पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
( १६ )
अवोक्षिते—उदकेन अभ्युक्षिते अर्थात् पञ्चभूसंस्कारसंस्कृते । यतः पञ्चभूसंस्कारविधेरयमनुवादः । नापूर्वविधिः । एवम्भूते प्रदेशे अग्निमुपसमाधाय—संस्थाप्य ।
निर्मन्ध्यमेके विवाहे । १-४-४
एके—एके आचार्याः विवाहे—विवाहसंस्कारे, निर्मन्ध्यम् आरणेयम् अग्निम् इच्छन्ति । नैतन्मतं पारस्कराचार्यस्य एके इति निर्देशात् ।
उदगयने आपूर्यमाणपक्षे पुण्याहे । १-४-५
उदगयने—उत्तरायणे, आपूर्यमाणपक्षे—शुक्लपक्षे पुण्याहे—ज्योतिःशास्त्रोक्तविष्ट्यादिदोषरहिते दिवसे ॥
कुमार्याः पाणिं गृह्णीयात् । १-४-६
कुमार्याः—अनन्यपूर्विकायाः वाचा मन्त्रेण वा न दत्तायाः कन्यायाः, पाणि—हस्तं, गृह्णीयात् स्वगृह्योक्तविधिना । अनेन विशति-प्रसूतायाः स्मृत्यन्तरविहितस्य पुनर्विवाहस्य न नियमः ।
त्रिषु त्रिषूत्तरादिषु । १-४-७
नक्षत्रनियममाह—उत्तरा आदि येषां तानि उत्तरादीनि, तेषु त्रिषु त्रिषु—उत्तराफाल्गुनीहस्ताचित्रा इति त्रीणि उत्तराषाढाश्रवणधनिष्ठा इति त्रीणि तथा उत्तराभाद्रपदारेवत्यश्विन्य इति त्रीणि इति एतेषु नवसु नक्षत्रेषु विवाहकर्म भवेत् ।
स्वातौ मृगशिरसि रोहिण्यां वा । १-४-८
एतेषां नक्षत्राणामन्यतमे विवाहं कुर्यादिति भावः ।
तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण । १-४-९
ब्राह्मणस्य—द्विजाग्र्यस्य, वर्णानुपूर्व्येण—वर्णक्रमेण तिस्रः—ब्राह्मणी क्षत्रिया वैश्या चेति तिस्रः विवाह्या भवन्ति ॥
( २० )
द्वे राजन्यस्य । १-४-१०
राजन्यस्य—क्षत्रियस्य द्वे—क्षत्रियावैश्ये विवाह्ये भवतः ।
एका वैश्यस्य । १-४-११
वैश्यस्य—तृतीयवर्णस्य एका—वैश्यैव विवाह्या भवति । वर्णानुपूर्व्या ग्रहणात् व्युत्क्रमो निषिद्धः ।
सर्वेषां शूद्रामप्येके मन्त्रवर्जम् । १-४-१२
एके आचार्याः सर्वेषां—ब्राह्मणादीनां शूद्रामपि, मन्त्रवर्जं मन्त्ररहिततया विवाह्यां मन्यन्ते । शूद्रापरिणयनं भोगार्थं न तु धर्मार्थं प्रजार्थं वेति हरिहरः । रामा रमणायोपेयन्ते न धर्माय कृष्णजातीया इति निरुक्तकारयास्काचार्यवचनात् ।
अथैनां वासः परिधापयति—जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रयिं च पुत्राननु संव्ययस्वायुष्मतीदंपरिधत्स्व वासः । १-४-१३
अथ—अग्निस्थापनानन्तरं वरः एनां विवाह्यां कन्यां वासः अहतं सदृशं वस्त्रं परिधापयति—परिहितं कारयति । वरः जरां गच्छेति मन्त्रं पठति, कन्या स्वयं परिधत्ते इति हरिहरः । पाकयज्ञेषु स्वयं यजमान एव कर्त्ता, न ऋत्विक् नान्यश्च प्रतिनिधिरिति स एव ।
मन्त्रार्थः (प्रजापतिः त्रिष्टुप् तन्तुदेव्यः परिधापने) हे आयुष्मति कन्ये ! त्वं जरां गच्छ—मया सह वृद्धावस्थां यावत् जीव । वासः—वस्त्रं, परिधत्स्व परिधेहि । आकृष्टीनाम्—इत्यत्र प्रथमार्ये षष्ठी । तेन आकृष्टी— मनोहारिणी भव । अभिशस्तिपावा— अभिशस्तिः शयनं तत्र पावा—पवित्रा भव, शरदः शतं—वर्षाणि च जीव—जीविता भव । सुवर्चाः — शोभनकान्तियुक्ता, सती रयिं — धनं, पुत्रान्— तनयान् च अनुसंव्ययस्व—धारयस्व । इदं वासः परिधत्स्व ।
( २१ )
अथोत्तरीयम्—"या अकृन्तन्नवयन् या अतन्वत । याश्च-
देवीस्तन्तूनभितो ततन्थ, तास्त्वा देवीर्जरसे संव्ययस्वायुष्मतीदं
परिधत्स्ववास इति । १-४-१४
अथ—अनन्तरं, पूर्ववत् उत्तरीयम् परिधापयति वरः या अकृन्त-
न्निति मन्त्रेण ।
मन्त्रार्थः ( प्रजापतिः गायत्री विधात्र्यः वस्त्रधारणे )—हे
कन्यके ! याः देवीः—देव्यः, अत्र प्रथमाथे द्वितीया । तन्तून्—सूत्रतन्तून्
अकृन्तन्—कर्त्तितवत्यः याः—अवयन्—वयनं कृतवत्यः या अतन्वत—
विस्तारितवत्यः याश्च तन्तून्—पूर्वोक्ततन्तून्, अभितः—ओतप्रोतभावेन
ततन्थ—तेनुः ताः देवीः—देव्यः त्वा—त्वां जरसे—निर्दुष्टचिरजीवनाय
संव्ययस्व — परिधापयन्तु । हे आयुष्मति ! इदं वासः — वस्त्रं
परिधत्स्व—उत्तरीयरूपेण परिधेहि ।
अथैनौ समञ्जयति—समञ्जन्तु विश्वेदेवाः समापो हृदयानि
नौ । सम्मातरिश्वा सन्धाता समुदेष्ट्री दधातु नौ इति । १-४-१५
अथ—वस्त्रपरिधानान्तरं कन्यापिता एनौ—वधूवरौ “परस्परं
समञ्जेथाम्” इति प्रैषेण समञ्जयति—सम्मुखीकरोति । तत्र वरः
कन्यायाः सम्मुखीभूतः समञ्जन्तु विश्वेदेवा” इत्यादिमन्त्रं पठति ।
मन्त्रार्थः (आथर्वणः अनुष्टुप् लिङ्गोक्ता मैत्रीकरणे)—हे कन्ये !
नौ—आवयोः, हृदयानि—मनांसि विश्वेदेवाः आपश्च समञ्जन्तु —
परस्परमनुकूलानि कुर्वन्तु । मातरिश्वा—पवनः, धाता — प्रजापतिः,
उदेष्ट्रीदेवता—कामश्च आवयोः हृदयानि सन्दधातु—संयोजयतु ।
अत्र वरकन्योभयवर्गस्य स्वजनानुकूल्यापेक्षया हृदयशब्दस्य बहुवचनम् ।
समञ्जनानन्तरं कन्यादानम् ।
( २२ )
कन्यादानविधिः यथा—
वरगोत्रं समुच्चार्य्य प्रपितामहपूर्वकम् ।
नाम संकीर्त्तयेद् विद्वान् कन्यायाश्चैवमेव हि ॥
यथा— अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः प्रपौत्राय अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः पौत्राय अमुकसगोत्रस्यामुकप्रवरस्यामुक शर्म्मणः पुत्राय इति वरपक्षे ततः अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः प्रपौत्रीं अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः पौत्रीम् अमुकसगोत्रस्यामुकप्रवरस्यामुकशर्म्मणः पुत्रीम् इति वारत्रयमुच्चार्य्य अमुकसगोत्राय अमुकप्रवराय अमुकशर्म्मणे ब्राह्मणाय अथवा अमुकवर्मणे, अमुकगुप्ताय इति विशेषः, अमुकसगोत्राम् अमुकप्रवराम् अमुकनाम्नीमिमां कन्यां प्रजापतिदेवतां यथाशक्त्यलंकृतां पुराणोक्तकन्यादानफलकामो भार्यात्वेन तुभ्यमहं सम्प्रददे इति सकुशल जलेन कन्याहस्तं वरहस्ते दद्यात् । वरश्च 'द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णातु' इति मन्त्रेण प्रतिगृह्णीयात् । ततः “कोदात्” इत्यादिकामस्तुति पठेत् ।
पित्रा प्रत्तामादाय गृहीत्वा निष्क्रामति—यदेषि मनसा दूरं दिशोऽनु पवमानो वा । हिरण्यपर्णो वैकर्णः स त्वा मन्मनसां करोत्वित्यसौ इति । १-४-१६
उक्तेन विधिना पित्रा—कन्यापित्रा कन्यादानाधिकारिणा प्रत्तां भार्यात्वेन प्रदत्तां कन्याम् आदाय—स्वीकृत्य गृहीत्वा—हस्तावच्छेदे धृत्वा अग्निसमीपं निष्क्रामति वरः "यदेषि" इत्यादि मन्त्रेण ।
मन्त्रार्थः (आथर्वणः अनुष्टुप् पवमानः निष्क्रमणे)— हे कन्ये ! त्वं यत् मनसा पवमानः—पवनः, वा-इव दिशः—अनु—अनुलक्ष्यीकृत्य दूरं—दूरदेशम् एषि—गच्छसि, ततः दूरदेशगमनव्यापारात् पवमानः, स—हिरण्यपर्णः—सुवर्णपक्षः, वैकर्णः—विकर्णपुत्रः गरुडः त्वा—त्वां कन्यां मन्मनसां मद्गतचित्तां करोतु । अथवा वाशब्दः समुच्चयार्थः । तेन पवमानः गरुडश्चत्वा मन्मनसं करोतु इति ।
( २३ )
अथैनौ समीक्षयति—
१) “अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
वीरसूर्देवकामा स्योना शन्नोभव द्विपदे शं चतुष्पदे ॥
२) सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥
३) सोमोऽददद् गन्धर्वाय गन्धर्वोऽदददग्नये ।
रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥
४) सा नः पूषा शिवतमा मैरय सा न ऊरू उशती विहर ।
यस्यामुशन्तः प्रहराम शेपँ यस्या मुकामा बहवो निविष्ट्या ॥
इति १-४-१७
अथ—निष्क्रमणानन्तरं “परस्परं समीक्षेथाम्” इति प्रैषेण कन्यापिता एनौ—वधूवरौ समीक्षयति—समीक्षणं कारयति । तत्र समीक्षमाणो वरः “अघोरचक्षु”रित्यादिमन्त्रचतुष्टयं पठति ।
**मन्त्रार्थः (प्रजापतिः त्रिष्टुप्, कुमारी समीक्षणे)—**हे कन्ये ! त्वम् अघोरचक्षुः— न घोरे चक्षुषी यस्याः सा तथाविधा एधि—भव, । तथा अपतिघ्नी—न पतिघ्नी भव पुनश्च पशुभ्यः—गोमहिषादिगृहपालितपशुभ्यः शिवा—कल्याणकारिणी सुमनाः—शोभनं मनः यस्याः सा, शोभनमनस्का, सुवर्चाः—सु—शोभनं वर्चः कान्तिः यस्याः सा सुकान्तिरित्यर्थः, वीरसूः—वीरं पुत्रं प्रसूते इति वीरसूः—पुत्रवती, देवकामा—देवभक्ता स्योना—सुखिनो, पुनरपि नः—अस्माकं द्विपदे—मनुष्यवर्गाय, चतुष्पदे—पशुवर्गाय शं—सुखहेतु र्भव ।
(२) (प्रजापतिः अनुष्टुप्, कुमारी समीक्षणे) हे कन्ये ! त्वां—कन्यां सोमः—चन्द्रः, प्रथमः—आद्यः प्रथमपतित्वेनेत्यर्थः विविदे—लब्धवान् । ततः उत्तरः—परवर्त्ती गन्धर्वः,—देवताविशेषः विविदे,—लब्धवान् । ततः अग्निः प्रसिद्धः, स च तृतीयः पतिः त्वां विविदे, मनुष्यजाः—मनुष्यकुले जातः अहं तव चतुर्थः पतिः अस्मि ।
( २४ )
(३) (प्रजापतिः त्रिष्टुप् कुमारी समीक्षणे)—हे कन्ये ! सोमः-तव प्रथमपतिः त्वां गन्धर्वाय अददत्—अददात्, गन्धर्वश्च अग्नये-तृतीयवराय अददत्—दत्तवान् । अथो—अनन्तरम् अग्निः मह्यं-चतुर्थवराय इमां—कन्यां त्वां, न केवलं त्वाम् अपितु रयिं—धनं पुत्रांश्च अदात्—दत्तवान् ।
(४) (प्रजापतिः त्रिष्टुप् कुमारी समीक्षणे) हे कन्ये ! सा-सर्वलोकप्रसिद्धा पूषा शिवतमां—कल्याणगुणसंपन्नां त्वां, मां प्रति ऐरय—प्रेरयतु । सा त्वम् च उशती—कामयमाना, नः—अस्मान् प्रति ऊरू—ऊरुद्वयं विहर प्रसारय । उशन्तः—कामयमाना वयं यस्यां शेप॑—जननेन्द्रियं प्रहराम । यस्यां—त्वयि च बहवः कामाः—अभिलाषाः धर्मपुत्ररतिसुखरूपाः, निविष्टैच—निवेशिताः ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे चतुर्थी कण्डिका ।
प्रदक्षिणमग्निं पर्याणीयैके । १-५-१
एके—एके आचार्याः परि—परितः प्रदक्षिणं यथा—स्यात्तथा आनीय, अर्थात् अग्नेः प्रदक्षिणं कारयित्वा वासः—परिधानं समञ्जनं समीक्षणं च मन्यन्ते । एके न मन्यन्ते । अतो विकल्पः ।
पश्चादग्नेस्तेजनीं कटं वा दक्षिणपादेन प्रवृत्त्योपविशति १-५-२
समीक्षणानन्तरं वरः अग्निं प्रदक्षिणीकृत्य, अग्नेः पश्चात्—पश्चिमभागे तेजनीं—तृणपूलिकां, कटं—तृणमयं संस्तरं वा दक्षिणपादेन प्रवृत्त्य—आक्रम्य उपविशति प्राङ्मुखः सन् सवधूकः, उभयोर्वरकन्ययोः संस्कार्यत्वात् ।
( २५ )
अन्वारब्ध आधारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्यं स्विष्टकृच्च ॥ १-५-३ ॥
ततः होमारम्भे अन्वारब्धे — वरस्य दक्षिणहस्ते ब्रह्मणा कुशेन स्पृष्टे, वरः आधारौ आज्यभागौ च तान् पूर्वोक्तान् तथा महाव्याहृतयः भूर्भुवःस्वरितित्रिभिर्महाव्याहृतिभिराहुतित्रयम् तथा सर्वप्रायश्चित्तं "त्वं नो अग्ने, स त्वं नो अग्ने, अयाश्चाग्ने, ये ते शतम्, उदुत्तममिति पञ्चभिर्मन्त्रैः सर्वप्रायश्चित्तसंज्ञकाः पञ्चाहुतयः तथा प्राजापत्यं— प्रजापतये स्वाहा इति प्रजापतिदेवताको होमः, स्विष्टकृत् — स्विष्ट-कृद्धोमश्चेत्येतान् सर्वान् जुहुयात् ॥
एतन्नित्यं सर्वत्र ॥ १-५-४ ॥
एतत् — आधारादि, स्विष्टकृदन्तं होमकर्म, सर्वत्र — सर्वेषु होमेषु नित्यम् । यत्र होमाभावः यथा स्रस्तरारोहणलाङ्गल्योजन-पायसब्राह्मणभोजनानि तत्रे नास्ति ।
अन्ते विहितस्य स्विष्टकृद्धोमस्य कर्मविशेषे स्थानान्तरमाह—
प्राङ् महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविः ॥ १-५-५ ॥
महाव्याहृतिभ्यः — भूरादिमहाव्याहृतिहोमेभ्यः प्राक् — पूर्वं स्विष्टकृत् — स्विष्टकृद्यागः, चेद् — यदि आज्यात् — घृतात् अन्यच्चरु-प्रभृति हविः — हवनीयं भवति । केवलाज्ययागे सर्वाहुतिशेषे स्विष्टकृद्धोमः, अन्यत्र महाव्याहृतिहोमात् पूर्वमिति सारः ।
सर्वप्रायश्चित्तप्राजापत्यान्तरमेतदावापस्थानं विकल्पे ॥ १-५-६ ॥
सर्वप्रायश्चित्तं — पूर्वोक्तं "त्वं नो अग्ने इत्यादिभिः पञ्चभिर्मन्त्रै-राहुतिपञ्चकम् । प्राजापत्यं— प्रजापतये स्वाहेति प्रजापतिविहित...
( २६ )
सर्वप्रायश्चित्तं च प्राजापत्यश्च सर्वप्रायश्चित्तप्राजापत्यौ । तयो अन्तरं—मध्यं सर्वप्रायश्चित्तप्राजापत्यान्तरम् । एतत्—स्थानं विवाहे—विवाहहोमकर्मणि, आवापस्थानम्—अन्यत्र विहितस्य जयादिहोमस्य कर्मान्तरप्रक्षेपः आवापः । तस्य आवापस्य स्थानमिदमिति भावः । यद्यपि आवापस्य आगन्तुकत्वेन अन्ते निवेशो युक्तस्तथापि अत्र तथा न भवति ।
राष्ट्रभृत इच्छन् जयाभ्यातानांश्च जानन् । १-५-७
इच्छन्—राष्ट्रभृतादीनां होमफलं कामयमानः, राष्ट्रभृतः—राष्ट्रभृत्संज्ञका आहुतीः जयाभ्यातानान्—जयाश्च अभ्यातानाश्च जयाभ्यातानाः तान् जयाभ्यातानान् च आवपेत् । अत्र प्रमाणमाह—
जानन् येन कर्मणेत्सेदिति वचनात् । १-५-८
येन—क्रियमाणेन कर्मणा ऋद्धिमित्सेत्—इच्छेत् तत्र जयान् जुहुयात् इति वचनात् जयाहोमेन समृद्धिर्भवतीति जानन् जयाहोमं कुर्यादिति शेषः । जयाहोममन्त्रानाह—
चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञातं च विज्ञातिश्च मनश्च शक्वरीश्च दर्शश्च पूर्णमासं च बृहच्च रथन्तरं च । प्रजापतिर्जयानन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाजयेषु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इ हव्यो बभूव स्वाहा इति । १-५-६
चित्तं च चित्तिश्चेत्यादीनि रथन्तरपर्य्यन्तानि न देवतापदानि अपितु मन्त्राः । अतएव यथाम्नाता एव होमे प्रयुज्यन्ते । ये तु चतुर्थ्यन्तानां तेषां प्रयोगमिच्छन्ति तदसङ्गतम् ।
प्रजापतिरित्यादिमन्त्रस्य अर्थः (परमेष्ठी, त्रिष्टुप्, इन्द्रः जयाहोमे)—प्रजापतिः—परमेश्वरः, जयान्—जयन्ति शत्रून् इति जयाः
( २७ )
तान् मन्त्रान्, वृष्णे—अभिमतवर्षरणशीलाय इन्द्राय प्रायच्छत्—ददौ । ततः स पृतनाज्येषु—शत्रुसैन्यजयकर्मणि उग्रः—प्रचण्डः वभूव इति शेषः । तस्मै—इन्द्राय सर्वाः विशः—प्रजाः समनमन्त—सम्यक् नेमुः । स—इन्द्रः इ—च, हव्यः—हवनीयः इज्यः वभूव । स्वाहा—तस्मै सुहुतमस्तु । एते चित्तादित्रयोदशमन्त्राः जयासंज्ञकाः ।
अथ अभ्यातानसंज्ञकान् मन्त्रानाह—
अग्निर्भूतानामधिपतिः स माऽवत्विन्द्रो ज्येष्ठानां, यमः पृथिव्या, वायुरन्तरिक्षस्य, सूर्य्योदिवश्चन्द्रमा नक्षत्राणां, बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां, वरुणोऽपा ँ, समुद्रः स्रोत्याना-मन्नं साम्राज्यानामधिपति, तन्मावतु, सोम ओषधीना ँ, सविता प्रसवाना ँ, रुद्रः पशूनां, त्वष्टा रूपाणां, विष्णुः पर्वतानां,, मरुतो गणानामधिपतयस्ते माँवन्तु पितरः पितामहाः परेवरे तता-स्ततामहाः । इह मावन्त्वस्मिन् ब्रह्मरणमस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ँ स्वाहेति सर्व्वत्रानु-षजति । १-५-१०
अग्निर्भूतानामधिपतिरित्यादयः अष्टादश मन्त्रा अभ्यातान-संज्ञकाः । अग्निभूतानामित्यादि “सुगं नु पन्थामित्यन्ता द्वाविंशति-रभ्याताना इति कर्काचार्य्याः । अग्निभूतानामधिपतिरित्यादिषु अष्टादशसु मन्त्रेषु सर्वत्र समावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्या-माशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्याँ स्वाहा इति वाक्यैकदेशं यथालिङ्गं यथावचनम् अनुषजति—संयुनक्ति ।
मन्त्रार्थः—अग्निः भूतानां स्थावरादीनाम् अधिपतिः—ईशः, स मा—माम् अवतु—रक्षतु क्व ? अस्मिन् ब्रह्मणि—ब्रह्मकर्मणि होमादौ, अस्मिन् क्षत्रे—क्षत्रियकर्मणि प्रजापालनादौ, अस्याम् आशिषि-
( २८ )
अस्यास्ये अर्के—अस्यां पुरोधायो—पुरोनिहितायां कन्यायाम्, अस्मिन् कर्मणि—विवाहकम्मणि, अस्यां देवहूत्यां—देवाह्वानकर्मणि होमे वा । एतेषु सर्वत्र असितः अवतु ! स्वाहा—सुहुतमस्तु । ब्रह्मणः—वेदस्य स्रोत्यानां—नदीनाम् । पितरः, पितामहाः, परे—प्रपितामहाः, अचरे वृद्धप्रपितामहाः, ततः—तत्पश्चात् पूर्वर्वाशनः—ततामहः—तंतोऽपि पूर्वतरा इति पित्रा दयः षट् पुरुषा अत्र उक्ता इति शत्रुघ्नः ।
अग्निरेतु प्रथमो देवताना सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेय स्त्री पौत्रमघं न रोदात् स्वाहा । १-५-११ (क)
'अग्निरेतु' इत्यादयः 'सुगं नः पन्था' इत्यन्ताश्चत्वारः होममन्त्राः । तैः प्रत्येकमेकैका आहुतिः देया ।
मन्त्रार्थः—(ऋतूणां प्रजापतिः त्रिष्टुप् लिङ्गोक्त आज्यहोमे)— देवतानाम्—इन्द्रादीनां, प्रथमः—मुख्यः अग्निः ऐतु—आ एतु आगच्छतु । सः अग्निः अस्यै—अस्याः कन्यायाः, अत्र षष्ठ्यर्थे चतुर्थी । प्रजां—पुत्रं कन्यौंच, मृत्युपाशात्—मृत्युरूपबन्धनौत् मुञ्चतु—मोचयतु तत्—प्रजामोचनम् अयं राजा वरुणः अनुमन्यतां—स्वीकरोतु । अथ इयं स्त्री पौत्रं—पुत्रसम्बन्धि अघं—दुःखं प्राप्य नरोदात्—नरोदिष्यति इति प्रार्थना ।
इमामग्निस्रायतं गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामिय स्वाहा । १-५-११ (ख)
मन्त्रार्थः—गार्हपत्यः अग्निः इमां—कन्यां त्रायताम् । अस्यै—अस्याः, अत्र षष्ठ्यर्थे चतुर्थी, प्रजां दीर्घमायुः—चिरजीवित्वं नयतु—प्रापयतु । पुनश्चेयम् अशून्योपस्था—सफलप्रसवा तथा च जीवतां मात
( २६ )
जीवद्वत्सा अस्तु । पौत्रं—पुत्रलाभहेतुकम् आनन्दम्—आह्लादम्, अभिविवुध्यताम्—आभिमुख्येन अनुभवतु ।
स्वस्ति नो अग्ने दिव आ पृथिव्या विश्वानि धेह्ययथा यजत्र। यदस्यां महि दिवि जातं प्रशस्तं तदस्मासु द्रविणं धेहि चित्रँ स्वाहा। १-५-११ (ग)
मन्त्रार्थः- यजन्तं त्रायत इति यजत्रः । हे यजत्र अग्ने ! त्वं नः—अस्माकं, विश्वानि—सर्वाणि, अयथा—अयथा कृतानि कर्माणि, स्वस्ति—सम्पूर्णानि, धेहि—स्थापय । किं च दिव आ—स्वर्गलोक-मभिव्याप्य, पृथिव्या आ—पृथिवीलोकमभिव्याप्य सर्वाणि कल्याणानि अस्मासु स्थापय । किं च यत् अस्यां—पृथिव्यां यच्च दिवि—स्वर्गलोके जातं, प्रशस्तं महि—महनीयं, चित्रं—नानारूपं, द्रविणं—धनं, तत् अस्मासु धेहि—स्थापय ।
सुगं नु पन्थां प्रदिशन्न एहि ज्योतिष्मद्धेह्यजरं न आयुः । अपैतु मृत्युरमृतं न आगाद् वैवस्वतो नो अभयं कृणोतु स्वाहा इति । १-५-११ (घ)
हे अग्ने ! नः—अस्माकं, सुगं—सुखेन गम्यते इति सुगं—सुखगम्यं पन्थां—पन्थानं प्रदिशन्—उपदिशन् एहि-आगच्छ । हे ज्योतिष्मन् अग्ने अजरं—जरारहितम् आयुः—जीवनकालं नः—अस्माकं धेहि—स्थापय । पुनश्च नः—अस्माकं मृत्युः अपैतु—अपगच्छतु । अमृतं मोक्षः आगात्—आगछ वैवस्वतः—यमः नः-अस्माकम् अभयं कृणोतु—करोतु, स्वाहा—सुहुतमस्तु । नु—अनुनये । "न आगात्" स्थाने "म आगाद् इति पाठो वैकल्पिकः ।
परं मृत्यविति चैके प्राशनान्ते । ५-५-१२ एके—आचार्याः परं मृत्यविति मन्त्रेण एकां आहुतिं च प्राशनान्ते
( ३० )
संस्रवप्राशनान्ते जुहुयात् इति मन्यन्ते । परंमृत्यवित्यस्य संपूर्णः पाठ यथा— परं मृत्यो अनुपरेहि पन्थां यस्ते अन्य इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिष मोत वीरान् स्वाहा ॥ इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे पञ्चमी कण्डिका ॥
कुमार्य्या भ्राता शमीपलाशमिश्रांल्लाजानञ्जलिनाऽञ्जलावावपति । १-६-१
कुमार्य्याः—कन्यायाः भ्राता शमीपलाशमिश्रान्—शमीपत्रयुक्तान् लाजान्—भृष्टानि धन्वानि, अञ्जलिना कृत्वा कन्याया अञ्जलौ आवपति—निक्षिपति ।
ताञ्जुहोति संहतेन तिष्ठती—
१) अर्यमणं देवं कन्याऽग्निमयक्षत । स नो अर्यमा देवः प्रेतो मुञ्चतु मा पतेः स्वाहा ॥
२) इयं नार्युपब्रूते लाजानावपन्तिका । आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा ॥
३) इमां लाजानावपाम्यग्नौ समृद्धिकरणं तव । मम तुभ्यं च संवननं तदग्निरनुमन्यतामियँ स्वाहा ॥ इति-१-६-२
सा कन्या तान्—पूर्वोक्तान् भ्रातृदत्तान् लाजान् संहतेन-मिलितेन अञ्जलिना तिष्ठती—दण्डायमाना सती जुहोति अर्यमणमित्यादिमन्त्रैः । तत्र अर्यमणं देवम् इति प्रथमम् । इयं नार्य्यपब्रूते इति द्वितीयम् । इमां लाजाना इति तृतीयम् इति आहुतित्रयम् ।
( ३१ )
मन्त्रार्थः—(त्रयाणाम् आथर्वणोऽनुष्टुप् अग्निः लाजहोमे)— इयं कन्या अर्यमणं—सूर्य्यं देवम्, अग्निम्—अग्निरूपम्, अयक्षत— पूजयति । अर्यमा देवः नः—कन्याः इतः—पितृकुलात् प्रमुञ्चतु— मोचयतु । पतेः—पत्युः सकाशात् मा—न प्रमुञ्चतु । स्वाहा— सुहुतमस्तु ।
(२) अग्नौ लाजान् आवपन्तिका—प्रक्षिपन्ती इयं नारी— कन्या उप—वरसमीपे ब्रूते—कथयति । मे—मम पतिः आयुष्मान् अस्तु । मम ज्ञातयः एधन्तां—वर्द्धन्ताम् ।
(३) हे पते ! इमान् लाजान्—भृष्टव्रीहीन् तव समृद्धिकरणं— तव समृद्धये अग्नौ आवपामि—जुहोमि । मम—कन्यायाः तुभ्यं— वरस्य च संवननं—वशीकरणम् अग्निः अनुमन्यतां—स्वीकरोतु । इयं स्वाहा—अग्निपत्नी च अनुमन्यताम् । तुभ्यमितिषष्ठ्यर्थे चतुर्थी ।
अथास्यै दक्षिणं हस्तं गृह्णाति सङ्गुष्ठम्—
१) “गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टि- र्यथाऽसः । भगोऽर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ।
२) अमोहमस्मि सा त्वॐ सा त्वमस्यमोऽहम् । सामाहमस्मि ऋक् त्वं द्यौरहं पृथिवी त्वं तावेहि विवहावहै सह रेतोदधावहै प्रजां प्रजनयावहै पुत्रान् विन्द्यावहै बहून् । ते सन्तु जरदष्टयः संप्रियौ रोचिष्णू सुमनस्य मानौ पश्येम शरदः शतं जीवेम शरदः शत ॐ शृणुयाम शरदः शतमिति । १-६-३
अथ—लाजहोमानन्तरम् अस्यै—अस्याः कन्यायाः साङ्गुष्ठम्- अङ्गुष्ठसहितं दक्षिणहस्तं गृह्णाति वर। स्वदक्षिणहस्तेन 'गृह्णामि ते' इत्यादिभिर्मन्त्रैः ।
( ३२ )
१) मन्त्रार्थः (याज्ञवल्क्यः त्रिष्टुप् लिङ्गोक्ता हस्तग्रहणे) ते— तव कन्यायाः हस्तं सौभगत्वय — सौभाग्यलाभाय गृह्णामि— गृह्णामि । मया—पत्या सह जरदष्टिः—वृद्धा, आसः—भवसि । जरदं वार्द्धकम् अश्नुते व्याप्नोतीति जरदष्टिः । भगः अर्यमा सविता पुरन्धिः एते देवाः त्वा— कन्यां मह्यं—वराय गार्हपत्याय— गृहस्थाश्रमाय अदुः—दत्तवन्तः । भगो धर्मः, पुरन्धिरिन्द्रो वरुणो वेति नैरुक्ताः ।
(२) (भरद्वाज उष्णिक् विष्णुः हस्तग्रहणे) हे कन्ये ! अहं — वरः अमः—मा लक्ष्मीर्नास्ति यस्य सः अमः लक्ष्मीहीनः अस्मि—भवामि । त्वं—कन्या सा—लक्ष्मीः असि—भवसि । त्वं च सा, अहम् अमः — लक्ष्मीहीनः अस्मि । अहं साम—सामवेदः अस्मि त्वम् ऋग्वेदोऽसि । अहं द्यौः—स्वर्गलोकः अस्मि । त्वं कन्या पृथिवीअसि । एहि आगच्छ। तौ आवां विवहावहै—विवाहं करवावहै सहरेतो दधावहै सहितौ भूत्वा रेतोरूपं पुत्रं धारयावः । प्रजां—सन्तति प्रजनयावहै—उत्पादयावः । बहून् पुत्रान् विन्दावहै—लभावहै । ते—पुत्राः जरदष्टयः—चिरजीविनः सन्तु—भवन्तु । आवां च संप्रियौ—परस्परप्रीतियुक्तौ, रोचिष्णू—दीप्तौ, सुमनस्यमानौ—शोभनमनस्कौ स्यावः । वयं च सर्वे पुत्रादिसहिताः शरदः शतं—शतं वर्षाणि जीवेम पश्येम शृणुयाम ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे षष्ठी कण्डिका ॥
—X—
( शिलारोहणम् )
अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन—
आरोहेममश्मानमश्मेव त्वं स्थिरा भव ।
अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इति । १-७-१
अथ—पाणिग्रहणानन्तरम् एनां—वधूम् । अश्मानं—दृषदम् अग्नेरुत्तरतः वर्त्तमानं दक्षिणपादेन कृत्वा आरोहयति वरः “आरोहेममिति मन्त्रेण ।
( ३३ )
मन्त्रार्थः (आथर्वणः अनुष्टुप् वधूः अश्मारोहणे)—हे कन्ये !
इमं पुरः वर्त्तमानम् अश्मानं—प्रस्तरम् आरोह । त्वं—वधूः अश्मेव
पाषाणवत् स्थिराभव । किं च पृतन्यतः—पृतनां सेनां अर्थात् संग्रामम्
इच्छन्ति पृतन्यन्ति इति पृतन्यन्तः, तान् पृतन्यतः शत्रून् इत्यर्थः ।
पुनश्च पृतनायतः पृतनया—सेनया सह आयतः - आगच्छतः, तादृशान्
शत्रून् अवबाधस्व—खण्डय पराजितान् कुरु इत्यर्थः ।
( गाथागानम् )
अथ गाथां गायति—
१) सरस्वति प्रेदमव सुभगे वाजिनीवती ।
यां त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः ॥
२) यस्यां भूतꣳ सम्भवद् यस्यां विश्वमिदं जगत् ।
तामद्य गाथां गास्यामि या स्त्रीणामुत्तमं यश इति ॥ १-७-२
अथ—अश्मारोहणानन्तरं गाथां—"सरस्वति प्रेदम्बे" तिरूपां गायति
वरः ।
१) मन्त्रार्थः ( विश्वावसुः अनुष्टुप् सरस्वतीगाने )— हे सुभगे
कल्याणि सरस्वति ! —वाग्देवते ! , वाजिनीवती—वाजः—अन्न
तद्वती त्वम् इद—विवाहकर्म प्राव— प्रकर्षेण अव पालय । यां—प्रसिद्धां
त्वा — त्वां सरस्वतीम् अस्य, विश्वस्य—सर्वस्य भूतस्य — जातस्य
अग्रतः—प्रथमां प्रजा यां—प्रकृष्टां जनित्रीम् आहुः—वदन्ति ।
२) यस्यां—प्रकृतिरूपायां त्वयि भूतं—प्राचीनं जगत् लीना
आसीत् । यस्यां—त्वयि च इदं—दृश्यमानं जगत्— स्थावरजङ्गमात्मकं
यत् पूर्वं लीनम् आसीत् तत् पुनः सृष्टिकाले सम्भवत्—सम्बभूव ।
तां—प्रसिद्धां गाथां—गीयते स्तूयते अनया इति गाथा, गान् तिष्ठत्य-
स्यामिति वा गाथा ताम्, अद्य—संप्रति गास्यामि, या—गाथा स्त्रीणाम्
उत्तमं यशः । या गाथा श्रुता सतीस्त्रीणां कीर्त्ति वर्द्धयति ।
( ३४ )
( अग्निपरिक्रमणम् )
अथ परिक्रामतः "तुभ्यमग्रे पर्यंवहन् सूर्यां वहतु ना सह। पुनः पतिभ्यो जायां दाग्ने प्रजया सहेति। १-७-३
अथ—गाथागानानन्तरम् अग्निं प्रादक्षिण्येन् परिक्रामतः— परितः भ्रमतः वधूवरौ "तुभ्यमग्रे" इति मन्त्रेण । अत्र वरः मन्त्रं पठति । मन्त्रपाठान्ते परिक्रमणमिति हरिहरः । मन्मतेतु परिक्रमणसमकाल एव मन्त्रपाठः । तयोर्विरोधाभावात् ।
मन्त्रार्थः ( आथर्वणः अनुष्टुप् अग्निः तत्प्रादक्षिण्ये )—हे अग्ने ! तुभ्यं त्वदर्थमेव सोमादयः अग्रे—जन्मप्रभृति एनां सूर्यां— सूर्यवत् दीप्तिमतीं कन्यां पर्यवहन्—परिगृहीतवन्तः । सम्प्रति ना— मनुष्यः त्वया सह वहतु—उद्वहतु । पुनः पतिभ्यः—मह्यमित्यर्थः जायां—भार्या प्रजया—सन्तत्या सह दाः—देहि ।
एवं द्विरपरं लाजादि । १-७-४
एवम्—उक्तप्रकारेण द्विः—द्विवारम् अपरं—पुनरपि लाजादि— कुमार्य्या भ्रातेत्यारभ्य अग्निपरिक्रमणान्तं कर्म भवति । अर्थात् लाजहोम — शिलारोहण — गाथागानाग्निपरिक्रमणानि यथाक्रमं वारत्रयं विधेयानि ।
चतुर्थं शूर्पकुष्ठ्या सर्वांल्लाजानावपति–भगाय स्वाहेति १-७-५
तृतीयपरिक्रमणानन्तरं — चतुर्थवारं शूर्पकुष्ठ्या—शूर्पकोणेन सर्वान् लाजान् होमावशिष्टान् कुमार्य्या भ्राता कुमार्य्या अञ्जलौ आवपति—निक्षिपति । कन्या च तान् लाजान् "भगाय स्वाहा" इति मन्त्रेण वह्नौ प्रक्षिपति ।
( ३५ )
त्रिः परिणीतां प्राजापत्यँ हुत्वा । १-७-५
ततः प्राजापत्यं — प्रजापतिदेवताकं प्रजापतये स्वाहा इति हुत्वा—होमं कृत्वा त्रिः—त्रिवारं परिणीतां—वह्नेः प्रादक्षिण्यपरिक्रमणेन आनीतां कन्यां सप्तपदानि प्रक्रामयति वरः ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे सप्तमी कण्डिका ।!
( सप्तपदीप्रक्रमः )
अथैनामुदीचीं सप्तपदानि प्रक्रामयति—
एकमिषे, द्वे ऊर्जे त्रीणि रायस्पोषाय चत्वारि मायोभवाय पञ्च पशुभ्यः षड् ऋतुभ्यः सखे सप्तपदा भव सा मामनुव्रता भव
१-८-१
विष्णुस्त्वा नयत्विति सर्वत्रानुषजति । १-८-२
अथ— प्राजापत्यहोमानन्तरम् एनां — त्रिपरिणीतां वधूम् उदीचीम्—उत्तरां दिशं प्रति उदङ्मुखीं कृत्वा सप्तपदानि प्रक्रामयति—सप्तवारपादचालनानि कारयति वरः “एकमिषे” इत्यादिभिः सप्तभिर्मन्त्रैः यथा “एकमिषे विष्णुस्त्वा नयतु इति वरेण उक्ते वधूः एक पदम् उदक् दधाति । एवं द्वे ऊर्जे विष्णुस्त्वा नयतु इत्युक्ते द्वितीयम् । “त्रीणि रायस्पोषाय विष्णुस्त्वानयतु इत्युक्ते तृतीयम् । चत्वारि-मायोभवाय विष्णुस्त्वा नयतु इत्युक्ते चतुर्थम् । पञ्चपशुभ्यो विष्णुस्त्वा नयतु इति पञ्चमम् । षड्ऋतुभ्यो विष्णुस्त्वा नयतु इति षष्ठम् । सखे सप्तपदा भव सा मामनुव्रता भव विष्णुस्त्वा नयतु इत्युक्ते सप्तमं पदम् उत्तरां दिशं प्रति प्रक्षिपति ।
सर्वत्र—एकमिषे इत्यादिषु सप्तसु विष्णुस्त्वानयतु इति एकदेशम् अनुषजति—सम्बध्नाति ।
( ३६ )
मन्त्रार्थः ( सर्वत्र प्रजापतिः यजुः लिङ्गोक्ता प्रक्रामणे ) --इषे
अन्नाय, ऊर्जे—बलाय, रायस्पोषाय—धनपुष्टये धनवृद्ध्यर्थम् । मायो-
भवाय— मायः सुखं, तस्य भवः उत्पत्तिः । सुखलाभाय इत्यर्थः
पशुभ्यः—गवादिपशुलाभाय, ऋतुभ्यः—वसन्तादिभ्यः षड्भ्यः सुस्थ-
शरीरत्वेन ऋतूनामुपभोगाय इति भावः । सखे ! —इह अमुत्र
सुखदुःखपुण्यापुण्यसहचरितत्वेन मित्रभूते ! । वधु ! त्वं सप्तपदा-
भूरादिसप्तलोकप्रसिद्धा भव । सा त्वं मां —वरम् अनुव्रता -
अनुवर्त्तिनी भव ।
( अभिषेचनम् )
निष्क्रमणप्रभृत्युदकुम्भं स्कन्धे कृत्वा दक्षिणतोऽग्नेर्वाग्यतः स्थितो भवति । १-८-३
निष्क्रमणप्रभृति "पत्रा प्रत्तामादाय गृहीत्वा निष्क्रामति" इत्या-
दितः आरभ्य कश्चित् पुरुषः उदकुम्भं —जलपूर्ण कलश स्कन्धे कृत्वा-
धृत्वा वधूवरयोः पृष्ठत आगत्य अग्नेः दक्षिणतः —दक्षिणस्यां दिशि
वाग्यतः—मौनी सन् स्थितो भवति— ऊर्ध्वीभूत आस्ते ।
उत्तरत एकेषाम् । १-८-४
एकेषाम् आचार्याणां मते स जलपूर्णकलशधारी पुरुषः
उत्तरतः—अग्नेरुत्तरभागे स्थितो भवेत् ।
तत एनां मूर्द्धन्यभिषिञ्चति—
आपः शिवाः शिव तमाः शान्ताः शान्ततमास्ताः
कृण्वन्तु भेषजमिति । १-८-५
ततः—तस्मात् पुरुषस्कन्धस्थितात् जलकुम्भात् आम्रादि-
पल्लवेन जलमानीय एनां—वधू मूर्द्धनि—शिरसि अभिषिञ्चति—
अभिषिक्तां कारयति वरः "आपः शिवा" इत्यादिमन्त्रेण ।
( ३७ )
मन्त्रार्थः (प्रजापतिः यजुः आपः अभिषेकने;—या आपः शिवाः- कल्याणकारिण्यः शिवतमाः – अतिशयकल्याणहेतवः, शान्ताः – अनुपद्र- वकारिण्यः, शान्ततमाः—अतिशयेन उपद्रवनाशिन्यः, ताः—आपः, ते—तव वध्वोः भेषजं—रोगनाशनं कृण्वन्तु—कुर्वन्तु ।
आपोहिष्ठेति तिसृभिः । १-८-६
पुनः “आपोहिष्ठा” इत्यादिभिः तिसृभिः ऋग्भिः अभि- षिञ्चति । ते च मन्त्रा यथा :-
(१) आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ।
(२) यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ।
(३) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ, आपो जनयथा च नः ।
( सूर्य्यदर्शनम् )
अथैनाँसूर्य्यमुदीक्षयति तच्चक्षुरिति । १-८-७
अथ—अभिषेचनानन्तरम् एनां—वधू सूर्य्यमुदीक्षस्व इति प्रैषेण सूर्य्यम् उदीक्षयति—ऊर्द्धं प्रदर्शयति 'तच्चक्षु'रिति मन्त्रेण । अत्र कन्याकर्तृको मन्त्रपाठ इति हरिहरः । दिवा विवाहपक्षे सूर्य्यदर्शन- विधिरिति रेणुदीक्षितहरिहरौ । एतद्गृह्यानुसारिणां दिवैव विवाह इति गदाधरः । तच्चक्षुरिति मन्त्रः १ । १७ । ६ सूत्रव्याख्यायामुद्धृतः ।
( हृदयालम्भनम् )
अथास्यै दक्षिणाँ समधि हृदयमालभते—
ममव्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु ।
मम वाचमेकमना जुषस्व प्रजापतिष्ट्वा नियुनक्तु मह्यम् ॥
इति । १-८-८
( ३८ )
अथ—सूर्य्यदर्शनानन्तरम् अस्यै—अस्याः दक्षिणांसम् अधि—दक्षिणस्कन्धोपरि हस्तं नीत्वा कन्याया हृदयं आलभते—स्पृशति वरः “मम व्रते ते” इत्यादिमन्त्रेण ।
मन्त्रार्थः (परमेष्ठी, त्रिष्टुप् प्रजापतिः हृदयालम्भने)— हे कन्ये ! ते—तव हृदयं—चित्तं मम—वरस्य व्रते—निश्चये शास्त्रीय-नियमादौ वा दधामि—स्थापयामि । ते—तव कन्यायाः चित्तं मम चित्तम् अनु—अनुसारि अस्तु । त्वम् एकमनाः—एकाग्रचित्ता सती मम—वरस्य वाचं—वचनं जुषस्व—सेवस्व । प्रजापतिः त्वा—कन्यां मह्यम्—मदर्थं नियुनक्तु—नियोजयतु ।
( अभिमन्त्रणम् )
अथैनामभिमन्त्रयते—
सुमङ्गलीरियं वधूरिमाँ समेत पश्यत । सौभाग्यमस्यै दत्त्वा याथास्तं विपरेतनेति । १-८-६
अथ—हृदयस्पर्शानन्तरम् एनां—वधूं अभिमन्त्रयते वर “सुमङ्गली”रित्यादिना मन्त्रेण ।
मन्त्रार्थः (प्रजापतिः अनुष्टुप् विवाहाधिष्ठात्र्यः अभिमन्त्रणे) हे विवाहदेवताः ! इयं वधूः सुमङ्गलीः—शोभनमङ्गलयुक्ता अत्र विसर्गश्छान्दसः । इमां—वधूं समेत—संगच्छत । पश्यत—संगम्य ततः पश्यत । अस्यै—कन्यायै सौभाग्यं—धनपुत्रादिरूपं दत्त्वा अस्तं—गृहं याथ—गच्छत । न विपरेत—न विमुखतया परागच्छत ।
तां दृढपुरुष उन्मथ्य प्राग्वोदग्वाऽनुगुप्त आगार आनडुहे रोहिते चर्मण्युपवेशयति—
“इह गावो निषीदन्त्विहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो यज्ञ इह पूषा निषीदतु इति । १-८-१०
दृढपुरुषः—कश्चित् बलवान् पुरुषः, तां—वधूम् उन्मथ्य—उत्थाप्य प्राक्—प्राच्यां दिशि उदक्—उदीच्यां दिशि, वा इति