भारतकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

१३ कथासार दुष्टताका त्याग नहीं किया है, उसने पुरुषको फुसलानेके लिये 'मधुमती' को नियुक्त कि- मधुमतीने पुरुषको बहुतसा सब्ज बाग दिखलाया, मायाने भी हामी भरदी, मनने उ- मोदन किया, सङ्कल्पने प्रोत्साहित किया, पुरुष भी सहमत होगया, परन्तु पाश्र्ववर्त्ती त- समय पर सबोंको आडे हाथों लिया, उसने इस मायाजाल का पर्दाफास करके पुरुष सचेत कर दिया। पुरुषने विवेकको देखना चाहा और उपनिषद् को भी बुला भेज उपनिषद्-विवेकसे मिलनेमे आनाकानी करती रही, क्योंकि बुरे दिनोंमे विवेकने उस रक्षा नहीं की थी, जिससे उसे बहुत कष्ट सहने पडे थे। शान्तिने उसे विवेककी परिस्थि बाध्यता बताकर समझाया और वह विवेकसे मिली, पुरुषसे उपनिषद्ने अपनी बीती व- सुनाई। पुरुषने उपनिषद्से प्रश्न किया कि तुमने इतने दिन कहाँ बिताये । उपनिषद्- कहा-मै मठ, चत्वर, पुराने देवागार प्रभृति स्थानोंमें रही, वहाँ मैने देखा कि वह- रहनेवाले हमारे अर्थका अनर्थ कर रहे है, इसके बाद मैने कभी देखा कि यज्ञविद्या जारह- हैं, मै उसके पास आश्रय पाने गई, उसने मेरे कार्यके विषयमे प्रश्न किया, मैने अपना का- ब्रह्मज्ञान बताया। इसपर यज्ञविद्याने कहा कि मुझे ऐसे अकर्त्तापुरुषकी कोई आवश्यकता नहं है। इसके बाद मुझे मीमांसा मिली, उसे भी मैने आश्रयप्रदानके लिये कहा, उसने भी अस्वीकार किया, अनन्तर मै तर्कविद्याओं की शरणागत हुई, उनके उत्तर भी हमारे कामके नहीं हुए। इस प्रकार भागती-भागती मै दण्डकवनमें प्रवेशकर गई, वहाँके गदापाणि पुरुषोंने हमारे अनुगामी तर्कोंको भगाया। अनन्तर उपनिषद्ने आज्ञाका स्वरूप बताया और इसी समय निदिध्यासन प्रकट हुआ। उसने आकर पुरुषके समक्ष ही उपनिषद्से निवेदन किया कि आपके गर्भसे विद्या और प्रबोधोदय नामकी दो सन्तानें होंगी, उनमे विद्याको सङ्घर्ष विद्याद्वारा मनमें सङ्क्रान्त करादे और प्रबोधचन्द्रको पुरुषके हाथों सौंपकर विवेकके साथ उपनिषद् विष्णुभक्तिके पास चली जाय । वैसा ही हुआ, प्रबोधोदय होनेसे सबका अज्ञानान्धकार दूर हो गया। पुरुषको विष्णुभक्तिके प्रसादसे मुक्ति मिली।

समर्पणपत्रम् श्रीमतां स्वनामधन्यानां गुरुवर- पण्डित श्रीईश्वरनाथझा शर्मणां करकमलयोः सादरं समर्प्यतेऽयं प्रकाशः पूज्यपादाः ! अबोधस्यानिच्छोरपि हतमतेरश्रमकृतो दृशं मे यद्यत्नैरुत्कृषत भवन्तो विकसिताम् । अशेषे शास्त्रार्थे फलमुपहृतं तेन विरसं रसाढ्यं वा स्वत्वाद्भवतु भवदङ्गीकृतमिदम् ॥ तदीयशिष्यान्यतमेन रामचन्द्रेण

पात्रपरिचयः -:००:७:००:- पुरुषपात्राणि १ सूत्रधारः—नाटकप्रयोगप्रबन्धकरः ९ महामोहः—प्रतिनायकः २ विवेकः—प्रधाननायकः १० चार्वाकः—मोहमित्रम् ३ वस्तुविचारः—विवेकभृत्यः ११ कामक्रोधलोभ- ⎫ मोहामात्याः ४ सन्तोषः—सतां सहचरः दम्भाहङ्काराः ⎭ ५ पुरुषः—उपनिषत्पतिः १२ मनः—सङ्कल्परूपम् ६ प्रबोधोदयः—उपनिषदुत्पन्नपुरुषः पुत्रः १३ दिगम्बरभिक्षु- ⎫ बौद्धजैनादि ७ वैराग्य-निदिध्या ⎫ मनस उत्पन्नाः कापालिकाः ⎭ मतप्रवर्त्तकाः सन-सङ्कल्पाः ⎭ ८ पारिपार्श्वक, पुरुष, ⎫ इतरे जनाः १४ बटुः, शिष्यः, ⎫ इतरे जनाः, सारथी, प्रतिहारिणः ⎭ पुरुषः, दौवारिकः ⎭ स्त्रीपात्राणि १ नटी—सूत्रधारस्त्री ८ सरस्वती—विष्णुभक्तिसखी २ मतिः—विवेकस्त्री ९ क्षमा—विवेकदासी ३ श्रद्धा—शान्तिमाता १० मिथ्यादृष्टिः—मोहजाया ४ शान्तिः—विवेकभगिनी ११ विभ्रमवती—तत्सखी ५ करुणा—शान्तिसखी १२ रतिः—कामपत्नी ६ मैत्री—श्रद्धासखी १३ हिंसा—क्रोधपत्नी ७ उपनिषत्—वेदान्तविद्या १४ तृष्णा—लोभपत्नी 𑁋𑁋𑁋𑁋❧𑁋𑁋𑁋𑁋

॥ श्रीः ॥ प्रबोधचन्द्रोदयम् 'प्रकाश' संस्कृत-हिन्दीव्याख्याद्वयोपेतम् प्रथमोऽङ्कः मध्याह्नार्कमरीचिकासु च पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति । यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमं चिरविततमिस्रासङ्कुचद्दिग्विभागे विगतकरणतारामण्डलीशुभ्रभासि । विषयजलदमालासम्परीतेऽम्बरेऽस्मिन् मनसि सकृदुदीयाज्जातु मे बोधविद्युत् ॥ १ ॥ श्रद्धानतेन शिरसा पितरं 'मधुसूदनम्' । प्रसूं 'जयमणिं' चाहं प्रणमामि पुनः पुनः ॥ २ ॥ श्रीकृष्णमिश्रकविताभावानवबोधबद्धवैमुख्यान् । मन्ये कतिचन बालान् प्रोत्साहयिता 'प्रकाशो'ऽयम् ॥ ३ ॥ दार्शनिककविः श्रीकृष्णमिश्रो विद्वद्वर्यः प्रबोधचन्द्रोदयनामकं नाटकं चिकीर्षुः प्रारिप्सितग्रन्थप्रत्यूहव्यूहप्रशमकामनया मङ्गलमादौ निबध्नाति—मध्याह्नेति० यद्- ज्ञानतः यस्य ब्रह्मात्मकस्य महसः प्रकाशस्य अज्ञानतः अबोधात् मध्याह्नार्कमरीचि- कासु अह्नो मध्यं मध्याह्नस्तस्य योऽर्कः सूर्यस्तस्य मरीचयः किरणा एव मरीचिकाः सिकतागतसूर्यकरप्रभाचाक्चिक्याकारास्तासु पयःपूरः जलराशिरिव खम् आकाशम् वायुः पवनः ज्वलनः वह्निः जलं वारि क्षितिः पृथिवी एवं क्रमेण त्रैलोक्यम् समस्तं धरामण्डलम् समुन्मीलति प्रकटति । यत्तत्त्वं यदीयं स्वरूपम् विदुषाम् जानताम् मध्याह्नसूर्यकी मरीचिकामें जलराशिकी तरह जिसके अज्ञानसे आकाश, वायु, तेज, जल और पृथिवी इस क्रमसे त्रैलोक्य प्रकट होता है और जिसके ज्ञानसे मालासर्पकी

२ प्रबोधचन्द्रोदयम् सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधं महः ॥ १ ॥ अपि च— अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्रं पुनः स्रग्भोगिभोगोपमम् मालासर्पफणवत् निमीलति विलीयते, तद् अमलम् विग- तसकलकलङ्कपङ्कम् स्वात्मावबोधम् स्वप्रकाशम् सान्द्रानन्दम् आनन्दघनम् महः परमात्मलक्षणं ज्योतिः उपास्महे ध्यायामः । यदज्ञानवशादयं संसारो मध्यन्दिन- सावित्रकरोल्लासिमृगमरीचिकासु पयःपूर इवाकाशादिक्रमेणोपजायते, यज्ज्ञान- वशाच्च मालाफणीव निलीयते तदखण्डानन्दैकरसं ब्रह्म भावयाम इत्यर्थः । अत्र प्रथमोदाहरणं संसारिविषयं द्वितीयन्तु मुक्तविषयम् । अत्र मध्याह्नार्कमरीचि- कासु पयःपूर इव यदज्ञानतो लोकोऽयमुन्मीलति तिष्ठति निमीलति चेत्युक्त्या जगज्जन्मस्थितिलयकारणत्वरूपं तटस्थलक्षणं 'यतो वा इमानि भूतानि' इत्यादि श्रुत्युक्तं 'सान्द्रानन्दम्' इति च सच्चिदानन्दत्वरूपं स्वरूपलक्षणं ब्रह्मणो निवेशित- मवगन्तव्यम् । 'खं वायुर्ज्वलनः' इति क्रमश्च 'तस्माद्वा एतस्मादाकाशस्संभूतः' इत्यादि श्रुतिसमर्थितो ज्ञेयः । एतेन 'अज्ञानानिवृत्तिः प्रयोजनं, तत्कामोऽधिकारी, प्रतिपाद्यप्रतिपादकभावः संबन्धः, ऐक्यमभिधेयमि'ति सूचितम् । 'नैदाघभानु- किरणेष्विव वारिपूरः सर्वो विभाति यदबोधवशात्प्रपञ्चः । मालाफणीव च निमीलति यत्प्रबोधात्तद्ब्रह्म नौमि सुखमद्वयमात्मरूपम्' इति शिखामणिश्लोकोऽस्य च्छाया- मनुहरति । त्रयो लोकास्त्रैलोक्यम्, स्वार्थे ष्यञ् । तत्त्वं विदुषामित्यत्र 'नलोकाव्यये'ति षष्ठीनिषेधात्तत्त्वपदे द्वितीयैव । यद्यपि—'आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्ति- मात्रं फलमल्पबुद्धिः । योऽपीतिहासादिवदाह साधुस्तस्यै नमः स्वादपराङ्मुखाय' इति, 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिञ्च साधुकाव्य- निषेवणम्' इति चोक्तत्वेनाविद्यानिवृत्ते रूपकस्यास्य फलत्वेनोपादानमयुक्तं तथापि ग्रन्थस्यास्य रूपकभूमिकाम्नवेदान्तशास्त्रतयाऽविद्यानिवृत्तिः परमं प्रयोजनं रसा- स्वादश्चावान्तरं प्रयोजनम् , तत्र मुखप्रतिमुखसन्ध्यादौ रसास्वादोऽवसाने चा- विद्यानिवृत्तिरिति विवेकः । उपमाऽलङ्कार आंशिकः । शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं यथा—'सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितम्' इति ॥ १ ॥ अन्तर्नाडीति० अन्तर्नाड्याम् सुषुम्नायाम् नियमितः सन्निरुद्धो यो मरुत् वायुस्तेन लङ्घितम् उल्लङ्घितम् ब्रह्मरन्ध्रम् येन तादृशम् , 'सुषुम्ना तिसृषु श्रेष्ठा वैष्णवी मुक्ति- तरहं लीन हो जाता है, उस आनन्दस्वरूप तथा स्वप्रकाशरूप उस ब्रह्मकी हम उपासना करते हैं ॥ १ ॥ सुषुम्ना नाड़ीमें प्राणको अवरुद्ध करके ब्रह्मरन्ध्रमें प्रवेशित करने के लिये शान्तियुक्त

१. प्रथम अङ्क: काम-क्रोध उदय एवं विवेक-विचार द्वन्द्व

प्रथमोऽङ्कः ३ स्वान्ते शान्तिप्रणयिनि समुन्मीलदानन्दसान्द्रम् । प्रत्यग्ज्योतिर्जयति यमिनः स्पष्टलालाटनेत्र- व्याजव्यक्तीकृतमिव जगद्व्यापि चन्द्रार्धमौलेः ॥ २ ॥ ( नान्द्यन्ते सूत्रधारः ) मार्गदा । सुषुम्नया ब्रह्मरन्ध्रमारोहत्यवरोहति । जीवः प्राणसमारूढो ब्रह्मरन्ध्रं विशत्यसौ । नाडीषु बध्यमानासु मध्यनाडीं विशत्यसौ' इत्युक्त्या सुषुम्ना- माविश्य ब्रह्मरन्ध्रं प्रविष्टमित्यर्थः । शान्तिप्रणयिनि उपशमंगते स्वान्ते चित्ते समु- न्मीलदानन्दसान्द्रम् प्रकटीभवदानन्दसुखाभिन्नम्—स्वप्रकाशसुखरूपमित्यर्थः । यमिनो ध्यानमग्नस्य चन्द्रार्धमौलेः खण्डशशधरालङ्कृतशिरसः शिवस्य स्पष्टं स्फुटदृश्यं यल्लालाटनेत्रम् भालनयनं तद्व्याजेन तच्छलेन अव्यक्तं व्यक्तं कृतम् स्वभावतश्चाक्षुषायोग्यमपि चाक्षुषविषयतां नीतम् इव जगद्व्यापि ब्रह्माण्डव्यापकं प्रत्यग्ज्योतिः जडानुताहङ्कारादिभ्यः प्रातिकूल्येनाञ्चतीति प्रत्यक् ( प्रातिकूल्यं च सत्यज्ञानानन्दादिरूपेण भानम् ) ज्योतिःप्रकाशरूपम् जयति सर्वोत्कर्षेण वर्त्तते । ध्यायतः शिवस्य ध्यानविषयीभूतं ब्रह्मैव प्रकाशतत्तृतीयनयनव्याजेन स्फुरजयती- त्यर्थः । जयत्यर्थेन च नमस्कार आक्षिप्यते इति तत्प्रतिप्रणतोऽस्तीति व्यज्यते । 'अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम्' इति प्रतापरुद्रीयोक्तदिशाऽत्र नान्दीद्वये शब्दतः षष्ठाङ्कार्थः, अर्थतोऽपि मध्याह्नार्कत्यादिप्रथमार्धेन महामोहस्तत्सेन च, तृतीयपादेन ससेनो विवेकः, चतुर्थपादेनोभयोः सेनाविलयानन्तरं स्वरूपावस्थान- श्चोक्तम् । मन्दाक्रान्ता वृत्तम्, तल्लक्षणं यथा—'मन्दाक्रान्ता जलधिषडगैर्भौ नतौ ताद्गुरू चेत्' ॥ २ ॥ नान्द्यन्त इति० नान्द्याः रङ्गविघ्नोपशान्तये विधीयमानाया आशीर्नमस्क्रियाद्य- न्यतमभेदभूतमङ्गलाचरणरूपायाः, अन्ते अवसाने, चरमवर्णध्वंसोऽन्तपदार्थः । सूत्रधारः प्रविश्याहेत्यग्रिमेणान्वयः । नाटकादिप्रयोगे सूत्रधारो नान्दीं पठतीति समु- दाचारः 'सूत्रधारः पठेन्नान्दीं मध्यमं स्वरमाश्रितः' इति भरतोक्तिमाधारीकृत्य प्रवृत्तः । यद्यपि नाट्योपक्रमे विघ्नोपशान्तये कुशीलवैर्द्वाविंशत्यङ्गसहितः पूर्वरङ्गः कर्त्तव्यः, 'प्रथमं पूर्वरङ्गश्च ततः प्रस्तावेनेति च । आरम्भे सर्वनाट्यानामेतत्सामान्य- मिष्यते' ॥ यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स हृदयमें आनन्दरूपसे प्रकटित होनेवाला तपनिष्ठ महादेवकी तृतीय दृष्टिके रूपमें प्रकटीभूत महादेवकी प्रत्यक् ज्योति की जय हो ॥ २ ॥ ( नान्दीके अन्तमें सूत्रधारका प्रवेश )

४ प्रबोधचन्द्रोदयम् सूत्रधारः—अलमतिविस्तरेण । आदिष्टोऽस्मि सकलसामन्तचक्र- चूडामणिमरीचिमञ्जरीनीराजितचरणकमलेन बलवदरिनिवहवक्षस्तटक- पाटपाटनप्रकटितनृसिंहरूपेण प्रबलतरनरपतिकुलप्रलयमहार्णवनि मग्ने- उच्यते'॥ किञ्च—सभापतिस्तथा सभ्या गायका वादका अपि । नटी नटश्चामोदन्ते यन्नान्योन्यानुरञ्जनात् ॥ अतो रङ्ग इति ज्ञेयः पूर्वं यत्स प्रकल्प्यते । तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते' ॥ इति पूर्वरङ्गस्य प्रथमविधेयत्वं बुध्यते, तथापि द्वाविंशत्यङ्ग- सहितरङ्गमध्ये नान्दीरूपस्यैवाङ्गस्यावश्यविधेयतया सैवात्र विहिता । तथा चोक्तम्- 'यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके । तेषामवश्यं कर्त्तव्या नान्दी नन्दीश्वरप्रिया ॥' इति । नान्दीलक्षणं यथा—'आशीर्नमस्क्रियारूपः श्लोकः काव्यार्थसूचकः । नान्दी पदैर्द्वादशभिरष्टाभिर्वाप्यलङ्कृता' ॥ अत्र पदशब्देन सुप्तिङन्तरूपं पदं श्लोकचतुर्थां- रूपम्, अवान्तरवाक्यार्थरूपञ्च गृह्यते, तदुक्तं नाट्यप्रदीपे—'श्लोकपादं पदं केचित् सुप्तिङन्तमथापरे । परेऽवान्तरवाक्यैकस्वरूपं पदमूचिरे' इति । विश्वनाथस्तु कैश्चि- न्नान्द्यां पदनियमो नाभ्युपगम्यते' इत्याह । अतोऽत्र नान्द्यां पदनियमानादरेऽपि न क्षतिः। नान्दीपदव्युत्पत्तिरुक्ता नाट्यप्रदीपे यथा—'नन्दन्ति काव्यानि कवीन्द्रवर्गाः कुशीलवाः पारिषदाश्च सन्तः । यस्मादलं सज्जनसिन्धुहंसी तस्मादियं सा कथितेहि नान्दी' । 'चन्द्रार्धमौलेः' इति चन्द्रपदोपादानेनास्या नान्द्याश्चन्द्रशंसिता बोध्या । चन्द्रपदोपादानेन नान्द्यां काव्यगता रसस्फीतताऽऽशंस्यते—यथोक्तम्—'चन्द्रनामा- ङ्किता कार्या रसानां स यतो निधिः प्रीते चन्द्रमसि स्फीता रसश्रीरिति बालुकिः ॥' सूत्रधारः-सूत्रं धरतीति सूत्रधारः, कर्मण्यण् । सूत्रं चात्र नाटकप्रयोगव्यवस्था, तथा चामरः-'सूत्रं तन्तुव्यवस्थयोः' इति । उक्तञ्च-'नाटकीयकथासूत्रं प्रथमं येन सूच्यते । रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते' ॥ आदिष्टः-आज्ञप्तः। सकलाः सर्वे ये सामन्ताः मण्डलेश्वरास्तेषां चक्रं समूहस्तस्य चूडासु मुकुटेषु ये मणयः पद्मरागाद्यास्तेषां मरीचिमञ्जर्यः किरणपरम्परास्ताभिः नीराजितम् पूजितं चरणकमलं पादपङ्कजं यस्य तेन सकलसामन्तवन्दितेनेत्यर्थः । इदमेकं भूपालगोपालस्य विशेषणम् । बलवन्तः प्रबला येऽरिसमूहाः शत्रुनिवहास्तेषां वक्षस्तटम् उरोदेश एव (विस्तृतत्वात्) कपाटं तस्य पाटने विदारणे प्रकटितं नृसिंह- रूपं येन तेन, प्रबलशत्रुवक्षोभेदिनेत्यर्थः । इदमपि तस्यैव विशेषणम् । प्रबलतरा सूत्रधार—विस्तारकी जरूरत नहीं है। समस्त सामन्तजन अपने मस्तकस्थित रत्नोंसे जिसके चरणोंको पूजते हैं; जिसने दुर्जय शत्रुओं की चौड़ी छातियों के फाड़नेमें नृसिंहरूप धारण किया है, जिसने बलशाली राजमण्डलरूप महार्णवके प्रताप जलमें निमग्न

प्रथमोऽङ्कः ५ दिनीसमुद्धरणमहावराहरूपेण सकलदिग्विलासिनीकर्णपूरीकृतकीर्तिलता- पल्लवेन समस्ताशास्तम्बेरमकणंतालास्फालनबहलपवनसम्पातनर्तितप्र- तापानलेन श्रीमता गोपालेन । यथा खल्वस्य सहजसुहृदो राज्ञः कीर्ति- वर्मदेवस्य दिग्विजयव्यापारान्तरितपरब्रह्मानन्दरसैरस्माभिः समुन्मीलि- तविविधविषयरसास्वाददूषिता इवातिवाहिता दिवसाः । इदानीं तु कृत- कृत्या वयम् । यतः— अतिसामर्थ्यशालिनो ये नरपतयो राजानस्तेषां कुलमेव प्रलयमहार्णवः कल्पावसान- समयसमुद्रस्तत्र निमग्नायाः लीनायाः मेदिन्याः पृथिव्या समुद्धरणे समुद्धारे महा- वराहरूपेण आदिवराहतुल्येन । सकलराजन्यकुलाद्विजित्य पृथिवीं स्ववशीकृत- वतेत्यर्थः । सकलाः सर्वाः या दिग्विलासिन्यो दिगङ्गनाः तासां कर्णपूरीकृतः कर्णाव- तंसीकृतः कीर्त्तिलतापल्लवो यशोवल्लरीकिसलयो यस्य तेन, दिगन्तविश्रान्तयशसे- त्यर्थः । समस्ताः निखिलाः आशास्तम्बेरमाः दिग्गजास्तेषां कर्णतालाः तेषामास्फाल- नेन चालनेन बहलो बहुलीभूतः पवनो वायुस्तस्य सम्पातेन संसर्गेण नर्तितः समे- धितः प्रतापानलो यस्य तादृशेन, दशदिक्प्रख्यातप्रतापेनेत्यर्थः । सकलसामन्तेत्यत्रा- तिशयोक्तिः, बलवदरिनिवहेत्यत्र परम्परितरूपकम् । प्रबलतरेत्यादावुपमारूपकयोः सङ्करः । सकलदिग्विलासिनीत्यत्र विशेषणे परिणामः । समस्ताशास्तम्बरेमेत्यत्राप्य- तिशयोक्तिः । सहजसुहृदः—स्वभावसहृदयस्य । दिग्विजयव्यापारेण-जैत्रयात्रा- प्रसङ्गेन । अन्तरितपरब्रह्मानन्दरसैः—विघ्नितात्मानन्दानुभवचमत्कारैः । समुन्मी- लितविविधविषयास्वाददूषिताः—समुपस्थितनानाप्रकारक शब्दस्पर्श—प्रभृत्युपभोग- कलुषाः । अतिवाहिता—गमिताः । कीर्त्तिवर्मयात्राप्रसङ्गव्यासक्ततायां सांसारिक- सुखोपभोगासक्ततया ब्रह्मास्वादसमुत्थानन्दवञ्चितैरस्माभिः कलुषभावेनैव दिनानि गमितानीत्याशयः । कृतकृत्याः—कीर्तिवर्मणो राज्ये स्थापनात स्वस्थचित्ताः । वयम् इत्यत्र ‘अस्मदो द्वयोश्च’ इत्येकत्वे बहुवचनम् । यतः स्वस्थताकारणं वर्णा- यितुमिदम् । धराके उद्धारमें महावराहका रूप धारण किया है, सभी दिशारूप ललनाओके कर्णपूरका स्थान जिसके यशको प्राप्त है, सकलदिग्गजके कर्णतालजनित वायुसे प्रेरित होकर जिसका प्रतापानल नृत्य करता है, ऐसे श्रीमान् गोपाल ने आज्ञा दी है कि इस स्वभावसुहृद् राजा कीर्तिवर्माकी दिग्विजय-यात्राके प्रसङ्गसे ब्रह्मानन्दपराङ्मुख होकर हमने नाना- प्रकारके विषयरसोंसे दूषित दिन बिताये हैं, अब हम कृतकृत्य हो गये हैं; क्योंकि—

६ प्रबोधचन्द्रोदयम् नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षा रक्षावती क्षितिरभूत्प्रथितैरमात्यैः । साम्राज्यमस्य विहितं क्षितिपालमौलि- मालार्चितं भुवि पयोनिधिमेखलायाम् ॥ ३ ॥ तद्यं शान्तरसप्रयोगाभिनयेनात्मानं विनोदयितुमिच्छामः । ततो यत्पूर्वमस्मद्गुरुभिस्तत्रभवद्भिः श्रीकृष्णमिश्रैः प्रबोधचन्द्रोदयं नाम नाटकं निर्माय भवतः समर्पितमासीत् तदद्य राज्ञः श्रीकीर्तिवर्मणः पुरस्ता- नीता क्षयमिति० नृपतेः कीर्त्तिवर्मणः विपक्षाः शत्रवः क्षितिभुजः राजानः क्षयं नीताः विनाशिताः, प्रथितैः स्वचातुर्यख्यातैः अमात्यैः क्षितिः पृथिवी रक्षावती सुर- क्षिता अभूत् । पयोनिधिमेखलायाम् सागरवसनायाम् भुवि क्षितिपालमौलिमा- लार्चितं राजशिरोभिरुह्यमानम् अस्य कीर्त्तिवर्मणः साम्राज्यम् मण्डलेश्वरत्वम् विहि- तम् । शत्रुविनाशमन्त्रिन्यासौ कृत्वा कीर्त्तिवर्मणः साम्राज्यं स्थिरीकृतमित्यर्थः । 'सम्राट् स्यान्मण्डलेश्वरः' । तस्य भावः साम्राज्यम् ॥ ३ ॥ तत्-कृतकृत्यत्वेन हेतुना । शान्तरसप्रयोगाभिनयेन-शान्तरसप्रचुरनाटकेन । विनोदयितुम्-प्रसन्नतां प्रापयितुम् । यत इत्यारभ्येच्छाम इत्यन्तेन सन्दर्भेण काव्यार्थसूचकैर्वचनैः समारोचनात्मकं प्ररोचनाङ्गमुक्तम्, तथा हि—'नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षाः' इत्येतेन विवेक- महाराजकर्त्तृको मोहविजयः सूचितः । 'रक्षावती क्षितिरभूत् प्रथितैरमात्यैः' इत्यनेन यमाद्यष्टाङ्गयोगैरन्तःकरणशुद्धिः सूचिता । 'साम्राज्यमस्य विहितम्' इत्यनेन पुरु- षस्य स्वरूपलाभरूपं सायुज्यं सूचितम् ॥ अस्मद्गुरुभिः-अस्माकमुपदेशकैः । तत्रभवद्भिः पूज्यैः । निर्माय विरचय्य । भवतः समर्पितम् । तुभ्यं दत्तम् । पुरस्तात् अग्रतः । अभिनेतव्यम्-प्रयोक्तव्यम् । इस राजाके सभी शत्रु मार दिये गये हैं, प्रसिद्ध मन्त्रियोंके हाथोमे पृथिवीकी रक्षाका भार सौंप दिया गया है, सभी राजाओने इसके साम्राज्यको नतमस्तक हो मान लिया है, जो साम्राज्य समुद्रपरिवृत पृथिवी व्यापी है ॥ ३ ॥ इसलिये अब हम शान्तरसके नाटकसे अपनेको विनोदित करना चाहते है । इसलिये हमारे गुरु पूज्य श्रीकृष्णमिश्रने प्रबोधचन्द्रोदय नामका जो नाटक बनाकर आपको दिया था उसे ही आज कीर्त्तिवर्माके सामने अभिनीत करें। सभासदों के साथ राजा भी

प्रथमोऽङ्कः दभिनेतव्यं भवता। अस्ति चास्य भूपतेः सपरिषदस्तदवलोकने कुतू- हलमिति। तद्भवतु। गृहं गत्वा गृहिणीमाहूय सङ्गीतकमनुतिष्ठामि। (परिक्रम्य, नेपथ्याभिमुखमवलोक्य) आर्ये, इतस्तावत्। (प्रविश्य नटी) नटी—एषास्मि। आज्ञापयत्वार्यपुत्रः को नियोगोऽनुष्ठीयतामिति। (एसम्हि। आणवेदु अज्जउत्तो को णिओओ अणुचिट्ठियदु त्ति) सूत्रधारः—आर्ये, विदितमेव भवत्या। अस्ति प्रत्यर्थिपृथ्वीपतिविपुलबलारण्यमूर्च्छत्प्रताप- ज्योतिर्ज्वालावलीढत्रिभुवनविवरो विश्वविश्रान्तकीर्तिः। सपरिषदः 'परिषत् सभा, तया सहितस्य। तदवलोकने-प्रबोधचन्द्राभिधनाटक- दर्शने। कुतूहलम्-उत्कण्ठा। एतावत्पर्यन्तं गोपालभूपालवाक्यानुवादः, इतः परतः सूत्रधारोक्तिः। गृहिणीम्-स्वभार्याम्-नटीम्। आज्ञापयतु-कथयतु। नियोगः-आदेशः। अनुष्ठीयताम्-सम्पाद्यताम्। कं तवा- देशं पूरयामीति प्रश्नाशयः। विदितम्-ज्ञातम्। अस्ति प्रत्यर्थीति० प्रत्यर्थिनः शत्रुभूताः ये पृथ्वीपतयः राजानः तेषां विपु- लम् बहुलं यद्वलम् सैन्यम् तदेव (दुःसञ्चारत्वसाम्येन) अरण्यं काननम् तस्मिन् मूर्च्छन् वृद्धिं भजमानः प्रतापः पराक्रम एव ज्योतिः प्रकाशस्तस्य ज्वालया भासा अवलीढम् आक्रान्तम् त्रिभुवनविवरम् लोकत्रयरूपं बिलं येन तादृशः, शत्रु- संहारजन्ययशसा भुवनाभोगं पूरयन्नित्यर्थः। त्रिभुवने विवरत्वारोपः सुखव्या- प्यतां ध्वनयितुम्, तेन च प्रतापप्रकर्षो व्यज्यते। विश्वविश्रान्तकीर्त्तिः संसारख्यात- उस नाटक का अभिनय देखना चाहते हैं। अच्छा, तब तक घरसे गृहिणी को बुलाकर संगीतका आयोजन कर दूं। (चलकर, नेपथ्यकी ओर) आर्ये, जरा इधर तो आओ। नटी—यह आई। क्या आदेश है? सूत्रधार—आर्ये, जानती ही हो— शत्रुराजगण सैन्यरूप वनमे प्रतापानलको विस्तृत करके उस प्रतापकी लपटों से त्रिभुवन विवरको अतिक्रान्त करनेवाले विश्वविख्यात कीर्त्ति तथा केवल तलवारकी मददसे

८ प्रबोधचन्द्रोदयम् : गोपालो भूमिपालान्प्रसभमसिलतामात्रमित्रेण जित्वा साम्राज्ये कीर्त्तिवर्मा नरपतितिलको येन भूयोऽभ्यषेचि ॥४॥ अपि च— अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालन- व्यावलग्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः । उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिल- प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥ ५ ॥ यशाः गोपलस्तन्नामा अस्ति। येन असिलतामात्रमित्रेण केवलखड्गसहायेन भूमिपा- लान् विरोधिरराज्ञः प्रसभं हठात् जित्वा विजित्य नरपतितिलकः राजमुख्यः कीर्त्तिवर्मा भूयः साम्राज्ये मण्डलेश्वरपदे अभ्यषेचि अभिषिक्तः। यो गोपालः केवलखड्गसहाय- तया निखिलानपि प्रतिबन्धकराज्ञो जित्वा भ्रष्टसाम्राज्यभावः कीर्त्तिवर्मा पुनः स्वपदे साम्राज्यलक्षणे स्थापित इत्याशयः। एतेन परोपकारजन्यकीर्त्तिशालित्वमपि ध्वनि- तम् । शार्दूलविक्रीडितं वृत्तम् , लक्षणमनुपदमेवोक्तम् ॥ ४ ॥ अद्यापीति० उन्मदाः प्रसन्ना मत्ताश्च या यातुधानतरुण्यो राक्षसललनास्तासां चञ्चन्तः दीप्तिशालिनश्चला वा ये करा हस्तास्तेषामास्फालनं करतालिकाप्रदानार्थः परस्परघातस्तेन व्यावलगन्ति चलन्ति यानि नृकपालानि नरमुण्डानि तेषां ताल- रणितैः तालयुक्तशब्दैः नृत्यन्त्यः नृत्यपरायणाः पिशाचाङ्गनाः पिशाचस्त्रियो यासु तादृश्यः रणक्षोणयः युद्धभूमयः अद्यापि युद्धस्य चिरवीतत्वेऽपि प्रचण्डानिलेन महता वायुना प्रक्षुभ्यत् ससञ्चारम् यत् करिकुम्भकूटम् हस्तिशिरःसमुदयस्तस्य कुहराणि बिलानि गहराणि वा तेभ्यो विततैः जृम्भमाणैर्नादैः शब्दै यस्य यशांसि कीर्त्तिगाथाः गायन्ति । मत्ता यातुधानस्त्रियः करतालिका प्रदानेन यत्करांश्चालयन्ति तेन तत्करभूषणीभूतानि नृकपालानि सतालं शब्दायन्ते, यदीयं तालमनुसृत्य पिशाचाङ्गना यासु नृत्यन्ति तादृश्यो रणभूमयो यस्य गोपालभूपालस्य यशप्रबल- वातचलितगजकुम्भास्थिकुहरनिर्यच्छिनदैर्गायन्तीत्यर्थः । महाभीषणं यस्य युद्धं तादृशो समस्त विरोधी राजाओंको जीतकर कीर्त्तिवर्माको फिरसे राज्यासीन करनेवाले गोपाल नामक भूपाल है ॥ ४ ॥ जहाँ मतवाली राक्षसस्त्रियाँ ताल देती हैं जिससे उनके हाथमें स्थित नरकपाल खनखना उठते हैं, पिशाचस्त्रियाँ नाचा करती हैं, हस्तिमुण्डोंके अस्थिपञ्जर हवासे भरकर रणभूमिमें शब्द करते हैं, मानो-रणभूमि गोपाल की कीर्त्ति गा रही हो ॥ ५ ॥

प्रथमोऽङ्कः ६ तेन च शान्तपथप्रस्थितेनात्मनो विनोदार्थं प्रबोधचन्द्रोदयाभिधानं नाटकमभिनेतुमादिष्टोऽस्मि । तदादिश्यन्तां भरता वर्णिकापरिग्रहाय । नटी—( सविस्मयम् ) आर्यपुत्र, आश्चर्यमाश्चर्यम् । येन तथाविधनिज- भुजबलविक्रमैकनिर्भर्त्सितसकलराजमण्डलेन आकर्णाकृष्टकठिनकोदण्ड- दण्डबहुलवर्षच्छरनिकरजर्जरीयतुरङ्गतरङ्गमालम् , निरन्तरनिपतत्तीक्ष्ण- विशिखनिचित्तमहास्त्रपर्यस्तोत्तुङ्गमातङ्गमहामहीधरसहस्रम् , भ्रमद्भुज- दण्डमन्दराभिघातघूर्णमानसकलपत्तिसलिलसंघातम्, कर्णसेनासागरं गोपाल इत्याशयः । अतिशयोक्तिरलङ्कारः । पूर्वोक्ताविपरीतं वृत्तम् ॥ ५ ॥ तेन गोपालभूपेन । शान्तपथप्रस्थितेन शममार्गप्रचलितेन । आत्मनः स्वस्य । अभिनेतुम्-प्रयोक्तुम् । आदिष्टः-आज्ञापितः । आदिश्यन्ताम्-आज्ञाप्यन्ताम् । भरताः अभिनेतारो नटाः । वर्णिकापरिग्रहाय-यथोचितवेषग्रहणाय । यस्य भूमिका येन नटेनालम्बनीया तेन नटेन स्वानुकार्यस्य वेषः सम्पाद्यतामित्याशयः । सविस्मयम्—साश्चर्यम् , विस्मयश्च गोपालभूपालस्य युद्धरसिकस्य शमपथ- प्रस्थानश्रवणजन्मा बोध्यः । तथाविधोऽतिविख्यातपराक्रमो यो निजभुजबलविक्रमः स्वबाहुपराक्रमस्तेनै- केन केवलेन तेन ( परकीयसाहाय्यनिरपेक्षम् ) निर्भर्त्सितम् परास्तम् सकलराज- मण्डलं समस्तनृपचक्रं येन तादृशेन । इदं तृतीयान्तं राज्ञो विशेषणम् । आकर्णाकृष्टः कर्णपर्यन्तं नमितः यः कठिनकोदण्डदण्डः कठोरधनुर्दण्डः ततः कोदण्डदण्डाद् बहुलम् प्रचुरम् वर्षतः निर्गच्छतः शरनिकरेण बाणसमूहेन जर्जरीताः क्षत- विक्षताः तुरङ्गाः अश्वा एव तरङ्गमाला यस्य तादृशम् इदमग्रेतनं च द्वितीयान्तकुलं समुद्रत्वेन रूप्यमाणस्य राजनिवहस्य विशेषणम् । निरन्तरं सततं निपतन्ति परा- पतनशीलानि तीक्ष्णानि शिताग्राणि विशिखानि बाणाः निचितानि प्रहृतानि महा- स्त्राणि आग्नेयादीनि तैः पर्यस्ता इतस्ततः क्षिप्ता उत्तुङ्गमातङ्गा दीर्घा दन्तिन एव महामहीधरसहस्रम् महोच्चपर्वतकुलम् यस्येति विग्रहः, कर्णसेनासागरगतं हस्तिकुल- अब वह शान्ति के उपासक हो रहे हैं, उन्होंने आत्मविनोदार्थ प्रबोधचन्द्रोदयके अभिनय करने की आज्ञा दी है । इसलिये नटोंको तैयार होने की आज्ञा दो । नटी—( विस्मयके साथ ) आर्यपुत्र, आश्चर्य है, आश्चर्य ! जिसने अपने उद्दाम बाहु पराक्रमसे समस्त राजमण्डलको नीचा दिखाया, शत्रु सागरमें कान तक आकृष्ट बाणसे शरवृष्टि करके तरङ्गोपम तुरङ्गोंको जर्जरित किया, निरन्तर गिरनेवाले बाणों तथा अन्य महास्त्रोंसे शैलतुल्य गजराजोंको उलट-पुलट दिया, भुजदण्डरूप मन्दर पर्वत घुमाकर सकल पदातिसेनारूप जलराशिको नचा दिया, इस प्रकार कर्णसेना सागरको मथकर

१० प्रबोधचन्द्रोदयम् निर्मथ्य मधुमथनेनेव क्षीरसमुद्रमासादिता समरविजयलक्ष्मीः । तस्य साम्प्रतं सकलमुनिजनश्लाघनीयः कथमीदृश उपशमः संवृत्तः । (अज्जउत्त, अच्चरियं अच्चरियं । जेण तथाविहणिअभुअबलबिक्कमैकणिब्भच्छिदसअलराअमण्डलेण आयण्णाकिट्ठकठिणकोअण्डदण्डबहलघरिन्तरसरणिअरजज्जरिदतुरं अतरं अमालं णिरन्तरणिवडन्ततिक्खविशिखणिखित्तमहस्सपक्खत्थतुरङ्गमाअङ्गमहामदीहरसहस्सं भमन्तभुअदण्डमन्दराहिहादघुमन्तसअलपत्तिसलिलसङ्घादं कण्णसेणासाअरं णिम्म- हित्थ मधुमहणेणेव खीरसमुदं आसादिदा समरविजअलच्छी । तस्स संपदं सअल- मुणिअणसलाणिज्जो कहं एरिसो उवसमो संवृत्तो ) सूत्रधारः—आर्ये, निसर्गसौम्यमेव ब्राह्मं ज्योतिः कुतोऽपि कारणा- त्प्राप्तविकारमपि पुनः स्वभावमेवावतिष्ठते । यतः सकलभूपालकुलप्रलय- कालाग्निरुद्रेण चेदिपतिना समुन्मूलित चन्द्रान्वयपार्थिवानां पृथिव्या- माधिपत्यं स्थिरीकर्त्तुमयमस्य संरम्भः । पश्य तदा— रूपं पर्वतसमूहं यस्तीक्ष्णप्रहारवशत इतस्ततः क्षिप्तवान् इत्यर्थः । अमन् भुज- दण्ड एव मन्दरस्तेनाभिघातः प्रहारस्तेन घूर्णमानं सकलं पत्तिसलिलं पादसञ्चारि- सैन्यजलम् तस्य सङ्घातः समुदायो यत्र तादृशम् । भ्रमता बाहुदण्डेन यः कर्णसेना- सागरस्य पदातिसैन्यरूपं सलिलसमुदयं क्षोभयामास तमित्यर्थः । कर्णसेनासागरम् कर्णारव्यनृपतिसैन्यचयम् । निर्मथ्य-विद्राव्य । मधुमथनेन-विष्णुना । समरविजय- लक्ष्मीः-युद्धजयश्रीः । भगवान् विष्णुर्मन्दराचलेन समुद्रमुन्मथ्य यथालक्ष्मीं वृत- वानयमपि गोपालस्तथैव कर्णसेनां विद्राव्य युद्धे जयश्रियमापदिति भावः । सकल- मुनिजनश्लाघनीयः-सकलर्षिगणप्रशस्यः । उपशमः-शान्तिनिष्ठा । निसर्गसौम्यम्-स्वभावशान्तम् । ब्राह्मम्-परब्रह्मसम्बन्धि । कुतोऽपि कारणात् कस्माच्चिदपि हेतोः प्राप्तविकारम्-विकृतम् । स्वभावम्-स्वरूपं निर्मलत्वमविकारित्व- लक्षणम् । सकलभूपालकुलप्रलयकालाग्निरुद्रेण-सकलराजकदर्थनसँलग्नेन । चेदि- पतिना-कर्णेन । चन्द्रान्ववायपार्थिवानाम्-चन्द्रवंशिनृपानाम् । स्थिरीकर्त्तुम्- विजयलक्ष्मीका वरण किया, जैसे विष्णुने समुद्र मथकर लक्ष्मी पाई थी । अब वही मुनियों द्वारा प्रशंसित शान्तिके पुजारी कैसे बन गये ? सूत्रधार—स्वभावतः शान्त ब्राह्मतेज किसी कारणवश विकार प्राप्तकर पुनः अपने स्वभावका अवलम्बन कर लेता है । गोपाल भूपने भी सभी भूपोंको सतानेवाले चेदिराजसे उपद्रुत कीर्त्तिवर्मांको फिरसे पदस्थ करनेके लिये ही इस प्रकारका क्रोधमय व्यापार कियाँ था । देखो—

कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः । स्थैर्यप्रसादमर्यादास्ता एव हि महोदधेः ॥ ६ ॥ अपि च । भगवन्नारायणांशसंभूता भूतहिताय तथाविधाः पौरुष- भूषणाः पुरुषाः क्षितिमवतीर्य निष्पादितकृत्याः पुनः शान्तिमेव प्रपद्यन्ते । यथा परशुराममेवाकलयतु भवती तावत् । येन त्रिःसप्तकृत्वो नृपबहुलवसामांसमस्तिष्कपङ्क-


प्रतिष्ठापयितुम् । संरम्भः उग्रः प्रयासः । कर्णेनोपद्रुतं कीर्त्तिवर्माणं स्वपदे स्थापयि- तुमेवास्यायं प्रयत्न इति भावः । मोहेन प्रक्षुभ्यमानस्य पुरुषस्य । स्वरूपावासये एव विवेकस्य सकलप्रयास इति ध्वनिः । कल्पान्तेति० कल्पान्ते प्रलयकाले यो वातः प्रपञ्चानिलस्तेन यः संक्षोभः उद्वेली- भवनम् तेन लङ्घिताः आत्मनि निलीनाः कृता अशेषभूभृतः । सर्वेऽपि पर्वता येन तस्य प्रलयकालप्रबलानिलसञ्चारक्षुब्धतया सकलानपि पर्वतान्स्वपयःपूरेऽन्तरयत इत्यर्थः । महोदधेः सागरस्य (प्रलयसमयापाये) ता एव प्राचीना एव स्थैर्यप्रसादम- र्यार्दाःभवन्तीति शेषः । स्थैर्यम् निश्चलता, प्रसादः स्वच्छता, मर्यादा वेलानुलङ्घनम् । यथा प्रलयकाले समुद्वेलोऽपि सागरः पुनस्तत्समयापाये स्थिरः प्रसन्नो मर्यादितश्च भवति तद्वदयमपि गोपालः स्वभावसौम्यः सुहृत्कार्यवशात्तादृशीमुग्रतामङ्गीकृतवा- ञ्जाते तु तत्कार्ये पुनः सैवास्योपशमनिष्ठेति तात्पर्यम् ॥ ६ ॥ भगवन्नारायणांशसंभूताः—भगवदंशोद्भवाः । भूतहिताय-विश्वकल्याणाय पौरुष- भूषणाः-पराक्रमालङ्काराः । क्षितिमवतीर्य-पृथिव्यां जन्म गृहीत्वा । निष्पादित- कृत्याः-कृतकर्त्तव्याः । शान्तिमेव प्रपद्यन्ते-शान्तिनिष्ठा एव भवन्ति । परशुरामम् जमदग्निवंशालङ्कारम् भार्गवम् । आकलयतु-पश्यतु । सोऽपि भगवदवतारो भूभा- रोद्धाराय तास्ता घोराः क्षत्रियवधादिकाः क्रियाः कृत्वान्ते शममेव भेजे तद्वदयमपि भूपालो गोपाल इति भावः । येनेति० येन परशुरामेण त्रिःसप्तकृत्वः एकविंशतिवारान् नृपाणां हतक्षत्रियाणां


प्रलयकालकी हवासे समुद्रमें बाढ़ आती है जिसमे बडे बडे पर्वत डूब जाते हैं, परन्तु प्रलयके बाद समुद्रकी स्थिरता, प्रसन्नता तथा मर्यादा वही हो जाती है ॥ ६ ॥ भगवान् नारायण के अंशसे संसारकी भलाईके लिये उत्पन्न पराक्रमालङ्कृत तादृश नररत्न पृथ्वी पर अवतार लेते है और अपना कर्तव्य करके फिर शान्तिमे लीन हो जाया करते है । तुम सर्वप्रथम परशुरामको ही देखो— जिन्होंने इक्कीस बार राजगणके मांस-मज्जारूप तटसे घिरी क्षत्रियरुधिर नदीके

१२ प्रबोधचन्द्रोदयम् प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः । यस्य स्त्रीबालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ राजन्योच्चांसकूटक्रथनपटुरटद्धोरधारः कुठारः ॥ ७ ॥ सोऽपि स्ववीर्यादवतार्य भारं भूमेः समुत्खाय कुलं नृपाणाम् । प्रशान्तकोपज्वलनस्तपोभिः श्रीमान्मुनिः शाम्यति जामदग्न्यः ॥ ८॥ तथायमपि कृतकर्तव्यः संप्रति परमामुपशमनिष्ठां प्राप्तः । बहुलः भूयान्, वसा मांसस्नेहः, मांसम्, मस्तिष्कपङ्कः लालाटरसस्रावकृतकर्दमश्च प्राग्भारे तटे यस्य तादृशे भूरि अत्यर्थम् च्युतम् क्षरितम् यद्रुधिरम् शोणितं तस्य सरिन्नदी तस्या वारिपूरे जलराशौ अभिषेकः स्नानतर्पणादिविधिः अकारि कृतः। यस्य असौ प्रसिद्धकर्मा कुठारः परशुः राजन्यानाम् क्षत्रियाणाम् उच्चाः उन्नताः येऽंसाः स्कन्धदेशास्तेषां कूटम् समुदायः यस्य क्रथने विपादने पटुः कुशला रटन्ती घोरा शब्दायमाना भीषणा च धारा यस्य तादृशः स्त्रीबालवृद्धावधिनिधनविधौ आबाल- वनितासंहारकर्मणि निर्दयः अकृपः विश्रुतः प्रख्यातः। यः पितृवधामर्षरुष्टः सन्नेक- विंशतिवारान् धरां निःक्षत्रियां कृत्वा तद्रोहास्त्रसरिति स्नानतर्पणादिविधिं निरवर्त्त- यद्यस्य च कुठारः स्त्रीबालवृद्धानपि क्षत्रियानवधीदिति भावः। एतेनास्य परमक्रूर- कर्मत्वमुक्तम् ॥ ७ ॥ सोऽपीति० सोऽपि अत्युग्रकर्मतया प्रसिद्धोऽपि परशुरामः स्ववीर्यात् स्वपराक्रम- मास्थाय नृपाणां क्षत्रियाणां कुलं वंशं समुत्खाय उन्मूल्य भूमेः पृथिव्याः भारम् अवतार्य अपसार्य प्रशान्तकोपज्वलनः शान्तक्रोधज्वालः श्रीमान् जामदग्न्यः मुनिः मननमाश्रितः शाम्यति शमनिष्ठो भवति । तादृशात्युग्रकर्मापि परशुरामः कृतकृत्यः सन् शान्तिमाश्रितवानतश्च गोपालस्यापि कर्णे विनिपातिते शान्तिनिष्ठानास्वाभा- विकीति भावः ॥ ८ ॥ तथा-परशुरामवत् । अयम्-गोपालः। परमामुपशमनिष्ठाम्-आत्यन्तिकीं शान्तिम् । प्रवाह में स्नानतर्पण किये, जिनका कुठार क्षत्रियोंके असदेशके खण्डनमें तीव्र तथा आबाल वृद्ध तकके वधमें विख्यात है ॥ ७ ॥ वह जामदग्न्य भी अपने पराक्रमसे पृथ्वीका भार दूर कर क्षत्रियोंके वधके बाद शान्त- कोप हो मुनिवृत्तिसे तपस्यामें लीन हो गये थे ॥ ८ ॥ उसी प्रकार यह भी इस समय आत्यन्तिक शान्तिमें निरत है ।

प्रथमोऽङ्कः १३ येन च— विवेकेनेव निर्जित्य कर्णं मोहमिवोर्जितम् । श्रीकीर्तिवर्मनृपतेर्बोधस्येवोदयः कृतः ॥ ६ ॥ ( नेपथ्ये ) आः पाप शैलूषाधम, कथमस्मासु जीवत्सु स्वामिनो महामोहस्य विवेककशात्पराजयमुदाहरसि । सूत्रधारः—( ससंभ्रमं विलोक्य ) आर्ये, इतस्तावत् । उत्तुङ्गपीवरकुचद्वयपीडिताङ्ग- विवेकेनेवेति० येन भूपगोपालेन ऊर्जितम् बलशालिनम् कर्णं तदाख्यं नृपम् निर्जित्य पराभूय ऊर्जितम् अत्युच्छ्रितम् मोहम् सांसारिकबन्धनं ममत्वादिकम् निर्जित्य विवेकेन विचारेण प्रबोधस्य आत्मस्वरूपज्ञानस्य उदयः प्रकाश इव श्रीकी- र्त्तिवर्मनृपतेः तदाख्यस्य उदयः साम्राज्यपदारोपणात्समोन्नतिः कृतः । यथा विवेकेन महाराजेन महामोहाख्यं रिपुं विजित्य बोधस्योदयः कृतस्तथा गोपालेन कर्णाख्यं राजानं निर्जित्य कीर्त्तिवर्मनृपतेरभ्युदयः कृत इति भावः ॥ ९ ॥ अत्र कथोद्घाताख्यमामुखाङ्गं निरूपितम् , सूत्रधारोक्तिमनुसृत्य पात्रप्रवेशात् । तदुक्तम्—'स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत्पात्रं कथोद्घातो द्विधैव सः' इति । शैलूषाधम-नीचनट । अस्मासु = विवेकविरोधेषु मोहपक्षपातिषु च मदमात्सर्या- दिषु । जीवत्सु = प्राणान् धारयत्सु । स्वामिनः = प्रभोः । विवेककशात्=विवेकतः । पराजयम् = पराभवम् । उदाहरसि = कथयसि । अस्मासु मोहपक्षगेषु मदमात्सर्या- दिषु तिष्ठत्सु विवेककृतं मोहस्य पराजयं ब्रुवाणस्य तव नटाधमस्य मूर्खत्वं प्रकटमित्यर्थः । ससंभ्रमम्-सभयम् , भयञ्चात्राकस्मादतिप्रबलप्रतापकामदर्शनेन । उत्तुङ्गेति० उत्तुङ्गौ उन्नतौ पीवरौ पीनौ कुचौ स्तनौ तयोर्द्वयेन युग्मेन पीडितम् जिस प्रकार विवेकने उद्रिक्त मोहको जीतकर प्रबोधको उदय प्रदान किया उसी तरह गोपाल भूपालने कर्ण नृपतिको जीतकर कीर्त्तिवर्माको उदय दिया ॥ ९ ॥ ( नेपथ्यमें ) आः पाप, नीच नट, हमारे जीते स्वामी महामोहका विवेकसे हारना बताता है ! सूत्रधार—( घबड़ाहटसे देखकर ) आर्ये, इधर तो देखो— उत्तुङ्गस्तनद्वय द्वारा शरीरको मसलकर रोमाञ्चित बाहुओं से रति द्वारा आलिङ्गित

१४ प्रबोधचन्द्रोदयम् मालिङ्गितः पुलकितेन भुजेन रत्या । श्रीमाञ्जगन्ति मदयन्नयनाभिरामः कामोऽयमेति मदघूर्णितनेत्रपद्मः ॥ १० ॥ मद्वचनाच्चायमुपजातक्रोध इव लक्ष्यते । तदपसरणमेवास्माकमितः श्रेयः । ( इति निष्क्रान्तौ ) प्रस्तावना । ( ततः प्रविशति यथानिर्दिष्टः कामो रतिश्च ) आमृष्टम् अङ्गम् शरीरावयवः यत्र कर्मणि तथा पुलकितेन सात्त्विकभावोचितरोमा- ञ्चयुतेन भुजेन बाहुना करणेन रत्या कामदेवस्त्रिया आलिङ्गितः आश्लिष्टः, श्रीमान् शोभाशाली माहात्म्ययुक्तो वा, जगन्ति लोकान् मदयन् स्वैः प्रखरप्रतापैर्बाणैः कामातुराणि कुर्वन्, नयनाभिरामः नेत्रोत्सवप्रदः मदघूर्णितनेत्रपद्मः मद्यपानजनितेन विकारेण तरलदृष्टिकमलः अयम् पुरोवर्त्ती कामः एति आगच्छति । स्वस्त्रिया रत्या गाढमालिङ्ग्यमानो मदघूर्णितदृष्टिर्जगन्ति मदयंश्च कामोऽयमेतीति भावार्थः । अत्र कामोऽयमेतीत्येतावतावाक्यसमाप्तौ जातायां पुनः ‘मदघूर्णितनेत्रपद्मः’ इति विशेषण- दानात्समाप्तपुनरात्तत्वं दोषः । वसन्ततिलकं वृत्तम्, तल्लक्षणं यथा—‘उक्तं वसन्त- तिलकं तभजा जगौ गः’ इति ॥ १० ॥ मद्वचनात् = मदुक्तेः । उपजातक्रोधः = सञ्जातकोपः । लक्ष्यते = प्रतीयते । अप- सरणम् = पलायनम् । श्रेयः = हितकरम् । बलवति क्रोधशालिनि सन्निहिते पलाय- नादन्यन्न शरणमिति तात्पर्यम् । निष्क्रान्तौ = निर्यातौ नटीसूत्रधारावित्यर्थः । प्रस्तावना—‘नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्त विज्ञेयं नाम्ना प्रस्तावनाऽपि सा’ ॥ संसारको मतवाला बना देनेवाला मस्तीमें आँखोंको घुमाता हुआ यह श्रीमान् कामदेव इधर आ रहा है ॥ १० ॥ हमारी बातोंसे यह रुष्ट सा मालूम पड़ रहा है, इसलिये यहाँ से हम लोगोंका हट जाना ही श्रेयस्कर है । ( दोनों जाते हैं ) प्रस्तावना ( वर्णितरूपमें काम और रतिका प्रवेश )

प्रथमोऽङ्कः १५ कामः—( सक्रोधम् । आः पापेति पुनः पुनः पठित्वा ) ननु रे भरताधम, प्रभवति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् । निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ ११ ॥ अपि च— रम्यं हर्म्यतलं नवाः सुनयना गुजद्द्विरेफा लताः प्रोन्मीलन्नवमल्लिकासुरभयो वाताः सचन्द्राः क्षपाः । यद्येतानि जयन्ति हन्त परितः शस्त्राण्यमोघानि मे इति लक्षणं तस्याः । तस्याश्चात्रावलगिताख्यो भेदः, स च सुधीभिः सङ्गमनीय- लक्षणः । ततः सूत्रधारविनिर्गमानन्तरम् । अत्र यद्यपि मोहामात्यानां मध्ये यस्य कस्यापि प्रवेशो निबन्धयितुं शक्यस्तथापि कामस्य मनःपुत्रतया प्राधान्येन तत्प्रवेश- एवोक्त इति बोध्यम् । यथानिर्दिष्टः = पूर्वोक्तावस्थः । भरताधम = अतिनीचनट । प्रभवतीति० विदुषाम् शास्त्राध्ययनोपार्जितज्ञानानाम् अपि मनसि हृदये शास्त्र- संभवः शास्त्रोक्तज्ञानजनितः विवेकः सदसन्निर्धारणसामर्थ्यम् तावदेव तदवध्येव प्रभवति स्वं प्रभावं प्रकटयति यावत् इन्दीवराक्षीणाम् कमलनयनानाम् दृष्टिविशिखाः नेत्रबाणाः न निपतन्ति तेषामुपरि नापतन्तीति यावत् । अयमाशयः—शास्त्राध्ययना- सादितज्ञाना अपि विवेकं तावदेव पालयितुं प्रभूभवन्ति यावत्कामिनीभिर्न ह्रियन्ते जाते तु तद्दृग्गोचरत्वे विवेको भ्रश्यत इति । उक्तञ्चायमेवार्थोऽपरत्र—'सन्मार्गे ताव- दास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति' । आर्या वृत्तम् ॥ ११ ॥ रम्यमिति० रम्यम् हृदयहारि हर्म्यतलम् प्रासादपृष्ठम्, नवाः आरूढयौ- वनाः सुनयनाः सुन्दर्यः, गुञ्जद्द्विरेफाः शब्दायमानभ्रमराः लताः वल्लर्यः, प्रोन्मी- लन्त्यः नवमल्लिकाः पुष्पप्रभेदास्ताभिः सुरभयः सञ्जातगन्धाः वाताः वायवः, स- चन्द्राः चन्द्रधवलाः क्षपाः रात्रयः, एतानि प्रागुक्तानि हर्म्यतलप्रभृतीनि अमोघानि काम—( क्रोधसे 'आः पाप' इत्यादिको दुहराता है ) अरे रे नटाधम, विद्वानोंके भी हृदयमे शास्त्रोत्पन्न विवेक तभी तक अपना प्रभाव रखते हैं जब तक कमलनयनाओं के दृष्टिबाण उनके ऊपर नहीं पड़ते है ॥ ११ ॥ और—सुन्दर भवन, नई नवेली सुन्दरियाँ, भ्रमरमुखरित लताएं, नवविकसित मल्लिकासे सुगन्धित लतायें, चन्द्रकिरणसे उद्भासित रातें, यदि यह हमारे अमोघ अस्त्र

१६ प्रबोधचन्द्रोदयम् तद्भोः कीदृगसौ विवेकविभवः कीदृक्प्रबोधोदयः ॥ १२ ॥ रतिः—आर्यपुत्र, गुरुः खलु महाराजमहामोहस्य प्रतिपक्षो विवेक इति तर्कयामि । ( अज्जउत्त, गुरुओ क्खु महाराजमहामोहस्स पडिवक्खो विवेओ त्ति तक्केमि ) कामः—प्रिये, कुतस्तवैदं स्त्रीस्वभावसुलभं विवेकाद्भयमुत्पन्नम् । पश्य— अपि यदि विशिखाः शरासनं वा कुसुममयं ससुरासुरं तथापि । मम जगदखिलं वरोरु नाज्ञामिदमतिलङ्घ्य धृतिं मुहूर्तमेति ॥ १३ ॥ कदापि न व्यर्थतांगतानि मे मम कामस्य शस्त्राणि विजयसाधनानि प्रहरणानि यदि परितः जयन्ति सर्वोत्कर्षेण वर्तन्ते हन्त भोः ! अहह ! तत् तदाऽसौ विवेकविभावः विवे- कस्य प्रभावः कीदृक् कथंभूतः, प्रबोधोदयः ज्ञानोदयः (च) कीदृक् ? अयमर्थः-उद्दी- पनसाधनतया प्रसिद्धानि हर्म्ययुवतिजनलताभ्रमरवसुरभिवातचन्द्रातपदीनि मद- स्त्राणि यदि सन्ति तदा का कथा विवेकविभवस्य का वा कथा प्रबोधोदयस्य, नैकपि तयोः सेद्धुमर्हति, सर्वविजयिमदीयप्रभावैः सर्वेषामेव कामपरतन्त्रताया अवश्यं- भावित्वात्तत्पथानुसारणप्रवृत्तौ विवेकविभवप्रबोधोदययोर्दूरापेतत्वादिति । 'हर्म्यादि धनिनां वासः' इत्यमरः। शार्दूलविक्रीडितं वृत्तम् । लक्षण तस्यान्योक्तम् ॥ १२ ॥ गुरुः—महान् । प्रतिपक्षः = विपक्षः, शत्रुरित्यर्थः । तर्कयामि = ध्यायामि । स्त्रीस्वभावसुलभ=नारीजनप्रकृतिलभ्यम् । नार्यो ह्यल्पेनैव कारणेन महाभीति- मुपेत्य चञ्चला भवन्तीति भावः । अपीति० हे वरोरु सुन्दरजङ्गे, यदि अपि यदपि मम विशिखाः बाणाः ( कुसुम- मयाः ) शरासनम् धनुः वा कुसुममयम् पुष्पस्वरूपम् तथापि ससुरासुरम् देवदानव- सहितम् इदम् अखिलम् समग्रम् जगत् संसारः मम आज्ञाम् आदेशम् अतिलङ्घ्य अतिक्रम्य मुहूर्तम् क्षणम् अपि धृतिम् धैर्यम् स्वरूपावस्थानम् न एति प्राप्नोति । अयमाशयः— अहमेभिः पौष्पैर्बाणैः कुसुममयेन चानेनैव धनुषा निखिलस्यापि देव- वर्त्तमान ही है तब विवेकका विभव कैसा ? और प्रबोधका उदय कैसा ॥ १२ ॥ रति—आर्यपुत्र, महाराज मोहका विपक्षीविवेक बड़ा भारी दुश्मन है ऐसा प्रतीत होता है । काम—प्रिये ! क्यों तुझे स्त्रीस्वभावके कारण विवेक का भय हो गया ? देखो— यद्यपि मेरे बाण और धनुष फूल के ही हैं, फिर भी यह सारा संसार मेरी आज्ञाका एक क्षण के लिये भी उल्लङ्घन करके नही ठहर सकता है ॥ १३ ॥

प्रथमोऽङ्कः १७ तथाहि— अहल्यायै जारः सुरपतिरभूदात्मतनयां प्रजानाथोऽयासीद्भजत गुरोरिन्दुरबलाम् । इति प्रायः को वा न पदमपथेऽकारयत मया श्रमो मद्बाणानां क इव भुवनोन्माथविधिषु ॥ १४ ॥ रतिः—आर्यपुत्र, एवं नैतत् । तथापि महासहायसंपन्नः शङ्कितव्यो- दानवोपेतस्य विश्वस्योपरि स्वामाज्ञां प्रचारयितुं क्षमस्तदस्यां स्थितौ मोहमहाराजस्य विजयं प्रत्याशङ्का तव नितान्तनिर्र्मूला स्त्रीप्रकृतिमात्रप्रभवेति । अत्र 'विशिखाः' इत्यनेन भोगे कर्त्तव्ये 'कुसुममयम्' इति पदं विभक्तिलिङ्गयोर्विपरिणमनीयम् स्पष्टमन्यत् ॥ १३ ॥ अहल्यायै इति० सुरपतिः इन्द्रः अहल्यायै तदाख्यायै गौतममुनिपत्न्यै जारः प्रच्छ- न्नकामुकः अभूत्, प्रजानाथः ब्रह्मा आत्मतनयाम् शतरूपाम् अयासीत् कामेन मिथुनीभावंगतः । इन्दुः चन्द्रः गुरोः बृहस्पतेः अबलाम् स्त्रियम् अभजत सिषेवे । इति एवमुक्तप्रकारेण प्रायः कः मया अपथे अमार्गे पदम् न अकारयत कुमार्गे न नीतः, सर्वोऽपि कुमार्गं गमित इत्यर्थः । भुवनोन्माथविधिषु संसारकदर्धनकर्मणि मद्बाणा- नाम् मम सायकानाम् क इव श्रमः आयासः ? अनायासमेव मम बाणा भुवंमाकुल- यितुं क्षमा यतोऽनेन प्रायः सर्वेऽपि कुमार्गं गमितास्तथाहि देवेन्द्रोऽहल्याजारोऽ- भूद्ब्रह्मा स्वां दुहितरं शतरूपामकामयत शशाङ्कश्च गुरुस्त्रियं तारा मदुपयत्तदिह भुवनोन्माथे दक्षा मम बाणा इत्यस्ति मम पराक्रमप्रकर्षस्तन्मा मोह महाराजस्य पराभवं चिन्तयेति भावः । अत्राहल्यायै इति चतुर्थी श्रुत्यनुकरणेन । 'अपथे' इत्यत्र 'पथो विभाषा' इति समासान्तोऽप् । प्रसिद्धं च ब्रह्मणः स्वतनयाकामुकत्वं तथा चोक्तं पुष्पदन्तेनापि महिम्नः स्तोत्रे— 'प्रजानाथं नाथप्रसभमभिक स्वां दुहितरम्' इति । 'को वा न पदमपथेऽकारयत' इति वाक्ये क इति कर्म 'हृक्रोरन्यतरस्याम्' इति अणौ कर्त्तुर्णौ कर्मत्वानुशासनात् । 'अपन्थास्त्वपथं तुल्ये' इत्यमरः । शिखरिणीवृत्तम्—'रसै- र्रुद्रैश्छिन्ना यमनसभलागः शिखरिणी' इति च तल्लक्षणम् ॥ १४ ॥ 'एवं नेदम्' इति शौरसेन्याः 'एवं नैतत्' इति संस्कृतम् । भवदुक्तं न मिथ्येति क्योंकि—इन्द्र को अहल्या जार बनना पडा; प्रजापति अपनी कन्या पर आसक्त हुए, चन्द्रमा ने बृहस्पति की स्त्री को दूषित किया, इस तरह प्रायः सभी हमारे बाणों से कुमार्ग पर लाये गये हैं, इस संसार को मथ देने में हमारे बाणों को मिहनत ही कितनी है ? ॥ १४ ॥ रति—आपका कहना ठीक है, फिर भी सहायसम्पन्न शत्रु से डरना चाहिये, सुनती