प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
१२६ प्रबोधचन्द्रोदयम् वश्याकर्षविमोहनप्रशमनप्रक्षोभणोच्चाटन- प्रायाः प्राकृतसिद्धयस्तु विदुषां योगान्तरायाः परम् ॥२२॥ क्षपणकः—अरे कापालिक, (विमृश्य) अथवा आचार्य, आचार्यराज, कुलाचार्य। (अले कापालिअ, अहवा आचालिअ, आचालिअराअ, कुलाचालिअ) भिक्षुः—(विहस्य) अयमनभ्यासातिशयपीतया मदिराया दूरमुन्मनी- कृतस्तपस्वी। तत्क्रियतामस्य मदापनयनम्। यन्ते। वश्यम् वशीकरणम्, आकर्ष-आकर्षणम्, मोहनं भ्रान्त्युत्पादनम्, प्रशम- नम् सकलप्राक्तनज्ञानभ्रंशः, प्रक्षोभणम्-मनसश्चलीकरणम्, उच्चाटनम् स्थानभ्रंशः, तत्प्रायाः तत्प्रभृतयः प्राकृतसिद्धयः साधारणाः सिद्धयस्तु विदुषाम् विवेकिनाम् परम् अत्यर्थम् योगान्तरायाः योगविघ्नभूताः भवन्तीति शेषः। अत्र कापालिकमते सम्यग् वर्त्तमानेन वैषयिकसुखसमुदयापरित्यागेऽपि तास्ता अणिमादयोऽष्टौ सिद्धयः प्राप्यन्ते यासां महान्ति फलानि समीपतरवर्त्तीनि भवन्ति, प्राकृतसिद्धिषु वशी- करणादिषु तु विदुषानास्था तासां योगप्रतिबन्धकत्वादिति भावः। 'अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः' इति सि- द्धिनामानि, तत्र येनैश्वर्येणाणुर्भवति सोऽणिमा, येन महान् भवति स महिमा, येन पर्वतादिवद्गुरुर्भवति स गरिमा, येनातिलघु भवति स लघिमा, येनाङ्गुल्यग्रेण चन्द्रं स्पृशति स प्राकाम्यनामा, येनैश्वर्येण भूतभौतिकादीनां नियन्ता भवति तदीशत्वम्, येन चेन्द्रियाणि वश्यानि भवन्ति तद्वशित्वम् ॥ २२ ॥ आचार्य—गुरो, आचार्यराज-गुरुवर। 'कुलाचार्य' इदं तान्त्रिकाणां स्वाचार्य- सम्बोधनम्। अनभ्यासातिशयपीतया—सातिशयपीतया अनभ्यासपीतया च। दूरम्-अत्य- र्थम्। उन्मनीकृतः-अचेतनतां गमितः। मदापनयनम्-मददूरीक्रिया। आहरणसिद्धिः-आनयनक्षमता। 'स्त्रीषु' इति यथा भवान्मन्त्रोच्चारणमात्रेण सुरामाहृतवान् तथैव किं भवान् स्त्रियः पुरुषांश्चापि समाहर्त्तुं क्षमत इति प्रश्नार्थः। मिलती हैं, वे सिद्धियाँ हैं-वशीकरण, आकर्षण, मोहन, प्रशमन, क्षोभण, उच्चाटन। साधारण सिद्धियाँ तो विद्वानोंके योगमें विघ्न कर ही होती हैं ॥ २२ ॥ क्षपणक—अरे कापालिक, (सोचकर) अथवा आचार्य, आचार्यराज, कुलाचार्य। भिक्षु—(हंसकर) बिना आदतके इसने अधिक मदिरा पी ली है अतः पागल हो रहा है, इसकी नशा दूर कीजिये।
तृतीयोऽङ्कः १२७ कापालिकः-एवं भवतु । ( इति स्वमुखोच्छिष्टं ताम्बूलं क्षपणकाय ददाति ) क्षपणकः-( स्वस्थीभूय ) आचार्य, इदं पृच्छामि । यादृशी युष्माकं सुराया आहरणसिद्धिः किं तादृशी सिद्धिः स्त्रीषु पुरुषेष्वप्यस्ति । ( आचा- लिय्य, एव्वं पुच्छिस्सम् । जादिसी तुम्हाणं सुलाए आहलणसिद्धी किं तादिसी सिद्धी इत्थिआसु पुलिसेसु अवि अत्थि ) कापालिकः-किं विशेषेण पृच्छयते । पश्य- विद्याधरीं वाथ सुराङ्गनां वा नागाङ्गनां चाप्यथ यक्षकन्याम् । यद्यन्ममेष्टं भुवनत्रयेऽपि विद्याबलात्तत्तदुपाहरामि ॥ २३ ॥ क्षपणकः-भो, इदं मया गणितेन ज्ञातम् । यत्सर्वेऽपि वयं महामो- हस्य किङ्करा इति । ( भो, एदं मए गणिदेण ण्णादं । जं सव्वेवि अम्हे महा- मोहस्स किंकले त्ति ) किं विशेषेण पृच्छयते-सामान्यतः सर्वाहरणे क्षमं प्रति विशेषाहरणक्षमत्वपर्यनु- योगो नोचित इति भावः । विद्याधरीमिति० विद्याधरीम्-विद्याधरस्त्रियम्, अथवा सुराङ्गनाम् देवललनाम् , वा नागाङ्गनाम् नागपत्नीम् , अथवा यक्षकन्याम् अकृतविवाहाम् यक्षीम्-भुवन- त्रितये त्रिभुवने यद्यन्मम इष्टम् अभिलषितम् तत्तत् विद्याबलात् आकर्षणप्रयोजक- मन्त्रसिद्धिप्रभावात् उपाहरामि समीपे नयामि, स्पष्टमन्यत् ॥ २३ ॥ सर्वेऽपि वयम्-त्वं कापालिकः, अयं भिक्षुः, अहं क्षपणकश्चेति वयम् । कापालिक-ऐसा करो ( अपना जूठा पान क्षपणकको देता है ) क्षपणक-( स्वस्थ होकर ) आचार्ये, यह पूछता हू, जिस प्रकार आप सुराका आह- रण कर सकते हैं उसी प्रकार क्या स्त्रियों और पुरुषोंका भी आहरण कर सकते हैं । कापालिक-खास खास वस्तुके लिये क्या पूछते हो ? देखो- विद्याधरी, देवाङ्गना, नागाङ्गना अथवा यक्षकन्या कोई हो, संसारमें जिसे चाहूँ अपनी विद्याके बलसे आहृत कर सकता हूं ॥ २३ ॥ क्षपणक-गणितके द्वारा मै यह जानता हूँ कि सभी हम महामोहके किङ्कर हैं ।
१२८ प्रबोधचन्द्रोदयम् उभौ—यथा ज्ञातमायुष्मता। एवमेतत्। क्षपणकः—तर्हि राजकार्यं किमपि मन्त्रितव्यम्। (ता लाअकज्जं किवि मन्तिदव्वम्) कापालिकः—कि तत्। क्षपणकः—सत्त्वस्य सुता श्रद्धा महाराजस्याज्ञयाह्रियतामिति । (सत्तस्स सुदा सद्धा महालाअस्स आणए आहलिअदु त्ति) कापालिकः—कथय क्वासौ दास्याः पुत्री। एष तानचिरमेव विद्या- बलादुपाहरामि। (क्षपणकः खटिकामादाय गणयति) शान्तिः—सखि, अम्बागतमिव हताशानामालापं शृणोमि तदवधा- नेन तावदाकर्णयावः। करुणा—सखि, एवं कुर्मः! (सहि एव्वं करेम्ह) (उभे तथा कुरुतः) क्षपणकः—(गाथां गणयित्वा) यथा ज्ञातम्-सत्यमवगतम्। राजकार्यम्-मोहस्येष्टसिद्धं कर्म। मन्त्रयितव्यम्-चिन्तनीयम्। सत्त्वस्य सुता-सात्त्विकी, श्रद्धेत्यस्य विशेषणम्। आह्रियताम्-आकृष्य समीपं प्राप्यताम्। दास्याः पुत्रीति निन्दायाम्। अम्बागतम्-मन्मातुः श्रद्धासम्बन्धे। हताशानाम्-नीचानाम्। आलापम्- वार्त्ताम्। अवधानेन-सावधानतया। दोनों—जैसा तुमने समझा है, ठीक है। क्षपणक—तो फिर कुछ राजकार्य सोचना चाहिये। कापालिक—वह क्या? क्षपणक—सत्त्वसुता श्रद्धा महाराजकी आज्ञासे आहृत की जाय। कापालिक—बताओ, वह अभागी कहाँ है? मै अभी उसे विद्याबलसे आहृत करता हूँ। (क्षपणक खल्लीसे गणना करता है) शान्ति—सखि, अपनी मांके विषयकी इन अभागोंकी बातें सुन रही हूं, ध्यानसे सुनें। करुणा—सखि, वैसा ही करें (दोनो सुनती हैं) क्षपणक—(गाथा गिनकर).
तृतीयोऽङ्कः १२६ नास्ति जले नास्ति स्थले, नास्ति गिरिगह्वरेषु नास्ति पाताले । सा विष्णुभक्त्या सहिता, वसति हृदये महात्मनाम् ॥ २४ ॥ (णत्थि जले णत्थि थले, णत्थि गिलिगव्व्हलेसु णत्थि पाआले । सा विण्णुभत्तिसहिदा, वसदि हिअए महम्माणम् ॥) करुणा— (सानन्दम्) सखि, दिष्ट्या वर्धसे विष्णुभक्त्या देव्याः पार्श्ववर्तिनी श्रद्धेति । (सहि दिट्ठिआ वड्ढसि विण्णुभत्तिए देवीए पास्सवरि- तणी सद्धेत्ति) (शान्तिः हर्षं नाटयति) भिक्षुः—अथ धर्मस्य कामादपक्रान्तस्य कुत्र प्रवृत्तिः ? क्षपणकः— (पुनर्गणयित्वा) नास्ति जले नास्ति वने, नास्ति गिरिह्वरेषु नास्ति पाताले । विष्णुभक्त्या सहितो, वसति हृदये महात्मनाम् ॥ २५ ॥ (णत्थि जले णत्थि वणे, णत्थि गिलिगव्व्हलेसु णत्थि पाआले । विण्णुभत्तीए सहिदो, वसदि हिअए, महम्माणम् ॥) कापालिकः—(सविषादम्) अहो महत्कष्टमापतितं महाराजस्य । तथाहि— नास्तीति० गिरिगह्वरेषु-पर्वतकन्दरासु । विष्णुभक्तिसहिता-विष्णुभक्तिसहचरी सात्त्विकी श्रद्धा । महात्मनां तपस्विनां भक्तानां हृदये वसतीत्यर्थः ॥ २४ ॥ पार्श्ववर्त्तिनी-समीपस्था । कामादपक्रान्तस्य-निष्कामभावेन कृतस्य । प्रवृत्तिः-उपलब्भः । नास्तीति० पूर्ववत् । महात्मान एव निष्कामधर्मचारिणोऽतो निष्कामो धर्मस्तेषा- मेव हृदये स्थातुमर्हतीति भावः ॥ २५ ॥ महत्कष्टम्-अतिदुःखम् । न जलमे है, न स्थलमें है, न काननकन्दरामें है, न पातालमे है। वह विष्णुभक्तिके साथ महात्माओंके हृदयमें वास करती है ॥ २४ ॥ करुणा--(आनन्दसे) सखि, तुम बड़ी भाग्यवती हो, श्रद्धा विष्णुभक्तिकी पार्श्ववर्त्तिनी है । (शान्ति हर्ष प्रकट करती है) भिक्षु—और धर्मसे अपक्रान्त कामकी क्या खबर है ? क्षपणक—(फिर गिनकर) न स्थलमें है, न जलमें है न काननकन्दरामें है, न पातालमें हैं, विष्णुभक्तिके साथ महात्माओंके हृदयमें है ॥ २५ ॥ कापालिक—(विषादके साथ) महाराजको महान् कष्ट उपस्थित है, क्योंकि— १६ प्र० च०
१३० प्रबोधचन्द्रोदयम् मूलं देवी सिद्धये विष्णुभक्ति- स्तां च श्रद्धानुव्रता सत्त्वकन्या । कामान्मुक्तस्तत्र धर्मोऽप्यभूच्चे- त्सिद्धं मन्ये तद्विवेकस्य कृत्यम् ॥ २६ ॥ तथापि तावदसुव्ययेनापि स्वामिनः प्रयोजनमनुष्ठेयम् । तन्महाभैरवीं विद्यां धर्मश्रद्धयोराहरणाय प्रस्थापयामः । ( इति निष्क्रान्ताः सर्वे ) शान्तिः—आवामप्येवं हताशानां व्यवसायं देव्यै विष्णुभक्त्यै निवेदयावः । ( इति निष्क्रान्ते ) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके तृतीयोऽङ्कः ॥ ३ ॥ मूलमिति० सिद्धये बोधोदयरूपकार्यनिष्पत्तये मूलम् आदिकारणम् देवी विष्णु- भक्तिः, ताम् विष्णुभक्तिञ्च सत्त्वकन्या सात्त्विकी श्रद्धा अनुव्रता अनुगता । चेत् यदि कामान्मुक्तः निष्कामः धर्मोऽपि तत्र विष्णुभक्तिश्रद्धयोः स्थाने तत् तदा विवे- कस्य कृत्यम् सिद्धं जातम् मन्ये उत्प्रेक्षे । निष्कामकर्मानुतिष्ठतां सात्त्विकश्रद्धाशा- लिनाम् विष्णुभक्त्याऽन्तःकरणशुद्धिद्वारा विद्योदयो जायत इति तात्पर्यम् ॥ २६ ॥ असुव्ययेन-प्राणपणेन । स्वामिनः-मोहस्य । प्रयोजनम्-सात्त्विकश्रद्धाविष्णु- भक्त्योर्विघटनम् । अनुष्ठेयम्-कर्त्तव्यम् । आहरणाय-आनयनाय, बलादाकृष्यात्रा- नयनायेति भावः । एवम्-ईदृशम् , धर्मश्रद्धयोराहरणप्रवृत्तिरूपम् । व्यवसायम्-प्रवृत्तिम् । इति मैथिलपण्डितश्रीरामचन्द्रमिश्रप्रणीते प्रबोधचन्द्रोदय'प्रकाशे' तृतीयाङ्क'प्रकाशः' ॥ सिद्धिका मूल है विष्णु भक्ति, उसके साथ सात्त्विकी श्रद्धा है, कामसे मुक्त होकर धर्म भी अगर वहाँ पहुँच जाय तो समझना चाहिये कि विवेकका कार्य सिद्ध हो गया ॥ २६ ॥ तथापि प्राणव्यय करके भी स्वामीका कार्य करना ही है। अतः धर्म और श्रद्धाको आहूत करने के लिये महाभैरवी विद्याको भेजता हूं । ( सबका प्रस्थान ) शान्ति—हम दोनों भी इन अभागोकी गतिविधिका देवी विष्णुभक्तिसे निवेदित करें । ( दोनों जाती हैं ) तृतीय अङ्क समाप्त
चतुर्थोऽङ्कः ( ततः प्रविशति मैत्री ) मैत्री—श्रुतं मया मुदितायाः सकाशाद्यथा महाभैरवीसङ्ग्रसनसंभ्र- माद्भगवत्या विष्णुभक्त्या परित्राता प्रियसखी श्रद्धेति । तदुत्कण्ठितेन हृदयेन प्रियसखीं श्रद्धां कदा प्रेक्षिष्ये । ( सुदं मए मुदिताए सकासादो जहा महाभैरवीसङ्गसणसम्भमादो भअवदीए विण्हुभत्तीए परित्तादा पिअसही सद्धेत्ति । ता उक्कण्ठिदेण हिअएण पिअसहीं सद्धां कदा पेक्खिसम् ) ( परिक्रामति ) ( ततः प्रविशति श्रद्धा ) श्रद्धा—( सभयोत्कम्पम् ) घोरां नारकपालकुण्डलवतीं विद्युच्छटां दृष्टिभि- र्मुञ्चन्तीं विकरालमूर्तिमनलज्वालापिशङ्गैः कचैः । मैत्री—मैत्रीकरुणामुदितोपेक्षा नाम चतस्रो वृत्तयो मताः, तास्वेकतया मैत्री । महाभैरवीसङ्ग्रसनसम्भ्रमात्-महाभैरवी कापालिकप्रेषिता पिशाची श्रद्धामाहर्त्तु- मायाता तया सङ्ग्रसनं पीडनमाहरणार्थं बलाद्ग्रहणम् , ततः संभ्रमः भयम् , तस्मात् । उत्कण्ठितेन-उत्कलिकाऽऽकुलेन । कस्या अपि सख्या महतोऽनर्थकराद्- व्यसनात्राणे जाते श्रुततदीयवृत्तान्तायास्तदीयायाः सख्यास्तद्दर्शनोत्कण्ठास्वभाव- सिद्धा समाजोचिता चेति प्रसिद्धेरनुरोधेनायं ग्रन्थः । सभयोत्कम्पम्-भयकृतेन कम्पेन सह । भयनिवृत्तावपि भयकृतः कम्पश्चिरमनु- वर्त्तत इति श्रद्धायाः कम्पो वर्ण्यते । घोरमिति० घोराम् भीषणाकृतिम् , नारकपालकुण्डलवतीम् नृमुण्डकृतकुण्डल- भूषणाम् , दृष्टिभिः उग्रदृष्टिपातैः विद्युच्छटाम् शम्पासम्पातम् मुञ्चन्तीम् बहिर्भाव- यन्तीम् , अनलज्वालापिशङ्गैः वह्निशिखाकपिलैः कचैः केशैः विकरालमुर्त्तिम् भय- ( मैत्रीका प्रवेश ) मैत्री—मैने मुदिताके मुहसे सुना है कि महाभैरवी द्वारा ग्रस्त होनेसे श्रद्धाको भगवती विष्णुभक्तिने बचा लिया है । अतः उत्कण्ठित हृदयसे प्रियसखी श्रद्धाको कब देखूंगी । ( चलती है ) ( श्रद्धाका प्रवेश ) श्रद्धा—( भयसे कम्पित होकर ) भयानक नरकपालका कुण्डल धारण करने वाली, दृष्टिसे विद्युच्छटा प्रकट करने वाली, विकराल मूर्त्ति, आगकी लपट सदृश केशधारिणी,
१३२ प्रबोधचन्द्रोदयम् दंष्ट्राचन्द्रकलाङ्कुरान्तरललज्जिह्वां महाभैरवीं पश्यन्त्या इव मे मनः कदलिकावेवाद्याप्यहो वेपते ॥ १ ॥ मैत्री—( स्वगतम् ) अये, एषा मे प्रियसखी श्रद्धा भयसमुद्भ्रान्त- हृदयाकलितकम्पतरलैरङ्गैः किमपि मन्त्रयन्ती संमुखागतामपि मां न लक्षयति । तस्मादालपिष्यामि तावत् । ( प्रकाशम् ) प्रियसखि श्रद्धे, किमिति त्वमुत्कलितहृदया मामपि न विलोकयसि । ( अए, एसा मे पिअ- सही सद्धा भयसमुब्भान्तहिअआकलिदकम्पतरलेहि अङ्गेहि किवि मन्तअन्ती संमुहागदंवि मं ण लक्खेदि । ता आलविस्सं दाव । पिअसहि सद्दे, किति तुमं उक्कलिदहिअआ मंवि ण विलोएदि ) ङ्कुरविग्रहाम्, दंष्ट्राचन्द्रकलाङ्कुरान्तरललज्जिह्वाम् दंष्ट्राः दन्ताः एव चन्द्रकलाङ्कुराः बालचन्द्रमसः प्ररोहाः तासाम् अन्तरे मध्ये ललन्ती चला जिह्वा रक्ताभ्ररसना यस्याः सा ताम्, महाभैरवीम् कपालिकप्रेरिताम् मदाहरणायागताम् भैरवीं नाम विद्याप्रभेदम् पश्यन्त्याः सद्यो विलोकयन्त्या इव मे मम श्रद्धाया मनः कदलिकावत् रम्भातरुपत्रवत् अद्यापि चिरस्य भयकारणे निवृत्तेऽपि वेपते कम्पते । अयमाशयः- कापालिकेन मदाहरणाय प्रहितां घोरदर्शनां नृकपालकुण्डलभूषणां कपिशवर्णैः कचै- र्विकरालं वपुर्दधतीं चन्द्रकलाङ्कुरोपमदशनमध्यचललोललोहितरसनां तां महाभैरवीं दृष्ट्वा तथाऽहमभैषं यथाऽधुनाऽपि भयकारणीभूताया भैरव्या विष्णुभक्त्या कृतेऽपि मम पश्यन्त्याः पुरत एव विनिपाते सातिशयभीतिकृतो मम मनःकम्पो न निवर्त्तत इति । शार्दूलविक्रीडित वृत्तम् ॥ १ ॥ भयेनि० भयेन भीत्या समुद्भ्रान्तम् अनवस्थितम् यद् हृदयम् चित्तम् तेन आकलितः प्राप्तः यः कम्पः चलत्वम् तेन तरलैः चञ्चलैः । भयसकोपहृदयवशाच्चलद्भिरि- त्यर्थः । मन्त्रयन्ती-मन्दमभिदधाना । संमुखांगताम्-पुरोवर्त्तिनीम् । न लक्षयति- न विभावयति, अन्यमनस्कतया मदागमन न चेतयत इत्यर्थः । आलपिष्यामि- सम्बोध्य किमपि व्याहरिष्यामि, ( येन मदभिमुखीभूतायास्तस्या जायेत मदुप- स्थितिबोधः ) उत्कलितहृदया-अनवस्थितहृदया । मामपीत्यपिनाऽतिसख्यकृतं न्तरूप चन्द्रकलाके बीच रक्ताभ जिह्वाधारिणी, महाभैरवीको जैसे मैं अब भी देखती होऊं उसी प्रकार कदलीकी तरह हमारा मन कांप रहा है ॥ १ ॥ मैत्री— ( स्वगत ) अरे, भयातुर हृदया यह हमारी सखी श्रद्धा भयतरल अङ्गोंसे कुछ कह रही है और समीपमे सम्मुख आजाने पर भी मुझे नहीं देख रही है । मै इसे टोकूंगी । ( प्रकाश ) प्रियसखि श्रद्धे, क्यों तुम इतनी विकल हृदया हो रही हो कि मुझे भी नहीं देख रही हो ।
चतुर्थोऽङ्कः १३३ श्रद्धा—( विलोक्य सोच्छ्वासम् ) अये, मे प्रियसखी मैत्री। कालरात्रिकरालास्यदन्तान्तर्गतया मया। दृष्टासि सखि सैव त्वं पुनरत्रैव जन्मनि ॥ २ ॥ तदेहि गाढ परिष्वजस्व माम्। मैत्री—( तथा कृत्वा ) सखि, तदा विष्णुभक्तिनिर्भर्त्सितप्रभावाया महाभैरव्याः कस्मात्तेऽद्यापि वेपन्तेऽङ्गानि। (सहि, तधा विण्णुभत्तिणिब्भ- त्थिदप्पभावाए महाभैरवीए कहं दे अज्जवि वेवन्दि अङ्गाईं ) ( श्रद्धा घोरमित्यादि पठति ) विलोकनस्यात्यन्तौचित्यं समर्थ्यते। सोच्छ्वासम्—उच्छ्वासश्चात्र प्रियजनदर्शनजन्मा, तत्रापि विशिष्य सच एव महाऽऽपदुपनिपातस्य जातस्यानुध्यातत्वेन दुःखस्मरणकृतमनःखेदप्रभवो बोध्यः, तथा चोक्तं-‘स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते’ इति। ‘अत्र किमपि मन्त्रयन्ती’ इत्यादिना वितर्कप्रतीतेरूपारूढ्यं तृतीयमङ्गम, ‘रूपं वाक्यं वितर्कमत्’ इति तल्लक्षणात्। कालरात्रीति० कालरात्रेरिब करालम् भयावहमास्यं मुखं तत्र ये दन्ताः तदन्तः तन्मध्ये गतया प्रवेशं गतया मया सैव त्वम् पुनः अत्रैव जन्मनि दृष्टाऽसि। इदं मम सौभाग्यं यन्मृत्योरिव तस्या मुखान्निष्पार्यं निर्याय प्रियसखीं त्वामत्रैव जन्मनि दृशा पिबामीति भावः ॥ २ ॥ तत्-मृत्युसदृशविपदुत्तीर्णाया मम प्रमोदायैम्। एहि-आगच्छ। परिष्वजस्व- आलिङ्ग। तथा कृत्वा-आलिङ्ग्य। विष्णुभक्तिनिर्भर्त्सितप्रभावायाः-देव्या विष्णुभक्त्या दृष्टिपातेन पातयित्वा नाशितायाः, वेपन्ते-कम्पन्ते। श्रद्धा—(देखकर आश्वस्त होकर) अरे, मेरी सखी मैत्री है! महाभैरवीके कालरात्रीकी तरह भयङ्कर मुंह तथा दांतके भीतर जाकर भी पुनः इसी जन्ममें मैंने तुम्हें देखा ॥ २ ॥ अतः आओ, जोरसे तुम्हे गले लगालूं। मैत्री—(वैसा करके) सखि, जब कि विष्णुभक्तिने महाभैरवीके प्रभावको उस तरह दूर कर दिया तब फिर क्यों तुम्हारे अङ्ग अब भी कांप रहे हैं। (श्रद्धा ‘घोराम्’ इत्यादि दुहराती है)
१३४ प्रबोधचन्द्रोदयम् मैत्री—(सत्रासम्) अहो, हताशा घोरदर्शना। अथ तयागतया किं कृतम्। (अहो, हदासा घोलदंसणा। अध ताए आगदाए किं किदम्) श्रद्धा— श्येनावपातमवपत्य पदद्वये मा- मादाक धर्ममपरेण करेण घोरा। वेगेन सा गगनमुत्पतिता नखाग्र- कोटिस्फुरत्पिशितपिण्डयुगेव गृध्री ॥ ३ ॥ मैत्री—हा धिक् हा धिक्। (हद्धी हद्धी) (इति मूर्च्छति) श्रद्धा—सखि, समाश्वसिहि समाश्वसिहि। मैत्री—(आश्वस्य) ततस्ततः। (तदो तदो) श्रद्धा—ततः परमस्मदीयार्त्तनादोपजातदयार्द्रचित्तया देव्या— हताशा-अधमा। घोरदर्शना-भीषणाकृतिः। तया-महाभैरव्या। श्येनावपानमिति० घोरा सा श्येन इव अवपत्य श्येनावपातम् अवपत्य निपत्य पदद्वये चरणद्वये चरणद्वयावच्छेदेन माम् आदाय गृहीत्वा अपरेण मद्ग्रहणोपारूढ- करातिरिक्तेन करेण हस्तेन धर्मम् आदाय गृहीत्वा नखाग्रकोटयोः नखाग्रभागयोः स्फुरत्पिशितपिण्डयुगा धृतमांसखण्डद्वया गृध्री इव गगनमुत्पतिता आकाशे उद्- डीयतः। यथा गृध्री हठाद्भूतौ निपत्य नखाग्रभागेन पिशितखण्डयुगमादाय पुन- र्व्योम गाहते, तथैवासौ भैरवी श्येनवदुपनिपत्यैकेन करेण मम पादौ परेण च धर्ममादाय नभ उदपतत् इति भावः। 'श्येनावपातम्' इत्यत्र-'कर्तर्युपमाने' इति णमुलू ॥ ३ ॥ अस्मदीयार्त्तनादोपजातदयार्द्रचित्तया—मम धर्मस्य च करुणक्रन्दनेन करुणापर- मैत्री—(डरसे) वह अभागी बड़ी डरावनी है। उसने आकर क्या किया? श्रद्धा—बाजकी तरह झपट कर आई, हमारे दोनो चरणोंको एक हाथसे और दूसरे हाथसे धर्मको पकड़ वह दुष्टा वेगसे आकाशकी ओर उड़ी, उस समय वह ऐसी लगती थी मानो किसी गृध्रीके नखाग्रमे मासखण्ड हो और वह उड़ रही हो ॥ ३ ॥ मैत्री—हाधिक् हाधिक्! (मूर्च्छित होती है) श्रद्धा—सखि, धीरज धरो, धीरज धरो। मैत्री—(आश्वस्त होकर) तब क्या हुआ? श्रद्धा—उसके बाद हमारे आर्त्तनाद सुनकर देवीको दया हो आई और—
चतुर्थोऽङ्कः १३५ भ्रूभङ्गभीमपरिपारटलदृष्टिपात- मुद्गाढकोपकुटिलं च तथा व्यलोकि । सा वज्रपातहतशैलशिलेव भूमौ व्याभुग्नजर्जरशिरोऽस्थि यथा पपात ॥ ४ ॥ मैत्री—दिष्ट्या मया दृष्टा क्रुद्धशार्दूलमुखाद्विभ्रष्टा मृगीव क्षेमेण संजीविता प्रियसखी । (दिट्ठिआ मए दिट्ठा कुद्धसद्दूलमुहादो विब्भट्ठा मिईव क्खेमेण संजीविदा पिअसही) श्रद्धा—ततो देव्या समुपजाताभिनिवेशमुक्तमेवमस्य दुरात्मनो महा- मोहहतकस्य मामप्यवज्ञाय प्रवर्तमानस्य समूलमुन्मूलनं करिष्यामीति । वशहृदयया । देव्या-विष्णुभक्त्या । भ्रूभङ्गेति० (विष्णुभक्त्या देव्या सा भैरवी) भ्रुवोः भङ्गः कौटिल्यम् तेन भीमः भयङ्करः, परिपाटलः श्वेतरक्तश्च दृष्टिपातो यत्र कर्मणि तत्तथा, उद्गाढकोपकुटिलम् समधिकक्रोधवक्रं च तथा तेन प्रकारेण व्यलोकि दृष्टा, यथा सा भैरवी वज्रपातहत- शैलशिला अशनिपतनातहतपर्वतशिखर इव व्याभुग्नजर्जरशिरोऽस्थि व्याभुग्नं कुटि- लीभूतं जर्जरं चूर्णितञ्च शिरोऽस्थि यत्र तथा भूमौ पपात । कुटिलभ्रूयुतरक्तदृष्ट्या देव्या विलोकनप्रभावेण दिवः पतन्त्यास्तस्या भैरव्याः शिरोऽस्थिचूर्णं वज्राहतशिलेव च सा भूमावपतत् इत्यर्थः ॥ ४ ॥ 'ततः परम्' इत्यारभ्य 'पपात' इत्यन्तेन विष्णुभक्तेरुत्कर्षप्रतिपादनात् उदा- हरणाख्यं चतुर्थमङ्गमपन्यस्तं वेद्यं तथा च तल्लक्षणम्-'उत्कर्षेणान्वितं वाक्यमुदाहरण- मिष्यते' इति । क्रुद्धशार्दूलमुखात्-कुपितव्याघ्रवदनात्, विभ्रष्टा-च्युता, क्षेमेण- कुशलपूर्वकम् । यथा कुपितेन व्याघ्रेण धृता मृगी कदाचिदेव भाग्यवशात्ततो भ्रष्टा जीवति तथैवाकस्मादेव भवत्या जीवितमिति धन्यं तव सौभाग्यमिति भावः । समुपजाताभिनिवेशम्-सक्रोधम् । एवम्-दृष्टेन प्रकारेण । महामोहहतकस्य- भौंहें टेढ़ी करके रक्त नेत्रोंसे कोपकुटिल रूपमें देवीने इस प्रकार देखा कि वह वज्राहत शिलाखण्डकी तरह गिरी, उसका सिर जर्जर हो गया और उसकी हड्डी चूर चूर हो गई ॥४॥ मैत्री—भाग्यवश मैं कुपित शार्दूलमुखपतित मृगीके समान सकुशल जीती हुई सखीको देख सकी । श्रद्धा—इसके बाद आवेशमे आकर देवीने कहा कि यह दुष्ट महामोह मुझे भी अप मानित करके प्रवृत्त हो रहा है इसलिये उसका समूल उन्मूलन कर दूँगी। देवीने मुझे
१३६ प्रबोधचन्द्रोदयम् आदिष्टा चाहं देव्या । यथा गच्छ श्रद्धे, ब्रूहि विवेकम् । कामक्रोधादीनां निर्जयायोद्योगः क्रियताम् । ततो वैराग्यं प्रादुर्भाविष्यति । अहं च यथा- समयं प्राणायामाद्यनुप्राणनेन युष्मत्सैन्यमनुग्रहीष्यामि । ऋतंभरादयश्च देव्यः शान्त्यादिकौशलेनोपनिषद्देव्या संगतस्य भगवतः प्रबोधोदयमनु- विधास्यन्तीति । तदहमिदानीं विवेकसंनिधि प्रस्थिता । त्वं पुनः किमा- चरन्ती दिवसानतिवाहयसि । मैत्री—वयमपि विष्णुभक्तेराज्ञया चतस्रो भगिन्यो विवेकसिद्धि- कारणेन महात्मनां हृदयेऽभिवर्त्तामहे । ( अम्हेवि विण्णुभत्तीए आणाइए चतस्सो बहिणीओ विवेजसिद्धिकालणेण महाप्पणं हिअए अहिवट्टम्हो ) ( संस्कृत- माश्रित्य ) तथाहि— नीचस्य मोहस्य अवज्ञाया-अगणयित्वा । प्रवर्त्तमानस्य-विजृम्भमाणस्य । ममापि समीपे स्थितयोर्धर्मश्रद्धयोः सरभसमाहरणाय मोहेन महाभैरवी प्रेषिता तत्तस्य मां प्रति तिरस्कारप्रदर्शनं महानपराध इति प्रसङ्गः । समूलमुन्मूलनम्-सान्वयविना- शम् । आदिष्टा-आज्ञप्ता । निर्जयाय-विजेतुम् । यथासमयम्-योग्य काले । प्राणाया- माद्यनुप्राणनेन-प्राणायामप्रत्याहारध्यानधारणादीनामुज्जीवनेन । युष्मत्सैन्यम्-तव परिकरम् । ऋतम्भराद्याः ऋतम्भराप्रभृतयः, ऋतम्भरा नाम प्रज्ञा निर्वीजसमाधौ जायते यस्यां जातायां शुद्धं ज्ञानमाविरस्ति, तदुक्तं योगदर्शने-'निर्विचारवैशारद्येऽ- ध्यात्मप्रसादः' 'ऋतम्भरा तत्र प्रज्ञा' 'श्रुतानुमानं प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्' । शान्त्यादिकौशलेन-शान्तिप्रभृत्युपायेन, मानिन्यो हि शान्त्याद्युपायैः पुरुषाभिमुख्यः क्रियन्त इति प्रथितमेव । ( उपनिषद्-जननी, विवेकः पिता, प्रबोधो भावी पुत्रः, उपनिषदा विवेकं योजयितुमपेद्यमाणाः शान्त्यादयः ) अनुविधास्यन्ति-सम्पाद- यिष्यन्ति । विवेकसंनिधिं प्रस्थिता-विवेकपार्श्वं चलिता । अतिवाहयसि-यापयसि । आज्ञा दी है कि-श्रद्धे, जा, विवेकसे कहदे, वह काम-क्रोध आदिको जीतनेकी तैयारी करे । इससे वैराग्यकी उत्पत्ति होगी । मै यथा समय प्राणायाम आदिसे तुम्हारे सैन्यकी सहायता किया करूंगी । ऋतंभरा आदि देवियाँ शान्ति आदिके कौशलसे विवेकके साथ देवी उपनिषद्की सङ्गति कराकर प्रबोधोदय करेंगे । अतः मैं इस समय विवेकके पास चली हूँ । तुम क्या करती हुई दिन बिताती हो ? मैत्री—हम भी विष्णुभक्तिकी आज्ञासे चारो बहनें विवेककी सफलताके लिये महा- त्माओके हृदयमें रहा करती हैं । (संस्कृत द्वारा) देखिये—
चतुर्थोऽङ्कः १३७ ध्यायन्निमां सुखिनि दुःखिनि चानुकम्पां पुण्यक्रियेषु मुदितां कुमताबुपेक्षाम् । एवं प्रसादमुपयाति हि रागलोभ- द्वेषादिदोषकलुषोऽप्ययमन्तरात्मा ॥ ५ ॥ तदेवं चतस्रोऽपि भगिन्यो वयं तदभ्युदयकारणेनैव वासरान्नयामः । कुत्रेदानिं प्रियसखी महाराजमालोकयति । श्रद्धा—देव्या एतदेवमुक्तम् । अस्ति राढाभिधानो जनपदः । तत्र चतस्रो भगिन्यः-मैत्रीकरुणामुदितोपेक्षाः । विवेकसिद्धिकारणेन-विवेकस्याभि- मतं साधयितुम् । ध्यायन्निमामिति० अन्तरात्मा जीवः सुखिनि सुखयुक्ते जीवे इमाम् मैत्रीम् , दुःखिनि खिन्ने च जीवे अनुकम्पाम् कृपाम् करुणावृत्तिम् , पुण्या क्रिया येषां ते पुण्यक्रियाः सुकृतिनस्तेषु मुदिताम् सन्तोषरूपाम् , कुमतौ कुकार्यकरे उपेक्षाम् उदासीनतारूपाम् ध्यायन् चिन्तयन् एवम् अनेन प्रकारेण रागलोभद्वेषादिदोषक- लुषः तैस्तैर्दोषैर्मलिनीकृतोऽपि प्रसादम् निर्मलत्वलक्षणां शुद्धिं निर्दोषताम् उपयाति । अयमर्थः—अन्तरात्मा रागादिदोषदूषितोऽपि चतसृभिराभिर्वृत्तिभिरुपेतः कतकरजो- मिश्रितजलवदपेतमलः स्वाभाविकीं निर्मलतां प्राप्नोति, उपेक्षया कुमतिसंसर्ग- निरासाद्रागादयः परास्ताः, पुण्यक्रियेषु मुदिताऽऽलम्बनात् संगतिमाहात्म्यान्मोह- निरासः, दुःखिषु करुणया क्रोधादिविनाशः, सुखिनि मैत्र्या द्वेषप्रशमः, तदेवं मैत्र्या- दिभिश्चित्ते निर्मलतामापादिते निर्मलत्वमात्मनो भासत इति । उक्तश्चायमर्थः सूत्र- रूपेण योगदर्शने—'मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भाव- नातश्चित्तप्रसादनम्' इति । वसन्ततिलकं वृत्तम् , लक्षणमन्यत्रोक्तम् ॥ ५ ॥ वयम्-मैत्र्यादयः । तदभ्युदयकारणेन-विवेकसमुन्नतये । प्रियसखी-भवती मैत्री । महाराजमालोकयति-महाराजस्य विवेकस्य दर्शनं प्राप्नोति, महाराजोऽधुना कुत्रा- स्तीति भावः । देव्या-विवेकपत्न्या मत्या । एतत-महाराजस्य स्थानम् । जनपदः-देशः । सुखियोंके ऊपर मैत्री, दुःखियोंके ऊपर करुणा, धर्मात्माओंमें मुदिता और दुर्बुद्धियों पर उपेक्षा इसप्रकार वृत्ति रखनेसे रागद्वेषकलुष होकर भी यह अन्तरात्मा प्रसाद प्राप्त करता है ॥ ५ ॥ इस प्रकार हम चारों बहनें विवेकके अभ्युदयके लिये ही दिन बिता रही हैं । तुम इस समय महाराजसे कहाँ मिलोगी ? श्रद्धा—देवीने इस विषयमें इस प्रकार कहा है । 'राढा नामका एक देश है, वहाँ
१३८ प्रबोधचन्द्रोदयम् भागीरथीपरिसरालंकारभूते चक्रतीर्थे मीमांसानुगतया मत्या कथंचिद्धा- र्यमाणप्राणो व्याकुलेनान्तरात्मना विवेक उपनिषद्देव्याः संगमार्थं तप- स्तपस्यतीति । मैत्री—तद्गच्छतु प्रियसखी । अहमपि स्वकं नियोगमनुतिष्ठामि । ( ता गच्छदु पियसही । अहंवि स्सकं णिओअं अणुचिट्ठामि ) श्रद्धा—एवं भवतु । ( इति निष्क्रान्ते ) ( विष्कम्भकः ) ( ततः प्रविशति राजा प्रतीहारी च ) राजा—आः पाप महामोहहतक, सर्वथा हतस्त्वयायं महाजनः । तथाहि— तत्र-राढाभिधे देशे । भागीरथीपरिसरालङ्कृते—भागीरथ्या गङ्गायाः परिसरः निकटतमा भूमिः तदलङ्कृते, गङ्गातीरसमीपवर्त्तिनि । चक्रतीर्थे-तदाह्वये तीर्थस्थाने । मीमांसानुगतया-मीमांसा भट्टमतं तत्सहितया । मत्या-स्वपत्न्या । कथञ्चिद्धार्यमाणः-कथञ्चथमपि आश्वाशं लम्भ्यमानः । व्याकुलेन-व्यग्रेण । अन्त- रात्मना-हृदयेन । तपस्तपस्यति-तपस्यामाचरति । इदमत्र बोध्यम्-बोधोदयाद्य व्याकुलस्य धार्मिकस्य मतिर्वाश्यविचारसाधनत्वेन मीमांसाशास्त्रं सेवते, मीमांसा- सहाया च मतिस्तं स्थिरीकृत्य ज्ञातखण्डे प्रवर्त्तयति, स एवायमर्थोऽन्न रूपके निहितः । विवेकस्य बोधोदयोऽपेक्षितः । स व्याकुलभावेन तपश्चरति, तं च दासी- भूतया मीमांसया सहिता तत्पत्नी मतिः प्रबोधयतीति । नियोगम्-कर्त्तव्यम्, महात्मजनहृदयाध्यासनात्मकम् । पाप-पापाचारिन् । महामोहहतक-नीचमोह । गङ्गातट पर वर्तमान चक्रतीर्थमे मीमांसानुगता मति द्वारा किसी तरह अवलम्बितप्राण विवेक व्याकुल हृदयसे उपनिषद् देवीके साथ सङ्गमार्थ तपस्या कर रहे है'। मैत्री—तो तुम जाओ प्रियसखी, मै भी अपना कर्तव्य करने जा रही हू। श्रद्धा—ऐसा ही हो । ( दोनों जाती हैं ) ( विष्कम्भक ) ( राजा तथा प्रतीहारीका प्रवेश ) राजा—आः पापी महामोह, तुमने इस महात्माको सब तरहसे मार ही दिया । क्योंकि—
चतुर्थोऽङ्कः १३६ शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावली- निर्मुक्तेऽमृतसागराम्भसि मनाङ्मग्नोऽपि नाचामति । निःसारे मृगतृष्णिकार्णवजले श्रान्तोऽपि मूढः पिव- त्याचामत्यवगाहतेऽभिरमते मज्जत्यथोन्मज्जति ॥ ६ ॥ अथवा संसारचक्रवाहकस्य महामोहस्याबोधो मूलम् । तस्य च तत्त्वावबोधादेव निवृत्तिः । यतः— शान्त इति० मूढः अविवेकी जनः शान्ते अविद्याविक्षेपरहिते अनन्तमहिम्नि इयत्तापरिच्छेदरहिते महिमरूपे निर्मलचिदानन्दे आविद्यकदोषशून्यज्ञानानन्दरूपे तरङ्गावलीनिर्मुक्ते उच्चावचप्रपञ्चाहतविकाररहितेऽमृतसागरस्य निरपायसुधासमु- द्रस्य ब्रह्मानन्दस्याम्भसि जले आध्यात्मिकज्ञाने मग्नः स्वाभेदेन बुडितोऽपि नाचा- मति अंशतोऽपि तमानन्दं नास्वादयति । ( किन्तु ) निस्सारे पारमार्थिकताविरहि- तत्वेनातात्त्विके मृगतृष्णिकार्णवजले मृगमरीचिकातुल्ये सांसारिकसुखरूपपयसि श्रान्तः तत्कृतानेकदुःखबाधितः अपि पिवति आचामति, अवगाहते स्नाति, अभिरमते प्रसीदति, मज्जति अथ उन्मज्जति यथासम्भवं सर्वविधमप्युपयोगं कुर्वाणो विहरति । मूढोऽयं सांसारिको जीवः स्वाभेदेन विभाव्यतया समीपवर्त्तिनि शान्ते सर्वविध- बाह्योत्पातरहिते अनन्तमहिम्नि अनन्तविस्तारे निर्मले तरङ्गकृतबाधाया अभूमौ अमृतसागरे अनि मज्ज्य आत्मानन्दं परित्यज्य सांसारिकसुखरूपमरीचिकाजले सर्वविधमानन्दमनुभवतीत्यतिविचित्रमस्य मूढत्वमिति भावः । अयमात्मरूपोऽ- मृतसागरः शान्तो निरुपद्रवः, अनन्तश्च नित्यत्वात्, निर्मलो देहेन्द्रियादिविषयमल- राहित्यात्, अन्यस्तु सागरो नक्रमकरादिकृतोपद्रवसहितः सीमितो मलवांश्च भव- तीति व्यतिरेकः । अयमस्याशयः—सत्यज्ञानानन्तानन्दात्मकं स्वस्वरूपमजानञ्जीवः संसारदशामापन्नोऽविद्यावशादन्तःकरणधर्मान्दुःखादुरितादीन् प्राणधर्मान् क्षुत्पिपा- सादीन् देहधर्माञ्जरामरणादीन् ममाहमित्यभिमानमूलकान्पुत्रमित्रकलत्रादिगतसा कल्यवैकल्यादीनात्मन्यध्यस्य कष्टमनुभवतीति ॥ ६ ॥ संसारचक्रवाहकस्य-जन्मनः परतोऽन्यजन्मेति संसारपरम्परावाहिनः। अबोधः- शान्त, अनन्तमहिमाशाली, स्वच्छज्ञानस्वरूप, तरङ्गावलीशून्य, अमृतसमुद्रके जलमें डूब कर भी प्यास नहीं बुझाता है और निःसार मृगतृष्णाजलमे मूढ श्रान्त पामरजन पीता है, नहाता है, प्रसन्न होता है और डूबता-उतराता है ॥ ६ ॥ अथवा—संसारचक्रप्रवर्त्तक महामोहका अज्ञान ही मूल है, उसकी निवृत्ति तत्त्वान बोधसे ही होगी । क्योकिः—
२४० प्रबोधचन्द्रोदयम् अमुष्य संसारतरोरबोधमूलस्य नोन्मूलविनाशनाय । विश्वेश्वराराधनबीजजातात्तत्त्वावबोधादपरोऽभ्युपायः ॥ ७ ॥ ‘प्रायः सुकृतिनामर्थे देवा यान्ति सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥’ इति तत्त्वविदो व्याहरन्ति । तथा तु देव्या विष्णुभक्त्या संदिष्टं ‘उद्योगः कामादिविजयविषये क्रियताम्’ इति । अहमपि भवदर्थे गृहीत- पक्षेति । तत्र कामस्तावत्प्रथमो वीरो वस्तुविचारेणैव जीयते । तद्भवतु । अज्ञानम् । तत्त्वावबोधात्-स्वरूपज्ञानात्, आत्मबोधरूपब्रह्मसाक्षात्कारात् । नि- वृत्तिः-उपरमः ॥ अमुष्येति० अमुष्य अबोधमूलस्य अज्ञानप्ररूढस्य संसारतरोः भवबन्धनवृक्षस्य उन्मूलविनाशनाय समूलोत्पाटनाय विश्वेश्वरः परमात्मा तस्याराधनं सेवा मन- नादिः तदेव बीजमादिकारणं तस्माज्जातात् उत्पन्नात् तत्त्वावबोधात् आत्मज्ञानात् अपरः उपायः न अस्तीति शेषः । अनादिभावरूपाज्ञविजृम्भितमिमं संसारतरुमुत्पाट- यितुं तत्त्वज्ञानमेव प्रभवति, अज्ञानस्य ज्ञानैकनिवर्त्त्यत्वात्, तच्च तत्त्वज्ञानं विश्वे- श्वराराधनमन्तरा न संभवति, तदुक्तम्—‘ईश्वरचोदनाभिव्यक्ताद्धर्मादेव’ इति कणादसूत्रे । वंशस्थ वृत्तम्, ‘वदन्ति वंशस्थमिदं जतौ जरौ’ इति लक्षणात् ॥ ७ ॥ प्राय इति० सुकृतिनाम् पुण्यकर्मणाम् अर्थे प्रयोजने करणीये देवाः सहायताम् सहायकभावम् यान्ति प्रतिपद्यन्ते, अपन्थानम् निन्दितं वर्त्म गच्छन्तं तु सोदरः अत्यात्मीयः अपि विमुञ्चति साहायकानाचरणरूपं त्यागं करोतीत्यर्थः । देवानां सहायताऽनुकूलपरिस्थित्युत्पादनादिना सामग्रीसमाहरणेन च प्रसिद्धैव रामायणादौ, सोदरैस्त्यागस्यापि तत्रैव रावणचरितनिदर्शनम् ॥ तत्त्वविदः-ज्ञानिनः । व्याहरन्ति-कथयन्ति, व्याहार उक्तिर्लपितं भाषणं वचनं वचः’ इत्यमरः । तथा-तदनुसारम् । भवदर्थे-त्वया करणीये कामादिजये । प्रथमो अज्ञानमूलक इस संसार वृक्षके समूल विनाशमे भगवदाराधनसे जाततत्त्वावबोधके अतिरिक्त कोई उपाय नहीं है ॥ ७ ॥ ‘प्रायः सुकृतियोंके कार्यमें देवता भी सहायता करते हैं और कुमार्ग पर चलने वालोंको सोदर भी छोड़ देते हैं ॥ ऐसा तत्त्वज्ञोंका कहना है । और देवी विष्णुभक्तिने कहा है कि कामादिकी विजयके लिये उद्योग किया जाय । मै भी आपके पक्षमें रहूंगी । उसमें मुख्य वीर कामको तो वस्तु-
चतुर्थोऽङ्कः १४१ तमेव तावद्विजयार्थमादिशामि। वेदवति, आहूयतां वस्तुविचारः। प्रतीहारी—यद्देव आज्ञापयति। (जं देवो आणवेदि) (इति निष्क्रम्य वस्तुविचारेण सह प्रविशति) वस्तुविचारः—अहो निर्विचारसौन्दर्याभिमानवर्धिष्णुना कामहतकेन वञ्चितं जगत्। अथवा दुरात्मना महामोहेनैव। तथाहि— कान्तेत्युत्पललोचनेति विपुलश्रोणिभरेत्युन्नम- त्पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति। वीरः-मुख्यो योधः। वस्तुविचारेण-वस्तुस्वरूपविचारनामकेन। कामो वस्तुस्वरूप- विचारे क्रियमाणे नावतिष्ठते, आपातरामणीयता हि विषयाणामाकृष्य कामं समे- धयति, विचारेण तु तेषामापातरमणीयता विपरिवर्त्तते वास्तविकरूपे, ततो निव- र्त्तते काम इति वस्तुविचारेण कामजय उक्तः। तमेव-वस्तुविचारमेव। विजया- र्थम्-कामं जेतुम्। आदिशामि-आज्ञापयामि। वेदवतीति प्रतीहार्या नाम। निर्विचारसौन्दर्याभिमानवर्धिष्णुना—विचारान्निर्गतं निर्विचारम्, तादृशो यत्सौन्दर्याभिमानः कमनीयता गर्वस्तेन वर्धिष्णुना वृद्धिशीलेन। विचारणायां कृतायां नार्याः सौन्दर्यमद्यष्टतायां पर्यवस्यतीति तत्सौन्दर्यं निर्विचारसौन्दर्यं तन्त्रा- भिमानेन वर्द्धते काम इति प्रसिद्धमेव। वञ्चितम्-प्रतारितम्, आकृष्य स्वस्मिन्त्रा- सक्तं कृतम्। 'महामोहेनैव' इत्यस्य वञ्चितमिति शेषः, न कामस्यायं प्रभावो यल्लोकस्य कामासक्तिः किन्तु महामोहस्यैवायं प्रभावः, किंवाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्' इति भावः। कान्तेति० अहो आश्चर्यम् मोहस्य दुश्चेष्टितम् मोहस्यानर्थकरः प्रयासभरः ! (यत्प्रभाववशात्) प्रत्यक्षाशुचिपूत्तिकाम् स्फुटामेध्यपुत्तलीरूपाम् मांसग्रन्थिला- लारसरक्तादिक्लत्स्नेनाशुद्धवस्तुनिर्मितक्रीडापुत्तलिकानतिरिक्तस्वभावाम् (अपि) स्त्रियम् नारीम् दृष्ट्वा प्रत्यक्षमालोक्य विद्वान् अधीतबहुशास्त्रोऽपि (मूर्खस्त्वज्ञानेन विचार ही जीत लेगा। अच्छी बात। उसे ही विजयके लिए आदेश देता हूँ। वेदवति, वस्तु- विचारको पुकारो। प्रतीहारी—जैसी महाराजकी आज्ञा। (जाकर वस्तुविचारके साथ प्रवेश करती है) वस्तुविचार—अहो विना विचारके सौन्दर्यसे बढ़ने वाले कामने संसारको वञ्चित कर रखा है। अथवा दुरात्मा कान्ता, कमलनयना, विपुल नितम्बा, पीनोच्चकुचा, सुवदना, सुभ्रू
१५२ प्रबोधचन्द्रोदयम् दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपुत्तिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ ८ ॥ अपि च यथावस्तु विचारयताममन्दमतीनामपि पिशितपङ्कावनद्धा- स्थिपञ्जरमयी स्वभावदुर्गन्धिर्बीभत्सवेषा नारीति नास्ति विरतिः । तदत्र विस्पष्ट एवेतरगुणाध्यासः । तथाहि— मुक्ताहारलता रणन्मणिमया हैमास्तुलाकोटयो रागः कुङ्कुमसंभवः सुरभयः पौष्पा विचित्राः स्रजः । करोतु तत्रानुरागं नासौ तथा चिन्त्यः) कान्ता कमनीया सुन्दरी इति, उत्पल- लोचना कमलाक्षी इति, विपुलश्रोणीभरा विपुलनितम्बा इति, उन्नमत्पीनोत्तुङ्गप- योधरा प्रथिष्ठगवर्धमानस्थूलोच्चकुचा इति, सुमुखाम्भोजा सुन्दरवदनकमला इति, सुभ्रूः सुन्दरभूलता इति (हेतोः) (कृत्वा वा) माद्यति मोहं प्रतिपद्यते, मोदते हृष्यति, अभिरमते परिक्रीडति, प्रस्तौति बहुविधान् तद्गुणान् वर्णयति । पण्डि- तोऽपि मलमूत्राम्लुतशरीरतयाऽशुचिं पुत्तलिकामिवावास्तविकीं नारीं दृष्ट्वा कामा- वेशवशान्मोहमुपयाति, तदाप्त्या हृष्यति, तस्या गुणानां वर्णने चावस्तुभूततत्त- द्गुणानानि सङ्गृह्णाति, तदयं मोहस्य प्रसृमरो महिमा, न कामस्येति तात्पर्यम् । शार्दूलविक्रीडितमेय वृत्तम् ॥ ८ ॥ यथावस्तु-वस्तुस्वरूपयाथात्म्यम् । विचारयताम्-भावयताम् । अमन्दमती- नाम्-प्रवरमेधसाम् । पिशितपङ्कावनद्धास्थिपञ्जरमयी-मांसकर्द्दमखचितास्थिपञ्जर- स्वरूपा । वीभत्सवेषा-घृणितरूपा विरतिः-वैराग्यम् विवेकिनोऽपि स्त्रीणां मांसा- स्थिपञ्जरमयत्वं घृणामयत्वं भावयन्तोऽपि यन्न ताभ्यो विरक्ता भवन्ति तत्र कारणं परगुणारोप इति वक्तुमवतारयति—तत्रेति० इतरगुणाध्यासः-परगुणारोपः, परे सुन्दरपदार्थाः, तेषां ये गुणास्तेषामारोपः कल्पना सा कल्पनाऽऽसहार्याऽपि तथा न प्रतीयते मोहमाहात्म्यादिति भावः । मुक्ताहारलतेति० अहो आश्चर्यमिदम्, मुक्ताहारलताः मौक्तिकाहाराः, रणन्मणि- इस प्रकारसे स्त्रीको देखकर प्रसन्न होता है, मस्त होता है, रति करता है, विद्वान् होकर भी प्रत्यक्ष अपवित्र मूर्ति स्त्रीको इस प्रकार समझता है यह मोहका ही दुश्चेष्टित है ॥ ८ ॥ और वस्तुविचार करने वाले तीक्ष्ण बुद्धि होकर भी मांससे लिपटी हड्डी स्वरूप तथा स्वभावतः दुर्गन्धमय और बीभत्स नारी होती है यह जानकर भी विरक्त नहीं होते हैं । इससे प्रकट होता है कि यहाँ अन्य गुणोंका आरोप होता है । खनखनाते हुए मणिके मुक्ताहार, सोनेके चरणालङ्कार, कुङ्कुमके राग, सुगन्धित पुष्प,
चतुर्थोऽङ्कः १४३ वासश्चित्रदुकूलमल्पमतिभिर्नार्यामहौ कल्पितं बाह्यान्तःपरिपश्यतां तु निरयो नारीति नाम्ना कृतः ॥ ६ ॥ ( आकाशे ) आः पाप कामचण्डाल, किमनालम्बनमेवं भवता व्याकु- लीक्रीयते जनः । तथा ह्ययमेवमभिमन्यते— बाला मामियमिच्छतीन्दुवदना सानन्दमुद्वीक्षते नीलेन्दीवरलोचना पृथुकुचोत्पीडं समाश्लिष्यति । अरे मूढ, मयाः खनखनायमानमौक्तिकमयः हैमाः स्वर्णकृताः तुलाकोटयः नूपुराणि, कुङ्कुम- संभवः कुङ्कुमाभिधद्रव्यनिर्मितः रागः अङ्गरागः, सुरभयः सुगन्धियुताः पौष्पाः पुष्पघटिताः विचित्राः नानाकृतयः स्रजः माल्यानि, चित्रदुकूलम् नानावर्णम् पट्ट- वस्त्रम् वासः परिधानम्, अल्पमतिभिः सङ्कुचितबुद्धिभिः कामिभिर्मन्दैः नार्याम् कल्पितम् आरोपितम् । न नारी स्वतः सुन्दरी, किन्तु मन्दास्तस्यां मुक्ताहारहेमनु- पुरकुङ्कुमकृताङ्गरागपुष्पमाल्यचित्रवस्त्रादीनां सौन्दर्यमध्यस्य स्वबन्धनं प्रस्तुवन्ती- त्याशयः । बाह्यान्तःपरिपश्यताम् बहिरन्तश्च विचारयतां तु बुद्धिमतां ( मते ) नारीति नाम्ना निरयः नरकः कृतः । विवेकिनां मते नारीनरक इत्यनर्थान्तरम्, मुग्धास्तु तत्र परगुणानध्यस्य प्रमोन्दन्त इति भावः । पूर्वोक्तमेव वृत्तम् ॥ ९ ॥ 'कामचण्डाल' इत्यत्र कामस्य परोपतापकत्वेन चण्डालत्वारोपो बोध्यः । अना- लम्बनम्-निराधारम्, नारीरूपमेव कामस्य प्रलोभनं मतं तदप्यसदेवेति प्रागुक्त- मेव, ततश्च लोकानां नार्यासञ्जनं निराधारमेव लोकानां व्याकुलीकरणमिति भावः । व्याकुलीक्रियते-ताभिः स्त्रीविषयाभिस्तत्सन्ताभिरन्याभिर्वा चिन्ताभिरायास्यते । अयम्-कामपीडितो जनः । एवम्-उक्तेन प्रकारेण । अभिमन्यते-मनसि कल्पयति । बालेति० इन्दुवदना चन्द्रोपममुखी नीलेन्दीवरलोचना नीलकमलतुल्यलोचना इयम् बाला रमणी माम् इच्छति प्रेम्णाऽभिलष्यति, सानन्दम् सहर्षम् उद्वीक्षते विचित्र मालायें, रङ्गबिरङ्गी कपडे इन सब चीजोको मूर्खोंने नारीमें कल्पना कर ली है, किन्तु भीतर बाहर विचारने वालोंके लिये तो स्त्रियां नरक ही है ॥ ९ ॥ ( अकाशकी ओर देखकर ) आः पाप कामचण्डाल, व्यर्थ क्यों तुम अपनी आत्माको व्याकुल कर रहे हो ? यह अभिमान कहता है कि— यह इन्दुवदना सुन्दरी मुझे चाहती है, सानन्द देखती है, नीलकमललोचना यह बाला स्थूल कुचोंसे पीडित करके आलिङ्गन करती है ।
१४४ प्रबोधचन्द्रोदयम् का त्वामिच्छति का च पश्यति पशो मांसास्थिभिर्निर्मिता नारी वेद न किंचिदत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १० ॥ प्रतीहारी—इति आगच्छतु महाभागः । ( इदो आगच्छेदु महाभाओ ) ( इत्युभौ परिक्रामतः ) प्रतीहारी—एष महाराज उपविष्टस्तिष्ठति । तदुपसर्पतु भवान् । ( एसो महाराओ उवविट्ठो चिट्ठदि । ता उवसप्पदु भवम् ) वस्तुविचारः—( उपसृत्य ) जयतु जयतु देवः । एष वस्तुविचारः प्रणमति । राजा—इहोपविश्यताम् । पश्यनि, पृथुकुचोलीऽम् गाढालिङ्गने स्थूलोन्नतौ स्वकुचौ पीडां गमयित्वा समा- श्लिष्यनि आलिङ्गति कामहतो जन एवं भावयति तत्तस्य मिथ्याचिन्तनं वस्तुतत्त्वं त्वेवं बोध्यम् । का त्वाम् इच्छति न कापीत्यर्थः, का त्वां पश्यति न कापीत्यर्थः, पशो इदं कामिसम्बोधनं तस्या ज्ञानं समर्थयितुं स्वासक्तेर्विरागं च समुत्पादयितुम् । मांसास्थिभिः मांसेनास्थिपिञ्जरेण च निर्मिता नारी देहभूता योषित् न किञ्चित् वेद जानाति, कामिनो भवत आसक्तिर्देहभूतनार्थामेव, सा च न किमपि वेद, देहस्या- चेतनावाद्नो भवता कल्पितं तदीक्षणादि सर्वं निराधारमित्यर्थः । नन्वेवं देहेऽज्ञाने कस्तत्रस्थितो वेदेत्यत्राह—अत्र देहे पुनः सः प्रसिद्धः अमूर्त्तः कायरहितः पुमान् साक्षी पश्यति । सर्वं द्रष्टृत्वादिकं साक्षिधर्म एव न देहधर्मस्तदलं देहभूतायां नार्यामासक्तिं कृत्वेति भावः ॥ १० ॥ उपविष्टः-आसनासीनः । अरे मूढ, तू पशु है, कौन तुझे चाहती है ? कौन देखती है ? नारी तो मांस और हड्डीसे बनी है, वह न देखती है, न चाहती है, देखना तो अमूर्त पुरुषका कार्य है ॥ १० ॥ प्रतीहारी—आप इधर पधारें । ( दोनों जाते हैं ) प्रतीहारी—ये महाराज उपस्थित हैं, आप उनके पास चलें । वस्तुविचार—( समीप जाकर ) जय हो जय हो महाराजकी । यह वस्तुविचार प्रणाम करता है । राजा—यहाँ बैठिये ।
चतुर्थोऽङ्कः । १४५
वस्तुविचारः—( उपविश्य ) देव, एष ते किंकरः संप्राप्तः, आज्ञयानु- गृह्यताम् । राजा—महामोहेन सहास्माकं संप्रवृत्तः सङ्ग्रामः। तदत्र कामस्तस्य प्रथमो वीरः । तस्य च प्रतिवीरतयास्माभिर्भवान्निरूपितः । वस्तुविचारः—धन्योऽस्मि । येन स्वामिनाहमेवं संभावितः । राजा—अथ कया शस्त्रविद्यया भवान्कामं जेष्यति । वस्तुविचारः—आः पञ्चशरः कुसुमधन्वा कामो जेतव्य इत्यत्रापि शस्त्रग्रहणापेक्षा । पश्य—
किङ्करः-भृत्यः । 'किङ्कुर्यामिति यः पृच्छेत् तमाहुः किङ्करं बुधाः' इति स्मर- णात् स्फोटोऽस्य व्युत्पत्तिलभ्योऽर्थः । सम्प्राप्तः-आगतः आज्ञयाऽनुगृह्यताम्-आदेश- प्रदानेन कृतार्थ्यताम् । अस्माकम्-विवेकादीनाम् । सम्प्रवृत्तः-प्रारब्धः । सङ्ग्रामः-युद्धम् । तस्य महामोहस्य प्रथमो वीरः-मुख्यो योधः । प्रतिवीरतया-प्रतियोधभावेन भवान्- वस्तुविचारः । निरूपितः-निर्वाचितः । एवं सम्भावितः-कामेन सह योद्धुं वृतः । योद्धारो हि बलवता रिपुणा सह युद्धा- वसरलाभमुत्सवं मन्यन्ते, अत एव वस्तुविचारस्येदमुक्तिः । कया शस्त्रविद्यया-केन शस्त्रप्रयोगेण । जेष्यति-अभिभविष्यति । पञ्चशरः-पञ्चैव शरा यस्य सः पञ्चशरः । बाणाल्पता जेयतां ध्वनयति । नन्वेक- मेव वीर्यवदस्त्रं तस्यापराजयेतां प्रत्याययेत्तत्राह-कुसुमधन्वेति० शस्त्रग्रहणापेक्षा शस्त्रप्रयोगावश्यकता । नास्ति तादृगल्पवीर्यस्य कामस्य जयाय शस्त्रप्रयोगस्यावश्य- कता, मयोपायेनैव तज्जयस्य कर्तुं शक्यत्वादिति भावः ।
वस्तुविचार—( बैठकर ) देव, आपका यह दास उपस्थित है, आज्ञा देकर अनु- गृहीत करें । राजा—महामोहके साथ हमारा युद्ध छिड़ गया है, उसमें काम उसका मुख्य योद्धा है, उसका प्रतियोद्धा हमने आपको चुना है । वस्तुविचार—मैं धन्य हूँ । जिसे स्वामीने इस प्रकार सम्मानित किया है । राजा—आप किस शस्त्रविद्यासे कामको जीतेंगे ? वस्तुविचार—पञ्चशर और पुष्पचाप कामको जीतना है इसमें शस्त्रकी क्या आव- श्यकता है ? देखिये— १० प्र० च०