नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
द्वितीय उच्छ्वासः । ६१ तस्य च महामहीपतेरात्मरूपोपहसितसमस्तसुरसुन्दरीसौन्दर्यसा- रसंपत्तिकलङ्ककुलकन्दकन्दलीकंदर्पदर्पगजेन्द्रावष्टम्भस्तम्भयष्टिरखि- लजननयनकुरङ्गवागुरा रामणीयकपताकायमानोद्भिन्ननवयौवनश्रीः, शृङ्गारस्यागारम्, अवनिर्वनिताबिभ्रमाङ्कुराणाम्, आभोगः सौभाग्य- भोगस्य, रङ्गशाला रागवृत्तनृत्तस्य, सर्वान्तःपुरपुरंध्रिकाप्रधानभूता- ऽस्ति प्रिया प्रियङ्गुमञ्जरी नाम ॥ क ॥ यस्याः पद्मानुकारिणी कान्तिर्लोचने च रम्भाप्रतिस्पर्धिनी रूप- संपत्तिरूरुमण्डले च सुमनोहारिणी केशेकबरी भ्रूभङ्गचक्रे च, भ्र- मरकोद्भासिनी ललाटपट्टिका कर्णोत्पले च, प्रवालानुकारिणी दन्त- च्छदच्छाया करचरणयुगले च ॥ ख ॥ यस्याः सुवर्णमयं वचनं नूपुरं च पदे पदे मनो हरति ॥ ग ॥ यस्याः सुमधुरया वाचा सदृशी शोभते कण्ठे कुसुममालिका । अलिकालयाऽप्यलकवल्लरीमालया सह विराजते तिलकमञ्जरी ॥घ॥ किं बहुना । तस्याः कान्तिनिरुद्धमुग्धहरिणीलीलाचलचक्षुष- स्तारुण्यस्य भरादनालसलसल्लावण्यलक्ष्मीरेसः । लुब्धैर्लोकविलोचनाञ्जलिपुटैः पेपीयमानोऽपि स- न्नङ्गेष्वेव न माति सुन्दरतरो रङ्गस्तरङ्गैरिव ॥ ३० ॥ तस्येति ॥ भीमस्य प्रिया प्रियङ्गुमञ्जरी नामास्ति ॥ क ॥ यस्या इति ॥ अत्र प्रथमैकत्वद्वित्वयोः स्त्रीक्लीबयोश्च श्लेषः । सर्वत्र नान्त- त्वात् । पद्मा श्रीः पद्ममब्जम् । रम्भा अप्सरोन्तरं कदली च । सुमनसः पुष्पा- णि । पक्षे सुशब्देन समासः । भ्रमरकं ललाटस्थमलकं भृङ्गश्च । प्रवालो विद्रुमः पल्लवश्च ॥ ख ॥ यस्या इति ॥ सुष्ठु वर्णोऽकारादिः सुवर्णं च । तेन निर्वृत्तं पदं प्रकृतिविभ- क्तिसमुदायः पादन्यासश्च ॥ ग ॥ यस्या इति ॥ अत्र तृतीयाप्रथगयोः श्लेषः । सुष्ठु मधुनो मकरन्दस्य रयः प्रसरो यत्र । अलिकं ललाटमालयः स्थानमस्याः सा । तिलकमवे मञ्जरीति रूप- कम् । तृतीया पक्षे अलिवत्कालो वर्णो यस्याः । यदा ललिवत्कालेति क्रियते तदा ङीप् प्रसज्येत ॥ घ ॥ तस्या इति ॥ आ समन्तादलस आलसः । पश्चात्तन्न्र्योगः । तस्या लावण्य- १ 'उपहसित' २ 'आलस्य' ३ 'पुरंध्री' ४ 'केशपाशकबरी' ५ 'केशपाशकबरी' ६
६२ नलचम्पूः । एवमनयोः संकलसंसारसुखरसास्वादमुदितमनसोर्यान्ति दिवसाः ॥ क ॥ कदाचिच्चदुलतरतरुणषट्चरणचक्रचुम्बनाक्रमणभरभज्यमानमञ्ज- रीजालगलदमन्दमकरन्दबिन्दुकर्दमलेषु विविधाङ्गविहंगविहारविद्- लितदलदन्तुरान्तरालेषु स्मरबन्धुसुगन्धिगन्धवाहर्वाजिवाह्यालीषु वर- दायाः पुण्यपुलिनपालिपादपतलेषु रममाणयोः परिणतेन्द्रवारुणारुण- कपोलकान्तिरुल्लुषितदेहपिण्डकण्डूयनाकूततरलितकरकिसलया बाल- कमेकमूदरदेशलमपरमपि पृष्ठप्रतिष्ठितमुद्वहन्ती कापि कपिकुटुम्बि- नी दृष्टिप्रथमवातरत् ॥ ख ॥ तां चावलोक्य चेतस्यास्पदमकरोत्त्तयोरनपत्ययोर्विषमविषादवेदना- व्यतिकरः ॥ ग ॥ करपत्रधाराकैर्तनदुःसहदुःखदूनमनसोर्वैर्मैनस्यमभूद्धैंम्नि राज्ये जने जीविते च । किमनेनाधिपत्येनापत्यशून्येन ॥ घ ॥ सर्वथा सकलसुरासुरकिरीटकोटिकर्णशोणमणिमरीचिचञ्चरीक- चुम्बितचरणाम्बुजमम्बिकाप्रियं प्रतिपद्यामहे महेश्वरमित्यन्योन्यमा- लोचयांचक्रतुः ॥ ङ ॥ अथ विपुलवियद्विलङ्घनश्रमप्रशमनार्थमरुणेन वारुणीं प्रतिपानाथँ- मिवावतार्यमाणेषु रविरथतुरंगमेषु, अपरासक्ते दिवसभर्तरि शोकम- रादिव तमःपटलेनापूर्यमाणामाश्वासयितुमिव पूर्वां दिशमभिधावमा- नासु पादपच्छायासु, हारीतहरितहरिहारिणस्तररेणरण्यान्तराच्च मन्द- लक्ष्मीरसः सुन्दरतरश्चास्तरः । तरङ्गै रङ्गन्विलसन्निव । रसो हि भरादजिह्यौ लसति तरङ्गैश्च रञ्जति ॥ ३० ॥ कदेति ॥ मधुबिन्दुकर्दमवत्सु । पर्णदन्तुरमध्येसु । स्मरबन्धुः सुगन्धिगन्ध- वाह एव वाजी तस्य वाह्यालीप्रायेषु । वरदातरुतलेषु क्रीडतोरुभयोः कपिपत्नी इन्द्रवारुणीफलपिङ्गलकान्तिर्वानरी नयनपथं गता दृष्टेत्यर्थः ॥ ख ॥ तामिति ॥ तां च वीक्ष्य विषादव्यथासंपर्को हृदि पदमकरोत् ॥ ग ॥ अथेति ॥ अथानन्तरं श्रमशान्त्यर्थे वारुणीं पश्चिमां प्रति लक्ष्यीकृत्य नीयमा- नेषु रविरथाश्वेषु । प्रतिपानपक्षे वारुणी सुरा । अपरा दिग् अङ्गनान्तरं च । तमो मोहो ध्वान्तं च । तथा गोमण्डलेषु किरणौघेषु धेनुवृन्देषु च । यथासंख्यं रवे- र्वनान्तराच्चमन्दं चलमानेषु । द्वयादपि कीदृग्भूपात् । हारीताः शुकाभाः पक्षिणस्त- १ 'वाह'. २ 'विलोक्य'. ३ 'विकर्तन'. ४ 'वैरस्यम्'. ५ 'निजराज्यजने'. ६ 'कोणमणि'. ७ 'पतिम्'. ८ 'घनश्रम'.
द्वितीय उच्छ्वासः । ६३
मपवर्तमानेषु गोमण्डलेषु, अस्तांचलवनदेवतादत्तरक्तचन्दनार्घसंलि- ल्प्लवप्लाव्यमान इव लोहितायति पश्चिमाशामुखे, वारविलासिनीभिः कपोलमण्डलीमण्डनाय क्रियमाणेषु पत्रभङ्गेषु । भयेनेव पादपैः प्रारब्धे पत्रसंकोचकर्मणि, विघटिष्यमाणचक्रवाककामिनीकरुणकू- जितव्याजेन दिवसभर्तुरस्ताचलगमनं निवारयन्तीभिरिव विरहवि- धुराभिः कमलिनीभिर्विधीयमानेषु प्रार्थनाप्रणामाञ्जलिपुटेष्विव कम- लमुकुलेषु, क्रमेण पश्चिमाम्भोधितरङ्गान्तरतस्तरुणतरताम्रतामरसा- नुकारिकेसरायमाणरश्मिमञ्जरीलजटिलमवलोक्य तरणिमण्डलम- तिसंभ्रमभ्रमद्भमरनिकुरम्ब इव प्रधावमाने दूरं तिमिरपटले, कृष्णा- गुरुपङ्कपत्रभङ्गभूष्यमाणेष्विव दिगङ्गनामुखेषु, कोकिलकलापैराक्र- म्यमाणेष्विव वनान्तरेषु, विकचकुकुवलयबर्हलमेचकरुचिनिचयश्या- मलीक्रियमाणेष्विव सलिलाशयेषु, तापिच्छगुच्छच्छद्मच्छाद्यमाना- स्विव वनवृत्तिषु, नृत्यत्कलापिकुलकलापैः कालीक्रियमाणेष्विव शैल- शिरःशिलातलेषु, कज्जलालेख्यचित्रचर्च्यमानास्विव भवनभित्तिषु, विरहिणीनिःश्वासधूमश्यामीक्रियमाणेष्विव पान्थावसथेषु, कस्तूरि- कासलिलसिच्यमानास्विव कामुकविलासवासवेश्मवाटीषु, मदान्ध- सिन्धुरनिरुध्यमानेष्विव नृपभवनाङ्गनेषु, कलितकालकञ्चुकायामिव गगनलक्ष्म्याम्, मदनशरनिकरविद्रुतदरिद्रविटविपादानलस्फुलिङ्गे- ष्विव रङ्गत्सु ज्योतिरिङ्गणेषु, काञ्चनीषु तिमिरकरिकुम्भभेदभल्लीष्विव निशितासु प्रदीष्यमानासु प्रदीपकलिकासु, लवमानपाण्डुपुण्डरीक- ल्माषितकालिन्दीपरिस्पन्दसुन्दरेऽमृतमथनक्षणक्षुब्धक्षीरसागररसवि- न्दुस्तवकितनारायणवक्षःस्थल इव कांचिदपि श्रियं कलयति तारा- विराजिते वियति, विटङ्कान्तमनुसरन्तीषु वेश्यासु वेश्मपारावतप- द्धद्धरिता नीला ये हरयोऽश्वास्तैर्गच्छति । तस्मात् । वनाच्च हारीतैः शुकाभपक्षि- भिर्हरितैः शाद्वलैर्हरिभिर्वानरैश्च हारिणो मनोज्ञात् । रक्तचन्दनार्घः प्रस्तावाद्रवेरेव । पत्रभङ्गो विलेपनचित्रं पत्रवल्लीसंज्ञं पर्णानां भञ्जनं च । तथा कांचिदपि श्रियं शोभां नारायणवक्षसि तु श्रियमब्धिपुत्रीं प्राप्नुवति नक्षत्रांलङ्कृते नभसि । कालि- न्दीपरिस्पन्दो नारायणवक्षश्च वियत उपमानम् । पाण्डुपुण्डरीकाणि क्षीररसवि- १ 'तरङ्गरङ्गान्तरेषूत्तरत्तरुणताम्र' २ 'जटिलमपि'. ३ 'कोकिला' ४ 'बहललभपद्म- दमेचक'. ५ 'कलापकाली'. ६ 'शिलातलेषु, उदेष्यमाणनिजनायकालोकेप्रेष्यमाणसंध्या- वधूटाक्षमचक्रीकृतेष्विव गगनवर्त्मसु, कज्जलालेख्य'. ७ 'विलासवेश्मवेदिकासु'. ८ 'तिमि- रकरिकुम्भभेदकाञ्चनभल्लीष्विव'.
तन्निपङ्किषु च, भ्रमरसङ्गतासु कुलटासु कुमुदिनीषु च, नदीपालि- विरहितेषु चत्वरेषु चक्रवाकमिथुनेषु च, जाते जरद्गवयकायकालका- न्तिकाशिनि निशावतारे, तरुणतमालकाननमिवाञ्जनगिरिगुहागर्भ- मिवेन्द्रनीलमणिमहामन्दिरोदरमिव विशति सकलजीवलोके स लोकेश्वरः 'प्रिये प्रियङ्कुमञ्जरि, प्रसादय प्रणतप्रियकारिणमभङ्ग्यानङ्गद- र्पहरं हरम् । अहं च तदाराधनावधानमनुविधास्यामि' इत्यभिधाय यथावासमयासीत् ॥ क ॥ • ततश्च । अखण्डितप्रभावोऽथ प्रदोषेणान्धकारिणा । तस्याश्चित्ते स्थितः शंभुरुदयाद्रौ च चन्द्रमाः ॥ ३१ ॥ विभ्रते हारिणीं छायां चन्द्राय च शिवाय च । नभोगरुचये तस्मै नमस्कारं चकार सा ॥ ३२ ॥ नित्यमुद्वहते तुभ्यमन्तः सारङ्गरञ्जितम् ॥ भूतिपाण्डुर गोवाह सोम स्वामिन्नमो नमः ॥ ३३ ॥ न्दवश्च ताराणाम् । परिस्पन्दः प्रस्रवणम् । प्रवाह इति यावत् । विटो भुजंगः । कान्तः पतिः । पक्षे पक्षिणामावासयष्टेरूनतोऽशो विटङ्कस्तस्यान्तः । भ्रमो भ्रमणं तत्र रसस्तात्पर्यम् । अन्यत्र भ्रमरा भृङ्गाः । नेति भिन्नम् । पक्षे नदीनां पालिः सेतुः । इतीति सति स राजा यथावासमयासीत् । किं कृत्वा हे प्रिये, प्रसादय हरमहमपि तदाराधनमनुपृष्ठलग्नः करिष्यामीत्यभिधाय ॥ क ॥ अखण्डितेति ॥ शंभुशशिनोः श्लेषः । प्रकृष्टदोषेण । अन्धकनाम्ना प्रतिप- क्षेण । अव्याहतवैभवः । शशी च प्रदोषेण रजनीमुखेन । अन्धत्वविधायिना अन्धकारयुक्तेन वा। न खण्डितः प्रभाया आवो वृद्धिर्यस्य। अत्र अव वृद्धयर्थः ३१ विभ्रत इति॥ चन्द्रपक्षे हरिणस्येयं हारिणी छाया । कलङ्क इत्यर्थः । नभोगा वियद्व्यापिनी रुचैर्यस्य । शिवस्तु हारिणीं छायां कान्तिम् । तथा भोगे विलासे रुचिरभिलाषो यस्य पश्चात्तन्नियोगः ॥ ३२ ॥ नित्यमिति ॥ सहोमया वर्तत इति सोमः । तस्य संबोधनम् । तद्विशेषणं स्वामिन्निति । तथा भूत्या भस्मना पाण्डुरः शुभ्रः । तथा गौर्वृषो वाहनं यस्य । एवंभूत उमापते । अन्तर्मध्ये । सारमुत्कृष्टम् । गरं कालकूटम् । जितं महिम्ना स्तम्भितशक्ति । नित्यमुद्वहते बिभ्राणाय तुभ्यं नमो नमः । अत्र प्रकर्षे द्विवच- नम् । सोमश्चन्द्रोऽपि । तदा भवनं भूतिर्जन्म । जन्मना पाण्डुरः स्वभावश्वेतः । तथा गाः किरणान् वहतीत्यण् । पाण्डुराश्च ता गावश्चेति समासे कृते समासान्तो दुर्वारः। अन्तरिति कर्मपदम् । सारङ्गो मृगस्तेन रञ्जितं लाञ्छितमिति तद्विशेषणम् ॥ ३३ ॥ १ 'प्रविशति'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
द्वितीय उच्छ्वासः। ६५ एवं च नातिचिरात् क्षुभ्यत्क्षीरसमुद्रसान्द्रसलिलोल्लोलैरिव प्लावयँ- ल्लोकं लोचनलोभनः स्मरसुहृज्जातः स चन्द्रोदयः। यस्मिन्संभृतवैरदारुणरणप्रारम्भिणो भ्राम्यतः क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ॥३४॥ अपिच। श्च्योतच्चन्दनचारुचन्द्ररुचिभिर्विस्तारिणीभीर्भरा- जातेयं जगती तथा कथमपि श्वेतायमानद्युतिः। उन्निद्रो दिनशङ्कया कृतारुतः काको वराकः प्रिया- मन्विष्यन्पुरतः स्थितामपि यथा चक्रभ्रमं भ्राम्यति ॥३५॥ अपिच। मुग्धा दुग्धधिया गवां विदधते कुम्भानधो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि। कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ॥३६॥ यत्र च। मुक्तादाममनोरथेन वनिता गृह्णन्ति वातायने गोष्ठे गोपवधूर्दधीति मथितुं कुम्भीगतान्वाञ्छति। उच्चिन्वन्ति च मालतीषु कुसुमश्रद्धालवो मालिकाः शुभ्रान्विभ्रमकारिणः शशिकरान्पश्यन्न को मुह्यति ॥३७॥ क्षुभ्यदिति ॥ स धवलिताशेषभुवनतलश्चन्द्रोदय उत्प्रेक्ष्यते। क्षुभ्यत्क्षीर- समुद्रसान्द्रसलिलोल्लोलैर्लोकं प्लावयन्निव जातः। क्षीरसमुद्रक्षोभस्य तत्सहचरि- तत्वात् ॥ ३४ ॥ श्च्योतदिति ॥ सातत्यभ्रमणेन कुलालप्रेषितचक्रवद्भ्रमो यत्रेति भ्रमणक्रिया- विशेषणम्। अथवा चक्रः कोकस्तस्येव भ्रमो यस्य। सोऽपि रात्रौ समीपवर्तिनी- मपि प्रियामन्विष्यन् भ्रमति ॥ ३५ ॥ मुग्धेति ॥ वल्लवा वालगोपालाः। शबर्योऽप्यारण्यकस्त्रियो विपर्यस्ता भवन्तु। सततपरिचितोत्तंसरचनाः कान्ता उत्तमस्त्रियोऽपि विपर्यस्ता इति' अपिर्विस्मये ३६ CC-0. Sarada Kripa Shastri Collection, New Delhi. Digitized by S3 Foundation USA
६६ नलचम्पूः । अपिच । किं कर्पूरकणाः स्रवन्ति वियतः किं वा मनोनन्दिनो मन्दाश्चन्दनविन्दवः किमु सुधानिष्यन्दधारा इमाः । इत्थं भ्रान्तिममी जनस्य जनयन्त्यङ्गे लगन्तः परा- मिन्दोः कुन्दविकासिकुड्मलदलस्रक्सुन्दरा रश्मयः ॥३८॥१ इति जनितमुदिन्दोः सिन्दुवारस्रगाभं किरति किरणजालं मण्डले दिक्मुखेषु । हरचरणसरोजद्वन्द्वमाराधयन्ती शुचिकुशशयनीये साथ निद्रां जगाम ॥ ३९ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां द्वितीय उच्छ्वासः ॥ तृतीय उच्छ्वासः । अथ क्रमेण रजतकुम्भमम्भोभरणार्थमिवेन्दुमण्डलमादाय पश्चिमा- म्भोनिधिपुलिनमनुसरन्त्यां तरुणकपोतकंधरा रोमराजिराजिन्यां रज- न्याम्, अखिलकमलखण्डकमलिनीनां विनिद्रायमाणकमलकुड्मल- विलोचनेषु कज्जलरेखास्विवोल्लसन्तीषु भ्रमरराजिषु, राजीवराजिपुञ्ज- किमिति ॥ कुन्दस्य विकासिनां कुड्मलदलानां स्रक् । तद्वत्सुन्दरा इति शौक्ल्यसौकुमार्यातिशयार्थः । जरत्कन्दस्य हि दलाग्राणि परुषाण्यरुणानि च भव- न्तीति ॥ ३८ ॥ इतीति ॥ इत्यमुना प्रकारेण । जनितहर्षम् । निर्गुण्डीकुसुममालाप्रतिमं करनि- करं दिक्मुखेषु किरति वितन्वति सतीन्दोर्मण्डले हरं ध्यायन्ती सा दर्भशय्यायाम- स्वपत् । समाधिलयं गतेति भावः ॥ ३९ ॥ इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे द्वितीय उच्छ्वासः समाप्तः ॥ अथेति ॥ अनन्तरं किरणसंस्पृष्टमेघे । रागवत्यारक्ते रवौ युक्ता सती खप्नं १ ‘अपिच रूप्यस्थाने बिडालः कलयति च करान्दुग्धबुद्ध्या सुधांशोः पार्श्वस्थां राजहंसः परिहरति वधूं चन्द्रिकाविप्रलब्धः । प्रेङ्खन्त्या हर्म्यदोलाध्वजपटशिखरच्छायया कुट्टिमाङ्के वल्गत्कृष्णाद्विषष्णात्तरलितनयनो भास्यते बद्धपोतः ॥’ २ ‘अथ च’
तृतीय उच्छ्वासः। ६७ निकुञ्जे शिञ्जानमञ्जीरमञ्जुलमुन्नदत्सु शरद्बलाहकवलक्षपक्षविक्षेप- पवनतरलिततरुणतामरसेषु दीर्घिकावतंसेषु, हंसेषु केंकोरयति च चक्र- वाकमिथुनमेलकमङ्गलमृदङ्ग इव रौप्यघर्घररवसरसं सारसकुले, अवश्य़ायजलशिशिरशीकरिणि मन्दान्दोलितविनिद्रद्रुममञ्जरीरजःक- णकषायिते तमःसर्पसंदष्टोज्जीवितजगन्निश्वासायमाने प्रस्खलति प्रभा- तसुरतश्रमखिन्नसुन्दरीकुचमण्डले मरुति, मनोहारिहारीतहरितहये हरति तिमिरपटलपटीं गगनलक्ष्म्याः करपरामृष्टपयोधरे रागवति सवितरि, मृगमदमिलितवैहलकुङ्कुममण्डनमञ्जरीभिरिव पिञ्जरिते पुरंदरदिङ्मुखे सुखप्रसुप्ता सा स्वप्नमद्राक्षीत् ॥ क ॥ किल सकलसुरासुरशिरःशेखरीकृतचरणकमलः, कमलाधिवासेन ब्रह्मणा नारायणेन च रचितरुचिरस्तुतिः, कृशानुरूपेण ललाटलोच- नेन चन्द्रमसा च भासमानः, विकचं कर्णे कुवलं करे कपालं च कलयन्, अहिंसाटोपं मनसा शिरसा च विभ्राणः, प्रोज्ज्वलन्नय- नार्चिश्रिताभस्म च समुद्वहन्, अधिकङ्कालेन स्कन्धेन कंधरार्धेन च विराजमानः, सालसदृशं भुजवनं भवानीं च दधानः, सर्वदानववारं त्रिशूलं मन्दाकिनीं च धारयन्, देवो दर्पितदनुजेन्द्रनिद्राहरो हर- श्चन्द्रमण्डलादवतीर्य 'पुत्रि प्रियंगुमञ्जरि, मञ्जरीमिमां गृहाण । ददर्श । अन्योऽपि रागवानासक्तः किल पटीमुत्सार्य कराभ्यां पाणिभ्यां स्तनौ स्पृशति । शरद्बलाहकवलक्षाः शरदभ्रधवलाः । केंकारो वाद्यविशेषः ॥ क ॥ स्वप्नमाह—किलेति । वार्तोक्तौ । हरः शक्तिमण्डलादुत्तीर्य पुत्रीत्यभिधाय ईदृशीं पारिजातमञ्जरीमदात् । कीदृशो हरः । ब्रह्मणा विष्णुना च कृतस्तुतिः । द्वयेनापि कीदृशेन । कमलेऽधिवासोऽस्य पद्मासनत्वात् । विष्णुस्तु कमलायाः श्रिया अधिवासस्तेन । तथा वह्निखरूपेण नेत्रेण चन्द्रमसा च कृशेन क्षामेण अनुगत- रूपेणाविनाभावसंबद्धमूर्त्तिना लसन् । तथा विकचं सविकासम् । कपालं तु विगताः कचाः केशा अस्मादिति विकचम् । तथा अहिंसाया आटोपमावेशम् । अहिं च साटोपं सस्पन्दम् । प्रोज्ज्वलद्दीप्यमानम् । भस्म तु प्रकर्षेणोज्ज्वलम् । अधिगतं कङ्कालं शरीरास्थि अर्थात्खट्वाङ्गं येन । कंधरार्धेन तु कालेन सह कालकूटत्वात् । अधिकमिति क्रियाविशेषणम् । सालद्रुमतुल्यं प्रांशुत्वात् । पक्षे सालसे लीलामन्थरे दृशौ यस्याः । सर्वान्दानवान्वारयति । गङ्गा तु सर्वदा नित्यं नवा अविच्छाया
१ 'मञ्जीररव'। २ 'केंङ्कारयत्सु मधुररवभरितभुवनेषु चक्रवाकमिथुनमेलकमङ्गलमृ- दङ्गेष्विव रौप्यघर्धरीझर्झररवसरसं सारसकुलेषु; केंङ्कारयति चक्रवाकमिथुनमेलकमङ्गलमृ- दङ्ग इव भरितभुवने रौप्यघर्धरीघर्घररवसरसं सारसकुले'। ३ 'बहुल'. ४ 'भूत'. ५ 'कमलाधिवासिना. ६ 'विरचित'. ७ 'लोचनचन्द्रमसा'.
२. तृतीय-चतुर्थ उच्छ्वास: विदर्भ-वर्णन, हंस-दूत संवाद एवं दमयन्ती-प्रेम
६८ नलचम्पूः । मा भैषीः । प्रत्यूषसि मन्नियोगाद्दमनकनामा महामुनिरेष्यति स तेऽनुग्रहं करिष्यति' इत्यभिधाय स्वश्रवणशिखरान्तरादमन्दमकरन्दस्यं- न्दसुन्दरामोदमाद्यन्मधुकररवरमणीयां पारिजातमञ्जरीमदात् ॥ क ॥ सापि 'प्रसादोऽयम्' इत्यभिधाय स्वप्न एव प्रणामपर्यस्तमस्तका स्तुतिमकरोत् ॥ ख ॥ तुभ्यं नमो नमल्लोकशोकसंतापहारिणे । व्यर्थीकृतान्धकारातिदम्भारम्भाय शंभवे ॥ १ ॥ विभो विभूतिसंपन्न पन्नगेन्द्रविभूषण । नमो नमोघसंकल्प तुभ्यमभ्यन्तरात्मने ॥ २ ॥ अत्रान्तरे तरणिकोमलकान्तिभिन्न- भास्वत्सरोजदलदीर्घविलोचनायाः । तस्याः प्रबोधमकरोद्रजनीविराम- यामावसानमृदुमङ्गलतूर्यनादः ॥ ३ ॥ क्रमेण च प्राच्यां सिच्यमानायामिव वँहुलकुसुम्भाम्भःकुम्भैः ककुभि, प्रभवति तारकोच्छेदनाय सुकुमारे रश्मिजाले, पूर्वाचलस्थ- लीमधिरोहति जगत्प्रबोधप्रारम्भमङ्गलकलशेऽंशुमालिमण्डले, ताण्ड- वाडम्बरिणि पुण्डरीकखण्डे, हिण्डमानासु दीर्घिकामण्डनमण्डमा- लासु कारण्डवमण्डलीषु, विश्राम्यति श्रवणपुटेषु हृदयानन्दिनि वन्दि- वृन्दारकवृन्दवन्दनारम्भरवे, रणयत्सु वीणावेणुकोणान्वैणिकवैणवि- केषु, कण्ठकुहरप्रेङ्खोलनालंकारकुशले तारतरं गायति ग्रामरागं गाय- वाः पाथो यस्याः । अथवा सर्वं ददातीति सर्वदाः । आनूयन्त इत्यानवाः तथोक्ता वारोऽस्याः । एतेन कामुकत्वेन नर्मवचनादात्मजलानां खलुत्यलोक्तिः ॥ क ॥ तुभ्यमिति ॥ अन्धकारातीति कर्मधारयः ॥ १ ॥ विभो इति ॥ विभुः सर्वव्यापी । विशेषेण भूत्या भस्मना संपन्नः समृद्धः । यद्वा विभूत्या चतुर्दशभुवनाधिपत्यलक्षणया । तथा वासुकिभूषणः । मोघो निष्फलः संकल्पो ध्यानं यस्य । पश्चान्नञ्योगः । एतानि शिवसंबोधनानि ॥ २ ॥ क्रमेणेति ॥ यथा माहेन्द्र इन्द्रः, तथा सुकुमारः कुमारः । स हि तारकासु- रोच्छेदनाय प्राभवत् । सुकुमारं मृदु रश्मिजालं तु तारकाणां नक्षत्राणामुच्छि- त्तये । वैणिकवैणविकौ वीणावेणुवादकौ । अलंकाराश्च मुद्रितविवृत्तानुनासिकादयः । १ 'मन्नियोगाद्दमनकनामा महामुनिः प्रातरेष्यति'. २ 'विन्दुनिस्पन्द'. ३ 'प्रणामावनमितमस्तका'. ४ 'नमोऽस्त्वमोघ'. ५ 'तुरीययामा'. ६ 'क्रमेण प्राच्याम्'. ७ 'बहुलकुङ्कुमाम्भः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
तृतीय उच्छ्वासः । ६९ नजने, जाते जरज्जपाप्रसूनभिन्नस्फुटस्फटिककान्तिसंमप्रभे प्रभातस- मये, सा समुत्थाय भूत्वा शुचिर्विकचनवनलिनगर्भमर्घ्यञ्जलिमवकीर्य भगवतः सवितुः स्तुतिमकरोत् ॥ क ॥ वासरश्रीमहावल्लीपल्लवाकारधारिणः । जयन्ति प्रथमारम्भसंभवा भास्वदंशवः ॥ ४ ॥ जयत्यम्भोजिनीखण्डखण्डितालस्यसंचयम् । कौङ्कुमं पूर्वदिग्गण्डमण्डनं मण्डलं रवेः ॥ ५ ॥ राजापि प्रथमप्रबुद्धप्रगीतगीतध्वनिनिर्रस्तनिद्रः, सान्द्रविद्रुमप्रभा- भासि संध्यावसरे, विधाय सांध्यं विधिम्, अधिकृतेन धर्मकर्मणि त- त्कालपुरःसरेण पुरोधसा संह तामेवान्वेष्टुमन्तः पुरमाजगाम ॥ ख ॥ दृष्ट्वा च विस्मयमानः स्फुरदरविन्दसुन्दराननाम् 'अनुगृहीतेय- मिन्दुमौलिना' इत्यवधारयन्, अतिहर्षोत्कर्षमन्थरगिरा तां बभाषे ॥ ग ॥ 'मुग्धस्निग्धनिरुद्धशश्वद्दहसितस्फारीभवल्लोचनं तिर्य्यक्कान्तिकपोलपालिपुलकस्पष्टीकृतान्तर्धृति । एतत्त्वे करभोरु पङ्कजसदृग्दृष्ट्वा मुखं मे वला- दुच्चैः किंचिदचिन्त्यचर्चितचमत्कारं मनो हृष्यति ॥६॥ तत्कथय शप्तासि ममाज्ञया हर्षवृत्तान्तम्' इत्यभिहिता सा स्मित- सुधानुविद्धमुग्धमुखवीणाकणकोमलालापेन सर्वमादितः स्वप्नदर्शनमा- चचक्षे ॥ घ ॥ क्षितिपतिस्तु तदाकर्ण्य 'प्रिये, मयापि स भगवान् । आत्मानु- तारोऽत्युच्चध्वनिः । ग्रामरागः पञ्चमः । यद्वा षड्जमध्यमगान्धारांस्त्रींस्त्रीन्ग्रामान्रागं च भरतोक्तं षड्विधं गायके गायति सति ॥ क ॥ राजापीति ॥ प्रथमप्रबुद्धा ये प्रकृष्टगीतास्तद्गीतध्वनिना ध्वस्तनिद्रः ॥ख ॥ मुग्धस्निग्धेति ॥ मणिवन्धकनिष्ठिकयोर्मध्यं करभस्तद्वदूरू यस्याः । तत ऊरु तस्याः संबोधनम् । ईदृशं ते मुखं दृष्ट्वा सहसाचिन्त्याधिगतचमत्कारं मे मनो हृष्यति ॥ ६ ॥ क्षितिपतिस्त्विति ॥ अग्रे स्थितं पुरोहितमित्यमुना प्रकारेण राज्ञीकथनत्न- १ 'स्फटिक'. २ 'सप्रभे'. ३ 'वल्लि'. ४ 'पूर्वदिक्तुण्ड'. ५ 'गायनगीत'. ६ ध्वस्त. ७ 'प्रभासि प्रभातसमये संध्या'. ८ 'कृतेऽधिकधर्मकर्मणि'. ९ 'समम्'. १० 'स विस्मय- मनाः'. ११ 'मन्थरया गिरा'. १२ 'निर्यत्कान्ति'. १३ 'वर्धित'. १४ 'मुग्धवीणा'. १५ 'आत्मानुकारिणा'.
७० नलचम्पूः । हरिणा विनायकेन स्वामिना च शक्तिमता पुत्रेणानुगम्यमानो, दग्धकामः पूरितकामश्च, एककपर्दक ईश्वरश्च, ससोमश्चासोमः, सविभवश्चाविभूतिश्च, पिनाकी चापिनाकी । दृष्टः स्वप्नान्तरे तरुणार्क- मण्डलमध्यवर्ती प्रणतप्रियंकरः शंकरः । तदेष ब्राह्मणः करोतु संवा- दिनोरनयोः स्वप्नयोरर्थपरामर्शम्' इत्यभिधाय तां, तमवस्थितं पुरः पुरोहितमैभाषयत् ॥ क ॥ सोऽपि 'देव, दिष्ट्या वर्धसे । अनल्पपुण्यप्राप्यमेतत्तरुणेन्दुमौले- रालोकनम्, ॲवश्यमवाप्स्यति देवी सकलराजचक्रचूडामणिकल्पम- शेषभुवनभ्रान्तशुभ्रयशःपिण्डडिण्डिममपत्यम्' इत्यनेकधा तयोराशंस- यांचकार ॥ ख ॥ एवंविधे च व्यतिकरे कोऽपि कान्तकार्त्तस्वरस्वरूपमुत्फुल्लपाण्डु- पुष्पमालया मेरुशिखरमिव प्रदक्षिणाक्षीणलभ्रया नक्षत्रराज्या जनित- शोभं जटाभारमुद्वहन्,अतिबहलसलयजरसरचितविचित्रपुण्ड्रकमण्ड- नाममरशैलशिलामिव रङ्गतित्रिस्रोतसं ललाटपट्टिकां कलयन्, प्लवमान इवोज्जृम्भत्पङ्कजकिंजल्ककपिलकायकान्तिकल्लोलेषु, करुणारसपूर्णव- क्षःस्थलदीर्घिकायामन्तस्तरन्तीं बालकहंसपक्षिपङ्क्तिमिव स्फारस्फो- क्षणेनावोचत् । यत् प्रिये, स भगवान्शंकरो मयापि स्वप्नान्तरे दृष्टः । कीदृशः । सामर्थ्यवता हेरम्बेण, शक्तिशस्त्रभृता षण्मुखेन चात्मप्रतिमेनानुगम्यमानः । शिवो- ऽपि विगतनायकः सकललोकस्वामी शक्तिमांश्च शिवशक्त्योरविनाभावसंबन्धा- दित्यात्मसादृश्यम् । कामः स्मर इच्छा च । कपर्दो जटाबन्धः । विरोधपक्षे वराटः ईश्वरो धनवान् । ससोमः सेन्दुः । सह उमया वर्तत इति सोमः । ततो नञ्योगः । विगता भवो येभ्यस्ते विभवा मुक्तात्मानः । तैः सह । भगवत्सायुज्यं हि मुक्तिरिति वृद्धाः । तथा विशिष्टा भूतिर्यस्य । भस्म च । पिनाकं धनुरस्या- स्ति । अपीति भिन्नम् । नाकी स्वर्गी । यद्वा 'चप सान्त्वने' । चपयन्ति सान्त्वयन्त्यनुनयन्त्यवश्यं चापिनः प्रसादका नाकनो यस्य ॥ क ॥ एवंविध इति ॥ कोऽपि मुनिः सूर्यमण्डलादवातरत् । कनकपिङ्गजटाभारस्य मेरुशिखरं पुष्पमालायाश्च नक्षत्रराजिरुपमानम् । लग्नं संबद्धं ज्योतिषप्रणीतं च । ललाटस्य शिला तिलकानां च गङ्गोपमानम् । परिवृत्तो मुनिभिः । कीदृशैर्विंकि- र्धशाखैः । शाखा कठबह्वचादिर्लता च जटा केशरचना मूलं च । वल्कलं वृक्षत्वक् । १ 'असोमश्च'. २ 'अभिधाय तमवस्थितं पुरः'; 'अवस्थितं पुरः'. ३ 'अभाषत'. ४ 'अचिरात्'. ५ 'आशंसां चकार'. ६ 'भासुरस्वरूप'; 'भास्वरस्वरूप'. ७ 'त्रिपुण्ड्रक'. ८ 'कमलदीर्घिकायाम्'. ९ 'स्फटिकाक्षमालाम्'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
तृतीय उच्छ्वासः । ७१ टिकाक्षमालिकां बिभ्राणः, कुशंकौपीनवासाः, करकलितकुशकाण्ड- कमण्डलुमण्डलैः, तरुभिरिव विविधशाखैर्विभृतजटावल्कलैश्च, पर्वतै रिव समेखलैः संरुद्राक्षमालैश्च, नक्षत्रैरिव समग्रकृत्तिकाश्लेषैः सज्येष्ठाषाढैश्च, ससंमदैर्पि नमदाकारमाकलयद्भिः, अक्रीडैरपि चक्रीडापरैः, रोमशैरपि विप्रवालकैः मुनिभिः परिवृतः, सेवितपुरा- णपुरुषोऽप्यजनार्दनप्रियः, प्रसन्नशंकरोऽप्यनाश्रितभवः, प्रबुद्धोऽप्यव- न्दीकृतजनः, श्रमणोऽप्यजिनपरिग्रहः, ग्रहगण इव नवधात्मको लोकानाम्, धनुर्धर इव नालीकसंधः, हंस इव नदाम्भस्थौनकप्रियः, पन्नग इव नाकुलीनः, सरस्वतीसंनिवासस्य मुखमन्दिरस्य वन्दनमा- लयेव प्रथमोद्भेदभासिन्या दंष्ट्रिकारोमराजिरेखया श्यामलितोत्तरोष्ठ- पृष्ठः, कलिकालकलङ्कंशङ्काशरणागतैस्त्रिभिः पुण्ययुगैरिव सुसूत्रीभूय देहलग्नैः, त्रिपुष्करस्नानावसरविलग्नसरसविसकाण्डंकुण्डलैख भ- क्त्याराधितत्रिपुरुषरचितरक्षासूक्ष्मरेखानुकारिभिः सितयज्ञोपवीतत- न्तुभिर्भूषितदेहः, शमी विद्रुमाभाधरश्च, प्रजापो विप्रजापश्च, सुतपाः तदेव तरूणां सहजं मुनीनां चोहार्यम् । मेखला मौञ्जी नगान्तदेशश्च । रुद्राक्षज- पमालान्वितैः । पक्षे रुद्राक्षा अक्षाश्च तरुविशेषाः । मृगकृत्तिकाया मृगत्वचः श्लेषैः सहितैः ज्येष्ठाषाढेन प्रशस्यव्रतदण्डेन सहितैः । पक्षे मृगो मृगशिरः कृत्तिका अश्लेषा ज्येष्ठा आषाढाश्च नक्षत्राणि । ससंमदैस्तृष्णाख्यातसानन्दैः । तथा मदस्य गर्वस्याकारं नाकालयद्भिः । अपिर्विरोधे । स तु तुल्यार्थव्याख्यया । क्रीडा विषयासक्तिः । तथा चक्रिणो विष्णोरीडा स्तुतिस्तत्परैः । विरोधे तु चः पृथक् । भूमरोमयुक्तैः । विप्राणां बालकैर्डिम्भैः । विरोधे विशेषेण प्रगतकेशैः । पुराणपुरुषा वृद्धाः । जनानामर्दनं पीडा । प्रपन्नानाश्रितानां शंकरः सुखंकरः । भवः संसारः । प्रबुद्धो विद्वान् । वन्दीकृतो हठेन गृहीतः । श्रमणस्तपस्वी । अजिनं मृगादित्वक् । विरोधे तु पुराणपुरुषो जनार्दनश्च विष्णुः । शंकरो भवश्च शिवः । प्रबुद्धः सुगतः । वन्दा वन्दका बौद्धव्रतस्थाः । श्रमणः क्षपणः । जि- नोऽर्हन् । परिग्रहः सर्वत्र नेति भिन्नम् । वधो हिंसा । अलीकसंधो मिथ्याप्र- तिज्ञः । दम्भवेदिनो दाम्भा मायिकाः । अकुलीनो नाभिजातः ग्रहगणस्तु नवसं- ख्यस्वरूपः । धन्वी च नालीके शरे संधानं यस्य । हंसस्तु नदस्याम्भ एव स्थानकं तत्प्रियः । नाकुर्वल्मीकस्तत्र लीनः । भक्त्याराधितत्रिपुरुषैरिति । त्रयः पुरुषा यत्रेति समुदायिन एव समुदाय इति दर्शने बहुवचनम् । व्यतिरिक्तसमु- दायपक्षस्तु नेहाश्रित इति सेवितहरिहरब्रह्मभी रक्षार्थं रचितरेखातुल्यैर्यज्ञोपवीतत- १ 'कौपीन'. २ 'सरुद्राक्षमालैश्च'. ३ 'सुश्रमगोऽपि'. ४ 'स्थानप्रियः'. ५ 'शङ्कया शरणा०'. ६ 'कुण्डलैख'.
७२ नलचम्पूः । कुतपश्श्लाघी च, विकलत्रः सकलत्रश्च, यमान्तानुसारी सकुशल- श्च, विकचनवनलिनशङ्कया मिलन्मुक्तमुग्धमधुपमण्डलेनेव रुद्राक्षव- लयेन विराजितवामपाणिपल्लवः, न स्मृतः स्मरापस्मारेण, नाङ्गीकृतः कृतघ्नतया, नालोकितः कितववृत्तेन नाकलितः, कलिना, नै निरुद्धो विरुद्धक्रियाभिः, अतितजस्तया द्वितीय इव परब्रह्मणः, तृतीय इव सूर्याचन्द्रमसोः, चतुर्थ इव गार्हपत्याहवनीयदक्षिणाग्नीनाम्, पञ्चम इव दिक्पतीनाम्, षष्ठ इव महाभूताधिदेवतानाम्, सप्तम इव मूर्त्तूनाम्, अष्टम इव सप्तर्षीणाम्, नवम इव वसूनाम्, दशम इव ग्रहाणाम् अनवरतहृदयकमलकर्णिकान्तःस्फुरज्ज्योतीरूपपरमब्र- ह्मकान्तिकलापेनेव बहिर्निर्गच्छताच्छभस्मानुलेपेन कनकगिरिरिव विरलचन्द्रातपेनौपाण्डुरितदेहः, दीर्घसरसबिसकाण्डपाण्डुना प्रच- ण्डपवनेनोर्ध्वमुल्लासितेन जटाजूटबन्धनपटप्रान्तपल्लवेन शिरःपतद्ग- गनगलद्गङ्गाम्बुधारामारिणो हरस्य स्वामिभक्त्या कृतानुकरणव्रतच- र्यामिव कॅलयन्, कोमले महसि तरुणे वयसि वृद्धे तपसि पृथुनि यशसि गुरुणि श्रेयसि वर्तमानः, सद्म सदाचाराणाम्, आश्रयः श्रुतीनाम्, मही महिन्नः, प्रपा कृपारसस्य, क्षेत्रं क्षमाङ्कुराणाम्, पात्रं मैत्रीसुधायाः, प्रासादः प्रसादस्य, सिन्धुः साधुतायाः, तरुणा- र्कमण्डलमध्यानमुनिरवातपत् ॥ क ॥ न्तुभिर्भूषितदेहः । शमोऽस्यास्तीति शमी शान्तः । तथा विद्रुमं प्रवालं तत्तुल्योष्ठः । प्रजां पाति ऋतुऋग्भ्यो हि प्रजात्राणम् । विप्राज्ञापयति जपं प्रापयति । भटदर्शनो- न्वयात् । सुष्ठु तपो व्रतमस्य । तथा कौ भुवि तपसा लोकोत्तरेण धर्मेण श्लाघ- नशीलः । 'तपश्चान्द्रायणादौ स्याद्धर्मे लोकोत्तरेऽपि च' इति विश्वः । यदा कुतपो धर्मस्तदा कुतपश्श्लाघीत्यत्र विसर्गाभावेऽपि (शस्य द्वित्वेन) श्रुत्या विरोधप्रतीतिः । विगतकलत्रः । सकलं त्रायते । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमास्तेषाम- न्तःपारम् । कुशान्दर्भोंल्लन्ति गृह्णन्ति ये ते कुशला दक्षास्तैः सह । चः सर्वत्र विरोधे । तथयथा शमीनामा तरुः । तथा द्रुमामां धरति । विर्नञर्थे । वि प्रजाप- वान् । कुतपः कुत्सितं तपः । सह कलत्रेण । यमस्यान्तकस्य समीपमनुसरत्यव- श्यम् । सह कुशलेन क्षेमेण ॥ क ॥ १ 'मिलन्मुग्धमधुप'. २ 'विराजितपाणिपल्लवः'. ३ 'न रुद्धः'. ४ 'पाण्डुरित'. ५ 'बन्धनप्रान्त'. ६ गगनगलत्'; 'गगने ललत्'. ७ 'आकारयन्'. ८ 'तरुणेश्च'.
तृतीय उच्छ्वासः। ७३ राजा तु दूरत एव तमायान्तमेवलोक्य विस्मयविस्फारितविलो- चनो हर्षवशविनिःसरद्बहलपुलकोत्तम्भितोत्तरीयवासाः ससंभ्रममा- सनादुत्थाय कियन्त्यपि पदान्यभिमुखं समेत्य क्षितितलमिलन्मौलि- मण्डलः प्रणाममकरोत् ॥ क ॥ मुनिरपि सदारुणान्तयापि सौम्यया दृशा विद्रुमप्रभाभिन्नया सुधासिन्धुतरङ्गमालयेव प्लावयन्नाशिषमवादीत् ॥ ख ॥ 'सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणा भिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु । कान्ताः कुङ्कुमकाङ्क्षया करतले मृद्नन्ति लग्नं च य- त्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः' ॥ ७ ॥ दत्ताशीश्च प्रणामपर्यस्तकर्णपूरपल्लवपरामृष्टपादपांसुरवनिपालेन स्वयमादरेणोपनीतमुच्चकाञ्चनासनमध्यातिष्ठत् ॥ ग ॥ अथ नरपतिदत्ते प्राप्तसौन्दर्यनिर्य- न्मणिमहसि स तस्मिन्नासने संनिविष्टः । रुचिररुचि सुमेरोः संगतः शृङ्गभागे कमलज इव कान्तिं कांचिदुच्चैर्बभार ॥ ८ ॥ दत्त्वार्घमर्हणीयाय तस्मै सोऽपि महीपतिः । स्वहस्तधौतयोर्भक्त्या ववन्दे पादयोर्जलम् ॥ ९ ॥ कृत्वातिथ्यक्रियां सम्यग्विनयं च प्रकाशयन् । तस्याग्रे भूतलं भेजे नोपविष्टः स विष्टरे ॥ १० ॥ ललाटपट्टविन्यस्तपाणिसंपुटकुड्मलः । नीचैरुवाच वाचं च चञ्चद्दशनदीधितिः ॥ ११ ॥
मुनिरिति ॥ राजप्रणामानन्तरम्। सर्वदा रक्तप्रान्तया दृशा प्रवालच्छुरित-
क्षीरोदवीच्येव प्लावयन्मुनिरप्याशिषमुवाच । रक्तान्तनेत्रत्वं शुभलक्षणम्। विरोधे स
इति मुनिविशेषणम्। दारुणं रौद्रम् ॥ ख ॥
सिन्दूरेति ॥ भ्रमकरं भ्रान्तिजनकम् । तच्च सिन्दूरस्पृहयेत्यादिनाभिहि-
तम् ॥ ७ ॥
अथेति ॥ प्राप्तसौन्दर्ये रम्यं निर्यन्निःसरन्मणीनां महस्तेजो यस्मात् । तत्रा-
सने आसीनः मुनिः कांचिदपूर्वां शोभां बभार ॥ रुचिरकान्तौ सुमेरोः शृङ्गभागे
स्थितो ब्रह्मेव ॥ ८ ॥
--------------------------------------------------
१ C 'आलोक्य', २ 'हर्षवशात्'
७
७४ नलचम्पूः। 'अद्य मे सुबहोः कालाच्छ्लाघनीयमभूदिदम् । त्वत्पादपद्मसंस्पर्शसंपन्नानुग्रहं गृहम् ॥ १२ ॥ यतः संमस्तमुनिमनुजवृन्दारकवृन्दवन्दनीयपादारविन्दाः, परमा- नन्दपरिस्पन्दभाजः पांसूनिव पार्थिवान्, तृणमिव त्रैणम्, निधन- मिव धनम्, रोगानिव भोगान्, राजयक्ष्माणमिव लक्ष्मीम्, आक- लयन्तः सकलसंसारसुखविमुखाः कस्य भवादृशा भवनमवतरन्ति ॥ ॥ क ॥ तदहमद्यानवद्यस्य भगवन्नभूवं भूम्नो यशोराशेर्भाजनम्, आरूढः पदं श्लाघार्हम्, आगतो गुणिषु गौरवम्, उपलब्धवान्धन्यताम्, संपन्नः पुण्यवतामग्रणीः, जातो जनस्य वन्दनीयः ॥ ख ॥ तदित्थमनेकप्रकारोपकारिणां किं ब्रवीमि, किंकरोऽस्मीति पौन- रुक्त्यं सर्वस्वामिनाम् । केनार्थित्वमित्यनुचितादरो निःस्पृहाणाम् । इदं मे सर्वस्वमात्मीक्रियतामिति स्वल्पोपचारः स्वाधीनाष्टगुणैश्वर्या- णां भवताम् । तथापि प्रणयेन भक्त्या च मुखरितः किंचिद्विज्ञापया- मि ॥ ग ॥ 'इदं राज्यमियं लक्ष्मीरिमेदारा इमे गृहाः । एते वयं विधेया वः कथ्यतां यदिहेप्सितम्' ॥ १३ ॥ मुनिरप्यवनीशस्य विनयमनभिनन्द्य स्निग्धमुग्धस्मितसुधाधवलिता- धरपल्लवमब्रवीत्—'उचितमेतद्भवतादृशां वक्तुं कर्तुं वा ॥ घ ॥ उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥ १४ ॥ अपिच । यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया । चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥ १५ ॥ अपिच । उपेति ॥ इन्दुः केन शिशिरीकृतः । स्वभावादेव शिशिर इत्यर्थः ॥ १४ ॥ यथेति ॥ वाचीत्येकत्वेऽपि जात्या बहुलप्रतीतिः ॥ १५ ॥ १ 'प्रशस्त'. २ 'मनुजबृन्दवृन्दारक'. ३ 'स्निग्धस्मित'. ४ 'पल्लवस्तमब्रवीत्'. ५ 'उपकर्तुं च'. ६ 'क्रियाः'.
विवेकः सह संपत्त्या विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥ १६ ॥ तदेतत्समस्तमस्ति त्वयि दीर्घायुषि, श्रूयतामिदानीं प्रस्तुतम् । अनवरतसुरासुरचक्रचूडामणीकृतचरणरजसश्चन्द्रचूडामणेर्देवस्यादेशे- नागता वयम् । अवाप्स्यसि सकलजलधिजलकल्लोलमालालंकार- भाजो भुवो भर्तुरुचितमतिमान्यं धन्यमसामान्यं कन्यारत्नम्' इति ॥ क ॥ एवमुक्तवति तस्मिंस्तपस्विनि पुत्रार्थिनी कंन्यालाभं मन्यमाना विप्रियं प्रियंगुमञ्जरी जरन्मञ्जीररवजर्जरविलक्षाक्षरया गिरा कुर्वा- णैव क्रोधपरिस्पन्दं निन्दास्तुतिधर्मेण नर्मलीलाकलहमकरोत् ॥ ख ॥ 'नयशोभाजन, कृतकुटीककुशाग्रग्राहिन्नवेदनोद्गारं कृतवानसि क्वापि । सर्वदानादेयेषु प्रतिकूलवर्तिषु जलेषु रतिं कुर्वाणः पाठीनहिं- सको धीवर इवोपलक्ष्यसे । कुरङ्गेषु प्रीतिं बध्नासि । कदम्बैः कुरव- विवेक इति ॥ प्रश्रयः प्रणयः ॥ १६ ॥ एवमिति ॥ क्रोधस्य परिस्पन्दं चेष्टां कुर्वाणेव ॥ क ॥ नयेति ॥ यशोभाजनेत्यामन्त्र्यस्य नञ्योगः । तथा कृतानि कृत्रिमाणि, नतु वेदवदपौरुषेयाणि । कुत्सितटीकानि कुशाग्राणि गृह्णासीत्येवंशीीलः । यस्मादवेदो वेदपाठरहितः । इदमपि द्वयमामन्त्र्यम् । क्वापि न उद्गारमुच्चारणं कृतवानसि । वक्तुमपि न वेत्सीत्यर्थः । स्तुतिपक्षे नयश्च शोभा च ते जनयसि । यद्गृहमाग- तोऽसि तस्येति शेषः । तथा कृता कौ पृथिव्यां टीका गमनं येन । स्वर्गाणाप्य- स्मदनुजिघृक्षयेति शेषः । कुशो दर्भ एवाग्रं गृह्णास्यवश्यम् । एतेनादृश्यशत्रू- णामपि विघातोक्तिः । वेदना दुःखं तदर्थमुद्गारमुच्चारणं क्वापि नाकरोः । एतेन प्रियंवदलोक्तिः । निन्दायां अनादेयेष्वश्रद्धेयेषु जडेषु रतिं विदधद्धिंसको धीवर इवावबुध्यसे । धीरोऽपि किल नादेयपयःसु कूलं कच्छं प्रति वर्तमानेषु रतिं कुरुते । पाठीनाहारत्वात् । पक्षे सर्वकालमेव नदीभवेषु कूलं कूलं प्रति वर्तमानेषु वारिषु रागमासक्तिं कुर्वाणः पाठवान् 'न हिंसाशीलो' धिया बुद्ध्या वर एवाव- गम्यसे । एतेन तीर्थस्थास्त्वदयालुज्ञानी च । कुत्सितो रङ्गो वासना येषां तेषु विषयेषु प्रीतिमान् । पक्षे कुरङ्गा मृगास्तेषु प्रीतः । कदम्बैः कुमातृकैः । कुत्सिता अम्बाः कदम्बाः ताश्च दुश्चेष्टितैः कुर्वन्ति आचक्षते वा इति णिजन्तादचि सिद्धम् । बहु- व्रीहौ तु कोः कद् भवति । कुत्सितो रवो येषां तैः । कुत्सितमलीकं कदलीकम् । १ 'सतां मतम्'. २ 'तदिदं सर्वमस्ति दीर्घायुषि त्वयि'. ३ 'जलनिधि'. ४ 'कन्या- लाभमलाभं मन्यमाना'; 'कन्यालाभं विप्रियं मन्यमानाः'. ५ 'जर्जरिताक्षरविलक्षया'. ६ 'वाची'.
७६ नलचम्पूः । कैर्बहुकदलीकैः पलाशप्रायैः कुजन्मभिः सहसंवससि ॥ क ॥ किमन्यद्ब्रूमो वयम् यस्य ते सदाचारविरुद्धः पुष्पवत्कान्ताराग एव प्रियः ॥ ख ॥ तदलमेन तापसहितेन कन्यावरप्रदानेन' इति ॥ ग ॥ एवमभिहितः सोऽपि तां बभाषे ॥ घ ॥ 'दोषाकरमुखि, किं मामुपालभसे । प्रायः प्राणिनामीशः शंभुरेव शुभाशुभं कर्मालोक्य तुलाधर इव तुलितं फलमुपकल्पयति ॥ ङ ॥ तथाहि । यद्यावद्यादृशं येन कृतं कर्म शुभाशुभम् । तत्तावत्तादृशं तस्य फलमीशः प्रयच्छति ॥ १७ ॥ अथवा । मत्तमातङ्गगामिनि, यस्यास्तवाप्रमाणालोचनश्रीः सा त्वं बलिसंश्र- यावलग्ना कस्य नाधिक्षेपं जनयसि ॥ च ॥ कोः कत् । बहु कदलीकं येषाम् । तथा पलं पिशितमश्नन्ति ये तेषां प्रायैः सदृशैः । तथा कुत्सितं जन्म येषां तथाविधैः सह वासं विधत्से । पक्षे कदम्ब-कुरवक-कद- ली-पलाशा ये कुजन्मानः कौ पृथिव्यां जन्म येषामिति कृत्वा भूरुहस्तैः सह संव- ससि । मुनयो हि मृगनगप्रियाः । वनवासित्वात् ॥ क ॥ यस्येति ॥ पुष्पवतीषु हि कान्तासु राग आसक्तिः । आचारविरुद्धः कुलधर्मा- नुचितः । पक्षे सदाचारेत्यामन्त्रणम् । विभिः पक्षिभी रुद्धः पुष्पवान्कान्तारस्या- गस्त्युरेव प्रियः ॥ ख ॥ तदिति ॥ तस्मात् तापस तपस्विन्, हि स्फुटं ते तव संबन्धिना कन्यावरप्र- दानेन नालं न पर्याप्तं नेष्टं पूर्णत इति यावत् । यतोऽहं पुत्रार्थिनीति । अथवा तापः संतापस्तत्सहितेन । पक्षे तापसेत्यामन्त्रणम् । तेनानेन कन्यावरप्रदानेनालं नान्य- त्रार्थनीयमित्यर्थः ॥ ग ॥ दोषेति ॥ दोषाणामाकरो मुखं यस्यास्तत्संबोधनम् । पक्षे दोषाकरश्चन्द्रः ॥घ॥ मत्तेति ॥ मत्तः क्षीबो मातङ्गः शबरस्तद्वद्गच्छसि चेष्टसेऽवश्यम् । स ह्यनु- चितचेष्टः त्वमपि तथा क्षीबा । म्लेच्छाभिगमस्त्वनुचितत्वान्न व्याख्येयः । पक्षे मातङ्गे हस्ती । यस्या भवत्या आलोचनश्रीर्विवेकसंपदप्रमाणा प्रत्यक्षादिप्रमाणा- पेता सा त्वं बलिनो बलवतो राज्ञः संश्रयेऽवलग्नावष्टब्धा कस्य पूज्यस्यापूज्यस्य वा अधिक्षेपं तिरस्कारं न करोषि । सर्वस्यापि करोष्येव । पक्षे लोचनश्रियः प्रसू- त्यादिप्रमाणातिरिक्तत्वम् । बलिरुदररेखा । अवलग्नं मध्यम् । एवंविधा सा त्वं शुभलक्षणा कस्य आधिक्षेपं मनःपीडाया अपनोदं न करोषि ॥ ङ ॥ १ 'उक्तः'. २ 'आलोच्य'. ३ 'तुलाधार'. ४ 'अनुकल्पयति'.
तृतीय उच्छ्वासः । ७७ तदलम्नेनालापालसप्रपञ्चेन । गतो भूयिष्ठो दिवसः । समा- सन्नोऽस्माकमाह्निकसमयः । सीदत्येषा ब्रह्मपरिषद् । गगनमण्डल- मध्यमारोहति भगवानशेषकल्याणचिन्तामणस्तरणिः । अरविन्दारु- णवदने न नक्तं समयमनुपालयन्त्यमी मुनयः । अनुमन्यस्व । यामो वयम्' ॥ क ॥ इत्यभिहिता सा प्रियंगुमञ्जरी 'महर्षे, मर्षणीयोऽयमेकस्यक्तकु- लवधूर्धर्मो नर्मापराधः । स्वीक्रियन्तामेतानि विविधाम्युल्लसन्मयूख- मञ्जरीरचितेन्द्रचापचक्राण्याभरणानि । गृह्यतामिदमिन्दुद्युतिधवल- मनलशौचं चीनांशुकपट्टपरिधानयुगलमियं च कुसुममालिका' इत्य- भिधायास्तान्यदप्यतिथिसत्कारोचितमुपढौक्य प्रसादनाय प्रणामम- करोत् ॥ ख ॥ मुनिस्तु 'गौरवमुखि, वृत्तमुक्तोऽयं हारः, दोषालयमङ्गदम्, ज- तदिति ॥ तस्माद्। अलं पूर्णतामनेन । आलापे संभाषे आलस्याभव्यस्य सतो भव्यस्य च प्रपञ्चेन विस्तारेण । प्रकृतं प्रक्रियत् इति भावः । उक्तयो हि सप्रतिपक्षा भवन्त्यालप्रतिषेधे सतोऽपि प्रतिषेधः । तथाहि—'सन्तः सच्चरितो- दयव्यसनिनः प्रांडुर्भवेद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः' । अथवा । आलापस्य आलेनावस्तुरूपेण सन् न परमार्थेन सन् यो- ऽसौ प्रपञ्चस्तेनालं निरर्थकत्वात् । यदुक्तम्—'यदेवार्थक्रियाकारि तदेव परमार्थ- सत्' । दारुणं नयशोभाजनपाठानहिंसकेत्यादिकस्य मुनीनां प्रतिपादनाद्रौद्रं वदनं यस्यास्तस्यांः संबोधनम् । न अरविं नक्तं समयम् । अपितु सरविं संध्यासमयं मुन- योऽप्यनुपालयन्ति । नक्तमित्यनेन संध्या लक्ष्यते । वयमपि मुनयस्ततोऽस्माकं संध्यावसर इत्यभिप्रायः । स्तुतौ अरविन्दवदरुणं वदनं यस्यास्तस्याः संबोधनम् । नैते मुनयः संध्याकालमनु पश्चात्पालयन्ति । अवश्यविधेयलात्तत्कालमेवेत्यर्थः । तस्मादनुजानीहि यामो वयम् ॥ क ॥ इतीति ॥ इत्युक्ता सा राज्ञी महर्षे इत्याद्यभिधायातिथ्यसक्रियायोग्यमुपादाय हर्षयितुं प्रणतिं चक्रे ॥ ख ॥ मुनिस्त्विति ॥ वृत्तमुक्तो वर्त्तुलमौक्तिकः शीलरहितश्च । दोषाशब्दो भुज- पर्याय इति दोषा बाहू आलयो यस्य । दोषा अवद्यानि च । यद्विश्वः—'दोषा रात्रौ भुजेऽपि च' । जघने भवं जघन्यं गर्हितं च । तादृक् पदमाश्रयो यस्य । सदा शश्वत् पदे पादावधिष्ठानमाश्रयो यस्य । पक्षे सतामप्यापदमासमन्ताद्- १ 'माध्याह्निकसमयः'. २ 'ब्राह्मी परिषद्'. ३ 'गगनमध्यम्'. ४ 'भगवानेष'. ५ 'लोचने'. ६ 'मर्षणीयोऽस्माकमयंन्'. ७ 'एतान्युल्लसन्'.
७८ नलचम्पूः । धन्यपदाश्रयं काञ्चीदाम, सदापदाधिष्ठानं नूपुरम्, अलं कारो भ- वद्विधानामेव राजते नास्माकम् । इयं च परिमलवाहिनी माला निबद्धमधुकरालापाचीनं वासश्च तवैवोचितम्' इत्यनेकधा श्लिष्टा- लापलीलयातिवाह्य काश्चित्कालकलाः करकलितकमण्डलुर्मण्डलेश्व- रमापृच्छद्य तां चे प्रियंगुमञ्जरीं जरठतमालनीलमम्बरतलमुदपत- त् ॥ क ॥ वियति विशदंविद्युल्लोललीलायमाने स्फुरदुरुपरिवेषकारकान्तौ मुनीन्द्रे । अथ गतवति तस्मिन्विस्मयोत्तानताक्षः क्षितिपतिरवतस्थे स्थाणुसंस्थां दधानः ॥ १८ ॥ स्थित्वा च तत्कथावस्थया काश्चित्कालकलाः कलापिकुलोत्कण्ठा- कारिणि रणति नवजलधररवगमणीये मध्याह्नगम्भीरभेरीसंखे शङ्ख- युगलके, विशति विसकाण्डकवलनमपहाय तीव्रतरतपनतौपत्ताम्य- त्तनुनि नवनलिनीछद्मच्छायामण्डलमुपवनदीर्घिकावतंसे हंसकुले कुमु- दकुवलयाम्भोजपत्रपुञ्जपञ्जरान्तरमनुसरति परिहृतोष्णमधुनि, मुकु- लितपक्षपुटे षट्चरणचक्रवाले, चटुलाग्रिमखुरशिखरोल्लिखितधरणिम- ण्डलेषु खण्डितखर्वदूर्वानालनीलघुरघुरायमाणघोणाकोणेषु विमुच्य- मानेषु पिपासातुतुरंगेषु, घर्मविघूर्णितेषु ससूत्कारकरविमुक्तसींकरा- सारवर्षेणार्द्रिताङ्गेषु मज्जनाय सज्जतेषु सेवागतराजकुञ्जरेषु, क्री- धिष्ठानं नगरम् । आपदामाधेश्च स्थानमिति वाक्ये तु सुषामदित्वात्वत्वम् । इति प्रकृतेऽलंकारस्य वर्णनं गौणवृत्त्या दूषणम् । तस्मादेवं दोषयुक्तोऽलंकारो युष्मादृशीनामेव भाति, नास्माकं यतीनाम् । यतो हि चारित्रमण्डनाः । नर्मणस्तु अलमत्यर्थं कारो राजग्राह्यभागस्तद्वतीनां राजपत्नीनां संगच्छते, नास्माकं वनवृत्तीनाम् । लोकस्योपकुर्म एव वयं, न कुतोऽपि किंचित्प्रतिगृह्णीम इति भावः । इयं च सुगन्धिः समङ्गलापा स्रक् चीनमंशुकं च तवैव युक्तं, नास्मा- कम् । यस्मात् परितो मलं वहति । तथा निबद्धमधुना समवेतसुरया कराला एवंभूतासौ स्रक् । अपाचीनं निकृष्टं च वासः । इति समयं कंचिच्छ्लेषोक्तिभि- र्निर्गम्य गगनमुदगात् ॥ क ॥ वियतीति ॥ विस्मयान्निश्चलाकृतिर्नृपः स्थाणुनोपमितः ॥ १८ ॥ स्थित्वा चेति ॥ राजापि निश्चलनेत्रस्तथा तमवलोक्य कंचिच्च समयं तत्कथा- १ च 'प्रणताम्'. २ 'लीलायमान'. ३ 'कारिणिनव'. ४ 'सखशङ्खः'. ५ 'तापातें न्ततनुलिनी'. ६ 'खण्डिततन्वदूर्वा' ७ 'दूर्वाङ्कुर'; 'दूर्वाग्रय'. ८ 'महाधर्म'.
डागिरिसरितमवतार्यमाणेषु लीलामृगमिथुनेषु, पयोभिः पूर्यामाणासु पञ्जरपक्षिपयःपानपात्रीषु, उद्यानारघट्टतटीं टीकमानासु कोयष्टिमयू- रमण्डलीषु, क्रीडासरः सरत्सु संगीतश्रमखिन्नखिन्नकिंनरेषु, कूपकूल- कुलायकोणकूणितेष्ववातपातङ्काकुलकलविङ्केषु, भवनवनवापीपुलिनपा- लिपांसुपटलमुत्तप्तमपहाय शीतलशैवलावलिं श्रयति तरलितनक्रे, कें- कारयति क्रौञ्चचककोरचक्रवाकचक्रे, क्रीडाप्ररोपितप्राङ्गणप्रान्ततरुशि- खरमध्ये मध्याह्नबलिपिण्डाय पिण्डिते केंकारयति काकवयसां कर्ण- कटु कुटुम्बके, वकवलयवलक्षानिक्षपति दिक्षु दीप्रान्दीप्तिदण्डांश्चण्ड- रोचिषि, विसर्ज्य परिजनं राजा मज्जनभवनायोदचलत् ॥ क ॥ गत्वा च पृथिवीवलयमिव पयःपूर्णसमुद्रद्रोणीकम्, केदारोदरमिव सकलशालिस्थानम्, श्रोत्रियद्विजेजनभवनमिव सकलधौतपट्टम्, अ- तिरमणीयं मज्जनभवनमवतारिताभरणः स्नानपीठे निपसाद ॥ ख ॥ आसन्नस्थितश्चास्यावसरपाठकः पपाठ ॥ 'वररजनीकरकान्ते चित्राभरणे निशानभःसदृशे । तव नृप मज्जनभवने सवितानाभाति परमश्रीः ॥ १९ ॥ भिरेवातिवाह्य मध्याह्नस्नानसद्मने प्रतस्थे ॥ क ॥ गत्वा चेति ॥ मज्जनगृहं गत्वा स्नानपीठे निषण्णः । गृहं विशिष्यते । पयसा पूर्णा समुद्रा मुद्राङ्किता द्रोणी जलपात्री कुण्डिका यत्र । स्नानीयजलादिषु मुद्रा दीयत इति राजधर्मः । तथा कलशाः कुम्भास्तेषामालिः पङ्क्तिस्तया सह युक्तानि स्थानानि प्रदेशा यत्र । तथा कलधौतस्य हेम्नः पट्ट आसनं तेन सह । अन्यत्र पयःपूर्णः समुद्रो द्रोणी च यत्र । द्रोणी देशविशेषः । यद्विश्वः- 'द्रोणी स्यान्त्री- वृदन्तरे' । केदारोदरं तु समग्रशालिस्थानम् । तथा सकलाः सर्वे धौताः क्षालिताः पट्टा आसनानि यत्र ॥ ख ॥ वरेति ॥ नृप इति संबोधने । अधुना तद्विशेषणानि । वर श्रेष्ठ । रजनीकरस्य चन्द्रस्येव कान्तिर्यस्येति चन्द्रद्युते । रणे युद्धे चित्रो व्याघ्रस्तद्वदाभा अस्येति तथोक्त । तथा निशानैस्तेजस्विभिर्भातीति कृत्वा सुभटरम्य । अथवा निशानं निर्मलं बभस्ति शोभते । तथा सदृश इः कामो यस्येति कृत्वा कंदर्पप्रतिम । मज्ज- नसद्ने सविताना सोल्लोचा उत्कृष्टश्रीर्द्योतते । अथ च मज्जनभवने, सविता रविर्नाभाति । परं केवलम् । अश्रीनैष्प्रभ एवेत्युक्तिलेशः । यतो निशायां यन्नभ- स्तत्सदृशे । प्रद्योतनानुद्योते हेतुरयम् । तथा चित्राण्याभरणानि यत्र । नभःपक्षे चित्रा नक्षत्रम् । तथा वरा श्रेष्ठा रजनी हरिद्रा तां कुर्वन्ति सत्कुर्वन्तीति कृत्वा १ 'श्रमखिन्न'. २ 'क्रौञ्चचक्रवाक'. ३ 'द्विजभवनम्'.
यहाँ पृष्ठ का पूर्ण देवनागरी पाठ पंक्तिबद्ध (line-by-line) रूप में प्रस्तुत है:
८० नलचम्पूः । अनन्तरमुत्तुङ्गकनककुम्भशोभास्पर्धिकुचमण्डलार्धवद्धोत्तरीयांशुक- परिकराः, संस्मरस्मितविकारकारिण्यः, दर्शितसीत्काराङ्गमैलनवि- न्यासाः, काश्चित्समुद्रवेल इव समकरोत्क्षिप्तमलकाः, काश्चित्तरुण- तरुमञ्जरीराजय इव भृङ्गारभरसुभ्रदेहाः, काश्चिदन्यायकारिण्य इव सभाजनोद्धूलनकराः, काश्चिन्मलयाचलभूमय इवोत्कृष्टगन्धधारि- तैलाः, काश्चिद्देवलोकवसतय इवं चामरधारिण्यः, काश्चित्पुरंदरपुरं- ध्रिका इव सविभ्रमकङ्कतिकोपान्तेनाकेशप्रसादनमाचरन्त्यः, काश्चि- द्विन्ध्द्याटव्य इव दर्शितविविधपादपालिकाः, काश्चिद्राघवसेना इव कृतप्रहस्तमलनाः, काश्चिद्व्याकरणवृत्तय इव बाहुलतां संवाहयन्त्यः, मज्जननियुक्ताः कामिन्यो राजानं स्नपयामासुः ॥ क ॥ किं बहुना । तास्तास्तं स्नपयामासुरङ्गनाः कुम्भव्वारिणा । एत्य याः स्युः प्रसन्नेन द्युलोकात्कं भवारिणा ॥ २० ॥ रजनीकरा गन्धकारकास्तैः कान्ते । नभस्तु वरो दीप्तिमान् सूर्याभावान्धो रजनी- करः शशी तेन कान्तम् ॥ १९ ॥ अनन्तरमिति ॥ परिकरमाबध्येति जघने पटीवेष्टिं कृत्वा कामिन्यो राजान- मन्नपयन् । समेनाविषमेण करेणोत्क्षिप्तसामलकानि यकाभिः । आमलकचूर्णं हि स्नानीयम् । भृङ्गारः कनकालुका । भाजनं पात्रम् । तत्रोद्धूलनं चूर्णविशेषः । तेन सह करः पाणिर्यासाम् । सभाजनोद्धूलनपाठे तूद्धलनमुद्वर्तनम् । उत्कृष्टानि उद्गतानि गन्धधारीणि तैलानि याभिः । चामरं प्रकीर्णकम् । विशिष्टो भ्रमश्चलनं तेन सह या कङ्कतिका केशमार्जनी तस्या उपान्तेनास्र्मन्तात्केशानां विरलीकरणमाचरन्त्यः । पालिः पर्यायावसरः । यदजयः—'पालिः कर्णलतायां स्यात्प्रदेशे पङ्क्तिच्छिद्ययोः । दृष्टस्मन्नङ्क्रियामश्रौ पर्यायावसरे क्रमे' । ततश्च दर्शिता विविधा पादपालिः पाद- मर्दनावसरो याभिः । कृतं प्रकर्षेण हस्तमलनं याभिः । बाहुलतामिति बाहुलंतवे- ति । पक्षे मकरैः सह उत्क्षिप्तममलं कं जलं याभिः । भृङ्गाणामार आगमनं तस्साग्रो भरः । तथा अवाच्यवचनैः सभाजनस्योद्धूलनं मालिन्यं कुर्वन्ति । उद्धू- लनपाठे तु सभाजनादुद्धूलनमपसरणम् । उत्कृष्टगन्धधारिता एला ओषधिविशेषो याभिः । च पृथक् । अमरा देवाः । सविभ्रमं सविलासं कं सुखं यत्र । कतिको- पान्ते कियत्कोपविगमे नाकेशस्य दिवसपतेः प्रसादनं कुर्वन्ति । कतीति पुरंध्रिका- विशेषणं वा । दर्शिता विविधाः पादपानामालयो याभिः । प्रहस्तो रावणप्रतिहार- स्तस्य मलनमभिभवः । बाहुलता बाहुलकम् ॥ क ॥ ता इति ॥ भवस्य संसारस्यारिः शिवस्तेन । प्रसन्नेन हेतुना । द्युलोकात्स्व- १. 'संस्मेर'. २ 'दर्शितससीत्का'. ३ 'तरो'. ४ 'तरुणमञ्जरी'.