मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
४१६ मीमांसादर्शनम् [ सू० मा० प्र०—'तेषु'=यव आदिशब्दों में । "विप्रतिपत्तिः"=अर्थबोधकता, अर्थात् वि=विशिष्ट, प्रतिपत्ति अर्थात् ज्ञान अर्थात् शब्दज्ञान या अर्थबोध । "समा"=समान रूप, अर्थात् तुल्यबलयोः=समबल, "विरोधस्य"="अदर्शनात्"=यतः क्योंकि विरोध अर्थात् बलाबल नहीं देखा जाता है । आर्य और म्लेच्छो के मत में यव आदि की विभिन्न अर्थबोधकता है, वह समान है अर्थात् तुल्यबलशाली है, क्योंकि, इन स्थलों में विरोध अर्थात् प्राबल्य या दौर्बल्य का कोई कारण नहीं है । स्मृति का प्राबल्य और दौर्बल्य के निरूपण प्रसङ्ग में शब्दप्रयोग के विषय में आर्य एवं म्लेच्छ का अर्थात् अपभाषा प्रयोग करने वाले प्राकृत लोगों के वैषम्य का प्राबल्य और दौर्बल्य का विचार किया जा रहा है । यव, वराह, वेतस, पीलु आदि शब्दों का आर्यों ने यथा क्रम में दीर्घ शूक, शूकर, वञ्जुल (वेद) एवं वृक्षविशेष रूप अर्थ में प्रयोग किया है । एवं म्लेच्छ इन शब्दों का प्रियङ्गु, कृष्णपक्षी, जम्बुवृक्ष एवं हस्ती के अर्थ में व्यवहार करते हैं । आर्य म्लेच्छों का इस अर्थ-व्यवहार के विषय में स्मृतिगत विरोध है, इनमें एक को प्रबल और अन्य को दुर्बल कहने का कोई कारण नहीं है, क्योकि, अर्थबोध कराना ही शब्द का प्रयोजन है और यह दोनों के प्रयोग से सिद्ध होता है, अतः, ये दोनों स्मृतियाँ तुल्यबल हैं, अतः इन शब्दों से दोनों अर्थों की अवगति होनी चाहिए । यही पूर्व पक्ष है ॥ ८ ॥ शास्त्रस्था वा तन्निमित्तत्वात् ॥९॥ सि० शा० भा०—वाशब्दः पक्षं व्यावर्तयति । यवशब्दो यदि दीर्घशूकेषु, सादृ- श्यात् प्रियङ्गुषु भविष्यति । यदि प्रियङ्गुषु, सादृश्याद् यवेषु । किं सादृश्यम् । पूर्वसस्येषे क्षीणे भवन्ति दीर्घशूकाः प्रियङ्गवश्च, एतत् तयोः सादृश्यम् । कः पुनरत्र निश्चयः ? यः शास्त्रस्थानाम्, स शब्दार्थः । के शास्त्रस्थाः ? शिष्टाः । तेषा- मविच्छिन्ना स्मृतिः शब्देषु, वेदेषु च । तेन शिष्टा निमित्तं श्रुतिस्मृतिधारणे । ते ह्येवं समामनन्ति यवमयेषु करम्भपात्रेषु विहितेषु वाक्यशेषं 'यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्ठन्तीति दीर्घशूकान् यवान् दर्श- यति वेदः' वेदे दर्शनादविच्छिन्नापारम्पर्यो दीर्घशूकेषु यवशब्द इति गम्यते । तस्मात् प्रियङ्गुषु गौणः । तस्माद् दीर्घशूकानां पुरोडाशः कर्तव्यः । तस्माद्वराहां गावोऽनुधावन्तीति सूकरे वराहशब्दं दर्शयति, अप्सुजो वेतस इति वञ्जुले वेतसशब्दम् । सूकरं हि गावोऽनुधावन्ति । वञ्जुलोऽप्सु जायते । जम्बूवृक्षः स्थले, गिरि नदीषु वा ॥ ९ ॥ इति यववराहाधिकरणम् ॥ ५ ॥
९ ] प्रथमाध्याये तृतीयपादः ४१७ भा० वि०—सिद्धान्तमाह—शास्त्रस्येति । एकस्य शब्दस्योभयार्थत्वं तावद- युक्तम्, अनेकशक्तिकल्पनागौरवात्, शब्दादर्थनवधारणप्रसङ्गात्, विकल्पप्रस- ङ्गाच्च । अतो न विप्रतिपत्त्योस्समबलतेति । वा शब्दं व्याचष्टे—वा शब्द इति । एकत्र मुख्यस्यान्यत्र गौणत्वोपपत्तेश्च नोभयार्थता युक्तेत्याह—यदिति । दीर्घ- शूकेषु मुख्य इति शेषः, यदि प्रियङ्गुषु मुख्यः सामान्यात् दीर्घशूकेषु भविष्य- तीत्यर्थः, किं तयोः सादृश्यमत आह—पूर्वसस्य इति । यद्यपि न प्रियङ्गवः शरत्पक्वा दीर्घशूकपाककालं फाल्गुनं यावदवतिष्ठमाना दृश्यन्ते । तथापि याभिरोषधीभिः - श्यामाकादिरूपाभिः सह वर्षासु मुमुदिरे । तासु प्रक्षीणास्वपि तेषामवस्थानदर्शनात् सादृश्याभिधानमित्यवसेयम् । एवं वा शब्दव्याख्यानेना- नेकार्थत्वानुपपत्त्या विप्रतिपत्त्योः समबलत्वं निरस्यावशिष्टं व्याख्यातुं प्रश्न- मुत्थापयति—कः पुनरितिः । कुत्र तर्हि मुख्यः ? कुत्र वा गौण इत्यर्थः, शास्त्रस्थ- पदं व्याकुर्वन्नुत्तरमाह—यच्छास्त्रस्थानमिति । प्रसिद्ध इति शेषः, शास्त्रस्थ- शब्देनाशास्त्रस्थार्थव्यावृत्तौ वैयर्थ्यं मन्वानः शङ्कते—के शास्त्रस्था इति । नायमार्यान् व्यावर्तयति, किन्तु म्लेच्छान् इति । परिहरति—शिष्टा इति । श्रौतस्मार्तकर्मस्वभियुक्ता इत्यर्थः । तदनेन प्रमाणमनुमानं स्यादित्यतोऽनुषक्त- प्रमाणपदान्वितं शास्त्रस्थपदं प्रमाणमित्येवं बलीयस्त्वफलवाचकमपि लक्षणया शास्त्रस्थप्रसिद्धिबलीयस्त्वपरं व्याख्यातम् । शिष्टप्रसिद्धेऽर्थे मुख्यत्वमुपपादयति— तेषामिति । शिष्टानां या स्मृतिः प्रतिपत्तिः शब्देषु-शब्दार्थसम्बन्धेषु सा लोके वेदे चाविच्छिन्ना अविप्लुता अबाधितेत्यर्थः, एतदुक्तं भवति शिष्टा एव हि धर्मा- धर्माविप्लुतिसिद्धये शब्दार्थतत्त्वं विविच्य पर्यालोचयन्तो दृश्यन्ते, म्लेच्छास्तु दृष्टार्थव्यवहारस्य यथा कथंचिदपि सिद्धेः नाविप्लुतिसिद्धये प्रयतन्ते, तेनार्याणा- मेव प्रसिद्धोऽर्थो मुख्यः तथा च तत्प्रसिद्धिरैव बलीयसीति । वेदेऽपि दीर्घशूकादौ यवादिशब्दप्रयोगात् प्रियङ्गवादौ चाप्रयोगादार्यप्रसिद्ध एव मुख्य इति वेदे चेत्यनेन सूचितम् । शिष्टप्रसिद्धेर्बलीयस्त्वफलमाह—तेनेति । निमित्तम्-प्रमाण- मित्यर्थः, श्रुतिस्मृत्यवधारणे-श्रुतिस्मृत्यनुकूलपदार्थावधारण इत्यर्थः । अत्र च तन्निमित्तत्वादिति सूत्रावयवोऽविप्लुतशास्त्रार्थानुष्ठाननिमित्तत्वात् तेषामित्येव योजनीयः । एवं यवमयादिवाक्येषु यवादिशब्दानामार्थप्रसिद्धिबलेन दीर्घशूकादि- विषयत्वनिर्णयमभिधाय वाक्यशेषेणापि तमाह—ते ह्येवमिति । ते शिष्टाः करम्भपात्रेषु-यवमयसक्तुपिण्डेषु पात्राकारविनिर्मितेषु वरुणप्रघासप्रकरणे प्रति- पूरुषं करम्भपात्राणि भवन्तीति विहितेष्वित्यर्थः, यत्र यस्मिन् फाल्गुने मासे, अथ तस्मिन् काल इत्यर्थः, एते-यवाः । वाक्यतात्पर्यमाह—दीर्घशूकानिति । ननु वाक्यशेषवशाद्यवशब्दस्य दीर्घशूकविषयत्वेऽपि कथं तत्रैव मुख्यत्वनिर्णय इत्यत आह—वेददर्शनादिति । अविच्छिन्नपारम्पर्यत्वं मुख्यत्वम् । दीर्घशूकेषु २७
४१८ मीमांसादर्शनम् [ सू० मुख्यत्वे प्रियङ्गुषु गौणत्वे च फलितमाह—(अत१ इति) तस्मादिति२ । पुरोडाश- शब्दो हविःपरः । वराहवेतसशब्दयोरपि वाक्यशेषाभ्यां सूकरवञ्जुलविषयत्वं दर्शयति—तथेत्यादिना । कथमाभ्यां सूकरवञ्जुलविषयत्वनिर्णयस्तत्राह—सूकरं हीति । नवायसमनुधावन्त्ययोग्यत्वादित्यर्थः, स्थलं विशिनष्टि—गिरिष्वित्यादिना । नदीषु-नदीकूलेष्वित्यर्थः, न च वाक्यशेषादर्थनिर्णये “सन्दिग्धे तु वाक्यशेषात्” इत्यनेन पौनरुक्त्यम् । वाक्यशेषस्य प्रधानहेतुत्वानङ्गीकारादुपोद्वलकत्वेनैव चोपन्यासादित्यवगन्तव्यम्, तस्मादार्यप्रसिद्धिवाक्यशेषाभ्यां यवादिशब्दानां दीर्घ- शूकाद्यर्थविषयत्वे सिद्धे, विकल्पाप्राप्तिरित्याधिकरणार्थं निगमयति—तस्मा- दिति ॥ ९ ॥ त० वा०—अभिधीयते— शास्त्रस्था तन्निमित्तत्वात्प्रतिपत्तिर्बलीयसी । लौकिकी प्रतिपत्तिर्हि गौणत्वेनापि नीयते ॥ ४०८ नानाविप्रतिपत्तौ हि न लोकस्येह सत्यता । या शास्त्रानुगुणा सैव प्रामाण्येनावधार्यते ॥ ४०९ लौकिकत्वे समानेऽपि शास्त्रेणाभ्यधिका हि सा । शास्त्रस्था पुरुषा ये वा प्रतिपत्तिस्तदाश्रया ॥ ४१० प्रमाणत्वेन मन्तव्या सप्रत्ययतरा हि ते । शास्त्रार्थेष्वभियुक्तानां पुरुषाणां हि सर्वदा ॥ ४११ स्तोकेनाप्यन्यथात्वेन शास्त्रार्थो निष्फलो भवेत् । लौकिकस्त्वन्यथात्वेऽपि नार्थोऽतीव विरुध्यते ॥ ४१२ रसवीर्यविपाकानां भेदाद्वैद्यैर्यवादयः । निर्धार्याः स्वार्थतत्त्वेन धर्मसिद्धयैच याज्ञिकैः ॥ ४१३ यस्माच्च याज्ञिकैर्यैषां वैद्यैर्वार्था निरूपिताः । तेषां त एव शब्दानामर्था मुख्या हि नेतरे ॥ ४१४ अनवस्थितशब्दार्थसम्बन्धः सति संभवे । विकल्पाश्चाष्टदोषत्वान्न कथंचन युज्यते ॥ ४१५ अविप्लुतश्च शब्दार्थो यो वेदेषूपलभ्यते । तत्रत्यनिर्णयात्तस्मालोके भवति निर्णयः ॥ ४१६ यवमतीभिरद्भिरोदुम्बर्याः प्रोक्षणे विधीयमाने वाक्यशेषोऽयं 'यत्रान्या ओषधयो म्लायन्तेऽथैते मोदमानास्तिष्ठन्ति' इति बह्वीषु शाखासु श्रूयते भाष्य- १. अत इति प्रतीकग्रहणमिति । २. तस्मादिति भा. पा. ।
९ ] प्रथमाध्याये तृतीयपादः ४१९ कारेण वारुणपाघासिकयवमयकरम्भपात्रवाक्यशेषत्वेनोपलब्धो यः स मन्दप्रयो- जनत्वात्तथा नामास्तु । फाल्गुनेऽन्यौषधीनां तु जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥ ४१७ प्रियङ्गवः शरत्पक्वास्तावद्गच्छन्ति हि क्षयम् । यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ॥ ४१८ तदा नान्यौषधिम्लानिः सर्वासामेव मोदनात् । एवं वराहवेतसशब्दा अपि शास्त्रस्थप्रयोगादेव निश्चीयन्ते । ( वार्तिकमते भाष्यकारोक्तोदाहरणाद्याक्षेपः ) न त्वेतान्युदाहरणानि, लोकप्रसिद्धेरेव व्यवस्थितत्वाद्युक्तानि । तथा हि—नैवोच्यन्ते क्वचिद्देशे यवश्रुत्या प्रियङ्गवः । जम्बू न वेतसं प्राहुर्वराहं नापि वायसम् ॥ ४१९ अध्यारोप्य विचारेण किं मुधा खिद्यते मनः । संदिग्धेषु च सर्वेषु वाक्यशेषेण निर्णयः ॥ ४२० वक्ष्यत्येव न तेनापि पृथक्कार्या विचारणा । यद्यपि तत्राभिधेयसंदेहमनुदाहृत्योपादानसंदेहनिर्णयोपायव्याख्यानं करिष्यति । यावद्वाक्यशेषमेव स निर्णयो नान्यत्र । अयं त्वभिधेयनिर्णय एकत्र च कृतः सर्वत्र च कृत एव भविष्यतीत्येव पुनरुक्तत्वमापद्यते । तथाऽपि न्यायतुल्यत्वाद्यथा घृतपरिग्रहः । वाक्यशेषात्तथैव स्याद्यवाद्यर्थविनिर्णयः ॥ ४२१ तत्सिद्धिसूत्रे च सारूप्यादीनां गौणवृत्तिनिमित्तानामनुक्रमणाद्वेतससदृशज- म्बूप्रत्ययसिद्धिरशब्दार्थत्वेऽपि विज्ञायत एवेति नेहोदाहृतेन कार्यम् । (आर्यम्लेच्छप्रयोगविप्रतिपत्तिबलाबलचिन्तनम् ।) पील्वधिकरणम् तस्मादन्यदुदाहृत्य विचार्यमिदमीदृशम् । यत्र विप्रतिपत्तिः स्यादायार्मलेच्छप्रयोगजा ॥ ४२२ तत्र किं तुल्यता युक्ता किमेकैव बलीयसी । समा विप्रतिपत्तिः स्यात् दृष्टार्थव्यवहारिणाम् ॥ ४२३ आर्यास्तावद्विशिष्येरन्नदृष्टार्थेषु कर्मसु । दृष्टार्थेषु तु तुल्यत्वमार्यम्लेच्छप्रयोगिणाम् ॥ ४२४
४२० मीमांसादर्शनम् [ सू० सर्वो हि शब्दोऽर्थप्रत्यायनार्थं प्रयुज्यते । अर्थश्च संव्यवहारप्रसिद्धयर्थमभि- धीयते । तत्र यस्य विशिष्टस्य म्लेच्छेष्वर्थान्तराभिधा । तत्रापि तस्य सामर्थ्यमनाद्येव प्रतीयते ॥ ४२५ यथैव ह्यार्यगम्येऽर्थे सम्बन्धानादिता मतिः । म्लेच्छगम्ये तथैव स्यादविशिष्टं हि कारणम् ॥ ४२६ न प्रयोगावधिस्तस्य म्लेच्छेष्वपि हि दृश्यते । अनाद्योरर्थशक्त्योश्च विशेषो गम्यतां कथम् ॥ ४२७ यथा च म्लेच्छदेशेऽपि धूमोऽग्नेरववोधकः । एवं स्वार्थे प्रयोगात्तैरिष्टः शब्दोऽपि वाचकः ॥ ४२८ तस्मात्पीलवादि शब्दानां वृक्षहस्त्यादिवोधने । समा विप्रतिपत्तिः स्यादार्यम्लेच्छप्रयोगतः ॥ ४२९ इति प्राप्ते । अभिधीयते—शास्त्रस्था वेति । पूर्ववदेव सकलसूत्रव्याख्या योजनीया । किञ्च—यथा साध्वनुरूपत्वान्प्रमादाशक्तेष्वपि । जायते वाचकभ्रान्तिस्तथैव म्लेच्छभाषिते ॥ ४३० शब्दापभ्रंशवदेव गौणभ्रान्त्यादिप्रयोगनिमित्ता अर्थापभ्रंशा भवन्ति । ते शास्त्रस्थैरेवाविप्लुतार्थक्रियानिमित्तपुण्यार्थिभिः शक्यन्ते साध्वसाधुकार्षापणमध्या- दिव तत्परीक्षिभिर्विवेक्तुम् । अभियुक्तनभियुक्तज्ञानयोश्चाभियुक्तज्ञानं बलवत् इतरस्य सुलभापवादत्वात् । अतः शास्त्राभियुक्तत्वादार्यावर्तनिवासिनाम् । या मतिः सैव धर्माङ्गशब्दाथर्त्वप्रमा मता ॥ ४३१ एतेनाऽऽर्यावर्तनिवासिमध्येऽपि— अभियुक्ततरा ये ये बहुशास्त्रार्थवेदिनः । ते ते यत्र प्रयुञ्जीरन् स सोऽर्थस्तत्त्वतो भवेत् ॥ ४३२ इति वार्त्तिकमतेन पीलुवर्णकम् (स्मृत्याचारविरोधे बलाबलविचिन्तनम् ।) समा विप्रतिपत्तिरितिसूत्रयोजनम् स्मृत्याचारविरोधे वा साम्यवैषम्यसंशये । समा विप्रतिपत्तिः स्यान्मूलसाम्याद् द्वयोरपि ॥ ४३३ यथैव श्रुतिमूलत्वात्स्मरणानं प्रमाणता । आचाराणां तथैवेति न विशेषो बलाबले ॥ ४३४
९ । प्रथमाध्याये तृतीयपादः ४२१ तेष्वदर्शनादिति सूत्रयोजना यद्वाऽऽचारबलीयस्त्वं फलस्थत्वात्प्रतीयते । फलाद्वियुज्यमानं हि प्रमाणं दुर्बलीभवेत् ॥ ४३५ श्रुतिराचारमूलं या फलस्था सोपलभ्यते । यावद्धि स्मरणं दृष्ट्वा श्रुतिरन्याऽनुमास्यते ॥ ४३६ तावल्लब्धात्मकः पूर्वमाचारः प्रतितिष्ठति । प्रतिष्ठितस्य बाधश्च कीदृशः परिकल्प्यताम् ॥ ४३७ तेनाऽऽचारबलीयस्त्वं संमतं चेह युज्यते । इति पूर्वपक्षः । सिद्धान्तः स्मृतीनां वा बलीयस्त्वं शास्त्रस्था वेति वर्ण्यते ॥ ४३८ उभयोः श्रुतिमूलत्वं न स्मृत्याचारयोः समम् । सप्रत्ययप्रणीता हि स्मृतिः सोपनिबन्धना ॥ ४३९ तथा श्रुत्यनुमानं हि निर्विघ्नमुपजायते । स्मृत्याचारयोर्द्व्यन्तरितप्रामाण्यमिति कथनम् आचारात्तु स्मृतिं ज्ञात्वा श्रुतिर्विज्ञायते ततः ॥ ४४० तेन द्व्यन्तरितं तस्य प्रामाण्यं विप्रकृष्यते । न ह्येकैव श्रुतिः काचिदाचाराणां प्रवर्तिका ॥ ४४१ भिन्नाभिर्विप्रकीर्णात्वान्नास्मृताभिः प्रवर्तनम् । नैकप्रपाठकेनैव ह्याचाराणां विधिस्थितः ॥ ४४२ क्वचित्प्रकरणे कश्चित् कथंचिदुपलभ्यते । तद्यथाऽग्निप्रकरणे 'यत्सप्तदशदतीमुपवधाति अन्नमेवोभयतो दधाति तस्मा- दुभाभ्यां हस्ताभ्यां परिगृह्य; पुरुषोऽन्नमत्ति' इति । सत्यपि हेतुवन्निगदत्वे प्रसिद्धिरहिते हेत्वसंभवात् । 'विधायिष्यते तु वेदे वचने' (शा० भा०) त्यनेन न्यायेन विध्यनुमानम् । न चैतन्नियोगतोऽर्थतः प्राप्तम्, येन 'तस्मात्प्रजा दश मासान्गर्भं धृत्वा एकादशमनुप्रजायन्ते, तस्मादश्वतर्यः प्रजाः' इतिवत् स्वभाव- प्राप्तत्वेन, अर्थप्राप्तत्वेन वा 'तस्मादुत्तरे वयसि पुत्रान्पितोपजीवति' इतिवदनूद्येते- त्यतो' न्यायात्पुरुषधर्मविधिः । एवम् 'अन्नमेव तद्दक्षिणतो दधाति, तस्माद्दक्षिणेन हस्तेन पुरुषोऽन्नमत्ति' इति । तथा दीक्षितो नयनं दक्षिणं प्रथमम् अङ्क्ते, सव्यं हि मनुष्याः पूर्वमञ्जते विधृत्यै' इति तै० सं० ६।१। तथा यूपैकादशिन्यां 'द्वे द्वे रशने यूपमृच्छतः । तस्मात्स्त्रियः पुंसोऽतिरिक्तास्तस्मादेको बह्वोर्जाया विन्दते, नैका बहून् पतीन्' इति ।
४२२ मीमांसादर्शनम् [ सू० तथा दर्शपूर्णमासप्रकरणेऽग्नीषोमीयविधिसम्बन्धलङ्घनेन त्वाष्ट्रवधनिमित्तेन्द्र- गतब्रह्महत्यातुरीयविभागप्रतिग्रहप्रस्तावागतरजस्वलाव्रतानां भूमिशयनास्नाना- मांसभक्षणानभ्यङ्गाञ्जनाविलेखनाकर्तनादन्तधावनानखच्छेदनाद्रज्जुसंसर्जना - दीनां त्रिरात्रविषयाणां प्रकरणातिरिक्तस्त्रीधर्मत्वावधारणम् । एवं च विप्रकीर्णानामशक्यैकत्र संहतिः । स्मृतिमेव दृढां मुक्त्वा तस्मादस्त्यन्तरा स्मृतिः ॥ ४४३ तेनाऽऽचारः स्मृतिं यावदनुमातुं प्रवर्तते । स्मृतिर्लब्धश्रुतिस्तावद्धर्ममेवावधारयेत् ॥ ४४४ तस्मादाचारेभ्यः स्मृतिर्बलीयसी सन्निवन्धनेति । ( लोकवाक्यशेषयोर्विरोधे बलाबलचिन्तनम् ॥ ) त्रिवृच्चर्वाश्वबालादेर्लोकेऽन्योऽर्थः प्रतीयते । वेदे तदभियुक्तैश्च तस्मादन्यो विलक्षणः ॥ ४४५ तत्र किं तुल्यकल्पत्वात्पदार्थे लोकवेदयोः । समा विप्रतिपत्तिः स्यादथवैका बलीयसी ॥ ४४६ लोके तावत्त्रिवृच्छब्दस्त्रिगुणत्वस्य वाचकः । त्रिवृद्रज्जुस्त्रिवृद्ग्रन्थिर्वेदे तु नवके स्थितः ॥ ४४७ त्रिवृद्वहिष्पवमानमित्युक्त्वा तृचत्रयमनुक्रान्तमिति स्तोत्रीयङ्नवकवचन एवं त्रिवृच्छब्दो विज्ञायते । तथाऽयं चरुशब्दोऽपि लोके स्थालीनिबन्धनः । याज्ञिकानां च वेदे च प्रसिद्धस्त्वोदनं प्रति ॥ ४४८ अनवस्त्रावितान्तरूष्मपक्वौदनवचनो हि याज्ञिकानां चरुशब्दः प्रसिद्धः तथा वेदेऽपि 'आदित्यः प्रायणीयः पयसि चरुः' इति विहिते पश्चादुक्तमदितिमोदनेनेति- वचनाच्चौदनवचनत्वं ज्ञातम् । एवमाश्वबालः प्रस्तरः, इत्यश्वजातीयबालमयः प्रस्तरो लोकप्रसिद्ध्या विज्ञायते । वैदिकवाक्यशेषात्तु काशेष्वश्वबालप्रसिद्धिः एवं हि श्रूयते— (यज्ञो वै देवेभ्योऽश्वो भूत्वाऽपाक्रामत्सोऽपः प्राविशत्) स वालधौ गृहीतः, स वालान्मुक्त्वा विवेश ह । ते बालाः काशतां प्राप्ताः कार्योऽतः प्रस्तरस्तु तैः ॥ ऐक्ष्व्यो विधृती ये च ते इक्ष्ववयवात्मिके । लोके सिद्धे तथा वेदे काशानामेव मूलके ॥ ४४९
९ ] प्रथमाध्याये तृतीयपादः ४२३ एवमादिषु सर्वेषु प्रतिपत्तिविपर्यये । प्रतिपत्तेः समानत्वाद्विकल्पो हि प्रसज्यते ॥ ४५० ननु च लोकप्रसिद्धेर्धर्मं प्रत्यनङ्गत्वार्द्वेदप्रसिद्धिरेव ज्यायसी ॥ नैतदेवं पदार्थेषु न हि वेदो विशिष्यते । अदृष्टहेतुवाक्यार्थे लोकात्स ह्यतिरिच्यते ॥ ४५१ तस्मादुभय्यपि त्वेषा प्रतिपत्तिः समा भवेत् । यदि वा पूर्वभावित्वाल्लौकिक्येव बलीयसी ॥ ४५२ वेदनिरपेक्षा हि लोकप्रसिद्धिरात्मानं लभते, वैदिकी पुनर्लोकप्रसिद्धपदान्तर- सामानाधिकरण्येन सिध्येत् । तत्र लोकाविरुद्धा या वैदिकी सैव गृह्यते । लोकसिद्धिं व्यतिक्रम्य साऽऽत्मानं नैव विन्दति ॥ ४५२ 'तेष्वदर्शनाद्विरोधस्य' इति च तेषु लौकिकेषु पदार्थेष्वदर्शनाद्विरोधस्यार्थ- वादानां चान्यपरत्वेन गुणवादप्रायत्वात् । आदित्ययूपयजमानप्रस्तरस्वर्गाहवनी- यादिवचनवत्कथमपि प्ररोचनाशेषत्वात् संज्ञासंज्ञिसम्बन्धकरणव्युत्पादनव्यापा- ररहितत्वाच्च न पदार्थप्रतिपत्त्यङ्गत्वमध्यवसीयते । तदाश्रयणे च विधिविरोध- प्रसङ्गात् । तेष्वेव वा दर्शनाद्विरोधस्येत्यभिप्रायः । तथा शास्त्रस्थमन्वादि- प्रसिद्धिरप्यस्मत्पक्षानुगुणैव । तथाऽऽह—'कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्' ।१ त्रिवृता ग्रन्थिनैकेति२ ॥ ४५४ तस्मात्समाऽपि तावद्भवत्विति प्राप्ते— सिद्धान्तः अभिधीयते–शास्त्रस्था प्रतिपत्तिर्या सैवात्र ज्यायसी भवेत् । धर्मस्य तन्निमित्तत्वात्ससाधनफलात्मनः ॥ ४५५ अर्थवादकृताऽप्यर्थप्रतिपत्तिर्बलीयसी । तद्ग्राह्यत्वादृते नान्यत्तस्या ह्यस्ति प्रयोजनम् ॥ ४५६ गौणो वा यदि वा मुख्यो वेदेनाऽऽश्रीयते हि यः । स धर्मसाधनत्वेन पदार्थोऽध्यवसीयते ॥ ४५७ १. 'शणसूत्रमयं राज्ञो वैश्यस्याऽऽविकमेव च' इत्युत्तरार्धम् । मनु० २ अ० श्लो० ४४ । २. मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ मनु० अ० २ श्लो० ४३
४२४ मीमांसादर्शनम् [ सू० त्रिवृच्छब्दः प्रयुक्तो यस्तस्तोत्रीयानवकं प्रति । कस्तं शक्तस्तोऽन्यत्र नेतुं जन्मशतैरपि ॥ ४५८ तेन यत्र त्रिवृदग्निष्टोम इति श्रूयते, तत्र तेनैवार्थेन भवितव्यम् । एवं स्तोम- शब्दो यद्यपि ब्राह्मणस्तोम इत्यादिषु समुदायमात्रवचनत्वेन प्रसिद्धः तथाऽपि 'त्रिवृदेव स्तोमो भवति, पञ्चदशस्तोमो भवति' इति वेदे श्रवणात् स्तुतेश्च मानं स्तोम इति याज्ञिकस्मरणात् । तथा 'स्तोमे डविधिः पञ्चदशाद्यार्थ' इति व्याक- रणशास्त्रप्रसिद्धेरवश्यमेव त्रिवृदादिषु लोकप्रसिद्धिरतिक्रमणीया । यत्तु मनुवचनं तदुभयाश्रयत्वात् समत्वेनापि युज्यते । यद्वा तत्रापि नव- तन्तुकमेव त्रिवृच्छब्दात्प्रत्येष्यते तथा रशनात्रिवृत्त्वमपीति । यद्वा यथैवायं नवके दृष्टः तथाऽयं स्तोत्रीयागतेऽपीति यत्रैव तत्संभवः तत्रैव तत्प्रसिद्धयनुपाती भवति । यत्र तु संख्येयान्तरविषयत्वम्, तत्र वैदिकोऽर्थो गौणः, गृह्यतां लौकिको वा मुख्य इति तादृशे विषये मुख्यार्थत्वाल्लौकिकप्रसिद्धिरेव ग्रहीतव्येत्युत्तरसूत्रे वक्ष्यामः “चोदितं तु प्रतीयेताविरोधात्” इति । तथा चरुशब्दोऽप्यन्याय्यानेकार्थाभिधानप्रतिबद्धशक्तित्वादेकत्र नियम्यमानो याज्ञिकवेदप्रसिद्धिभ्यामोदनविषय एव भवति । आश्ववालैक्षवीशब्दौ तु यदि तावद्वैदिकप्रयोगलब्धसमुदायप्रसिद्धित्वेन लौकिकीमवयवप्रसिद्धिं जहीतः । ततः सिद्धमेव शास्त्रस्थप्रतिपत्तिबलीयस्त्वम् । अथापि श्येनजात्युपमितप्रसिद्धश्येनयागे गौणत्वद्वारा वाऽऽप्तप्रसिद्धिः 'समानमितरच्छचेनेन' इत्यादिष्विवाऽऽश्रीयते; तथाऽपि शास्त्रकल्पितत्वाद्धर्मं प्रति बलीयस्त्वम् । अथापि शब्दगौणत्वं तथाऽपि बलवत्तरम् । स्वतन्त्रस्य हि वेदस्य. दृष्टं चेन्न निवार्यते ॥ ४५९ गौणं लाक्षणिकं वाऽपि वाक्यभेदेन वा स्वयम् । वेदो यमाश्रयत्यर्थं को नु तं प्रतिकूलयेत् ॥ ४६० न चात्र 'सन्दिग्धेषु वाक्यशेषात्' इत्येतेन तुल्यार्थत्वम्, प्रतिपत्तिद्वयस्याप्य- सन्दिग्धत्वात् । लौकिकी प्रतिपत्तिर्हि स्वार्थे निःसंशया स्थिता । वैदिक्यपि तथा स्वार्थे बाधतेऽतो विपर्ययात् ॥ ४६१ तस्माच्छास्त्रस्थितैवैका प्रतिपत्तिर्बलीयसी । न समा मुक्तकाचारैर्विप्रकृष्टैः ससंकरैः ॥ इति ॥ ९ ॥ ४६२ (इति वर्णकचतुष्टयसहितं यववराहाधिकरणम् ॥ ४ ॥)
९ ] प्रथमाध्याये तृतीयपादः ४२५ न्या० सु०—अत्र भाष्याच्छास्त्रस्थम्लेच्छप्रसिद्धयोर्बलाबलचिन्तेति प्रतिभाति । तच्च म्लेच्छाचारप्रामाण्यस्य प्रागव्युत्पादितत्वादयुक्तमाशङ्क्य, शब्दार्थविषये म्लेच्छाचारप्रामा- ण्याप्रामाण्यचिन्तापरत्वेन सन्देहभाष्यं व्याचष्टे-ये शब्दा इति । म्लेच्छप्रसिद्धार्थग्रहणेऽपि- कादिशब्दानर्थक्यमाशङ्क्य भाष्यकृता धातुतोऽर्थः प्रकल्पयितव्य इत्यभिधानादार्य- प्रसिद्धयभावेऽपि म्लेच्छप्रसिद्धार्थो न ग्राह्य इति पूर्वपक्षवचनव्यक्तिः सूचितेत्याशयः । किमत्र सन्देहकारणमित्यपेक्षायामाश्रयस्वरूपतावलावलीविसंवादं सन्देहकारणं दर्शयितुमाह— तथेति । प्रकृतचिन्तासिद्धयर्थम् । एतदपि चिन्त्यते इति तथाशब्दार्थः । निरुक्तव्याक्रिया- द्वारेत्यनेन शास्त्रस्थत्वमवयवप्रसिद्धित्वं सूचितम् । समुदायप्रसिद्धिर्वा बलीयसीत्यनुषङ्गः । ननु षष्ठे वचनाद्रथकारस्याधानस्य सर्वशेषत्वाद्वि(६-१-४४)त्यत्राधिकरणे समुदायप्रसिद्धेरव- यवप्रसिद्धितो बलीयस्त्वस्य वक्ष्यमाणत्वात्समुदायावयवप्रसिद्धयोर्बलाबलचिन्ता पुनरुक्ते- त्याशङ्क्य—म्लेच्छस्थैवेत्युक्तम् । शास्त्रस्थप्रसिद्धेर्बलीयस्त्वे समुदायप्रसिद्धिम्लेच्छेष्वेव तिष्ठति, नायंगामिनी भवति नायींन्प्रत्यत्मानं लभत इत्यर्थः । अथ वावयवप्रसिद्धित्वेन तस्या दौर्बल्यात्समुदायप्रसिद्धिराचार्यानपि प्रति भवेदात्मानं लभत इत्यर्थः । समुदायप्रसिद्धेरेवात्र प्रामाण्याप्रामाण्यरूपमात्मलाभसद्भावसिद्धयर्थं निरुक्तादिद्वारप्रसिद्धिवलात्रलविचारः क्रियत इत्याशयः । यद्वा किं निरुक्तादिद्वाराप्रसिद्धिः शास्त्रस्थत्वाद् बलीयसो, म्लेच्छस्थैव वा समुदाय- प्रसिद्धत्वादित्येकं विचारप्रकारमुक्त्वा किं निरुक्तादिद्वारावयवप्रसिद्धिर्वा म्लेच्छस्थत्वादिति प्रकारान्तरसूचनार्थत्वेन वाप्यथवा शब्दो योज्यः । यद्वा शास्त्रस्थम्लेच्छप्रसिद्धयोः का बलीयसीत्येवं प्रकारमुक्त्वा, म्लेच्छस्थैव वा किं म्लेच्छस्थत्वाद् दुर्बला, समुदायप्रसिद्धित्वाद् बलीयसीत्येवं विचार्या भवेदिति प्रकारान्तर- प्रतिज्ञानार्थोऽथ वा शब्दः । म्लेच्छस्थैव प्रसिद्धिविचार्या भवेदित्युक्ते कथं विचार्येत्यपेक्षायां विचारस्वरूपं सोपपत्तिकं दर्शयति—म्लेच्छस्थप्रसिद्धिंरिति । पूर्वव्याख्यानयोरप्येतदेव प्रकारान्तरप्रतिज्ञातमेवानेन ग्रन्थेन प्रतिपाद्यत इति विशेषः । निरुक्तादिद्वारैव वा प्रसिद्धिः किं शास्त्रस्थत्वात् बलीयसी अवयवप्रसिद्धित्वाद्वा दुर्बलेति प्रकारान्तरमाह—तथेति । भाष्येऽपि निगमनिरुक्तव्याकरणवशेनेत्यनेनावयवप्रसिद्धेः शास्त्रस्थत्वं बलीयस्त्वका- रणमुक्तम् । कल्पयितव्य इति कल्पनीयत्वं दौर्बल्यकारणम् । म्लेच्छा इति च समुदाय- प्रसिद्धेम्लेच्छस्थत्वं दौर्बल्यकारणमुक्तम् । आचरन्तीति क्लृप्तत्वं बलीयस्त्वकारणमिति विवेकः । शिष्टाचारस्येत्यादिपूर्वपक्षभाष्यं सन्देहभाष्यव्याख्यानोपसंहारपूर्वकं व्याचष्टे— एवमिति । म्लेच्छप्रसिद्धौ प्रयोक्तृदौर्बल्यम्, स्वरूपबलीयस्त्वम् इतरत्र प्रयोक्तृबलीस्त्वम्, स्वरूपपदौर्बल्यमित्युपपत्तितुष्ट्यान्म्लेच्छप्रसिद्धिप्रामाण्याप्रामाण्यसन्देहे सिद्ध इत्यर्थः । पूर्वापवादत्वेनानन्तरसङ्गतिसूचनार्थं सूत्रोपन्यासः । पिकादिशब्दार्थप्रसिद्धेः शास्त्रस्थाना- मसिद्धत्वात्कथं बलीयस्त्वमित्याशङ्क्य—कल्पापीत्युक्तम् । नावक्लृप्तायाः स्वरूपेणैवा-
४२६ मीमांसादर्शनम् [ सू० सत्त्वात्कथं बलीयस्त्वमित्याशङ्क्य, साधुमूलबलेनासिद्धाया अपि साधयितुं शक्यत्वादिति परिहरति-तन्मूलस्येति । ननु समुदायप्रसिद्धद्यवयवप्रसिद्धिबाधात्कथं प्रामाण्यमित्याशङ्क्य,निराकरणार्थं नाशिष्ट- स्मृतेरिति भाष्यावयवं व्याचष्टे- न सिद्धमपीति । म्लेच्छप्रसिद्धेऽर्थे वैदिकानां शब्दानां समुदायप्रसिद्धेरात्मलाभासम्भवान्नावयवप्रसिद्धेर्बाधकमस्तीत्याशयः । सिद्धमप्यसन्मूलं न प्रमाणमिति, लुप्तमावप्रत्ययपमाणशब्दानुषङ्गेण योज्यम् । ननु शब्दार्थसम्बन्धस्य वृद्धव्यव- हारमात्रप्रमाणकत्वान्लेच्छव्यवहारस्यापि तत्र प्रामाण्योपपत्तेः कथमाश्रयदोषेण दुष्टत्व- मित्याशङ्कयाभ्युपगम्यापि तावन्म्लेच्छव्यवहारस्य शब्दार्थसम्बन्धे प्रामाण्यम्, वैदिकशब्दानां म्लेच्छप्रसिद्धार्थाभिधायित्वं न सम्भवतीत्याह - कथमिति । गृहीतसम्बन्धस्य श्रुतस्य शब्दस्यार्थाभिधायकत्वान्लेच्छानां च सम्बन्धग्रहणसम्भवेऽपि वैदिकशब्दश्रवणाभावात्तच्छा- विणां चार्याणां म्लेच्छसम्भाषणनिषेधेन तत्प्रसिद्धार्थसम्बन्धग्रहणासम्भवाम्नायान्प्रति समुदायप्रसिद्धेरात्मलाभः सम्भवतीत्याशयः । म्लेच्छप्रसिद्धार्थग्रहणे च निगमादीनाममर्थ- क्यापत्तेस्तद्ग्रहणं न युक्तमिति, प्रतिपादनार्थं निगमादीनां चेति भाष्यम् । म्लेच्छप्रसिद्धा- र्थाभावे निगमादीनामर्थवत्त्वोपपत्तेरयुक्तमाशङ्क्योपपादयति-एवं चेति । म्लेच्छप्रसिद्धेः प्रमाणत्वे सतीत्यर्थः । ननु सर्वम्लेच्छदेशान्वेषणेऽपि यस्यार्थस्याऽप्रसिद्धिः, स निगमादीनां विषयो भविष्य- तीत्याशङ्क्याह-अनन्तेति । शङ्कामेवोपपादयति-अनन्तेषु हीति । कोऽर्थः क्व देशे सिद्ध इत्यर्थः । सर्वम्लेच्छदेशानन्वेषणे तु बाधशङ्का दुष्परिहरेत्याह-निगमादिति । अस्मत्पक्षे त्वायविर्त्तदेशस्याल्पत्वेन सर्वान्वेषणसम्भवात्तदप्रसिद्धोऽर्थो निगमादीनां विषयो भविष्यतीत्याह- म्लेच्छाचारेति । उपसंहरति तस्मादिति । म्लेच्छव्यवहारस्य शब्दार्थ- सम्बन्धे प्रामाण्यमभ्युपगम्य वैदिकशब्दार्थावधारणं म्लेच्छव्यवहारान्न - सिद्ध्यतीत्युक्तम् । परमार्थतस्त्वनभियुक्तत्वान्लेच्छानाम्, न तद्व्यवहारः शब्दार्थसम्बन्धे प्रमाणमिति, प्रति- पादनार्थमनभियोगश्चेत्यादिभाष्यं व्याचष्टे - धर्मे चेति । नन्वपभ्रष्टस्य शब्दस्यार्थतत्त्वा- नवधारणेऽपि संस्कृतस्य शब्दस्य म्लेच्छव्यवहारादप्यर्थतत्त्वावधारणं भविष्यतीत्याशङ्क्याह- न चेति । 'न म्लेच्छभाषां शिक्षेतेति' तद्भाषाविषेषसूचनायापभाषणमित्युक्तम् । ननु पिकादिशब्दानां वेदतदभियुक्तप्रयुक्तत्वेन संस्कृतानां म्लेच्छभाषायां दृष्टत्वाद- सत्त्वचनमयुक्तमित्याशङ्क्याह- संस्कृतेति । अविभक्तिकत्वात्संस्कृतसदृशास्तैः प्रयुज्यन्ते । न च सादृश्यमात्रेण शालाशब्दस्येव मालाशब्दार्थवाचकत्वं युक्तमित्यर्थः । यवादिशब्दाना- माचारान्तरे प्रयोगात्र म्लेच्छव्यवहारेणाऽर्थतत्त्वाध्यवसाय इति द्योतनायाऽर्थान्तरे - इत्युक्तम् । संस्कृतप्रतिरूपेभ्यश्च म्लेच्छप्रयुक्तेभ्यः । संस्कृतशब्दकल्पने अनेकविधोत्प्रेक्षा- सम्भवान्न व्यवस्थितशब्दार्थावधारणं सम्भवतीत्याह - आर्याश्चेति । कथं पदान्तराक्षरोपेतं कल्पयन्तीत्यपेक्षिते कदाचनेति - प्रकारद्वयमुक्तम् ।
९ ] प्रथमाध्याये तृतीयपादः ४२७ यन्म्लेच्छैरधिकाक्षरं प्रयुक्तम्, तत्र स्वराद्यधिकमक्षरं प्रक्षिपन्तीत्यर्थः । एतदेव विवृणोति—तद्यथेति । आदिशब्दोऽनुस्वारलोपमत्वर्थीयप्रत्ययाभिप्रायः । स्वरान्तकल्पना- मुदाहरति—तद्यथेति । स्वरान्तत्वविभक्त्यन्तत्वकल्पनयोदाहरणमाह—पन्थानामिति । स्वरान्तानुस्वारलोपकल्पनयोरुदाहरणमाह—तत्त्वेति । स्त्रीप्रत्ययकल्पनामुदाहरति— एवमिति । मत्वर्थीयप्रत्ययकल्पनामुदाहरति —वैरशब्दं चेति । विशेषतः प्रत्यन्तवासिम्ले- च्छभाषायां व्यवस्थितशब्दार्थावधारणं न सम्भवतीत्याह—तद्यथेति । किं शब्दस्वरूपं स्वभाषानुरूपमुत्प्रेक्ष्य किमर्थरूपं प्रतिपत्स्यन्त इत्यर्थं । उपसंहरति—तस्मादिति । विविधं कल्प्यत इत्यर्थं। तस्मादित्यपसंहारभाष्यं व्याचष्टे—निरुक्तेरिति । निरुक्तादिभ्योऽनेकार्थप्रति- मानेऽप्यक्षादिशब्दवत्प्रकरणादिना विशेषावधारणम्, तदभावेऽप्यसम्मद्व्युत्पत्तिपदार्थन्या- वृत्त्या सम्मद्व्युत्पत्तिपदार्थविशेषरूपेणावधारणं भविष्यतीत्याशयः । सूत्रव्याख्यानार्थमेवं प्राप्त इत्यादिसिद्धान्तभाष्यम् । शब्दाविप्लुत्यभावेनार्थविप्लुतिशङ्का- निराकरणाशक्तेरयुक्तमाशङ्क्य, शब्दान्तरेषु विप्लुतिशङ्कानिराकरणाशक्तावपि पिकादि- शब्दानां वेदादिशास्त्रप्रयुक्तत्वेनाविभक्तिम्लेच्छप्रयोगेऽपि प्रातिपदिकाविप्लुतिनिश्चयान्मु- ख्यार्थान्तराप्रसिद्धेश्च गौणत्वायोगादनादिम्लेच्छव्यवहारान्यथानुपत्त्या वाचकत्वकल्पनं युक्त- मित्याभिप्रायेण व्याचष्टे— एवमिति । पिकादिशब्दस्वरूपस्य शिष्टैरप्यवगतत्वाद्रोतृत्वास- म्भवप्रतिपादनार्थं शिष्टानवगतिविशेषणानुपपत्तिमशङ्क्यार्थं इत्युक्तं प्रतीयेतेत्यस्य न्यूनत्वा- शङ्कानिराकरणार्थं—तथैवेत्युक्तम् । विध्यनुवादविवेकार्थो यत्तच्छब्दौ । अविरोधत इति तसिला यत्प्रमाणेनेति यच्छब्दा यस्मादित्यर्थे व्याख्यातः । तदवे गम्यमानमिति भाष्यावयवं विप्लुतिशङ्कानिराकरणार्थत्वेन व्याख्यातुम्—पिकेत्युक्तम् । यथाभाष्यं सूत्रपादानामन्वयं कृत्वा पदार्थान्व्याचष्टे—चोदितं हीति । हिशब्दोऽलङ्कारार्थः । न तद्धर्मंप्रमाणेनेत्यत्र चाकृष्य व्याख्येयः । म्लेच्छप्रयुक्तस्यार्थस्यान्यप्रत्यप्रसिद्धिमाशङ्क्य—अवधृतमित्युक्तम् । विरोधाभावाभिप्रायेणाविरोधपदं व्याख्यायाधर्मपदवद्विरोधविपरीतानुसारामिप्रायेण
४२८ मीमांसादर्शनम् [ सू० निराकरणार्थं यत्तु शिष्टाचार इति भाष्यं व्याचष्टे—यत्त्विति । एवमनुभाष्य स्वयं ताव- च्छब्दार्थव्यवहारेऽपि पूर्वाधिकरणन्यायेन शास्त्रस्थप्रसिद्धिवलीयस्त्वमङ्गीकृत्य विरोधाभावे- नाऽबाधमाह—नेति । नन्वविरोधेऽपि शाक्यादिग्रन्थवच्छिष्टापरिगृहीतत्वानम्लेच्छव्यवहार- स्याप्रामाण्यं भविष्यतीत्याशङ्कयाह—यदेवेति । या वेदबाह्याः स्मृतय इत्यादिना वेदबाह्य- स्मृतीनां निष्फलत्वस्मरणान्छाक्यादिग्रन्थावगतस्य श्रुत्यादिसम्वादिनाऽपि श्रेयःसाधन- त्वाभावप्रतीतेरदृष्टार्थेषु वेदबाह्यानां विरोधाभावे—अप्यप्रामाण्यं युक्तम् । दृष्टार्थे तु शब्दा- र्थव्यवहारे म्लेच्छानामपि प्रतीतिप्रयोगान्यथानुपपत्तिप्रभववाच्यवाचकभावविषयार्था- पत्तिज्ञानस्य निराकर्त्तुमशक्यत्वादप्रतिहतं प्रामाण्यमित्याशयः । एतदेव पूर्वाधिकरणव्युत्पादिताभियुक्ततरायंप्रसिद्धिवलीयस्त्वेन द्रढयति—अत एवेति । यत एवाविरोधे दुर्बलस्यापि ग्राह्यत्वम् । अत एव वैदिकवाक्यार्थे येऽभियुक्ततरा वैद्यास्तेषा- मितरार्येभ्यो बलीयस्त्वमन्यथा शास्त्रापेक्षया तत्प्रसिद्धेरपि दौर्बल्यादग्राह्यत्वं स्यादित्यर्थः । नन्वार्यान्तरेभ्योऽप्यभियुक्ततरार्याणां बलीयस्त्वे म्लेच्छेभ्यः सुतरां स्यादित्याशङ्क्य— प्रसिद्धिविति । श्लोकं विवृणोति—अष्टकादिषु हीति । अष्टकाद्यर्थेषु मन्वादीनां शाक्या- दिभ्यो बलीयस्त्वं पदस्वरूपज्ञानेषु वैयाकरणानामितरेभ्यः, पदार्थज्ञानेषु याज्ञिकानां वैद्यानां च पिकादिषु तु म्लेच्छप्रयोगेभ्योऽर्थनिर्णये सति न किंचिद्विरुद्धम् । प्रत्युताकाङ्क्षितं पदार्थज्ञानं सेत्स्यतीत्यन्वयः । ननु विप्लुतिभूयिष्ठत्वेन म्लेच्छप्रयोगेभ्यः शब्दस्य स्वरूपस्यैवानवगतेः कथंचिद बाह्यस्वरूपावगमेऽपि स्तोमाक्षरवद्वाचकत्वस्यापि सम्भवात् कथं पदार्थज्ञानाकाङ्क्षत्या- शङ्कयार्थेत्युक्तम् । वेदादौ प्रयोगात्स्वरूपावगमः, वाक्यान्त्यान्यथानुपपत्त्या च वाचकत्वा- वगमः, वाच्यविशेषज्ञानमपि तर्हि आर्येभ्य एव भविष्यतीत्याशङ्क्य—वाच्येत्युक्तम् । ननु म्लेच्छप्रयोगात्रिर्मूलाञ्ज्ञार्थानिर्णयो युक्त इत्याशङ्क्य—पदवदित्यक्तम् । म्लेच्छानामपि मूलप्रमाणसम्भवो दृष्टग्रहणेनोक्तः । अनादित्वेन दोषनिरासः पदे यथा प्रत्यक्षत्वान्मले- च्छेरपि लब्धाप्रसिद्धिः । एवं दृष्टो यः कोकिलादिरर्थः । तत्प्रतिपत्त्यर्थो योऽनादिः पिकादिशब्दप्रयोगः तेन लब्धशब्दार्थसम्बन्धविषया प्रसिद्धिर्यैम्लेच्छैस्ते तथोक्ताः । नन्वार्यप्रसिद्धयभावेऽपि निगमादिभ्योऽर्थनिर्णये सिद्धेम्लेच्छ्रप्रसिद्धिबाधः स्यादि- त्याशङ्कयाह—निगमेति । ननु निगमादिभिर्निधारितरूपार्थविशेषानुदाहरणेऽप्यवयव- व्युत्पत्त्या कश्चिदर्थविशेषो ज्ञाप्यते । अत आह—काल्पनिक इति । अनेन च सत्यपि विरोधे समुदायप्रसिद्धेरेव रथकारधिकरणन्यायेनावयवप्रसिद्धितो वलीयस्त्वादबाध इत्युक्तम् । भाष्यकृता त्वदृष्टार्थेष्वेव शिष्टाचारस्य म्लेच्छाचाराद् बलीयस्त्वं न लौकिकेष्विति तत् प्रत्यक्षानवगतेष्वपि परिहारः कृतः । तद्व्याचष्टे आश्रयाणां चेति । म्लेच्छानामनभियुक्त- त्वात्तदाचारस्य शब्दार्थसम्बन्धाप्रामाण्यं पूर्वपक्षोक्तं यत्त्वभियुक्ता इत्यनुभाष्याभियुक्ततरा इति भाष्येण परिहृतम् । तद्व्याचष्टे—तस्मादिति । वाच्यनिर्णये म्लेच्छानां प्रामाण्याभावे
९ ] प्रथमाध्याये तृतीयपादः ४२९ कौशलमात्रस्याप्रयोजकत्वात् दृष्टार्थेषु शिष्टम्लेच्छयोः प्रामाण्येन तुल्यत्वमनन्तरोक्तम् । तस्मा- च्छब्देन परामृष्टम् । यत्तु शब्दस्वरूपवन्म्लेच्छप्रसिद्धेऽर्थेऽप्यविश्वास इत्युक्तं तत्परिहरति— शब्देति । शिष्टाचारनिबन्धनेनाश्वासः, न स्वरूपयुक्त इत्याशयः । किं च पिकादिशब्द- वाच्यानां कोकिलादीनामर्थे देशसद्भावात्पिकादिशब्दवाच्यत्वरूपेणार्याणामप्रसिद्धावपि स्वरूपेण प्रसिद्धिसम्भवान्न तत्स्वरूपज्ञाने म्लेच्छापेक्षा । पत्रोर्णादिशब्दवाच्यानां तु स्वरूपज्ञानेऽपि म्लेच्छापेक्षणादवश्यं तत्प्रसिद्धिरादरणीयेत्याह—पत्तोर्णेति । पत्नोर्णं धौत- कौशेयम् । वारमोषधिरसपावनसाधनविशेषः । वाणो वाद्यविशेषः कञ्चुकं वा । तथा चैकमेवेदं वारवाणपदम् । कथंचिच्छब्दार्थे नेमशब्दः । यदपि म्लेच्छप्रसिद्धार्थाङ्गी- करणे निगमाद्यानर्थक्यमुक्तम्, तत्स्वयं तावद्भिन्नविषयत्वेन परिहरति—निरुक्तादेश्चेति । अर्थप्रतिपादनपरत्वाभावे निर्विषयनिमित्तादिमात्रप्रतिपादनानुपपत्तिमाशङ्क्यान्यतः सिद्धेऽर्थं इत्युक्तम् । ननूतत्वः पश्यन्न ददर्श वाचमित्यादौ त्वादिशब्दानामेकैकपूर्वार्थंप्रति- पादनस्य निरुक्ते दर्शनात्कथं निमित्तमात्रे व्यापार उच्यते । व्याकरणे च सधिर्हिंसाया- मित्यादौ सध्यादेर्हिंसापूर्वार्थंप्रतिपादनदर्शनात्कथं शब्दस्वरूपान्वाख्यानमात्रे व्यापार उच्यत इत्याशङ्क्य स्वरूपत इत्युक्तम् । स्वेनात्मीयेनार्थंप्रतिपत्तिशेषत्वेन रूपेणेति व्युत्पत्त्या तात्पर्य्येनेत्यस्यार्थः । श्लोकं व्याचष्टे—निरुक्तेन तावदिति । भाष्यकृता तु म्लेच्छानामप्य- प्रसिद्धेऽर्थे निगमादीनामर्थवत्तेति । यत्तु निगमेत्यादिनानुभाष्येण पूर्वमानर्थक्यं परिहृतम् । तद्व्याचष्टे—यत्स्थ चेति । सर्वं नामधातुजमित्यर्थकल्पनाद्वारं निरुक्ते प्रदर्शितम् । यत्र पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्ममिति व्याकरणे म्लेच्छदेशानन्त्येऽपि देशान्तर- गतपुरुषवार्त्तापरम्परया सर्वदेशप्रसिद्धयभावनिश्चयः सम्भवतीत्याशयः । काममित्यनेना- नावश्यकत्वं दर्शितमुपपादयति—विह्रियेति । प्रकृतिप्रत्ययार्थयोरेकत्रानन्वाख्यानाद् बहुरूपत्वं सन्देहहेतुत्वेनोक्तम् । नन्वपूर्वार्थप्रतिपादनपरत्वाभावे निमित्तमात्रप्रतिपादनेन प्रयोजनाभावादानर्थक्यं स्यादित्याशङ्कयाह न चेति । षडङ्गाद्वेदाद्यद्वेदार्थविज्ञानम्, ज्ञानं च सत्पूर्वायाः कर्मणः क्रियाकरणमनुष्ठानं ततो हि फलं भवतीत्यर्थः । निरुक्तजन्यस्य शब्द- प्रवृत्तिनिमित्तत्वज्ञानस्य तत्पूर्वकानुष्ठानद्वारेणादृष्टोपयोगित्वे व्यासवचनं सिद्धं दृष्टान्तं तावदाह—यथेति । निर्वचनज्ञानमात्रात्सर्वपापक्षयप्रसिद्धौ भारताद्यध्ययनतदर्थानुष्ठानानर्थ- क्यापत्तेः प्रधानफलमेवेदमङ्गस्तुत्यर्थं कीर्तितमित्याशयः । दार्ष्टान्तिके योजयन् श्लोकं व्याचष्टे—एवमिति । वेदमात्रात्कर्मावबोधप्रसिद्धेर्निरुक्ताद्यानर्थक्यमाशङ्कयाव्युत्पन्नरूपे चेत्युक्तम् । निरुक्तादावगतो यो धात्वर्थपूर्वको नामार्थः तद्ज्ञानद्वारा या वाक्यार्थप्रति- पत्तिः ता पूर्वकानुष्ठानादित्यर्थः ॥ ९ ॥ इति षष्ठं पिकनेमाधिकरणम् भा० प्र०—प्रदर्शित शङ्का के उत्तर में सिद्धान्तस्वरूप कहा गया है कि आर्यों की प्रसिद्धि ही बलवान् है। क्योंकि लौकिक अर्थ के बोध के लिए ही यदि शब्दप्रयोग होता
४३० मीमांसादर्शनम् [ सू० तो आर्य और म्लेच्छ दोनों के प्रयोगों से ही इस प्रयोजन की सिद्धि होती, और ऐसी स्थिति में बलाबल अनवधारित रहता । किन्तु धर्म का ज्ञान शब्द का प्रयोजन है, और शब्द से ही धर्मतत्त्व की अवगति हो जाती है, तत्र शब्द और अर्थ का अल्पविप्लव भी धर्म का प्रतिद्वन्द्वी होगा, अतः आर्यों ने अतिशय सावधानी से निगम निरुक्त आदि के साहाय्यसे यथायथ अर्थ का स्मरण कर निर्णय करते हैं । म्लेच्छों के द्वारा प्रदर्शित अर्थ में वैपरीत्य रहने पर उसके परिहार का कोई साधन न होने से उनके अर्थ में विपर्यय स्वाभाविक है । इसलिए म्लेच्छों से व्यवहृत विपरीत अर्थ की स्मृति की अपेक्षा आर्यों का विप्लव शून्य अर्थ स्मरण ही बलवान् है । एक ही शब्द का अनेक अर्थ मानने पर विकल्प का प्रसङ्ग होगा । विकल्प मानने पर आठ दोषों की स्थिति होती है, अतः यह मानना उचित नहीं है । एक ही शब्द का विभिन्न अर्थ होने पर प्रत्येक अर्थ के प्रति शब्द की वाचकता शक्ति की कल्पना करनी पड़ेगी, इसलिए एक शब्द का अनेक अर्थ मानना उचित नहीं है । हरि शब्द का अनेक अर्थ माना गया है, किन्तु वहाँ तो अन्य उपाय न होने के कारण हरि शब्द को अनेकार्थक मानना पड़ता है, इसलिए यव, पीलु शब्द का अर्थ दीर्घशूक वृक्षविशेष ही समझना चाहिए । वार्तिककार ने इस प्रसङ्ग में भिन्न रूप में अधिकरण की रचना कर स्मृति और आचार के विरोध में बलाबल का निरूपण किया है । देश भेद से अनेक आचार और स्मृति विरुद्ध मिलते हैं । फिर भी स्मृति और आचार को समान बल मानकर विकल्प होगा या स्मृति के द्वारा आचार का बाध होगा ? इस प्रकार संशय का उत्थापन कर सिद्धान्त में कहा है कि आचार के द्वारा स्मृति का अनुमान एवं स्मृति के द्वारा श्रुति का अनुमान होगा । क्योंकि, स्मृति के समान आचार स्वयं विधायक नहीं है । अतः, श्रुति के साथ आचार का दूर का सम्बन्ध है और स्मृति का श्रुति के साथ सन्निकृष्ट सम्बन्ध स्थित है । इसलिए आचार जितने काल की अपेक्षा कर स्मृति के द्वारा श्रुति की कल्पना कर विधायक होगा, स्मृति उससे कम ही समय में श्रुति की कल्पना कर स्मृति का प्रामाण्य प्रतिष्ठित करेगी । अतः स्मृति और आचार का प्रामाण्य तुल्यबल नहीं है । आचार के प्रामाण्य में स्मृति और श्रुति दो का अन्तर है, और स्मृति के प्रामाण्य में केवल एक श्रुति का ही अन्तर है, अतः दोनों में विकल्प की सम्भावना नहीं है, वरन् स्मृति से आचार का बाध ही होगा, अतः दक्षिण में मातुल (मामा) की कन्या के साथ पाणिग्रहण आदि आचार "मातुलस्य सुतामूढ्वा.......त्यक्त्वा चान्द्रायणं चरेत्" इस स्मृति के विरुद्ध होने से अनादरणीय है । इसी प्रकार पर्युषितान्न भोजन, पति- पत्नी का सहभोजन आदि आचार स्मृति विरुद्ध होने से अप्रमाण है । इस प्रसङ्ग में न्यायसुधा भाट्टदीपिका भाट्टचिन्तामणि में विस्तृत विचार पूर्वक मातुलकन्या के साथ विवाह का प्रामाण्य स्थापित किया गया है ।
१० ] प्रथमाध्याये तृतीयपादः ४३१ शास्त्रस्था = शास्त्र में स्थित या शास्त्र में निर्दिष्ट प्रतिपत्ति (अर्थबोधकता) वा = एव, अवश्य ही (ग्राह्य) है, तन्निमित्तत्वात् = उसका अर्थात् धर्मज्ञान की निमित्तता अर्थात् हेतुता होने से । क्योंकि शास्त्र ही धर्मज्ञान का साधन है, इसलिए आर्यों से परिगृहीत शास्त्रबोधित अर्थ ही ग्राह्य है ॥ ९ ॥ [५] चोदितं तु प्रतीयेताविरोधात् प्रमाणेन ॥ १० ॥ सि० शा० भा०—अथ याञ्छब्दान् आर्या न कस्मिंश्चिदर्थे आचरन्ति, म्लेच्छास्तु कस्मिंश्चित् प्रयुञ्जते । यथा पिक-नेम-सत-तामरसादिशब्दाः तेषु संदेहः किं निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्यः, उत यत्र म्लेच्छा आचरन्ति, स शब्दार्थ इति । शिष्टाचारस्य प्रामाण्यमुक्तम्, नाशिष्टस्मृतेः । तस्मान्निगमादिवशेनार्थकल्पना । निगमादीनां चैवमर्थवत्ता भविष्यति । अनभि- योगश्च शब्दार्थेष्वशिष्टानाम्, अभियोगश्चेतरेषाम् । तस्माद्धातोऽर्थः कल्पयि- तव्य इत्येवं प्राप्ते । ब्रूमः । चोदितमशिष्टैरपि शिष्टानवगतं यत् प्रमाणेनाविरुद्धम्, तदवगम्यमानं न न्याय्यं त्यक्तुम् । यत्तु शिष्टाचारः प्रमाणमिति, तत् प्रत्यक्षानवगतेऽर्थे । यत्त्व- भियुक्ताः शब्दार्थेषु शिष्टा इति । तत्रोच्यते अभियुक्ततराः पक्षिणां पोषणे, बन्धने च म्लेच्छाः । यत्तु निगमनिरुक्तव्याकरणानामर्थवत्तेति, तत्रैषामर्थवत्ता भविष्यति, न यत्र म्लेच्छैरप्यवगतः शब्दार्थः । अपि च निगमादिभिरर्थे कल्प्यमानेऽव्यवस्थितः शब्दार्थो भवेत् । तत्रानिश्चयः स्यात् । तस्मात् पिक इति कोकिलो ग्राह्यः नेमोऽर्धम्, तामरसं पद्मम्, सत इति दारुमयं पात्रं परिमण्डलं शतच्छिद्रम् ॥१०॥ इति पिकनेमाधिकरणम् ॥ ६ ॥ भा० वि०—एवं तावदार्यप्रसिद्धिविरुद्धाया म्लेच्छप्रसिद्धेरप्रामाण्यमुक्तम् । अथेदानों किमेषा म्लेच्छप्रसिद्धिरित्येवाप्रमाणमुतप्रमाणमबलत्वादार्थप्रसिद्धि- विरुद्धा, अविरुद्धा तु प्रमाणमेवेति विचार्यत इति सङ्गति मथशब्देन दर्शयन् आर्यप्रसिद्धयविरुद्धम्लेच्छप्रसिद्धिरूपविषये दर्शयति—अथेत्यादिना । आचरन्ति= प्रयुञ्जत इत्यर्थः । तत्र सबीजं संशयमाह--तेष्विति । अत्र निगमेत्यादिना धातुतोऽर्थप्रसिद्धेश्चशास्त्रस्थत्वं प्राबल्यकारणम् । म्लेच्छेति म्लेच्छप्रसिद्धेः म्लेच्छ- स्थत्वं दौर्बल्यकारणं च पूर्वपक्षबीजतयोक्तम्-कल्पयितव्य इति । शास्त्रस्थाया दौर्बल्यकारणं कल्पनीयत्वम् । आचरन्तीति च म्लेच्छस्थायाः कॢप्तत्वं प्राबल्य- कारणं सिद्धान्तबीजतयोक्तमिति मन्तव्यम् । अत्र यद्यपि च म्लेच्छप्रसिद्धिः किं प्रामाण्ययोग्या उत नेत्येतावदेव विचार्यम्, तथापि सिद्ध एव तद्योग्यत्वे किं सा
४३२ मीमांसादर्शनम् [ सू० बलवत्या शास्त्रस्थप्रसिद्ध्या बाध्या उत स्वयमेव बलवतीति तस्या बाधिकेत्ययं विचारस्संभवतीति तमेव योग्यायोग्यत्वविचारं सूचयितुमयमपक्षिप्त इत्यवगन्त- व्यम् । प्रयोजनं तु विचारस्य पिकादिशब्दानां व्यवस्थितार्थविषयत्वं सिद्धं स्वयमेव वक्ष्यति, तत्र पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षमाह—शिष्टाचार- स्येति । आचारशब्दः शब्दप्रयोगविषयः । स्मृतिशब्दोऽपि तत्पूर्वप्रयोगपरः, यद्यपि शास्त्रस्थप्रसिद्धिः कल्प्या, तथापि शास्त्रमूलत्वादेव प्रमाणम् । म्लेच्छप्रसिद्धिस्तु कॢप्तापि निर्मूला न प्रमाणम्, कॢप्तसकल्पमूलयोः कॢप्तमूलाया एव प्राबल्यादिति भावः । म्लेच्छप्रसिद्धेरप्रामाण्ये फलितमाह--तस्मादिति । निगमाद्यर्थवत्त्वाय च म्लेच्छप्रयोगस्याप्रामाण्यमाश्रयणीयम्, अन्यथा म्लेच्छदेशानन्त्यात् क्वचिद्देशे कस्मिंश्चिदर्थे कदाचित् केनचित् म्लेच्छेनायमार्यप्रसिद्धः शब्दः प्रयुक्त इति शङ्कायां निगमादिवैयर्थ्यप्रसङ्गादित्याह-निगमादीनामिति । अनभियुक्तत्वाच्च म्लेच्छानां न तद्व्यवहारश्शब्दार्थसम्बन्धे प्रमाणम् । किन्तु अभियुक्तानामार्याणा- मेवेत्याह-अनभियोगश्चेति । तस्मानम्लेच्छप्रसिद्धेः प्रामाण्यायोग्यतया ततोऽ- र्थावगमासंभवात् आर्यप्रसिद्धानां पिकादिपदानां धातुबलेनैवार्थः कल्पनीय इति निगमयति-तस्मादिति । सिद्धान्तं दर्शयन् सूत्रमवतार्य व्याकरोति-एवमिति । यत्पदं म्लेच्छैरर्थ- विशेषे चोदितं प्रयुक्तम्, तच्छिष्टैरनवगतमगृहीतसम्बन्धमपि प्रतीयेत-आद्रियेत । तस्मिन्नर्थे प्रमाणमिति यावत् । अत्राविरोधादिति हेतुमात्रं व्याचष्टे-यत्प्रमाणे- नेति । यद्यपि न शास्त्रमूला म्लेच्छप्रसिद्धिः, तथापि शास्त्रस्थप्रसिद्धिविरोधा- भावाद्देदतदङ्गादिषु प्रयुक्तपिकादिपदार्थाकाङ्क्षायां तत्सिद्धकोकिलाद्यर्थपरिग्रह- संभवेनार्थान्तरकल्पना युक्तेति भावः । यद्यपि पूर्वाधिकरणन्यायेन शास्त्रस्थप्रसिद्धेः बलीयस्त्वमिति, तदपि प्रत्यक्षाद्यनवगम्ये धर्मादिविषय एव, न वाच्यवाचक- सम्बन्धादिविषय इत्याह--यत्त्वित्यादिना । यत्पुनर्वाच्यवाचकादिष्वप्यभि- युक्तानां शिष्टानामेव प्रामाण्यम्, न म्लेच्छानामिति, तदनुवदति--यत्त्वभियुक्ता'''' इति । दूषयति-अभियुक्ततरा इति । यथैव सेवागृहनिर्माणादिषु दृष्टार्थेषु म्लेच्छानामधिकं कौशलं तथैवाभ्यस्तकोकिलादिवाच्यस्वरूपाणां वाच्यवाचक- भावावगमेऽपीत्यर्थः । निगमाद्यर्थवत्त्वाय म्लेच्छाचारस्याप्रामाण्यमुक्तमनुवदति- यत्त्विति । दूषयति-तत्रैषामिति । म्लेच्छदेशानन्त्येऽपि विचारावस्थायामपि येषां पदानामर्थविशेषे प्रसिद्धिः म्लेच्छेषु पुरुषपरम्परया न प्राप्ता, तेषां पदानां निगमादिवशेन प्रतिपत्ति। भविष्यतीत्यर्थः । पिकादिपदानां निगमादिवशेनार्थ- वत्त्वेऽर्थव्यवस्थापि न स्यादित्याह-अपि चेति । पिकादिशब्दस्य निगमेन तावदर्थविशेषो न प्रतिपादितः, तथा सति सन्देहाभावप्रसङ्गात् अवयवव्युत्पत्त्या तु निरुक्त्या कश्चिदर्थः कल्पनीयः, तत्र च पिवति पाति पचतीत्यनेकधातुसाधा- रणत्वादवयवान्वयस्य निरुक्तेनाप्यर्थविशेषासिद्धिरिति भावः ।
१० ] प्रथमाध्याये तृतीयपादः ४३३ ननु भवतु अव्यवस्थैव को दोषस्तत्राह—पिक इति । कोकिलादीनामेव कर्माङ्गत्वेनाभ्युपगमादिति भावः ॥ १० ॥ त० वा०—ये शब्दा न प्रसिद्धाः स्युरार्यावर्तनिवासिनाम् । तेषां म्लेच्छप्रसिद्धोऽर्थो ग्राह्यो नेति विचिन्त्यते ॥ ४६३ तथा—निरुक्तव्याक्रियाद्वारा प्रसिद्धिः किं बलीयसी । समुदायप्रसिद्धिर्वा म्लेच्छस्यैवाथ वा भवेत् ॥ ४६४ म्लेच्छप्रसिद्धिर्व्यवहर्तृदौर्बल्येऽपि, समुदायरूढिबलेन स्वरूपगतेन ज्यायसी प्रतिभाति । तत्र प्रयोक्तृदौर्बल्य-स्वरूपबलवत्तयोः । किन्तु न्याय्यतरं युक्तं ज्ञातुमित्यत्र चिन्त्यते ॥ ४६५ तथा—निरुक्तव्याक्रियाद्वारा किं शास्त्रस्था बलीयसी । किं वाऽवयवविक्षेपजननात्सैव दुर्बला ॥ ४६६ एवं नानोपपत्तित्वात्संदेहे तावदुच्यते । निरुक्तव्याक्रियाद्वारा प्रतिपत्तिर्बलीयसी ॥ ४६७ शास्त्रस्था वेत्यनेनासौ कल्प्याऽपि हि बलीयसी । सन्मूलस्य प्रमाणत्वं साध्यस्यापि वरं श्रितम् ॥ ४६८ न सिद्धमप्यसन्मूलमाश्रयेण हि दूषितम् । कथं वेदगतैः शब्दैर्म्लेच्छस्थोऽर्थः¹ प्रतीयते ॥ ४६९ येषां दर्शनमात्रेऽपि वेद एव न पठ्यते । संभाषाऽपि च न म्लेच्छैः सहाऽऽर्यावर्तवासिनाम् ॥ ४७० तत्र तेषु प्रसिद्धोऽर्थः कथमार्थैः प्रतीयताम् । एवं च सति यस्यापि प्रसिद्धिर्नोपलभ्यते ॥ ४७१ तस्यापि म्लेच्छदेशेषु सर्वेष्वन्वेष्यतां व्रजेत् । ततश्च निगमादीनां न कश्चिद्विषयो भवेत् ॥ ४७२ अनन्तम्लेच्छदेशांश्च कः सर्वोऽनुपलप्स्यते² । य एव स्यादनन्विष्टस्तत्र शङ्का प्रसज्यते ॥ ४७३ अनन्तेषु हि देशेषु कः सिद्धः क्वेति गम्यताम् । निगमादिवशाच्चाद्य धातुतोऽर्थः प्रकल्पितः ॥ ४७४ १ क. म्लेच्छस्याऽर्थः । २ क. सर्वानुपलप्स्यत इति पाठः । २८
४१४ मीमांसादर्शनम् [ सू० द्वित्रेष्वहःसु बाध्येत प्रयोगानम्लेच्छचोदितात् । म्लेच्छाचाराप्रमाणत्वमथ त्वध्यवसीयते ॥ ४७५ आर्यावर्ते ततः शक्या प्रसिद्धयन्वेषणक्रिया । तस्याश्चाल्पेन कालेन सदसद्भावनिर्णयः ॥ ४७६ ततश्च निगमादीनां सुज्ञातः स्वार्थगोचरः । तस्मात्तदर्थवत्त्वाय म्लेच्छाचाराप्रमाणता ॥ ४७७ धर्मे चानादरात्तेषां भ्रश्येताऽर्थोऽपि शब्दवत् । न चास्ति संस्कृतः शब्दः कश्चिन्म्लेच्छापभाषणे ॥ ४७८ संस्कृतप्रतिरूपा हि तद्भाषाऽर्थान्तरे स्थिता । न चावाचकरूपाणां वाचकत्वं कथंचन ॥ ४७९ आर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् । पदान्तराक्षरोपेतं कल्पयन्ति कदाचन ॥ ४८० न्यूनाक्षरं कदाचिच्च प्रक्षिपन्त्यधिकाक्षरम् । तद्यथा १द्राविडादिभाषायामेव तावद्व्यञ्जनान्तभाषापदेषु स्वरान्तविभक्ति- स्त्रीप्रत्ययादिकल्पनाभिः स्वभाषानुरूपानर्थान्प्रतिपद्यमाना दृश्यन्ते । तद्यथोदनं चोरित्युक्ते चोरपदवाच्यं कल्पयन्ति । पन्थानमतरित्युक्तेऽतर इति कल्पयि- त्वाऽऽहुः । सत्यं दुस्तरत्वादतर एव पन्था इति । तथा पाप् शब्दं पकारान्तं सर्पवचनमकारान्तं कल्पयित्वा सत्यं पाप एवासाविति वदन्ति । एवं मालो शब्दं स्त्रीवचनं माला इति कल्पयित्वा सत्यमित्याहुः । वैरशब्दं च रेफान्तमुदरवचनं वैरिशब्देन प्रत्याम्नायं वदन्ति । सत्यं सर्वस्य क्षुधितस्याकार्ये प्रवर्त्तनादुदरं वैरिकार्ये प्रवर्त्तते इति । तद्यदा द्राविडादिभाषायामीदृशी स्वच्छन्दकल्पना, तदा पारसीकबर्बरयवनरोमकादिभाषासु किं विकल्प्य, किं प्रतिपत्स्यन्त इति न विद्मः । तस्मान्म्लेच्छप्रसिद्धं यत्पदमार्यैर्विकल्प्यते । न कश्चित्तत्र विश्वासो युक्तः पदपदार्थयोः ॥ ४८१ निरुक्तव्याक्रियाद्वारा यस्त्वर्थः परिगम्यते । पिकनेमादिशब्दानां स एवार्थो भविष्यति ॥ ४८२ १. चोर्-अतर्-पाप्-माल्-वयर-इत्येतेषां शब्दानां क्रमेण ओदन-मार्ग-सर्पं-सत्य- उदररूपेष्वर्थेषु द्राविडानामद्यत्वेऽपि प्रयोगो वर्तते ।
१० ] प्रथमाध्याये तृतीयपादः ४३५ सिद्धान्तः एवं प्राप्ते वदामोऽत्र पदं निपुणदृष्टिभिः । विज्ञायेताऽविनष्टं यत्तत्तदर्थं भविष्यति ॥ ४८३ देशभाषापभ्रंशपदानि हि विप्लुतिभूयिष्ठानि न शक्यन्ते विवेक्तुम् । यत्तु वेदतदङ्गेषु पदं दृष्टमविप्लुतम् । म्लेच्छभाषासु तद्रूपमर्थे क्वचन चोदितम् ॥ ४८४ तत्तथैव प्रतीयेत प्रमाणेनाविरोधतः । पिकनेमादि तद्ध्येवं निपुणैरवधारितम् ॥ ४८५ चोदितं ह्यपदिष्टं वा प्रयुक्तं वा क्रियागतम् । म्लेच्छैरवधृतं पश्चादार्यैर्द्वैभाषिकैः क्वचित् ॥ ४८६ तादृशं तु प्रदीयेत प्रामाण्येनेति निश्चितम् । न तद्धर्मप्रमाणेन वेदाख्येन विरुध्यते ॥ ४८७ अपि च—पदार्थपदसम्बन्धज्ञानापेक्षप्रवर्तनात् । प्रसिद्धिर्यत्र तत्रस्था वाक्यार्थयाऽनुगम्यते ॥ ४८८ पिकादिशब्दवाच्यं वा म्लेच्छैर्यदवधारितम् । अविरोधात्प्रमाणेने तद्विद्याद्वेदनोदितम् ॥ ४८९ चोदितं वा प्रमाणेन वेदेनेत्यस्य संगतिः । आर्यैः सहाऽविरुद्धत्वात् तस्य तैरप्यपेक्षणात् ॥ ४९० यथैव क्लोमादयः पश्ववयवा वेदे चोदिताः सन्तोऽध्वर्य्यादिभिः स्वयमज्ञाय- मानार्थत्वाद्ये नित्यं प्राणिवधाभियुक्ताः, तेभ्य एवावधार्य विनियुज्यन्ते । यथा च निषादेष्ट्यां 'कूटं दक्षिणेति' विहिते य एवैतेन व्यवहरन्ति, तेभ्य एवाऽर्थतत्त्वं ज्ञात्वा दीयते । तथेह पिक-नेम-तामरसादिचोदितं सद्भेदादार्यावर्तनिवासिभ्यश्चा- प्रतीयमानं म्लेच्छेभ्योऽपि प्रतीयेत, लोकावगम्यनित्यशब्दार्थम्युपगमाविरोधात् स्वेनैव प्रमाणेन प्रतीयेतेति । यत्तु शास्त्रबलीयस्त्वादेतदग्रहणमिति ? तन्न । अविरोधे दुर्बलस्यापि ग्राह्य- त्वात् । यदेवात्यन्तं प्रमाणाभासमेव मृगतृष्णाज्ञानवद्भवति, तत् सर्वदैव परि- हर्तव्यम्, यत्पुनर्बलवद्विरोधापेक्षप्रमाणं(न) भवति, तद्विरोधाभावात्प्रमाणमेवे- त्यवधारणीयम् । न चैवमादि विरुध्यते, विपरीतार्यप्रसिद्ध्यन्तराभावात् । अत एव वैदिकवाक्यार्थस्वविषयप्रयुक्तपदार्थमात्राभियुक्ततरायंप्रसिद्धिबलीयस्त्वा- श्रयणम् ।