भारतकोश
संग्रह पर लौटें

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

( ३४ )

( अग्निपरिक्रमणम् )

अथ परिक्रामतः "तुभ्यमग्रे पर्यंवहन् सूर्यां वहतु ना सह। पुनः पतिभ्यो जायां दाग्ने प्रजया सहेति। १-७-३

अथ—गाथागानानन्तरम् अग्निं प्रादक्षिण्येन् परिक्रामतः— परितः भ्रमतः वधूवरौ "तुभ्यमग्रे" इति मन्त्रेण । अत्र वरः मन्त्रं पठति । मन्त्रपाठान्ते परिक्रमणमिति हरिहरः । मन्मतेतु परिक्रमणसमकाल एव मन्त्रपाठः । तयोर्विरोधाभावात् ।

मन्त्रार्थः ( आथर्वणः अनुष्टुप् अग्निः तत्प्रादक्षिण्ये )—हे अग्ने ! तुभ्यं त्वदर्थमेव सोमादयः अग्रे—जन्मप्रभृति एनां सूर्यां— सूर्यवत् दीप्तिमतीं कन्यां पर्यवहन्—परिगृहीतवन्तः । सम्प्रति ना— मनुष्यः त्वया सह वहतु—उद्वहतु । पुनः पतिभ्यः—मह्यमित्यर्थः जायां—भार्या प्रजया—सन्तत्या सह दाः—देहि ।


एवं द्विरपरं लाजादि । १-७-४

एवम्—उक्तप्रकारेण द्विः—द्विवारम् अपरं—पुनरपि लाजादि— कुमार्य्या भ्रातेत्यारभ्य अग्निपरिक्रमणान्तं कर्म भवति । अर्थात् लाजहोम — शिलारोहण — गाथागानाग्निपरिक्रमणानि यथाक्रमं वारत्रयं विधेयानि ।


चतुर्थं शूर्पकुष्ठ्या सर्वांल्लाजानावपति–भगाय स्वाहेति १-७-५

तृतीयपरिक्रमणानन्तरं — चतुर्थवारं शूर्पकुष्ठ्या—शूर्पकोणेन सर्वान् लाजान् होमावशिष्टान् कुमार्य्या भ्राता कुमार्य्या अञ्जलौ आवपति—निक्षिपति । कन्या च तान् लाजान् "भगाय स्वाहा" इति मन्त्रेण वह्नौ प्रक्षिपति ।

( ३५ )

त्रिः परिणीतां प्राजापत्यँ हुत्वा । १-७-५

ततः प्राजापत्यं — प्रजापतिदेवताकं प्रजापतये स्वाहा इति हुत्वा—होमं कृत्वा त्रिः—त्रिवारं परिणीतां—वह्नेः प्रादक्षिण्यपरिक्रमणेन आनीतां कन्यां सप्तपदानि प्रक्रामयति वरः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे सप्तमी कण्डिका ।!


( सप्तपदीप्रक्रमः )

अथैनामुदीचीं सप्तपदानि प्रक्रामयति—
एकमिषे, द्वे ऊर्जे त्रीणि रायस्पोषाय चत्वारि मायोभवाय पञ्च पशुभ्यः षड् ऋतुभ्यः सखे सप्तपदा भव सा मामनुव्रता भव
१-८-१

विष्णुस्त्वा नयत्विति सर्वत्रानुषजति । १-८-२

अथ— प्राजापत्यहोमानन्तरम् एनां — त्रिपरिणीतां वधूम् उदीचीम्—उत्तरां दिशं प्रति उदङ्मुखीं कृत्वा सप्तपदानि प्रक्रामयति—सप्तवारपादचालनानि कारयति वरः “एकमिषे” इत्यादिभिः सप्तभिर्मन्त्रैः यथा “एकमिषे विष्णुस्त्वा नयतु इति वरेण उक्ते वधूः एक पदम् उदक् दधाति । एवं द्वे ऊर्जे विष्णुस्त्वा नयतु इत्युक्ते द्वितीयम् । “त्रीणि रायस्पोषाय विष्णुस्त्वानयतु इत्युक्ते तृतीयम् । चत्वारि-मायोभवाय विष्णुस्त्वा नयतु इत्युक्ते चतुर्थम् । पञ्चपशुभ्यो विष्णुस्त्वा नयतु इति पञ्चमम् । षड्ऋतुभ्यो विष्णुस्त्वा नयतु इति षष्ठम् । सखे सप्तपदा भव सा मामनुव्रता भव विष्णुस्त्वा नयतु इत्युक्ते सप्तमं पदम् उत्तरां दिशं प्रति प्रक्षिपति ।

सर्वत्र—एकमिषे इत्यादिषु सप्तसु विष्णुस्त्वानयतु इति एकदेशम् अनुषजति—सम्बध्नाति ।

( ३६ )

मन्त्रार्थः ( सर्वत्र प्रजापतिः यजुः लिङ्गोक्ता प्रक्रामणे ) --इषे
अन्नाय, ऊर्जे—बलाय, रायस्पोषाय—धनपुष्टये धनवृद्ध्यर्थम् । मायो-
भवाय— मायः सुखं, तस्य भवः उत्पत्तिः । सुखलाभाय इत्यर्थः
पशुभ्यः—गवादिपशुलाभाय, ऋतुभ्यः—वसन्तादिभ्यः षड्भ्यः सुस्थ-
शरीरत्वेन ऋतूनामुपभोगाय इति भावः । सखे ! —इह अमुत्र
सुखदुःखपुण्यापुण्यसहचरितत्वेन मित्रभूते ! । वधु ! त्वं सप्तपदा-
भूरादिसप्तलोकप्रसिद्धा भव । सा त्वं मां —वरम् अनुव्रता -
अनुवर्त्तिनी भव ।

( अभिषेचनम् )
निष्क्रमणप्रभृत्युदकुम्भं स्कन्धे कृत्वा दक्षिणतोऽग्नेर्वाग्यतः स्थितो भवति । १-८-३

निष्क्रमणप्रभृति "पत्रा प्रत्तामादाय गृहीत्वा निष्क्रामति" इत्या-
दितः आरभ्य कश्चित् पुरुषः उदकुम्भं —जलपूर्ण कलश स्कन्धे कृत्वा-
धृत्वा वधूवरयोः पृष्ठत आगत्य अग्नेः दक्षिणतः —दक्षिणस्यां दिशि
वाग्यतः—मौनी सन् स्थितो भवति— ऊर्ध्वीभूत आस्ते ।

उत्तरत एकेषाम् । १-८-४

एकेषाम् आचार्याणां मते स जलपूर्णकलशधारी पुरुषः
उत्तरतः—अग्नेरुत्तरभागे स्थितो भवेत् ।

तत एनां मूर्द्धन्यभिषिञ्चति—
आपः शिवाः शिव तमाः शान्ताः शान्ततमास्ताः
कृण्वन्तु भेषजमिति । १-८-५

ततः—तस्मात् पुरुषस्कन्धस्थितात् जलकुम्भात् आम्रादि-
पल्लवेन जलमानीय एनां—वधू मूर्द्धनि—शिरसि अभिषिञ्चति—
अभिषिक्तां कारयति वरः "आपः शिवा" इत्यादिमन्त्रेण ।

( ३७ )

मन्त्रार्थः (प्रजापतिः यजुः आपः अभिषेकने;—या आपः शिवाः- कल्याणकारिण्यः शिवतमाः – अतिशयकल्याणहेतवः, शान्ताः – अनुपद्र- वकारिण्यः, शान्ततमाः—अतिशयेन उपद्रवनाशिन्यः, ताः—आपः, ते—तव वध्वोः भेषजं—रोगनाशनं कृण्वन्तु—कुर्वन्तु ।

आपोहिष्ठेति तिसृभिः । १-८-६

पुनः “आपोहिष्ठा” इत्यादिभिः तिसृभिः ऋग्भिः अभि- षिञ्चति । ते च मन्त्रा यथा :-

(१) आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ।

(२) यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ।

(३) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ, आपो जनयथा च नः ।

( सूर्य्यदर्शनम् )

अथैनाँसूर्य्यमुदीक्षयति तच्चक्षुरिति । १-८-७

अथ—अभिषेचनानन्तरम् एनां—वधू सूर्य्यमुदीक्षस्व इति प्रैषेण सूर्य्यम् उदीक्षयति—ऊर्द्धं प्रदर्शयति 'तच्चक्षु'रिति मन्त्रेण । अत्र कन्याकर्तृको मन्त्रपाठ इति हरिहरः । दिवा विवाहपक्षे सूर्य्यदर्शन- विधिरिति रेणुदीक्षितहरिहरौ । एतद्गृह्यानुसारिणां दिवैव विवाह इति गदाधरः । तच्चक्षुरिति मन्त्रः १ । १७ । ६ सूत्रव्याख्यायामुद्धृतः ।

( हृदयालम्भनम् )

अथास्यै दक्षिणाँ समधि हृदयमालभते—

ममव्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु ।
मम वाचमेकमना जुषस्व प्रजापतिष्ट्वा नियुनक्तु मह्यम् ॥
इति । १-८-८

( ३८ )

अथ—सूर्य्यदर्शनानन्तरम् अस्यै—अस्याः दक्षिणांसम् अधि—दक्षिणस्कन्धोपरि हस्तं नीत्वा कन्याया हृदयं आलभते—स्पृशति वरः “मम व्रते ते” इत्यादिमन्त्रेण ।

मन्त्रार्थः (परमेष्ठी, त्रिष्टुप् प्रजापतिः हृदयालम्भने)— हे कन्ये ! ते—तव हृदयं—चित्तं मम—वरस्य व्रते—निश्चये शास्त्रीय-नियमादौ वा दधामि—स्थापयामि । ते—तव कन्यायाः चित्तं मम चित्तम् अनु—अनुसारि अस्तु । त्वम् एकमनाः—एकाग्रचित्ता सती मम—वरस्य वाचं—वचनं जुषस्व—सेवस्व । प्रजापतिः त्वा—कन्यां मह्यम्—मदर्थं नियुनक्तु—नियोजयतु ।

( अभिमन्त्रणम् )

अथैनामभिमन्त्रयते—
सुमङ्गलीरियं वधूरिमाँ समेत पश्यत । सौभाग्यमस्यै दत्त्वा याथास्तं विपरेतनेति । १-८-६

अथ—हृदयस्पर्शानन्तरम् एनां—वधूं अभिमन्त्रयते वर “सुमङ्गली”रित्यादिना मन्त्रेण ।

मन्त्रार्थः (प्रजापतिः अनुष्टुप् विवाहाधिष्ठात्र्यः अभिमन्त्रणे) हे विवाहदेवताः ! इयं वधूः सुमङ्गलीः—शोभनमङ्गलयुक्ता अत्र विसर्गश्छान्दसः । इमां—वधूं समेत—संगच्छत । पश्यत—संगम्य ततः पश्यत । अस्यै—कन्यायै सौभाग्यं—धनपुत्रादिरूपं दत्त्वा अस्तं—गृहं याथ—गच्छत । न विपरेत—न विमुखतया परागच्छत ।

तां दृढपुरुष उन्मथ्य प्राग्वोदग्वाऽनुगुप्त आगार आनडुहे रोहिते चर्मण्युपवेशयति—
“इह गावो निषीदन्त्विहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो यज्ञ इह पूषा निषीदतु इति । १-८-१०

दृढपुरुषः—कश्चित् बलवान् पुरुषः, तां—वधूम् उन्मथ्य—उत्थाप्य प्राक्—प्राच्यां दिशि उदक्—उदीच्यां दिशि, वा इति

( ३६ )

पक्षान्तरे । पूर्वकल्पिते अनुगुप्ते—सर्वतः परिवृते आगारे—गृहे, रोहिते—लोहितवर्णे आनडुहे—आर्षभे—चर्मणि उपवेशयति "इहगाव" इत्यादि मन्त्रेण" ।

मन्त्रार्थः (प्रजापतिः अनुष्टुप्—लिङ्गोक्ता, उपवेशने)— इह—चर्मणि, गाव —गोपशवः निषीदन्तु—वसन्तु । तथैव इह अश्वाः पुनश्च इह पूरुषाः—पुरुषाः वसन्तु । उ एवार्थे । सहस्रदक्षिणः—सहस्रं गावः दक्षिणा यस्मिन् स सहस्रदक्षिणः, पूषा—पुष्टिकरकः यज्ञः निषीदतु 'पूषा वै सहस्रदक्षिण आस' इति श्रुतेः । अनेन उपवेशनेन गवादिपशुजन- यज्ञानामभिवृद्धिरस्त्विति भावः ।

( ग्रामवचनम् )
ग्रामवचनं च कुर्युः । १-८-११

अत्र विवाहे ग्रामवचनम्—ग्रामशब्दवाच्यानां स्वकुलवृद्धानां स्त्रीणां वचनम्—उपदेशं कुर्युः—आचरेयुः ।

विवाहश्मशानयोर्ग्रामं प्रविशतादिति वचनात् । १-८-१२

विवाहश्मशानयोः—विवाहश्च श्मशानं च विवाहश्मशाने तयोः विवाहश्मशानयोः, ग्रामं—स्वकुलवृद्धाः स्त्रियः प्रविशतात्—शास्त्रा- तिरिक्तमाचारं कर्त्तव्यं च पृच्छेत् इति वचनात्—इति स्मृतिवचनात् ।

तस्मात्तयोर्ग्रामः प्रमाणमिति श्रुतेः । १-८-१३

तस्मात्— आचारपरंपरादर्शनात्, तयोः — विवाहश्मशान- कर्मणोः, ग्रामः—स्वकुलवृद्धाः स्त्रियः प्रमाणमिति श्रुतेः—श्रुति- निर्देशात् । ग्रामवचनं कर्त्तव्यमिति सारः ।

( दक्षिणादानम् )
आचार्य्याय वरं ददाति । १-८-१४

आचार्य्याय—स्वकीयाय आचार्य्याय वरः वरं—दक्षिणाविशेषं ददाति ।

( ४० )

गौ ब्राह्मणस्य वरः ॥ १-८-१५ ॥ ग्रामो राजन्यस्य ॥ १-८-१६ ॥ अश्वो वैश्यस्य ॥ १-८-१७

गौः ब्राह्मणस्य वरस्य पक्षे आचार्याय देया दक्षिणा। क्षत्रियस्य वरस्य ग्रामः वरः, वैश्यस्य तु अश्वः वरः। एते वरा विवाहे एव इति गदाधरः। सर्वासु वरचोदनासु गवादयो वरशब्दवाच्या इति भर्तृयज्ञः।

अधिरथँ शतं दुहितृमते । १-८-१८

दुहितृमते—कन्यापित्रे अधिरथम्—अधिकः रथः यत्र तादृ...
शतं—गवां शतं दद्यात् वरः।

( ध्रुवदर्शनम् )

अस्तमिते ध्रुवं दर्शयति—
“ध्रुवमसि ध्रुवं त्वा पश्यामि ध्रुवैधि पोष्ये मयि । मह्यं त्वादाद् बृहस्पति र्मया पत्या प्रजावती संजीवे शरदः शतं” इति । १-८-१९

अस्तमिते—अस्तं गते सूर्ये वरः वधू ध्रुवं—नक्षत्रविशेषं दर्शयति 'ध्रुवमसि'त्यादिमन्त्रेण ।

मन्त्रार्थः (परमेष्ठी, पंक्तिः, प्रजापतिः ईक्षणे)—हे वधु ! त्वं ध्रुवं—ध्रुवा—स्थिरा शाश्वती असि । ध्रुवमिति क्लीवलिङ्गमार्षः । त्वा—त्वां वधूं ध्रुवं तारकाविशेषं, पश्यामि—दर्शयामि । अन्तर्भूतण्यर्थः । त्वं मयि पोष्ये—पोषके वरे ध्रुवा—निश्चिता—भव । पोष्ये इति संबोधन वा । बृहस्पतिः—देवगुरुः त्वा—त्वां मह्यं—वराय अदात्—दत्तवान् । मया पत्या सह त्वं प्रजावती सन्तानयुक्ता सती शरदः शतं— शतं वर्षाणि, सञ्जीव—सम्यक् सुस्थशरीरतया जीव ।

सा—वधूः यदि ध्रुवं न पश्येत्—न प्रेक्षते तदा पश्यामि इत्येव वरः स्वयं ब्रूयात्—वदेत् ।

(ब्रह्मचर्योपदेशः)

त्रिरात्रमक्षारालवणाशिनौ स्यातामधः शयीयाताम् । १-८-२१

त्रिरात्रं—विवाहदिवसमारभ्य अहोरात्रत्रयम् अक्षारालवणाशिनौ—अक्षारं च अलवणं च अक्षारालवणं तत् अश्नीत इत्येवंशीलो अक्षारालवणाशिनौ, स्यातां - भवेतां, जायापती । पुनश्च अधः—आस्तृतभूमौ न खट्वायां, शयीयातां—स्वपेताम् ।

संवत्सरं न मिथुनमुपेयातां द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः । १-८-२२

संवत्सरं—विवाहदिवसमारभ्य वर्षं यावत् मिथुनम्—अभिगमनं न उपेयातां—न उपगच्छेताम् । पक्षान्तरे द्वादशरात्रम् । अथवा षड्रात्रम्, यद्वा अन्ततः—संवत्सरादिपक्षाणाम् अन्ते त्रिरात्रम् । संवत्सरादिकालविकल्पाः शक्त्यपेक्षया व्यवस्थाप्याः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे अष्टमो कण्डिका ॥ ( समाप्तं विवाहकर्म ) ॥


( नित्यहोमविधिः )

उपयमनप्रभृत्योपासनस्य परिचरणम् । १-९-१

औपासनस्य—आवसथ्याग्नेः परिचरणं—सेवा उपयमनप्रभृति—उपयमनकुशादानमारभ्य “उपयमन—कुशानादाय समिधोऽभ्याधाय पर्युक्ष्य जुहुयात् , (१-१-४) इति यावत् । परिचरणग्रहणादत्र होमेतिकर्त्तव्यतानिवृत्तिः । हस्तेनैव होमः । मणिकोदकेन पर्युक्षणम् ।

( ४२ )

अस्तमितानुदितयोः । १-६-२

अस्तमितश्च अनुदितश्च अस्तमितानुदितौ तयोः, तथाभूत-सूर्य्ययोः सूर्य्यस्य अस्तमयानुदयाभ्यामुपलक्षितयोः कालयोरित्यर्थः । अस्तमितलक्षणं छान्दोगपरिशिष्टे—

“यावत् सम्यङ् न भाव्यन्ते नभस्यृक्षाणि सर्वतः ।
न च लोहितिमापैति तावत् सायं तु हूयते ॥”

अनुदितो द्विविधः । अनुदितः समयाध्युषितश्च । तत्र स्पष्टतारकोप-लक्षितः अनुदितः । ततः परमुदयात् प्राक् समयाध्युषितः । तत्र वाजसनेयिनां नियमेन अनुदितहोमः । छन्दोगानामुदितानुदितयोर्विकल्पः । आश्वलायनानां तु उदितहोमनियमः ।


दध्ना तण्डुलैरक्षतैर्वा । १-६-३

होमद्रव्यमाह—दध्ना—गव्येन, तण्डुलैः—व्रीहिमयैः, अक्षतैः—सक्तुकैः यवैः वा—विकल्पेन एतेषामन्यतमेन द्रव्येण जुहुयात् ।


अग्नये स्वाहा प्रजापतये स्वाहेति सायम् । १-६-४

सायम् “अग्नये स्वाहा” इति प्रथमाहुतिं “प्रजापतये स्वाहा” इति द्वितीयामाहुतिं जुहुयात् । प्रजापतिहोमे “प्रजापतये” इति उपांशु । “स्वाहा इदं प्रजापतये” इति भागः श्राव्यः । आधारे तु स्वाहान्तोऽपि मानसः उक्त एव ।


सूर्य्याय स्वाहा प्रजापतये स्वाहेति प्रातः । १-६-५

प्रातः “सूर्य्याय स्वाहा, प्रजापतये स्वाहा इति आहुतिद्वयम् । अस्य कर्मणः सायमारम्भः प्रातः समाप्तिः । “सायमादिप्रातरन्तमेकं कर्म प्रचक्षते” इति वचनात् । ततः सायंहोमद्रव्येणैव प्रातर्होमः कर्त्तव्यः । तथा येन च सायं हुतं तेनैव प्रातर्होमः कर्त्तव्यः “येनारम्भस्तेनैव समाप्तिरितिन्यायात् । पूर्वोक्तदधितण्डुलयवा-

( ४३ )

माषलाभे श्यामाकनीवारवेणुयवकन्दमूलफलजलेषु पूर्वपूर्वलाभे परं परं नित्यहोमाय ग्राह्यम् ।

पुमाꣳसौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानिन्द्रश्च सूर्य्यश्च पुमाꣳसंवर्त्ततां मयि पुनः स्वाहेति पूर्वां गर्भकामा ॥ १-९-६ ॥

अस्यैव कर्मणः कामसंयोगमाह—यदि यजमानस्य पत्नी गर्भकामा भवति तदा “पुंसांसौ मित्रावरुणा”वतिमन्त्रेण पूर्वां—प्रथमामाहुतिम् 'अग्नये स्वाहा सूर्य्याय स्वाहा इति होमस्थानद्वये पत्नी जुहुयात् । उत्तरामाहुतिं तु यजमाम एव । अत्र काम्यहोमेन नित्यस्य आग्नेयादिहोमस्य बाधः । यतः “पूरुषार्थसमासक्तं काम्यं नित्यस्य बाधकम् । नित्यं तावदफलम् अकरणे प्रत्यवायजनकम् । काम्यं तु फलवत् । फलवत् बलवत् अफलं दुर्बलं बाधते ।

मन्त्रार्थः (मेधातिथिः अनुष्टुप लिङ्गोक्ता होमे)— मित्रावरुणौ—मित्रश्च वरुणश्च तौ पुमांसौ—पुरुषौ, उभौ अश्विनौ—अश्विनीकुमारौ पुमांसौ । इन्द्रः—देवराट् सूर्य्यश्च पुमान् । मयि—मम यजमान—पत्न्या गर्भे पुमान्—पुत्रः संवर्त्तताम् इति । स्वाहा—सुहुतमस्तु । मित्रावरुणावित्यत्र देवताद्वन्द्वे पूर्वपदान्तस्वरस्य दीर्घः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे नवमी कण्डिका ।


( नैमित्तिकहोमः )

राज्ञोऽक्षभेदे नद्धविमोक्षे यानविपर्य्यासेऽन्यस्यां वा व्यापत्तौ स्त्रियाश्चोद्वहने तमेवाग्निमुपसमाधायाज्यꣳ संस्कृत्येहरतिरिति जुहोति नानामन्त्राभ्याम् । १-१०-१

राज्ञः—प्रजापालने अधिकृतस्य यात्रादि प्रस्थितस्य अक्षभेदे रथावयवभङ्गे, नद्धविमोक्षे—नद्धस्य (णह्वन्धने) बद्धस्य—रथ-विमोक्षे — सन्नहनच्छेदे यानविपर्य्यासे—यानस्य विपर्य्यासे—अश्वमुखादिभावे, वा पक्षान्तरे अथवा अन्यस्यां व्यापत्तौ अन्यस्मिन् अशुभसूचके निमित्ते स्त्रियाश्चोद्वहने—उद्वाहानन्तरं वध्वा -- स्वगृहागमनकाले, तं—पूर्वप्रसिद्धम् एव अग्निं—यथा राज्ञः यात्राप्रास्थानिकनामानं सेनाग्निं स्त्रिया वैवाहिकमग्निम् उपसमाधाय पञ्चभूसंस्कारपूर्वकं संस्थाप्य आज्यं संस्कृत्य ब्रह्मोपवेशनादिपर्य्युक्षणान्तं कर्म विधाय आधारहोमात् प्राक् इहरतिरिति नानामनन्त्राभ्याम् इहरतिरिति उपसृजन्जिति मन्त्राभ्याम् आहुतिद्वयं जुहोति। तत आधारादिस्विष्टकृदन्तः चतुर्दशाहुतिको होमः। अत्र होमे राज्ञः पुरोहितः वध्वाश्च वरः कर्त्ता।

अत्र "एष एव विधिर्यत्र क्वचिद्धोम" इति सामान्येन आज्यसंस्कारे प्राप्ते आज्यं संस्कृत्येति वचनम् आधारहोमात् प्रागेव इहरतिरित्याद्याज्याहुतिद्वयप्राप्त्यर्थम्। इहरतिरित्यादिमन्त्रौ ३-४-८ स्थौ द्र...

अन्यद् यानमुपकल्प्य तत्रोपवेशयेद्राजानग्ँ स्त्रियं प्रतिक्षत्र इति यज्ञान्तेनात्वाहार्षमिति चैतया। १-१०-२

नैमित्तिकहोमान्ते अन्यद् यानं—रथादिकं वाहनं वा उपकल्प्य — संयोज्य तत्र—तस्मिन् नवीने याने राजानं—नृपं स्त्रियं च उद्वाहितां च उपवेशयेत्—आरोहयेत् मन्त्रपाठपूर्वकम् उपविश इति प्रेरणया राजानं पुरोहितः, स्त्रियः तस्याः पतिः, मन्त्रद्वयेन। केन मन्त्रद्वयेन ? प्रतिक्षत्र इत्यादिना प्रतितिष्ठामि यज्ञ इत्यन्तेन (२०—१०) एकेन तथा आत्वाहार्षमिति (१२—११) एतया ऋचा च अपरया। मन्त्रयोः सम्पूर्णः पाठः :—

"प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् प्रतिप्राणेषु प्रतितिष्ठामि पुष्टौ द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे ॥ शु. य. २०-१० ॥"

"आत्वाहार्षमन्तरभूध्रुवस्तिष्ठाविचाचलिः विशस्त्वा वाञ्छन्तु मा त्वद्राष्ट्रमधिभ्रशत् ॥ शु. य. १२-११ ॥"

( ४५ )

धुर्य्यौ दक्षिणा प्रायश्चित्तिः । १-१०-३

धुर्य्यौ—धुरि भारवहने साधू अनड्वाहौ, दक्षिणा—दक्षिणात्वेन ब्राह्मणेभ्यो देया । दक्षिणाशब्दः परिक्रयार्थे द्रव्ये वर्त्तते । इदं कर्म प्रायश्चित्तिः — दुर्निमित्तसूचितदुरितापहारिणी । अतः सति निमित्ते भवति ।

ततो ब्राह्मणभोजनम् । १-१०-४

ततः कर्मसमाप्त्यनन्तरं ब्राह्मणभोजनं—ब्राह्मणस्य ब्राह्मणयोः ब्राह्मणानां वा भोजनं यथाशक्ति कारयितव्यम् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे दशमी कण्डिका ॥


( चतुर्थीकर्म )

चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती—र्जुहोति । १-११-१

चतुर्थ्यां—विवाहदिवसमारभ्य चतुर्थ्यां तिथौ अपररात्रे—रात्रेः पश्चिमयामे अभ्यन्तरतः—गृहमध्ये अग्निं—वैवाहिकमग्निम् उपसमाधाय पञ्चभूसंस्कारपूर्वकं संस्थाप्य, दक्षिणतः—अग्नेर्दक्षिणभागे ब्रह्माणं—पूर्वोक्तलक्षणं वरणेन संपादितं ब्राह्मणम् उपवेश्य—संस्थाप्य उत्तरतः—अग्नेरुत्तरस्यां दिशि, उदपात्रं—जलपूर्णताम्रादिपात्रं प्रतिष्ठाप्य—स्थापयित्वा स्थालीपाकं—चरुं श्रपयित्वा—यथाविधि पक्त्वा आज्यभागाविष्ट्वा—आघारपूर्वक्रमाज्यभागाहुतिद्वयं हुत्वा आज्याहुतीः—आज्येन वक्ष्यमाणाः पञ्च आहुतीः जुहोति "अग्ने प्रायश्चित्ते" इत्यादिभिः पञ्चभिर्मन्त्रैः ।

( ४६ )

१) अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि, ब्राह्मण- स्त्वा नाथकाम उपधावामि, यास्यै पतिघ्नी तनूस्तामस्यै नाशय स्वाहा ।

२) वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि, ब्राह्मण- स्त्वा नाथकाम उपधावामि, यास्यै प्रजाघ्नी तनूस्तामस्यै नाशय स्वाहा ।

३) सूर्य्यप्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि, ब्राह्मण- स्त्वा नाथकाम उपधावामि, यास्यै पशुघ्नी तनूस्तामस्यै नाशय स्वाहा ।

४) चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि, ब्राह्मण- स्त्वा नाथकाम उपधावामि, यास्यै गृहघ्नी तनूस्तामस्यै नाशय स्वाहा ।

५) गन्धर्व प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि, ब्राह्मण- स्त्वा नाथकाम उपधावामि, यास्यै यशोघ्नी तनूस्तामस्यै नाशय स्वाहेति । १-११-१

मन्त्रार्थः (सर्वेषां परमेष्ठो त्रिष्टुप्, लिङ्गोक्ता देवता होमे)—हे प्रायश्चित्ते ! —सर्वदोषनाशक अग्ने ! त्वं देवानाम्—इन्द्रादीनां प्रायश्चित्तिः — दोषनाशकः असि — भवसि । ब्राह्मणः — वैदिकः वेदोक्ते कर्मणि आस्थावान् सन् अहं नाथकामः—कल्याणाभिलाषी भूत्वा त्वा—त्वाम् अग्निम् उपधावामि—श्रद्धाभक्त्यतिशयेन प्राप्नोमि। अस्यै—अस्याः वध्वाः (षष्ठ्यर्थे चतुर्थी) या—पूर्ववर्तिनी पतिघ्नी- पत्युरहितकारिणी तनूः—तन्वा अवयवः, अस्याः तां—पतिघ्नीं तनूं नाशय । अर्थात् अस्याः पतिनाशकतारूपं दुर्लक्षणं नाशय। एवं क्रमेण अपरस्मिन् मन्त्रचतुष्टये वायुसूर्य्यचन्द्रगन्धर्वाणां प्रार्थना क्रियते प्रजापशुगृहयशसामविनाशाय ।

( ४७ )

अत्र "सोमोऽददद् गन्धर्वाय गन्धर्वोऽददद्ग्नये ( १/४/१७ ) इति मन्त्रोक्त्या अव्यवहितपूर्वतनपतित्वेन पतिदोषनाशाय अग्नेः प्रार्थना । गर्भग्रहणे गर्भोन्मोचने च वायोर्मुख्यत्वेन प्रजादोषनाशाय तस्य प्रार्थना । गर्भग्रहणे वायोः प्राधान्यं सुश्रुते (३—३) शुक्रं तत्क्षणमेव सहभूतात्मना गुणैश्च सत्त्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति । इति, गर्भात् निःसरणे च—

"नवमे दशमे वापि प्रवलैः सूतिमारुतैः । निःसार्यते वाण इव यन्त्राच्छिद्रेण सज्ज्वरः ।। ३—८३

इति याज्ञवल्क्यस्मृतौ वायोः प्राधान्यमुक्तम् । पशूपयोगितृणजलादीनां सूर्य्यायत्तत्वेन पशुदोषनाशाय सूर्य्यप्रार्थना । तथा गृहनाशकारणं क्रोधादिकं मानसव्यापारं शमयितुं मनोधिपतेश्चन्द्रस्य प्रार्थना । व्यभिचाराद्यशोनाशाय चापल्यकारणस्य पूर्वपतेर्गन्धर्वस्य चानुकूलत्वप्रार्थना युज्यत एव । वाग्दोषजन्यायशोनाशाय वा गन्धर्वप्रार्थना ।

स्थालीपाकस्य जुहोति प्रजापतये स्वाहेति । १-११-३

आज्यहोमानन्तरं स्थालीपाकस्य—चरोः "प्रजापतये स्वाहा" इति एकामाहुतिं जुहोति । स्थालीपाकस्येति अवयवलक्षणाषष्ठी ।

हुत्वा हुत्वैतासामाहुतीनामुदपात्रे संस्रवान्त्समवनीय तत एनां मूर्द्धन्यभिषिञ्चति—याते पतिघ्नी प्रजाघ्नी पशुघ्नी गृहघ्नी यशोघ्नी निन्दिता तनूर्जारघ्नीं तत एनां करोमि सा जीर्य त्वं मया सहासाविति । १-११-४

एतासाम्—अग्ने प्रायश्चित्ते इत्यादीनां प्राजापत्यान्तानां षण्णाम् आहुतीनां हुत्वा हुत्वा—प्रत्येकं हुत्वा अर्थात् प्रतिहोमानन्तरं संस्रवान्—हुतशेषान् स्रुवलग्नाज्यचर्ववयवान् उदपात्रे—जलपात्रे समवनीय—प्रक्षिप्य ततः—उदकपात्रात् उदकमानीय एनां—वधूं मूर्द्धनि—मस्तकदेशे अभिषिञ्चति वरः "याते पतिघ्नी" इत्यादिना

( ४८ )

मन्त्रेण। केषाञ्चित् मते स्विष्टकृदाहुतेरपि संस्रवः तज्जले प्रक्षेप्यः। एतेनात्र पूर्वोक्तानामाहुतीनां संस्रवप्राशनं नास्ति इति बोद्धव्यम्।

मन्त्रार्थः (प्रजापतिः त्रिष्टुप् वधूः अभिषेके)—हे कन्ये ! तव या तनुः सा पतिघ्नी प्रजाघ्नी पशुघ्नी गृहघ्नी यशोघ्नी अतएव निन्दिता। ततः—तस्मात् कारणात् अनेन अभिषेचनेन एनाम्— निन्दितां तव तनुं जारघ्नीम्—उपपतिघातिनीं करोमि—संपादयामि । सा प्रसिद्धा त्वं विशुद्धा सती मया पत्या—सह जीर्य—निर्दृष्टत्वाद्वृद्धयं गच्छ। तव या निन्दिता तनुः तामभिषेचनेन अनिन्दितां करोमि इति भावः।

अथैनाथ्ं स्थालीपाकं प्राशयति—

प्राणैस्ते प्राणान्सन्दधाम्यस्थिभिरस्थीनि माꣳसैर्माꣳसानि त्वचा त्वचमिति । १-११-५

अथ—अभिषेचनानन्तरम् एना—वधू ं स्थालीपाकं—चरु-शेषं प्राशयति वरः “प्राणैस्ते” इत्यादिना मन्त्रेण।

मन्त्रार्थः (प्रजापतिः यजुः वधूः प्राशने) — हे कन्ये ! ते—तव, प्राणान् मम प्राणैः सह सन्दधामि—संयोजयामि। तथा अस्थिभिः अस्थीनि, मांसैः मांसानि त्वचा त्वचंसंदधामि। एतेन जायापत्योरेक-शरीरत्वं निष्पद्यते।

तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवं वित्परो भवति । १-११-६

तस्मात् — यस्मात् चतुर्थीकर्म्माणि चरुशेषप्राशनेन वधूः वरेण सह ऐक्यं प्राप्ता तस्मात् एवंवित् — भर्त्तृभार्य्ययोरेकत्वमस्तीति जानानः पुरुषः श्रोत्रियस्य — विदुषः दारेण — भार्य्यया सह उपहासं — मैथुनं न इच्छेत्हि—यस्मात् एवंवित्श्रोत्रियः , उत—अपि परः—शत्रुः भवति। अतः परस्त्रीगमनं न कामयितव्यमिति सारः।

( ४६ )

तामुदुह्य यथर्त्तुप्रवेशनम् । १-११-७

तां—वधूम् उदुह्य—विवाहकर्मणा भार्यात्वं संपाद्य, यथर्त्तु—ऋतुमनतिक्रम्य यथर्त्तु ऋतुकाले एव प्रवेशनम्—अभिगमनं कुर्यात् ।

यथाकामी वा काममाविजनितोः संभवामेतिवचनात् । १-११-८

वा—अथवा यथाकामी—स्त्रियाः काममनतिक्रम्य कामः अभिलाषः अस्य अस्तीति यथाकामी, भवेत् । अस्मिन् पक्षे न ऋतुकालगमननियमः । कस्मात् यथा कामी भवेत् इत्यत्र कारणं दर्शयति “काममाविजनितोः संभवामे”ति वचनात् । कामं—स्वेच्छया आविजनितोः आप्रसवात् संभवाम—भर्त्रासह मैथुनं गच्छाम इति इन्द्रविषये स्त्रीणां वरप्रार्थनावचनात् ।

अथास्यै दक्षिणां समधि हृदयमालभते—

यत्ते सुसीमे हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद् विद्यात् पश्येम शरदः शतं जीवेम् शरदः शतं शृणुयाम शरदः शतमिति । १-११-६

अथ अस्यै—अस्याः, भार्यायाः, दक्षिणांसमधि—दक्षिणस्कन्धोपरि दक्षिणहस्तं नीत्वा हृदयं—वध्वाः-वक्षःस्थलम आलभते—स्पृशति “यत्ते सुसीमे इत्यादि मन्त्रेण” अयम् हृदयस्पर्शः अभिगमनानन्तरमिति कर्कहरिहरजयरामभर्त्तृ यज्ञगदाधराः । पूर्वमिति केचित् । वस्तुतस्तु पूर्वमेव युज्यते ।

मन्त्रार्थः (प्रजापतिः अनुष्टुप् वधूः हृदयालम्भने)—शोभना सीमा—केशमध्यगता रेखा यस्याः सा सुसीमा, तत्सम्बोधने हे सुसीमे ! ते—तव यत् हृदयं—मनः दिवि—स्वर्गे चन्द्रमसि—चन्द्रे श्रितं—चन्द्राधीनतया स्थितं तदहं वेद—जानामि । तत्—तव हृदयं मां प्रति विद्यात्—जानातु । अन्यत् स्पष्टम् ।

( ५० )

एवमत ऊर्ध्वम् ।

एवं—प्रथमऋतौ यथा हृदयालम्भ उपदिष्टस्तथा अत-ऊर्ध्वम् एतदनन्तरम् ऋतौ ऋतौ अभिगमनकाले हृदयालम्भः कर्त्तव्यः ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे एकादशो कण्डिका ॥


( पक्षादिकर्म )

पक्षादिषु स्थालीपाकं श्रपयित्वा दर्शपूर्णमासदेवताभ्यो हुत्वा जुहोति, ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यामिति । १-१२-१

पक्षादिषु—पक्षाणामादयः पक्षादयः तासु पक्षादिषु प्रतिपत्सु इत्यर्थः । अत्र यद्यपि पक्षादिषु इति उक्तं तथापि “सन्धिमभितो यजेत” इति वचनात् पञ्चदशीप्रतिपदोः सन्धिषु इति वोद्धव्यम् । सन्धिस्तूक्तः—

“पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः ।
यागकालः स विज्ञेयः प्रातर्युक्तो मनीषिभिः ।

इत्यादिवचनै र्यागकालं निर्णीय पर्वदिने कृतौपवसथिकाशनः (माष-मांसादिव्यतिरिक्तहविष्यभोजनं कृत्वा) यजमानः प्रातः स्नानसन्ध्यावन्दनप्रातर्होमादि सम्पाद्य स्वाचान्तः अग्नेः पश्चात् प्राङ्मुख उपविश्य स्थालीपाकं—चरुं श्रपयित्वा—पक्त्वा आघाराज्यभागौ हुत्वा ततः दर्शपूर्णमासदेवताभ्यः—दर्शे दर्शदेवताभ्यः, पौर्णमासे पौर्णमासदेवताभ्यः, हुत्वा—स्थालीपाकहोमं कृत्वा ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यामिति आहुतिचतुष्टयं जुहोति ।

विश्वेभ्यो देवेभ्यो बलिहरणं भूतगृहेभ्य आकाशाय च । १-१२-२

( ५१ )

पूर्वोक्त स्थालीपाकात् वलिहरणं - वलिदानं करोति विश्वेभ्यो देवेभ्यः भूतगृहेभ्यः आकाशाय च इति ।

वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा प्रजापतये स्वाहा देवेभ्यः स्वाहाऽग्नये स्विष्टकृते स्वाहेति । १-१२-३

विश्वेदेवाः देवपितृमनुष्य देवता अस्येति वैश्वदेवः—पञ्चमहायज्ञार्थं साधितः पाकः । तस्य वैश्वदेवस्य—वैश्वदेवपाकसम्वन्धिनः चरोः, अत्र वैश्वदेवस्येति अवयवलक्षणा षष्ठी । अग्नये, प्रजापतये, विश्वेभ्यो देवेभ्यो, इति आहुति त्रयं हुत्वा स्थालीपाकात् वैश्वदेवपाकाच्च किंचित् किंचित् गृहीत्वा अग्नये स्विष्टकृते इति—एकाम् आहुतिं जुहोति — जुहुयात् । ततः भूरादि प्राजापत्यान्ता नवाहुती — जुहुयात् ।

बाह्यतः स्त्रीबलिं॒ हरति— नमः स्त्रियै नमः प्राशनान्ते पुं॒से वयसेऽवयसे, नमः शुक्लाय कृष्णदन्ताय पापिनां पतये नमः । ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो 'नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददत्विति । १-१२-४

प्राशनान्ते—संस्रवप्राशन—मार्जन—पवित्रप्रतिपत्ति—प्रणीता विमोक—दक्षिणादानानि कृत्वाततः स्थालीपाकात् बाह्यतः—शालाया वहिः प्राङ्गणे, स्त्रीबलिं—स्त्र्यादिभ्यः बलिं हरति—उपहरति ददाति यजमानः “नमः स्त्रियै इत्यादिभिः पञ्चभिर्मन्त्रैः यथा, :— (१) नमः स्त्रियै इदं स्त्रियै । (२) नमः पुं॒से वयसेऽवयसे इदं पुं॒से वयसेऽवयसे । (३) नमः शुक्लाय कृष्णदन्ताय पापिनां पतये इदं शुक्लाय कृष्णदन्ताय पापिनां पतये । (४) नमो ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यः इदं ये मे इत्यादि ।

( ५२ )

(५) नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददतेदम् एभ्यः इति ।

शेषमद्भिः प्रप्लाव्य । १-१२-५

शेषम्—अवशिष्टं चरुम् अद्भिः—प्रणीताजलेन प्रप्लाव्य मज्जयित्वा।

ततो ब्राह्मण भोजनम् । १-१२-६

पूर्वं व्याख्यातम्।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे द्वादशी कण्डिका।


सा यदि गर्भं न दधीत सिहं॰ह्याः श्वेतपुष्प्या उपोष्य पुष्येण मूलमुत्थाप्य चतुर्थेऽहनि स्नातायां निशायामुदपेषं पिष्ट्वा दक्षिणस्यां नासिकायामासिञ्चति —

इयमोषधी त्रायमाणा सहमाना सरस्वती ।
अस्या अहं बृहत्याः पुत्रः पितुरिव नाम जग्रभमिति ।
१-१३-१

सा— भार्य्या यदि गर्भं न दधीत—न धारयेत् तदा पुष्येण—पुष्यनक्षत्रेण युक्ते चन्द्रमसि ताम् उपोष्य— उपवासं कारयित्वा श्वेतपुष्प्याः—श्वेतानि पुष्पाणि यस्याः सा श्वेतपुष्पी तस्याः श्वेतपुष्प्याः सिंह्याः—कण्टकारिकायाः मूलं—शिफाम् उत्थाप्य—उद्धृत्य चतुर्थेऽहनि—रजोदर्शनात् चतुर्थदिवसे स्नातायाम्—ऋतुस्नातायां भार्य्यायां रात्रौ तन्मूलम् उदपेषं पिष्ट्वा—उदकेन पिष्ट्वा दक्षिणस्यां नासिकायाम्—दक्षिणनासारन्ध्रे आसिञ्चति—प्रक्षिपति भर्त्ता 'इयमोषधी'तिमन्त्रेण ।

मन्त्रार्थः (प्रजापतिः बृहती ओषधी आसेचने)इयम्—ओषधी ओषति दहति दोषान् धत्ते गुणानिति ओषधी, त्रायमाणा—रक्षाकारिणी

( ५३ )

सहमाना—दोषवेगान् नाशयन्ती, सरस्वती—वाक्प्रसादहेतुः अस्या बृहत्याः—कण्टकारिकायाः प्रभावात् अहं पितुः पुत्र इव नाम जग्रभन् अर्थात् पुत्रस्य पिता भवेयम् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे त्रयोदशी कण्डिका ।


अथ पुंसवनम् । १—१४—१

अथ—गर्भाधानान्तरम् अवसरप्राप्तं पुंसवनाख्यं गर्भसंस्कारकं कर्म व्याख्यास्यते ।

पुरा स्पन्दत इति मासे द्वितीये तृतीये वा । १—१४—२

पुरा—अग्रे स्पन्दते—चलिष्यति । अत्र “यावत् पुरानिपातयोर्लट्” (पा ३-३-४) इति भविष्यदर्थे वर्त्तमानप्रयोगः । इति—अतः हेतोः गर्भग्रहणात् द्वितीये तृतीये वा मासे पुंसवनं कर्त्तव्यम् ।

यदहः पुंसा नक्षत्रेण चन्द्रमा युज्येत तदहरुपवास्याप्लाव्याहते वाससी परिधाप्य न्यग्रोधावरोहाञ्छुङ्गांश्च निशायामुदपेषं पिष्ट्वा पूर्ववदासेचनं हिरण्यगर्भोऽद्भ्यः संभृत इत्येताभ्याम् । १—१४—३

यदहः—यस्मिन् अहनि पुंसा नक्षत्रेण—पुरुषनाम्ना पुष्यादिनक्षत्रेण चन्द्रमाः—शशी युज्येत—युक्तो भवेत्, तदहः—तस्मिन्नहनि भार्याम् उपवास्य—उपवासं कारयित्वा आप्लाव्य—स्नापयित्वा अहते—नवे सदशे सकृत् प्रक्षालिते वाससी—अन्तरीये परिधाप्य—परिधानं कारयित्वा न्यग्रोधावरोहान्—न्यग्रोधस्य—वटस्य अवरोहान्—अधः रोहन्ति जायन्ते इति अवरोहाः तान्, शुङ्गान्—ऊर्द्ध्वाङ्कुरान् (अग्रपल्लवान्), चकारः समुच्चयार्थः । निशायां—रात्रौ उदपेषं पिष्ट्वा