मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
१० ] प्रथमाध्याये तृतीयपादः ४३१ शास्त्रस्था = शास्त्र में स्थित या शास्त्र में निर्दिष्ट प्रतिपत्ति (अर्थबोधकता) वा = एव, अवश्य ही (ग्राह्य) है, तन्निमित्तत्वात् = उसका अर्थात् धर्मज्ञान की निमित्तता अर्थात् हेतुता होने से । क्योंकि शास्त्र ही धर्मज्ञान का साधन है, इसलिए आर्यों से परिगृहीत शास्त्रबोधित अर्थ ही ग्राह्य है ॥ ९ ॥ [५] चोदितं तु प्रतीयेताविरोधात् प्रमाणेन ॥ १० ॥ सि० शा० भा०—अथ याञ्छब्दान् आर्या न कस्मिंश्चिदर्थे आचरन्ति, म्लेच्छास्तु कस्मिंश्चित् प्रयुञ्जते । यथा पिक-नेम-सत-तामरसादिशब्दाः तेषु संदेहः किं निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्यः, उत यत्र म्लेच्छा आचरन्ति, स शब्दार्थ इति । शिष्टाचारस्य प्रामाण्यमुक्तम्, नाशिष्टस्मृतेः । तस्मान्निगमादिवशेनार्थकल्पना । निगमादीनां चैवमर्थवत्ता भविष्यति । अनभि- योगश्च शब्दार्थेष्वशिष्टानाम्, अभियोगश्चेतरेषाम् । तस्माद्धातोऽर्थः कल्पयि- तव्य इत्येवं प्राप्ते । ब्रूमः । चोदितमशिष्टैरपि शिष्टानवगतं यत् प्रमाणेनाविरुद्धम्, तदवगम्यमानं न न्याय्यं त्यक्तुम् । यत्तु शिष्टाचारः प्रमाणमिति, तत् प्रत्यक्षानवगतेऽर्थे । यत्त्व- भियुक्ताः शब्दार्थेषु शिष्टा इति । तत्रोच्यते अभियुक्ततराः पक्षिणां पोषणे, बन्धने च म्लेच्छाः । यत्तु निगमनिरुक्तव्याकरणानामर्थवत्तेति, तत्रैषामर्थवत्ता भविष्यति, न यत्र म्लेच्छैरप्यवगतः शब्दार्थः । अपि च निगमादिभिरर्थे कल्प्यमानेऽव्यवस्थितः शब्दार्थो भवेत् । तत्रानिश्चयः स्यात् । तस्मात् पिक इति कोकिलो ग्राह्यः नेमोऽर्धम्, तामरसं पद्मम्, सत इति दारुमयं पात्रं परिमण्डलं शतच्छिद्रम् ॥१०॥ इति पिकनेमाधिकरणम् ॥ ६ ॥ भा० वि०—एवं तावदार्यप्रसिद्धिविरुद्धाया म्लेच्छप्रसिद्धेरप्रामाण्यमुक्तम् । अथेदानों किमेषा म्लेच्छप्रसिद्धिरित्येवाप्रमाणमुतप्रमाणमबलत्वादार्थप्रसिद्धि- विरुद्धा, अविरुद्धा तु प्रमाणमेवेति विचार्यत इति सङ्गति मथशब्देन दर्शयन् आर्यप्रसिद्धयविरुद्धम्लेच्छप्रसिद्धिरूपविषये दर्शयति—अथेत्यादिना । आचरन्ति= प्रयुञ्जत इत्यर्थः । तत्र सबीजं संशयमाह--तेष्विति । अत्र निगमेत्यादिना धातुतोऽर्थप्रसिद्धेश्चशास्त्रस्थत्वं प्राबल्यकारणम् । म्लेच्छेति म्लेच्छप्रसिद्धेः म्लेच्छ- स्थत्वं दौर्बल्यकारणं च पूर्वपक्षबीजतयोक्तम्-कल्पयितव्य इति । शास्त्रस्थाया दौर्बल्यकारणं कल्पनीयत्वम् । आचरन्तीति च म्लेच्छस्थायाः कॢप्तत्वं प्राबल्य- कारणं सिद्धान्तबीजतयोक्तमिति मन्तव्यम् । अत्र यद्यपि च म्लेच्छप्रसिद्धिः किं प्रामाण्ययोग्या उत नेत्येतावदेव विचार्यम्, तथापि सिद्ध एव तद्योग्यत्वे किं सा
४३२ मीमांसादर्शनम् [ सू० बलवत्या शास्त्रस्थप्रसिद्ध्या बाध्या उत स्वयमेव बलवतीति तस्या बाधिकेत्ययं विचारस्संभवतीति तमेव योग्यायोग्यत्वविचारं सूचयितुमयमपक्षिप्त इत्यवगन्त- व्यम् । प्रयोजनं तु विचारस्य पिकादिशब्दानां व्यवस्थितार्थविषयत्वं सिद्धं स्वयमेव वक्ष्यति, तत्र पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षमाह—शिष्टाचार- स्येति । आचारशब्दः शब्दप्रयोगविषयः । स्मृतिशब्दोऽपि तत्पूर्वप्रयोगपरः, यद्यपि शास्त्रस्थप्रसिद्धिः कल्प्या, तथापि शास्त्रमूलत्वादेव प्रमाणम् । म्लेच्छप्रसिद्धिस्तु कॢप्तापि निर्मूला न प्रमाणम्, कॢप्तसकल्पमूलयोः कॢप्तमूलाया एव प्राबल्यादिति भावः । म्लेच्छप्रसिद्धेरप्रामाण्ये फलितमाह--तस्मादिति । निगमाद्यर्थवत्त्वाय च म्लेच्छप्रयोगस्याप्रामाण्यमाश्रयणीयम्, अन्यथा म्लेच्छदेशानन्त्यात् क्वचिद्देशे कस्मिंश्चिदर्थे कदाचित् केनचित् म्लेच्छेनायमार्यप्रसिद्धः शब्दः प्रयुक्त इति शङ्कायां निगमादिवैयर्थ्यप्रसङ्गादित्याह-निगमादीनामिति । अनभियुक्तत्वाच्च म्लेच्छानां न तद्व्यवहारश्शब्दार्थसम्बन्धे प्रमाणम् । किन्तु अभियुक्तानामार्याणा- मेवेत्याह-अनभियोगश्चेति । तस्मानम्लेच्छप्रसिद्धेः प्रामाण्यायोग्यतया ततोऽ- र्थावगमासंभवात् आर्यप्रसिद्धानां पिकादिपदानां धातुबलेनैवार्थः कल्पनीय इति निगमयति-तस्मादिति । सिद्धान्तं दर्शयन् सूत्रमवतार्य व्याकरोति-एवमिति । यत्पदं म्लेच्छैरर्थ- विशेषे चोदितं प्रयुक्तम्, तच्छिष्टैरनवगतमगृहीतसम्बन्धमपि प्रतीयेत-आद्रियेत । तस्मिन्नर्थे प्रमाणमिति यावत् । अत्राविरोधादिति हेतुमात्रं व्याचष्टे-यत्प्रमाणे- नेति । यद्यपि न शास्त्रमूला म्लेच्छप्रसिद्धिः, तथापि शास्त्रस्थप्रसिद्धिविरोधा- भावाद्देदतदङ्गादिषु प्रयुक्तपिकादिपदार्थाकाङ्क्षायां तत्सिद्धकोकिलाद्यर्थपरिग्रह- संभवेनार्थान्तरकल्पना युक्तेति भावः । यद्यपि पूर्वाधिकरणन्यायेन शास्त्रस्थप्रसिद्धेः बलीयस्त्वमिति, तदपि प्रत्यक्षाद्यनवगम्ये धर्मादिविषय एव, न वाच्यवाचक- सम्बन्धादिविषय इत्याह--यत्त्वित्यादिना । यत्पुनर्वाच्यवाचकादिष्वप्यभि- युक्तानां शिष्टानामेव प्रामाण्यम्, न म्लेच्छानामिति, तदनुवदति--यत्त्वभियुक्ता'''' इति । दूषयति-अभियुक्ततरा इति । यथैव सेवागृहनिर्माणादिषु दृष्टार्थेषु म्लेच्छानामधिकं कौशलं तथैवाभ्यस्तकोकिलादिवाच्यस्वरूपाणां वाच्यवाचक- भावावगमेऽपीत्यर्थः । निगमाद्यर्थवत्त्वाय म्लेच्छाचारस्याप्रामाण्यमुक्तमनुवदति- यत्त्विति । दूषयति-तत्रैषामिति । म्लेच्छदेशानन्त्येऽपि विचारावस्थायामपि येषां पदानामर्थविशेषे प्रसिद्धिः म्लेच्छेषु पुरुषपरम्परया न प्राप्ता, तेषां पदानां निगमादिवशेन प्रतिपत्ति। भविष्यतीत्यर्थः । पिकादिपदानां निगमादिवशेनार्थ- वत्त्वेऽर्थव्यवस्थापि न स्यादित्याह-अपि चेति । पिकादिशब्दस्य निगमेन तावदर्थविशेषो न प्रतिपादितः, तथा सति सन्देहाभावप्रसङ्गात् अवयवव्युत्पत्त्या तु निरुक्त्या कश्चिदर्थः कल्पनीयः, तत्र च पिवति पाति पचतीत्यनेकधातुसाधा- रणत्वादवयवान्वयस्य निरुक्तेनाप्यर्थविशेषासिद्धिरिति भावः ।
१० ] प्रथमाध्याये तृतीयपादः ४३३ ननु भवतु अव्यवस्थैव को दोषस्तत्राह—पिक इति । कोकिलादीनामेव कर्माङ्गत्वेनाभ्युपगमादिति भावः ॥ १० ॥ त० वा०—ये शब्दा न प्रसिद्धाः स्युरार्यावर्तनिवासिनाम् । तेषां म्लेच्छप्रसिद्धोऽर्थो ग्राह्यो नेति विचिन्त्यते ॥ ४६३ तथा—निरुक्तव्याक्रियाद्वारा प्रसिद्धिः किं बलीयसी । समुदायप्रसिद्धिर्वा म्लेच्छस्यैवाथ वा भवेत् ॥ ४६४ म्लेच्छप्रसिद्धिर्व्यवहर्तृदौर्बल्येऽपि, समुदायरूढिबलेन स्वरूपगतेन ज्यायसी प्रतिभाति । तत्र प्रयोक्तृदौर्बल्य-स्वरूपबलवत्तयोः । किन्तु न्याय्यतरं युक्तं ज्ञातुमित्यत्र चिन्त्यते ॥ ४६५ तथा—निरुक्तव्याक्रियाद्वारा किं शास्त्रस्था बलीयसी । किं वाऽवयवविक्षेपजननात्सैव दुर्बला ॥ ४६६ एवं नानोपपत्तित्वात्संदेहे तावदुच्यते । निरुक्तव्याक्रियाद्वारा प्रतिपत्तिर्बलीयसी ॥ ४६७ शास्त्रस्था वेत्यनेनासौ कल्प्याऽपि हि बलीयसी । सन्मूलस्य प्रमाणत्वं साध्यस्यापि वरं श्रितम् ॥ ४६८ न सिद्धमप्यसन्मूलमाश्रयेण हि दूषितम् । कथं वेदगतैः शब्दैर्म्लेच्छस्थोऽर्थः¹ प्रतीयते ॥ ४६९ येषां दर्शनमात्रेऽपि वेद एव न पठ्यते । संभाषाऽपि च न म्लेच्छैः सहाऽऽर्यावर्तवासिनाम् ॥ ४७० तत्र तेषु प्रसिद्धोऽर्थः कथमार्थैः प्रतीयताम् । एवं च सति यस्यापि प्रसिद्धिर्नोपलभ्यते ॥ ४७१ तस्यापि म्लेच्छदेशेषु सर्वेष्वन्वेष्यतां व्रजेत् । ततश्च निगमादीनां न कश्चिद्विषयो भवेत् ॥ ४७२ अनन्तम्लेच्छदेशांश्च कः सर्वोऽनुपलप्स्यते² । य एव स्यादनन्विष्टस्तत्र शङ्का प्रसज्यते ॥ ४७३ अनन्तेषु हि देशेषु कः सिद्धः क्वेति गम्यताम् । निगमादिवशाच्चाद्य धातुतोऽर्थः प्रकल्पितः ॥ ४७४ १ क. म्लेच्छस्याऽर्थः । २ क. सर्वानुपलप्स्यत इति पाठः । २८
४१४ मीमांसादर्शनम् [ सू० द्वित्रेष्वहःसु बाध्येत प्रयोगानम्लेच्छचोदितात् । म्लेच्छाचाराप्रमाणत्वमथ त्वध्यवसीयते ॥ ४७५ आर्यावर्ते ततः शक्या प्रसिद्धयन्वेषणक्रिया । तस्याश्चाल्पेन कालेन सदसद्भावनिर्णयः ॥ ४७६ ततश्च निगमादीनां सुज्ञातः स्वार्थगोचरः । तस्मात्तदर्थवत्त्वाय म्लेच्छाचाराप्रमाणता ॥ ४७७ धर्मे चानादरात्तेषां भ्रश्येताऽर्थोऽपि शब्दवत् । न चास्ति संस्कृतः शब्दः कश्चिन्म्लेच्छापभाषणे ॥ ४७८ संस्कृतप्रतिरूपा हि तद्भाषाऽर्थान्तरे स्थिता । न चावाचकरूपाणां वाचकत्वं कथंचन ॥ ४७९ आर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् । पदान्तराक्षरोपेतं कल्पयन्ति कदाचन ॥ ४८० न्यूनाक्षरं कदाचिच्च प्रक्षिपन्त्यधिकाक्षरम् । तद्यथा १द्राविडादिभाषायामेव तावद्व्यञ्जनान्तभाषापदेषु स्वरान्तविभक्ति- स्त्रीप्रत्ययादिकल्पनाभिः स्वभाषानुरूपानर्थान्प्रतिपद्यमाना दृश्यन्ते । तद्यथोदनं चोरित्युक्ते चोरपदवाच्यं कल्पयन्ति । पन्थानमतरित्युक्तेऽतर इति कल्पयि- त्वाऽऽहुः । सत्यं दुस्तरत्वादतर एव पन्था इति । तथा पाप् शब्दं पकारान्तं सर्पवचनमकारान्तं कल्पयित्वा सत्यं पाप एवासाविति वदन्ति । एवं मालो शब्दं स्त्रीवचनं माला इति कल्पयित्वा सत्यमित्याहुः । वैरशब्दं च रेफान्तमुदरवचनं वैरिशब्देन प्रत्याम्नायं वदन्ति । सत्यं सर्वस्य क्षुधितस्याकार्ये प्रवर्त्तनादुदरं वैरिकार्ये प्रवर्त्तते इति । तद्यदा द्राविडादिभाषायामीदृशी स्वच्छन्दकल्पना, तदा पारसीकबर्बरयवनरोमकादिभाषासु किं विकल्प्य, किं प्रतिपत्स्यन्त इति न विद्मः । तस्मान्म्लेच्छप्रसिद्धं यत्पदमार्यैर्विकल्प्यते । न कश्चित्तत्र विश्वासो युक्तः पदपदार्थयोः ॥ ४८१ निरुक्तव्याक्रियाद्वारा यस्त्वर्थः परिगम्यते । पिकनेमादिशब्दानां स एवार्थो भविष्यति ॥ ४८२ १. चोर्-अतर्-पाप्-माल्-वयर-इत्येतेषां शब्दानां क्रमेण ओदन-मार्ग-सर्पं-सत्य- उदररूपेष्वर्थेषु द्राविडानामद्यत्वेऽपि प्रयोगो वर्तते ।
१० ] प्रथमाध्याये तृतीयपादः ४३५ सिद्धान्तः एवं प्राप्ते वदामोऽत्र पदं निपुणदृष्टिभिः । विज्ञायेताऽविनष्टं यत्तत्तदर्थं भविष्यति ॥ ४८३ देशभाषापभ्रंशपदानि हि विप्लुतिभूयिष्ठानि न शक्यन्ते विवेक्तुम् । यत्तु वेदतदङ्गेषु पदं दृष्टमविप्लुतम् । म्लेच्छभाषासु तद्रूपमर्थे क्वचन चोदितम् ॥ ४८४ तत्तथैव प्रतीयेत प्रमाणेनाविरोधतः । पिकनेमादि तद्ध्येवं निपुणैरवधारितम् ॥ ४८५ चोदितं ह्यपदिष्टं वा प्रयुक्तं वा क्रियागतम् । म्लेच्छैरवधृतं पश्चादार्यैर्द्वैभाषिकैः क्वचित् ॥ ४८६ तादृशं तु प्रदीयेत प्रामाण्येनेति निश्चितम् । न तद्धर्मप्रमाणेन वेदाख्येन विरुध्यते ॥ ४८७ अपि च—पदार्थपदसम्बन्धज्ञानापेक्षप्रवर्तनात् । प्रसिद्धिर्यत्र तत्रस्था वाक्यार्थयाऽनुगम्यते ॥ ४८८ पिकादिशब्दवाच्यं वा म्लेच्छैर्यदवधारितम् । अविरोधात्प्रमाणेने तद्विद्याद्वेदनोदितम् ॥ ४८९ चोदितं वा प्रमाणेन वेदेनेत्यस्य संगतिः । आर्यैः सहाऽविरुद्धत्वात् तस्य तैरप्यपेक्षणात् ॥ ४९० यथैव क्लोमादयः पश्ववयवा वेदे चोदिताः सन्तोऽध्वर्य्यादिभिः स्वयमज्ञाय- मानार्थत्वाद्ये नित्यं प्राणिवधाभियुक्ताः, तेभ्य एवावधार्य विनियुज्यन्ते । यथा च निषादेष्ट्यां 'कूटं दक्षिणेति' विहिते य एवैतेन व्यवहरन्ति, तेभ्य एवाऽर्थतत्त्वं ज्ञात्वा दीयते । तथेह पिक-नेम-तामरसादिचोदितं सद्भेदादार्यावर्तनिवासिभ्यश्चा- प्रतीयमानं म्लेच्छेभ्योऽपि प्रतीयेत, लोकावगम्यनित्यशब्दार्थम्युपगमाविरोधात् स्वेनैव प्रमाणेन प्रतीयेतेति । यत्तु शास्त्रबलीयस्त्वादेतदग्रहणमिति ? तन्न । अविरोधे दुर्बलस्यापि ग्राह्य- त्वात् । यदेवात्यन्तं प्रमाणाभासमेव मृगतृष्णाज्ञानवद्भवति, तत् सर्वदैव परि- हर्तव्यम्, यत्पुनर्बलवद्विरोधापेक्षप्रमाणं(न) भवति, तद्विरोधाभावात्प्रमाणमेवे- त्यवधारणीयम् । न चैवमादि विरुध्यते, विपरीतार्यप्रसिद्ध्यन्तराभावात् । अत एव वैदिकवाक्यार्थस्वविषयप्रयुक्तपदार्थमात्राभियुक्ततरायंप्रसिद्धिबलीयस्त्वा- श्रयणम् ।
४३६ मीमांसादर्शनम् [ सू० प्रसिद्धौ विद्यमानायां तद्वलीयस्त्वमिष्यते । असत्यां तु बलीयस्त्वं बन्ध्यासुतबलोपमम् ॥ ४९१ अष्टकादिषु ह्यदृष्टार्थेषु समूलकेषु स्मर्यमाणेषु गवादिपदस्वरूपतदर्थज्ञानेषु च सत्यमार्याणामाप्ततरत्वाभियुक्ततरत्वे विद्येते । पिकादिषु त्वार्यबलेनैवावगतस्व- रूपमात्रवाचकत्वेषु वाच्यविशेषज्ञानरहितत्वेनाऽऽर्येषु निर्व्यापारीभूतेषु पदवद् दृष्टार्थप्रतिपत्त्यर्थानादिशब्दप्रयोगलब्धसम्बन्धप्रसिद्धिम्लेच्छप्रयोगेभ्योऽर्थनिर्णये सति न किंचिद्विरुद्धमाकाङ्क्षितपदार्थज्ञानं च सेत्स्यति । निगमनिरुक्तव्याकरणैरपि न चैवमादीनामर्थान्तरं किंचिदुदाहृतम्, यत्प्राप्य कृतार्थाः सन्त इतरेषां प्रसिद्धिं परित्यजेम । काल्पनिकाः प्रसिद्धेश्च या क्लृप्ता सा बलीयसी । तस्यां सत्यं हि नाऽऽत्मानमितरा लब्धुमर्हति ॥ ४९२ आश्रयाणां च दौर्बल्यं धर्मं प्रति निरूपितम् । दृष्टार्थव्यवहारेषु कृष्यादाविव तुल्यताम् ॥ ४९३ तस्माद्यथैव सेवादौ गृहादिषु च कौशलम् । म्लेच्छानामधिकं तद्वदभिधेयार्थनिर्णये ॥ ४९४ शब्दस्वरूपं तावत्तेनाभियुक्तत्वाच्चिरविनष्टाविनष्टत्वेन न विविञ्चीरन् । यस्तु कथमप्यविनष्ट एव शब्दः तेषामपि प्रयोगविषयमापन्नस्तस्य चाऽऽर्यवदेवानादि- वृद्धव्यवहारपरम्परयाऽर्थं जानन्ति, तत्किं तेषां निराकर्तुं शक्यते । 'पत्रोर्णवारबाणादि'२ यच्च तद्देशसंभवम् । तैरेवाकथितं नाम तच्च को वेदितुं क्षमः ॥ ४९५ तस्मान्न तेषां व्यवहारप्रसिद्धौ दौर्बल्यम् । निरुक्तादेश्च सिद्धेऽर्थे तन्निमित्तादिमात्रके । व्यापारो न च पूर्वार्थप्रतिपत्तौ स्वरूपतः ॥ ४९६ निरुक्ते न तावल्लोकव्यवहारप्रसिद्धान्येव पदानि तद्गतक्रियानिमित्तशब्द- प्रयोगभाक्त्वेन निरुच्यते । व्याकरणेनापि प्रसिद्धार्थानामेवाविनष्टस्वरूपान्वाख्या- नमात्रं क्रियते । तत्र प्रासङ्गिकमेव कियदप्यर्थनिरूपणम् । तानि स्वविषयादन्यत्र दुर्बलानामपि न बाधकानि । १. पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनमित्यमरः । २. कञ्चुको वारबाणोऽस्त्रीत्यमरः ।
१० ] प्रथमाध्याये तृतीयपादः ४३७ यस्य चान्विष्यमाणाऽपि प्रसिद्धिर्न भविष्यति । कामं प्रदर्शितद्वारा तत्र कल्प्याऽऽश्रयिष्यते ॥ ४९७ विविक्ता बहुरूपा च या संदेहप्रदायिनी । अनन्योपायतामात्रे क्वचिदेव ग्रहीष्यते ॥ ४९८ न चार्थप्रत्ययान्न ङ्गन्निरुक्ताद्यनर्थकम् । षडङ्गवेदविज्ञानपूर्वकर्मक्रियाफलात् ॥ ४९९. यथा महाभारतनिर्वचनान्वाख्याने द्वैपायनेनोक्तम् । महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ इति ॥ ५०० एवं निरुक्तव्याकरणाद्यङ्गानुगृहीतवेदाध्ययनजनितकर्मविबोधपूर्वकानुष्ठानाय- त्तत्वात् स्वर्गादिसिद्ध्यर्थं पूर्वसिद्धेरव्युत्पन्नरूपे च ज्ञातेऽपि निरुक्तावगतधात्वर्थ- पूर्वकनामार्थज्ञानद्वारा वाक्यार्थप्रतिपत्तिपूर्वकानुष्ठानादेवाद्दष्टसिद्धिरिति, म्लेच्छ- सिद्धपिकाद्यर्थग्रहणेऽपि निरुक्तादीनामर्थवत्ता सिद्धेति ॥ १० ॥ इति पञ्चमं पिकनेमाधिकरणम् न्या० सु०—अत्र भाष्यकृता कल्पसूत्रेषु प्रामाण्याप्रामाण्यसन्देहमुपन्यस्य प्रामाण्यं पूर्वपक्षयित्वा, सिद्धान्ते निराकृतम्, तत्स्मृत्यधिकरणव्युत्पादितसकलविद्यास्थानप्रामाण्य- विरुद्धत्वादयुक्तमाशङ्क्य पूर्वपक्षवचनव्यक्तिगतं प्रामाण्यशब्दं स्वतःप्रामाण्याभिप्रायत्वेन द्वेधा व्याचष्टे—कल्पेति । म्लेच्छाचाराणामपि केषांचिदनादित्वेन शिष्टाचारतुल्यतया स्वतःप्रामाण्येऽभिहिते, वेदातिरिक्तविद्यास्थानानामप्यध्येतृस्मरणेनाऽनादितया वेदत्वेन वेदतुल्यतया वा स्वतःप्रामाण्योपपत्तेर्न वेदमूलत्वम् । तद्विरोधिनां वा प्रामाण्यं युक्त- मित्यनन्तराधिकरणव्युत्पादितस्वतःप्रामाण्योपजीवनेन स्मृतिविरोधिकरणद्वयाक्षेपपादनन्तर- सङ्गतिम्, प्रकृतसङ्गतिं च सूचयितुं सम्प्रतीत्युक्तम् । विचार्यंत इति विचारार्थं पूर्वपक्ष- वचनव्यक्तिद्वेधोपन्यस्यत इत्यर्थः । ननु मन्वादिस्मृतिवदेषामपि पौरुषेयत्वेन पारतन्त्र्यावगमात्स्वतःप्रामाण्यशङ्का न युक्तेत्याशङ्क्याह—वैदिकेति । मन्वादिस्मृतीनां तिरोहितप्रायवेदार्थनिबन्धनादर्थवत्त्वं कल्पसूत्राणां तु स्पष्टवेदार्थविषयत्वात्प्रणयनानर्थक्यापत्तेरपौरुषेयत्वावगमात्स्वतः प्रामाण्य- शङ्का युक्तेत्याशयः । कल्पसूत्रशब्दयोरेकार्थत्वाद् द्वयोरुपादानमनर्थकमिति मन्यमानः पृच्छति—आहेति । कार्यतस्तावद्भेदमाह—सिद्धरूप इति । अवयवव्युत्पत्त्या भेदमाह— कल्पनाद्धीति । स्वरूपतो भेदमाह—कल्पा इति । प्रतिक्रतुप्रयोगाणां प्रतिपादकतया पाठत एव सिद्धा, न तु स्वसंज्ञाभिर्व्याख्यानापेक्षा इत्यर्थः । 'एतत्तीर्थ'मित्याचक्षते' इत्यादिभिः स्वसंज्ञाभिमिश्रत्वं पादग्रहणमित्यादिभिः स्वपरिभाषाभियंतसिद्धमित्यतीतसिद्धशब्दनिःकृष्टवि- परिणतानुषङ्गेन योज्यम् ।
४३८ मीमांसादर्शनम् [ सू० ये यजामहे, यच्चागूर्याज्यादिरित्याद्युत्सर्गवदनुयाजवजंमित्याद्यपवादवद्वक्ष्येयुरिति गाणगारितत्संस्कारत्वादित्यादिहेतुमत्सम्प्रैषवदादेशान्पशुवत् (निपातानिति यथान्वयंः सम्प्रैषं दद्यात्तद्वद्धोता आदेशान् द्रव्यादेशान् कुर्यात् । छागपदेन प्रैषे छागपदेनादेशाः । आज्येन चाज्यपदेन भेद उद्धृतं पार्श्वतः श्रोणित इत्यादयः शब्दा पश्ववयववाचिनः निपाता इत्युच्यन्ते । तान् पशुवत्क्रियायां पशुवद् द्वयाम्नान्येत्यर्थः । यस्मिन् क्रतावग्नीषोमीयस्थाने सवनीयस्थाने वा पश्वैकादशिनी कृता, तत्र शालामुखीयै त्वाष्ट्रेण पशुना यजेत । तस्य पर्यग्निकरणान्तं कृत्वोत्सर्गः पूर्वमुक्तः । पर्यग्निकृत्वोत्सृजत्यपुनरानायेति तस्य तावत्येव समाप्तिः । आज्येन शेषं संस्थापयेदिति वा आज्येन समापने मन्त्रेषु छागशब्देन निगमाः कार्या इत्येकः पक्षः । आज्यस्य प्रतिनिधित्वेन स्थानिवद्भावात् द्रव्यान्तरत्वे त्वाज्यशब्देन निगमाः कार्याः इत्यन्यः पक्षः । तत्र प्रयोगमाह । यदि त्वध्वर्युव आज्येन समाप्नुयुस्तथैव होता कुर्यात्सम्प्रैषवदादेशा पशुवत्) निपात्यादिदृष्टान्तवत् 'पुरस्ताल्लक्षणा पुरोऽनुवाक्ये' इत्यादिलक्ष्यव्यापिलक्षणम्, तत्सूत्रमित्यर्थः । लक्ष्यव्यापिलक्षणं यस्मिन्निति सप्तमी- बहुव्रीहिः । ननु स्वसंज्ञापरिभाषादियोगे पौरुषेयत्वापत्तेः कथं स्मृतिवैलक्षण्यमित्या- शङ्कयाह—तत्रेति । सकलपुरुषप्रत्यक्षवेदप्रतिपाद्यार्थविषयग्रन्थप्रणयनवैयर्थ्यापत्तेरपौरुषेय- त्वावसायात्सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्तीत्यादिवदन्यपरसंज्ञादीनीति पूर्वपक्षी मन्यते इत्याशयः । एवं कल्पसूत्राणामपि स्मृत्यधिकरणे वेदमूलत्वं प्रतिपादितमित्यभ्युपेत्य तदाक्षेपेण प्रत्यवस्थानमुपपादितम् । इदानीमशब्दत्वेन तत्र पूर्वपक्षकरणात्कल्पसूत्रेषु च तदसम्भवादेषां स्मृत्यधिकरणविषयत्वाभावादिह विचारो न विरुद्ध इति परिहारान्तरमाह—अप्रामाण्य- मिति । अशक्यत्वमुपपादयति—प्रत्यक्षेति । तत्र स्मृत्यधिकरणपूर्वपक्षेऽपगतशब्दता शब्द- शून्यतोक्ता, सा कल्पसूत्रेष्वशक्या वक्तुमित्यर्थः । न केवलं पूर्वपक्षासम्भवादेषां स्मृत्य- धिकरणविषयत्वम्, किं तु मूलभूतवेदानुमानेन तत्र सिद्धान्तकरणात्, प्रत्यक्षवेदमूलेषु कल्पसूत्रेष्वनुमानायोगात् सिद्धान्तासम्भवेनाप्येषां स्मृत्यधिकरणविषयत्वं नास्तीत्याह— स्मृत्यधिकरणे चेति । यत्र न वैदिकं शब्दमुपलभ्यन्ते इति च सम्भवदशब्दत्वलक्षणपूर्वपक्षहेतुकानामेव तत्रोदाहृतत्वादुदाहरणभाष्यपर्यालोचनयाप्येषां स्मृत्यधिरणाविषयत्वं प्रतीयत इत्याह— एतानि चेति । इदं तु परिहारान्तरमनुपलभ्यमाने मूलस्मृतिप्रामाण्यसाधने प्रत्यक्षमूलानां कल्पसूत्राणामविचारितस्यापि प्रामाण्यस्य तुल्यन्यायसिद्धत्वादन्यथा च विरोधाधिकरणे सर्ववेष्टनस्मृत्युदाहरणानुपपत्तेः शिष्टाकोपाधिकरणे च क्रत्वर्थस्मृत्युदाहरणानुपपत्तेर्युक्त- मित्यपरितोषात्पूर्वमेव परिहारमनुसन्दधाति—न चेति । यद्यप्येषामिहाधिकरणे पूर्वपक्षे प्रामाण्यप्रतिपादनमाभाति, तथापि सिद्धान्ते स्वरानियमवाक्यशेषाभावाभिधानेन वेदवैलक्षण्य- प्रतिपादनात्स्वतःप्रामाण्यनिराकरणप्रतीतेनं प्रामाण्यं प्रतिपाद्यम्, येनेह तन्निराकरणात्स्मृत्य- धिकरणविरोधः स्यादित्यर्थः ।
पादयति—काममिति । शाक्यादिचोरः स्वागमप्रामाण्यग्रामं प्रत्यक्षादिमूलत्वेन, वेद-
१० ] प्रथमाध्याये तृतीयपाद। ४३९ परमार्थतस्तु कल्पसूत्राणामपि विप्रकीर्णानैकशाखागतश्रुत्यर्थनिबन्धनेन स्मृतितुल्य- त्वात्स्मृत्यधिकरणविषयत्वमस्त्येवेत्यपरितोषात्स्वमतेन सर्वेषां वेदातिरिक्तविद्यास्थानानां स्मृत्यधिकरणप्रतिपादितवेदमूलत्वमाक्षिप्येह समाधीयत इति परिहारमाह—यद्वेति । स्वातन्त्र्यलक्षणेनातिशयेन प्रामाण्यम्-अतिप्रामाण्यम्, ननु स्मृतीनां प्रत्यक्षवेदार्थोपनिबन्धना- भावेन वेदवैलक्षण्यात्कथं स्वतःप्रामाण्याशङ्केत्यपेक्षायां पौरुषेयत्वाङ्गीकरणेन प्रामाण्या- भ्युपगमे कल्पनागौरवापत्तेस्तत्परिहारायापौरुषेयत्वमेवोचितमिति सन्देहोपपादनाय पूर्वपक्षं सम्भावयति—यदीति । विषयव्याप्त्यर्थं षडङ्गस्यैतद्विचारविषयत्वमाह—यद्वेति । न्यायवशात्स्वातन्त्र्यलक्षणप्रयोगशास्त्रत्वसम्भवे वेदशब्दवाच्यत्वस्याभियुक्तप्रयोगा- धीनत्वादभावे वेदत्वशङ्कानुपपत्तिमाराङ्क्य—षडङ्गेऽपीत्युक्तम् । एतदेव विवृणोति— मन्त्रेति । विरोधाधिकरणस्य शाक्यादिग्रन्थविषयत्वे तदाक्षेपसमाधानार्थं तेषामप्येतदधिकरण- विषयत्वं सम्भवतीत्याह—यद्वेति : ननु विरोधाधिकरणं विषयान्तरासम्भवादनङ्गीकृतमपि केनचिच्छाक्यादिग्रन्थस्य वेदमूलत्वसम्भावनामात्रेणाशङ्क्य, तन्निराकरणार्थंत्वेन व्याख्यातम्, इदं तु विषयान्तरसम्भवात्किमिय्यनङ्गीकृतवेदत्वनिराकरणार्थत्वेन व्याख्यायते । अत आह — शाक्यादयोऽपि हीति । कथं वदन्तीत्यपेक्षायामुत्पादाद्वेति शाक्यग्रन्थमुदाहरति— यथेति । उत्पादादिति प्रवाह्नित्यत्वमभिप्रेतम् । अनुत्पादादिति कूटस्थनित्यत्वम् । तथागताः=बौद्धाः । धर्मनित्यत्वस्य तत्प्रतिपादकागमनित्यत्वमन्तरेणायोगात्तन्नित्यताप्य- नेनोक्तेत्याशयः । एतदेवोपसंहरति ततश्चेति । वाशब्दोऽत्राध्याहार्यः । एवमपि किमर्थं विचार्यमित्यपेक्षायामाह—चोदनेति । ननु शाक्याद्यागमस्य वेदमूलत्वे निराकृतं वेदत्वं वेदतुल्यत्वं वा दूरादेवापास्तम् । कथमत्राशङ्क्यत इत्याशङ्क्य रूपकद्वारेणाशङ्कामुप- पादयति—काममिति । शाक्यादिचोरः स्वागमप्रामाण्यग्रामं प्रत्यक्षादिमूलत्वेन, वेद- मूलत्वेन वा द्वारेण प्रवेष्टुमुद्यततोऽतीन्द्रियार्थदर्शनासामर्थ्यवेदमार्गवाह्यत्वलक्षणन्यायदण्ड- पाणिभिर्मीमांसकैर्वारितो वरं न प्रविशेत्सम्प्रति तु मीमांसकानुमतेनापौरुषेयत्वेन महापथेन प्रकटं प्रवेष्टुमिच्छतीत्यर्थः । सर्वेषामपि विचारविषयत्वं स्वाभिमतं द्योतयितुं भाष्यकारीयोदाहरणस्योपलक्षणा- र्थतामाह—एवमिति । पूर्वपक्षसूत्रव्याख्यानार्थं प्रयोगस्येति भाष्यं व्याचष्टे—का गति- रिति । पूर्वार्द्धनेति चेदिति सूत्रावयवो व्याख्यातः। प्रयोगशास्त्रशब्दव्याख्यानार्थं सत्य- वाचामिति भाष्यं द्वेधा व्याचष्टे—वेदत्वमिति । पौरुषेयस्य विधायकोपस्थापनमात्रचरितार्थ- त्वेन साक्षादनुष्ठानविधायकत्वाभावात्प्रयोगशास्त्रशब्देनापौरुषेयत्वलक्षणं स्वातन्त्र्यमुक्त- मित्याशयः । भाष्यकृता 'कथमवगम्यत इति' पृष्ट्वा वैदिकैरेषां संवादो भवतीत्युक्तम् । तदपौरुषेयत्वे संवादानपेक्षत्वादयुक्तमाशङ्क्य वेदसंवादेन प्रामाण्यनिश्चयात्पौरुषेयत्वे च
४४० मीमांसादर्शनम् [ सू० पुरुषतन्मूलप्रमाणवेदतन्नित्यत्वकल्पनेन गौरवापत्तेरपौरुषेयत्वेन प्रामाण्योपपादनायंतया व्याचष्टे—वेदनेवेति । ननु मशकादिसमाख्या पौरुषेयावगमात्तेषां वेदत्वम्, वेदतुल्यत्वं वा न युक्तमित्या- शङ्कते—ननु चेति । प्रवचनयोगेनापि समाख्योपपत्तेर्न तद्बलेन पौरुषेयत्वसिद्धिरिति परिहरति---नैतेषामिति । वेददृष्टान्तसूचितमर्थं प्रकटयति - माशकादीति । ननु कल्पादि- शब्दानां (चरणशब्दोऽध्येतृपुरुषवाची) चरणविशेषवाचित्वाच्चरणानां चानादित्वात्तन्निमित्त- तादिसमाख्या युक्ता । मशकादिशब्दानां त्वेकपुरुषाभिधायित्वात्तत्समाख्यातग्रन्थनित्यत्वेन युक्तमित्याशङ्कयाह—यथैवेति । मशकादिव्यक्तीनां वेदसाम्नातान्यथानुपपत्त्या नित्यत्वं भविष्यतीत्याशयः । वेदसाम्नातेन मशकादिना समाख्यातस्य ग्रन्थस्य नित्यतेत्यर्थः । ननु न समाख्यामात्रेणैषां पौरुषेयत्वं ब्रूमः, किं तु मशकेनेदं कृतमित्यादिदृढविच्छिन्ना- ध्येतृस्मरणेनेत्याशङ्कयाह—यथा चेति । मशकादीनामृषित्वप्रसिद्धेऋषिगतावित्यस्य धातो- रिरिन्नित्यधिकृत्येगुपधात्किदित्यौणादिके इन्प्रत्यये कृते ऋषिशब्दव्युत्पत्तेर्गमेश्च ज्ञानार्थत्वाद् ऋषिर्दर्शनादिति च स्मरणाद् ऋषिशब्दस्य दर्शननिमित्तत्वप्रतीतेः । करोतेश्चानेकार्थत्वाद्, 'गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञ्' इति स्मृतिपर्यालोचनया वा प्रकथनार्थत्वाद्दर्शनाभिप्रायं कथनाभिप्रायं वा मशकादिकर्तृस्मरणमित्याशयः । एतदेव विवृणोति—तथा हीति । प्रयोक्तृग्रहणं दर्शनमप्युपलक्षयति । नित्यविधिविषयत्वान्यथानुपपत्त्यापि कल्पसूत्राणां नित्यत्वमित्याह—ब्रह्मयज्ञेति । पुराणेतिहासानामप्येतेनैव सामान्येनापौरुषेयत्वाभ्युपगमान्न तैरनैकान्तिकत्वाशङ्केत्याशयः । पुरुषकृतानामित्येनेनार्थशब्दो नित्याभिप्रायो व्यतिरेकमुखेन व्याख्यातः । ऋषिणा दृष्टं प्रोक्तं वेत्यस्मिन्नर्थे तद्धितोपपत्तेः असतश्च दर्शनप्रवचनायोगात्कालानवच्छेदेन सर्वदा सत्त्वप्रतीते- रार्षशब्दस्य नित्यपर्यायत्वसिद्धिः । नन्वर्थवादाद्यभावाद्भेदमद्रारहितत्वेनैषामवेदत्वं प्रतीयत इत्याशङ्कयाह—अरुणेति । प्रत्युत वेदतुल्यतैवाऽवसीयत इति दर्शयितुम्—सर्वथाप्यर्थैक्येत्याद्युक्तम् । आर्षत्वप्रसिद्धयापि तुल्यकल्पत्वं प्रतीयत इत्याह—आर्षमिति । न केवलं न्यायमात्रेण तुल्यकल्पत्वं प्रतीयते, किं तु सूत्रकारवचनादपीत्याह—लाट्येति । सूत्रकाराभ्यामपि ब्राह्मणविहितादप्यार्षंकल्प- विहितगरीयस्त्वमङ्गीकृत्य तत्प्रत्यक्षविहितानां त्वितीदमुक्तमित्यन्वयः । कोऽत्रार्षः कल्पो विवक्षित इत्याकाङ्क्षायाम्—माशकमपेक्ष्येत्युक्तम् । ननु ब्राह्मणस्यापि स्वतःप्रामाण्यात्कथं तस्मात्कल्पगरीयस्त्वमित्याशङ्कय दृढकल्पप्रामाण्यापेक्षयेत्युक्तम् । कल्पप्रामाण्यं निश्चित- मभिप्रेत्यातिशयमात्रं गरीयस्त्वाभिधानमित्याशयः । कात्यायनेनापि कल्पगरीयस्त्वमङ्गीकृतमित्याह—कात्यायनेन वेति । यज्ञविषयाणां ब्राह्मणगतानां स्तोत्रसाधनसामविशेषोपेक्षाणां सामविशेषलक्षणार्थे वाक्यशेषे कर्त्तव्ये यथा 'माशकं मया लक्षणं करिष्यत' इति कात्यायनवचनस्यार्थः । न केवलं प्रतिज्ञामात्रम्, किं तु कृतमपि तथैवेत्याह—तथा चेति । गवामयनिकस्य प्रथमस्याह्नः प्रायणीयसंज्ञकस्याग्निष्टोम-
स्तोत्रसाधनसामविशेषापेक्षायां यद्ब्राह्मणेनाग्निष्टोमसाधनत्वेन जराबोधीयं विहितम् । तत्कात्यायनेनार्मभवपवमानाख्यस्तोत्रान्तरसाधनेषु सत्सु सामसु लक्ष्यमाणेषु तद्गोयात्रप्रथमा- द्गायत्राख्यात्साम्नस्तृतीयत्वेन लक्षितं 'जरासादिति' सूत्रेणेत्यर्थः । कथमनेन सूत्रेण जराबोधीयमार्मर्वीयगायत्रतृतीयत्वेन लक्षितमित्यपेक्षायामाह-आर्भवयेति । माध्यन्दिन- पवमानेऽपि गायत्रसद्भावात्तद्व्यावृत्त्यर्थमार्मर्वीयविशेषणं प्रकृतार्मभवपवमाने संहितस्य गायत्रान्तरत्वात्तस्यैव सर्वत्र समिति संज्ञा माभूदिति गायत्रेणोपलक्षणं यद्यत्रार्मभवपवमाने गायत्रानन्तरं साम, तत्र तस्य समिति संज्ञेत्यर्थः । परशब्देन सादिति पञ्चमीपरयोगेन व्याख्याता । कथं जराशब्दस्य जराबोधीयवाचित्वेत्यपेक्षायां पदैकदेश इत्युक्तम् । न केवलम- न्यत्र विनियोगाद् ब्राह्मणानादरः किं त्वग्निष्टोमसामत्वेनाविनियोगादपीत्याह-डेशब्देन चेति । अग्निष्टोमसाम्नो ड़ेयज्ञायज्ञीयमितिसूत्रेण प्रायणीयाग्निष्टोमसामत्वेन यज्ञायज्ञीयमेव नियमित्यर्थः । नन्वामर्भावेयगायत्रतृतीयत्वेन पञ्चविंशब्राह्मणे सामन्तराविधानान्न जरा- बोधीयस्य तत्र विनियोगे ब्राह्मणविरोधः नाप्यग्निष्टोम सामत्वेन यज्ञायज्ञीय नियमे ब्राह्मणे 'नाप्ययो खल्वाहुर्यज्ञायज्ञीयमेवाग्निष्टोम सामकार्यमिति' तस्य नियतत्वादित्याशङ्कयाह- यदि चेति । यज्ञायज्ञीयनियमे जराबोधीयविधानार्थक्यापत्तेरेवकारस्य च यदेव प्रकृतौ, तदेवात्रापीत्येवं परत्वेनोपपत्तेर्विकल्पपरमेव ब्राह्मणमित्याशयः । एवं तर्हि कात्यायनवचनं प्रत्यक्षविरोधादग्राह्यं स्यादित्याशङ्कयाह-बह्विति । यद्यपि कात्यायनसूत्रं पौरुषेयम्, तथापि तस्य वेदोत्थापिनां न्यायानां मध्येऽयं सम्यङ्न्यायः, अय न्यायाभास इति विवेक- कुशलत्वान्नाकुशलैर्मिथ्यावादित्वमध्यवसातुं शक्यमित्यर्थः । परमार्थतस्त्वस्मिन्पूर्वपक्षे सर्वेषामपौरुषेयत्वान्न कस्यचिद् बाध इत्येतावानाशयः । करोतिप्रणयत्यादिप्रयोगास्तु प्रवचनाभिप्रायेण, दर्शनाभिप्रायेण वा व्याख्येया इत्युक्तमेव । श्रुतिबलादप्येवं वेदतुल्यत्वमवसीयत इति प्रतिपादनार्थमाचार्यवचन इतिभाष्यं व्याचष्टे-आचार्यवचनानं चेति । ननु प्रामाण्यस्य स्वतस्त्वात्तत्प्रतिपादनपरा श्रुतिरनर्थिका स्यादित्याशङ्क्य, स्वतः सिद्धस्यापि प्रामाण्यस्यापवादशङ्कानिरासाय प्रमाणान्तरापेक्षायां तदर्थ्येन प्रामाण्यश्रुतिसाफल्यप्रतिपादनार्थं प्रत्यक्षत इत्यादिभाष्यं व्याचष्टे-तथा चेति । श्लोकाभिप्रायं विवृणोति -- यत्प्रत्येति । अनाप्तवाक्येष्वपि सम्वादेनापवादाशङ्का निवर्त्तते, किमुतापौरुषेयेष्वित्याशयः । एतदेवोपसंहरति-सत्यवाचां चेति । तुल्यकल्पत्व एवोपपत्त्यन्त- रप्रतिपादनार्थं वेदवाक्यैश्चेति भाष्यं व्याचष्टे -- अपि चेति । तुल्यत्वोपपादनार्थैवाडति- शयोक्तिः । याज्ञिककर्तृकादराद्यर्थतया व्याख्याय, ब्रह्मयज्ञविधिकृतादराद्यर्थतयैतदेव व्याचष्टे- तुल्यं चेति । सम्प्रदायः अध्ययनम् । तद्विधायकं य एवं विद्वाञ्स्वाध्यायमधीत इति ब्रह्मयज्ञ- विधिवाक्यं तद्वेदवाक्यैः सह कल्पसूत्राणां तुल्यमित्यर्थः । अध्येतृकर्तृको वादरोऽनेन भाष्येणोक्त इति तृतीयं व्याख्यानमाह--अथ वेति । यत्नतुल्यत्वमेव दर्शयति -- अनुयोगेष्विति । वेदकौशलजिज्ञासार्थं तत्तद्वेदभागचिह्नलेखानि घटिकायां कुम्भाख्यायां
४४२ मीमांसादर्शनम् [ सू० निक्षिप्य तत्तद्वेदभागपरीक्षाकाले तान्याकृष्याकृष्टलेखयच्चिह्नितं वेदं पठत्यध्येतारो न युञ्जत इति घटिकामार्गवर्त्तिनोऽनुयोगाः तस्मादित्यपसंहारभाष्यं व्याचष्टे— तस्मादिति । एतमेव न्यायं विद्यास्थानान्तरेष्वतिदिशति—एतेनेति । स्मृतीनां च धर्मशास्त्रव्यपदे- शादपि स्वातन्त्र्यलक्षणा प्रयोगशास्त्रताऽवसोयत इत्याह---धर्मेति । तुल्यवच्च विद्यास्थानत्व- व्यपदेशात्सर्वेषां तुल्यतेत्याह—अपि चेति । वैदिकमन्त्रप्रकाश्यप्रकाशकत्वादप्येषां वेदत्वम- वसीयत इत्याह -- किं चेति । नन्ववेदत्वेऽपि स्मृतीनां वेदमूलत्वेन तत्प्रतिपाद्यानामष्ट- कादीनां वैदिकत्वाद्वैदिकमन्त्र प्रकाश्यं च युक्तमित्याशङ्कयाह--एवं चेति । कल्पनागौरवा- पत्तेर्वेदमूलकत्वकल्पनातो वेदत्वकल्पनेव ज्यायसीत्यर्थः । ननु नित्यत्वपक्षे तस्य चाप्रामाण्यस्य च कल्प्यत्वाद्वेदत्वपक्षे च तस्यापि तृतीयस्य कल्प्यत्वादगौरवं स्यादित्याशङ्कयाह-सिद्धानामिति । नित्यत्वे सति निर्दोषत्वेनैव प्रामाण्य- सिद्धेर्नित्यतैवौका साध्या सा चाव्यस्मरणेनैव सुसाधा । वेदता च वेदार्थ विषयत्वात्प्रकल्प्यत इत्यर्थः । एतदेवोपसंहरति—तस्मादिति । किं तु तान्येवेत्युत्तरश्लोको योज्यः । वेदमूलत्वे च तत्समर्पणक्लेशाधिक्यापत्तेरेषामेव वेदत्वं युक्तमित्याह- मन्वादिभिरिति । मूलसमर्पण- क्लेशाङ्गीकरणे अप्येषां प्रति कञ्चुकत्वादग्राह्यत्वं स्यादित्याह-के हीति । प्रतिकञ्चुका- नामग्राह्यत्वं दृष्टान्तेनोपपादयति—यथा चेति । ननु वेदमूलत्वेऽपि सम्प्रदायविनाशभयेनासमर्पणीयत्वान्न क्लेशापत्तिर्नाप्यग्राह्यत्वापत्ति- रित्याशङ्कयाह—सम्प्रदायेति । एतदेव विवृणोति—वेदेति । अवेदत्वे च तद्विज्ञात- स्यार्थस्य श्रेयःसाधनत्वाभावापत्तेः शास्त्रप्रणयनवैयर्थ्यं स्यादित्याशङ्कयाह - वेदादेव चेति । नन्वस्तु तर्हि वेदवाक्यानामेव विप्रकीर्णानामेकत्र सन्निवेशस्य मन्वादिभिः कृतत्वात्पौरुषेय- तेत्याशङ्कयाह—न चेति । एतदेव विवृणोति—ईदृगिति । ननु मूलान्तराणामेकत्र कल्पना रचना युज्यते सम्प्रदायविनाशापत्तेरिति योज्यम् । उपसंहरति । ननु पौरुषेयत्वेऽपि वेदमूलत्वेन धर्मप्रामाण्योपपत्तेः कथं तदभ्युपगमे नित्यत्वापत्तिरि- त्याशङ्कयाह—चोदनेति । इष्टसाधनत्वमात्रेण धर्मत्वे कृष्यादेरपि धर्मत्वापत्तेर्विध्यनुष्ठा- पितत्वेन धर्मत्वाद्दिधेश्च पौरुषेयेषु पुरुषाभिप्रायप्रतिपादकत्वेनासम्भवाद्धर्मप्रामाण्या सम्भव इत्याशयः । स एव ब्राह्मणस्याप्यवेदत्वे चोदनात्वाभावेऽर्थवादरूपस्य विध्येकवाक्यत्वाभावे धर्मप्रामाण्यं नास्तीति वदता विवृतः । एतद्देशोपसंहरति – तेनेति । ननु मूलभूतचोदना- कल्पनेनैषां धर्मप्रामाण्यं भविष्यत्यत आह-वदन्तीति । चोदनाकल्पने तन्मात्रेणोपक्षीणानां धर्मप्रतिपत्तावव्यापारादप्रामाण्यापत्तिरित्याशयः । यावदुक्तं शब्देन विषयीकृतं तावत्येव शब्दः प्रमाणम् । येषां तैरित्यस्मिन्र्थेऽव्ययीभावगर्भो बहुव्रीहिः । ननूक्तार्थान्यथानुपपत्त्या- नुक्तकल्पनमपि युक्तमेवेत्याशङ्कयाह-उक्तमिति । उक्तं धर्मरूपमर्थमादौ परित्यज्यानुक्तं वेदवाक्यं तावत्प्रतीयते कल्प्यते । अनुक्तेन च वेदवाक्येन सपूर्वंपरित्यक्तोऽर्थोऽपि पश्चात्प्रती-
१० ] प्रथमाध्याये तृतीयपादः ४४३ यत इति यत्कल्पनम् तद्रूपानुपपत्त्येत्यर्थः । विद्यास्थानान्तरेषु पूर्वपक्षमुक्तमर्थमुप- संहरति—तस्मादिति । शाक्यादिग्रन्थानां वा नित्यत्वमनेन सूत्रेणोच्यत इत्याह—शाक्यादीति । शाक्यादि- ग्रन्थनिष्टत्वे को न्याय इत्यपेक्षायामाह—येनैवेति । नन्वेवं सत्यासत्वलक्षणाभावात्कथं प्रामाण्यसिद्धिरित्याशङ्क्य, स्वतस्त्ववाङ्गीकरणेन परिहरति—बोधकत्वादिति । कथमकृत- कमित्यपेक्षायाङ्कर्तृस्मरणवर्जनादित्युक्तम् । ननु सामाख्यानिकं कर्तृस्मरणमस्तीत्याशङ्कयाह— बुद्धेति । यथाक्रमं दृष्टान्तद्वयमनुपलब्धिविरोधादिदूषणमपि वेदवत्परिहर्त्तव्यमित्याह— यावदेवेति । उपसंहरति—तेनेति । नासन्नियमादिति सिद्धान्तसूत्रं स्वयं तावद्वयाचष्टे—एवमिति । यदेतत्सर्वेषामविशे- षेण नित्यत्वं वेदत्वं स्वतःप्रमाणत्वम्, तत्कारणं च कर्तृस्मरणवर्जनाद्युक्तम् । न तस्य किंचिन्नित्यं निबन्धनं नियतं-कारणमागमो न्यायो ऽस्तीत्यर्थः । अनेन चासन्नियमा- दिति हेतुनिबन्धनाभावादित्येवं व्याख्यातः । सर्वसाम्योक्तेरसन्निबन्धनत्वमेवोपपादयितुं चतुर्द्धा वैलक्षण्यमाह — इहेति । वेदतदङ्गाधर्मशास्त्र-शाक्यादिग्रन्थेष्वेषु तुल्यत्वेनोपन्य- स्तेषु अर्थेषु मध्ये वेदेषु या वेदत्वनित्यता बुद्धिः सा वेदस्वरूपदर्शनादेव जायते, बाधका- भावाच्च पारमार्थिकी । तदङ्गेषु तु कल्पसूत्रेषु शिक्षादिषु च वैदिकग्रहेष्टकाद्यर्थप्रबन्धान् ‘षडङ्गमेके’ इतिस्मृतेश्च वेदत्वनित्यत्वबुद्धिर्जायमाना दृढकर्तृस्मरणात्, ‘मन्त्रब्राह्मणयो- र्वेदनामधेयमि’ति बहुश्रुतिविरोधाच्च भ्रान्तिर्द्धर्मशास्त्रेषु वैदिकग्रहाद्यर्थनिबन्ध- लिङ्गाभावाद्वेदत्वास्मरणाच्च वेदत्वनित्यत्वबुद्धिरजायतैव । शाक्यादिग्रन्थेषु त्वतीन्द्रियार्थनिबन्धनेन, ‘स्थितेवेयं धर्मनित्यतेत्यादिपर्यालोचनया च वेदत्वनित्यत्वबुद्धिर्जातापि स्वसिद्धान्तविरोधाद् दुष्यतीत्यर्थः । ननु शाक्यादिग्रन्थेषु स्वसिद्धान्तविरोधात्कथं वेदत्वनित्यत्वबुद्धिर्जायते इत्याशङ्कयाह—परेणेति । उक्ति- प्रत्युक्तिरूपम्=वाकोवाक्यम् । प्रतिमाने किं कारणमित्यपेक्षायां परवाक्येभ्योऽवगतानां नित्य- त्वोपपत्तीनां स्वागमेष्वारोपः । प्रतिमानकारणत्वेनोक्तः । ननु स्वसिद्धान्तज्ञाने परोक्तो- पपत्त्याऽऽरोपो न सम्भवतीत्याशङ्कयाह—छायामिति । स्वागमप्रामाण्यप्रतिज्ञाहान्या परा- जयात् मुखच्छायां नश्यन्तीं रक्षयितुमित्यर्थः । यद्यप्यात्मीयं सिद्धान्तं जानन्तीत्यध्याहृत्य तथापिशब्दो योज्यः । एतदेवोदाहरणनिष्ठमाह—यथेति । ननु वेदमूलत्वेनापि स्वागम- प्रामाण्यसिद्धेर्नित्यत्वाभिधानमनर्थकमित्याशङ्कयाह—प्रद्वेषादिति । ननु स्वानङ्गीकृत- नित्यत्वाभिधानादसत्यवादित्वं स्यादित्याशङ्कयाह—तन्मात्रेऽपि चेति । नित्यत्वाभिधा- नादसत्यवादित्वाभावेऽपि स्वागमप्रामाण्याभिधानविषये सत्यवादिता सेत्स्यतीत्यर्थः । नन्वहिंसादेर्वेदमूलस्वाभिधानात्कथं तेषां वेदमूलत्वे प्रद्वेष इत्याशङ्कयाह —भूयसामिति । शाक्यैरप्यहिंसादि वेदवत् स्वातन्त्र्येणैव विधीयते, न वेदानुपलभ्येत्यर्थः । नित्यत्वप्रतिपादने किं तेषां प्रयोजनमित्यपेक्षायामाह—ततश्चेति । वेदनिंत्यत्ववागाभासैर्विमोह्यते विभ्राम्यते विप्रतीपीक्रियते—निवार्यत इत्यर्थः । ननु तैर्नित्यत्वस्यासत्वलक्षकवाक्यप्रामाण्य-
४४४ मीमांसादर्शनम् [ सू० कारणगुणाभावापादकत्वेन वेदप्रामाण्यबाधकत्वादभ्युपगन्तव्यं वेदत्वाभिधानेन नित्यत्वा- भिधानेन वा स्वागमाप्रामाण्यं विमोहाय इत्याशङ्कयाह—यादृशेति । यादृशं परेणोक्तं तादृशमविचार्यैव ये मन्यन्ते यादृशतादृशा-अनिपुणाः । तैरप्यतीन्द्रियविषये पुरुषवचन- प्रामाण्यस्य निराकत्तुं शक्यत्वान्निरुत्तरीकृताः परवाक्यान्यनुकुर्वन्तः स्वागमनित्यत्वमाहु- रित्यन्वयः । ननु चक्षुरादीनामतीन्द्रियार्थग्रहणासामर्थ्येऽपि भावनादेरतीन्द्रियार्थग्रहणसामर्थ्यस्य तैरुपपादितत्वात्कथं निरुत्तरत्वमपोत्याशङ्क्य—वालेत्याद्युक्तम् । अनेन चोपपत्तिवाक्येन स्वागमप्रामाण्यं साधयामोऽनेन वेति यद्यपि हृदयं व्याकुलयन्ति, तथापि प्रक्षीणकुहेतु- वचनजालत्वेन तद्वाक्यानां बालानुकरणवाक्यसदृशत्वान्न स्वपक्षसाधनक्षमताऽस्तीत्यर्थः : ननु नित्यत्वेऽपि वाक्यप्रामाण्यकारणालक्षणगुणाभावात्प्रामाण्यानुपपत्तेः परवाक्यानुकरण- मनर्थकमित्याशङ्क्य—अपौरुषेयत्वेत्युक्तम् । मीमांसकोपपादितस्वतःप्रामाण्यनिराकरणा- शक्तेरित्याशयः । परवाक्यानुकरणे मूर्खवरस्य गोत्रप्रश्नविषयमुत्तरं दृष्टान्तः । कीदृशमुत्तर- मित्यपेक्षायाम्—यदेवेत्युदाहरणम् । ननु शाक्यादीनामागमनित्यत्वोक्तावपसिद्धान्तापत्तिः स्यादित्याशङ्कयाह—अस्मदीयमिति । आगमनित्यत्वप्रतिपादकं यद्भवतां वाक्यम् तदस्म- दीयमिति मीमांसकैर्गदिताः शाक्यादयोऽस्माकमेवैतद्वाक्यं मीमांसकैः श्रुत्वा हृतमिति जल्पन्तीत्यर्थः । कथमेवं ते मिथ्या वदन्तीत्याशङ्क्याह—त्यक्तलज्जश्चिरिति । क्रियाविशेषण- त्वान्नपुंसकनिर्देशः । एवं शाक्यादिग्रन्थेषु वेदत्वनित्यत्वबुद्धेर्जन्मोपपाद्य दूषणमाह—तन्नेति । कथं क्षणिक- वादित्वप्रसिद्धेस्तेषामित्याशङ्कयाह—धर्म इति । केन ग्रन्थेनायं धर्मः शाक्येनोपदिष्ट इत्यपेक्षायां तदीयं ग्रन्थं पठति—क्षणिका इति । सर्वेषां संस्काराणां=संस्कृतानां कृतकानां क्षणिकत्वेनास्थिरत्वात्क्रियाकालं यावत् स्थायित्वाभावान्न क्रियाव्यापारः कुतः सम्भवतीति क्रियापदार्थं निषेधता शाक्येन सर्वस्य संस्कृतस्य कृतकस्यानित्यत्वलक्षणो धर्मोऽभिहित इत्यर्थः । नन्वकृतकानां प्रतिसंख्यानिरोधव्योम्नां शाक्यैनित्यत्वाभ्युपगमात् न्यायेन आगमस्यापि नित्यत्वं तेषामभिमतं भविष्यतीत्याशङ्कयाह—बुद्धीति । मुद्गरप्रहाराद्युत्तर- कालीनस्य घटाद्यभावस्य प्रतिसंख्यानिरोधाख्यस्य, व्योम्नश्चावरणाभावरूपस्यावस्तुत्वात्कृ- तकत्वादिधर्मयोगासम्भवेऽप्यागमस्य वस्तुत्वात्कृतकत्वं क्षणिकत्वं च शाक्यानामभिमतमेवे- त्याशयः । वस्तुत्वं चार्थक्रियाकारित्वलक्षणं बुद्धेर्ग्राहकशक्तियोगाद् बोध्यस्य च ग्राह्यशक्ति- योगानेतरस्येति दर्शयितुम्—बुद्धिर्बोध्यत्वमित्युक्तम् । विशेषतश्च पदाद्यनित्यत्वाभिधाना- दागमनित्यत्वं शाक्यानामनाभिमतमिति ज्ञायतइति तदीयग्रन्थोपन्यासेनैव दर्शयति— तथेति । शब्देनाभिव्यक्तिर्युज्यते सा हीन्द्रियसंस्काराद्वा स्याद्विषयसंस्काराद्वा । द्वेधापि दोषांऽस्ति । कथमित्यपेक्षायां बुद्धेनियमादित्यक्तम् । कश्चिदेव शब्दः केनचिदेव युज्यते इति द्विविधो बुद्धिनियमो दृश्यते । स चेन्द्रियसंस्कारपक्षे गोशब्दामिव्यक्त्यर्थं संस्कृतेन श्रोत्रेण सर्वगतत्वेन तत्समानादेशस्याप्युपलम्भापत्तेः विषयसंस्कारपक्षे क्षुण्णसंस्कृतस्य शब्दस्य
१० ] प्रथमाध्याये तृतीयपादः ४४५ पाटलिपुत्रेऽप्युपलम्भापत्तेर्न युज्यते इति शाक्यग्रन्थार्थः । ननु पदार्थानित्यत्वेऽप्यागमनित्य- त्वमवद्यस्मरणादिना सेत्स्यतीत्याशङ्क्याह—यस्तन्तून्विति । पदसङ्घातात्मकस्यागमस्य पदाश्रितत्वात्तदनित्यत्वे नित्यत्वं न युज्यत इत्याशयः । आगमनित्यत्वसिद्धयर्थं चोपकल्पिते पदादिनित्यत्वे शाक्यैर्निराकृतमागमनित्यत्वमिति रूपकद्वारेणाह—यावदिति । आगम- नित्यत्ववेश्मार्थं यावत्पदानित्यत्वादिदारूपकल्पितं तस्मिञ्छाक्योक्तैर्हेत्वाभासाग्निभिर्दग्धे तदागमनित्यत्वरूपं वेश्म दुष्करमित्यर्थः । ननु कूटस्थनित्यत्वासम्भवेऽपि व्यवहारनित्यत्वे प्रवाहनित्यत्वापरपर्यायं भविष्यतीत्या- शङ्क्याह—व्यवहारेति । अर्थप्रतिपादनलक्षणक्रियानित्यत्वमिह व्यवहारनित्यत्वं वाच्यम् । न चाश्रयनित्यत्वं विना तदाश्रितक्रियानित्यत्वं युक्तमित्यर्थः । नन्वाश्रयस्य पदादेः कूटस्थ- नित्यत्वाभावेऽपि प्रवाहनित्यत्वात्तदाश्रितक्रियानित्यत्वं भविष्यतीत्याशङ्क्याह—न चेति । पदावयवभूतानां वर्णानामपि क्षणिकत्वाभ्युपगमाच्च पदार्थानित्यत्वस्यापि जातितो व्यक्तितो वाऽनुपपत्तेर्न पदादेः प्रवाहनित्यतापि शाक्यपक्षे सम्भवतीत्याशयः । अतः स्थितैषां धर्मनित्यतेति वचनाच्छाक्यागमे वेदत्वनित्यत्वबुद्धिर्जातापि सर्वक्षणिकसिद्धान्तविरोधाद् दुष्यतीत्युपसंहरति—स्थितैवेति । किं च क्षणिकत्वे पूर्वोपलब्धाया धर्मताया निर्देशकाले विनष्टत्वादेषेति सर्वनामनिर्देश एव तावन्न युक्तः । चिरविनष्टत्वाद्बुधैत्यस्य तदेकवाक्यता- त्यन्तमयुक्तेत्याह—एषेति । अत्रैव सूत्रं योजयति—तेनेति । असत्त्वस्य क्षणिकत्वस्य सर्वपदार्थेषु विशेषतश्च पदादिषु नियमानिवद्धत्वादभ्युपगतत्वादागमनित्यत्वानुपपत्तिं प्रति- पाद्यमालोच्य प्रागसतश्च कृतिमस्यातीन्द्रियेऽर्थे स्वातन्त्र्यलक्षणं प्रयोगशास्त्रत्वाभावं प्रतिपाद्यमालोच्यैतत्सूत्रमित्यर्थः । असाधुशब्दाभिप्रायो वायमसच्छब्दो व्याख्येय इत्याह— असाध्विति । पूर्वार्द्धं व्याचष्टे—मागधेति । मागधभाषागता असाधवः शब्दा मागधाः दाक्षिणात्यभाषागता दाक्षिणात्याः । तदुभयापभ्रंशप्रायाश्चासाधवो ये शब्दास्तैर्निबन्धनं येषामागमानामिति विग्रहः । मागधदाक्षिणात्या एव तावदसाधवः शब्दाः तदपभ्रंशास्त्व- साधुतरा इत्याशयः । ममापि भिक्षवः कर्म वत्तंत एवाशरीरपातादित्याद्यागमार्थः । उत्क्षिप्ते लोष्ठे उत्क्षेपोऽस्ति कारणम् पतेन नास्ति कारणमस्त्युद्भूवे च कारणम् । इमे च संस्कृता धर्माः सम्भवन्ति सकारणा-अकारणा विनश्यन्ति । उत्पत्तिमनुकारणम- पेक्षन्त इत्याद्यागमन्तरार्थः । उत्तरार्द्धं व्याचष्टे—ततश्चेति । नन्ववद्यस्मरणेऽप्यसाधुशब्द- भूयिष्ठत्वादिना शाक्याद्यागमानां कृतकत्वापादने वेदस्यापि पदसङ्घातात्मकत्वादिहेतुना कृत- कत्वमापद्येतेत्याशङ्कां निराकुर्वन्निहैका परमार्थेनेतिश्लोकस्य पूर्वार्द्धं व्याचष्टे—वेदेषु हीति । आदिमात्रदर्शनाद्वेदे पौरुषेयत्वभ्रान्तिर्निवर्त्तते, किमुत समस्तवेददर्शनादित्याह— आदिमात्रमिति । कथमित्यपेक्षिते पौरुषेयत्वेऽप्यवैलक्षण्यं दर्शयितुं पौरुषेयग्रन्थानां तावत्प्रमाणान्तरानुसारिपदवाक्यनिबद्धत्वमाह—दृष्टार्थेष्विति । वेदानां तद्वैलक्षण्यात्पौरुषेय- त्वासम्भवं दर्शयन्नृग्वेदस्य तावदलौकिकप्रायनियतस्वरकपदानिवद्धत्वात्पौरुषेयत्वासम्भव- माह—प्रपाठकेति ।
४४६ मीमांसादर्शनम् [ सू० आदिमात्रदर्शनेनाप्यृग्वेदस्यापौरुषेयत्वन्निश्चीयत इत्याह—अग्निमिति । कथमस्य पौरुषेयत्वं न सम्भवतीत्याशङ्क्याह—किमालोच्येति । यजुर्वेदस्याप्यादिमात्रदर्शनेनापौरुषेयत्वं निश्चीयत इत्याह—इषे त्वेति । प्रसङ्गादेत- न्मन्त्रविनियोजकस्य ब्राह्मणस्यापि विनियोगरूपदर्शनादेवापौरुषेयत्वं निश्चीयत इत्याह - शाखेति । द्वितीयमन्त्रविनियोजकस्याप्यपौरुषेयत्वनिश्चयमाह—एवमिति । ऊर्जयितव्यमिति- वक्तव्ये श्लोकाक्षरातिरेकापत्ति भीत्या ज्ञातारः सन्ति मेत्युक्त्वेति मानवीयश्लोकवद्विकारो न युक्तः । तृतीयमन्त्रविनियोजकस्याप्याह—वायवस्थेति । एकशो विनियोगे कानुपपत्ति- रित्याशङ्क्याह—वायुशब्देनेति । सामवेदस्याप्यादिमात्रश्रवणेनापौरुषेयत्वनिश्चय इत्याह—सामवेद इति । कथं पौरुषे- यत्वे निरभिप्रायत्वापत्तिरित्याशङ्क्याह—को नाथेति । अर्थाभिधानपराणामृगक्षराणा- मित्यनादरे षष्ठ्यौ । अनवगतपूर्वं विकुर्यादिति क्रियाविशेषणम् । अक्षरान्तरेष्वपि विकारः पौरुषेयत्वेन युज्यत इत्याह—तथेति । वेदे पुरुषदर्शनमात्रेणापौरुषेयत्वनिश्चयमुप- संहरति—तेनेति । ननु लौकिकवाक्ये विलक्षणरूपदर्शनाद्वेदस्यापौरुषेयत्वे 'सूर्यं एकाकी चरतीत्या' दीनां तत्सादृश्यात्पौरुषेयत्वापत्तिरित्याशङ्क्य, तत्रापि स्वरादिनियमाद्वैलक्षण्यमाह—किं- चिदिति । अतो निरपवादसिद्धं वेदस्य रूपदर्शनेनापौरुषेयत्वमित्युपसंहरति—एवं चेति । ननु रूपदर्शनमात्रेणापौरुषेयत्वनिश्चये, मीमांसकानां न्यायप्रतिपादनक्लेशोऽनर्थकः स्यादित्या- शङ्क्याह—तावता त्विति । सानुमवरूपा दृढा प्रतीतिरनवच्छिन्नप्रतीतिप्रवाहवाचकत्वा- द्द्वावनेत्युच्यते । इतिकरणो हेतौ । बाह्यतार्किकपरामर्शी तच्छब्दः । शाक्यादिग्रन्थेषु रूपदर्शनमात्रेण पौरुषेयत्वनिश्चयो भवतीति व्यतिरेकमाह—शाक्या- दीति । प्रज्ञप्तिविज्ञप्तिशब्दयोर्जनातेर्णिजन्तत्वाभावे युगागमस्यासाधुत्वम्, णिजन्तत्वे तु 'ण्यासश्रन्थो युजिति (पा० सू० ३।३।१०४) विशेषविहितेन युच्प्रत्ययेन स्त्रियां क्तिन्निति सामान्यविहितस्य क्तिन्प्रत्ययस्य बाधादसाधुत्वम् शिति प्रत्यये परभूते दृशेः पश्यादेश- विधानात्पश्यनाशब्दस्यासाधुत्वम् । ननु भिक्षुशब्दगतस्य क्षकारस्य प्राकृतव्याकरणे स्तुर्वक्खार इति खकारादेशविधाना- त्तस्य च शेषादेशयोर्द्वित्वमनादाविति द्वित्वविधानात्कथमत्र दृष्टतरत्वमित्याशङ्क्याह— द्वितीयेति । इदुद्भ्यां शसणो पा. सू. इति स्मरणाद्भिक्षूनित्यस्य स्थाने भिक्षुणो इति प्राप्ते रेकान्तत्वाप्रयोगाद्भिक्षणं भिक्षुशब्दाद् द्वितीयाबहुवचनस्य शसोण इति णेकारादेशविधाना- द्द्रुक्ष इति भिक्षइति घवन्तं मिक्षशब्दं व्युत्पाद्य भिक्षुं वाति गच्छति प्राप्नोतीत्यस्मिन्नर्थे वा गतिगन्धनयोरित्यस्माद्धातोरतोऽनुपसर्गे कः पा. सू. ३।२।३ इति कप्रत्ययोत्पादनेना- कारान्तभिक्षुशब्दमभ्युपेत्याकारांन्तम्—दृष्टमित्युक्तम् । आदिशब्दोक्तं शब्दान्तरापभ्रष्टतरत्वं दर्शयति—संस्कृतेति । स्वयमेव च शाक्येनात्र डकारापत्तिर्निषिद्धेत्याह—सोऽयमिति । नासन्नियमादिति सूत्रस्यासाधुशब्दनिबन्धनोऽभिप्रायं व्याख्यानमुपसंहरति—इतीति ।
१० ] प्रथमाध्याये तृतीयपादः ४४७ व्याकरणानुगतशब्दनियमाभावादिति तृतीयं व्याख्यानं कर्तुमर्थं तावदाह— यावांश्चेति । उक्तेऽर्थे सूत्रं व्याचष्टे—असन्नियमादिति वेति । प्रागविद्यमानस्य ग्रन्थस्य निबन्धनादिति चतुर्थं व्याख्यानमाह-क्षणिकत्वेति । स्वसिद्धान्तप्रसिद्धसर्वक्षणिकत्वनिरा- कृतेन स्थितैवेयं धर्मनित्यतेत्युक्तेन धर्मप्रतिपादकागममनित्यत्वेन सिद्धमनित्यत्वं यस्य ग्रन्थस्य, स तथोक्तः । अत एव निबन्धनात्प्रागत्यन्ताविद्यमानस्य निबन्धनाभ्युपगमादित्य- भिप्रायेणेति योज्यम् । अविद्यमानानां क्षणभङ्गादीनां निबन्धनादिति पञ्चमं व्याख्यान- माह—असतो वेति । असाधुभिर्हेतुभिर्निबन्धनादिति षष्ठं व्याख्यानमाह—असद्धेतुभिश्चेति । ननु क्षणभङ्गादीनामविद्यमानानां हेत्वाभासैर्निबन्धनेऽपि धर्माधर्मनिबन्धनानां कथमप्रामा- ण्यमित्याशङ्कयाह—तदेककर्तृकेति । एवं तावदसाधारणैर्हेतुभिः शाक्याद्यागमानां पौरुषेयत्वमुपपादितम् इदानीं वेदाति- रिक्तविद्यास्थानसाधारणेन कर्तृस्मृतिदाढर्येनोपपादयति-कश्चिदिति । अनेनैव हेतुना वेदातिरिक्तविद्यास्थानानामपि सर्वेषां पौरुषेयत्वमित्याह—एवमिति । अनेन चापौरुषेयत्व- हेतोः कर्तृस्मरणस्य धर्मशास्त्रेष्वभावाद्द्वेदत्वबुद्धिर्न जायत इत्यभिधानादजातापि त्वन्येति श्लोकावयवो व्याख्यातः । ननु कल्पसूत्रेष्वितरेषु च वेदाङ्गेषु च वैदिकार्थप्रबन्धात्षडङ्गमेके इति च स्मृते- र्वेदत्वबुद्धिर्जाता, केन हेतुना बाध्यते इत्याशङ्कयाह—तेनेति । अङ्गत्वविशेषेऽपि कल्पसूत्रेषु वैदिकार्थप्रबन्धाधिक्यात् कल्पसूत्रग्रहणे प्रतीयमानापि स्वतन्त्रता कर्तृस्मरणेन प्रत्याख्यातेति वदताऽन्या भ्रान्तिरिति श्लोकावयवो व्याख्यातः । ननूभयत्र हेतुसद्भावे कथं पौरुषेयत्वस्यैव निश्चय इत्याशङ्कयाह—येनेति । स्मर्त्त- व्यास्मरणमेव दृश्यादर्शनवत्कर्त्रभावे प्रमाणम् । तच्च कल्पसूत्रे नास्ति, वैदिकार्थप्रबन्धस्तु वेदमूलत्वेनाप्युपपत्तेर्न वेदत्वसाधनायालम् । अध्येतॄणां चाङ्गेषु वेदत्वस्मृत्यभावात् 'षडङ्गमेके' इत्यपस्मृतिरित्याशयः । नन्वीश्वरप्रणीतो वेद इति तार्किकाणां कर्तृस्मरणे सत्यपि वेदस्य नित्यत्वमुक्तम्, तथाङ्गेष्वपि भविष्यतीत्याशङ्कयाह-यथैव हीति । अनध्येतृस्मृतेरनभियुक्तगतत्वेना- प्रामाण्यान्न वेदे कर्तृसिद्धिः । कल्पादिषु त्वध्येतॄणामेव कर्तृस्मृतेः पौरुषेयत्वमित्याशयः । अत्रापि प्रागसतां वेदातिरिक्तविद्यास्थानानां निबन्धनादित्येवं सूत्रं योजयति—ततश्चेति । नन्वत्र माशकादिसमाख्यानिमित्ताऽध्येतॄणां कर्तृस्मृतिर्वाच्या । सा च प्रवचनयोगेनाप्युपपत्तेर्न कर्तृसाधनमित्याशङ्कयाह-न चेति । मशकादिशब्दानां च कठादिशब्दवदनादिचरणाभि- धायित्वाज्ज्ञानादिसमाख्याव्युत्पत्तिनिमित्तत्वं सम्भवतीत्याह—यथा चेति । अत्राप्यर्थे मशकादिसमाख्यायाः प्रागविद्यमानग्रन्थविषयत्वादित्येवं सूत्रं योज- यति—अतश्चेति । स्वसंवेद्यालौकिकरूपाभावादिति तृतीयं व्याख्यानमाह—वेदेति । अनध्यायनियमाभावादिति चतुर्थं व्याख्यानमाह—कामं त्विति । भाष्यकृता तत्सूत्रं स्वरनियमाभावाभिप्रायेण व्याख्यातवद्विधविघातकारित्वादयुक्तमित्याह—यस्त्विति । समा-
धत्ते—तस्मादिति । प्रपाठकचतुःषष्ठीत्यादिना यत्स्वसम्वेद्यमलौकिकं वेदरूपमुक्तम्, तस्य कल्पसूत्रेष्वभावोऽत्र भाष्ये प्रयोगशास्त्रत्वाभावाकारणं विवक्षितम् । स्वरग्रहणरूप- लक्षणार्थमित्यर्थः । अवाक्यशेषात् । अनेन सूत्रेणार्थवादरहितत्वात्कल्पसूत्राणामवेदत्वमुक्तमिति प्रतिभाति, तदप्यरुणपराशरशाखाब्राह्मणस्य, वसन्ताय कपिञ्जलानालभेत इत्यादीनां चार्थवादरहित- त्वेनावेदत्वापत्तेरयुक्तमित्याशङ्कद्यालौकिकवेदरूपाभावोपलक्षणार्थत्वेन व्याचष्टे—अत- श्चेति । तच्छब्देन स्वसम्वेद्यरूपाभावः परामृष्टः वाक्यशेषाणामलौकिकरूपत्वमुपपादयति— बहव इति । श्लोकं व्याचष्टे—बृहस्पतिरिति । नन्वर्थवादानामपि विध्येकवाक्यत्वेना- नुष्ठानोपयोगित्वात्प्रणयनमर्थवदित्याशङ्कयाह—नित्यत्वे सतीति । नित्यत्वे पर्य्यनुयोगा- सम्भवात्कथंचिद्गतिः कार्य्या । प्रणयनं तु क्लिष्टार्थस्य मूढतामापादयतीत्यर्थः । वाक्यशेषाणामलौकिकरूपत्वमुपपाद्य, कल्पादिषु तदभावान्नापौरुषेयत्वमिति सूत्रार्थं- सिद्धिमाह—न चेति । भाष्यकृता तु विधानायाच्छिष्यैः शिष्यते विधीयतेऽनेनेत्यस्मिन्नर्थे घञुत्पत्तेर्विधायकवचनं शेषशब्दमङ्गीकृत्य विधायकवाक्यरहितत्वादित्येवं तावत्प्रथमं सूत्रं व्याख्यातम् । तस्य साध्यप्रयोगशास्त्रत्वाभावोपयोगितामाह—विधोति । ननु वर्त्तमाना- पदेशस्यापि ‘समिधो यजती’त्यादेर्विधित्वाङ्गीकरणान्न तेन विध्यभावः शक्यो वक्तुम्, वचना- नामित्याशङ्क्य, वाक्यशेषान्वयान्यथानुपपत्त्या तत्र विधिपरत्वं कल्प्यते न तु कल्पादिष्व- सावस्तीत्येवं परतया पुनरेतत्सूत्रव्याख्यानार्थं न चात्रेति भाष्यं व्याचष्टे—वर्त्तमानेति । विधित्वेऽङ्गीकृते तत्प्ररोचकत्वेनार्थवादान्वयोपपत्तेस्तदुपपादकत्वेन विधिकल्पनमभि- प्रेत्यार्थवादप्ररोचित इत्युक्तम् । ननु विध्येकवाक्यत्वं विना लाक्षणिकप्ररोचनार्थत्वं युक्तमिति प्रागेवोपपादितम् । ननु- वसन्ताय कपिञ्जलानालभेत इत्यादी वाक्यशेषाभावेऽपि वर्त्तमानापदेशस्य विधित्वदर्शनात् कल्पादिष्वपि तथा भविष्यतीत्याशङ्कयाह--पञ्चमेनेति । छन्दसोत्यधिकृत्य, लिङर्थे लेडिति स्मृतेर्नान्यत्र पञ्चमलकारोऽस्तीत्याशयः । ननु छन्दःशब्दस्य वेदविषयत्वात्पूर्वपक्षे च कल्पादीनामपि वेदत्वाम्युपगमात्पञ्चमल- कारो युज्यत इवेत्याशङ्कयाह—यद्यपीति । यथैव छन्दःशब्दस्य गायत्र्यादिच्छन्दोयोगा- दङ्गमात्रविषयत्वप्रतीतावपि मन्त्रान्तरेषु ब्राह्मणोऽपि छन्दोनिमित्ता यस्य पादादिविधिदर्श- नात्तद्विषयताप्यवसीयते, तथैव मन्त्रब्राह्मणव्यतिरेकेण वेदशब्दाभिलप्येऽपि तर्के छन्दो- निमित्तविध्यदर्शनान्मन्त्रब्राह्मणमात्रविषयत्वावसायान्न वेदमात्रविषयश्छन्दःशब्द इत्याशयः । एतदेव विवृणोति—यथैव हीति । विधिर्ब्राह्मणम्, विधेयो मन्त्रः । तर्को मीमांसा । यद्यप्यध्येतृभिर्मीमांसायां वेदशब्दाप्रयोगात्तदनपेक्षया चैतया स्मृत्या विध्यादीनां वेदत्वोक्ता श्रुत्या विध्युद्देशस्यैव विधिशब्दवाच्यत्वे नार्थवादमन्त्रोपनिषदामवेदत्वांपत्तेर्विषयत्वतकं- त्वाभ्यां चाग्निहोत्रादिन्यायविस्तरादीनामपि वेदत्वापत्तेर्नार्नया स्मृत्या तर्कस्य वेदत्व-
१० ] प्रथमाध्याये तृतीयपादः ४४९ मुच्यते, किं तु कश्चिद्वेदभागो विधायकः, कश्चिद्विधेयः, कश्चिच्च स एष नेति नेत्यादिर- नित्यशरीरादिव्यतिरेकेण नित्यात्मप्रतिपादनादिरूपतर्कानुरूपत्वात्तर्कं इति त्रैविध्यं वेद- स्योच्यते, तथापि विध्यादित्रयस्य वेदत्वप्रतिपादनार्थेयं स्मृतिरिति परमताम्युपगमेनायं दृष्टान्त इति सूचनार्थमेतस्मिन्दर्शने सतीत्युक्तम् । भाष्यकृता कल्पसूत्राणां वेदवाक्यैस्तुल्यादरत्वं पूर्वोक्तम् । यश्चादर इत्यनुभाष्य स नान्तरीयकत्वादिति परिहारमुक्त्वा कथं नान्तरीयकत्वमित्यपेक्षायां शाखान्तरगतकर्माङ्ग- भूतमन्त्ररूपवेदवाक्यमिश्राणां कल्पसूत्राणां पाठान्मन्त्रकौशलार्थं घटिकादिष्वादरे नान्त- रीयकः कल्पसूत्रादर इत्युक्तम् । तदतिस्पष्टत्वान्न व्याख्यातम् । ब्रह्मयज्ञविधिविषयत्वतुल्यताभिप्रायेण तुल्यादरभाष्यव्याख्याने स्वयमनुभाषणपूर्वकं परिहारमाह—यच्चेति । कल्पसूत्राण्येवात्रोदाहरणमित्यभिमानेनानैकान्तिकत्वोपन्यासः । अतोऽनैकान्तिकत्वान्न विधेयत्वमात्रेणाकृतकत्वनिश्चय इत्याह—तस्मादिति । प्रवाहनित्य- त्वाच्च नित्यानित्यसंयोगविरोधपरिहार इत्याह—वेदार्थेति । ननु प्रवाहनित्यत्वेऽप्य- पूर्वस्य ग्रन्थस्य कल्पसंज्ञाकरणान्नित्यसंयोगविरोधः प्रसज्येतेत्याशङ्क्याह—वेदार्थेति । यौगिकेयं संज्ञा, न ग्रन्थव्यक्तिनिबन्धनेत्यर्थः । प्रयोगप्रांशुभावोपयोगिकर्मानुसन्धानप्रयो- जनत्वाच्चास्य विधेस्तस्य च येन केनचित्प्रयोगकल्पनात्मकेन शब्देनोपपत्तेर्ग्रन्थविशेषस्य विधिविषयत्वाभावान्न नित्यतापत्तिरित्याह—कर्मेति । कर्मणोऽभ्यासेनानुसन्धानं विधि- प्रयोजनमित्यर्थः । प्रयोजनवचनोऽर्थशब्दः । यद्वा नात्र कल्पाख्यग्रन्थाध्ययनं विधेयम्, किं त्विकस्मरण इत्यस्य धातोरधीत इति रूपमङ्गीकृत्य कर्मणो वेदार्थस्याहरहरभ्यासेन स्मरणं विधेयमिति । परिहारान्तरमने- नोच्यते चशब्दो वाशब्दार्थः । ऋक्षादौ वेदाध्ययन इत्येतद्धात्वर्थत्वेनावधारितस्याधीत इत्यस्य कल्पानित्यत्रानुपक्तस्य धात्वन्तररूपत्वायोगादन्वाचयोपपत्तिसूचनार्थः । वैदिकार्थ- प्रबन्धस्य वेदत्वहेतोर्भाष्यकारेणापरिहृतत्वात्स्वयमनुभाषणपूर्वकं परिहारमाह—पुनरिति । अत एव स्वातन्त्र्यमपि न संवादात्सिध्यतीत्याह—तदर्थेति । ननु 'षडङ्गमेके' इति कल्पादीनां वेदत्वस्मृतेः किमित्यन्यथा संवादो नीयत इत्याह—वेदेति । षडङ्गेऽध्येतृभि- र्वेदशब्दाप्रयोगादपस्मृतिरेषेत्यर्थः । ततश्चैतन्न सिद्धान्तभाषितमित्येवं चशब्दो योज्यः । यच्च कल्पसूत्राणां वैदिकार्थानुवादत्वं तदर्थानुगमान्नेत्यनेनोक्तम्,, तदुपपादयति— संवादे चेति । ननु शाखान्तरन्यायेनैषामपि विधित्वमविरुद्धमित्याशङ्क्याह—न चेति । एतदेव विवृणोति—सर्वेति । किं च होतृवषट्कारे चमसा नीयन्ते उद्गातृब्रह्मणो यजमानस्येति भक्षणार्थं नयनमुक्त्वा केनादौ भक्षणीयमित्यपेक्षायां तेषां होताग्रे भक्षयेदिति प्रतिज्ञाय, तस्य वषट्कारान्वयत्वादित्यादिभिर्वषट्कर्तुः प्रथमभक्ष इत्यादिव्राह्मणोत्थहेतु- भिर्व्याख्यानदर्शनात्कल्पसूत्राणां ब्राह्माणोक्तार्थानुवादकतावसीयत इत्याह—विवृण्वन्तश्चेति । २९
तथा प्राश्य घृतं शंसेद्य चाह वा इदमनो वा रथो वाऽक्तो वर्त्तंत, एवं हैवाक्तो इत्यादिभिर्घृतप्राशनादिविधिशेषभूतैर्ब्राह्मणैर्नाचामेद्विशदिति विवायते देवरथो वा यज्ञेोता, नाक्षमञ्जिः करवाणीत्यादिवाक्यैराचमनामावाद्ज्ञापनानुवादकत्वनिश्चय इत्याह—अन्यार्थे- रिति । उपसंहरति — अर्थेति । आचार्यवचःप्रामाण्यं श्रुत्यैवोक्तमिति पूर्वोक्तस्य यत्त्वित्याद्यनुभाषणपूर्वकं परिहार- भाष्यं व्याचष्टे—आचार्येति । वेदवचः प्रमाणमित्येवमन्यार्थताभाष्यकृतोदितेत्यर्थः । अव्युत्पन्नो वाऽयमाचार्यशब्दो व्याख्यातृव्यापयितृविषयः, न तु कल्पसूत्रकारविषय इति परिहारान्तरं (यद्वेति) भाष्येणोक्तं तद्वद्याचष्टे—व्याचक्षाणस्येति । शिष्याणां स्वप्रत्यये संवादनिरपेक्षप्रदर्शनार्थं स्वयम्प्रमाणतेत्युक्तम् । अयमेव परिहारः स्मृत्यानुगुण्याद्युक्त इत्याह—आचार्येति । नन्वाप्तवाक्यप्रामाण्यस्य लोकप्रसिद्धत्वाद्धचनमनर्थकमित्याशङ्क्याह—वेदेति । अनेन भाष्येण यत्प्रमाणमाचार्यवचनम्, तदपेक्षेयं श्रुतिरित्युक्त्वा कतरदितिपृष्टे यत्प्रमाणगम्य- मित्यभिधानात् व्याख्यातृवचनमध्यापकवचनमपि वा सम्भवन्मूलप्रमाणकमेव सत्यं न सर्व- मित्युक्तम् । तदुपपादयति—न चेति । 'अनृतवादिनी वागि'तिश्रुतेः प्रायोभिप्रायत्वेन रूपात्प्रायादित्यत्र व्याख्यातत्वात्प्रायादित्युकम् । श्रुत्यन्तरमुदाहरति—अन्यत्रापीति । यदि च वेदसंवादकल्पसूत्राणां वेदत्वम्, वेदतुल्यत्वं वोच्यते, ततः क्वचिद्विसंवादा- द्वैपरीत्यमपि शक्यं वक्तुमित्येतदर्थत्वेन सर्वत्र च प्रयुक्तत्वात्सन्निधानवशाच्चेति सूत्रं 'यच्चोक्तमिति भाष्येणावतारितम् । तद्व्याचष्टे—वेदादेवेति । यज्ञायज्ञीयमेव प्रयणीयाग्नि- ष्टोमसामकार्यमित्यादेः पञ्चविंशब्राह्मणे जराबोधीययज्ञायज्ञीययोः प्रायणीयाग्निष्टोमसाम- वैकल्पिकविधानेन साक्षाद्वेदेन विसंवाददर्शनात् अपि वा नानागोत्राः स्युरित्यादेस्तनून्- पात्नाराशंसकल्पाद्यवैगुण्याय समानकल्पानामेव सूत्रेष्वधिकार इति, वेदोत्थेन न्यायेन विसं वाददर्शनात्कल्पसूत्रकारवाचां वेदादेवानुक्तत्वावगतिरित्यर्थः । इह च यच्चोक्तमिति सूत्रावतारणार्थानुभाषणभाष्ये च शब्दप्रयोगात्तुल्यादराचार्यवचः प्रामाण्यश्रुत्योः परिहारो सर्वत्र चेति सौत्रेण चशब्देन सूचितौ कल्प्येते । यद्वा पूर्वमेव सूत्रं नवमपनीय व्यवधारणकल्पनया वा अस्मिन्परिहारद्वये योज्यम् । शेषस्य शेषिमिश्रत्वेन लक्षणया वेदवाक्यमिश्रत्वप्रतीतेरर्थवादे च वाक्यशेषशब्दस्य प्रसिद्ध- त्वाद्यद्ययं न वाक्यशेषः स्यादेतच्छङ्काद्वयमपि च व्यवधारणकल्पनयापि व्याहृतोपप- त्तेर्नोत्सूत्रत्वाशङ्का । उक्तेऽर्थे सूत्रं योजयति—सर्वत्र चेति । पूर्वेण सूत्रावयवेन विसंवादविषयोदाहरणे, उत्तरेण विसंवादाभिधानमित्यर्थः । अतिशयार्थोऽभ्यासः । अत्र भाष्यकृता सर्वत्र तिथिषु कल्पसूत्रकारैः पौर्णमास्यामावास्याख्यकर्मणः प्रयुक्तत्वादनुष्ठापितत्वादित्येवं सूत्रावयवं व्याचक्षाणेन शुक्लपक्षे यस्यां कस्यांचत्तिथावमावास्याख्यं कर्म कार्यमिति कल्पसूत्रकार- वचनत्वेनोदाहृतम् । तद् दूषयति—तत्रेति ।