सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

३० . ] प्रथमाध्याये तृतीयपादः ६२७
संख्या कारकयुगलान्यपि विकल्प्य प्रत्येकद्वित्रिलिङ्गादिसहितैकजातिव्यक्तिविक-
ल्पास्त्रियोगपञ्चयोगाश्चात्र दर्शयितव्याः ।
एवं शब्दस्वरूपस्य पुनर्जात्यादिभिः सह ।
एकद्वित्रिचतुष्पञ्चषट्कैः सह विकल्पना ॥ ९४४
एते चात्यन्तनिष्कृष्टाः पक्षा यद्यपि न स्थिताः ।
बुद्ध्या तथापि भिद्यन्ते जातिद्रव्यगुणादिवत् ॥ ९४५
सर्वत्रेन्द्रियलिङ्गाभ्यां भेदः स्तोकोऽवगम्यते ।
शब्देन तु सुसूक्ष्मोऽपि वस्तुभागो विभज्यते ॥ ९४६
पदात्प्रभृति चैवं या प्रज्ञा ज्ञातुर्विजृम्भते ।
पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ॥ ९४७
भाष्योक्तपक्षद्वयस्य समर्थनम्
अत्र चाऽऽकृतिरेवेति दृढः पक्षोऽयमेकतः ।
इतरे त्वन्यतः सर्वे व्यक्तिपक्षानुयायिनः ॥ ९४८
व्यक्तौ निराकृतायां च समस्तानां निराक्रिया ।
सुलभेति न सर्वेऽमी भाष्यकारेण दर्शिताः ॥ ९४९
न चैतस्मान्न सन्त्येव१ न चैते निष्प्रयोजनाः ।
विकल्पिता हि जिज्ञासोः प्रज्ञाविकसनक्षमाः ॥ ९५०
दर्शितेष्वपि सर्वेषु विचारः क्रियते द्वयोः ।
का शब्देनाऽऽकृतिव्यक्त्योरुच्यते काऽनुगम्यते ॥ ९५१
ततश्च—विचारमुखसिद्धयर्थं स्वरूपं तावदेतयोः ।
प्रश्नपूर्वमुपन्यस्य याथात्म्येन निरूप्यते ॥ ९५२
पुनरुक्ति-समाधाने
ननु प्रथमपाद एवाऽऽकृतेर्निरूपणादिदानीं प्रश्नोत्तरे मन्दप्रयोजने ?
उच्यते—सत्यमेवाऽऽकृतिः पूर्वं प्रत्यक्षेण निरूपिता ।
संस्थानाशङ्कया त्वत्र सामान्यात्मा निरूप्यते ॥ ९५३
संस्थानाकृत्योर्भेदप्रतिपादनम्
द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरिति ।
१ क. सत्येव ।

६२८ मीमांसादर्शनम् [ सू०
द्रव्यादीनां च सामान्यं परापरविभागवत् ।
वस्तुत्वं प्रथमं तत्र द्रव्यत्वाद्यपरं तथा ॥ ९५४
पुनर्वायुत्वतेजस्त्वजलत्वात्मत्वभिन्नता ।
पृथिवीत्वाद् घटत्वं च तद्व्यक्तिषु समाप्यते ॥ ९५५
वृक्षत्वात्परतश्चेष्टं शिंशपात्वादि केवलम् ।
शरीरत्वाच्च गो-वाजि-हस्ति-पुंस्त्वादि गम्यते¹ ॥ ९५६
वाजिकत्वादि चाश्वत्वात्कर्क्यादिस्तु गुणो मतः ।
हस्तित्वाद्वद्रमद्रादिदिङ्नागकुलजातयः² ॥ ९५७
पुंस्त्वाद् ब्राह्मणकौण्डिन्यकठत्वादिसमाप्यते ।
तथा गुणत्वकर्मत्वरूपता जन्मतादि यत् ॥ ९५८
ततः शुक्लादि तद्व्यक्तिगुणेषु प्रतितिष्ठति ।
शब्दान्तरादिभिः षड्भिः प्रमाणैः कर्मभेदः
कर्मणामपि यागत्वहोमत्वादिविभागतः ॥ ९५९
अपर्यायस्मृतेरुक्तं धातुभिः प्रविभज्यते ।
पुनर्विधानसंख्याख्या गुणप्रकरणान्तरैः ॥ ९६०
तार्किकमतजैमिनिमतयोरुपन्यासः
अन्ये तु भेदमाचार्याः कर्मणामेव मन्वते ।
अपि वाऽव्यतिरेकात्स्याद्देशादेरेकरूपता ॥ ९६१
रूपशब्दाविभागाच्च वक्ष्येतद्धि³ जैमिनिः ।
एवं प्रपञ्चितं सर्वमर्थसामान्यमाकृतिः ॥ ९६२
न संस्थानं कुतो ह्येतदात्मादिगुणकर्मसु ।
सर्वेषु हि पार्थिवेषु गवादिघटादिषु संस्थानं भवेत् । अग्नितोयवाय्वाका-
शादीनां तु पार्थिवद्रव्यपरिग्रहवशादाकारानुवृत्तिः कल्प्येत, न स्वातन्त्र्येण ।
दिक्कालात्ममनसां तु गुणकर्मणां च न कथंचिदपि संस्थानं संभवति । सामान्य-
मात्रं तु सर्वस्वविशेषानुवृत्तिरूपं संभाव्यते । तस्मादेतदेवाभिधेयाकृतिकलक्षणम्,
नावयवरचनासंस्थानाकृतित्वमवकल्पते ।
संस्थानस्य च नाशित्वात्प्रतिव्यक्ति च भेदतः ।
सामान्यव्यवहारित्वं नाऽऽकृतित्वेऽवकल्पते ॥ ९६३
१ क. ( टिप्पणियां ) कथ्यते । २ क. दिग्नाग ।
३. जै० सू० ( ६-३-४ ) इत्यत्रेति शेषः ।

३० ] प्रथमाध्याये तृतीयपादः ६३१
अथ संस्थानसामान्यमाकृतित्वेन गृह्यते ।
अश्वादिष्वपि तुल्यत्वाद्भवेदाकृतिसंकरः ॥ ९६४
न चावान्तरसंख्यानं सर्वगोपिण्डवृत्ति यत् ।
अश्वादिभ्यो निवृत्तं च गोशब्दा लम्बनं भवेत् ॥ ९६५
तस्य ह्युपलक्षणालोच्यमानं न जातेरन्यल्लभ्यते, ततश्च जातिरेव सामा-
न्यमिति न्यायेनाऽऽपद्यते । तेन प्रथमपादे रुचक-स्वास्तिक-वर्धमानकोदाहरणात्सं-
स्थानाकृत्यभिधानाच्छङ्काक्ष्यादर्शनवदासीदित्येताभ्यां प्रश्नोत्तराभ्यां व्यावय्र्त्यते ।
अतश्च द्रव्यगुणकर्मणां यावत्किंचित्प्राग्व्यक्तिभ्यः सामान्यम्, तत्सर्वमाकृतिरेवेत्य-
भिप्रत्य मात्रशब्दः प्रयुक्तः । असाधारणविशेषा व्यक्तिरिति ।
केचिदाहुः—असाधारणा विशेषा एव व्यक्तिः । विशेषव्यतिरिक्तव्यक्त्य-
भावादिति ।
तन्निरासः
तत्तु नैवं विशेषेभ्यो व्यक्तिरन्यैव हीष्यते ।
खण्डमुण्डादयः सर्वे विशेषत्वेन संमताः ॥ ९६६
ते चान्यत्रापि दृश्यन्ते तथा जात्यन्तरेष्वपि ।
शावलेयादिभेदोऽस्ति तदपत्यान्तरेष्वपि ॥ ९६७
खण्डमुण्डादयस्तावदन्या अपि व्यक्तयो भवन्त्येव, गवयमहिषादिव्यक्तयश्च ।
शाबलेयोऽपि यथैकः तथाऽन्योऽपि यः शबलापत्यत्वेन गम्यते, स सर्वः शाबलेयः ।
एतच्चोभयवर्णनिमित्तम्, यादृच्छिकं वा, नामाऽन्यत्रापि विनियोगवशाद्वर्तत एव ।
तदपत्ये च शाबलेय इत्यसाधारणव्यपदेशानुपपत्तिः । विशेषव्यक्तिशब्दयोर्बहु-
वचनैकवचनान्तयोः सामानाधिकरण्यप्रयोगवचनभेदाददोषः ।
अत्र शंकासमाधाने
तस्मादसाधारणा विशेषा यस्यां सा व्यक्तिरित्येवं व्याख्येयम् ।
स्वमतोपन्यासः
ननु पूर्वोक्तेन न्यायेन खण्डादीनामपि बहुव्यक्तिसाधारण्याद्व्यक्तिव्यतिरिक्तानां
चान्येषां केवलैकैकव्यक्तिगतानां विशेषाणामसंभवाद्वहुव्रीहिरप्यनुपपन्नः । उच्यते ।
नैव विशेषाणां प्रत्येकमसाधारणत्वमाश्रित्य व्यक्तिविशेषणत्वेनोपादानम् । कथं
तर्हि साधारणरूपाणामप्येकद्वित्रादिभेदेन क्वचिदुपलब्धानाम्, यदेकत्र पिण्डी-
कृतानां ग्रहणम्, तदपेक्षमसाधारणविशेषत्वाभिधानम् ।
प्रविप्रकीर्णा हि ये दृष्टा दृश्यन्ते संहताः पुनः ।
पिण्डासाधारणत्वेन तैर्व्यक्तिरुपलक्ष्यते ॥ ९६८

६३० मीमांसादर्शनम् [ सू०
न चैकस्यां व्यक्तौ ये समुदिता दृष्टाः त एव व्यक्त्यन्तरेऽप्यन्यूनतानतिरिक्ता
दृश्यन्ते । य एवादृष्टपूर्वस्तस्मिन्समुदाये संप्रति दृश्यते, स एवासाधारणतामापाद-
यति । अनन्तभेदास्वपि व्यक्तिषु नात्यन्तापूर्वविशेषणोपलक्षणोपादानं किंचिदु-
त्कर्षापकर्षमात्रेण च सर्वत्रासाधारणोपलक्षणलाभात्परसामान्यापेक्षया च सर्वाण्ये-
वावान्तरसामान्यानि विशेषव्यपदेशं प्राप्नुवन्ति । संघातावस्थायां च व्यक्तिविशे-
षणत्वात्तेषु विशेषशब्दः । एतच्च व्यक्तेर्विशेषाणामन्यत्वमुपरिष्टाद्भाष्यकारोऽपि
वक्ष्यत्येव, 'योऽर्थः सामान्यस्य विशेषाणां चाऽऽश्रयः, सा व्यक्तिरिति ।
भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्यानुवादः
तत्र 'केचिद् गोत्वादिषु विशेषत्वमङ्गीकृत्य सामान्यवाचिना शब्देनाऽनाभिधे-
यत्वाद्यदेव महासामान्यं सत्ता-वस्तु-भावशब्दाभिधेयम्, तदेव शब्दस्वरूपव्यवच्छिन्नं
वा गोसत्ताख्यमाकृत्यभिधानपक्षे वाच्यमिति मन्यन्ते ।
यथाऽऽहुः—अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् ।
अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु ॥ इति ९६९ (वा. का. श्लो.)
तन्निरासः
तत्तु कक्ष्याविभागेन² सामान्यानां निरूपणात् ।
अयुक्तं न गवादीनां तत्र वाचकशक्तता ॥ ९७०
प्रतिनियतार्थविषया हि शब्दानां वाचकशक्तिरर्थापत्त्या गम्यते । तत्रानन्ता-
वान्तरसामान्यवचनानां द्रव्य-गुण-कर्मशब्दानामेव तावदसंकीर्णार्थत्वात्सत्तार्थत्व-
मनुपपन्नम्, किमुत दूरान्तरितार्थगवादिशब्दानाम् ।
सत्तामेते वदन्तश्च न शुद्धां सविशेषणाम् ।
वदन्तीत्यभिधातुं हि शक्यं द्वेधाऽप्यसंभवात् ॥ ९७१
शुद्धवचनत्वे तावत्सर्वेषामेकार्थप्रत्यायनात्पर्यायत्वप्रसङ्गः । पुनरुक्तवाच्चा-
स्तिशब्दप्रयोगानुपपत्तिः ।
गौनास्तीति प्रयोगश्च विरोधान्नावकल्पते ।
न हि सत्तैव नास्तीति कथंचित्संप्रतीयते ॥ ९७२
१. कक्ष्याशब्दः कोष्ठवाचां, द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां सत्तावान्तरसामान्यकक्ष्यायां
पृथिवीत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायां रूपत्वादीनि गुणत्वावान्तरसामान्य-
कक्ष्यायां च वर्तन्त इति कक्ष्याविभागो ज्ञेयः ।
२. जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यति इति निरुक्तोक्ताः षड् भावविकारा
ज्ञेयाः । अत्र च योऽस्तिशब्देन द्वितीयो भावविकार उच्यते स एव सत्तेत्येतद्युज्यत
इत्यर्थः ।

३० ] प्रथमाध्याये तृतीयपादः ६३१
देशकालद्यपेक्षायामपि नैव सत्तायां नास्तित्वमभिधातुं युक्तम्, विभुत्व-
नित्यत्वाभ्यां सर्वदेशकालव्यापित्वात् ।
रूढिशब्दश्च नैवायं लोकदृष्ट्या प्रतीयते ।
तेन द्रव्यादिसामान्यं सत्तेत्येतन्न युज्यते ॥ ९७३
य एव ह्यस्तिशब्देन द्वितीयो भावविकार १ उच्यते । जायमानविपरिणा-
माद्यवस्थसर्ववस्तुषु विनश्यत्तापर्यन्तेषु वस्वाकृतिप्रतिपत्तिर्दृश्यते । तेन यदि नाम
महासामान्यमभिधेयं प्रतिज्ञायते, ततो वस्त्वर्थः सर्वशब्दानामिति प्रत्याय्यलक्षण-
मिति कामं वक्तव्यम्, न अस्त्यर्थ इति । न चावयवार्थपरित्यागेन सच्छब्द-सत्ता-
शब्दौ वर्तेते इति भवच्छब्दवदेवास्तीति सद्भावः सत्तेति, न तु वैशेषिकपरिभाषया
यतो द्रव्यगुणकर्मसु सदिति प्रतीतिः सा वैशेषिकाभिमतसत्तासामान्यस्योपन्यास-
निरासौ सत्तेति । एवंलक्षणा जातिः प्रतिपत्तव्या ।
सेयमव्ययशब्देन वस्तुपर्यायवाचिना ।
भवत्साधारणार्थेन प्रसिद्धिरुपपादिता ॥ ९७४
अस्तित्वमस्तितेत्येवं दृश्येते प्रत्ययौ यतः ।
स वस्तुवचनः शब्द आख्यातप्रतिरूपकः ॥ ९७५
अप्रातिपादिकत्वाद्वि नाऽऽख्यातात्तत्त्वतौ स्मृतौ ।
अस्तिक्षीरा समासश्च तेन सद्वाचिनेष्यते ॥ ९७६
अस्तिक्षीरा गौरिति तिङन्तसमासत्वेनानुपसंख्यानादवश्यंभाविप्रत्ययलक्षण-
द्वारसुबन्तत्वयोग्याव्ययपदेन सह क्षीराशब्दस्यान्यपदार्थे बहुव्रीहिरभ्युपगन्तव्यः ।
तत्र चायं सदर्थवचनः, सक्षीरा गौरिति प्रत्ययोत्पादात् । ततश्च वस्तुनि सति च
प्रयुज्यमानमस्तिशब्दमुपलभ्य तदर्थानुसरणप्रत्यासन्नं सच्छब्दं च देवात्तल्लिति च
स्वार्थिकं देवतेतितिवत्तलमिहाप्यस्तिधातुवाच्यार्थविशिष्टकर्तृप्रतीतिमनङ्गीकृत्य
शुद्धधात्वर्थमात्रवचनावेव सच्छब्दसत्ताशब्दौ गृहीत्वैवं तार्किकैः कल्पितं सच्छब्द-
वाच्या सत्ता महासामान्यमिति । तदुक्तान्तगमनेऽनादराच्च २ पदवाक्यविद्भिरप्यु-
पेक्षितं प्रसिद्धमिवेमामवस्थां प्राप्तं गवादिशब्दवाच्यत्वेनापि संभाव्यते ।
१. क. गोत्वादिविशेषव्यवच्छिन्नं (इत्यधिकम्)
२. तदुक्तेति-यावद्यावद्विवादाय मुक्तं दीयते मनः ।
अनवस्थादिदोषेण तावत्तावद्विहन्यते ।
इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन
निराकृतस्यापि पुनःपुनरुद्भवेन समापयितुमशक्यत्वात्तार्किकोक्तस्यान्तगमने—समापने
अनादरादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं सदिमां युक्तायुक्तविचारावस्थां प्राप्तमित्यर्थः ।

६३२ मीमांसादर्शनम् [ सू०
न त्वर्थाद्गम्यमानस्य वस्तुत्वस्यापि वाच्यता ।
धर्मान्तरत्ववृत्तेस्तु१ सत्तायाः कुत एव सा ॥ ९७७
वस्तुशब्दो हि रूढित्वाद् व्यक्तिजात्यन्तराश्रितम् ।
सामान्यं यद् ब्रवीत्येतद् गम्यतेऽर्थर्गवादिभिः ॥ ९७८
शुद्धाभिधानपक्षस्य दुष्टत्वात्तैर्विशेषितम् ।
वक्ष्यमाणेन निरासहेतुना अस्य पक्षस्य निराकरणम्
महासामान्यमिष्टं चेद्वाच्यं तदपि दुर्लभम् ॥ ९७९
यदेवाऽऽकृतिविशिष्टव्यक्त्यभिधानपक्षे, व्यक्तिविशिष्टाकृतिपक्षे वा निराकरण-
कारणम्, तदत्रापि सुलभम्, विशेषणस्य पूर्वतराभिधानप्रसङ्गात् ।
गोसत्तां चापि गोशब्दो यदि नाम ब्रवीत्ययम् ।
गोजात्या वा विशिष्टां तां वदेद् व्यक्तिभिरेव वा ॥ ९८०
तत्र—गोत्वजातिविशिष्टा चेत्सत्ताऽनेनाभिधीयते ।
उक्ताद्विशेषणादेव तत्सिद्धेः सा किमुच्यते ॥ ९८१
विशेषणमनभिधाय तद्विशिष्टविशेष्याभिधानासम्भवाद्विशेषणस्य च विशे-
ष्येणाऽत्यन्तसम्बन्धात्पूर्वतराभिहितविशेषणभूतगोत्वसम्बन्धादेव सत्तावगमसिद्धेर्न
तत्राभिधानशक्तिकल्पनायामर्थापत्तिरप्यन्यथाऽप्युपपद्यमानफलत्वप्रतिहता सती
न प्रवर्तते ।
तथा व्यक्तिविशिष्टसत्ताभिधानेऽप्येष एव निराकरणहेतुः । अनित्यसम्बन्ध-
ज्ञानानन्तशब्दशक्तिव्यक्त्यभिधानपूर्वकैकसत्ताभिधानकल्पनायाश्च केवलव्यक्त्य-
भिधानपक्षवदनुपपत्तिः ।
हरिणोक्तस्य दृष्टान्तस्य प्रतिक्षेपः
यत्तु अपूर्वदेवतास्वर्गैः सममाहुरिति ।
तत्राभिधीयते—
नैवापूर्वादिशब्दानां सत्ता वाच्येत्यवस्थितम् ।
विशेषानेव तेऽप्याहुरर्थापत्त्यादिकल्पितान् ॥ ९८२
केचिच्छ्रुतार्थापत्त्या, केचिद्वाक्यशेषवाक्यान्तरपर्युपस्थापितार्थाविशेषवचना
एव सन्तोऽत्यन्ताव्यभिचारिस्वार्थद्वारेण२ सत्तापदार्थो व्यभिचरतीति, लक्षणयैव
तेभ्यः सत्ताप्रतीतिः ।
१. धर्मान्तरेति—जात्याख्याद्धर्माद्धर्मान्तरत्वेन—द्वितीयभावविकारत्वेन वर्तमानत्वा-
दित्यर्थः ।
२ क. सत्तां गमयन्तोऽनभिधायकत्वेनावधार्यन्ते न इत्यधिकम् ।

३० ] प्रथमाध्याये तृतीयपादः ६३३
कार्यसामर्थ्यमिन्द्रादिनिर्मिश्रसुखसंगतिः ।
सामान्येनाऽप्यपूर्वादि सत्तातोऽन्यत्तु लभ्यते ॥ ९८३
अपूर्व-देवतास्वर्गादिशब्दानामर्थान्तरपरत्वम् न सत्तावाचित्वमित्युपपादनम्
सर्वपदार्थानामेव कार्यार्थापत्तिगम्यानि सामर्थ्यानि सन्ति, यागादिजनितं
च पुंसां फलप्राप्तिसामर्थ्यमपूर्वशब्दवाच्यं यागानुष्ठानात्पूर्वमभूतम्, अनुष्ठानोत्तर-
कालं चापूर्वं जायत इति यौगिकत्वादेवापूर्वशब्दाभिधानं सर्वत्र लभ्यते । तथा
दीव्यन्ति, द्योतन्ते वा चन्द्रादित्याग्निग्रहनक्षत्रतारकादिरूपेण वायवश्च सतत-
गत्या स्तूयन्ते सर्वैर्मन्त्रैरिति देवाः सुज्ञानशब्दसम्बन्धा विशेषरूपैरेवेति, न
सत्तागोचरत्वं प्रतिपद्यन्ते । तथा स्वर्गशब्देनापि नक्षत्रदेशो वा वैदिकप्रवाद-
पौराणिक-याज्ञिकदर्शनेनोच्यते । यथा हि वेदे 'ये हि जना पुण्यकृतः स्वर्गं लोकं
यन्ति तेषामेतानि ज्योतींषि नक्षत्राणि, तथा चैष ज्योतिष्मन्तं पुण्यलोकं
जयति' इति । यदि वेतिहासपुराणोपपन्नं मेरुपृष्ठम् ।
अथ वाऽन्वयव्यतिरेकाभ्यां विभक्तं केवलमेव सुखं यत्संवत्सरादिष्वनुभूयमानं
दुःखसाधनशीतोष्णक्षुत्पिपासादिसमस्तद्वन्द्वरहितार्थपत्तिसिद्धदेशान्तरानुभवनीयम्।
तच्च यद्यपि तादृशमदृष्टपूर्वम्, तथाऽपि मिश्रानुभवादेव विवेकेनोद्धृत्य स्वर्ग-
शब्दार्थत्वेन ज्ञायमानं सत्तां गमयतीति, न तदभिधानमपेक्ष्यते ।
तेनाऽपूर्वादिशब्दार्थाः समाः सत्यं गवादिभिः ।
स्वशब्दाभिहिताः सन्तः सत्तां लक्षयितुं क्षमाः ॥ ९८४
संशयस्योपसंहारः
अतश्च नैव गोशब्दो गोसत्तामभिधास्यति ।
गोत्वाख्याकृतिवाच्यत्वसन्देहात्तु विचार्यते ॥ ९८५
कुतः संशय इत्येतत्कार्ययोग्यार्थनिर्णयात् ।
व्यक्तिमात्रपदार्थत्वं मन्यमानेन चोद्यते ॥ ९८६
उच्यते कार्ययोगित्वाद् गम्यते व्यक्तिवाच्यता ।
शब्दशक्त्यनुरोधात्तु नाऽऽकृतेर्व्यतिरिच्यते ॥ ९८७
शक्ति-कार्यसंवादादेव शब्दार्थगोचरात् ।
किं समञ्जसमित्येवं नाऽविचार्याऽवधार्यते ॥ ९८८
पूर्वपक्षः
किं तावत्प्राप्तम्—
प्रयोगचोदनाभावाद् व्यक्तिर्वाच्या न तूभयम् ।
अर्थैकत्वं यतो युक्तमविभागाद् द्वयोगतिः ॥ ९८९

६३४ मीमांसादर्शनम् [ सू०
नित्यं यथैव शब्दानाम्नातानां प्रयोजने ।
अर्थप्रत्यायनार्थत्वात्तद्देशेनावधारणा ॥ ९९०
एवं सर्वपदार्थानां वाक्यार्थप्रत्ययाङ्गता ।
यथा सिध्येत्तथा कार्यं तेषां रूपनिरूपणात् ॥ ९९१
आकृतिर्यदि शब्दार्थः कस्य स्युः प्रोक्षणादयः ।
केन चेज्येत न त्याग आकृतेरुपपद्यते ॥ ९९२
अमूर्ता ह्याकृतिर्नित्या नावघातादिभाजनी¹ ।
तद्विधिः प्रतिषेधो वा तेनास्या नावकल्पते ॥ ९९३
'व्रीहीनवहन्ति, पशुं संज्ञपयति, सोममभिषुणोति, पावयति, सोमेन पशुना
व्रीहिभिश्च यजते' इति यावन्त एवमादयो विनाशिमूर्तिमद्विषयाः संस्काराः
प्रयोजनसिद्ध्यर्था वा तेषां प्रयोगचोदनाया आकृतावभावाद् । व्यक्तौ तु
भावात्कार्यप्रधानत्वाच्च पदार्थप्रतीतेः, विध्यधीनत्वाच्च सर्वपुरुषचेष्टानामवश्यं
विधिविषयत्वयोग्यवाक्यार्थपूरणसमर्थपदार्थकल्पनमङ्गीकर्तव्यम् ।
तथा यदपि 'ब्राह्मणो न हन्तव्यः, न कलञ्जं भक्षयितव्यम्' इत्यादिप्रतिषेध-
विधानम्, तदपि प्राप्तिपूर्वकत्वेन² सापेक्षत्वाद् व्यक्तौ च प्राप्तिसम्भवादाकृतेश्चा-
नधिकारात्, असत्यां प्राप्तावनर्थक्यमेव स्यात् । तस्माद्येन शब्दार्थेन प्रयोगचोदनां
भावो भवति, स एवाभ्युपगन्तुं न्याय्यः न तत्त्वज्ञानमात्रदृष्टसिद्ध्यर्थपदार्थ-
कल्पना युक्तेति ।
स्यादेतत्, व्यक्तिसम्भवत्प्रयोगचोदनासु व्यक्त्यर्थः ततोऽन्यत्राऽऽकृत्यर्थ एव
भविष्यतीति । तदसत् । न्यायेन हि स्थितमेकस्य शब्दस्यार्थैक्यम्, अनवस्थित-
सम्बन्धानेकादृष्टवाचकशक्तिकल्पनविकल्पदोषप्रसङ्गात् । सम्बद्धानां चार्थाना-
मन्यतराभिधानेनैवेतरत्र प्रतिपत्तिसिद्धेः । कथं तर्ह्याकृतिप्रत्यय इति चेदत
आह—अविभागात्³ इति । यतस्तु नित्यमेव व्यक्त्याकृत्योरविभागः तस्माद्
व्यक्तिरभिहिता सती शक्नोत्येवाऽऽकृतिं गमयितुम् । तदुक्तं तद्भूताधिकरणे ।⁴
यस्य तु पदस्य योऽर्थोऽभिधेयत्वेनाऽऽश्रितः तस्य तत्परिहारासम्भवादवश्यं
तत्रस्थस्यैवार्थान्तरं५ लाक्षणिकत्वेनाऽभ्युपगन्तव्यमिति । अपि चाऽऽकृतिपदार्थकस्य
व्यक्तिषु साधारणानेकान्तिकत्वान्निर्णयो न स्याद् व्यक्तिपदार्थकस्य पुनरत्यन्तान्त-
र्भूताकृतिनिश्चयसिद्धेर्न शब्दव्यापारकल्पनोपपत्तिः । तस्माद् व्यक्तिरेव शब्दार्थः
१ क. (टिप्पण्यां) भाजनम् । पा० । २ क. प्राप्तिपूर्वकत्वम् ।
३ क. विभागादिति । ४. जै० (१-१-७) ।
५. तत्रस्थस्येति तस्मिन्नेवार्थे वर्तमानस्य शब्दस्येत्यर्थः ।

१० ] प्रथमाध्याये तृतीयपादः ६३५
नाऽऽकृतिः । न च विकल्पसमुच्चय-सम्बन्ध-समुदायान्यतरविशिष्टान्यतराभिधान-
पक्षाः सम्भवन्ति, अविभागादेव सर्वेषामपि ज्ञानसिद्धेः ।
अपि चाद्रव्यशब्दत्वाद् व्यक्तेरेवाभिधेयता ।
सामानाधिकरण्यं हि नाऽऽकृत्यर्थ-गुणार्थयोः ॥ ९९४ ३० ॥
॥ आकृतिशक्त्यधिकरणम् ॥
न्या० सु०—अत्र भाष्यकारेणाथ गौरित्येवमादयः शब्दाः किमाकृतेर्वाचकाः सन्तो
वाच्यार्थे प्रमाणमुत व्यक्तेरिति गवादिविशेषणोपादानान्न सर्वशब्दानामेतद्विचारविधेयतेति
सूचितम् । तत्र केषां शब्दानां व्यावृत्तिर्विवक्षितेत्यपेक्षायां जातिशब्दानामेवोदाहरणत्वमङ्गी-
कृत्य, तद्व्यतिरिक्तानां व्यावृत्तिरिति दर्शयितुमाह—इहेति । आख्यातशब्दार्थस्य द्वितीयाद्ये
विचारयिष्यमाणत्वान्निपातोपसर्गाणां च स्वतन्त्रार्थाभिधायकत्वाभावान्नान्येषामुदाहरण-
त्वेन गृह्यन्ते । तेषामपि षड्विधानां मध्ये शुक्लादिगुणानाम् एतयैव दिशा वाच्या शुक्ला-
देरपि नित्यतेत्यादिवार्त्तिकोक्तन्यायेनावान्तरभेदाभावेन गुणशब्दानां जातिवाचित्वायोगात्,
क्रियाणामप्यर्थप्रत्यक्षे नित्य एवेति भाष्येणावान्तरभेदस्य संख्याभावसूत्रे निराकृतत्वेन,
यागादिशब्दानामपि जातिवाचित्वायोगात् पाकाद्येकोपाधियोगेन वाऽनेकत्र पाचकत्वाद्ये-
काकारे प्रत्ययोपपत्तेः । पाचकत्वादिजात्यभावेन तच्छब्दानामपि जातिवाचित्वायोगात्,
देवदत्तादिशब्दानां च सङ्केतितार्थविशेषवाचित्वात् सर्वनामशब्दानां च सन्निहितार्थविशेष-
वाचित्वाज्जातिशब्दानामेवात्रैवमादय इति सादृश्यवचनेनैव शब्देनैवोदाहरणत्वं सूचित-
मित्यर्थः । परमतेन चैतदुक्तम् ।
स्वमते तु—
ततः शुक्लादितद्व्यक्तिगुणेषु प्रतितिष्ठति ।
इत्यादिना गुणकर्म्मणोरप्यवान्तरभेदाम्युपगमादाख्याताथं विना पौनरुक्त्य चोत्तर-
प्रस्थाने परिहरिष्यमाणत्वात् गुणक्रियाशब्दानामप्याख्यातानामपि चोदाहरणत्वमस्त्येव ।
तथा चोपसंहारभाष्यव्याख्याने गवादिग्शब्दग्रहणं सर्वनामाख्यातशब्दानामन्तर्भावार्थमिति
वक्ष्यति ।
नन्वेवं सति जातिशब्दा इत्येव स्पष्टत्वादुदाहरणनिर्देशः कार्यः । गोशब्दोदाहरणं तु
किमर्थमित्याशङ्क्य, पूर्वाधिकरणे गोशब्दस्य गाव्यादिशब्दव्युदासेन साधुत्वाभिधानात्क-
स्मिन्नर्थे तस्य साधुतेति प्रासङ्गिकी । सङ्गतिसूचनाथं तदुदाहरणमिति दर्शयितुमाह—
तेषामपीति । गोशब्दमुदाहृत्य यदिचार्यते तत्पूर्वाधिकरणोदाहरणेन सहैतदधिकरणादा-
हरणस्यैकत्वं सङ्गतिसूचनाय दर्शयितुमित्यर्थः । ननु पदार्थप्रामाण्यस्य शब्दे निरा
कृतत्वात्किमाकृतेः प्रमाणमित्युक्तमित्याशङ्कयावाचकव्यतिरेकजनिते षष्ठ्या विनैव
प्रामाण्यव्यतिरेकजनिते इति व्याख्यातुमाह—किं पुनरिति । किमाकृतेर्वाचकाः सन्तो

६३६ मीमांसादर्शनम् [ सू०
वाक्यार्थे प्रमाणम्, अथ व्यक्तेरिति व्याख्या अनेनोक्ता । व्यक्त्याकृतिवाचित्वसन्देहमुप-
न्यस्योच्यते इत्यादिभाष्येण मध्ये चिन्तान्तरं कृतम् । तत्किमर्थमित्याशङ्क्य प्रकृतचिन्तो-
पोद्घातार्थत्वमाह—तत इति । न निर्णयार्थं विना कापि चिन्ता कर्तुं शक्या । न च
निष्फला प्रतितिष्ठति । लौकिकवैदिकशब्दार्थभेदे च वैदिकशब्दार्थचिन्ता निरुपाय ।
लौकिकशब्दार्थचिन्ता च निष्फला स्यादित्याशयः ।
नन्वेवं सति प्रतिपदाधिकरणदिवत्प्रकृतचिन्तामनुपक्रम्यैवोपोद्घातचिन्ता कस्मान्न
कृतेत्याशङ्क्यानन्तराधिकरणसङ्गतिप्रसङ्गादिति दर्शयितुम्—तत इत्युक्तम् । प्रतिपदाधि-
करणादौ तु नानन्तरसङ्गत्यपेक्षा, अध्यायादित्वादित्याशयः ततो व्यक्त्याकृतिवाचित्व-
सन्देहोपन्यासानन्तरं वक्ष्यमाणं पूर्वपक्षादिसान्न्यासिकं त्यागार्हं कृत्वा सम्प्रतीदं तावद्वि-
चार्यत इत्यन्वयः । त्यागार्थात्संन्यासाप्रातिपदिकात्तदर्हतीत्यस्मिन्नर्थे ठगुत्पत्तेः सान्न्यासिक-
पदव्युत्पत्तिः । अहिताशङ्कानिराकरणार्थस्तुशब्दः ।
किं य एवेति शब्दविषयम् । किं त एवेति चार्थविषयं सन्देहभाष्यद्वयं तन्त्रेण व्याख्या-
तुम्—किं य एवेत्युक्तम् । उपायफलसिद्ध्यर्थत्वं प्रश्नपूर्वं विवृणोति -- आहेति । शब्दग्रहण-
मर्थानामप्युपलक्षणार्थम् । ननु व्यक्त्याकृतिविचारफलोपाययोर्भिन्नविषयत्वेऽपि लौकिक-
वैदिकशब्दार्थैकत्वे यत्नः किमर्थं इत्यपेक्षायामाह- यदीति । एतस्या व्यक्त्याकृतिसन्नि-
धानचिन्ताया इति हेतौ पञ्चमी । एतच्छब्दो वेदविषयत्वद्योतनार्थः । निर्णयोपायव्याख्या-
नार्थम्—वृद्धेत्युक्तम् । जातेरभिधेयत्वम्, व्यक्तेरनभिधेयत्वमिति निर्णयः, नान्यथेति शेषः ।
नन्वन्यत्वेऽपि लोकविषयैषा चिन्ता भविष्यतीत्याशङ्कयाह—प्रयोजनं त्विति । शङ्का-
निराकरणार्थस्तुशब्दः प्रयोजनाभावमुपपादयति सम्मूर्च्छितेति । आशङ्कामभिप्रायमनूद्य
निराकरोति—यदीति । नन्वेवं तर्हि वेदविषयैव चिन्ता, अन्यत्वेऽपि यूपादिशब्दनिर्णयो-
पायसम्भवात्सेत्स्यतीत्याशङ्कयाह—स्यादिति । वृद्धव्यवहारस्थाने क्व प्रयोगानुसरणमेवा-
कृतिवाचित्वनिर्णयोपायः न यूपादिवच्चव्यक्तिविपर्ययाश्रयणादित्याशयः । अतः शब्दार्था-
न्यत्वे एकाङ्गविकलत्वाच्चिन्तेयमनारभ्या स्यादित्याह—तेनेति ।
ननु शब्दार्थानन्यत्वे फलोपाययोर्भिन्नविषयत्वेनैकाङ्गवैकल्याविषयः स्यादित्या-
शङ्कयाह—अभेदे इति । शब्दार्थान्यानन्यत्वचिन्तायाः प्रकृतचिन्तोपोद्घातत्वोपसंहारपूर्वकं
पूर्वपक्षमाह—तेनेति ।
अनेन च तत्रान्यपूर्वपक्षप्रतिज्ञाभाष्यं व्याख्यातम् । अत्र व्यपदेशभेदाद्रूपभेदाच्चेति
हेतुद्वयं भाष्यकृतोक्तम् । तत्र व्यपदेशभेदस्य भाष्यकृतैव व्याख्यातत्वादूपभेदं व्याचष्टे—
नियतेति । वैदिकेषु पदेषु नियतः स्वरः, लौकिकेष्वनियत । वैदिकेषु च छन्दोविषयतया
विहितस्य प्रकृतिप्रत्यययोर्लोपस्य, आगमस्य वा वर्णविकारस्य वा सद्भावः । लौकिकेष्व-
सद्भावः तत्कृताद्रूपभेदादित्यर्थः ।
नन्वेवं सति छान्दोग्यब्राह्मणेषु स्वरनियमाभावाद् गवादिशब्देषु च प्रकृतिलोपाद्यभावाच्च
भेदः सिद्ध्येदित्याशङ्क्य, धर्मभेदाभिप्रायेण रूपभेदं व्याख्यातुमाह — अध्यायेति ।

३० ] प्रथमाध्याये तृतीयपाद। ६३७
अधीयतेऽस्यामिति व्युत्पत्त्याऽध्ययनतिथिः अध्यायो द्वितीयादिः अष्टम्याद्यनध्ययनतिथिः
अध्यायः । वेदवाक्यान्यध्याये यज्ञोपवीतेनैव त्रैवर्णिकेनैव च प्रयोज्यानि, लौकिकान्य-
नध्यायेऽप्यनुपनीतेनापि चातुर्वर्ण्येनापि च प्रयोज्यानि, अप्रयोज्यत्वेनाप्रेष्यत्वेन च हेतुना
परिचर्यया प्रसादितो यो गुरुस्तदुच्चारणपूर्वकं वेदवाक्यानि प्रयुक्तानि, यदृच्छया प्रयुक्तानि
लौकिकानीति, धर्मभेदाच्चाथा लौकिकवैदिकवाक्यानामन्यत्वम् । तदन्यत्वाच्च वाक्यार्थान्यत्वं
तथा पदानां धर्मभेदात्पदार्थानां च पदभेदाद् भेद इति पूर्वपक्षं प्रतिज्ञायाऽन्वयः । धर्म-
भेदमात्रेण कथं पदभेदः ? कथं च पदभेदमात्रेण पदार्थभेद ? इत्याशङ्काद्वयनिराकरणार्थं
हेतुगर्भविशेषणसहितदृष्टान्तोपादानम् । शब्दाभेदे धर्मव्यवस्थावैय्यर्थ्यापत्तेस्तत्साफल्याय
शब्दभेदः कल्प्यते । तद्भेदे चौत्सर्गिकोऽर्थभेदः संज्ञा चोत्पत्तिसंयोगादित्यनेन सेत्स्यति
पदादृष्टार्थप्रतिपत्त्यर्थस्य शब्दस्यादृष्टार्थेन धर्मेण प्रयोजनाभावादर्थप्रतिपत्त्यर्थमेव धर्मापेक्षे-
त्यर्थप्रतिपादनसामाग्र्यतिरेकाद्वाचकभेदो जराराजेति क्रमभेदादिवेत्याशयः ।
ननु वैदिकपदानां लौकिकेभ्योऽन्यत्वे सम्बन्धग्रहणाभावेनार्थानवधारणादर्थान्यत्वेन
पूर्वपक्षो न युक्त इत्याशङ्कयाह—यदीति । लौकिकार्थासम्भव एवानर्थक्येन वेदाप्रामाण्या-
पादनायाऽन्यत्वमिषेण पूर्वपक्षिणो वक्तुमभिप्रेतः । निर्विषयत्वाच्च प्रकृतचिन्तानारम्भायैव
वेदाप्रामाण्योपपादनायोच्यत इत्यविरोध इत्याशयः । अग्निवृत्राणि जङ्घनदित्यन्यदिदं
रूपमिति भाष्यं न्यूनाधिकक्रमान्यत्वाद्यभावेन रूपभेदानुपलब्धेरयुक्तमाशङ्कय व्याचष्टे—
स्वरेणेति । लौकिकस्यानियतस्वरत्वात्स्वरानपेक्षस्यार्थप्रतिपादकत्वम्, वेदे तु स्वरनियमा-
त्सोऽपि सहकारीति सामग्रीभेदाद् गौगीर् इति वर्णातिरेकवत्स्वरातिरेकात्पदान्यतेत्याशयः ।
धर्माभिप्रायो वा रूपशब्द इति व्याख्यान्तरमाह—अध्यायेति । कर्मव्युत्पन्नाव-
ध्यायानध्यायशब्दौ । यदा कदाचिद्येन केनचिद्यथा कथंचिदध्येयः न वैदिक इत्यर्थः ।
यद्वा अग्निवृत्राणि जङ्घनदिति वैदिकस्याग्निशब्दस्य वृत्रहननसमर्थवस्तुवाचित्वाव-
गमो लौकिकः । व्युत्पन्नाग्निशब्दवाच्यस्य च ज्वलनस्य तदसामर्थ्यात् अर्थान्तरे चाव्युत्पन्न-
स्यैव शक्त्यान्तरकल्पने गौरवापत्तेः गत्यर्थस्यागिधातोः ‘शोनिर्नलोपश्चेति’ सूत्रेणौणादिके
निप्रत्यये कृतेऽग्निशब्दव्युत्पत्त्यवधारणान्न प्रकृतिप्रत्ययान्वाख्यानभेदेनाव्युत्पन्नाल्लौकिका-
दग्निशब्दाद् व्युत्पन्नस्य वैदिकस्याग्निशब्दस्य रूपान्यताभिप्रेतेति व्याख्यान्तरमाह—
वृत्रेति । शब्दान्यत्वाच्चेति पदान्यत्वेन पदार्थान्यत्वप्रतिपादकं भाष्यं स्पष्टत्वान्न
व्याख्यातम् ।
अपि चेत्यादिभाष्यं लोकसिद्धानामेव गवां देवसम्बन्धनिमित्तोत्तानवहनात्मकधर्म-
विशेषप्रतिपादकत्वेनास्य वाक्यस्य अन्यार्थत्वलिङ्गत्वाभावाद्युक्तमाशङ्क्योपपादयितुमाह—
विदग्धेति । यथा ‘यो विदग्धः स नैर्ऋत’ इति स्वरसतो विदग्धोद्देशेन नैर्ऋतत्वविधिः
प्रतीयमाना उत्पत्तिशिष्टदेवतावरुद्धे देवतान्तरविध्ययोगाद्यो नैर्ऋतः, स विदग्ध इति-
वचनव्यक्त्यन्तराङ्गीकरणेन ‘प्रकरणे सम्भवन्नपकर्षो न कल्प्येतेत्यत्र भाष्यकृता मग्नः ।

तथात्र 'वषट्कर्त्तुः प्रथमभक्ष' इतिवत् समासान्निष्कृष्य गोमात्रस्योद्देशायोगात् देवगवानां
चोत्तानवहनवदसिद्धत्वाविशेषात् कथंचित् सिद्धेश्चोत्तानवहनस्यापि सम्भवाद्यच्छब्दयोगः
प्राथम्यमित्याद्युद्देश्यलक्षणमित्यनेन न्यायेन प्राथम्योपात्तोत्तानवहनोद्देशप्रतीतेस्तदुद्देशेन
गोशब्दवाच्यत्वविध्याश्रयणात्स्वरसतः प्रतीयमानस्य देवगवोद्देशेनोत्तानवहनविधौ भङ्गः
कृत इत्यर्थः ।
नन्वेवं सति य उत्ताना वहन्ति ते देवानां गोशब्दवाच्या इति वेदवाक्यगतपदपौर्वा-
पर्यालोचनेनालौकिकस्याप्यर्थस्य यूपादिवत्प्रतीतिसिद्धेर्लौकिकवैदिकशब्दार्थान्यत्वेऽपि
व्यक्त्याकृतिचिन्तोपपत्तेरुपोद्घातोऽनर्थकः स्यादित्याशङ्क्याह सर्वेषां चेति । नन्वर्थावगत्य-
भावे कथमस्यार्थान्यथावेदकतेत्याशङ्क्यापातप्रतिभानेन लिङ्गमपेतपूर्वपक्षिणोक्तम् । परमार्थ-
तस्तु शब्दान्यमेवार्थान्यहेतुरिति दर्शयितुमाह-ग्राह्यत्वादिति । स्वाध्याय एवोपनीतेनैव
त्रैवर्णिकेनैव शुश्रूषासाधितगुरुसम्प्रदायेनैव च ग्राह्यत्वं वैदिकानां धर्म्मः । यदाकदाचित्केन
केनचिद्यथा कथंचित् न ग्राह्यत्वं लौकिकमिति धर्म्मभेदः । आदिशब्दो नियतानियतस्वरा-
द्यभिप्रायः । नियतैः पदैर्वाक्यरचना वेदे, लोके त्वनियतैः । तद्द्वारा वैदिकानीमानि
पदानि, लौकिकानीति व्यपदेशभेदः । वाक्यभेदनिबन्धनत्वात् व्यपदेशभेदस्य, न पदभेदा-
पादकतेत्याशङ्कानिराकरणार्थम् --नियतेत्युक्तम् । पदरचनात्मकत्वात् वाक्यानां पदभेदं
विना तद्भेदायोगाद्वाक्यभेदनिबन्धनत्वे पदभेदस्येतरेतराश्रयत्वापत्तेः स्वरादिनियमानियम-
कृतपदस्वरूपभेदनिबन्धन एव व्यपदेशभेद इत्याशयः । धर्मभेद-व्यपदेशभेदाभ्यां शब्दानां
भेदः तद्भेदाच्चार्थानामित्यर्थः । भिन्नानां वर्णानामेकार्थप्रतिपादननिबन्धनत्वेऽर्थभेदस्येतरेत-
राश्रयं स्यादित्याशङ्कानिराकरणार्थं पदभेदे कारणान्तरस्य पूर्वोक्तस्योपन्यासः ।
वनस्पते हिरण्यपर्णेति सामानाधिकरण्यनिर्देशे लोकसिद्धस्य वनस्पतेर्हिरण्यपर्णत्वस्यानु-
पलब्धिविरोधेन वनस्पतिशब्दवाच्यत्वप्रतीतेः, घृतस्य च मधुशब्दवाच्यत्वप्रतीतेर्वाक्यस्वार-
स्यादेव स्पष्टत्वन्न तत्प्रतिपादकं भाष्यद्वयं व्याख्यातम् । सिद्धान्ते यथाभाष्यं सुयोजमपि
सूत्रमाकृत्यधिकरणपूर्वकपक्षेऽन्यथा योजयिष्यमाणत्वाद्विधैकार्थं योजयति-प्रयोगेति ।
तेष्विति । लौकिकवैदिकशब्दार्थेष्वित्यर्थः । अविभागादिति सूत्रावयवावतारणार्थम्-
तस्मादित्युक़्तम् । य एवेतिभाष्येण प्रयोगचोदनाभावादित्यकारप्रश्लेषं विना व्याख्याय,
इतरथेत्यनेनाकारप्रश्लेषेण व्याख्यानान्तरं कृतम् । तत्रैकत्वेऽनेकत्वे चोभयभावप्राप्तावेकत्वे
सति पुनर्वचनस्य परिसंख्यार्थत्वापत्तेर्द्वितीयमेव व्याख्यानं सम्मतमिति सूचयितुमादौ
व्याचष्टे - भेदे सतीति । आद्यव्याख्यानं व्याचष्टे -एकत्वे सतीति । तस्मादेकशब्दत्वमिति
भाष्यम् । सौत्रमर्थपदं शब्दस्याप्युपलक्षणार्थमिति दर्शयितुं द्वेधार्थैकत्वपदं व्याचष्टे-
अर्थकत्वमिति । एतदेव प्रपञ्चयति - शब्देति । ननु प्रयोगचोदनाभावादित्यनेनैव शब्दार्थैक-
त्वसिद्धेरविभागादित्यनर्थकं हेत्वन्तराभिधानार्थत्वे वा शब्दैक्यमात्रविषयत्वेनाव्यापकतया
दौर्बल्याद् बलवति हेतौ प्रयुक्ते दुर्बलोपन्यासः क्लिष्टो भवतीत्यनेन न्यायेन पूर्वमुपन्यस्येते-
त्याशङ्क्योच्यत इति भाष्येण पूर्वस्य प्रयोजनाभिधानार्थत्वादेतदेव हेत्वभिधानमित्युक्त-

३० ] प्रथमाध्याये तृतीयपादः ६३९
माभाति । तस्मादिष्टापत्तिरूपहेत्वभिधानप्रतीतेरयुक्तमाशङ्क्याह—प्रयोगेति । लिङ्गदर्शन-
बलेनात्रैको वेदवादी पूर्वपक्षी रूपभेदादिनान्यः शुष्कतार्किकः तत्र पूर्वः शुष्कतार्किकस्य
त्विदं प्रत्यवस्थानमित्याशयः । अत इति ल्पब्लोपे पञ्चमी इदमभिप्रेत्याहेत्यर्थः अविभागं
पञ्चधा व्याचष्टे--तदुच्यत इति । स एवायं गोशब्द इति प्रत्यभिज्ञानरूपप्रत्ययस्य लौकिक-
वैदिकशब्देष्वविभागादित्यर्थः । रूपाविभागादित्यनेन विलक्षणरूपाप्रतीतेरित्युक्ते घटपटयोर-
ज्ञायमानत्वावस्थायां वैलक्षण्याप्रतीतावैक्‍याभावात्तन्मात्रेणैक्यासिद्धिमप्याशङ्क्य—ज्ञायमानयोः-
लौकिकवैदिकशब्दयोरित्युक्तम् । सादृश्यनिमित्तभ्रान्त्यध्यवसितैकत्ववशेनपि वैलक्षण्या-
प्रतीत्युपपत्तिमप्याशङ्क्य ज्ञायमानयोरर्थयोरवश्यं कथंचिद्वैलक्षण्येन भाव्यं तदभावात्त्विह
भेदो नास्तीत्याशयः । वाक्यतत्समूहमात्रनिबन्धनस्य पदवर्णानां तदन्तर्गतत्वादयं न
पदवर्णविषयत्वस्यैते लौकिका इमे वैदिका इति व्यपदेशस्य वस्तुतः पदवर्णेषु विभागाभावा-
दित्यर्थः । वस्तुतो वाक्यनिबन्धनस्तत्समूहनिबन्धनो वाऽयं व्यपदेशः तदन्तर्गतनिमित्तया
तु भ्रान्त्या पदवर्णविषयत्वमनेनोपात्तमित्योपाधिकत्वान्नासो पदवर्णानां भेदमापादयती-
त्याशयः । शब्दानां प्रतिनियतविलक्षणाभिव्यञ्जकाभिव्यङ्ग्यत्वनियमात्तदभावो वात्राभेद-
हेतुरुक्त इति—तथेत्यनेनोक्तम् । लक्षणेत्यनेन लक्षणाभेदो लक्ष्याभेदे—हेतुरुक्त इत्युक्तम् ।
छन्दसि भाषायां वेति विशेषणेन भिन्नलक्षणलक्षितानां सिद्धान्तिनामपि भेदाभ्युपगमात्तद्व्या-
वृत्तिसूचनार्थम्—बहुतरेत्युक्तम् । अत इत्युपसंहारभाष्यं व्याचष्टे—प्रत्यक्षेति । तांश्चेति
भाष्यं चकारेण शब्दैक्यमर्थैक्ये हेतुं सूचयतीति व्याचष्टे—एकेति । यच्चोक्तमिति भाष्येण
लिङ्गदर्शनान्यनुभाष्य नास्तिवचनमित्यादिनोत्तानवहनानुवादेन गोशब्दवाच्यत्वविधित्वमस्य
निराकृत्य गवानुवादेनोत्तानवहनविधित्वमुक्तं तद्व्याचष्टे—यथाश्रुतेति । गोमधुवनस्पति-
शब्दानां यार्थान्तरद्योतिका श्रुतिरूपन्यस्ता सा न्यायसिद्धार्थकत्वाद्विरोधेन प्रयोजनेनोत्तान-
वहनादिगुणमात्रा नातः परा व्याख्येयेत्यर्थः । अनन्तरोक्तार्थैकत्वसाधकशब्दैकत्वलक्षण-
न्यायपरामर्शार्थं यथाश्रुतत्वं लोकसिद्धत्वं विशेषणमुक्तम् । न च गुणमात्रान्यत्वेनार्थान्यत्वं
भविष्यतीति दृष्टान्तपूर्वकमाह—यथा हीति । अस्तु वा गुणान्यत्वेन देवसम्बन्धिनां
गोमधुवनस्पतीनां भेदः तथाप्यगृहीतसम्बन्धत्वेन तेषां वाच्यत्वायोगाद्वैदिकानामपि गवादि-
शब्दानां लौकिका एवार्था इति मत्वाद्द—न चेति । दक्षिणादिसाधनत्वेन च विहितानां
गवां देवसम्बन्धिनामस्वत्वेन दातुमशक्यत्वान्मनुष्यसम्बन्धितैव निश्चीयत इत्याह—
मनुष्येति । देवसम्बन्धिनश्च वनस्पतेर्मरुगतस्य गुणान्यत्वेन लौकिकवनस्पतितो भेदेऽपि
कर्मभूमिगतयज्ञसाधनत्वायोगाद्वैदिकस्यापि वनस्पतिशब्दस्य लौकिक एवार्थ इत्याह—
एवमिति । लौकिकस्य च घृतस्य देवसम्बन्धान्मधुत्वेन लौकिकान्मधुतोभेदेऽपि देवसम्बन्धा-
पादितरसोवीर्यविपाकात्पूर्वं घृतस्य मधुत्वाभावेन मधुपर्कादिसाधनत्वायोगाद्वैदिकस्यापि
मधुशब्दस्य लौकिक एवार्थ इत्याह – यस्त्विति । सर्वेषां च वैदिकशब्दार्थानामन्यत्वे
सत्युत्तानादिशब्दानामप्यज्ञानान्न तदनुवादेन गवादिशब्दवाच्यत्वं विधातुं शक्यमिति,
प्रतिपादनाथं 'यदि चान्य' इति भाष्यं व्याचष्टे—न चेति ।

मधुगुणमात्रान्यतापारत्वे कार्योपयोगाभावाद्वाक्यानर्थक्यं स्यादित्याशङ्कानिराकरणार्थं
न चेति भाष्येण स्तुत्यर्थत्वमुक्तम् । तत्र निरालम्बनस्तुत्यनुपपत्तिमाशङ्क्यालम्बनमाह—
अत इति । लौकिकानामेव गवादीनां यज्ञादौ विनियुक्तानामिह स्वर्गं वै त्वालोकं गमयिष्याम
इत्यादिदर्शनेन स्वर्गलोकप्राप्तेर्देवसम्बन्धप्रभावादुत्तानवहनाद्यलौकिकगुणान्तरप्राप्तिर्भविष्य-
तीत्याशयः । स्वर्गगमनामावेऽपि वा भूमिगतानामेव गवां ‘देवाश्च याभिर्यजते ददाति च’
वा ज्योतिस्ताभिः स च ते गोपत्तिः सहेत्यादिदर्शनाद्देवोद्देश्येन त्यक्तानां दुःखसागरतारणा-
र्थत्वावगतेरुत्तानवहनत्वादिगततारणगुणयोगेनोत्तानवहनप्रतिपादनमित्यालम्बनान्तरमाह—
अथ वेति ।
यद्वोत्तानवहनाभावेऽपि देवानां तथा प्रतीतेस्तदालम्बनमुत्तानवहनप्रतिपादनमित्यालम्ब-
नान्तरमाह—पृथिवीति । दृष्टिवशाद्धोत्तानवहनप्रतिपादनमित्यत्राप्यतीतेनान्वयः । कथं
देवानामुत्तानवहनदृष्टिरित्यपेक्षायां—पृथिवीगोलकत्रैलोक्यभ्रमणादिनेत्युक्तम् । पृथिवीगोल-
कस्य भ्रमणे किं प्रमाणमित्यपेक्षायां—पुराणोक्तेनेत्युक्तम् । ननु सत्यपि भ्रमणे कथमुत्तान-
वहनदर्शनमित्यपेक्षायामाह—यथैवेति । अधोदेशस्योपरिदर्शनं परिवर्त्तनं विप्रतीपीभावं
विना न युक्तमिति भूमेर्विप्रतीपिभावात्तद्गतानां गवामुत्तानवहनदर्शनमुपपन्नमित्यर्थः ।
तस्मादित्युपसंहारभाष्यं व्याचष्टे -- तस्मादिति ।
यदेति प्रकृतविचारानुसन्धानभाष्यं व्याचष्टे—इतीति । श्रोतॄबुद्धिप्रथनाय पक्षान्त-
राण्यपि दर्शयितुमौचित्यप्रतिज्ञां तावत्करोति—द्वौ चेति । यद्यपीत्यनेन भाष्यकारोऽपि
यत्र पदोच्चारणानर्थक्यं तत्र व्यक्तिरर्थः अन्यत्राकृतिरिति भाष्येणोभयपक्षम् अस्तु
विशेषणत्वेनाकृतिं वक्ष्यति विशेष्यत्वेन व्यक्तिमित्यनेन चाकृतिविशिष्टायामाकृतौ वर्त्तेतेत्य-
नेन च व्यक्तिविशिष्टाकृतिपक्षं दर्शयिष्यतीति सूचितं तानि दर्शयितुं जातिव्यक्त्योस्ता-
वदष्टपक्षीमुद्दिशते—नियोगेनेति । नियोगशब्देन च नियमम्, विना पक्षद्वयं विशिष्टावेत्यनेन
च पक्षद्वयमुक्तम् । एतेषामेवाष्टानां पक्षाणां परस्परव्यतिकरेणापरांन् षण्णवतिपक्षान्
सूचयितुमाह—एत इति । जातिव्यक्त्योरेवोद्दिष्टानां नियमादिपक्षाणां लिङ्गादिसिद्धित्रि-
योगेन संहतात्मभिः, असंहतात्मभिश्च सह सम्प्रधारणे विविक्तोद्देशेन, परस्परव्यक्तिकरेण
चापरांश्चतुर्दश चतुः शतानि च पक्षान् वक्तुं योजना कार्येत्याह—लिङ्गेति । नियोगेनेति
श्लोकं व्याचष्टे प्रथमं तावदिति । एते पक्षा इति श्लोकार्धं व्याख्यातुं षण्णवतिपक्षा-
नाह - तथेति । द्वावाभ्यामित्यनेन विशेषणविशेष्यभावनिरपेक्षाम्यां व्यक्त्याकृतिभ्यां
समुच्चिताभ्यां विशिष्टः सम्बन्धो गोशब्दस्यार्थं इति चतुर्थः पक्षो लाघवायान्ते दर्शित
इत्येकाऽष्टपक्षी । किमाकृत्यैव विशिष्टसमुदायः किं व्यक्त्यैवाऽथाऽकृत्या व्यक्त्या वाऽथ
सम्बन्धेनाऽथाकृतिविशिष्टया व्यक्त्याऽथ व्यक्तिविशिष्टयाऽकृत्या अथ व्यक्त्याकृतिभ्यां
परस्परविशिष्टाभ्यामथ विशेषणविशेष्यत्वनिरपेक्षाभ्यां समुच्चिताभ्यां व्यक्त्याकृतिभ्यां
परस्परविशिष्टाभ्यामुत विशेषणविशेष्यत्वनिरपेक्षाभ्यां समुच्चिताभ्यां व्याक्त्याकृतिभ्यामिति
द्वितीया । किमाकृत्यैव विशिष्टः सम्बन्ध एव गोशब्दस्यार्थः, अथ समुदाय एव अथ

३० ] प्रथमाध्याये तृतीयपादः ६४१
सम्बन्धो वा, समुदायो वाप्यसम्बन्धश्च समुदायश्च, उत व्यक्त्यैव विशिष्टः, सम्बन्ध
एवाप्यसमुदाय एव अथ विकल्पोऽथ समुच्चयविशिष्टयाकृत्या किं व्यक्तिः, अथाकृत्यऽथ
वा विशिष्टः सम्बन्ध एव । अथ समुदाय एव, अथ विकल्पोऽथ समुच्चयः । अथ एवं
समुदायेन विशिष्टः सम्बन्ध एव अथ सम्बन्धेन विशिष्टः समुदाय एव अथ विकल्पोऽथ
समुच्चयः किमाकृतिविशिष्टया व्यक्त्या विशिष्टः सम्बन्ध एव अथ समुदाय एव अथ
विकल्पोऽथ समुच्चयः । अथोभाभ्यां परस्परविशिष्टाभ्यां विशिष्टः सम्बन्ध एव अथ समुदाय
एव अथ विकल्पोऽथ समुच्चयः । अथोभाभ्यां स्वतन्त्राभ्यां विशिष्टः सम्बन्ध एवाथ
समुदाय एवाथ विकल्पोऽथ समुच्चय इति चतस्रोऽष्टपक्ष्यः ।
सम्बन्ध एवेत्येवकारेण प्रतितियोगिभूतेन समुदायेन सह नियोगविकल्पसमुच्चयरूपपक्ष-
चतुष्टयसूचनात् पूर्वोक्ताभ्यां सह षड् भवन्ति सम्बन्धवत्समुदायमपि प्रत्याकृत्यादेर्विशेषण-
त्वपक्षः पूर्ववत्सम्बन्धविशिष्टसमुदायपक्षमात्रातिरिक्तत्वेन योज्या इत्यर्थः । किं सम्बन्ध-
विशिष्टसमुदायपक्षमात्रातिरिक्तत्वेन योज्या इत्यर्थः । किं सम्बन्धेनैव विशिष्टाकृतिरित्या-
कृतिग्रहणस्य व्यक्त्युपलक्षणार्थत्वात्किं सम्बन्धेनैव विशिष्टा व्यक्तिर्गोशब्दार्थोऽथ समुदायेनैव
विशिष्टा अथ विकल्पमानाभ्यामुत समुच्चिताभ्यामित्यपरपक्षचतुष्टयीसूचनेन सप्तम्यष्ट-
पक्ष्युक्ता । तथैतद्विशिष्टापीत्येतच्छब्देन सम्बन्धसमुदाययोः परामर्शादष्टम्युक्ता किमाकृति-
विशिष्टसमुदायविशिष्टा व्यक्तिरेवाथ व्यक्तिविशिष्टसमुदायविशिष्टाकृतिरेवाथ विकल्प उत
समुच्चय इति सम्बन्धवत्समुदायमपि व्यक्त्याकृत्योर्विशेषणविशेष्यभावयोजनात् नवम्युक्ता ।
सम्बन्धवत्समुदायस्यादिविशेषणत्वयोजनाद्दशमी । सम्बन्धवत्समुदायमपि प्रत्यादिविशेषण-
योर्व्यक्त्याकृत्योर्नियोगादिपक्षचतुष्टययोजनादेकादशी । विशेष्यविशेषणयोर्व्यक्त्याकृत्योर्नि-
योगादिपक्षचतुष्टयकल्पनायाम् आदिविशेषणत्वेन सम्बन्धवत्समुदायस्यादिविशेषणत्वयोजनाद्
द्वादशी इति परस्परव्यतिकरेण षण्णवत्यष्टपक्ष्या सह चतुःशतं पक्षा भवन्ति ।
लिङ्गकारकसंख्याभिरित्यनेन सूचितानपरांश्चतुर्दश चतुःशतानि पक्षी संक्षेपेण दर्श-
यति - एवं जातिव्यक्त्योरिति । किं लिङ्गमेव गोशब्दार्थोऽथ लिङ्गं वाथ जातिर्वाथ
लिङ्गं च जातिश्च, अथ जातिलिङ्गयोः सम्बन्धः, अथ समुदायः, अथ लिङ्गविशिष्टा
जातिः । अथ जातिविशिष्टं लिङ्गमित्याद्यामष्टपक्षीं दर्शयित्वा, किमाकृत्यैव विशिष्टः
सम्बन्धो लिङ्गेनैव वेत्यादिव्यक्तिस्थाने लिङ्गं प्रक्षिप्य परस्परव्यतिकरेण षण्णवतिपक्षयोज-
नया चतुःशतं रचयितव्यम् ।
कारकस्य जात्या सम्प्रधारणे द्वितीयं चतुः शतम् । संख्यायास्तृतीयम् । लिङ्गस्य
व्यक्त्या सह सम्प्रधारणे चतुर्थम् कारकस्य पञ्चमम्, संख्याया षष्ठम्, लिङ्गसंख्याकारकयुग-
लस्य जात्या सह सम्प्रधारणात् सप्तमम्, लिङ्गकारकयुगलस्य अष्टमम्, संख्याकारकयुगलस्य
व्यक्त्या सह सम्प्रधारणे दशमम्, लिङ्गकारकयुगलस्यैकादशम् । संख्याकारयुगलस्य द्वादशम्,
लिङ्गादित्रयस्य जात्या सह सम्प्रधारणे त्रयोदशम्, व्यक्त्या सह चतुर्दशमितिन्यायेन चतुः-
शतेन सह पञ्चदश चतुःशतानि, षष्ठाधिकं सार्द्धपक्षसहस्रं भवति । ४१

६४२ मीमांसादर्शनम् [ सू०
ग्रन्थस्त्वेवं योज्यः । जातिव्यक्तिविषयैर्नियोगादिभिरष्टभिः पक्षैर्विकल्पिताः परस्पर-
व्यतिकरेण कल्पिता येऽन्ये षण्णवतिः पक्षास्तेषामाद्यैरष्टभिः सह समुच्चितानां प्रत्येकं
लिङ्गादीनां जात्या सह सम्प्रधारणायामुत्थानं दर्शयित्वा व्यक्त्या सह दर्शयितव्यम् ।
तथा लिङ्गसंख्यादियुगलानि व्यतिकरेण कल्पयित्वा लिङ्गादिसहितैकैकजा व्यक्तिविषया-
पेक्षया विकल्पा दर्शयितव्याः । लिङ्गदीनां कियतां जात्या, व्यक्त्या वा सम्प्रधारणेत्य-
पेक्षायां प्रत्येकमेकैकेन द्वाभ्यां युगलीभूताभ्यां त्रिभिश्च लिङ्गादिभिः सहिताया एकैकस्या
जातेर्व्यक्तेश्च—विकल्प्य इत्युक्तम् ।
ननु लिङ्गादीनां प्रत्ययार्थत्वात्प्रातिपदिकवाच्यत्वेन चिन्ता न युक्तेत्याशङ्क्य—
त्रियोगेत्युक्तम् । स्त्रियां यत्प्रातिपदिकं वर्त्तत इति व्याख्यादर्शनाद्वैयाकरणैस्तावज्जाति-
व्यक्तिवल्लिङ्गस्यापि प्रातिपदिकार्थत्वेनेष्टेति त्रिकप्रातिपदिकार्थवाचित्वात्ते त्रियोगाः । निपा-
तोपसर्गवत्प्रत्ययस्यापि द्योतकमात्रत्वेन वाचकत्वाभावात्संख्याकारकयोरपि प्रातिपदिकार्थत्वं
येऽभ्युपगच्छन्ति , ते पञ्चकप्रातिपदिकार्थवाचित्वात्पञ्चयोगाः तन्मताश्रयणेनेमे विकल्पा
इत्यर्थः । सम्बन्धसमुदायानपेक्षत्वे वा लिङ्गादित्रयेण सह जातिव्यक्त्योर्योगस्तदपेक्षत्वे
पञ्चभिरिति व्यवस्थया विकल्पविषयप्रदर्शनम् । ये तु वैयाकरणाः शब्दस्वरूपस्यापि
वाच्यत्वमिच्छन्ति, तन्मतेन तस्यापि जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्याभिः-
संहतासंहतात्मभिः सह सम्प्रधारणेन त्रिषष्ठ्यधिकपक्षिभिश्चतुरुत्तराणि पञ्चशतानि पक्षान्सूच-
यितुमाह – एवमिति ।
षट्कैः सहेति द्वितीयेन सहशब्देन सप्तकसाहित्यं विवक्षितम् । जात्यादिभिः सप्तभिरे-
कैकशो द्विकैस्त्रिकैश्चतुष्कैः पञ्चकैः षट्काभ्यां चेत्येतैः सप्तकेन सहितैः सह शब्दस्वरूपस्य
विकल्पनेत्यर्थः । किं जातिरेव गोशब्दार्थः, अथ गोशब्दस्वरूपमेव, अथ जातिर्वा शब्द-
स्वरूपं वा अथ जातिश्च शब्दस्वरूपं च, अथ सम्बन्धः, अथ समुदायः, अथ जातिविशिष्ट-
स्वरूपं स्वरूपविशिष्टा वा जातिरित्येवमेकैकशः सहाष्टपक्षीं दर्शयित्वा, जाति-व्यक्ति-जाति-
सम्बन्ध-जाति-समुदाय-जाति-लिङ्गजातिकारकजातिसंख्यादिकैः षड्भिर्व्यक्तिसम्बन्धव्यक्त्ति-
समुदायव्यक्त्तिलिङ्गव्यक्क्तिकारकव्यक्त्तिसंख्यादिकैः पञ्चभिः सम्बन्धसमुदायसम्बन्धलिङ्ग-
सम्बन्धकारक-सम्बन्धसंख्या-द्विकैश्चतुर्भिसमुदायलिङ्गसमुदायकारकसमुदायसंख्याद्विकेनेकै-
नैकविंशतिरष्टपक्षयो दर्शयितव्याः ।
जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकार-
कसंख्यात्रिकैः पञ्चभिः व्यक्तिसम्बन्धसमुदायव्यक्त्तिसमुदायलिङ्गव्यक्त्तिलिङ्गकारकव्यक्त्ति-
कारकसंख्यात्रिकैश्चतुर्भिः सम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसम्बन्धकारकससंख्यात्रि-
कैस्त्रिभिः समुदायलिङ्गकारकसमुदायकारकसख्यात्रिकाभ्यां द्वाभ्यां लिङ्गकारकससंख्या-
त्रिकेनेकेन पञ्चदशजातिव्यक्तिसम्बन्धसमुदायजातिसम्बन्धसमुदायलिङ्गजातिसमुदायलिङ्ग-
कारकजातिलिङ्गकारकसख्याचतुष्कैश्चतुर्भिव्यक्तिसम्बन्धसमुदायलिङ्गव्यक्त्तिसमुदायलिङ्ग -
कारकव्यक्त्तिलिङ्गकारकसख्याचतुष्कैस्त्रिभिः सम्बन्धसमुदायलिङ्गकारकसम्बन्धलिङ्गका-

३० ] प्रथमाध्याये तृतीयपादः ६४३
रकसंख्याचतुष्काभ्यां द्वाभ्यां समुदायलिङ्गकारकसंख्याचतुष्केनैकेन दश जातिव्यक्ति-
सम्बन्धसमुदायलिङ्गजातिसम्बन्धसमुदायलिङ्गकारकजातिसमुदायलिङ्गकारकसंख्यापञ्चकै -
स्त्रिभिर्व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्यापञ्चकाभ्यां द्वाभ्यां सम्बन्धसमुदायलिङ्ग-
कारकसंख्यापञ्चकेनैकेन षट्जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकजातिसम्बन्धसमुदाय-
लिङ्गकारकसंख्याषट्काभ्यां द्वाभ्यां व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्याषट्केनैकेन
तिस्रः सप्तकेन वैकेति षट्पञ्चाशदष्टपक्ष्यः प्रथमाभिः सप्तभिः सह त्रिषष्टिरष्टपक्ष्यश्चतूत्तराणि
पञ्चशतानि पक्षाः पूर्वंगणितेन षष्ठ्यधिकेन सार्द्धेन पक्षसहस्रेण सह चतुःषष्ठ्यधिकं पक्ष-
सहस्रद्वयं भवति । परस्परव्यतिकरादेतेषां बहवोऽपराः सम्भवन्तोऽपि नोच्यन्ते ग्रन्थगौरव-
भीतितः ।
नन्वेतेषां पक्षाणां विशेषणविशेष्यभावसंहतान्यत्वेऽपि स्वरूपनिष्कर्षाभावेन भेदेनाऽ-
भावान्न भेदेनोपन्यासो युक्त इत्याशङ्क्याह—एते चेति । यथा जात्यादीनां निष्कर्षा-
भावेऽप्यन्वयव्यतिरेकप्रसूतया भेदबुद्ध्या भेदः तथैषामपि पक्षाणां स्वरूपभेदाभावान्निष्कर्षा-
भावेऽपि विशेषणविशेष्यभावाद्यन्वयप्रसूतमाभेदबुद्ध्या भेदो भविष्यतीत्यर्थः । ननु सत्यपि
भेदे प्रत्यक्षादि नैतावतां भेदानामग्रहणात्कथं तत्पूर्वकशब्दविषयतैतावतां भेदानां विचार्यते
इत्याशङ्क्याह—सर्वत्रेति । प्रत्यक्षेणेन्द्रियसयुक्तद्रव्यधर्मंतत्समवेतजातिगुणक्रिया-तत्समवेत-
गुणत्वादिंसामान्यग्रहणात्, अनुमानेन च स्वव्यापकाग्नितद्गतौष्ण्यभास्वरत्वादिग्रहणाद-
नेकात्मकवस्तुप्रतीतेर्विवेकामावात्स्तोकभेदप्रतीतिः । शब्दस्य तु सर्वात्मकवस्तुविषयतायामेके-
नैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यापातादेकैकांश निष्कृष्ट-
शक्तिकत्वेनांऽशान्तराणां लक्षणासिद्धज्ञानत्वादवाच्यत्वावगतेः सूक्ष्मांशविवेचकतया सर्वभेद-
बोधकत्वं युक्तमित्याशयः ।
ननु सामान्यविशेषवाधादेर्जातिव्यक्तिवाच्यत्वविचारमात्रासिद्धेः पक्षान्तराणि निष्प्रयो-
जनत्वान्न कार्याणीत्याशङ्कयाह—पदादिति । शङ्क्यमानस्र्ववाच्यान्तरविप्रतिपत्तिनिरासं
विना वाच्यत्त्वानवधारणान्न पदार्थविचारणपूर्वकंवाच्यार्थावधारणसिद्धिरित्याशयः ।
सौकर्यार्थं पूर्वोत्तरपक्षविभागमाह—अत्र चेति । नन्वेतावतां पक्षाणां विद्यमानत्वेन
सप्रयोजनत्वेन च भाष्यकारानुपन्‍यासे किं कारणमित्याशङ्क्याह—व्यक्ताविति । अन्वय-
व्यतिरेकावगम्यसामान्यमात्रशक्त्यपर्यालोचननिबन्धनत्वसाम्यात् व्यक्तिपक्षे दर्शिते,
सम्बन्धादीनामपि वाच्यत्वं कस्मान्न स्यादित्याशङ्कोत्थानात्तात्पर्यालोचनेन च व्यक्तिपक्षे
निराकरणसिद्धेनं भाष्यकृतोपन्यस्ता इत्यर्थः । नन्वनुपन्यासाद्भाष्यकृतोऽसत्त्वाभिप्रायः
निष्प्रयोजनत्वाभिप्रायो वा कस्मान्न कल्प्यत इत्याशङ्क्याह—न चेति । सद्भावप्रयोजन-
योरुक्तत्वान्न तयोरभिप्रायोर्मध्ये कश्चित्सम्भवतीत्याशयः । एतस्माद्भाष्यकाराप्रदर्श-
नात्कारणादित्यर्थः । नन्वेवं सति व्याख्यातृभिरुपपत्तयोऽपि सर्वेषु पक्षेषु प्रत्येकमपन्य-
स्योपन्यस्य निराकार्या इत्याशङ्क्याह—दर्शिताष्वपीति । शब्दशक्त्यपर्यालोचनस्य पूर्वपक्ष-
बीजस्य सर्वेषु तुल्यत्वादित्याशयः ।

६४४ मीमांसादर्शनम् [ सू०
का पुनरिति भाष्येणाकृतिव्यक्त्योः प्रश्नपूर्वकं स्वरूपनिरूपणं कृतम् । तस्य
प्रयोजनमाह-ततश्चेति । विषयावधारणं विचारमुखम् । ननु सम्बन्धादीनामपि विचार-
विषयत्वात्किमिति स्वरूपं न निरूपितमित्याशङ्कच प्राधान्येनाकृतिव्यक्त्योरेव विचार-
विषयत्वमनन्तरोक्तम् ततश्चेत्यनेन कारणतया परामृष्टम् । अकृतित्वस्वरूपनिरूपणस्य
पौनरुक्त्यमाशङ्कते-नन्विति । परिहरति - सत्यमिति । मात्रशब्दं सर्वसामान्यव्याप्त्यर्थ-
त्वेन व्याख्यातुं भाष्यपाठपूर्वकं सामान्यानि विभजति-द्रव्येति । प्रथमशब्देन परशब्दः
कुतश्चिद्व्यावृत्तत्वात्सर्वसामान्योक्तत्वाभिप्रायेण व्याख्यातः । गुणत्वकर्मत्वयोरादिशब्दे-
नोपादानम् । द्रव्यत्वावान्तरसामान्यानि विभजति- पुनरिति । वायुत्वादीनां भिन्नतेत्यर्थः ।
पृथिवीत्वस्य तद्भेदघटत्वादिसामान्योक्त्या ज्ञातुं शक्यत्पादनुपन्यासः मनोभेदस्य
चात्मभेदाधीनत्वादात्मत्वसामान्योक्त्यैव मनस्त्वसामान्यसिद्धेरनुपन्यासः । पृथिवी-
त्वावान्तरसामान्यावधिभेदेन विभजति-- पृथिवीत्वादिति । पृथिवीत्वात्परं पाश्चात्यं घटत्वं
घटव्यक्तिषु समाप्य, एतेषु घटत्वं तद्व्यक्तिष्वन्यं सामान्यमित्यर्थः । घटत्वादीन्यन्यानि
घटत्वेनैव व्याख्यातानि । वृक्षत्वात्तु पृथिवीत्वावान्तरसामान्यात्परं शिंशपात्वाद्येवान्त्यं
सामान्यमित्याह-वृक्षत्वादिति । शरीरत्वात्परं गोत्वादीत्याह-शरीरत्वाच्चेति ।
मनुष्यत्ववाची पुंस्त्वशब्दः । गोत्वात्परस्य सामान्यस्याभावात् त्यागेनाश्वत्वात्परं
वाजिकत्वाद्यन्त्यं सामान्यमित्याह-वाजिकत्वादि चेति । ननु कर्कत्वशोणत्वादेरप्यवान्तर-
सामान्यस्य भावान्न वाजिकत्वादेरन्त्यतेत्याशङ्क्य - कर्कादित्वेति । अश्वत्वैकार्थसम-
वायिशुक्लावान्तरसामान्यं कर्कत्वम् । रक्तावान्तरसामान्यं शोणत्वमित्यर्थः । हस्तित्वात्परा
भद्रादिजातयोऽन्त्या इत्याह - हस्तित्वादिति । आदिशब्देन मृगजात्युपादानं ताश्च
दिङ्नागकुलजातास्वेव हस्तिव्यक्तिषु वर्तन्त इति दिङ्नागकुलशब्देनोक्तम् । मनुष्यत्वात्प-
रोऽवान्तरसामान्यभेदो ब्राह्मणत्वं ग्राह्यत्वात्सामान्यावान्तरभेदात्कौण्डिन्यत्वाद्दी सामान्ये
समाप्यत इत्याह पुंस्त्वादिति । द्रव्यावान्तरसामान्यानि विभज्य, गुणकर्मावान्तर-
सामान्यानि विभज्य, गुणकर्मावान्तरसामान्यानि विभक्तुमाह -तथेति । गुणत्वस्य रूपतादि
यदवान्तरसामान्यम्, कर्मत्वस्य च जन्मतादि, ततः परं यच्छुक्लत्वादिरूपावान्तरसामान्यं
तच्छुक्लत्वादिसामान्यव्यक्तिभूतेषु भासुरधूसरादिषु गुणेषु प्रतितिष्ठतीति समाप्यते ।
शुक्लत्वादेः परं सामान्यं नास्तीत्यर्थः ।
ये तु शुक्लत्वाद्यवान्तरसामान्यस्य कर्कत्वादेर्व्यक्तिभूता गुणाः तेषु शुक्लत्वादि न
प्रतितिष्ठतीति विशेषसूचनार्थस्तच्छब्दः : असिद्धस्य कर्तुः स्वात्मलाभफलकव्यापारसामान्यं
जन्मत्वम् । सिद्धस्य कर्तुरनात्मलाभफलकव्यापारसामान्यं- यागत्वादिशब्देनोक्तम् ।
कर्मत्वावान्तरसामन्यस्य जन्मतवस्यावान्तरसामान्याभावात्तत्यागेनान्यात्मलाभफलक-
सिद्धकर्तृव्यापारात्मककर्मावान्तरसामान्यानि यागत्वादीनि विभजति - कर्मणामपीति ।
कर्मावान्तरसामान्यं यागत्वादि यजतिददातीत्यादिभिर्धातुभिर्विभागेनोक्तमित्युक्तेन यजदेव-
पूजासङ्गतिकरणदानेषु ह्रुदानादनयोर्दुदाञ्दान इति त्रयाणामपि दानवाचित्वेन पर्यायतया

३० ] प्रथमाध्याये तृतीयपाद। ६४५
स्मृतत्वात्कथं विभागार्थं हेतुतेत्याशङ्कयाऽपर्यायेत्युक्तं प्रक्षेपपरस्वत्वापादनवाचित्वेन लोक-
तोऽर्थभेदावगतेर्व्याकरणस्य शब्दान्वाख्यानमात्रार्थत्वेनार्थतात्पर्याभावात्स्वत्वनिवृत्त्यंशोप-
लक्षणमात्रार्थत्वेन च यजिजुहोतिस्मृत्योर्दानशब्दोपपत्तेर्दानपर्यायस्मृत्योत्सारणमिव त्याग-
त्वादेरप्यवान्तरविभागोऽभ्यासादिभिः क्रियत इत्याह—प्रविभज्यत इति । विधानशब्देनास-
कृद्विधिरभ्यासो—नासकृच्छ्रु तिमात्राभित्युक्तम् । संख्योत्पत्तिगता द्वयादिका संख्याऽप्यन्य-
लिङ्गैव । गुणो पूर्वंसंयोगाह्रैः, अनुपादेयसम्बन्धसचिवो सन्निधिः प्रकरणान्तरम् ।
ननु यागत्वदिजात्यभ्युपगमे यजत्यादीनामपि विचारविषयत्वोपपत्तेर्जातिशब्दा एव
चिन्त्यत इति किमित्युक्तमित्याशङ्कयाह—अन्ये त्विति । कर्मणामेव यागहोमादिरूपेण
भेदः, न यागादीनां ज्योतिष्टोमदर्शपूर्णमासादिरूपेणेति येषां मतम्, तदभिप्रायेण जातिशब्दा-
नामेवोदाहरणतोक्तेत्याशयः । किं तेषां यागादिभेदाभावभ्रान्तौ कारणमित्यपेक्षायाम् अपि
वाऽव्यतिरेकाद्रूपशब्दाविभागाच्च गोत्ववदेककर्म्यं स्यान्नामधेयं च सत्त्ववदिति (६.३.१२)
षष्ठाधिकरणसिद्धान्तसूत्रगतमैककर्म्यशब्दं भ्रान्तिकारणं दर्शयितुमाह—अपि चेति । ऐक्य-
शब्दोक्तस्य प्रत्यभिज्ञानस्य सादृश्यनिमित्तत्वाशङ्कानिवृत्त्यर्थं देवतोद्देशपूर्वकद्रव्यत्यागात्मक-
रूपाभेदात्तत्प्रतिपादकयज्यादिशब्दाभेदाच्च कर्मभेदे प्रमाणाभावान्न सादृश्य—निमित्तता
युक्तेत्युक्तम् । द्रव्यान्तरेण नीवारादिना कृतस्य कर्मणो व्रीह्यादिद्रव्यकादर्शपूर्णमासादेर्या-
गाद् भेदापत्तेर्न प्रतिनिध्युपादानं युक्तमिति प्रतिपादनार्थेन 'क्रियाणामाश्रितत्वादू द्रव्यान्तरे
विभागः स्यात् (६-३-११) इति पूर्वपक्षसूत्रेणोक्तमाश्रयभेदेन भेदं निराकत्तुं गोत्ववदिति
दृष्टान्तितम् । यथा सत्त्वस्य गोत्वादेः पदार्थस्य गौरित्याद्यभिन्नं नामधेयमभेदापादकम्, तथा
प्रतिनिधिनिष्पादितेऽपि कर्मणि दर्शपूर्णमासादिनामधेयं याज्ञिकैः प्रयुक्तमभेदापादकमिति
युक्त्यन्तरम् । प्रत्यभिज्ञानेनैवैक्ये सिद्धेऽभ्युच्चयमात्रत्वान्नेहोपन्यस्तम् । प्रतिनिधिनिष्पा-
दितकर्मविषयविषयस्याप्यस्य न्यायस्य विध्यन्तरविहितेष्वपि तुल्यत्वं मन्वानानामभि-
प्रायेणैतदुदाहृतम् । एवं सामान्यानि विभज्य, सर्वव्याप्त्यर्थत्वेन भाष्यं व्याचष्टे—
एवमिति । नन्वाकृतिशब्दस्य संस्थानवाचित्वमक्षपादाद्युक्तं परित्यज्य, जातिवाचित्वं
किमित्युक्तमित्याशङ्कयात्मादिषु द्रव्येषु, गुणकर्मसु चाभावादित्याह—नेति ।
क्व पुनः संस्थानमस्ति, क्व वा नेत्यपेक्षायामाह ।
पार्थिवेषु संस्थानं स्वाभाविकम्, जन्मादिषु औपाधिकमिति निरूपणम्—सर्वेषु हीति ।
पार्थिवेषु स्वाभाविकं संस्थानम् । अग्नेर्ज्वलनादिन्धनसंस्थानानुसारिसंस्थानभेददर्शनात् तोयस्य
चाधारभूते पात्रसंस्थानानुसारिसंस्थानभेददर्शनाद्, घटाद्यवच्छिन्नाकाशस्य चावच्छेदकघटादि-
संस्थानानुसारिसंस्थानभेददर्शनाद्, वायोश्च घटाद्यवच्छिन्नाकाशसञ्चारिणो घटादिसंस्थाना-
नुसारिसंस्थानभेददर्शनादौपाधिकम् । यद्यपि क्वचिद् वृष्ट्युदकोद्भवंगतज्वालादौ पार्थिव-
द्रव्यपरिग्रहाभावेऽप्याकारः संस्थानापरपर्यायः प्रतीयते, तथापि विलक्षणाकारस्याप्यग्नि-
तोयव्यक्तिष्वग्नितोयशब्दप्रयोगान्नैकशब्दवाच्यत्वयोग्यः सर्वाग्नितोयव्यक्त्यनुवृत्तैक आकारश्च
पद्यरचनात्मकसंस्थानशब्दवाच्यो योऽभिधेयाकृतिकलक्षणं स्यादित्यनुवृत्तिशब्देन सूचितम् ।

६४६ मीमांसादर्शनम् [ सू०
कल्प्येतेत्यनेनौपाधिकत्वं दर्शितम् । दिगादीनां तु न स्वाभाविकं संस्थानम्, भाव्यौपाधिक-
मित्यर्थः । नन्वनुगतैकाकारप्रत्ययवेद्यत्वाज्जातिरप्याकाराभावे न सम्भवतीत्याशङ्क्याह—
सामान्येति । संस्थानाख्याकाराभावेऽप्येकाकारप्रत्ययवेद्यः सर्वस्वव्यक्त्यनुगतो विजाती-
येभ्यो व्यावृत्तो निरालम्बनबुद्ध्ययोगाद् ब्राह्मण्यादिवन्नापह्नोतुं शक्य इत्याशयः ।
सर्वेषु स्वविशेषेष्वनुवृत्तिरेव रूपं यस्येति विग्रहः । उपसंहरति—तस्मादिति ।
नन्वाकृत्यादिषु संस्थानासम्भवेऽपि गवादिषु सद्भावाद् गवादिशब्दानां संस्थानात्मका-
कृतिवाचित्वं भविष्यतीत्याशङ्क्याह—संस्थानस्य चेति । नानाव्यक्त्यनुगतनित्यसामान्या-
भ्युपगमात्संस्थानस्याकृतित्वे सामान्यं वाच्यमिति व्यवहारो न युज्यत इत्यर्थः । संस्थान-
सामान्यस्य त्वाकृतिलक्षणत्वेन गोत्वाद्याकृतीनां वैलक्षण्यं सिद्ध्येदित्याह—अथेति ।
नन्ववान्तरसंस्थानसामान्यस्याकृतित्वमभ्युपगमान्न सङ्करापत्तिरित्याशङ्क्याह—न चेति ।
गोशब्दालम्बनत्वासम्भवे कारणमाह—तस्य हीति । नन्वेवं सति संस्थानस्याकृतित्वशङ्का-
कारणाभावात् किं तन्निराकरणार्थेन सर्वसामान्यानामाकृतित्वमभिधानेनेत्याशङ्क्याह—
तेनेति । येन संस्थानस्याकृतित्वं न युक्तम्, तेन निराकृतमिति । तेनेत्यस्य योजना शङ्को-
पोद्वलनाय दृष्टान्ताभिधानम् ।
ननु सामान्यशब्देनैव संस्थानशङ्कानिवृत्तिसिद्धेः सर्वसामान्यव्याप्त्यर्थो मात्रशब्दोऽनर्थक
इत्याशङ्क्याह—अतश्चेति । सर्वं सामान्यमाकृतिरित्यभिप्रेत्य यो मात्रशब्दः प्रयुक्तः,
सोऽतः शङ्काव्यावर्तनात् कारणाच्छङ्काव्यावृत्त्यर्थमिति, यावदिति योज्यम् । ऊहितशङ्का-
निवृत्त्यर्थंश्चकारः । व्यक्तौ च सर्वशब्दानां वाच्येहाकृतित्वेन विवक्षिता, न सामान्यान्त-
राणीति शङ्कान्तरनिराससूचनार्थो वा ।
व्यक्तिस्वरूपनिरूपणार्थंस्यासाधारणेति भाष्यस्यान्येषां व्याख्यानं दूषयितुमुपन्य-
स्यति—असाधारणेति । गौर्गौरित्येकाकारप्रत्ययस्य सामान्याख्यानुवृत्ताकारविषयत्वाच्छा-
बलेयो बाहुलेय इति अनेकाकारप्रत्ययस्य च विशेषाख्यव्यावृत्ताकारविषयत्वान्न तद्व्यति-
रिक्ताकारिभूतवस्तुसद्भावे प्रमाणमस्तीति, व्यक्तिशब्दस्य विशेषसमूहवाचित्वेन, वृक्षा
वनमितिवद्वचनभेदे दोषाभावात् वृक्षाणामाश्रयो वनमितिवच्चाश्रय ( विशेषाणामाश्रयो
व्यक्तिरिति 'अग्नेरुत्तानामाश्यस्तु' व्यवहारस्य वृक्षाणामाश्रयो वनमितिवदुपपत्तेरित्यर्थः )
व्यपदेशोपपत्तेः कर्म्मधारय एव युक्त इत्याशयः ।
'आविर्भावतिरोभावधर्मकेष्वनुयायि यत् ।
तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद् भवेद् ॥' अ० सू० श्लो० १५२
इत्यनेन न्यायेन प्रत्यक्षसूत्रावयवानुवृत्तव्यावृत्तव्यतिरिक्तस्य धर्मिणः साधितत्वात्तद-
पह्नवो न युक्त इत्यभिप्रायेण दूषयति—तत्विति । साधारण्यत्वविशेषाणां नासाधारण-
व्यक्तात्मकत्वं युक्तमित्याह—खण्डेति । एतदेव व्याचष्टे -- खण्डेति । अन्योऽपीत्यने-
नान्तरशब्दो शाबलेयवर्णेऽपि शबलापत्य इत्येवं व्याख्यातः शबलाशब्देन च तच्छब्दः