्येका कृतिनिरूपिता । अतो विधेयभेदेऽपि तद्भेदो दुर्निवारणः ॥ वाक्यभेदो वाक्यदोषः पददोषस्तु लक्षणा । पदवाक्यसमावेशे गुणे त्वन्याय्यकल्पना ॥ विधेयमात्रं वोद्देश्यमात्रं स्वरसवाहतः । समर्पयेदेकपदं स चैकप्रसरो मतः ॥

तदङ्गलक्षणः कश्चिद्वाक्यभेदः प्रकीर्त्यते । अंशभेदे वाक्यभेदः कश्चिद्गौरवलक्षणः ॥ त्रिकद्वयसमावेशात्कश्चिद्वैरूप्यलक्षणः । उद्देश्यत्वानुवाद्यत्वप्रधानत्वत्रिकं क्वचित् ॥ उपादानविधेयत्वगुणत्वत्रितयं क्वचित् । मानान्तरेण सिद्धस्य या स्यान्निर्दिश्यमानता ॥ विधेयस्यान्वयित्वेन तदुद्देश्यत्वमुच्यते । मानान्तरेण सिद्धस्य पुनश्च श्रूयमाणता ॥ भवेत्तदनुवाद्यत्वं प्रधानत्वं गुणान्वयः । पुंसाऽनुष्ठायिमानत्वमुपादेयत्वमिष्यते ॥ अप्राप्तत्वयुता वाक्यवेद्यता स्याद्विधेयता । गुणत्वं विहितत्वं स्यादाङ्गत्वेन च कर्मणः ॥ यद्वृत्तयोगः प्राथम्यं द्वयमुद्देश्यलक्षणम् । तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम् ॥ येषामाख्यातशब्दानां यदप्याद्युपबन्धनात् । विधिशक्तिः प्रणश्येत्तु ते सर्वत्राभिधायकाः ॥ २ विरोधे तुल्यबलयोर्विकल्पः परिगृह्यते । गत्यन्तरे च न सति सैषा ह्यगतिका गतिः ॥ प्रामाण्यस्य परित्यागः त्वप्रामाण्यस्य कल्पना त्यक्तमानत्वोपगमोऽत्यक्तप्रामाण्यवर्जनम् ।

प्रत्येकमेते दोषास्स्युः चत्वारश्शास्त्रयोर्द्वयोः। प्रयोगभेदात्तेन स्याद्विकल्पो ह्यष्टदोषभाक् ॥ प्रतिपत्तिरनुष्ठानं अपूर्वं च फलं तथा । बाधस्तेषां कोटियुग्मे इति वा दोषचिन्तना ॥ 3 अथ प्रमाणयोर्बाध्यबाधकत्वव्यवस्थितिः । अनन्यथासिद्धतैव बाधकत्वे प्रयोजिका ॥ अन्यथासिद्धता या तु सा बाध्यत्वप्रयोजिका । उभयं सावकाशत्वानवकाशत्वमूलकम् ॥ अन्यथासिद्धता नाम माने विषयसत्यताम् । अन्तरेणात्मलाभस्स्यादवकाशो द्विधा मतः ॥ आद्यो द्विचन्द्रादिवत्स्यात् अप्रमाणपदार्हता । विषयान्तरलाभोऽन्त्यः भवेत् होमविधाविव ॥ प्राप्तबाधोऽप्राप्तबाध इति स द्विविधो मतः । आद्यः प्रमेयापहारः यो दाशमिक इष्यते ॥ अन्त्यो मूलोच्छेदरूपः तार्तीयीकस्स इष्यते । साधारणस्य शास्त्रस्य विशेषविषयादिना ॥ संकोचः क्लृप्तरूपस्य प्राप्तबाधोऽयमुच्यते । कल्प्यस्य क्लृप्तशास्त्रेण शैघ्यान्मूलनिकृन्तने ॥ फलापहारादप्राप्तबाध एषोऽभिधीयते । अथ तस्य प्रपञ्चोऽयं विदितो लोकवेदयोः ॥

न्यायनि॒रुक्तिवादः 481 बाध्यतेऽनन्यथासिद्धेनान्यथासिद्धतास्पदम् । तथा निरवकाशेन सावकाशं विशेषतः ॥ नैमित्तिकेन नित्यं च क्रत्वर्थं पुरुषार्थतः । पूर्वं परेणातिदिष्टमुपदिष्टेन बाध्यते ॥ सफलं निष्फलेनापि ह्यदृष्टं चापि दृष्टतः । बाध्यते चाप्युपादेयमनुपादेयतावता ॥ श्रौतेन बाध्यते स्मार्तं प्रबलेनापि दुर्बलम् । प्रधानेनाङ्गभूतं च लाघवेनापि गौरवम् ॥ अपेक्षितविधानेन विधानमनपेक्षितम् । भूयसा चाल्पबाधस्स्यात् रूढ्या योगः प्रबाध्यते एवमाद्यवगन्तव्यं नास्त्यन्तो विस्तरस्य हि । सिद्धानुगममात्रं तु कर्तुं युक्तं परीक्षकैः ॥ एवं दोषनिरुक्तीनां सरणिः स्यात्प्रदर्शिता । अथ न्यायनि॒रुक्तीनां सरणिश्च प्रदर्श्यते ॥ (98) न्यायनि॒रुक्तिवादः. 1 स्यादेकाङ्गानुवादेन ह्यङ्गयोश्चोद्यमानयोः । अन्तराले विधानं यत् स संदंश इतीर्यते ॥ धर्मविप्रतिषेधस्तु यदि स्यादङ्गमुख्ययोः । प्रधानानुग्रहो न्याय्यः सोमस्स्यात्तेन पर्वणि ॥ M.R. 61

परस्परापेक्षतायामुपक्रमनयान्वयः । परस्परानपेक्षत्वे त्वपच्छेदनयान्वयः ॥ भूयोऽनुग्रहनीतिस्तु संख्यावैषम्यगोचरा । विरोधाधिकृतिन्यायः प्राबल्यात्परबाधकः ॥ २ दृष्टार्थत्वे संभवति नादृष्टार्थत्वमिष्यते । प्रयाजशेषप्रक्षेपः प्रतिपत्तिरतो मता ॥ वाजिनेऽप्यनुनिष्पन्नप्रतिपत्तिरितीष्यते । अतोऽध्ययनमन्त्रादेः दृष्टार्थत्वव्यवस्थितिः ॥ वचनेन विरोधे तु न हि न्यायः प्रवर्तते । घटं पटयितुं नेष्टेऽप्यागमानां सहस्रकम् ॥ आनर्थक्यप्रतिहतौ विपरीतं बलाबलम् । रूपे श्रुतेऽपि दध्नेतिवाक्यं गुणविधिर्मतः ॥ दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा । तदापि विपरीतत्वं शिष्टाकोपे यथोदितम् ॥ अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः। दुर्बलैरपि बाध्यन्ते प्रबलैः पार्थिवाश्रितैः ॥ स्वरूपतः प्रकरणे स्थानाच्च बलवत्यपि । पूषानुमन्त्रणे लिङ्गसमाश्रितसमाख्यया ॥ बाध्यते हि प्रकरणमुपजीव्यविरोधतः । कल्प्योपकारापूर्वाङ्गात्प्राक्प्राकृतसमन्वयः ॥

न्यायनिरुक्तिवादः 48 फलं तस्य च संबन्धः कल्प्यौ विश्वजिति क्रतौ । रात्रिसत्रेष्वर्थवादफलसंबन्धकल्पना ॥ प्रसक्तस्य प्रतिषेधे तदन्यत्राप्रसङ्गतः । संप्रत्ययश्शिष्यमाणे परिशेष इतीर्यते ॥ ३ सामान्यविधिरस्पष्टस्संह्रियेत विशेषतः । स्पष्टस्य तु विशेषेण नोपसंहार इष्यते ॥ शब्दोपात्तविशेषेऽर्थे संकोचश्चेदसौ नयः । शब्दोपात्तविशेषान्यविषये यदि विश्रमः ॥ गोबलीवर्दनीतिस्स्यात् वैयर्थ्यविनिवृत्तये । तथैवोत्सर्गापवादः विरोधविनिवृत्तये ॥ तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः । देवतासङ्गतिस्तत्र दुर्बलं तु परंपरम् ॥ इष्टा शीघ्रप्रवृत्तित्वायोगाद्रूढिर्बलीयसी । अश्वकर्णादिशब्देषु विपरीतं बलाबलम् ॥ पदान्तरं प्रयुक्तं चेद्यौगिकार्थविशेषकम् । रूढिशक्तेर्भञ्जकं स्याद्यथा चाग्रसरोरुहम् ॥ सर्वत्र यौगिकैश्शब्दैर्द्रव्यमेवाभिधीयते । न हि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥ सर्वाण्येव हि शास्त्राणि स्वप्रदेशान्तरैस्सह । एकवाक्यतया युक्तमुपदेशं प्रतन्वते ॥

उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ 4 यो नाम वेदतात्पर्यनिर्णयाय विरच्यते । न्यायाख्यस्सोऽधिकरणमिति व्यवहृतं बुधैः ॥ विषयो विशयश्चैव विचारो निर्णयस्तथा । प्रयोजनं च पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥ सङ्गतिर्विषयश्चैव संशयोत्थानकारणम् । संशयस्य प्रकारश्च तदर्था च विचिन्तना ॥ तस्यां फलफलित्वं च न्यायौ द्वौ पूर्वपक्षयोः । निर्णयस्तत्फलं चेति दशाङ्गानीतरे विदुः ॥ वाक्यस्य विषयत्वं तु यत्कोट्योस्संशयीययोः । उपस्थापकशब्दाभ्यां घटितं सत् तथैवच ॥ सन्न्यायाधीनतात्पर्यनिर्णयादेककोटिकाम् । प्रमिति जनयेत् वाक्यं तत्त्वमित्यवधार्यते ॥ न्यायत्वं च निरुक्ताङ्गपञ्चकाद्यवबोधकम् । वाक्यजातं यथा न्यायवाक्यं शास्त्रान्तरे मतम् ॥ अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिका । तद्धेतुज्ञानविषयसम्बन्धः सङ्गतिर्मता ॥ तां प्रसङ्ग उपोद्घातः हेतुताऽवसरस्तथा । निर्वाहकैक्यं कार्यैक्यमिति षोढा विदुः परे ॥