मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
६०० मीमांसादर्शनम् [ सू०
तयोरनादित्वेऽवगम्यमानञ्चासौ वेदविधिश्चेति वेदविधित्वेनावगम्यमानत्वं हेतुः। इतरेषामवगम्यमानो वैदिको विधिर्मूलं येषामित्यवगम्यमानवेदविधिमूलत्वं वैदिकस्य विधेरनादित्वाक्षेपकत्वे वेदादीनां स्वरूपविधयः कार्यविधयः साधनविधयश्च दृष्टान्तिताः। ध्वनिमात्राण्यसाधूनीत्यादिना गव्यादीनामवाचकत्वस्य लोकविरुद्धत्वं यदुक्तं तत्परिहारायानुभाषते—यस्त्विति। भेर्यादिशब्दश्च मातृकाक्षपाठश्च प्रसिद्धानि च न्यूनवर्णान्यतिरिक्तवर्णानि विपर्यस्तवर्णानि च यानि पदानि तद्व्यतिरिक्ता ये प्रसिद्धा गव्यादयः शब्दाः। तेषां मध्य इत्यर्थः। परिहरति—तत्रेति। एकार्थविषयेषु सदृशशब्दे- ष्बैकस्य शक्तौ कॢप्तायामितरेभ्यस्तदशक्तिजत्वेनापि प्रतीत्युपपत्तेरेकस्यैव शक्तिरिति निर्णीतेऽपि, कस्यैकस्येत्यनिर्णयात्संमुग्धवाचके लोके सत्यविरुद्धो लक्षणाद्वाचकनिर्णयः। यदि तु लक्षणमनाहत्यागृह्यमाणविशेषत्वात्सर्वेषां वाचकत्वं कश्चिद्वदेत्तं प्रति स्मृत्याचार- बाधो वाच्य इत्यर्थः। श्लोकं व्याचष्टे—लोकेति। नन्वेवं सत्यवाचकत्वप्रतिज्ञाया लोक- विरोधः प्रथमपादे कथमुक्त इत्याशङ्क्याह—तर्केणेति। सम्बन्धग्रहणात्पूर्वं यस्मान्न गमयत्यतः गवादेर्नाभिधाशक्तिर्देवदत्तपदे यथेत्यनुमानस्य लोकेऽपेक्षितवाचकावाचकविवेक- हेतुत्वाभावाल्लोकविरोधः। स्मृतेस्तु तदपेक्षितविवेकहेतुत्वादविरोध इत्याशयः। दृष्टान्तं विवृणोति—यथैवेति। वर्णविवेकावधारणस्य प्रत्यक्षत्वेनोक्तत्वात्स्मरणादेवेत्यवधारणं सहकार्यान्तरमात्रनिवृत्त्यर्थं लोकविरोधाभाव इत्यनेन स्मर्यमाणस्य तु वाचकावाचकविवे- कस्य ब्राह्मणादिविवेकस्येव न लोकविरोध इति तदध्याहारेणोत्तराद्धं योजितम्। विपरीत- बाधप्रतिपादकत्वं नाध्याहारं विना स्मर्यमाणे विरोधो बाध इत्येवमन्यथा व्याचष्टे— यथा चेति। स्मृत्या बाध इति विग्रहः। ननु निर्मूलत्वात् स्मृतेर्न बाधकत्वं युक्तमित्या- शङ्क्याह आदितश्चेति। प्रमाणमूलत्वेन स्मृतेर्बाधकत्वोपपादनायादितः—स्मृते- रित्युक्तम्। कुतः सिद्ध इत्यपेक्षिते—प्रत्यक्षेणेत्युक्तम्। नन्ववैयाकरणैरनवगमान्नास्य प्रत्यक्षता युक्तेत्याशङ्क्य—कुशलैरित्युक्तम्। यथा मातापितृसम्बन्धस्मृतिकुशलैर्ब्राह्मणादि- भिन्नो ब्राह्मणभेदोऽवगम्यते, तथा प्रकृतिप्रत्ययव्याख्यानकुशलैः साध्वसाधुविभाग इत्यर्थः। यद्यप्यर्थ- प्रत्यायनाङ्गत्वलक्षणं साधुत्वं लिङ्गादवगम्यम्, तथापि तदाश्रयस्यानपभ्रष्टशब्दरूपस्य प्रत्यक्षताऽभिप्रेता। एवमसाधुत्वमुपन्यस्यापभ्रष्टरूपस्येत्यदोषः। अर्थबोधानपेक्षा तु नानपभ्रष्टरूपता। साधुत्वमेकवर्णेऽपि प्रसङ्गादिति वर्णितम्॥ ननु स्मृतीनां शास्त्रमूलत्वस्योक्तत्वात्तदविरुद्धं व्याकरणस्मृतेः प्रत्यक्षमूलत्वमभिधान- मित्याशङ्क्याह—यो नामेति। फलोत्पत्तेरनियतकालत्वात्सम्बन्धस्यानियतकालत्वं साध्व- साधुविवेकस्य तु प्रत्यक्षग्राह्यत्वोपपत्तेः, तदपह्नवे न केवलं स्मृत्या बाधः, किं तु प्रत्य- क्षेणापीत्याह—यस्य त्विति। सङ्गीतशास्त्रे स्वरगतरागविवेकप्रकीर्णकप्रबन्धताल-वाद्य- नृत्ताख्याः षडाध्यायाः।
२९ ] प्रथमाध्याये तृतीयपादः ६०१ तत्र—आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः। देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ॥ ब्रह्मग्रन्थिस्थितः सोऽथ क्रमादूर्ध्वंपथे चरन् । नाभिहृत्कण्ठमूर्द्धास्येष्वाविर्भावयति ध्वनिम् ॥ नादोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टापुष्टश्च कृत्रिमः । इति पञ्चाभिधावन्तः पञ्चस्थानस्थितीः क्रमात् ॥ व्यवहारे त्वसौ त्रेधा हृदि मन्द्रोऽभिधीयते । कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ॥ तस्य द्वाविंशतिर्भेदाः श्रवणाच्छ्रुतयो मताः । स्यातां निषादगान्धारौ द्विश्रुती धैवतर्षभौ ॥ त्रिश्रुती वेदश्रुतयः षड्जमध्यमपञ्चमाः । मयूरचातकच्छागक्रौञ्चकोकिलदर्दराः ॥ गर्दभः सप्तषड्जादिक्रमादुच्चारयन्त्यमी । इत्यादिलक्षणैः षड्जादीनां विवेके द्वितीयेन रागविवेकसंज्ञकेनाध्यायेन कृते तदभ्याससंस्कृतेन श्रोत्रेण यथा षड्जोऽयमृषभोऽयं गान्धारोऽयं मध्यमोऽयं पञ्चमोऽयं धैवतोऽयं निषादोऽयमिति स्वरविवेकज्ञानं जायते । तथा यस्य व्याकरणस्मृतिजनिते साध्वसाधुविवेके पूर्वं जाते, पश्चाद्व्याकरणश्रवणाभ्याससंस्कृतश्रोत्रस्य साध्वसाधुविवेक- विषयं प्रत्यक्षं जायते । तं प्रति साध्वसाधुसङ्करं साधयतः प्रत्यक्षबाधो ब्राह्मणादिवर्ण- सङ्करसाधनवद्भवतीत्यर्थः । अतस्त्वपक्षस्यैव प्रमाणविरोधः नास्मत्पक्षस्येत्युपसंहरति— तेनेति । प्रत्यक्षग्राह्यत्वे सति तत्पूर्वकस्यानुमानादेरपि सम्भवात्समस्तशब्दः । यच्चादृष्ट- विषयवच्छब्दानां साध्वसाधुतेत्यादिना साध्वसाधुविवेकस्याप्रामाणिकत्वेन विधिनिषेध- विषयत्वायोगान्न धर्माधर्मसाधनत्वरूपापि साध्वसाधुतेत्युक्तम् । तदपि साध्वसाधुविवेकस्य सप्रमाणकत्वाभिधानेन परिहृतं भवतीत्याह—तेनेति । ननु— 'साधुत्वं नेन्द्रियग्राह्यं लिङ्गं वाऽस्य न विद्यते । शास्त्रस्यं विषयो नैष प्रयोगेऽप्यस्य सङ्करः ॥' इत्यन्यैरुक्तम् । तस्य कः परिहारः ? इत्याशङ्क्याह—यस्त्विति । इन्द्रियग्राह्यत्वं विवृणोति—ग्रस्तेति । ग्रस्तमविभक्तिकोच्चारणं निरस्तं विश्लेषितसंयोगम्, अम्बूकृतं सनिष्ठीवितम् । संवृतकलप्रगीतोपगीतक्ष्विण्णरोमशादीनामादिशब्देनोपादानम्, दोषवर्जि- तानां नियतह्रस्वादिमात्रिकालामभिव्यङ्ग्यानां यथावृद्धव्यवहारं लक्षितेन क्रमेण ग्राह्याणां वर्णानामिन्द्रियग्राह्यत्वमित्यर्थः ।
६०२ मीमांसादर्शनम् [ सू० नन्वेवमप्यर्थप्रत्यायनाङ्गत्वलक्षणस्य साधुत्वस्येन्द्रियग्राह्यत्वं नास्तीत्याशङ्क्य, वाचकत्वस्य साधुत्वस्याविनष्टत्वेन निरूप्यत्वात्तद्विषयस्य ज्ञानस्य श्रोत्रजन्यत्वेनेन्द्रिय- ग्राह्यत्वं नास्तीति वक्तुम्—अविनष्टेत्युक्तम् । प्रकृतिप्रत्ययान्वाख्यानस्मृतिसहकृतस्य च श्रोत्रस्याविनष्टरूपविषयज्ञानहेतुत्वाद्वैयाकरणस्याज्ञानं युक्तमिति—स्मर्यमाणशब्देनोक्तम् । यथोदात्तादिरूपज्ञानश्रोत्रं स्मृतिमपेक्षते तद्वदविनष्टरूपज्ञानेऽपीति दृष्टान्तार्थः । लिङ्गग्राह्यत्वं विवृणोति—तदुत्तरेति । प्रत्यक्षेण साध्वसाधुविवेकग्रहणोत्तरकालं यत्प्रवृत्तं लक्षणम्, तद्गतं प्रकृतिप्रत्ययलोपादिसधुत्वाव्यभिचारितया लक्षणेनावगतत्वादु- दाहृतशब्दे दृष्टान्तेन शब्दान्तरे साधुत्वानुमानाय लिङ्गं भवतीत्यर्थः । वृद्धप्रयोगगम्यश्च हि शब्दार्थः सर्व एव न । इत्यनेन न्यायेन शब्दार्थस्य वृद्धप्रयोगमात्रावसेयत्वावधारणात् स्रवन्तीत्यादिषु शब्देषु वृद्धाप्रयुक्तत्वेनार्थप्रत्यायकत्वाभावात्साधुत्वरहितेष्वपि प्रकृतिप्रत्ययान्वाख्यानदर्शनात् व्यभि- चारमाशङ्क्य, व्यवहारगतार्थप्रतिपत्तिसहितत्वं विशेषणं कृतम् । अस्मादेव विशेषणादर्थ- प्रत्यायनार्थत्वम् साधुत्वलक्षणं वार्त्तिककृतोऽभिप्रेतमिति ज्ञायते । शास्त्रविषयत्वं विवृणोति — शास्त्रस्य चेति । श्रुतिस्मृतिरूपत्वेन क्रत्वर्थपुरुषार्थ- साधनत्वप्रतिपादकत्वरूपेण विधिनिषेधनिबन्धनाथंनार्थज्ञापकत्वरूपेण कार्यस्वरूपज्ञापकत्व- रूपेण चेति चतुर्द्धा द्वैविध्यं विवृतम् । साधुत्वमिन्द्रियग्राह्यमिति साधुत्वशब्देनासाधुत्वस्या- प्युपलक्षितत्वादनर्थज्ञानार्थंनिषेधशास्त्रविषयत्व (मसाधुत्वस्य दर्शितम् । अर्थ-साध्वसाधुत्व- रूपो विषय इत्यर्थः । ननु साध्वसाधुशब्दप्रयोगयोरिष्टानिष्टसाधनत्वज्ञापने साध्यसाधनभाव- विषयत्वाच्छास्त्रस्य साध्वसाधुविषयत्वं न स्यादित्याशङ्क्यैवंविध एवान्योऽपीत्युक्तम् । अन्योऽपि यागादिरेव विधिरेव विषय इत्यर्थः । द्विविधशास्त्रविषयत्वमेवोपपादयति— मविनष्टैरिति । साधुशब्दप्रयोगस्य स्वर्गसाधनत्वम् । 'एकः शब्द इत्यस्य कामधुक्शब्दयुक्तस्य शास्त्रस्य विषयः' यज्ञोपकारसाधनत्वव्याकृता वागुद्यत इत्यनारभ्याधीतस्याप्यश्वप्रतिग्रहेष्टि- न्यायेन व्याकृतत्वस्य लौकिकवैदिकवाग्वदनविषयकतवे क्रत्वर्थपुरुषार्थत्वलक्षणावैरूप्यापत्ते- र्लौकिकमात्रविषयत्वेऽपि फलकल्पनागौरवापत्तेर्वैदिके कर्मणि या वागुद्यते, सा व्याकृते- त्यर्थावधारणात् विषयः, अपशब्दभाषणस्य प्रतिषिद्धाचरणनिमित्तक्रतुवैगुण्यरूपानर्थसाधनत्वं 'ब्राह्मणेन न म्लेच्छितवा' इति निषेधशास्त्रस्य ज्योतिष्टोमप्रकरणाधीतस्य विषयः, अस्य निषेधस्यानृतवदननिषेधवत्प्राकरणिकं क्रत्वर्थत्वं यज्ञे कर्म्मणि स नियमोऽन्यत्रानियम इत्यादिना महाभाष्यकृताऽप्युक्तमिति सूचयितुम्—यज्ञे कर्मणीत्युक्तम् । 'वाग्योगवित् दुष्यति चापशब्दैरिति स्मृत्यापि वाचैव हि मनसा च यज्ञो वर्त्तत इत्यादिलिङ्गदर्शना- द्धाग्योगशब्दस्य यज्ञपरत्वावगतेर्वाग्योगविच्छब्दस्यर्त्विग्यजमानविषयतया व्याख्यातुं शक्य- १. अयं पा० २ पु० ना०
२९ ] प्रथमाध्याये तृतीयपादः ६०३ त्वादङ्गविषयत्वम्, अपशब्दनिषेधस्यावसीयत इति सूचयितुम् - यथोक्तमित्युक्तम् । यच्च प्रतिशब्दं विधिनिषेधवाक्यानुमानकल्पनानुपपत्तेर्न साध्वसाधुतोर्विधिनिषेधविषयत्वं सम्भवतीत्युक्तम् । तत्परिहरति - द्वाभ्यामेवेति । ऋत्वर्थपुरुषार्थविध्योर्भेदेऽपि विधित्वेनैक्यं मत्वा - द्वाभ्यामित्युक्तम् । ननु वेदवचनं पुनर्वस्तुस्वरूपतद्गतगुणदोषान्वाख्यानपरं विधिप्रतिषेधानपेक्षं नैव किञ्चित्प्रमाणत्वेन सम्भवतीत्यनेन वेदस्य स्वरूपपरत्वनिषेधात्कथं स्वरूपज्ञानार्थं शास्त्रविषयता साध्वसाधुत्वयोरुक्तेत्याशङ्क्याह - न चेति । 'यावदेकाहेनाश्वो याति तावदाश्वीनं । ननु तत्राप्यविनाशी वा अरेऽयमात्मा ज्ञातव्य इत्येवंविधिपरस्यैव शास्त्रस्य स्वरूपज्ञानार्थत्वान्न तन्निरपेक्षस्येत्याशङ्क्याह अथापीति । अत्रापि तह्यर्थं- प्रत्यायनाङ्गत्वविशिष्टलक्षणानुगतस्वरूपैकोप लक्षणोपपत्तेर्यऽर्थप्रत्यायनाङ्गभूताः शब्दा लक्षणा- नुगताः ते साधवः, अन्ये चासाधवः प्रत्येत्तव्या इत्येवं ज्ञात्वा शास्त्रावधारितप्रयोजनान् शाधुशब्दान्प्रयोक्तुमिच्छेन्नानर्थंप्रत्यायनाङ्गभूताः शब्दा लक्षणेनानुगतास्ते साधवः न वा लक्षणेनाननुगता नित्येवं विधिनिषेधपरयोः शास्त्रयोः साध्वसाधुस्वरूपज्ञानार्थत्वं भविष्य- तीत्याशयः । यावद्रूपमित्यनेन द्वयोरेव विधिनिषेधयोरेकेनोपलक्षणेन - सर्वशब्दापशब्द- व्यापित्वमुक्तम् । शास्त्रस्य विषयोऽप्येष इत्यपिशब्दसूचितमुपमानादिप्रमाणविषयत्वं दर्शयन्नुपमानं तावद् द्विविधमाह- निः सन्दिग्धेति । यो ह्यविनष्टत्वेन निःसन्दिग्धो वृद्धप्रयुक्तो देवदत्त- शब्दो, यश्च विनष्टत्वेन निःसन्दिग्धो बालप्रयुक्तस्तत्तु शब्दस्तत्साहश्यं यच्च पटुकरणाभि- व्यक्त्यत्त्वादिधर्मसामान्यभूतस्वरूपं गोशब्दादेरुपमानेनावगम्य पटुकरणाभिव्यङ्ग्यत्वस्य विनष्टाविनष्टरूपत्वेन देवदत्तादिशब्दे व्याप्तिदर्शनाद् गोशब्दादौ विनष्टाविनष्टरूपत्वेन देव- दत्तादिशब्दे व्याप्तिदर्शनाद् गोशब्दादौ विनष्टाविनष्टरूपत्वानुमानं सम्भवतीत्युपमानपूर्वका- नुमानविषयत्वं साध्वसाधुत्वयोरुपचारादुपमानविषयत्वेन विवक्षितमिति - शष्यशब्देन सूचितम् । सङ्कीर्णं साधुविषयं चेदमुपमानं लक्षणानुगतवैदिकशब्दसादृश्यं लक्षणानुगतत्वस्या- विनष्टत्वेन वैदिकेषु व्याप्तिदर्शनात् लौकिकेष्वविनष्टत्वानुमानमित्येतदप्युपमानपूर्वकमेवानु- मानमसङ्कीर्णसाधुत्वविषयमिति दर्शयितव्यमित्यनेन सूचितम् । सङ्कीर्णसाधुत्वविषयां तावदर्थापत्तिमाह - तथेति । लक्षणनैरपेक्ष्याभिप्रायो लौकिकशब्दः । वृद्धव्यवहारनिबन्ध- नेनार्थप्रत्ययेन द्योत्थापिता वाचकत्वविषयार्थापत्तिः, तया विनष्टस्य स्वाभाविकाभिधान- शक्तत्वरूपवाचकत्वानुपपत्तेरविनष्टरूपं साधुत्वं गाव्यादिशब्दसङ्कीर्णं निश्चीयत इत्यर्थः । असङ्कीर्णसाधुत्वविषयामर्थापत्तिमाह - तत् इति । अन्याशक्तिनिमित्तं तदनासक्तिनिमित्तं स्पृष्टादिकरणवैगुण्यनिमित्तं वा यत्सम्भवत्यपभ्रष्टं रूपम्, तद्वर्जितस्य केवलस्य साधोर्यल्लक्षणे- नान्वाख्यानम्, तदन्यथानुपपत्त्या गोशब्दादेरेव साधुतेति सिद्धम् । गवादिराब्दनियतमसङ्कीर्ण- साधुत्वज्ञानमित्यर्थः । गाव्यादिशब्दानां लक्षणाभावस्यासाधुत्वं विनानुपपत्तेरभावपूर्वक- यार्थापत्त्या साधुत्वाभावनिश्चयात्तद्वारेणाभावस्यापि साध्वसाधुत्वनिर्णयो विषय इत्याह- अपभ्रंशेष्विति ।
६०४ मीमांसादर्शनम् [ सू० ननु प्रत्यक्षादित्रयविषयत्वाभिधानमात्रेण परोक्तश्लोकप्रतिकञ्चुकसिद्धेरुपमानादि- त्रयविषयत्वाभिधानं किमर्थमित्याशङ्कयाह—इतीति। व्यापारशब्देनाभावोपमानयोः साक्षात्साध्वसाधुत्वनिर्णायकत्वाभावेऽपि व्यापारसद्भावात्तद्विषयतेति सूचितम् । प्रयोगेऽप्य- स्त्यसङ्कर इत्येतद्विवृणोति—यद्यपीति । मातापितृसम्बन्धकुशलानां ब्राह्मणादिविवेक- वत्प्रकृतिप्रत्ययान्वाख्यानकुशलानां साध्वसाधुशब्दविवेकोऽस्तीत्यर्थः । किञ्च साधुत्वं नाम दोषवर्जितत्वम् । तच्चान्यत्रापि परीक्षकगम्यं दृष्टमित्याह—यथा चेति । रत्नतत्त्वपरीक्षका यथा पद्मरागादीनि विवेकेन जानन्ति, तथा परे शब्दानामदोषवर्जितत्वम्, तच्चान्यत्रापि परीक्षकत्तत्त्वपरीक्षकाः साधुत्वं विवेकेन जानन्तीत्यर्थः । लक्षणस्य च साध्वसाधु- विवेकोपायता रत्नपरीक्षायामेव दृष्टेत्याह—यथेति । एवं च साध्वसाधुविवेकस्य प्रत्यक्षादि- नावगतिसम्भवे तन्निराकरणाच्च तत्पूर्वकंपुरुषवचननिराक्रियापि सिद्धेति यदुक्तम्, तदपि- प्रतिहतं भवतीत्याह पौरुषेयेति । ननु व्याकरणानुगतसाधुत्वानन्तरं प्रत्यक्षेणासङ्कीर्णसाधुत्वदर्शने माभूदन्धपम्परा- न्यायापत्तिः । सङ्कीर्णस्य तु साधुत्वस्य पूर्वंदृष्टस्य व्याकरणमात्रात् विवेकज्ञाने तदाप- त्तिरपरिहार्येत्याशङ्कयाह—यावानिति । अयमाशयः—न तावददृष्टसाधनत्वलक्षणसाधुत्व- विवेकेऽन्धपरम्परान्यायापत्तिः विधिनिषेधमूलत्वादविनष्टरूपसाधुविवेकेऽपि न तदापत्ति- र्वेदादिविद्यास्थानप्रयोगमूलत्वादिति । यच्चार्थप्राप्तश्च योऽर्थः स्यादित्यनेनार्थप्राप्तत्वात्साधुविधानानुपपत्तिरित्युक्तम्, तदनु- भाषणपूर्वकं परिहरति - यत्त्विति । यथा चतुर्थे समे दर्शपूर्णमासाभ्यां यजेत 'पौर्णमास्यां पौर्णमास्या यजेत' दर्शपूर्णमासयोश्चत्वार ऋत्विजः इत्युपात्तानामपि देशादीनामर्थ- प्राप्तत्वादविधानमिति पूर्वपक्षयित्वा, पक्षप्राप्तानामपि नियमार्थो विधिरिति नियमार्था श्रुतिरुच्येत इति सूत्रेण सिद्धान्तयिष्यते । तथात्रापि नियमार्थो विधिर्भविष्यतीत्याशयः । यच्चात्यन्तावाचकत्वादित्यनेन व्यावर्त्यासाध्वप्रसक्तेरसाधु निवृत्त्यर्थस्य नियमस्यानु- पपत्तिरित्युक्तं तदप्यनुभाषणपूर्वकं परिहरति—यस्त्विति । यत्त्वयाऽन्यनिवृत्तिफलो विधि- नियम इत्युक्तः । स नियमः, परिसंख्या वेत्यनेन किं नादौ परस्तान्नियमः किन्तु परि- संख्येत्याशयः । सा चात्यन्तव्यावृत्त्याद्विना नेष्यते, यस्तु परमार्थतो नियमः, स नित्यप्ता- मात्रकारीति किमिति व्यावृत्त्याद्विना न लभ्यत इत्यर्थः । ननु भाषणे साधूनां नित्यप्राप्त- त्वान्नियमोऽनर्थकः स्यात्, भाषणनियमे तु मोने दोषः प्रसज्येतेत्युक्तं तत्राह—सतीति । द्विधा परस्यार्थः पुरुषेण ज्ञाप्यते स्वाभिप्रायप्रकाशनद्वारेण वा तन्निरपेक्षमुख्यगौणलाक्षाणि- कैव त्रैरूप्यादिस्मरणमात्रे वा । तत्र स्वाभिप्रायप्रकाशनद्वाराथंज्ञापनमिह त्रैरूप्यस्मार- णादिद्वाराथंप्रकाशनव्यावृत्त्यर्थंभाषितव्यशब्देन लक्षणयोक्तम् । अनेन च पूर्वपक्षोक्तं दूषण- द्वयमपि परिहृतम् । शब्दव्यापारद्वाराथंज्ञानरूपे हि भाषणे साधुव्यतिरिक्तोपायाप्रसक्तेः साधुनियमानर्थक्यमपरिहार्यम् । अर्थज्ञापनमात्रे तु साधुनियमे त्रैरूप्याद्युपन्यासः शास्त्र,
२९ ] प्रथमाध्याये तृतीयपादः ६०५ काराणां विरुद्धयेत । स्वातन्त्र्येण तु सर्वदा साधुभाषणनियमे मौने दोषोऽपरिहार्यः । स्वाभिप्रायप्रकाशनद्वाराऽर्थज्ञापनं मौनिनाक्षिनिकोचादिना क्रियमाणं न श्रेयःसाधन- मित्यक्षिनिकोचादिव्यावृत्त्यभिधानेनैव सूचितम् । अतश्च भोजनादौ मौनविधाने शाकादे- र्भाषणनिवारणादि हस्तसंज्ञादिना न कार्यं शिष्टाचारविरोधपरिहारार्थं वा मौनविध्य- भावविषयत्वं साधुभाषणनियमस्य कल्पनीयम्, भाषणानुवादेन साधुनियामकत्वं कल्प्यम् । साधुभाषाशब्दस्त्वस्मिन्पक्षे विशेषणाशयः । नन्वन्यनिवृत्त्या शिष्टाचारविरोधपरिहारार्थं वा मौनविध्यभावं विना नित्यत्वायोगा- न्नियमेऽप्यन्यनिवृत्तिरवश्यं कल्प्येत्याशङ्क्याह — यद्यपि चेति । साधुस्मृत्या व्यवहिता- नामसाधूनः तदर्थप्रतिपादकत्वोपपत्तेरपभ्रंशकाले प्रयोगः सम्भवतीति विप्रकर्षाभिधायि- कालशब्दोक्तानां स्मर्यमाणावधिदीर्घकालप्रयोगरूपरूढशब्दोक्तम्लेच्छभाषणविलक्षणसाधु- सादृश्यरूपात्मककारणद्वय न्यया भ्रान्त्या वाचकत्वेनावार्चीनैर्गृहीतानामिदानीन्तनकाले प्रयोगः सम्भवतीत्यर्थः । गाव्यादिशब्दानामविवेकिलोकप्रसिद्धशब्दान्तरत्वमङ्गीकृत्य प्रसक्तिर्दर्शिता । परमार्थं- तस्तु तेषां गवादिशब्दापभ्रंशमात्रत्वेन शब्दान्तरत्वाभावाद्विनाशनिवृत्तिमात्रं नियमफल- मित्याह — अथ वेति । मा कश्चिद्विनीनशदित्येकवचनान्वयायऽध्याहार्यं विनाशनिवृत्त्यर्थत्वं नियमस्य दृष्टान्तपूर्वकमुपपादयति - तद्यथेति । तस्माद् ब्राह्मणेनेति प्रतिषेधः, तस्मादेषेति च त्रिविधिरविनष्टप्रयोगनियमार्थ इत्य- न्वयः। म्लेच्छतिधात्वर्थव्याख्यार्थत्वापभाषित्वादिति महाभाष्यकृतप्रयुक्तं धात्वन्तरं दर्शितम् । विनाशनिवृत्त्यर्थत्वोपपादनाय दुष्टः शब्द इति स्मृत्युपन्यासः । किंचिद्विनष्टस्यापि भग्नशृङ्गगोन्यायेन शब्दत्वानपायात्कथमपशब्दतेत्याशङ्क्य प्रमादादिनिमित्तेन विनाशे- त्याद्युक्तम् : अयमित्यनेनापशब्दत्वं परामृष्टम् । विनष्टस्यापि गवादिशब्दस्य म्लेच्छैर- प्रयोगात् किंनिमित्तो म्लेच्छशब्द इत्याशङ्क्य प्रकृतिप्रत्ययान्वाख्यानरूपव्यक्त्यभावेना- व्यक्तोच्चारणत्वनिमित्तता स्मरणेन सूचिता । प्रत्यक्षविधिनिषेधोपन्यासेन नात्र साधुभि- र्भाषितासाधुभिर्नेति विधिनिषेधौ कल्प्यौ; येनोक्तदोषद्वयापत्तिः स्यादिति सूचितम् । ननु प्रमादादेरभावे विनाशस्याप्रसक्तेर्भावे वा परिहर्तुमशक्तेर्निषेधो न युक्त इत्या- शङ्कते — ननु चेति । विनाशकारणनिषेधद्वारेण विनाशनिषेधो भविष्यतीति परिहरति — उच्यत इति । अशक्तेः प्रागभावरूपायाः स्वभावसिद्धत्वात् निषेधो न शक्य इत्याशङ्क्य- सामर्थ्यायेत्युक्तम् । प्रमादाशक्तभावेऽपि च त्रेधा प्रसक्तिः सम्भवतीत्यन्यथा परिहरति- अन्य इति । उपसंहरति -- तत्कथं नामेति । यत्किंचित्प्रमादाशक्तिरूपक्लेशो वा, दाक्षिण्याद्यनुवृत्तं वाऽनभियुक्तसंव्यवहारो वापभ्रंशकारणम् । तत्परिहारार्थमविनष्टशब्दप्रयोगविषयापन्नो नियम्यत इत्यर्थं । यच्च न चादृष्टार्थतापि तस्येत्यनेन दृष्टार्थत्वाच्छब्दप्रयोगस्यादृष्टार्थो—नियमो न युक्त इत्युक्तम् ।
६०६ मीमांसादर्शनम् . [ सू० त् क्रियारूपस्य नैराकाङ्क्ष्येऽपि तद्गतस्य नियमस्यादृष्टार्थत्वं विनानर्थक्यापत्तेर्युक्त- मित्यभिप्रायेणानुभाषणपूर्वकं परिहरति—यत्त्विति । ननु फलसिद्धयर्थत्वाद् अपूर्वकल्पनायात्र तदभावान्नापूर्वकल्पना युक्तेत्याशङ्क्य क्रतूपकाररूपं पुरुषार्थरूपं च फलं दर्शयितुमाह—क्रत्वर्थमिति । एतदेवोपपादयितुमेकस्य उभयत्वं संयोगपृथक्त्वादिति चातुर्थिकं सूत्रं साध्याहारमुपन्यस्यति—एकस्य त्विति । ननु तत्र दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयादिति वाक्यद्वयश्रवणात् तस्माद् गुणानां च. परार्थत्वादसंबन्धः समत्वात्स्यादि३-१-२२त्यनेन न्यायेन परस्परासङ्गतेरेकेन विहितस्य दध्नः, परेण फलबोधाद्योगात्परस्परनिरपेक्षवाक्यद्वयेन युक्तोभयरूपता । नन्विह तथाविधं वाक्यद्वयं श्रूयत इत्याशङ्कयाह—तच्चेहेति । ब्राह्मणेन न म्लेच्छितवा इति प्रकारणिकेन निषेधेनासाधुभाषणस्य ऋतुवैगुण्यापादकत्वावगतेरर्थात्साधुभाषणनियमस्य क्रत्वर्थता- वसीयते । एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग् भवतीति चानारभ्यवादेन शास्त्रशब्दस्य रूढ्या विद्यास्थानवाचित्वात्सम्प्रदायपरतया व्याख्यानानु- पपत्तेर्व्याकरणशास्त्रानुगतसाधुशब्दभाषणनियमस्य स्वर्गसाधनत्वावगतेः पुरुषार्थतावसीयत इत्यर्थः । ननु भाषणस्यार्थप्रतिपत्त्यर्थत्वेन जुह्वादिवत्पारार्थ्यादपापश्लोकश्रवणवत्स्वर्गे लोके कामधुगिति फलश्रुतेरर्थवादत्वात्पर्णमयीत्वनियमवद्दृष्टवत्साधु नियम्यादृष्टस्यापि पुरुषार्थता न युक्तेत्याशङ्कयाह--तत्रेति । यदि क्रत्वर्थस्य भाषणस्योपायनियमरूपफलश्रुतिरेषा स्यात्, ततो भवेदर्थवादस्यानारभ्यविहितस्य तु भाषणस्य क्रत्वर्थत्वे प्रमाणाभावाद् दृष्टार्थव्यवहार- हेतुत्वेन शुद्धपुरुषार्थत्वावगतेस्तस्य च नियमं विनापि सिद्धेरदृष्टफलाकाङ्क्षिणि नियमे फलनिर्देशात्फलमेवावसीयत इत्यर्थः । एतदुपपादनार्थं फलमात्रेयो निर्देशादिति सूत्रोक्तं चतुर्थन्यायं दर्शयितुम्—आत्रेयेत्युक्तम् । श्लोकं व्याचष्टे क्रत्वर्थं हीति । पुरुषार्थांश इत्य नवधारितक्रत्वर्थत्वमात्रामिप्रायेण नियमस्य पुरुषार्थंतोक्ता । अनेन च क्रत्वर्थस्यांश इति क्रत्वर्थंशब्दे विग्रहः सूचितः । यच्च न चेदं नियमापूर्वमित्याश्रयासम्भवेनेह—अपूर्वकल्पना न युक्तेत्युक्तम् । तदनुभाष्य परिहरति—यस्त्विति । पूर्वार्धेन क्रत्वर्थशब्देन साधुभाषणनियमस्यानृतवदन- वर्जनवच्छुद्धक्रतुधर्मत्वाभिधानात्, तस्य च ऋतुसंयुक्तपुरुषधर्मविषयब्राह्मणसंयुक्तवाक्य- विषयत्वायोगात्तस्मादेषा व्याकृता वागुद्यत इत्यनेन वाक्येन या वागुद्यते, साव्याकृतेति वाग्वदनानुवादेन व्याकरणानुगतत्वविधिप्रतीतिरनारभ्याधीतस्यापि चेषेति सर्वनाम्ना- सन्निहितवैदिकवाग्वदनविषयत्वप्रतीतेलौकिकविषयत्वे च फलकल्पनागौरवापत्तेर्वेदिककर्माङ्ग- भूतव्रीह्यादिपदार्थव्यवहारार्थं लौकिकशब्दे प्रयोक्तव्ये व्याकरणानुगतशब्दनियमात्तज्जन्यं यदवघातादिनियमजन्यापूर्ववत् शुद्धक्रत्वर्थमपूर्वं तदङ्गभूतेष्वेव व्रीह्यादिष्वाश्रितम्, यत्तु न
२९ ] प्रथमाध्याये तृतीयपादः ६०७ ब्राह्मणेन म्लेच्छितवा इति ज्योतिष्टोमप्रकरणाधीतापशब्दनिषेधसामर्थ्यलभ्याद्यज्ञमध्यगत- मुक्तभाषणविषयात्साधुशब्दनियमादपूर्वं तज्जञ्जभ्यमानन्यायेनापशब्दवर्जनस्य क्रतुयुक्त- पुरुषधर्मत्वावधारणेन क्रतुसाधनीभूतपुरुषाश्रितमित्यर्थः । क्रत्वाङ्गभूतानामपि पदार्थानामङ्गस्वरूपेण यदभिधानं तदर्थं तद्विषयम् यन्न भवती- त्यनङ्गत्वाभिधानार्थमित्युक्तम् । अपूर्वहेतोर्नियमस्याभिधानविषयत्वमुपचारेणापूर्व्वेऽभि- हितम् । यद्वाऽङ्गभूतस्यापि यस्यानङ्गत्वेन प्राप्तत्वेनाभिधानं यस्य स अनङ्गत्वामिधानो यजमानः, तदर्थमित्यर्थः । उत्तरार्द्धं व्याचष्टे- प्रकरणेति । ननु जञ्जभ्यमानाधिकरणन्यायेन क्रतुयुक्तपुरुष- संस्कारत्वसिद्धावपि ऋत्विजामपि संस्कारोपपत्तेः कथं यजमानसंस्कारत्वावधारणेत्या- शङ्कय, न्यायान्तरमुक्तं शुद्धक्रत्वङ्गधर्मत्वेन क्रतुयुक्तपुरुषधर्मत्वेन च क्रत्वर्थस्य साधुभाषण- नियमापूर्वस्याश्रयमुक्त्वा, पुरुषार्थस्याह- पुरुषार्थेति । पुरुषार्थवाक्येऽपि प्रयोक्त्राश्रितं साधुभाषणनियमापूर्वमित्यन्वयः । कथमित्यपेक्षायां सम्यगित्यनेन सन्निधिः प्रमाणत्वेनोक्तः । ज्ञानपूर्वकस्य प्रयोगस्यापूर्वहेतुत्वसूचनाय ज्ञातुग्रहणम् । अपूर्वजनिकायाः साधुभाषणक्रियाया जन्यस्य च स्वर्गास्य फलस्य च तदाश्रितत्वात्तदधीननिरूपणस्यापूर्वस्यापि तदाश्रितत्वं युक्तमिति योग्यतोक्ता । यथा प्रधानयागसाध्यमादिशब्दोपात्तत्वमारादुपकारकाङ्गसाध्यम- पूर्वं प्रयोगकर्त्राश्रितमनुष्ठात्राश्रितमिति दृष्टान्तार्थः । ननु वक्ता तु भाषणे सर्व इत्यनेन ब्राह्मणेनेति तृतीया सुप्रयुक्त इति चोक्तिक्रियाया वक्तुर्गुणत्वावगमात्संस्कार्यत्व निषिद्धमत आह-तृतीयेति । दृष्टान्तं विवृणोति- यथैवेति । यथा तृतीयानिर्दिष्टस्यापि शेषस्य भूतोपयोगित्वाद्वहिषु क्षारणेन प्रतिपत्ति- रूपः संस्कारः शेषधारणाद्यपात्रान्तराप्रयोजकत्वाय चतुर्थे वक्ष्यते । तथेहापि ब्राह्मणस्य ज्योतिष्टोमसाध्यफलोपभोगलक्षणकार्योपयोगित्वाद्वपनादिनेव फलग्रहणयोग्यतारूपः संस्कारो भविष्यतीत्यर्थः । यद्वा वर्जनीयाया म्लेच्छनक्रियाया वपनादिवदेव यजमानकर्तृकत्वे सिद्धे तृतीयायाः कर्तृविधानार्थत्वायोगेनानुवादमात्राद्यर्थत्वात्तस्य चान्यतः सिद्ध्यपेक्षत्वात् यागकर्तृत्वस्यैव च प्रकरणसिद्धत्वात्तद्विषयत्वेनेयं तृतीयाऽङ्गमेव प्रतिवक्तुर्गुणत्वं ब्रूते, न म्लेच्छत्वं प्रतीत्याह- यदि वेति । पुरुषार्थवाक्ये तु कमिपदादेव स्वर्गकामादिवत्प्राधान्यलाभ इत्याह-कामधुगिति । गोदोहनादिवदधिकृताधिकारशङ्कानिवृत्त्यर्थो वहिःशब्दः । पूर्वार्द्धं व्याचष्टे- नैवेति । कथं तर्हि म्लेच्छतिनान्वय इत्याशङ्कयाह- कुर्वंतेति । यागगुणत्वं च व्रीह्यादिवत्संस्कार्यत्वस्यानुकूलमेवेत्याह-यागे इति । यागोपयोगिना ब्राह्मणेन संयुक्तस्य म्लेच्छनस्यारादुपकारित्वायोगात्संस्कारत्वमेव न युक्तमित्यर्थः । ननूपयोगित्वेऽपि ब्राह्मणस्य व्रीह्यादिवत्प्राधान्यावेदकद्वितीयाद्यभावात्कथं प्राधान्याव- गतिरित्याशङ्कयाह-तच्चेति । उपयोगितैव शेषस्वीकारसामर्थ्यात्प्राधान्याक्षेपिकेत्याशयः ।
६०८ मीमांसादर्शनम् [ सू० उत्तरार्द्धं व्याचष्टे—बाह्येति । साधुशब्दप्रयोगस्य फलसाधनतैवाऽवगम्यमाना प्रयोक्तुः फलभोक्तृत्वमाक्षिपतीत्याशयः । अनेन वानप्रस्थपदं चात्र विद्यत इति परिहृतम् । यच्च न वेदोच्चारणमुच्चारयित्रर्थमित्यनेनोच्चारणस्य पुरुषार्थपूर्वंद्धारता न युक्तेत्युक्तम्, तत्परि- हरति — यद्यपि चेति । अन्यार्थाश्रितस्य निषेधस्यान्यार्थत्वे तदहर्मांसमैथुने वर्जयेदिति दर्शपूर्णमासप्रकरणाधीतं निषेधमुदाहरति — तथा हीति । नियमस्यान्याश्रितस्यान्यार्थत्वे 'खादिरं वीर्यकामस्य यूपं कुर्यादित्युदाहरणमाह—क्रत्वर्थादिति । ननु संयोगपृथक्त्वाच्च ऋत्वर्थत्वेनानुष्ठितस्य खादिरत्वस्य पुरुषार्थनियमाश्रयतास्तीत्याशङ्क्योदाहरणान्तरमाह— भोजनाच्चेति । खादिरत्वरूपेणैक्यमभिप्रेत्य पूर्वोदाहरणं समर्थनीयमुपसंहरति—अतश्चेति । एवं चावेदमूलत्वादित्युपसंहारं दूषयति—अतश्चेति । यत्तु न चास्याः शास्त्रता स्वयमित्युक्तम् । तदपि दूषयति—यच्चेति । (नासन्निध्रिमा- दिति सूत्रोपन्यासेन कृतकत्वमशास्त्रत्वे हेतुरुक्त इत्यभिप्रेत्य—कृत्रिमत्वेनेत्युक्तम् । प्रसिद्धिं दर्शयति—शास्त्रेति । यौगिकत्वेऽपि प्रसिद्धिमपपादयति—अथापीति । किं च शब्दार्थस्य वृद्धप्रयोगैकसमधिगम्यत्वेन तर्कविषयत्वाभावान्न तर्केण शास्त्रत्ववारणं युक्तमिति प्रसङ्गा- प्पत्तेरित्याह—प्रसिद्धमपीति । श्लोकं व्याचष्टे — यथैव हीति । वेदातिरिक्तविद्यास्थानानां चाशास्त्रत्वमप्रामाण्यं वोच्यमानमङ्गीकृतप्रामाण्यवेदमूलत्वेन वार्येत वेदस्यैव त्वशास्त्र- त्वमप्रामाण्यं वोच्यमानं कथं वार्येतेति सोपहासं दृष्टान्तेन दर्शयितुमाह—यो हीति । शुक्लं निष्ठुरम् ननु पूर्वं व्युत्पादितेनेष्टानिष्टप्राप्तिपरिहारसाधनोपदेशकत्वेन स्वतः प्रामाण्याच्च- प्रामाण्यकारणनिरासेन च वेदस्याप्रामाण्यं वारयिष्यत इत्याशङ्कानिराकरणं सूचयितुं मातापित्रोर्निष्ठुराभिधायिनोर्वारकान्तराभावेऽपि तावेव वारकौ भविष्यत इत्याशङ्कां निरस्यति—परत्रेति । वेदवदितरविद्यास्थानानामपि प्रामाण्यस्य व्युत्पादितत्वान्न तदनाद- रेणेदं प्रत्यवस्थानम् । तदवस्थितन्यायानादरे कश्चित्प्रतीकार इत्याशयः । दृष्टान्तेन सूचितमर्थं प्रकटयति-तथेति । व्याकरणस्य वेदाङ्गत्वान्धर्माशास्त्रादिभ्योऽतिशयं सूचयितुम्- साङ्गेनेत्युक्तम् । ननु व्याकरणमात्रस्याप्रामाण्यं मयोच्यते न वेदस्य तेनायं वृथोपहास इत्याशङ्कयाह—क्रुद्ध इति । न चाङ्गीकृतेतरविद्यास्थानप्रामाण्यो व्याकरणमात्रस्या- प्रामाण्यं वक्तुमर्हत्यविशेषादित्याह—श्रुतीति । यच्च न च स्मृत्यन्तरं किंचिदित्यनेन स्मृत्यन्तरसंवादाभावाद् व्याकरणप्रामाण्यमुक्तं तदनुभाषणपूर्वकं परिहरति—यत्त्विति । ननु वर्णाश्रमधर्मोपदेशित्वाभावे व्याकरणस्य स्मृतित्वाभावान्न तन्न्यायेन प्रामाण्यं स्यादि- त्याशङ्कयाह—स्मृतित्वं त्विति । पूर्वानुभवपारतन्त्र्यनिमित्तस्मृतिशब्दो न वर्णाश्रमधर्मोप- देशित्वनिमित्त इत्याशयः । स्मृतित्वाभावेऽपि वा तत्तुल्यत्वस्मरणशास्त्रत्वप्रामाण्ययोः सिद्धिरित्याह—अथापीति । न्यायतुल्यत्वादपि तत्सिद्धिरित्याह—अपि चेति । न च मूलासम्भवात्स्मृतिन्यायाभावः मूलस्योपपादितत्वादित्याह- प्रमाणेति । दृष्टार्थप्रत्यायन- फलत्वरूपेण सर्वप्रमाणमूलत्वम् । अदृष्टफलत्वरूपेण तु शास्त्रमूलतेति विवेकः । मूलप्रमाण- सम्भवे च व्याकरणान्तरमूलतापि न दुष्यतीत्याह—एकस्य चेति । ननु पुंवाक्यमूलत्वेऽन्ध-
२७-२९ ] प्रथमाध्याये तृतीयपादः ६०९ परम्परान्यायः स्यादित्याह-- असम्भावितेति । यच्च परस्परेण चाचार्या इत्यादिनाऽ- न्योन्यविगानादप्रामाण्यमुक्तं तदप्यनुभाष्य परिहरति -- यत्त्विति । श्रुतीनां च विगीतत्वे तन्मूलश्रुतीनामविगानमेवा प्रामाण्यमापादयेदित्याह -- विगीतेति । न चान्योन्यसंवादः प्रामाण्यकारणं येन तदभावादप्रामाण्यं स्यादित्याह -- मूलेति । उपसंहरति - परस्परेति । सिद्धे वस्तुनि विकल्पायोगाद्यथासम्भवविषयं विकल्पाभिधानं न सर्वविगीतव्याकरणस्मृति- विषयम् । विगानं च धर्माधर्म्मसाधनत्वविषयं वा स्यात्, अन्वाख्यानविषयं वा, सूत्र- प्रत्याख्यानसमाधानरूपं वा, इष्ट्युपसंख्यानावापारूपम्, तत्र सूत्रकृतोऽपि प्रयोजनाभावाभि- प्रायाभावमभिप्रेत्य धर्माधर्म्मसाधनत्वे तावद्विगानं नास्तीत्याह - धर्म्मेति । यत्तु - सम्बोधने त्यूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् । माध्यन्दिनिर्व्विगुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥ इत्याद्यन्वाख्यानविगानम्, तत्र ब्रूमः पदार्थात्मानः सर्वेष्वेतेषु भिद्यते (श्लो० वा० वा० श्लो० १८२) इति तद्भूताधिकरणोक्तेन न्यायेन लक्ष्याणां सान्तनान्तादिशब्दानां भेदाद- विरुद्धमित्याह - अन्वाख्यानेति । सूत्रप्रत्याख्यानसमाधानयोश्च तर्कमूलत्वात्, तस्य चोच्चा- वचपुरुषबुद्धिप्रभवत्वेनानेकत्वरूपत्वोपपत्तेर्न व्याकरणाप्रामाण्यापादकतेत्याह- पुनरुक्तत्वा- दिना हीति । हिशब्दोऽप्यर्थे वैदिकत्वाच्च मूलत्वे तस्यैकरूपत्वेनानेकरूपप्रत्याख्यानाच्चानु- पपत्तिः स्यात्, न त्वेतदस्तीत्यर्थः । इष्ट्युपसंख्यानयोरपि व्याकरणान्तरमूलत्वादधिकोपसंख्यानस्य च मूलोपसंख्याना- प्रामाण्यप्रसञ्जकत्वान्न व्याकरणाप्रामाण्यापादकतेत्याह - ये चापीति । अल्पविषयत्व- मात्रस्याप्रामाण्यकारणत्वाभावं दृष्टान्तेनोपपादयति- तद्यथेति । ननु सूत्रकारस्य प्रयोजनानभिधानात्तद्भावाभिप्रायावगतेः, वार्त्तिककारादिभिश्च प्रयो- जनाभिधानाद्विगानमुक्तम् । तस्य कः परिहारः ? इत्याशङ्क्यानुभाषणपूर्वकं परिहारमाह- यस्त्विति । वार्त्तिककृता शास्त्रेण धर्म्मनियम इति वदता साधुशब्दप्रयोगद्वारा धर्म्मसिद्धिः परं प्रयोजनमुक्तम् । भाष्यकृता चाथ शब्दानुशासनमिति वदता साधुशब्दज्ञानं साक्षात्प्रयो- जनमुक्तम् । तत्र यस्तावद्वार्त्तिककारोक्तप्रयोजनानभिधाननिमित्तः सूत्रकारस्योपालम्भः कृतः, स चोपालम्भनत्वस्यानर्होऽसमर्थः श्रुतिस्मृतिसिद्धत्वनिबन्धनत्वादप्रयोजनानभिधानस्य, भाष्यकारोक्तस्य च लक्षणश्रवणानन्तरमेव स्वसंवेद्यत्वेन सुज्ञानत्वादित्यर्थः । एकैकसूत्रेण शब्दाज्ञानात्- ग्रन्थान्तर इत्युक्तम् । धर्म्मसिद्धेः श्रुतिस्मृतिसिद्धत्वं विवृणोति- सत्येति । कामधुगादिश्रुतेर्व्वर्त्तमानापदेशत्वेन फलपरत्वस्य दुर्ज्ञानत्वात्साधुशब्दप्रयोगविधिपरत्वेनान- भिमतौपि सत्यवचनविषया श्रुतिः स्मृतिश्चोपरिक्षिप्ता । ननु सत्यशब्दस्य लोकवेदयोरर्थ- विषयत्वाप्रसिद्धेः शब्दविषयता न युक्तेत्याशङ्कय, प्रौढिवादेन पूर्वोक्तमेवोभयविषयत्वं स्मारयति - सत्यं चेति । नानृतं वदेदित्यभिधानार्थत्वाद्वदतेरर्थाभिधानकाल एवासाधुभाषणं प्रत्यवायहेतुः, नान्यदेति विनियोगकालविशेषेणोक्तम् । साधुशब्दज्ञानस्यानुभवसिद्धत्वं ३९
६१० मीमांसादर्शनम् [ सू० विवृणोति शब्दसाधुत्वेति । उपसंहरति-तस्मादिति । शास्त्रेण सर्वशब्दान्वाख्यानस्य प्रयोजनं यत्स्वयं सूत्रकृता नोक्तम्, तद्विज्ञायमानत्वान्नाभावाभिप्रायेणादित्यर्थः । नित्यसापेक्षत्वे- नान्त्वाख्यानशब्दस्य समासाविघातः । यच्च सुज्ञानत्वनिरासाय सुज्ञानत्वं पुनरीदृशम्, येनाद्यापि विवदन्त इत्युक्तं तदसिद्ध- मित्याह-न चेति । ननु मुख्यमुख्यप्रयोजनासम्भवेन निष्प्रयोजनत्वस्य पूर्वपक्षेऽभिधानाद् विवादोऽस्त्येवेत्याशङ्कयाह-स एव त्विति । प्रयोजनप्रस्तावे तीर्थिकान्तरविप्रतिपत्तावपि सूत्रकाराभिप्रेतत्वे विप्रतिपत्त्यभावान्न सूत्रकारस्य स्वतीर्थिकैः सह विगीतवचनत्वं भवतीत्याशयः । यच्च धर्म्मंश्च फलसम्बन्धमित्यनेन धर्म्मंस्य वार्त्तिककृता प्रयोजनत्वेनोक्तस्य व्याकरणेऽ- नुपदेशान्निष्प्रयोजनत्वं व्याकरणस्योक्तम् । तत्परिहरति-धर्म्मयैति । नियमः प्रयोजनत्वे- नोक्तः, न धर्म्मस्वरूपमित्यर्थः । ननु नियमोऽपि धर्मार्थं साधुशब्दा एव प्रयोक्तव्याः त एव वा श्रेयःसाधनमित्येवं रूपो न व्याकरणेन क्रियत इत्याशङ्कयाह-वेदेति । एत एव साधव इत्येवं रूपो नियमो व्याकरणाधीन इत्यर्थः । नन्वाचारे नियम इत्यादिवात्तिकपर्यालोचनया प्रयोगनियमोऽत्र विवक्षितो गम्यते, न स्वरूपनियम इत्याशङ्कयाह-नियमेति । प्रयोगनियमनिरपेक्षस्य स्वरूपनियमस्यानर्थक्यात्त- न्निरपेक्षस्य चेतरस्य सिद्धेर्नियमद्वयमपि व्याकरणस्य प्रयोजनमित्यर्थः । तत्राद्यो वेद- सिद्धत्वान्न व्याकरणेन क्रियत इत्याह-साध्विति । तदा च शास्त्रेण धर्म्मंनियम इति वार्त्तिककृतः शास्त्रशब्दो वेदविषयतया व्याख्येय इत्याह-अतश्चेति । इतरस्तु व्याकरणा- ख्येन शास्त्रेण क्रियत इत्याह-तथेति । धर्म्मशब्दश्चास्मिन् पक्षे श्रेयःसाधनत्वात्साधुशब्द- प्रयोगविषय इत्याह-तेनेति । येन कारणेन व्याकरणाद्विना साधुस्वरूपनियमो न सिध्यति, तेन वेदावगतः सम्यग्ज्ञातस्य साधोः शब्दस्य प्रयोगात्मको यो धर्म्मस्तदर्थत्वेनायमेव नित्यो वाचकः शब्द इति, नियतस्वरूपज्ञानं क्रियत इत्यर्थः । नियमे कारणीभूतस्य शास्त्रस्येति- कर्त्तव्यतापेक्षायां व्याकरणगता प्रकृतिप्रत्ययान्वाख्यानप्रक्रियेति कर्त्तव्यतोक्ता । यद्वा व्याकरणेन स्वरूपनियमः किमर्थं क्रियते, का वेतिकर्त्तव्यतेत्यपेक्षायामिमं फक्किकावतारणीया तदा च तेन व्याकरणेनेत्यर्थः । यदपि धर्म्मंस्त्वं यच्च विज्ञानशास्त्र- पूर्वंप्रयोगयोरित्यादिनाऽनवस्थितशास्त्रार्थाभिधानम् । व्यवस्थिताभिप्रायत्वे च भाष्यवार्त्तिक- योर्विगानमुक्तम् । तदप्यनुभाषणपूर्वकं परिहरति-यच्चेति । यच्च ज्ञाने धर्म्म इति, चेदिति वार्त्तिकेन शब्दसाधुत्वंज्ञानस्य धर्म्मंत्वपक्षमुपन्यस्य तथाधर्म्मं इत्यनेन दोषमभिधाय, शास्त्रेत्यनेन शास्त्रपूर्वस्य प्रयोगस्य श्रेयःसिद्धयुपायत्वे कात्यायनेनावधारिते, भाष्यकारेण तदेव व्याख्याय, पुनः परावृत्य, अथ वा पुनरस्तु ज्ञाने धर्मं इति तदुक्तम्, तदभ्युपेत्य वादमात्रमुक्तमित्यन्वयः । विगानावस्थिताभिधानयोरप्य- नुवादद्योतनार्थं यच्च यत्पुनरिति यच्छब्दद्वयम् । को दोष इत्यपेक्षायामपशब्दानामपि
२७-२९ ] प्रथमाध्याये तृतीयपादः ६११ ज्ञानादधर्म्मपत्तिर्दोष इति, द्वेषेण वार्त्तिकव्याख्योक्ता । यथा व्याकरणाच्छब्दज्ञानं भवति, एवमपशब्दज्ञानमपीत्यपि शब्दो योज्यः । अधर्म्मत्वापत्तिरिति च शब्दार्थं न विद्मः । शब्दा- नुशासनार्थद्वया करणात्कथमपशब्दज्ञानमित्याशङ्का, साध्वसाधुविवेकार्थत्वे व्याकरणस्य तन्त्रेण साध्वनुशासनमात्रार्थत्वे--प्रसङ्गेनेत्युक्तम् । किमर्थोऽभ्युपेत्यवाद इत्यापेक्षायाम्— पूर्वोक्तेत्युक्तम् । अत्र भाष्यकृता नैष दोषः, शास्त्रप्रमाणका वयं यच्छब्द आह तदस्माकं प्रमाणं शब्दश्च शब्दज्ञाने धर्म्ममाह, नापशब्दज्ञाने अधर्म्मम् । यच्च पुनरशिष्टाप्रतिषिद्धत्वान्नैव दोषाय भवति, नाभ्युदयाय । तद्यथा हिक्कितहसितकण्डूयितानि नैव दोषाय भवन्ति । नाभ्युदयायेति भाष्येणापशब्दज्ञानस्यानिषिद्धत्वान्न म्लेच्छभाषां शिक्षेतेति निषेधस्य वर्वरादिभाषाविषयत्वान्नाधर्म्मापत्तिरित्येकं परिहारमुक्त्वा, अथवाभ्युपाय एवापशब्द- ज्ञानस्येत्यादिभाष्येणासङ्कीर्णशब्दज्ञानस्य प्रतियोग्यपशब्दज्ञानस्येत्यादिभाष्येणासंकीर्णशब्द- ज्ञानस्य प्रतियोग्यपशब्दज्ञानाधीनत्वात् धर्म्मसाधनतैवेति परिहारान्तरमुक्त्वा, अथ वा कूपखानकवदेतद्भविष्यतीति । तद्यथा कूपखानकः कूपं खनन्यद्यपि मृदा पांसुभिश्चावकीर्णो भवति । सोऽप्सु सञ्जातासु तत एव तद्गुणमासादयति येन स च दोषो निर्हण्यते, भूयसा चाभ्युदयेन युज्यते । एवमिहापि यद्यप्यपशब्दज्ञानेऽधर्म्मः, तथापि यस्त्वसौ शब्दज्ञाने धर्म्मः, तेन स च दोषो निर्घाणिष्यते, भूयसा चाभ्युदयेन योगो भविष्यतीति भाष्येणोत्प- न्नस्याप्यधर्म्मस्य साधुशब्दज्ञानजनितधर्म्मेण निर्घाताद्दोष इति तृतीयपरिहाराभिधानात् । पूर्वोक्तस्य दोषस्य परिहारत्रयसामर्थ्यप्रदर्शनार्थं च ज्ञायत इत्यर्थः । ननु परमार्थतः शब्दज्ञानस्य धर्म्मे हेतुत्वाभावात्परिहारत्रयमप्येतदनर्थकमित्याशङ्क्य— कृत्वाचिन्तान्यायेनेत्युक्तम् । नन्वयमपि पक्षोऽभिमतः । कस्मान्न भवतीत्याशङ्क्याह— परमार्थतस्त्विति । ज्ञानमात्रस्य श्रेयोहेतुत्वे तत्पूर्वकस्य प्रयोगस्यानर्थक्यप्रसङ्गेन, ज्ञानस्य च स्वभावतो विज्ञानेन पारार्थ्येनापादितमर्थवादत्वं यस्याः फलश्रुतेः, सा तथोक्ता । अर्थ- वादत्वादिति पाठे त्वापादितार्थवादत्वादिति कर्म्मधारयः । सहृष्टान्तमन्यानर्थक्यप्रसङ्गमुपपादयति—यथेति । किं तर्ह्यालम्बनं फलश्रुतेरित्याशङ्कां निराकुर्वन् प्रकृतमुपसंहरति--तस्मादिति । देवोऽत्र वर्षति तण्डुलानित्यत्र यथावर्षण- साध्यस्य निष्पत्त्यादिकार्यंपरम्परागततण्डुलफलत्वं वृष्टावुपचर्यते तथात्रापि प्रयोगफलं तत्कारणे ज्ञान इत्यर्थः । ननु सम्यग्ज्ञात इति प्रथमश्रुतत्वेन ज्ञानस्यैव फलवत् प्रतिपत्तेः सुप्रयुक्तपदस्य च सुष्ठु प्रयोगार्हो यथा सम्यग्ज्ञात इत्येवं सम्यक्त्वव्याख्यानार्थत्वेनाप्युपपत्तेः फलपरत्वाभावादानर्थक्यप्रसङ्गो नास्तीत्याशङ्क्य, कारणान्तरमुपन्यस्तं विवृणोति— द्रव्येति । द्रव्यादित्रयविषयाया एव फलश्रुतेः पारार्थ्यहेतुकार्थवादत्वाभिधानाच्छब्द- ज्ञानस्य क्वान्तर्गतिः ? संस्कारान्तर्गतत्वेऽपि कस्य संस्कार इत्याशङ्काद्वयं निराकर्त्तुं ज्ञातुः पुरुषस्य, ज्ञेयस्य वा—शब्दस्य संस्कार इत्युक्तम् ।
५१२ मीमांसादर्शनम् [ पृ० शब्दज्ञानस्य संस्कारत्वं परार्थ्यं चोपपादयितुमाह- सर्वत्रैव हीति। संस्कारस्यापि चूडाकरणाधानादेः संस्कार्यसाध्यकर्मार्थत्वाभावात्तेन च विना फलश्रुतेरर्थवादत्वाभावात्- पराङ्गं चेत्युक्तम्। पुरुषार्थस्यात्मज्ञानस्य पराङ्गत्वाभावात् - ततोऽन्यत्रेत्युक्तम्। इति- करणः संस्कारत्वपारार्थ्यत्वाभावत्वपरामर्शार्थः । संस्कारत्वपारार्थ्यत्वभाष्यावधारणाच्च- स्मात्सर्वत्र ज्ञानं संस्कारत्वेन पराङ्गत्वेनाऽवगम्यते। तस्माच्छब्दज्ञानमपि तथेति हिशब्दो योज्यः। ननु सम्बन्धग्रन्थे कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्ष्यत इत्यत्र, अर्थवादाधिकरणे च। क्रत्वर्थकर्तृप्रतिपादनेनोपनिषदाम्नैराकाङ्क्ष्यमित्यत्रात्मज्ञानस्य क्रत्वर्थाभिधानात् किमित्यत्र वर्जनमित्याशङ्कयाह - आत्मज्ञानं हीति। अविनाशी वा अरे अयमात्माऽ- नुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतीति मात्राशब्देन भूतेन्द्रियधर्माभिधानात् शरीरादि- व्यतिरिक्तसंसारिकर्तृत्वभोक्तृत्वनित्यात्मप्रतिपादनपूर्वकस्यात्मा वा अरे द्रष्टव्य इत्यात्मज्ञान- विधेः कैमर्थ्याकाङ्क्षायां फलश्रुतेर्दृष्टसम्भवे चादृष्टकल्पनानुपपत्तेर्योग्यतया कर्मप्रवृत्ति- सिद्धयर्थत्वावसायादनारभ्याधीतस्यापि च 'यदेव विद्यया करोति श्रद्धयोपनिषदा, तदेव वीर्य्यवत्तरं भवतीति' श्रुत्योपनिषच्छब्दवाच्यस्यात्मविज्ञानस्य क्रत्वर्थत्वं युक्तम्। अत एव- आत्मा ज्ञातव्य इत्येतन्मोक्षार्थम् । न च चोदितम् । इत्येतच्छब्दप्रयोगेण संसारिरूपात्मज्ञानस्यैव मोक्षार्थत्वनिरासेन कर्मप्रवृत्तिहेतुतोक्ता। असंसारिरूपात्मज्ञानस्य तु कर्म्मप्रवृत्त्यर्थत्वायोगात्पुरुषार्थतैव युक्तेत्याशयः। नन्वात्मनो लोकवेदसाधारण्याेन क्रत्वव्यभिचाराभावात्कथं तज्ज्ञानस्य क्रत्वर्थत्वाव- साय इत्याशङ्कयाह - तेन विनेति। अयमाशयः-लौकिककर्माङ्गत्वव्यावृत्त्यर्थं क्रत्वव्यभि- चारोद्धारस्याकाङ्क्षत्वेनादृष्टार्थं लौकिककर्मप्रवृत्तेश्च शरीरादिव्यतिरिक्त नित्यात्मज्ञानं विनापि सिद्धेः, साकाङ्क्षान्वयसम्भवे च निराकाङ्क्षान्वयायोगाल्लौकिककर्माङ्गत्वव्या- वृत्तिरेकान्तिकद्वाराभावेऽपि सिध्यति। अत एव परलोकफलकर्मविध्यन्यथानुपपत्त्या सामान्यसम्बन्धस्य क्लृप्तत्वाल्लौकिकविनियोगाविरोधः। यद्वोपकारकत्वमात्राभिप्रायकोऽर्थवादः। अत एव निषिद्धकर्मनिवृत्त्यर्थत्वसूचनाथों निवृत्तिशब्दो घटते निषिद्धकर्माङ्गत्वे त्वात्मज्ञानस्यानात्मज्ञेन कृतं ब्रह्महत्यादिकं वैगुण्यान्न प्रत्यवायं जनयेद् इति। इह तु पुरुषार्थत्वं कर्तृत्वभोक्तृत्वादिसंसारिरूपात्मज्ञानस्योच्यते तस्य च क्रत्वर्थत्वायोगादाकाङ्क्षावशेनाथंवादिकफलकल्पना युक्तैवेति दर्शयितुमाह - तथेति। पापजरामृत्युशोकक्षुत्पिपासारहित्यकाम्यमानफलप्राप्तिप्रयत्नानपेक्षसङ्कल्पमात्राधीन - सिद्धिरूपगुणविशिष्टात्मप्रतिपादनपूर्वकं योऽन्वेष्टव्यः, स विजिज्ञासितव्य इति श्रुत्या वेदान्त- वाक्यार्थविचारणात्मजिज्ञासासहितस्य तदवधारितात्मरूपार्थानुचिन्तनाख्यान्वेषणात्मकस्या- पहतपाप्मत्वादिगुणविशिष्टात्मज्ञानस्य विधानम्। यच्च मन्तव्यो बोद्धव्य इति श्रुत्या न्यायविमर्शात्मकमननসহিতस्य तन्निर्द्धारितात्मरूपसाक्षात्काराख्यबोधात्मकस्य सगुणात्म- ज्ञानस्यैव विधानम्। यद्यात्मानमुपासीतेति श्रुत्या केवलनिर्गुणात्मविषयावबोधपर्यन्तस्य
२७-२९ ] प्रथमाध्याये तृतीयपाद। ६१३ स्पष्टस्यापरोक्षरूपस्यात्मतत्त्वज्ञानस्य विधानम्, तदपेक्षितस्य वाक्यान्तरोपात्तस्य द्विविध- स्याभ्युदयरूपस्य निश्रेयसरूपस्य च फलस्य सम्बन्धः कामवाद-लोकवाद-वचनविशेषैर्ज्ञायत- इत्येवं क्रत्वर्थं पुरुषार्थत्वेन ज्ञायत इत्येतत्पक्तिकागतपदानुषङ्गेण योज्यम् । श्रुतिभेदज्ञाप- नार्थः पुनस्तथाशब्दः । सगुणात्मज्ञानविध्यपेक्षिताभ्युदयरूपफलं सम्बन्धज्ञापकं कामवादं तावदुदाहरति-स सर्वांश्चेति । लोकवादाः कामोपभोगार्थत्वेनैकवाक्यत्वायाभिधाना- त्कामवादोऽयमभिप्रेतः । तद्विषयमेव लोकवादमुदाहरति — तथेति । पितृलोकेन मातृलोकेन भ्रातृलोकेन स्वसृलोकेन सखिलोकेन गन्धमाल्यलोकेन यानलोकेन सङ्गीतवादित्रलोकेन स्त्रीलोकेन सम्पन्नो महीयत इति जनकादिभिः सुखसाधनयोग्यत्वेन लोकशब्दवाक्यैः सम्पत्त्यभिधानात् लोकवादोऽयमभिप्रेतः । एतच्च जनकादिसम्पत्तिवचनं यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठतीत्युपसंहारादष्टगुणैश्वर्यसिद्धयभिप्रायम् । न स्वर्गकामादि- श्रुतिवन्नियतफलपरमिति दर्शयितुम्-योगजन्येत्युक्तम् । योगबलात्परमाणुवदतिसूक्ष्मता, पर्वतवन्महत्त्वम्, सूर्यरश्म्यवलम्बनादिरूपं लाघवम् । करेण चन्द्रस्पर्शादिरूपप्राप्तिः । अप्स्रिवव भूमावुन्मज्जनन्मिक्षणादीच्छाद्यनभिघातः । प्राकाम्यं भूतभौतिकाज्ञापयितृत्व- रूपमीशित्वम् । भूतभौतिकानां तदाज्ञासञ्चरणं वशित्वं अनाज्ञातानामेव तदिच्छानुरोध- वृत्तित्वं कामावसायित्येत्यष्टौ गुणाः । अणिमा महिमा लघिमा प्राप्तिः प्राकाम्यमित्यपि । ईशित्वं च वशित्वं च यत्र कामावसायिता ॥ इति स्मृताः सगुणात्मज्ञानफलप्रतिपादकं कामवादम्, लोकवादम्, चोदाहृत्य निर्गुणात्मज्ञान- विध्यपेक्षितनिःश्रेयसरूपफलप्रतिपादकं वचनविशेषमुदाहरति-तथेति । लोकात्मकब्रह्म- प्राप्तिरूपस्य फलस्याक्षयत्वाभिधानाद्वचनविशेषोऽयमभिप्रेत इत्यपुनरावृत्त्यात्मकपरमात्म- प्राप्यवसायस्य फलस्य वचनमित्यनेन सूचितम् । स्थानविशेषात्मकलोकप्राप्तेर्जन्यत्वेना- क्षयत्वानुपपत्तिमाशङ्क्य परमात्मैव ब्रह्मशब्दवाच्यः । परमानन्दोपभोगे हेतुत्वकर्मधारय- समासाश्रयेण लोके विवक्षितः तत्राप्तेश्च शरीरसम्बन्धोपाधिककर्तृभोक्तृत्वात्मकसंसारि- रूपावस्थापरित्यागेना कर्तृभोक्तृत्वात्मकः संसारिरूपनिजावस्थात्मकत्वेनाजन्यत्वाद्युक्तमक्षय - त्वमिति सूचयितुम्-परमात्मेत्युक्तम् । अनोपाधिकरूपमभिप्रायः परमशब्दः। पूर्वकृताशेष- बन्धहेतुकर्मक्षयाद्वा संसारिरूपप्राप्तौ कर्तृत्वाभावेन कर्म्मान्तरानुपपत्तेः पुनर्भवासम्भवे- नापुनरावृत्तेः प्राप्ताया अनुवादात्तत् फलं तदक्षयत्वरूपार्थद्वयाभिधाननिमित्तवाक्यभेदा- पत्तिरिति सूचयितुमपुनरावृत्तेर्ब्रह्मप्राप्तितो भेदनिरासायापुनरावृत्त्यात्मकतोक्ता । कामवादलोकवचनविशेषजिज्ञासामनःसहितेति पाठे त्वेवं व्याचक्षते । कामःसत्यकामत्वं वादः सत्यवादः लोकः सूर्यमण्डलाद्युपासनस्थानं वचनविशेष उपदेष्टृत्वं कामादिभिर्मेनः- पर्यन्तैः सहितस्यात्मनो ज्ञानमित्यवान्तरसमासार्थः । केन वाक्यान्तरेणाभ्युदयरूपं फल- मुपात्तमित्यपेक्षायां वाक्यद्वयमुदाहृतम् । निःश्रेयसरूपं केनोपात्तमित्यपेक्षायां स ब्रह्मोपासको यावदायुषमेवंविधां वृत्तिमाचरन् कुर्वंल्लोकात्मकं ब्रह्माभिसम्पद्यते इति वाक्यमुदाहृतम् ।
६१४ मीमांसादर्शनम् [ सू० नन्वासां फलश्रुतीनां पर्णमयीन्यायेनार्थवादत्वस्य सम्बन्धग्रन्थेऽभिहितत्वान्न फलसमर्प- कत्वं युक्तमित्याशङ्कयाह — अप्रकरणगतेति । अयमाशयः पारार्थ्ये निर्ज्ञाते फलश्रुतेरर्थवादत्वं भवति प्रकरणाच्च यदाङ्क्ते चक्षुरेव एव भ्रातृव्यस्य अङ्क्त इत्यञ्जनस्य पारार्थ्यं निर्ज्ञातम् । यस्य खादिरः स्त्रुवा भवति छन्दसामेव रसेनानवद्यतीति च क्रत्वर्थव्यभिचारि- स्त्रुवादिद्वारा खादिरत्वादेः । न चात्मज्ञानं प्रकरणगतम्, न चात्मनो द्वारभूतस्यैकान्तिकः स्वाभाविकः क्रतुसम्बन्धोऽस्ति । शरीरसम्बन्धोपाधिकत्वात्कर्तृत्वस्याशरीररूपात्मज्ञाने तदभावादिति । न च संसारिरूपात्मज्ञानस्य मोक्षसाधनत्वे तस्मिन्सति कर्म्मसु प्रवृत्त्ययोगात् । वृहट्टीकायां ननु निःश्रेयसज्ञानात् बन्धहेतोर्न कर्म्मणः । इत्याशङ्क्य— नैकस्मादपि तत् किं तु ज्ञानकर्म्मसमुच्चयादित्युकम् । तद्विरुद्धयेतेत्याशङ्कयाह—न चेति । सत्यपि ज्ञाने नित्यनैमित्तिककर्म्मानुष्ठानं विना पूर्व्वकृतदुरितक्षयायोगादकरणनिमित्तानागतप्रत्यवायपरिहारायोगाच्च तत्फलोपभोगार्थं बन्धप्रसक्तेर्मोक्षायोगात्कर्म्मनाशार्थत्वेन च ( ज्ञानविध्यनुपलब्धेर्ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुनेत्यादिस्मृतेश्चोपचारिकत्वेनोपपत्तेः सम्बन्धग्रन्थे ज्ञानस्य कर्मनाशकत्व- निषेधान्न१ ) ज्ञानस्य मोक्षसाधनतया विधानेन कर्मणो मोक्षसम्बन्धो बाध्यते । न चासंसारिरूपात्मज्ञानपरिपाकात् प्राक्कर्त्तृभोक्तृत्वाभिमानान्निवृत्तौ कर्मसु प्रवृत्त्यनुपपत्तिरिति विधानशब्देन सूचितम् । परिपक्वेन ज्ञानेनात्मनः कर्म्मसम्बन्धः कर्तृत्वं बाध्यते । विधानावस्थायाङ्कर्तृत्वाभिमाननिवृत्तौ नियोज्यत्वासम्भवाद्धिधानानुपपत्तिरित्याशयः। एतदेव विवृणोति — प्रत्याक्षमेति । नन्वेवमपि— 'मोक्षार्थी न प्रवर्त्तत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥' इत्यनेन न्यायेन काम्यनिषिद्धवर्जनात्तत्फलोपभोगार्थं शरीरानुत्पत्तेर्नित्यनैमित्तिका- नुष्ठानाच्च तदकरणनिमित्तप्रत्यवायफलोपभोगार्थं शरीरानुत्पत्तेर्ज्ञानवाक्यानां चौपचारिक- व्याख्यानोपपत्तेः कर्म्मणा ज्ञानं बाध्यताम्, तुल्यबलत्वाद्वा विकल्पोऽस्तु, विरोधपरिहाराय चाङ्गाङ्गीभावः कल्प्यतां न तु निरपेक्षविहितयोः समुच्चयो युक्त इत्याशङ्क्याह—न चेति । अयमाशयः अवान्तरकार्येैक्ये सति बाधो विकल्पो वा स्यात्, इह तु कर्म्मणा पूर्वं- कृतपापनाशावश्यविहिताकरणनिमित्तपापपरिहारप्रयोजनत्वान्निर्गुणात्मज्ञानस्य च तत्त्व- प्रकाशनप्रयोजनत्वान्नावान्तरकार्यैक्यमस्ति । न च बन्धहेतुकर्म्मक्षयान्मोक्षसिद्धेस्तत्त्व- प्रकाशनानर्थक्यं शङ्कयम् । सत्यपि पूर्व्वकृतकर्मक्षये कर्तृत्वभोक्तृत्वाभिमानान्निवृत्तौ निर्व्या- १. अयं पा० १ पु० नास्ति ।
२७-२९ ] प्रथमाध्याये तृतीयपादः ६१५ पारत्वानुपपत्तेरवश्यं कस्यचिद् बन्धहेतोः कर्म्मणः प्रसङ्गात्तं निवृत्त्यर्थं कर्तृत्वभोक्तृत्वो- भिमाननिवृत्तेरपेक्षितायास्तत्त्वप्रकाशनं विनानुपपत्तेः । एतदेवाभिप्रेत्य बृहट्टीकायामुक्तम् । 'नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयन् ॥ वैराग्यात्पक्वविज्ञानः कैवल्यं भजते नरः ।' इति । अतोऽवान्तरकार्यभेदान्न तावद् बाधविकल्पौ जीवानादिनिमित्तवतश्च कर्म्मस्वधिकारात्, मुमुक्षोश्च ज्ञानाधिकारादधिकारिभेदलक्षणाद्भिन्नमार्गत्वान्नाङ्गाङ्गिभावः सम्भवतीति पारिशेष्यात्समुच्चय एव युक्त इति । नन्वात्मज्ञानवच्छब्दज्ञानस्यापि फलसम्बन्धः कस्मान्नेष्यते अत आह—शब्देति । यच्चादिमत्त्वाच्च धर्म्मत्वम्, नैतज्ज्ञानप्रयोगयोरित्यनेनादिमद्व्याकरणाधीनस्य ज्ञानस्य तत्पूर्वकस्य वा प्रयोगस्यानादिना वेदेन फलसाधनत्वं वक्तुं न शक्यमित्युक्तम् । तदप्यनु- भाषणपूर्वकं परिहरति — यत्त्विति । व्याकरणपरम्परानादित्वं वा अनादिवेदविषयत्वा- न्यथानुपपत्त्या कर्तुःस्मृत्या च पौरुषेयत्वावगतिरवसीयत इत्याह—तस्मादिति । यत्तु व्याकृता सम्प्रदायेन वाणी नित्यैव वैदिकील्युक्तम् । तन्निराकरोति — न चेति । वैदिक्या वाचो ह्युच्चारणार्थत्वाद्यवच्छेदायोद्यत इत्येतावद्वक्तव्यम् । अव्याकृतत्वाप्रसक्तेस्तु व्याकृत्वोक्तिर्निष्फला स्यादित्यर्थः । 'अग्रघाः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रोत्रियाश्च यजमानाश्च विज्ञेयाः पङ्क्तिपावनाः ॥' इति च मनुप्रोक्तवेदत्वस्य पूर्वोक्तत्वात्, यश्च मीमांसतेऽध्वरमिति च यज्ञमीमांसनस्य पश्चादुक्तत्वाद्यश्च व्याकुरुते वाचमिति व्याकरणस्य पङ्क्तिपावनत्वापादकत्वाभिधानं प्रकृति- प्रत्ययान्वाख्यानरूपव्याकरणविषयं, न तु स्वरवर्णमात्रा कर्माविप्लुतिरूपवैदिकशब्द- व्याकरणविषयम् । नाप्युद्दिश्यमानोपादीयमानगुणप्रधानादिरूपवचनव्यक्तिव्याकरणविषय- मित्यवधारणात् । तस्य च वेदपूर्वत्वान्नित्यानित्यसंयोगपरिहाराय नित्यत्वं व्याकरणस्या- ध्यवसीयत इत्याह— यदपि चेति । तदशक्तिश्चानुरूपत्वादिति सूत्रं भाष्यकृताऽथ यदुक्तमित्यादिभाष्येण गव्यादिशब्दस्य शक्त्या विना कथमर्थप्रतिपादकतेति शङ्कानिराकरणार्थत्वेन व्याख्यातम् । तच्च ययाप्रकृति- सारूप्यद्वारेणापभ्रंशाः प्राकृतामेव शक्तिमाविर्भावयन्तोऽर्थप्रतिपत्तावुपयोगं गच्छन्ति, तथा तदशक्तिश्चानुरूपत्वदित्यत्र वर्णयिष्यते इत्यनेनैव प्रतिपादनप्रकारविशेषाभिधानार्थतया व्याख्यातत्वान्नेह व्याख्यातम् । एकदेशत्वाच्च विभक्तिव्यत्यये स्यादिति सूत्रान्तरमप्यत एवेत्यादिभाष्येणैवं गव्यादिशब्ददर्शनादिति दार्ष्टान्तिके योजनाद् गव्यादिशब्दस्य साधु- शब्दानुस्मारेणार्थप्रतिपादकत्वे दृष्टान्ताभिधानार्थतया व्याख्यातमिति प्रतीतेः स्पष्टत्वान्न व्याख्यातम् ॥ २७–२९ ॥ ॥ इति नवमं व्याकरणाधिकरणम् ॥
६१६ मीमांसादर्शनम् [ सू० भा० प्र० -- गावी, गोणी आदि एक अर्थ को कहने वाले अनेक शब्दों में एक साधु है, और अन्य असाधु हैं। इस प्रसङ्ग में यह विचार्य है कि कौन शब्द साधु है एवं कौन शब्द असाधु है—इसकी जानकारी किस प्रकार हो सकती है। इसी आशङ्का के उत्तर में “तत्र तत्त्वम्” इत्यादि कहा गया है। कौन शब्द साधु है और कौन शब्द असाधु है— इसका ज्ञान व्याकरण शास्त्र के अनुशीलनजनित संस्कार विशेष से होता है। सूत्र में अभियोग विशेष से साधु शब्द के ज्ञान का निर्देश किया गया है। अभियोग शब्द का अर्थ पटुत्व और विशेष शब्द का अर्थ लक्षण होता है। शब्द अनन्त है, अतः प्रत्येक शब्द को लेकर साधुत्व और असाधुत्व की अवगति नहीं की जा सकती है। सभी शब्दों के स्वरूप को असन्दिग्ध रूप में जानने का कोई लौकिक साधन भी नहीं है। किन्तु व्याक- रणशास्त्र में ऐसे नियमों का उल्लेख किया गया है, जिससे एक पद का ज्ञान होने से उसके समान अनेक पदों का ज्ञान सम्भव होता है। इसलिए व्याकरण शास्त्र के द्वारा सभी शब्दों को अधीन किया जा सकता है, अतः व्याकरण का प्रामाण्य सभी के द्वारा अवश्य ही ग्राह्य है। व्याकरण का प्रामाण्य होने से इस शास्त्र में जिन शब्दों को साधु के रूप में निर्देश किया गया है—वे ही साधु शब्द के रूप में ग्राह्य हैं, अन्य असाधु या अप- भ्रंश के रूप में त्याज्य हैं, अर्थात् यज्ञादि में व्यवहार के योग्य नहीं हैं, अतः शब्द का साधुत्व सिद्ध नहीं है यह बात नहीं है। इस प्रसङ्ग में वार्त्तिककार ने कहा है कि शब्द का साधुत्व प्रत्यक्ष आदि छ प्रमाणों के आधार पर जाना जाता है। व्याकरण न श्रुतिमूलक है और न स्मृति ही है, अतः, व्याकरण प्रमाण नहीं है, किन्तु यह कथन ठीक नहीं है, क्योंकि शब्द के प्रयोग की व्यवस्था करना ही व्याकरण स्मृति का प्रयोजन है। इसीलिए कहा गया है—ब्राह्मण म्लेच्छ शब्द=(अव्यक्त) नहीं कहे, अपशब्द का प्रयोग नहीं करे, यह अपशब्द ही म्लेच्छ= अव्यक्त या असमीचीन उच्चारण है; इस प्रकार अपशब्द के प्रयोग का निषेध किया गया है। “तस्माद् ब्राह्मणो न म्लेच्छितवै नापभाषितवै म्लेच्छोह वा यदेष अपशब्दः”। अथ ते असुराः हेलयो हेलय इति कुर्वन्तः परावभूदुः” वे असुरगण “हे अरयः” हे अरिगण इसके स्थान पर “हे अलयः” इस प्रकार का उच्चारण करने से पराजित हुए। इस प्रकार के अर्थवाद वाक्य के रहने से श्रुति ने स्पष्ट ही कहा है कि व्याकरण के अनुसार साधु शब्दों का प्रयोग करना उचित है। “तस्मादियं व्याकृता वागुच्यते” (तै० सं० ६।४।७।३) इसीलिए व्याकृत अर्थात् प्रकृति और प्रत्यय आदि से युक्त पद का प्रयोग कराया गया है—इत्यादि श्रुति में स्पष्ट कहा गया है। अतः, व्याकरण का प्रामाण्य श्रुति से सिद्ध है। व्याकरण साधु शब्द के प्रयोग का विधान करती है-यह स्मृति में भी कहा गया है। सभी स्मृतियों में केवल यज्ञ आदि कर्मों का ही प्रतिपादन रहे—ऐसा कोई नियम नहीं है। इसलिए व्याकरण भी स्मृति है और वेदमूलक है। वेद में व्याकरणावगत साधु शब्द के प्रयोग की सूचना होने से व्याकरण के प्रामाण्य में कोई बाधा नहीं है।
२९ ] प्रथमाध्याये तृतीयपादः ६१७ 'तत्र' शब्द में । 'तत्त्वम्' = "तस्य भावः" अर्थात् उसका साधुमात्र = साधुत्व । "अभि- योगविशेषात् स्यात्" अभियोग विशेष निवन्धन ही होना चाहिए । कौन शब्द साधु है, इसका ज्ञान व्याकरणशास्त्र के अनुशीलन से उत्पन्न संस्कार-विशेष से ही उत्पन्न होता है । आशय यह है कि साधु और असाधु शब्दों में वस्तुतः कौन शब्द साधु है और कौन शब्द असाधु है-यह शिष्टों के उपदेश से ही अवगत किया जाता है । इस समय लक्षण सूत्र के आधार पर साधु शब्दों की अवगति सम्भव है । अतः, शिष्टगण ही साधु और असाधु के वस्तुतः निर्णायक हैं । जिसके आधार पर व्याकरण सूत्रों की रचना की गई है ॥ २७ ॥ भा० प्र०—गो शब्द के उच्चारण की इच्छा रहते हुए भी असामर्थ्य के कारण गावी शब्द का उच्चारण हो जाता है । यद्यपि इसके द्वारा सास्नादि गलकम्बलयुक्त अर्थ ही विवक्षित रहता है । आशय यह है कि शुद्ध शब्द का उच्चारण रहने पर भी सादृश्यवश से अर्थ की प्रतीति होती है । इसीलिए "अश्मकैः आगच्छतानि" इत्यादि वाक्यों के सुनने पर "अश्मकेभ्यः आगच्छामि" अर्थात् अश्मक देश से आया हूँ-यह अर्थ अवगत होता है । "अश्मकेभ्यः" इस पञ्चमी विभक्ति के बहुवचन के स्थान पर 'अश्मकैः' यह तृतीया विभक्ति के बहुवचन का प्रयोग किया गया है । इस स्थल में विभक्ति का व्यतिक्रम होने पर अर्थ का ज्ञान न होना चाहिए, किन्तु सादृश्य के कारण अर्थ का ज्ञान हो जाता है । अतः किसी समय गो शब्द के उच्चारण की इच्छा रहने पर भी असावधानी या असामर्थ्य से गावी शब्द का प्रयोग किया है, किन्तु, अर्थ के ज्ञान में किसी प्रकार की अनुपपत्ति नहीं होती है । अतः, गो शब्द साधु है और अन्य शब्द असाधु है । साधु शब्द का ही प्रयोग करना चाहिए, क्योंकि यज्ञादि में असाधु शब्द का प्रयोग करने पर प्रायश्चित्त का उपदेश दिया गया है । "एकदेशत्वात्" एकदेशता के कारण अर्थात् किसी प्रकार विकृत होने पर भी अन्य अविकृत अंश का ही एक देश होने से 'च' तथा और "विभक्तिव्यत्यये स्यात्" विभक्ति का व्यत्यय होने पर भी अर्थ का ज्ञान होता है ॥ २८ ॥ भा० प्र० गो शब्द के शुद्ध रूप में उच्चारण का सामर्थ्य न रहने से त्रुटि शब्द की विच्युति से गो शब्द विकृत होकर गावी, गोणी आदि के रूप में शब्द उच्चारित होता है । अतः गो शब्द के अनुरूप होने से चेष्टा आदि के द्वारा गलकम्बल आदि अर्थ का बोध होता है । क्योंकि किसी वृद्ध के कथन के अनुसार गामानय के उच्चारण की जगह पर गावीमानय यह उच्चारण होने पर भी सास्नादियुक्त गौ को लाते हुए देखकर गावी का अर्थ भी गौ ही है-अनुरूप होने से यह अवगत करता है । 'तदशक्तिः' = उसकी अर्थात् गो इस शब्द के उच्चारण की 'अशक्तिः' = असमर्थता, अक्षमता, 'च' = एवम् 'अनुरूपत्वात्' = अनुरूप अर्थात् गो शब्द के अनुरूप होने से गो अर्थ का ही बोधक है ॥ २९ ॥
६१८ मीमांसादर्शनम् [ सू० अथ नवममाकृत्यधिकरणम्। [ ९ ] प्रयोगचोदनाभावादर्थैकत्वमविभागात् ॥ ३० ॥ पू० शा० भा०—अथ गौरित्येवमादयः शब्दाः किमाकृतेः प्रमाणम्, उत व्यक्ते- रिति सन्देहः । तदुपोद्घातत्वेन लोकवेदाधिकरणम् उच्यते—इदं तावत् परीक्ष्यताम् । किं य एव लौकिकाः१ शब्दाः त एव वैदिका उतान्य इति । यदा त एव, तदाऽपि किं त एवैषामर्था ये लोके, उतान्य इति संशयः । तत्रान्ये लौकिकाः२ शब्दाः अन्ये वैदिका, अन्ये चैषामर्था इति ब्रूमः । कुतः ? व्यपदेशभेदाद्, रूपभेदाच्च । इमे लौकिका; इमे वैदिका इति व्यपदेशभेदः३ । 'अग्निर्वृत्राणि जङ्घनत' इत्यन्यदिदं रूपं लौकिकादग्निशब्दात् । शब्दान्यत्वाच्च न त एवार्थाः । अपि च समामनन्ति, 'उत्ताना४ वै देवगवा वहन्ति' । आप श्रौ. ११।७।६ । इति । ये देवानां गावः त उत्ताना वहन्तीत्युक्ते गम्यत एव य उत्ताना वहन्ति, ते गोशब्देनोच्यन्त इति । तस्मादन्यो वैदिकगोशब्दस्यार्थः । तथा देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्' इति, हिरण्यपर्णो५ वै देवो वनस्पति- र्वेदे । 'एतद् वै दैव्यं मधु, यद् घृतम् इति वेदे घृते मधुशब्दः । तस्मादमीषा- मन्येऽर्था इति प्राप्ते । ब्रूमः । य एव लौकिकाः शब्दा त एव६ वैदिकाः त एवैषामर्था७ इति । कुतः ? प्रयोगचोदनाभावात् । एवं प्रयोगचोदना सम्भवति, यदि त एव शब्दाः त एवार्थाः, इतरथा शब्दान्यत्वेऽर्थो न प्रतीयेत । तस्मादेकशब्दत्वमिति । उच्यते । प्रयोजनमिदम् । हेतुर्व्यपदिश्यतामिति ? ततो हेतुरुच्यते । अवि- भागादिति । न तेषामेषां च विभागमुपलभामहे । अत८ एवैकशब्दत्वम् । तांश्च९ तांश्चार्थानवगच्छामः१० । अतो नान्यत्वं च वदामः । यच्चोक्तं य उत्ताना वहन्ति ते देवगवाः, यद् घृतम्, तन्मधु, यो हिरण्यपर्णः, स वनस्पतिरिति । नास्ति११ वचनं यदुत्तानानां वहतां गोत्वं ब्रूयात् । ये गावस्त १ ब. लौकिकास्त एव वैदिकाः । २ ब. तत्रान्ये लौकिका अन्येचैषामर्था । ३ व. इति व्यपदेशः । ४ ब. उत्तानानि ५ क. हिरण्यपर्णो देववनस्पतिः । ६ ब. एव च । ७ ब. एव चैषा । ८ ब. अत एक शब्दत्वं । ९ ब. तांश्चार्था । १० व. अवगच्छामः यच्चोक्तं । ११ ब. तन्नास्ति ।
३० ] प्रथमाध्याये तृतीयपादः ६१९ उत्ताना वहन्तीत्येवं तत्। यदि चानेन वचनेन गोत्वं विधीयते, उत्ताना वहन्ती- त्यनुवादः स्यात्। न चोत्ताना वहन्तः प्रसिद्धाः केचित्। ते नियोगतो विधा- तव्याः। तेषु विधीयमानेषु न शक्यं गोत्वं विधातुम्। भिद्येते हि तथा वाक्यम्। यदि चान्ये वैदिकाः तत उत्तानादीनामर्थो न गम्येत। तत्र नतरां शक्येताऽ- विज्ञातलक्षणं गोत्वं विज्ञातुम्¹। न चोत्तानवहनवचनमप्यनर्थकम्, स्तुत्यर्थेनाऽर्थ- वद्भवष्यतीति। एवं घृतस्य मधुत्वम्, हिरण्यपर्णता च वनस्पतेः। तस्मात्त एव शब्दाः अर्थाश्च॥ यदि² लौकिकाः त एवार्थाः तदा सन्देहः³—किमाकृतिः शब्दार्थः, अथ व्यक्तिरिति। का पुनराकृतिः? का व्यक्तिरिति? द्रव्यगुणकर्मणां सामान्य- मात्रमाकृतिः। असाधारणविशेषा व्यक्तिः। कुतः संशयः। गौरित्युक्ते सामान्यप्रत्ययाद्, व्यक्तौ च क्रियासम्बन्धात्⁴। तदुच्यते व्यक्तिः शब्दार्थ इति। कुतः? प्रयोगचोदनाभावात्। आलम्भन-प्रोक्षण-विशसनादीनां प्रयोग- चोदना आकृत्यर्थे न सम्भवेयुः। यत्रोच्चारणानर्थक्यम्, तत्र व्यक्त्यर्थः। अतोऽन्यत्राऽऽकृतिवचन इति चेत्? उक्तम् 'अन्यायश्चानेकशब्दम्' इति। कथं सामान्यावगतिरिति चेत्? व्यक्तिपदार्थकस्यानकृतिश्छिन्नभूता भविष्यति— य एवमाकृतिकः⁵, स गौरिति⁶। यथा यस्य दण्डोऽस्ति, स दण्डीति। न च दण्डवचनो दण्डिशब्दः, एवमिहापि॥ ३०॥ भा० वि०—विषयसंशयौ दर्शयति—गौरित्येवमादय इति। आदिशब्देन गुणक्रियाशब्दानां आख्यातानां च सङ्ग्रहः येषु जातिव्यक्तिवाच्यत्वसन्देहः तेषा- मेव ह्युदाहरणत्वम्। स च जातिगुणक्रियाशब्देष्वेव, नोपसर्गनिपातयोः। यदृच्छासर्वनामशब्दादिषु चेत्यभिप्रायः। अत्र च गौरश्व इत्यादीनां वाचकत्वेन साधुत्वे निरूपिते तेषामेव वाच्यविशेषनिरूपणमनेन क्रियत इति प्रासङ्गिकतया अवान्तरसङ्गतिं सूचयितुं गौरित्येवमादय इत्युक्तम्। प्रमाणम् ज्ञापका वाचका इति यावत्। एवमाकृत्यधिकरणोयं सन्देहमुपन्यस्य, इदानीं तदुपोद्घाततया विचारान्तरमवतारयति—उच्यत इति। यत एतत् स्वावसरे वक्ष्यतेऽतस्तिष्ठतु। इदं तावत्परीक्ष्यतामित्यर्थः। परीक्षामभिनयति—य एवेति। शब्दाभेदेऽप्यर्थ- भेदाभेदविषयं विचारमाह—यदेत्यादिना। अत्र च व्यपदेशभेदात् प्रत्यभिज्ञानाच्च १ व. विधातुं। २. यदा। ३ ब. संशयः। ४ ब. संभवात्। ५ क. एवमाकृतिः। ६ ब. गौरितियस्यदंडो।