पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पारस्करगृह्यसूत्रस्य विषयसूची
| विषयाः (प्रथमकाण्डः) | पृष्ठाङ्काः | विषयाः (द्वितीयकाण्डः) | पृष्ठाङ्काः |
|---|---|---|---|
| ग्रन्थोपक़्रमः | १ | चूडाकर्मकेशान्तौ | ७४ |
| कुशण्डिका | १ | उपनयनम् | ८० |
| आवसथ्याधानम् | ४ | ब्रह्मचारिव्रतम् | ८६ |
| मधुपर्कविधिः | ८ | स्नातकलक्षणम् | ६७ |
| पाकयज्ञभेदाः | १८ | उपनयनस्य परमावधिः | ६८ |
| विवाहः | १६ | समावर्तनम् | १०० |
| नित्यहोमः | ४१ | स्नातकव्रतम् | १०८ |
| नैमित्तिकहोमः | ४३ | पञ्च महायज्ञाः | ११२ |
| चतुर्थीकर्म | ४५ | उपाकर्म | ११५ |
| पक्षादिकर्म | ५० | अनध्यायाः | १२० |
| गर्भाधानम् | ५२ | उत्सर्गः | १२३ |
| पुंसवनम् | ५३ | लाङ्गलयोजनम् | १२५ |
| सीमन्तोन्नयनम् | ५५ | श्रवणाकर्म | १२७ |
| सोष्यन्तीकर्म | ५७ | इन्द्रयज्ञः | १३२ |
| जातकर्म | ५८ | पृषातक(आश्वयुजी)कर्म | १३४ |
| नामकरणम् | ६६ | सीतायज्ञः | १३६ |
| वहिर्निष्क्रमणम् | ६७ | (तृतीयकाण्ड) | |
| प्रवासादागतस्य पुत्रादिदर्शनविधिः | ६८ | नवयज्ञः | १४३ |
| अन्नप्राशनम् | ७० | आग्रहायणीकर्म | १४७ |
| स्रस्तरारोहणम् | १४६ |
| विषयाः | पृष्ठाङ्काः | विषयाः | पृष्ठाङ्काः |
|---|---|---|---|
| अष्टका | १५३ | उष्ट्रारोहणम् | २११ |
| अन्वष्टका | १६१ | खरारोहणम् | २११ |
| शालाकर्म | १६३ | मार्गारोहणम् | २११ |
| मणिकावघानम् | १७३ | चतुष्पथगमनम् | २१२ |
| शिरोरोगप्रतीकारः | १७४ | नद्यभिमन्त्रणम् | २१२ |
| दासवशीकरणम् | १७६ | नौकारोहणम् | २१२ |
| शूलगवः | १७७ | वनाभिमन्त्रणम् | २१२ |
| गोयज्ञः | १८० | पर्वताभिमन्त्रणम् | २१२ |
| वृषोत्सर्गः | १८१ | श्मशानाभिमन्त्रणम् | २१२ |
| पायसप्राशनम् | १८५ | गोष्ठाभिमन्त्रणम् | २१३ |
| अन्त्येष्टिकर्म | १८६ | नैमित्तिकदोषनिवारणम् | २१३ |
| अर्घ्यपशुनिरूपणम् | १९६ | मेघाभिमन्त्रणम् | २१३ |
| अवकीर्णिप्रायश्चित्तम् | २०२ | वाश्यमानशृगाल्यभिमन्त्रणम् | २१४ |
| सभाप्रवेशः | २०४ | शकुन्यभिमन्त्रणम् | २१४ |
| वशीकरणम् | २०५ | वृक्षाभिमन्त्रणम् | २१४ |
| रथारोहणम् | २०७ | प्रतिग्रहविधिः | २१५ |
| हस्त्यारोहणम् | २१० | अधीतस्य अविस्मरणोपायः | २१७ |
| अश्वारोहणम् | २११ |
पारस्करगृह्यसूत्रम्
"मार्गदर्शिनी"सहितम्
तस्मै नमः सदाराध्यपदपङ्कजरेणवे ।
सर्वस्वान्तर्निवासाय विश्वरूपाय शम्भवे ॥ १ ॥
पारस्कराचार्यगृह्यसूत्राणां मार्गदर्शिनी ।
संक्षिप्ता क्रियते व्याख्या छात्राणां सुखबोधिनी ॥ २ ॥
—×—
अथातो गृह्यस्थालीपाकानां कर्म ॥ १-१-१
अथ श्रौतकर्मविधानानन्तरं यतः श्रौतानि कर्माणि विहितानि, स्मार्त्तानि तु विधेयानि, अतः — अस्मात् कारणात्, गृह्यस्थालीपाकानां-गृह्ये-आवसथ्ये अग्नौ, ये पाकाः स्थालीपाकाः ते गृह्यस्थालीपाकाः तेषां कर्म-क्रिया अनुष्ठानमिति यावत्, वक्ष्यते इति शेषः । "प्रोष्येत्य गृहानुपतिष्ठते" ( १-१८-१ ) इत्यादिभ्यः श्रौतकर्मविधानस्य प्राथम्यमवगम्यते ।
परिसमूह्योपलिप्योल्लिख्योद्धृत्याऽभ्युक्ष्याऽग्निमुपसमाधाय ॥ १-१-२ (क)
यजमानः सुस्नातः सुप्राक्षालितपाणिपादः स्वाचान्तः वारणादियज्ञियवृक्षोद्भूवासने प्राङ्मुख उपविश्य होमार्थं सप्तविशंत्यङ्गुलं मण्डलं परिलिख्य तत्र परिसमूह्य त्रिभिर्दर्भैः पांशूनपसार्य, उपलिप्य-गोमयोदकेन त्रिवारम् उपलिप्य, उल्लिख्य-खादिरेण हस्त-
( २ )
मात्रेण खड्गाकृतिना स्फ्येन प्रागग्रा उदक्संस्थाः स्थण्डिलपरिमाणाः तिस्रो रेखाः कृत्वा, उद्धृत्य-अनामिकाऽङ्गुष्ठाभ्यां रेखाभ्यः पांशूनुद्धृत्य, अभ्युक्ष्य - मणिकाजलेन अभिषिच्य, । एते परिसमूहनादयः पञ्च भूसंस्कारा इति भर्तृयज्ञः, अग्निसंस्कारा इति कर्काचार्याः । परिसमूहनादि दैवे त्रिः त्रिः पित्र्ये सकृत् सकृत् इत्याचार्याः । अग्निं कर्मसाधनभूतं लौकिकं स्मार्त्तं श्रौतं वा अग्निम् , उपसमाधाय - आत्माभिमुखं पूर्वस्यां दिशि स्थापयित्वा ततः :-
दक्षिणतो ब्रह्मासनमास्तीर्य प्रणीय परिस्तीर्यार्थवदासाद्य
१-१-२ (ख)
दक्षिणतः - अग्नेर्दक्षिणस्यां दिशि, ब्रह्मासनं-कर्मसु तत्त्वज्ञस्य ब्रह्माभिधेयस्य ब्राह्मणस्य, तादृशब्राह्मणाभावे पञ्चाशत्कुश - निर्मितस्य ब्रह्मणः, आसनं - वारणादियज्ञियदारुनिर्मितम् आसनम् आस्तीर्य - कुशैः स्तीर्त्वा, ततः यथाविधि ब्रह्माणं वृत्वा, प्रणीय-वारणं द्वादशाङ्गुलदीर्घं चतुरङ्गुलविस्तारं चतुरङ्गुलखातं प्रणीतापात्रं सव्यहस्ते कृत्वा दक्षिणहस्तपात्रस्थोदकेन पूरयित्वा अग्नेरुत्तरतः संस्थाप्य, परिस्तीर्य-ईशानादि प्रागग्रैः कुशैः अग्नेः परिस्तरणं कृत्वा, अर्थवत्—यावद्भिः पदार्थैः अर्थः प्रयोजनं, तावतः पदार्थान्, अग्नेरुत्तरतः पश्चाद् वा आसाद्य-आसादितान् कृत्वा, ते पदार्थाः यथा :—
१) पवित्रच्छेदनानि त्रीणि कुशतरुणानि (२) पवित्रे साग्रे अनन्तर्गर्भे द्वे कुशतरुणे (३) प्रोक्षणीपात्रं वारणं द्वादशाङ्गुलदीर्घं करतलसम्मितखातं पद्मपत्राकृति कमलमुकुलाकृति वा (४) आज्यस्थाली तैजसी मृण्मयी वा द्वादशाङ्गुलविशाला प्रादेशोच्चा (५) तथैव चरुस्थाली (६) सम्मार्ग-कुशाः त्रयः (७) उपयमनकुशाः त्रिप्रभृतयः (८) समिधः तिस्रः पालाश्यः प्रादेशमात्र्यः (६) स्रुवः खादिरो हस्तमात्रोऽङ्गुष्ठपर्वमात्रखात-परिणाहवर्त्तुलपुष्करः (१०) आज्यं गव्यम् (११) चरुश्चेद् व्रीहितण्डुलाः (१२) तण्डुलादिपूर्णपात्रं, वरो वा यथाशक्ति हिरण्यादि द्रव्यं चेति आसाद्य, ततः—
( ३ )
पवित्रे कृत्वा प्रोक्षणीः संस्कृत्यार्थवत् प्रोक्ष्य निरूप्याज्यमधिश्रित्य पर्यग्नि कुर्यात् ॥ १-१-२ (ग)
पवित्रे कृत्वा - पवित्रच्छेदनेः त्रिभिः कुशतरुणैः द्वे कुशतरुणे अग्रतः प्रादेशमात्रं विहाय प्रच्छिद्य, प्रोक्षणीः-प्रोक्षणार्थाः अपः संस्कृत्य, संस्कारप्रकारो यथा-प्रोक्षणीपात्रं प्रणीतासन्निधौ निधाय तत्र प्रणीतोदकमासिच्य पावित्राभ्यामुत्पूय, तत्र पवित्रे संस्थाप्य दक्षिणहस्तेन प्रोक्षणीपात्रमानीय सव्ये पाणौ कुर्यात् । अर्थवत् प्रोक्ष्य—अर्थवन्ति प्रयोजनवन्ति आसादितानि द्रव्याणि आसादनक्रमेण प्रोक्ष्य, ततः असञ्चरे-अग्निप्रणीतयोर्मध्ये प्रोक्षणीपात्रं निधाय, आज्यं निरूप्य—आसादितम् आज्यम् अग्नेः पश्चात् निहितायामाज्यस्थाल्यां निक्षिप्य, अधिश्रित्य-आज्यस्थालीम् अग्नौ आरोप्य, पर्यग्नि कुर्यात्—ज्वलदुलमुकम् आज्यचर्वोः समन्तात् प्रदक्षिण परिभ्रामयेत् ।
स्रुवं प्रतप्य संमृज्याऽभ्युक्ष्य पुनः प्रतप्य निदध्यात् ॥ १-१-३
स्रुवं पूर्वोक्तलक्षणं, प्रतप्य — अधोमुखं प्राञ्चम् अग्नौ तापयित्वा, वामहस्ते धृत्वा, संमृज्य — दक्षिणहस्तेन सम्मार्गकुशाग्रैः मूलतः अग्रपर्यन्तं (तं स्रुवं) सम्यक् मार्जयित्वा, अभ्युक्ष्य-प्रणीतोदकेन च अभिषिच्य, पुनः प्रतप्य-पूर्वोक्तविधिना तापयित्वा, निदध्यात्-दक्षिणतः स्थापयेत् ।
आज्यमुद्वास्योत्पूयावेक्ष्य प्रोक्षणीश्च पूर्ववदुपयमनान् कुशानादाय समिधोऽभ्याधाय पर्युक्ष्य जुहुयात् । १-१-४
आज्यं— होमार्थं स्थापितं गवां घृतम्, उद्वास्य — उत्थाप्य उत्पूय-पूर्वपवित्राभ्यां संस्कृत्य, अवेक्ष्य—आज्यं दृष्ट्वा, ततः अपद्रव्यं, निष्कास्य, प्रोक्षणीः—प्रोक्षणार्था अपः च पूर्ववत्—पूर्ववत् पवित्राभ्यां उत्पूय उपयमनान् कुशानादाय—उपयमनकुशान् दक्षिणहस्तेन आनीय
( ४ )
सव्ये पाणौ कृत्वा, समिधोऽभ्याधाय—उत्तिष्ठन् समिधः वह्नौ प्रक्षिप्य, पर्युक्ष्य—सपवित्रेण प्रोक्षणीयुदकेन दक्षिणचुलुकेन गृहीतेन ईशानादि उदगपवर्गम् अग्निं परिषिच्य, जुहुयात्—आधारादीन् होमान् कुर्यात् ।
तत्र संस्रवपात्रं प्रणीताग्न्योर्मध्ये स्थापयेत् (१) प्रजापतये स्वाहा इदं प्रजापतये न मम । (२) इन्द्राय स्वाहा इदमिन्द्राय न मम, इत्याहुतिद्वयम् आधारः । आधारे प्रजापतिहोमः स्वाहाकारपर्य्यन्त उपांशुः (१) अग्नये स्वाहा, (२) सोमाय स्वाहा इत्याहुतिद्वयम् आज्यभागहोमः ।
एष एव विधिर्यत्र क्वचिद्धोमः । १-१-५
एषः परिसमूहनादिपर्युक्षणान्तः, विधिः एव—न मन्त्राः, यत्र क्वचित्—लौकिके स्मार्त्ते वा अग्नौ, होमः तत्र वेदितव्यः । इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे प्रथमाकण्डिका ।
आवसथ्याधानं दारकाले । १-२-१
अवसथः—गृहं, तत्र भवः आवसथ्यः—गृह्याग्निः, तस्य आधानं स्थापनं दारकाले—विवाहकाले चतुर्थीकर्मानन्तरं कुर्यात् । एतन्मतेन वैवाहिकः अग्निः न गृह्याग्निः, आवसथ्याधानं दारकाले इत्यादिना अग्न्याधानस्य पृथगुक्तत्वात् । चतुर्थीकर्मणः प्राक् पत्न्याः भार्यात्वस्य अनुपपत्तेः । आधानस्य कालविकल्पमाह—
दायाद्यकाल एकेषाम् । १-२-२
एकेषाम् आचार्य्याणां मते दायाद्यकाले—भ्रातॄणां पितृधन-विभागकाले आवसथ्याधानं विधेयम् । अविभक्ते हि पितृधने सर्वेषां
( ५ )
भ्रातॄणां स्वत्वस्य साधारणत्वेन आधानकर्मणि धनस्य विनियोगानर्हत्वात् । अतः भ्रातृमतां विभक्तानाम् आधाने अधिकारः अभ्रातृकस्य तु दारकाले इति व्यवस्थितो विकल्पः ।
आहरणपक्षमाह :—
वैश्यस्य बहुपशोर्गृहादग्निमाहृत्य । १-२-३
वैश्यस्य – तृतीयवर्णस्य, बहुपशोः – पशुभिः समृद्धस्य, गृहात् अग्निम् आहृत्य — वाद्यवेदघोषाद्युत्सवपुरःसरम् आनीय पञ्च-भूसंस्कारसंस्कृते स्थण्डिले तमग्निमुपसमाधाय ब्रह्मोपवेशनादि ब्राह्मणभोजनान्तं कर्म कुर्यात् ।
चातुष्प्राश्यपचनवत् सर्वम् । १-२-४
चत्वारः ब्राह्मणाः प्राश्नन्ति भक्षयन्ति यस्मिन् कर्मणि तत् चातुष्प्राश्यम् । तदर्थं यत् पचनं — पाकः, तत् चातुष्प्राश्यपचनम् तद्वत् सर्वं — सर्वं कर्म कुर्यात् । अयमेव पक्षः आचार्येण पूर्वपक्षरूपेण उपन्यस्तः न तु सम्मत इति कर्कोपाध्यायाः ।
आरणेयपक्षमाह :—
अरणिप्रदानमेके । १-२-५
एके आचार्याः अरणिप्रदानं, प्रशब्दः उपशब्दस्यार्थे, प्रदानम् उपादानं कारणम् उत्पत्तिस्थानम् । अतएव अरणिः प्रदानम् उत्पत्तिस्थानं यस्य अग्नेः सोऽरणिप्रदानः । तम् अरणिप्रदानम् अग्निम् आदधीत इति मन्यन्ते ।
पञ्चमहायज्ञा इति श्रुतेः । १-२-६
आरणेयस्य अग्नेः आधेयत्वे युक्तिं दर्शयति । पञ्चमहायज्ञानां श्रौतत्वात् आरणेये अग्नौ तेषाम् अनुष्ठानं युक्तम् इति अभिप्रायः ।
( ६ )
अग्न्याधेयदेवताभ्यः स्थालीपाकग्ँ श्रपयित्वाऽऽज्यभागाविष्ट्वा-ज्याहुतीर्जुहोति । १-२-७
यजमानः अग्न्याधानकर्म करिष्यन् ब्रह्मोपवेशनादि आज्यभागान्तं कर्म कृत्वा अग्न्याधेयदेवताभ्यः — श्रौतस्य अग्न्याधेयस्य देवताः पवमानोऽग्निः पावकोऽग्निः, शुचिः, अदितिश्च ताभ्यः, चतसृभ्यः देवताभ्यः, स्थालीपाकं—चरुं, श्रपयित्वा—यथाविधि पक्त्वा आज्यभागौ—आघारपूर्वकौ आज्यभागौ हुत्वा, आज्याहुतीः-आज्येन आसादितेन संस्कृतेन घृतेन आहुतीः वक्ष्यमाणाः जुहोति ।
अत्र अग्न्याधेयदेवताभ्य इति बहुवचनम् अग्न्याधेयस्य चतस्रो-देवता इति ज्ञापयति, अग्निरैका, अदितिर्द्वितीया इति देवताद्वयशङ्कां च निराकरोति । विशिष्टस्य देवतान्तरत्वमिति जैमिनीये इन्द्रमहेन्द्राधिकरणे निर्णीतत्वात् । पुनश्च आज्याहुतीनां किं स्थानमिति प्रदर्शनार्थम् "आज्यभागाविष्ट्वा" इत्युक्तम् ।
त्वन्नोऽअग्ने, सत्वन्नोऽअग्न' इमम्मे वरुण' तत्त्वायामि, येते शतम्' अयाश्चाग्ने 'उदुत्तमं' भवतन्न 'इत्यष्टौ । १-२-८
त्वन्नो अग्न इत्यादयः मन्त्रप्रतीकाः । अष्टग्रहणं तु मन्त्रप्रतीकेषु भ्रमवारणार्थम् । सम्पूर्णमन्त्रा यथा—
ओं त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडो अवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाग्ँसि प्रमुमुग्ध्यस्मत् ॥ १
ओं सत्वंनो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अवयक्ष्व नो वरुणंँरराणो वीहि मृडीकग्ँसुहवो न एधि ॥ २
ओं इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ॥ ३
ओं तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशग्ँस मा न आयुः प्रमोषीः ॥ ४
( ७ )
ओँ येते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः ।
तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥ ५
ओँ अयाश्चाग्नेऽस्यनभिशस्तिपाश्च सत्यमित्त्वमया असि ।
अयानो यज्ञं वहास्ययानो धेहि भेषजम् ॥ ६
ओँ उदुत्तमं वरुणपाशमस्मदवाधमं वि मध्यमँ श्रथाय ॥
अथावयमादित्यव्रते तवानागसोऽदितये स्याम ॥ ७
ओँ भवतं नः समनसौ सचेतसावरेपसौ ।
मा यज्ञँ हिँषिष्टं मा यज्ञपति जातवेदसौ शिवौ भवतमद्य नः ।
इत्येतैः अष्टभिर्मन्त्रैः अष्टावाज्याहुतीर्जुहोति ।
पुरस्तादेवमुपरिष्टात् स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति । १-२-६
अग्न्याधेयदेवताहोमस्य पुरस्तात्—पूर्वं, पूर्वोक्ता अष्टौ आज्याहुतीः यथा जुहोति, एवम्—अनेन पूर्वोक्तप्रकारेण । स्थालीपाकस्य चरोः “अत्र अवयवलक्षणा षष्ठी” चरुमित्यर्थः । अग्न्याधेयदेवताभ्यः हुत्वा उपरिष्टात्—परतः अष्टौ आज्याहुतीः जुहोति । प्रथमम् अष्टाभिर्मन्त्रैः आज्यहोमः ततः अग्न्याधेयदेवताभ्यः चरुहोमः । ततः—पुनरष्टाभिर्मन्त्रैराज्याहोम इति क्रमः ।
स्विष्टकृते च । १-२-१०
ततः स्विष्टकृते—अग्नये स्विष्टकृते स्वाहा इति स्रुवेण चरुं जुहुयात् च शब्दात् चरुहोमः प्रतीतः ।
अयास्यग्नेर्वषट्कृतं यत् कर्मणात्यरीरिचं देवा गातु विद इति । १-२-११
स्विष्टकृद्धोमानन्तरम् अयास्यग्न इति मन्त्रेण एकामाज्याहुतिं जुहुयात् ।
( ८ )
मन्त्रार्थः— (गौत्तम ऋषिः गायत्रीछन्दः, गातुविदोदेवा देवताः आज्याहोमे विनियोगः) हे गातुविदः यज्ञवेत्तारः देवाः अग्नेः ! अग्नि-सम्बन्धि यत् वषट्कृतं—हुतं कर्मणा-विधिना अत्यरीरिचम्—अधिकं कृतवानस्मि तत् भवतां प्रसादात् अयासि—अव्याहतम् अस्तु । ततः ब्रह्मान्वारब्धः भूः स्वाहा, भुवः स्वाहा, स्वः स्वाहा, त्वन्नोअग्ने, अयाश्चाग्ने, येतेशतम्, उदुत्तमं तथा प्रजापतये स्वाहा इति नवाहुतीः आज्येन जुहुयात् ।
बर्हिर्हुत्वाप्राश्नाति । १-२-१२
ततः बर्हिः—परिस्तरणकुशान् हुत्वा—वन्हौ प्रदीष्य हुतशेषं संस्रवं प्राश्नाति । अत्रहुतशेषप्राशनस्य कर्माङ्गत्वेन विहितत्वात् अकरणे कर्मवैगुण्यात् प्राशनं विधेयम् । तस्मात् अनेन प्राशनेन परवर्त्तिवैश्व-देवादिकर्मसु अधिकारहानिः न भवति । अयं बर्हिहोमः विधानवलात् अग्न्याधाने एव भवति नान्यत्र कर्मसु ।
ततो ब्राह्मणभोजनम् । १-२-१३
ततः—समाप्ते कर्मणि ब्राह्मणभोजनं—ब्राह्मणस्य ब्राह्मणयोः ब्राह्मणानां वा भोजनं यथाशक्ति दद्यात् । आरणेयपक्षे अरणि-निर्माणादि विधानं ग्रन्थान्तरादवलोकनीयम् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे द्वितीया-कण्डिका ॥
षडर्घ्या भवन्ति । १-३-१
षट्—आचार्यादयः षट्पुरुषाः, अर्घ्याः-अर्हार्हाः, मधुपर्कयोग्याः भवन्ति । ते के इत्यपेक्षायाम—
( ६ )
आचार्य्यमृत्विजंवैवाह्यो राजा प्रियः स्नातक इति । १-३-२
आचार्य्यः—उपनयनपूर्वकं वेदाध्यापकः । ऋत्विक्—श्रौतस्मार्त्त-कर्मसंपादनार्थं वृतो ब्रह्मादिः, वैवाह्यः वरः । राजा अभिषेकादि-गुणयुक्तः प्रजापालने अधिकृतः क्षत्रियः । प्रियः—सखा, स च उत्कृष्ट-जातिः समानजातिर्वा, स्नातकः-ब्रह्मचर्याश्रमात् समावृत्तः, स आचार्य्यस्य अर्घ्यो भवति नान्यस्य । तदुक्तं मनुना—
"तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥" ३-३
इति—एते षट् आर्घार्हा भवन्ति !
प्रतिसम्वत्सरानर्हयेयुः । १-३-३
प्रतिसंवत्सरान्—प्रतिसंवत्सरमागतान् एतान् आचार्यादीन् अर्हयेयुः-मधुपर्केण पूजयेयुः । न तु संवत्सरात् पूर्वमागतान् ।
यक्ष्यमाणास्त्वृत्विजः । १-३-४
तु - किन्तु, यक्ष्यमाणाः—यज्ञं करिष्यन्तः यजमानाः, ऋत्विजः याजकान् ब्रह्मप्रभृतीन् संवत्सरमध्येऽपि अर्हयेयुः.नात्रसंवत्सरनियमः संवत्सरात् परमपि यागं विना नैते अर्हणीयाः ।
अहणप्रकारो यथा—
आसनमाहार्याह— साधुभवानास्तामर्चयिष्यामो भवन्त-मिति । १-३-५
यजमानः केनचित् पुरुषेण, आसनं—वारणादिदारुममयीपीठादि आहार्य्य— आनाय्य, आह— वदति "साधुभवानास्तामर्चयिष्यामो भवन्तमिति" अस्यार्थः—भवान्—अर्च्यः, साधु—सुखम्, आस्ताम्—उपविशतु भवन्तम्-अर्चनीयं वयम्, अर्च्चायिष्यामः—पूजयिष्यामः अत्र बहुवचनं भार्यापुत्रादिसर्व—गृहजनापेक्षम् ।
( १० )
आहरन्ति विष्टरं पद्यं पादार्थमुदकमर्घमाचमनीयं मधुपर्कं दधि मधुघृतमपिहितं कांस्ये कांस्येन । १-३-६
आहरन्ति—आनयन्ति, यजमानपुरुषाः वक्ष्यमाणानि अर्हणोपकरणानि यथा—विष्टरं—पञ्चविंशतिदर्भतरुणमयं कूर्च्चम् । तल्लक्षणं यथा— पञ्चविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषिता । विष्टरे सर्वयज्ञेषु लक्षणं परिकीर्त्तितम् ॥ इति
पद्यं—पद्भ्याम् आक्रमणीयं द्वितीयं विष्टरम् । पादार्थं—पादप्रक्षालनार्थं ताम्रादिपात्रस्थम्, उदकं — जलम् । अर्घ—गन्धपुष्पाक्षतकुशतिलशुक्लसर्षप—दधिदूर्वान्वितं सुवर्णादिपात्रस्थम् उदकम् । आचमनीयम्—आचमनार्थं कमण्डलुसंभृतं जलम् । कांस्ये—कांस्यपात्रे वर्त्तमानं कांस्येन—कांस्यपात्रेण अपिहितम् आच्छादितं मधुपर्कं—दधिमधुघृतम् ।
अन्यस्त्रिस्त्रिः प्राह विष्टरादीनि । १-३-७
अन्यः—अर्च्चकात् यजमानात् अपरः कश्चिद् यजमानपक्षः, विष्टरादीनि—उपकरणानि प्रत्येकं, विष्टरो विष्टरो विष्टर इति प्रकारेण त्रिस्त्रिः—त्रीन् त्रीन्वारन्—विष्टरादीन्—अर्च्चनोपकरणभूतान्, प्राह—ब्रूयात् ।
विष्टरं प्रतिगृह्णाति । १-३-८
केनचिद् यजमानपक्षेण विष्टरो विष्टरो विष्टर इति त्रिरुक्ते यजमानदत्तं विष्टरं प्रतिगृह्णाति—स्वीकरोति अर्च्च्यः प्राङ्मुखस्तिष्ठन् ।
वर्षोऽस्मि समानाना-मुद्यतामिव सूर्य्यः । इमं तमधितिष्ठामि यो मा कश्चाभिदासति, इत्येनमभ्युपविशति । १-३-६
अनेन—वर्षोऽस्मीति मन्त्रेण अर्थात् इमं मन्त्रं पठित्वा अभ्युपविशति—एवं विष्टरम् उत्तराग्रम् । आसने निधाय तत्र उपविशति ।
( ११ )
मन्त्रार्थः ( आथर्वणऋषिः अनुष्टुप्छन्दः विष्टरो देवता उपवेशने विनियोगः ) अहं यजमानः समानानां — समानजातीयानां मध्ये उद्यताम् — उदयशीलानां ग्रहनक्षत्रादीनां मध्ये सूर्य्य इव वर्ष्मः — पोषकः अस्मि — भवामि । यः कश्च कश्चन मा-मां यजमानम् अभिदासति — हिनस्ति तं पुरुषम् । उद्दिश्य अथवा तत् सदृशमिमं विष्टरम् 'अभितिष्ठामि'—अभिक्रम्य तिष्ठामि तदुपरि तिष्ठामीतिभावः ।
पादयोरन्यं विष्टर आसीनाय । १-३-१०
विष्टरे — विष्टरोपरि यथाशास्त्रम् आसीनाय — उपविष्टाय यजमानाय अन्यं द्वितीयं विष्टरं पादयोः प्रयच्छति तद्वत् ।
सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति । १-३-११
ततः अन्येन पाद्यं पाद्यं पाद्याद्यम् इति त्रिः उक्ते यजमानेन दत्तं पाद्यं गृहीत्वा प्रथमं सव्यं वामं पादं प्रक्षाल्य ततः दक्षिणपादं प्रक्षालयति क्षत्रियादिवरः ।
ब्राह्मणश्चेद्दक्षिणं प्रथमम् । १-३-१२
ब्राह्मणश्चेत् अर्घ्यस्तर्हि दक्षिणं पादं प्रथमं प्रक्षालयेत् ततो वाममिति क्रमः । प्रक्षालने “विराजो दोहोसि” इति मन्त्र आवर्तनीयः ।
विराजोदोहोऽसि विराजोदोहमशीय
मयिपद्यायै विराजो दोह इति । १-३-१३
( प्रजापति , यजुः, आपः, पादयोः जलप्रक्षेपे )
हे जल ! त्वं विराज.—विशेषेण राजते विराट् अन्नं, तस्य दोहः—परिणामसारः रसः असि । अहं तं विराजः दोहं—मन्त्रसंस्कृतं रसम् अशीय—व्याप्नुयाम् मयि—मद् विषये सः दोहः पाद्यायै—पादयोः साध्वी सपर्या—पूजा पाद्या तस्यै भवेति ।
( १२ )
अर्घं प्रतिगृह्णाति आपः स्थ युष्माभिः सर्वान् कामान-
वाप्नवानि इति । १-३-१४
ततः पुरुषान्तरेण वारत्रयमुक्तं यजमानप्रदत्तम् अर्घ्यं प्रतिगृह्णाति अर्च्य आपः स्थ इति मन्त्रेण ।
मन्त्रार्थः (प्रजापतिः यजुः, आपः, आदाने)—हे आप ! यू आपः—आप्तिहेतवः स्थ-भवथ । युष्माभिः—अद्भिः सर्वान् कामान्-अभीष्टार्थान्, आवाप्नवानि लभेयम् अहमिति शेषः ।
निनयन्नभिमन्त्रयते “समुद्रं व प्रहिणोमि स्वां योनिमभि-
गच्छत् । अरिष्टा अस्माकं वीरा मा पराचि सत् पय इति ।
१-३-१५
ततः यजमानदत्तं जलं निनयन्—भूमौ प्रवाहयन् अभिमन्त्रयते मन्त्रं पठति समुद्रं व इति मन्त्रार्थः (आथर्वणः अनुष्टुप्, आपः अघप्रतिक्षेपे) हे आपः वः—युष्मान् समुद्रम्—उत्पत्तिस्थान—प्रहिणोमि-प्रेषयामि । यूयं स्वां योनि--स्वकारणभूतं समुद्रम् अभिगच्छत-अभिलक्ष्य गच्छत । अस्माकं वीराः—पुत्राः अन्ये च अरिष्टाः—अनुपहताः सन्तु । मत्—मत्सकाशात् एवम्भूतम् अर्घादिरूपं जलं मा परासेचि—अपगतं न भवतु इति ।
आचामत्यामागन् यशसा संसृज वर्चसा ।
तं मा कुरुप्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम् ॥
१-३-१६
ततः अन्येन उच्चैस्त्रिवारमुक्तं यजमानेन दत्तम् आचमनीयं प्रतिगृह्य अर्च्यः सकृत्—एकवारम्, आचामति—प्राश्नाति, आमागन् इति मन्त्रेण ।
( १३ )
मन्त्रार्थः—(परमेष्ठी, बृहती, वरुणः, आचमने) हे वरुण ! मा-मां यजमानं, यशसा आगन्-संयोजय । तथा वर्चसा—तेजसा, संसृज—संयुक्तं कुरु । पुनश्च तं—त्वद्भक्तं मा—मां प्रजानां—पुत्रपौत्रादीनां प्रियं कुरु, पशूनां-गवाश्वादीनाम्, अधिपतिं कुरु, तथा तनूनां—देहावयवानाम्, अरिष्टि—नीरोगतां कुरु ।
मित्रस्य त्वा इति मधुपर्कं प्रतीक्षते । १-३-१७
ततः अन्यपुरुषेण त्रिवारमुक्तं यजमानहस्तगतं मधुपर्कम् अर्च्चनीयः प्रतीक्षते—पश्यति, मित्रस्येति मन्त्रेण । संपूर्णमन्त्रः—"मित्रस्य त्वा चक्षुषा प्रतीक्षे"।
देवस्य त्वेति प्रतिगृह्णाति । १-३-१८
ततः यजमानदत्तं मधुपर्कं प्रतिगृह्णाति अर्च्चनीयः—देवस्यत्वेतिमन्त्रेण । मन्त्रो-यथा—"देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि", इति प्रतिगृह्णाति ।
सव्ये पाणौ कृत्वा दक्षिणस्यानामिकया त्रिः प्रयौति "नमः श्यावास्वायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामि इति १-३-१९
मधुपर्कं सव्ये पाणौ—वामहस्ते, कृत्वा दक्षिणस्य—दक्षिणहस्तस्य अनामिकया उपकनिष्ठिकया अङ्गुल्या, त्रिः—त्रिवारं, प्रयौति—आलोडयति नमः श्यावेतिमन्त्रेण ।
मन्त्रार्थः—(प्रजापतिः, यजुः, सविता, निरुक्षणे)—हे अग्ने ! श्यावास्वाय — कपिशमुखाय ते तव अन्नशने — अन्नाशने अदनीये मधुपर्के यत् अनुपयोगि द्रव्यम्, आविद्धं - संश्लिष्टं, तत् ते—तुभ्यं त्वदर्थं, निष्कृन्तामि—अपनयामि ।
( १४ )
अनामिकाङ्गुष्ठेन च त्रिर्निरुक्षयति । १-३-२०
ततः अर्च्यः मधुपर्कम् अनामिकाङ्गुष्ठेन—अनामिका च अङ्गुष्ठश्च अनामिकाङ्गुष्ठौ, तयोः समाहारः अनामिकाङगुष्ठं, तेन त्रिः—त्रिवारं, निरुक्षयति—पात्राद् बहिः निःसारयति ।
तस्य त्रिः प्राश्नाति “यन्मधुनो मधव्यं परमꣳरूपमन्नाद्यम् तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोसानीति । १-३-२१
ततः तस्य— मधुपर्कस्य एकदेशम् आदाय त्रिः—त्रिवारं प्राश्नाति—भक्षयति यन्मधुन इति मन्त्रेण ।
मन्त्रार्थः ( कुत्सो जगती, मधुपर्कः प्राशने )—हे देवाः ! मधुनः यत् परमं—श्रेष्ठं, मधव्यं-स्वादु, यच्च परमं रूपं, यच्च अन्नाद्यं-समुचितभोज्यम् अन्नं वा, तेन सर्वरूपेण मधुनः मधव्येन—मधुनः उत्कृष्टरसेन, परमेण—उत्कृष्टरूपेण अन्नाद्येन च परमः उत्कृष्टः मधव्यः—मधुपर्काईः, अन्नादः—सदन्नभोक्ता, असानि—भवानि ।
मधुमतीभिर्वा प्रत्यृचम् । १-३-२२
अथवा मधुमतीभिः—मधुवाताऋतायतइत्यादिभिः तिसृभिः ऋग्भिः प्रत्यृचं सकृत् सकृत् प्राश्नाति । मन्त्रा यथा—
(१) मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः । शु. य. १३/२७
(२) मधुनक्तमुतोषसो मधुमत् पार्थिवꣳरजः । मधुद्यौरस्तु नः पिता । शु. य. १३/२८
(३) मधुमान्नो वनस्पति र्मधुमाँ अस्तु सूर्य्यः । माध्वीर्गावो भवन्तु नः । शु. य. १३/२६
( १५ )
पुत्रायान्तेवासिने वोत्तरत आसीनायोच्छिष्टं दद्यात् ।
१-३-२३
प्राशनानन्तरम् अर्च्चनीयस्य उत्तरतः — उत्तरस्यां दिशि, आसीनाय पुत्राय अन्तेवासिने—उपनयनप्रभृति-विद्यार्थित्वेन समीपे वर्त्तमानाय शिष्याय वा उच्छिष्टं—भोजनावशिष्टं मधुपर्कं दद्यात् ।
सर्वं वा प्राश्नीयात् । १-३-२४
प्राग् वासञ्चरे निनयेत् । १-३-२५
सर्वं-मधुपर्कं प्राश्नीयात् । अथवा प्राक् — प्राच्यां दिशि असञ्चरे—जनसंचारवर्जिते देशे, निनयेत्—प्रवाहयेत् ।
आचम्य प्राणान् संमृशति “वाङ् म आस्ये नसोः प्राणोऽक्षणो-श्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजोऽरिष्टानि मेऽङ्गानि-तनूस्तन्वा मे सहेति । १-३-२६
तत आचम्य — सकृत् आचमनं कृत्वा, प्राणान्—इन्द्रियाणि संमृशति—जलेन स्पृशति वाङ्म आस्य इत्यादि मन्त्रेण । वाङ्म आस्ये अस्तु इति जलसहितेन कराग्रेण मुखम् । नसोर्मे प्राणोऽस्तु इति तर्जन्यङ्गुष्ठाभ्यां युगपद् दक्षिणवामनासारन्ध्रे । अक्ष्णोर्मे चक्षुरस्तु इति मन्त्रावृत्त्या दक्षिणोत्तरकर्णौ । बाह्वोर्मे बलमस्तु इति मन्त्रावृत्त्या दक्षिणोत्तरौ बाहू । ऊर्वोर्मे ओजोऽस्तु इति युगपत् ऊरू । अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्तु इति शिरःप्रभृतीनि पादान्तानि सर्वाणि अङ्गानि उभाभ्यां हस्ताभ्याम् आलभते ।
आचान्तोदकाय शासमादाय गौरिति त्रिः प्राह । १-३-२७
आचान्तोदकाय—आचान्तम् उदकं येन स आचान्तोदकः तस्मै अर्ध्याय । अत्र तादर्थ्ये चतुर्थी । शासं – खड्गम् आदाय-गृहीत्वा, स्वयं यजमानः गौ—गौ—गौ रिति त्रिः—त्रिवारं, प्राह—ब्रवीति ।
( १६ )
प्रत्याह—“माता रुद्राणां दुहिता वसूनां स्वसादित्याना- ममृतस्य नाभिः। प्रणुवोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ठ। मम चामुष्य च पाप्मानँ हतोतीति यद्यालभेत। १-३-
ततोऽर्ध्यः मातारुद्राणामिति मन्त्रं पठित्वा मम च अमुक- शर्मणः यजमानस्य च पाप्मानं हतोसि इति प्रत्याह=वदति, यदि गाम् आलभते—व्यापादयति।
मन्त्रार्थः (ब्रह्मा त्रिष्टुप् गौः अभिमन्त्रणे)—इयं गौः रुद्राणां माता, रुद्रास्त्वेकादश। तदाह हेमाद्रौ योगियाज्ञवल्क्यः— “अजैकपादहिर्बुध्नो विरूपाक्षोथ रैवतः हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः एते रुद्राः समाख्याता एकादश सुरोत्तमाः ॥ इति
पुनश्चेयं गौः वसूनाम्—अष्टविधानां दुहिता कन्या, वसवश्चोक्ता मिताक्षरायाम् (२-१०२) धरो ध्रुव-स्तथा, सोम आपश्चैवानिलोऽनल । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥
पुनश्च सा आदित्यानां द्वादशसंख्याकानां स्वसा—भगिनी। आदित्या- श्चोक्ता हेमाद्रौ योगियाज्ञवल्क्येन— इन्द्रो धाता भगः पूषा मित्रोऽथ वरुणोऽर्यमा । अत्रिर्विवस्वांस्त्वष्टा च सविता विष्णुरेव च । एते वै द्वादशादित्या देवानां प्रवरा मताः ॥ इति
तथाचेयं गौः अमृतस्य—क्षीरादेः नाभिः—उत्पत्तिस्थानम् चिकितुषे- चेतनावते जनाय, प्रवोचम्—अहं ब्रवीमि, त्वं इमाम्—अनागाम्— अनपराधाम्, अदितिं—देवमातरम् अवध्यां वा, गां मावधिष्ठ—तु मारय, नु इति अनुनये। “नुस्यात् प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयोः" इति विश्वः ।
अथ यद्युत्सिसृक्षेन् मम चामुष्य च पाप्मा हत ओं ँ उत्सृजत तृणान्यत्त्विति ब्रूयात् । १-३-२९
उत्सर्गपक्षे—यदि गाम् उत्सिसृक्षेत्—न हत्वा उत्स्रष्टुमिच्छेत् तदा मम च अमुष्य—अमुकशर्म्मणो यजमानस्य च पाप्मा—पापं हतः—विनष्ट एव, ॐ उत्सृजत तृणान्यत्तु" इति ब्रूयात् । अत्र ॐ इत्यन्तम् उपांशु पठित्वा उत्सृजत तृणान्यत्तु इति उच्चैः ब्रूयात्—वदेत् ।
न त्वेवामां ँसोऽर्घः स्यात् । १-३-३०
मधुपर्के पक्षद्वयमुपन्यस्य गवालम्भनपक्षं द्रढयति । तु—किन्तु सत्यपि पक्षद्वये अर्घः—अर्चना अमांसः मांसवर्जितः पश्वालम्भरहितः न स्यात्—न भवेत् ।
आधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयान् । १-३-३१
अधियज्ञं—यज्ञमधिकृत्य यज्ञ इत्यर्थः । तथा अधिविवाहं—विवाहे कन्यादानकर्मणि, कुरुत—गवालम्भं कुरुत इति ब्रूयात्—वदेत् एव—निश्चयार्थे । अत्र कुरुत इति पदं प्रसिद्ध्या गवालम्भं कुरुत इति अर्थं प्रकाशयति गृह्यसूत्रान्तरेषु तथा प्रयोगात् ।
यद्यप्येवं मधुपर्के गवालम्भ आचाय्र्येण समर्थितः तथापि अस्वर्ग्यत्वात् लोकविद्विष्टत्वाच्च न विधेयः । "अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्नतु" १-१५६ इति याज्ञवल्क्येन निषिद्धत्वात् । शास्त्रान्तरेष्वपि गवालम्भः कलौ निषिद्धः ।
"अश्वालम्भं गवालम्भं संन्यासं पलपैतृकम् ।
देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥ इति ॥
यद्यप्यसकृत् सम्वत्सरस्य सोमेन यजेत कृताघ्र्या एवैनं याजयेयुर्नाकृताघ्र्या इति श्रुतेः । १-३-३२
यदि कश्चित्, सम्वत्सरस्य—सम्वत्सरस्य मध्ये, असकृत्—पुनः पुनः, सोमेन—ज्योतिष्टोमादिना यजेत, तदा ऋत्विजः एनं—
( १८ )
यजमानं कृतार्घ्याः—कृतः अर्घः येषां ते एव याजयेयुः,। कारणं चात्र निर्दिशति “नाकृताध्यांः इति श्रुतेः” अकृतार्घ्याः ऋत्विजः न याजयेयुरिति श्रुतिवचनात् ! एतेन सोमयागे एव ऋत्विजः अर्ध्याः न यागान्तरे इति ज्ञायते ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे तृतीयाकण्डिका ।।
चत्वारः पाकयज्ञा हुतोऽहुतः प्रहुतः प्राशित इति । १-४-१
पच्यते श्रप्यते ओदनादिकम् अनेनेति पाकः गृह्याग्निः । अस्मिन् पाके यज्ञाः पाकयज्ञाः । ते च चत्वारः—चतुष्प्रकारा भवन्ति । यथा—हुतः—होममात्रं, यथा सायं प्रातर्होमः । अहुतः—होमबलिरहितं कर्म यथा स्त्रस्तराारोहणम् । प्रहुतः—यत्र होमः बलिकर्म भक्षणं च यथा पक्षादिकर्म । प्राशितः—यत्र प्राशनमात्रं न होमः न वलिः, यथा ब्राह्मणभोजनम् । (सर्वासां गवां पयसि पायसश्रपणानन्तरं ब्राह्मणभोजनम् ।)
पञ्चसु बहिःशालायां विवाहे चूडाकरण उपनयने केशान्ते सीमन्तोन्नयने । १-४-२
पञ्चसु—पञ्चसु संस्कारकर्मसु, बहिःशालायां—मण्डपे कर्म भवति । केषु पञ्चसु इति प्रश्ने—विवाहे—परिणयने, चूडाकरणे—क्षौरकर्मणि, उपनयने—मेखलाबन्धे, केशान्ते—गोदानकर्मणि सीमन्तोन्नयने गर्भसंस्कारे । एषु पञ्चसु वहिःशालायां कर्म भवति । अन्यत्र गृहाभ्यन्तरे एव ।
उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय । १-४-३
उपलिप्ते—गोमयोदकेन उपलिप्ते, उद्धतावोक्षिते—उद्धतश्च अवोक्षितश्च उद्धतावोक्षितः तस्मिन् उद्धते— स्फ्येन उल्लिखिते,