पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
७०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] स्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्काम- यते तत्तत्सृजते' (बृ० ३-४-१५०) ( ४ ) 'अमृतो वाव सोमपो भवति यावदिन्द्रो यावन्मनु र्यावदादित्यः' ( ) ( ५ ) 'कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवति अथामृता- नि कर्माणि यत एनममृतत्वं नयन्ति' ( ) काशमानस्वरूपमित्यर्थः। ननु जिज्ञासुज्ञानिकृतकर्मणोरपि अङ्गकर्मव- त्क्षये किं ज्ञानसम्पादनेन इत्यत आह--स य इति। 'सः' प्रसिद्धो 'यो' जिज्ञासुः 'आत्मानं' परमुपास्ते तस्य 'कर्म' अकाम्यं पुण्यं 'न क्षीयते' ज्ञानद्वारेणाक्षयमोक्षदं भवति। तथा यः 'उपास्ते' जा- नीतेऽस्य पुण्यं कर्म 'न क्षीयते' अक्षयमोक्षातिशयाय भवतीत्यर्थः। ननु कर्मण आशुतरविनाशित्वान्न क्षीयत इति कथमित्यत आह--अ- स्मादिति। 'हि' यस्मादेवमुपासनापरोक्षज्ञानाभ्यां मुक्तो मोक्षे यद्य- द्वैषयिकं फलं कामयते तत्सर्वं 'तस्मादेव' अपरोक्षीकृतात्मनस्तत्प्र- सादादेव कर्म सृजत इत्यर्थः। यद्वा--यद्यत्कामयते मुक्तस्तत्तत्सृजते कर्मेति यत तत् 'अस्मात्' आत्मनोऽनुग्रहाद्धि, कर्मणा प्रसन्नः पर- मात्मैव सृजतीत्यर्थः। तथा च कर्मण आशुतरविनाशित्वेऽपि तज्जात- भगवत्प्रसादस्य नित्यत्वेन तद्विवक्षया न तस्य कर्म क्षीयत इत्युक्तिरि- ति भावः। केचित्तु--तत्कर्म सृजतीत्युक्त्या ज्ञानोत्तरानुष्ठितकर्मजा- तपुण्यस्य जीवस्वरूपतया मुक्ताववस्थानं सिद्धयति। अन्यथा कर्मण एव प्रसादजनकत्वापत्त्याऽदृष्टासिद्धिप्रसङ्गादित्याहुः॥ (४) 'अमृतः' इति श्रुतौ वावेति निपातौ प्रसिद्धौ। तथा च 'सोमपः' सोमयाजी 'अमृतः' अमुख्यमृतत्ववान् भवति। तस्यामु- ख्यत्वं कुत इत्यतोऽनित्यत्वादित्याह--यावदिति। इन्द्रः स्वपदे याव- त्कालमास्ते, एवं मनुः सूर्यश्च, अयं तावदमृतो भवतीत्यर्थः॥ (५) अधिकारी अकाम्येन कर्मणा ज्ञानं 'आतनोति' उत्पादय- ति। तेन 'अमृती' मुक्तो भवतीत्यर्थः। कर्मणां पारम्पर्येण मुक्तिसा- धनत्वे युक्तिमाह--अथेति॥ यतः कर्माणि 'एनं' जिज्ञासुं 'अमृतत्त्वं' मोक्षं 'नयन्ति' प्रापयन्ति। अथ तस्मादेवामृतानीत्युच्यन्ते, अतस्ते- षां तत्साधनत्वं युक्तमिति भावः। नन्वेवं श्रुत्यादिवलात् 'अपाम' इत्यस्य त्रेधा स्वार्थपरत्वोक्तौ
[ अधि - ८. सू - ८. ] दीपिका सहितम्. ७०७ इति च ॥ ७ ॥ ८. अधिकरणम् ॥ ( १ ) कृतस्य कर्मणो भोगेन क्षयान्मुक्तिरिति । यानि तीर्थादिवाक्यानि कर्माणि विषयाणि च । स्तावकान्येव तानि स्युरज्ञानां मोहकानि च ॥ इति गीताभाष्यवचनविरोध इति चेन्न, रोचनार्थे फलश्रुतिरित्युक्तेः फलवचनवदल्पाधिकार्यपेक्षया तदुपपत्तेः, श्रुतीनां स्वार्थपरत्वस्यात्या- गात् । अन्यथा 'प्रशंसादीनां तात्पर्यं वाचनिकार्थात्यागेनैवोक्तं स्वयं भगवता भाक्तं वेति' इति कर्मनिर्णयविरोधात् । सूत्रार्थस्तु--यतः 'तत्' अमृतत्वं 'अपाम' इति श्रुतौ काम्यकर्मिण उक्तममृतत्वं 'भा- क्तं' कालभागतोऽल्पकालीनमिति यावत् । 'वा' अथ वा जिज्ञासोर- काम्यकर्मिणः पारम्पर्येण तदमृतत्वं श्रुतावुक्तम् । यद्वा—परमात्मवि- दां कर्मापेक्षया तदमृतत्वमुक्तम्, अतो मुमुक्षुणाऽवश्यानुष्ठेयमेव वैरा- ग्यादीत्युक्तार्थे न श्रुतिविरोधः । काम्यकर्मिभिरपि मुख्यामृतत्वमेव प्रा- प्यमिति श्रुत्यर्थः किं न स्यादित्यत आह—अनात्मवित्त्वादिति । का- म्यकर्मिणां परमात्मानपरोक्षज्ञानित्वादित्यर्थः । अनात्मवित्त्वेऽपि कुतो न तेषां मुख्यामृतत्वलाभः । तथा 'अपाम' इत्यादेरुक्तानेकार्थकत्वे च किं प्रमाणमित्यत आह—तथा हीति । 'हि' यतो 'नान्यः' इति 'स एनम्' इति श्रुतिश्च 'तथा' आत्मविदामेव मुख्यामृतत्वे नानात्म- विदामित्यर्थम् , 'आत्मानमेव' इति श्रुतिर्ज्ञानोत्तरकर्मापेक्षयेत्यर्थे 'अमृ- तः' इति श्रुतिर्भाक्तमित्यर्थे 'कर्मणा' इति श्रुतिः पारम्पर्येणेत्यर्थे च 'दर्शयति' प्रतिपादयत इति ॥ ७ ॥ ॥ इति भाक्ताधिकरणम् ॥ ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे वैराग्यादिसाधनस्यावश्यानुष्ठेयत्वं समर्थ्यते। 'कृतात्यये' इत्यनेन सूचितं पूर्वपक्षं दर्शयति—कृतस्येति ॥ कृतस्ये- त्यनुवादेन कर्मण इति व्याख्यानम् । 'भोगेन' फलानुभवेन 'क्षयात्' नाशात् । अनेन निमित्तसप्तमीति सूचितम् । कर्मणः क्षयादित्यावर्तते। तथा च जीवेन सहोपगतस्य कृतस्य कर्मणः स्वर्गादिष्वेव भोगेन नि-
यहाँ पृष्ठ की संपूर्ण सामग्री का देवनागरी में पंक्ति-दर-पंक्ति लिप्यंतरण दिया गया है:
७०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] ( २) अत आह— सू— ॐ ॥ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॥ ॐ ॥ ८ ॥ 'ततः शेषेणेमं लोकमायाति पुनः कर्म कुरुते पुनर्ग च्छति पुनरागच्छति' ( ) इति श्रुतेः । शेशपमत्यायान्नाशात् तत एव कर्मणस्तन्मूलबन्धस्यापि क्षयादु च्छेदात् तदुच्छेदरूपा मुक्तिः स्वत एव भवतीति न तदर्थं वैराग्या दिकमनुष्ठेयमिति योजना । मुक्तिरिति सूत्रे शेषोक्तिः ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे--अत इति ॥ श्रुतेरित्यने न भावार्थकदृष्टपदं व्याख्यातम् । चः समुच्चये । 'शेषवान्' भुक्तकर्म शेषवानेव, न तु निःशेष इत्येवशब्दार्थः । अनेन अनुशयपदं कर्ममा त्रवाचकमपि स्मृत्यनुसारादेवं व्याख्यातम् । सूत्रे नेति आयातीति च शेषः । तथा च भोगेन कृतात्ययान्निमित्तात्तन्मूलबन्धात्ययात्स्वत एव मुक्तिः स्यादिति किं वैराग्यादिसाधनैरिति चेन्न, यतोऽयं जीवः कृता नां मध्ये कतिपयात्ययेऽपि 'अनुशयवान्' भुक्तशिष्टकर्मवानेव पर लोकादायाति भुवम् । न चास्यासिद्धिः 'दृष्टस्मृतिभ्यां' श्रुतिस्मृति भ्यां तत्सिद्धेरिति सूत्रार्थः । 'ततः' स्वर्गादेः 'शेषेण' कर्मशेषेण तद्युक्त एव 'इमं लोकं' भूलोकं प्रत्यायाति कर्मी । पुनर्भूभौ कर्म कु रुते, पुनः स्वर्गे प्रतिगच्छति पुनरायाति भुवमित्यर्थः । स्मृतावनुश यशब्दः कर्मार्थकः । तथा च कर्मी जीवो भुक्तशिष्टकर्मवानिमां भुवं प्राप्य पुनस्तत्र कर्म कृत्वा पुनस्स्वर्गं गच्छेत् । पुनस्ततो भुवं 'नित्य शो' नियमेन करोत्यायाति गच्छतीत्यर्थः । अनेन श्रुतौ पुनः कर्म कुरुते, स्मृतौ पुनः कर्म कृत्वेत्युक्त्या एवं द्वित्रिचतुरावर्तने अशेषक र्मनिवृत्तिः स्यादिति शङ्का निरस्ता । अल्पापादने कर्मसमाप्तिरित्याश ङ्कानिरासायाह—आचतुर्दशमाद्वर्षादिति । अत्राङ् पूर्वावधिरूपमर्या दार्थकः आजन्मेत्यादिवत् , न त्वामुक्तीत्यादाविवोत्तरावधिरूपमर्या दार्थकः । 'नान्तादसङ्ख्यादेः' इति निषेधस्त्विह न प्रवर्तते, निपात नादेव । तथा च चतुर्दशमं वर्षमारभ्येत्यर्थः । 'अयं' बद्धजीवो 'नि यमेन तु' नियमेनैव 'दशावराणां' दशसङ्ख्याका देहा येषु प्राप्तव्ये षु देहेष्ववरकक्ष्यात्वमापन्नास्ते दशावरास्तेषाम् । अत्रावरपदबलादा रब्धव्येषु देहेषु दशकस्य पृथक्कक्ष्यात्वसिद्धिः । इतोऽधिकानामेकाद शादीनामपि बहुव्रीहिणैव सिद्धिः । अत एव प्रमेयदीपे 'स्त्री चाऽप्य
[ अधि - ९. सू - ९. ] दीपिकासहितम्. ७०९
भुक्तशेषानुशयवानिमां प्राप्य भुवं पुनः । कर्म कृत्वा पुनर्गच्छेत्पुनरायाति नित्यशः ॥ आ चतुर्दशमाद्वर्षात्कर्माणि नियमेन तु । दशावराणां देहानां कारणानि करोत्ययम् ॥ अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति ॥ इत्यादिस्मृतेश्च शेषवानेवायाति ॥ ८ ॥ — * — ९. अधिकरणम् ॥ ( १ ) ‘यथेतमेव गच्छति यथेतमागच्छति स भुङ्क्ते [त्त] स कर्म नूनदशकम्’ इत्यत्र दशानां सङ्घो दशकः अनूने दशको यस्येति वि- ग्रहप्रदर्शनेन दशकस्य ततोऽधिकसङ्घ्यानां चान्यपदार्थत्वमाश्रितम्। न च ‘जीवंश्चतुर्दशादूर्ध्वम्’ इति वचनविरोधः । अत्र चतुर्दशमं व- र्षं तत्समाप्तिमारभ्येत्यर्थाश्रयणात् उभयत्रापि तदुत्पत्तिमारभ्य तदु- त्पत्तेरूर्ध्वमित्यर्थाश्रयणाद्वा न विरोधः । केचित्त्वेतद्वचनविरोधाद्बि- भ्यतो दशावरा इत्यत्र दश वरा येषु न भवंति किंतु समकक्ष्यात्वं वाऽवरकक्ष्यात्वं वाऽऽपन्ना येषु देहेषु तेषां कारणानीति व्याचख्युः । तन्न, उक्तरीत्योक्तवचनविरोधाभावेन कौटिल्यकल्पनायोगात् । दश- कस्य वरत्वमात्रनिषेधेऽपि समकक्ष्यात्वस्य वाऽवरकक्ष्यात्वस्य वाऽनु- क्तेः, ‘आनूनदशकम्’ इत्युक्तिविरोधाच्च । ‘मुनिस्तुसुकर्मशीलोऽपि’ इति वचनान्मुनिविषयमेतदित्यपि न, मुनिरपीति कैमुत्यस्यैवोक्तथा- ऽस्य सर्वविषयत्वात् । कर्मक्षयान्मुक्तिरिति । बन्धककर्मणो निश्शेष- क्षयान्निमित्तात्कर्ममूलकबन्धन्निवृत्तिरूपा मुक्तिः ‘कुतो’ न कुतोऽपी- त्यर्थः ॥ ८ ॥ ॥ इति कृतात्ययाधिकरणम् ॥ — * — ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे स्वर्गादागतिप्रकारो निरूप्यते । तन्नानेवमित्य- नेन सूचितं पूर्वपक्षं दर्शयति-यथेति ॥ गतिप्रकारेणेत्याद्यावर्तते । तथा च इति श्रुतौ यतो जीवस्यैवं गतिप्रकारेणागतिः प्रतीयते अतो गतिप्र- कारेणैव आगतिः, न त्वनेवमपीति योजना । पूर्वमन्यैः स्वेन वा यथा येन मार्गेण स्वर्गादिमं लोकं प्रति ‘इतं’ आगतं तथा तेन स्वर्गं प्रति
७१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] कुरुते स परिवर्तते' ( ) इति गतिप्रकारेणागतिः प्रतीयते । ( २ ) अतो ब्रूते— सू—ॐ ॥ यथेतमनेवं च ॥ ॐ ॥ ९ ॥ 'धूमादभ्रमभ्रादाकाशमाकाशाच्चन्द्रलोकं यथेतमाका- शमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽ- भ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति' इति काषायणश्रुतेर्यथागतमन्यथा च ॥ ९ ॥
गच्छति । यथाऽस्माल्लोकात्स्वर्गं 'इतं' गतं तथा भुवमागच्छतीत्य- र्थः । गमने फलमाह—स इति । 'सः' जीवः कर्मफलं स्वर्गादौ भुङ्क्ते इत्यर्थः । आगमने फलमाह—स इति । कुरुते भूमौ । गमनागमनयोरा- मुक्त्युच्छित्तिर्नास्तीत्याह—स इति । 'परिवर्तते' आवर्तत इत्यर्थः । जीवविषयमेतदिति ज्ञापनाय वाक्यशेषोदाहरणम् ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ काषायणश्रु- तेरित्यनेन सूत्रे हेत्वनुक्तिदोषः परिहृतः । प्रतिज्ञोक्त्यैव तत्सूचनात् । जीवः पूर्वमन्यैः स्वेन वा 'यथा' येन पथा वा स्वर्गं प्रति गतस्तथा ऽऽकाशपर्यन्तमागच्छति ततोऽर्वाक् भुवं प्रत्यन्यथा चागच्छतीत्यर्थः । यथोक्तं तत्त्वप्रदीपे--यथागतं तथाऽऽकाशपर्यन्तं आगच्छति । ततोऽ- र्वागन्यथा चेति । चः प्रकारसमुच्चये । अनेन यथेतमनेवं चेति प्रतिज्ञा- वाक्यं व्याख्यातम् । यद्यपि 'यथा' इत्यादि छन्दोगा अपि पठन्ति । तथाऽपि 'धूमात्' इत्यादेस्तैरपाठाच्छाखान्तरवाक्यमुदाहृतम् । तद- र्थस्तु—धूमदेवतालोकादभ्रदेवलोकं गच्छति, अभ्रादाकाशं, आका- शाच्चन्द्रलोकं गच्छति । 'यथा' येन पथा आकाशं प्रति 'इतं' गतं तथा तेनैव पथा तावत्पर्यन्तं गतिप्रकारेणैव अगच्छतीत्यर्थः । आका- शलोकानन्तरमागपने प्रदेशविशेषेऽन्यथात्वमाह— आकाशाद्वायुमि- ति । वायुर्भूत्वेत्यादेः कर्मणः तत्स्वाभाव्यापत्तिरेवार्थो, न तु तदैक्य- म्, तत्पदप्राप्तिर्वा । धूमादिस्वाभाव्यापत्तिर्नाम धूमादिदेवतास्वभाव- सदृशस्वभाववत्त्वप्राप्तिः । सादृश्यं च तद्देहप्रवेशनं तद्गतौ गतिः त- त्स्थितौ स्थितिरित्येवंरूपम् । अभ्रमेघयोः अवान्तरभेदात् तद्देवलोक- योरपि भेदोक्तिः । प्रवर्षतीति । प्रवर्षणान्तर्गतो भवतीत्यर्थः ॥ ९ ॥ ॥ इति यथेताधिकरणम् ॥
[ अधि - १०. सू - १०. ] दीपिकासहितम्. ७२१ १०. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णा जिनिः ॥ ॐ ॥ १० ॥ 'तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते कपूयचरणाः कपूयां' (छा. ५-१०-७.) इति श्रुते श्चरणफलमेव गमनागमनं न यज्ञादिकृतः । १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे गतागतस्य कर्मफलत्वं समर्थ्यते । पूर्वपक्ष स्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे-चरणादि ति ॥ श्रुतेरित्यनेन चरणादित्यस्य चरणश्रुतेरित्यर्थ उक्तः । यद्यपि छ न्दोगा आपद्येरन्निति पठन्ति । तथाऽपि तद्देशोऽर्थतोऽनुवादः शाखा न्तरपाठो वेत्यदोषः । 'तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रम णीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्व योनिं वा सूकरयोनिं वा चण्डालयोनिं वा' इति छन्दोगवाक्यम् । प्र मेयान्तरारम्भेऽथशब्दः । 'तत्' तत्र कर्मिषु मध्ये ये 'रमणीयचरणाः' सदाचारपूर्वकसाधुयज्ञादिमन्तस्ते 'इह' भूमौ संसारे 'रमणीयां' साधु 'योनिं' जन्म 'आपद्येरन्' आपद्यन्ते । आपद्यन्त इति यत् त च्च 'अभ्याशः' समीपं कालसामीप्येन, न तु विलम्बेन 'ह' प्रसिद्धं मित्यर्थः । तत्त्वप्रदीपे तु- 'अभ्याशो ह यत्' यथा योन्यापत्तौ कालतः सन्निकर्षो भवति तथा योनिमापद्यन्त इत्युक्तम् । अत्र तत्त्वप्रदीपटी कापक्षयोः यदित्यस्य यथाशब्दार्थत्वानुवादकत्वाभ्यां अभ्याश इत्य स्य प्रथमातृतीयाविभक्त्यर्थत्वाभ्यां आपद्यन्त इत्यस्यावृत्त्यनुवृत्तिभ्यां च भेद इति ध्येयम् । रमणीयामित्युक्तं विवृणोति-ब्राह्मणयोनिमि त्यादिना । 'कपूयचरणाः' असाधुयज्ञादिमन्तः । अन्यत्समम् । 'चर णफलं' आचारफलमित्यर्थः । गमनं चागमनं च तत्तथेति द्वन्द्वैकव द्भावः । एवकारव्यावर्त्यार्थं दर्शयति-नेति । न यज्ञादिकर्मण इत्यर्थः । यद्वा-यागादिकर्तुः फलं नेत्यर्थः । इति ज्ञायत इति शेषः । न च श्रुतौ चरणस्य गमनागमनसाधकता न प्रतीयत इति वाच्यम् । रमणीयस्व र्गादिगतेरपि तत्तत्कर्मफलत्वेनात्राभिप्रेतत्वात् । चरणफलमित्यादिना सूत्रे चरणादित्यस्यावृत्तिः सूचिता । तथा च तत्र गतागतं चरणादेव
७१२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - १. ] (२) आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः। अशुद्धिदस्त्वनाचारः चरणं तूभयं मतम्॥ इति स्मृतेरिति चेन्न, यज्ञाद्युपलक्षणार्था चरणादिश्रु तिरिति कार्ष्णाजिनिर्मन्यते ॥ १० ॥ भवतीत्यनेन पूर्वपक्षप्रतिज्ञा सूचिता॥ (२) ननु यज्ञादिकर्मण एव श्रुतिस्थचरणशब्दोक्तत्वात् कथं इति श्रुतेश्चरणफलं गतागतं, न यज्ञादिफलमित्युक्तिरित्यत आह—आचार इति॥ यः कर्माङ्गत्वेन प्रोक्तः स आचारः स क्रियाद्रव्यतत्कर्तृशु द्धिदः। अनाचारस्त्वशुद्धिदः। आचारानाचाराख्यं तदुभयमपि चर णशब्दवाच्यं मतमित्यर्थः। इति स्मृतेरित्यस्य इति श्रुतेश्चरणफलमेवे ति सहेतुकप्रतिज्ञयोक्तं युक्तमित्यध्याहारेणान्वयः। सिद्धान्तांशं व्या चष्टे—नेति। गतागतस्य कर्मफलत्वाभावो नेत्यर्थः। किन्तु यज्ञादिक र्मफलमेव गतागतमिति वाक्यशेषः। कुत इत्यतस्तत्र 'नान्यः पन्था अयनाय विद्यते' (तै.आ.३-१३०) इति श्रुत्या गतागतशून्यफलस्य कर्म साध्यत्वनिषेधात्तत्फलस्य च परिशेषाद्गतागतवत्फलत्वप्राप्तेः 'इष्टा पू र्तम्' (मु.१-२-१०.) इत्यादिवचनाच्चेति हेतुं बहिरेवाभिप्रेत्य तर्हि 'र मणीय' इति श्रुतिविरोध इत्यतस्तदुत्तरत्वेन श्रुतिगतिप्रदर्शकतया त दित्यादिकं योजयति-यज्ञादीति। तच्छब्दार्थोक्तिरियम्। आदिपदात्पू र्तादिग्रहणम्। चरणादिश्रुतिरिति। चरणादिपदघटितश्रुतिरित्य र्थः। आदिपदात् 'अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूमम भिसम्भवन्ति' (छा.५-१०-३.) इति श्रुतिर्गृह्यते। श्रुतिरित्यनन्तरमतो न विरोध इति शेषः। तथा च यतश्चरणादिश्रुतिः 'तदुपलक्षणार्था' तस्य यज्ञादेरुपलक्षणं ज्ञापनमर्थः प्रयोजनं यस्याः सा तथोक्ता। अज हल्लक्षणया यज्ञादिकर्मप्रतिपादिकाऽतो गतागतस्य यज्ञादिफलत्वेन न चरणश्रुतिविरोध इति योजना। यद्यपि विष्णुत्तत्वनिर्णयटीकायां-इष्टं यजनं पूर्तमन्नदानादिकं 'अन्येषामपि दृश्यते' इति दीर्घ इति व्याख्या तम्। तथाऽपि 'अथ य इमे' इति श्रुतौ दत्तमिति पृथक् श्रवणात्पूर्तं तटाकादीति व्याख्येयम्। इतिशब्द आद्यर्थे। तथा च ये स्वस्वग्रामे इष्टापूर्ते दत्तं दानं एवमादि कर्म 'उपासते' अनुतिष्ठन्तीति सिद्धान्त रीत्या श्रुत्यर्थः। इतीति सूत्रपदानुवादः। एवमित्यर्थः। कार्ष्णाजिनिरि ति कश्चिदाचार्यः, मन्यत इति शेषोक्तिः॥
[ अधि - १०. सू - ११० ] दीपिकासहितम्. ७१३ ( ३ ) सू—ॐ ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ॐ ॥ ११ ॥ तर्हि रमणीयाः कपूया इत्येव स्यात् । चरणशब्दस्यान- र्थक्यमिति चेत्— ( ४ ) न, चरणापेक्षत्वाद्रमणीयत्वादेस्तज्ज्ञापनार्थत्वेनोप- पत्तेः ॥ ११ ॥ ( ३ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे- आनर्थक्यमिति ॥ तर्हीत्युक्ते यदीति लभ्यते । यज्ञादीत्यादिकमत्रापि सम्बध्यते । तथा च यदि 'रमणीयचरणाः' (छा. ५-१०-७.) इत्यादिषु तिर्यज्ञाद्युपलक्षणार्था, तर्हि श्रुतौ चरणशब्दस्य 'आनर्थक्यं' तत्प्रयोग वैयर्थ्यम्, किन्तु रमणीयाः कपूया इत्येव प्रयोज्यं स्यात् न तु चरण शब्दोऽपीत्यर्थः । यज्ञाधिकारिणां पूर्वे प्रकृतत्वेन ये यज्ञाधिकारिणो र- मणीयाः कपूयाश्चेति रमणीयकपूयपदाभ्यामेव यज्ञाद्युपलक्षणसम्भ- वात् 'चरणशब्दानर्थक्यं' तच्च न युक्तमिति भावः ॥ ( ४ ) परिहारांशं व्याचष्टे—नेति ॥ वैयर्थ्यप्रसङ्गादुपलक्षकत्वमेव ना- स्तीति पक्षो नेत्यर्थः । तथा सति 'इष्टापूर्ते मन्यमानाः' (मु. १-२-१०.) 'त्रैविद्याः' इत्यागमविरोधः स्यादिति भावः। यद्वा-उपलक्षणत्वमङ्गीकृ- त्य पदान्तरेणाप्युपलक्षणसम्भवाच्चरणपदेनैवोपलक्षणे किं प्रयोजनं, न किमपीति पक्षो नेत्यर्थः । कुतो नेत्यतश्चरणपदसार्थक्यौपपादकतया तदपेक्षत्वादित्येतद्योजयति—चरणापेक्षत्वादिति । 'रमणीयत्वादेः' साध्वसाधुयज्ञादिमत्त्वस्य चरणापेक्षत्वात् स्नानाचमनाद्याचारापेक्ष- त्वादित्यर्थः । ततः किमित्यत आह—तदिति । तदित्यावर्तते । सार्थ- क्येत्युपस्कार्यम् । एवं सूत्रेऽपि । तस्य रमणीयत्वादेर्ज्ञापनमर्थः प्रयो- जनं यस्य तस्य भावस्तत्त्वं तेनेति विग्रहः । इत्थंभूतलक्षणे तृतीया । तथा च रमणीयचरणत्वेन ये साधवो यज्ञादिकृतः 'ते रमणीया' इति श्रुतियोजनायां तेषां यज्ञाधिकारिणामपि रमणीयकपूयाचाराभ्या- मेतद्रमणीयत्वादि इति ज्ञापनार्थत्वेन तस्य चरणशब्दस्य सार्थक्यौपप- त्तेरिति योजना । अनेन — यदि चरणादिश्रुतिर्यज्ञाद्युपलक्षणार्था, तर्हि चरणशब्दस्यानर्थक्यं, रमणीयकपूयपदाभ्यामेव केवलाभ्यां य- ज्ञाद्युपलक्षणसम्भवादिति चेन्न, कुतः ? 'तदपेक्षत्वात्' तस्य यज्ञादे- स्तस्य रमणीयत्वादेस्तदपेक्षत्वात्साध्वसाध्वाचारापेक्षत्वात् । ततश्च तेषां यज्ञादिकृतां रमणीयकपूयाचाराभ्यामेव रमणीयत्वादि नान्यत ९०
७१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] (५) सू- ॐ ॥ सुकृतदुष्कृते एवेति तु बादरिः ॥ ॐ ॥ १२ ॥ 'धर्मं चरत माऽधर्मम्' इत्यादिप्रयोगात्सुकृतदुष्कृते एव चरणशब्दोक्ते इति बादरिर्मन्यते । तुशब्दात् स्व सिद्धान्तोऽपि स एवेति सूचयति । तुशब्दस्तु विशेषे स्यात्स्वसिद्धान्तेऽवधारणे ॥ इति ज्ञापनाय तस्य चरणशब्दस्य सार्थक्यॊपपत्तेरिति सूत्रार्थ उक्तो भवति ॥ (५) प्रकारान्तरेण चरणश्रुतिं व्याकुर्वत्सूत्रं पठित्वा व्याचष्टे— सुकृतेति ॥ इत्यादिप्रयोगादिति । कुरुतेत्यर्थे चरतेति प्रयोगादित्य र्थः । 'सुकृतदुष्कृते' साध्वसाध्वाचाराङ्गविशिष्टे एव यज्ञादिकर्म णी इत्यर्थः । न तु सदसदाचाराङ्गमात्रमित्येवशब्दार्थः । 'चरणश ब्दोक्ते' एव श्रुतिस्थचरणशब्दवाच्ये एवेत्यर्थः । ('चरणशब्दोक्ते' एतच्छ्रुतिस्थचरणशब्दवाच्ये अपीत्यर्थः । न केवलमुपलक्ष्ये इत्यपि पदार्थः । भाष्ये अपिशब्दाध्याहारेण सूत्रगततुशब्दो व्याख्यातः ।) चर णशब्दोक्ते इत्यनेन सूत्रे चरणे इति विपरिणतपदानुवृत्तिः सूचिता । ए वकारस्योभयत्रान्वयश्च । न चाङ्गविशिष्टकर्मण एव चरणशब्दवाच्य त्वे केवलाचारे तत्प्रयोगाद्यनुपपत्तिरिति वाच्यम् । अन्यत्राङ्गमात्रवाचि त्वस्याप्यभ्युपगमात् । अतएव टीकायां साधारणश्रुतेश्च अत्रबाधकव शात्साङ्गकर्मार्थत्वस्यैवोपपत्तेरित्युक्तम् । 'नान्यः पन्थाः' (तै.आ.३-१३.) 'इष्टापूर्तम्' (मु.१-२-१०.) इत्यादिबाधकवशादित्यर्थः। न च शक्यानेक त्वं स्यादिति वाच्यम् । इष्टापत्तेः। अतएव तत्त्वप्रदीपे-चरणशब्दस्यानु ष्ठानमात्रेऽपि वृत्तिमत्त्वात्सदाचारादेः सुकृतादावन्तर्भावाच्चेत्युक्तम् । सुकृतशब्दार्थेऽन्तर्भावादित्यर्थः । टीकायामपि साधारणश्रुतेश्चेत्युक्त म् । (एतेनैवकारस्य भिन्नक्रमत्वमुपेत्य सुकृतदुष्कृते चरणपदोक्ते एव न तु लक्ष्ये इति भाष्यव्याख्यानं निरस्तम् । न चरणश्रुतिः यज्ञाद्युपलक्ष कत्वेनैवोक्ताविरोधिनी, किंनाम यज्ञादिकर्मवाचिनी चेति टीकाविरोधात्, तत्त्वप्रदीपविरोधाच्च ।) 'बादरिः' शुकाचार्यः । मन्यत इति शेषोक्तिः। परमतमभिधाय सूत्रकारः स्वमतं कुतो न वक्तीत्यत आह-तुशब्दा दिति । 'स्वः' सूत्रकृत् । न केवलमन्यसिद्धान्त इत्यपेरर्थः । 'स एव' बादरिसिद्धान्त एव । न त्वन्य इत्येवार्थः । 'सूचयति' सूत्र कृत् । (अनेन तुशब्दार्थस्यापेः बादरिरपीत्यन्वयो दर्शितः । यद्वा—) नि
[ अधि - ११. सू - १३. ] दीपिकासहितम्. ७१५ इति नाममहोदधौ ॥ १२ ॥ :-*:- ११. अधिकरणम् ॥ ( १ ) पुण्यकृतामेव गमनागमने नेतरेषामिति । ( २ ) अत आह— सू- ॐ ॥ अनिष्टादिकारिणामपि च श्रुतम् ॥ ॐ ॥ १३ ॥ ‘ तद्य इह शुभाकृतो ये चाशुभकृतस्तेऽशुभमनुभूया वर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति ’ इति भाल्लवेयश्रुतौ ॥ १३ ॥ र्दिष्टसिद्धान्तस्य स्वसिद्धान्तस्य चैक्यं तुशब्दार्थ इति भावः । तुशब्द- स्यैतदभिधायकत्वं कुत इत्यत आह—तुशब्द इति । ‘ नाममहोदधौ ’ ग्रन्थे । उक्तमिति शेषः ॥ १० ॥ ॥ इति चरणाधिकरणम् ॥ ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽनिष्टादिकारिणामपि गतागतादिदुःखमस्ती- ति समर्थ्यते । पूर्वपक्षयति—पुण्यैति ॥ इष्टादिपुण्यकर्मकृतामेवेत्यर्थः । स्वप्रयुक्तैवशब्दव्यावर्त्यं दर्शयति—नेति । ‘ इतरेषां ’ पापकर्मकारि- णामपि नेत्यर्थः । अनात्मविदामिति शेषः । तथा च अनिष्टादिकारिणा- मज्ञानां गतागतयोरभावात्तेषां तच्छून्यो मोक्ष एवेति पुण्यतत्फलयो- रेव विरक्त्या भाव्ये, नान्यत्रानिष्टादावपीति भावः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य तदुपपादकश्रुतिमेवोदाहरति—अत इति ॥ श्रुतावित्यस्य सूत्रेणान्वयः । गमनागमने इत्यनुषज्यते । अनेन सूत्रे यथेत्यत इतमनितं चेति पदद्वयानुवृत्तिस्सूचिता । पुण्यकृता- मित्यनेनापिशब्दार्थस्सूचितः । सूत्रे संयमनसूत्रोक्तदुःखान्तरसमुच्चा- यकश्चशब्दः । तथा च ‘ इतं ’ गमनं ‘अनितं ’ आगमनं च न केवल- मिष्टादिकारिणां, किं नाम? ‘अनिष्टादिकारिणामपि’ यागाद्यकारिणां त- द्विरुद्धपापकर्मकारिणां चास्ति । न केवलमनिष्टादिकारिणां गतागत- मात्रम्, किं नाम ? संयमनाख्यं प्रबलदुःखान्तरं चास्ति । कुतो? यतः ‘ तद्य इह ’ इति श्रुतौ तथा श्रुतं अत इति योजना । ‘ इह ’ भूमौ ‘ ये शुभाकृतो ’ यागादिपुण्यकर्माकारिणः ये च ‘अशुभकृतः ’ इष्टादिविरु- द्धपापादिकारिणः ते लोकान्तरं गतास्तत्र ‘ अशुभं ’ पापफलमनुभूय
७१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] ( ३ ) सू—ॐ ॥ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ ॐ ॥ १४ ॥ संयमनमनुभूय केषां चिदारोहः केषां चिदवरोहः । तुशब्दोऽवधारणे । 'सर्वे वा एतेऽशुभकृतः संयमने प्रपतन्ति तत्र ये परद्विषो गुरुद्विषः श्रुतिद्विषस्तदव मन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्य तमसि प्रप पुनः आवर्तन्ते । भुवमागच्छन्ति, आगत्य च पुनः तत्र कर्म कुर्वन्ति, पुनः परलोकं गच्छन्ति, पुनर्भूवमागच्छन्तीत्यर्थः । 'शुभकृतः 'इति पाठे 'ये चाशुभकृतः' इत्यस्य ज्ञेयोऽर्थः । 'तेशुभम्' इत्यत्रापि द्वेधा पदच्छेदः ॥ ( ३ ) न केवलमनिष्टादिकारिणां गतागतमात्रम्, किं नाम ? अति- दुःखं पूर्वसूत्रे चशब्देन सूचितमन्यदस्तीत्यर्थप्रतिपादकं सूत्रमुपन्य- स्य व्याचष्टे—संयमने त्विति ॥ अत्र संयमन इत्यावर्तते । तत्रैकमधि- करणसप्तम्यन्तं नरकवाचि, अपरं कर्मवाचि सप्तम्यन्तमित्याशयेन सं- यमनमिति व्याख्यातम् । सम्यग्गमनं नियमनं शासनं संयमनं यमस्ये- ति शेषः । अत एव तत्त्वप्रदीपे—'यम उपरमे' इति धातोः पापोपर- मणं संयमनमित्युक्तम् । तत्र यमशासनमेव पापोपरमशब्दार्थ इति । तद्भेदं चार्थत एकरूपमेव । अनुभूयेति । यमशासननिमित्तदुःखमनुभू- यैवेत्यर्थः । संयमन इति तात्पर्यम् । अत एव तत्त्वप्रदीपे—संयमने न- रक इत्युक्तम् । केषां चिदित्यनेन 'इतरेषां' इष्टादिकारिभ्योऽन्येषां निष्टादिकारिणां मध्ये केषां चिदिति व्याख्यातम् । 'आरोहो' नरका- दुत्थानं 'अवरोहः' ततोऽतिनीचस्थाने नित्यनरके पातो भवतीति शे- षः । न च तमसः पृथिव्यां लोकालोकगिरेः परस्तात्सत्त्वेन पृथिवीस- मानदेशत्वात् संयमनस्य च पातालस्थत्वेन चतुरशीतिसहस्रयोजना- धस्तनत्वात्कथमूर्ध्वगते तमस्यवरोहोक्तिरिति वाच्यम् । तमसः अति- गम्भीरत्वेन पातालस्थितबिलद्वारागतानां क्रमेण पातालगतनरकादपि नीचस्थाने तमसि अधोभागे पातसम्भवेन विरोधाभावात् । यथा भग- वद्द्वेषादियुतानामेव नित्यनरकपातलक्षणोऽवरोहः, अन्येषां ततो व्युत्थानलक्षण आरोह इति व्यवस्थितविकल्पः तथा संयमनेऽप्यस्ती- ति शङ्कानिरासकत्वेन तुशब्दं व्याचष्टे—तुशब्द इति । स चानुभूयेत्य- नेन सङ्गमनीय इति हृदयम् । श्रुतेरित्यनेन तद्गतीति हेत्वंशः तेषां तद्ग-
[ अधि - ११. सू - १४. ] दीपिका सहितम्. ७१७ ततस्ते नैवेत उत्तिष्ठन्तेऽपि कर्हिचित् वत्रं वा एतदित्या- हुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनु भूयेमं लोकमनुव्रजन्ति' इति कौण्ठरव्यश्रुतेः ॥ १४ ॥ तेः एवंविधगतेः श्रुतिसिद्धत्वादित्येवं तच्छब्दावृत्त्या व्याख्यातो भव- ति । श्रुतौ अशुभकृत इत्यस्य शुभकर्मकारिणस्तद्विरुद्धाशुभकर्मका- रिणश्चेत्यर्थः । एतेन सर्व इत्यनेनाशुभमात्रस्य नरकपातो न तत्र नियम इति सूचितम् । संयमने प्रपतन्तीत्यनेन सौत्रसप्तम्यर्थो दर्शितः । तत्र तेषु मध्य इत्यनेनेतरेषामिति व्याख्यातम् । 'परद्विषः' हरिद्विषः विष्णुद्वेषो नाम तत्र प्रतीपबुद्धिः । सा च 'जीवाभेदो निर्गुणत्वम्' इत्या- द्यागमादनेकविधा द्रष्टव्या । 'श्रुतिद्विषः' वेदद्व
७१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] ( ४ ) सू— ॐ ॥ स्मरन्ति च ॥ ॐ ॥ १५ ॥ गच्छन्ति पापिनस्सर्वे नरकं नात्र संशयः । तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् ॥ महातमसि मग्नानां न तेषामुत्थितिः क्वचित् । इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च ॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । इति सर्वत्र नियमः पञ्चकष्टे तु तत्सदा ॥ इत्यादि ॥ १५ ॥ ः[icon]ः ( ४ ) उक्तार्थे स्मृत्या समर्थयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति— स्मरन्ति चेति ॥ सूत्रे दर्शनपदोक्तश्रुतिस्मरणयोः समुच्चये चशब्दः । इत्यादि स्मरन्तीत्यन्वयः । स्मृतिकर्तार एवंभूतां स्मृतिं कुर्वन्तीत्य र्थः । इत्यादीत्यनेन सूत्रगतबहुवचनकृत्यमुक्तं भवति । आदिपदेन तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ (Bhag. Gītā XVI, 19) इत्यस्याः— सर्वदेववरत्वं यो न जानाति केशवम् । तस्य पुण्यानि मोघानि याति चान्धंतमो ध्रुवम् ॥ इत्यादेश्च सङ्ग्रहः । यत इत्यादि स्मरन्ति, अतोऽप्युक्तं युक्तमिति सू- त्रार्थः । स्मृत्यर्थस्तु—सर्वेऽपि पापिनो नरकं गच्छन्ति । तत्र संयमनं चानुभवन्ति नात्र संशयः । 'तत्र' पापिषु ये जनार्दनं द्विषन्ति । उप- लक्षणमेतत् । पूर्वश्रुत्युदाहृतं सर्वं ग्राह्यम् । ते नरके किञ्चित्कालं दुः खं भुक्त्वा ततोऽवरुह्य महातमसि पतन्त्येव । तत्र मग्नानां तेषां च क- चिदपि 'नैवोत्थितिः' नारोहोऽस्ति तत्राभिधत्वादिति भावः । द्वेषि- भ्य इतरेषां 'पापानां' पापवतां तु 'व्युत्थानं' पापस्थानादारोहः फ- लतो निवृत्तिश्च कदाचिद्विद्यते । नैवं तमसि मग्नानाम् । अपि च—'सु- खस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्' इति सर्वत्रानित्यनरके नि- यमोऽस्ति । रौरवादिभ्यः पञ्चभ्योऽपि कष्टे पञ्चेन्द्रियाणि प्रति कष्टे दुस्सहशब्दादिपञ्चकयुक्तत्वात्पञ्चकष्टे इति वा एतादृशे नित्यनरके तु 'तत्' दुःखं सदाऽस्तीति ॥ ११ ॥ ॥ इति अनिष्टाधिकरणम् ॥ ―――* ⁕ *―――
[ अधि - १२. - सू - १६. ] दीपिकासहितम्. ७१९ १२. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ अपि सप्त ॥ ॐ ॥ १६ ॥ रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि च ॥ तामिस्रश्चान्धतामिस्रौ द्वौ नित्यौ सम्प्रकीर्तितौ । इति सप्त प्रधानानि बलीयस्तूतरोत्तरम् । एतानि क्रमश्रो गत्वैवारोहोऽथावरोहणम् ॥ १२. अधिकरणम् ॥ ( १ ) अत्र भगवद्द्वेषादिफलस्य नरकस्य नित्यत्वं समर्थ्यते । न रकभोगोऽनित्य एवेति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—अपति ॥ अत्र ‘नैवेत उत्तिष्ठन्ते’ (कौष्ठरव्य.) इति श्रुतेर्नरकभोगो भवत्येव नित्य इ ति सहेतुकसिद्धान्तप्रतिज्ञां बहिरेवाभिप्रेत्य तर्हि ‘यावदिन्द्राश्चतुर्दश’ ‘यावदाभूतसंप्लव’ इति वचनविरोध इत्याशङ्कापरिहाराय प्रवृत्तं सूत्रं स्मृत्युदाहरणेन व्याचष्टे-रौरव इति । भारते इत्यस्यापिपदेनानुकृष्टेन स्मरन्तीत्यनेनान्वयः । तथा च यतः स्मृतिकर्तारः संयमनानि सप्तापि नरकान् तेषु नित्यानित्यविभागं च स्मरन्ति । अतो न नरकसत्त्वे त दवान्तरविभागे च प्रमाणाभावो न वा नरकानित्यत्वोक्तिविरोधस्त स्यानित्यविषयत्वादिति सूत्रार्थः । तत्त्वप्रदीपे तु—यद्यपि बहुकोटयो नरकाः, तथाऽपि सप्त प्रधानानीत्यपिशब्दार्थः । दर्शयति च आचार्यः ‘इति सप्त प्रधानानि’ इति सौत्रापिशब्दस्यार्थान्तरप्रतिपादनपरेति सप्तप्रधानानीति भाष्यानुसारेणापिपदं बहुनरकाभिधायकपुराणविरो धपरिहाराय यद्यपितथाऽपीत्यर्थकतया व्याख्यातम् । एतदपि टीका कृदनुमतमेव । सप्तप्रधानानीत्यनेन पुराणविरोधोऽपि परिहृत इत्यु क्तेः । अनेन भाष्ये भारर्तोदाहरणमुपलक्षणम् । अत एवापिपदात् स्म रन्तीति बहुस्मृतिसूचकबहुवचनान्तपदमाकृष्टम् । स्मृतावथेत्यर्थान्त रे । तदेवाह—महानिति । महारौरव इत्यर्थः । चः समुच्चये । तथैवे त्यन्वयः । उपमार्थस्तथाशब्दः । तुरेवार्थः । ननु ‘तत्र हैके नरकानेक विंशतिं गणयन्ति अष्टाविंशतिनरका एवंविधा नरका यमालये सन्ति शतशः सहस्रशः’ इत्यादिना भागवतादौ नरकबाहुल्योक्तेस्तद्विरो धोऽस्येत्यत आह—इति सप्त प्रधानानि नरकाणीति । एतेषूत्तरोत्तरं पूर्वपूर्वनिर्दिष्टानपेक्षया ‘बलीयो’ दुःखाधिक्ययुक्तम् । ‘क्रमशः’
७२० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] इति भारते ॥ १६ ॥ —::— १३. अधिकरणम् ॥ ( १ ) ईश्वरस्य नरकायुक्तेः ‘सर्वे विसृजति सर्वे विलाप यति सर्वे रमयति सर्वे न रमयति सर्वे प्रवर्तयत्यन्त रस्मिनिविष्टः’ इति कौषारवश्रुतिविरोध इति । ( २ ) अतो वक्ति— सू— ॐ ॥ तत्रापि च तद्व्यापारादविरोधः ॥ ॐ ॥ १७ ॥ चशब्दाददुःखानुभवेन । पापाधिक्यक्रमात् निर्दिष्टक्रमानुसारेण च । अधिकारिभेदज्ञापनाया- रोहावरोहयोर्मध्येऽप्येत्युक्तिः ॥ १२ ॥ ॥ इति अपिसप्ताधिकरणम् ॥ —: :* :* :— १३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे नरकस्य सद्दुःखत्वं समर्थ्यते । पूर्वपक्षमा- ह--ईश्वरस्येति ॥ हेतुगर्भमेतत् । न तत्र दुःखमिति शेषः । तथा च यदि नरके दुःखमङ्गीक्रियते तदा तत्र नारकिजनप्रेरकतया ईश्वरोऽप्य- ङ्गीकार्यः । तथा च तस्य जीववद्दुःखमप्यङ्गीकार्यम्, तच्चायुक्तम् । ई- श्वरत्वविरोधात् अतो न तत्र दुःखमस्तीत्यङ्गीकार्यमिति भावः । ननु नरके प्रेरकतया ईश्वरसत्त्वं नोपेयते, अतो नोक्तदोष इत्यत आह— सर्वमिति । सर्वमित्यतः प्रागन्यथेत्युपस्कार्यम् । ईश्वरस्य प्रेरकतया न- रके सत्त्वानभ्युपगम इति तदर्थः । ईश्वरः सर्वे जगत् ‘विसृजति’ विविधाकारेण सृजति ‘विलापयति’ नाशयति यो जनो रमणयोग्य- स्तँ सर्वे रमयति यस्तदयोग्यस्तं न रमयतीत्यर्थः । ‘अस्मिन्’ सर्वे- स्मिन् अन्तर्निविष्टो रमयति । प्रवृत्तिकृदित्यनेन प्रेरकत्वमुक्तं भवति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ नरकस्य सद्दुः- खत्वमुपेत्य तत्र प्रवर्तकतया ईश्वरसत्त्वाभ्युपगमे दुःखप्राप्तेः ईश्वरत्व- व्याकोप इति यो विरोध उक्तः तत्परिहारः कुतो न सूत्रित इत्यत आह—चशब्दादिति । अदुःखेति । नीचोच्चतापर्यवसितदुःखानुभवा- भावेनेत्यर्थः । इति समुच्चिनोतीति शेषः । सूत्रे तदिति व्यस्तं समस्तं च । तथा च न केवलं स्वर्गादौ, किन्तु ‘तत्रापि’ नरकेऽपि अदुःखा
[ अधि - १३. सू - १७. ] दीपिकासहितम्. ७२१ ( ३ ) 'स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृ देक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात्सर्वं पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद' इति पौत्रायणश्रुतेरविरोधः । ( ४ ) नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते । नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥ नुभवेन 'तद्व्यापारात्' तस्येश्वरस्य प्रेरणाख्यव्यापाराभ्युपगमात् श्रुतियुक्तिविरोधाभाव इति सूत्रार्थः ॥ ( ३ ) भवेदयमुभयविरोधाभावो यद्यस्यार्थस्य प्रामाणिकत्वं स्या त्, तदेव कुत इत्यत आह—स इति ॥ इति श्रुतेरित्यस्य न सन्निहिते नाविरोधपदेनान्वयः, किं त्वदुःखेन । तद्व्यापारादित्यस्य नासिद्धिरी- त्युपस्कृतसाध्येन, अस्य चाविरोध इत्यनेनान्वयः । अविरोधः नरके दुःखमङ्गीकृत्य ईश्वरस्य नारकिप्रेरकत्वपक्षोक्तदोषो नेत्यर्थः । प्रेरकत्वमङ्गीकृत्य तत्र दुःखाननुभवेन तत्रोक्तदोषपरिहारादिति भावः । 'सः' ईश्वरः स्वर्गादावनुविष्टस्सन् एक एव स्वतः प्रवृत्ति कृदित्यर्थः । ननु स्वर्गनरकादौ जीवेन सहावस्थानात्तद्वदीश्वरस्यापि तत्तद्गतसुखदुःखभोगः स्यादित्यत आह—नेति । 'असौ' ईश्वरः । ने त्यत्र हेतुः—प्रभुत्वादिति । तथा त्वे असार्वज्ञ्यं स्यात् यतो दुःखाभो गो दुःखानुभव इत्यत उक्तम्—सर्वं पश्यतीति । तत्र हेतुः—सर्वं कारयतीति । कैमुत्यन्यायेनेश्वरस्य दुःखाभोगमाह—नेति । य एवं वे दासावधिकार्यपि न दुःखभुक्, किमीश्वर इत्यर्थः ॥ ( ४ ) सर्वं पश्यतीत्युक्तार्थे स्मृतिं चाह—नरकेऽपीति ॥ तर्हि सर्वज्ञस्य कथं दुःखाभोगः, अनुभवस्यैव भोगत्वादित्यत आह—नी चेति । अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तदेव सुमहत्तेजः करोति भगवान् महत् ॥ इति बृहद्भाष्योक्तदिशा तूलपिण्डस्येव स्वरूपसङ्कोचविकासावेव दुः खादेर्भोग इत्युच्यते, न तत्साक्षात्कारमात्रमित्यर्थः । न च तद्गतानां तु भोगानां भोगोऽभिमतिरुच्यते । तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ॥ इति गीतातत्पर्यवचनविरोधः । तथा भोगोऽनुभवः स्वीयतया साक्षा ९१
७२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः ॥ इति भागवततन्त्रे ॥ १७ ॥ १४. अधिकरणम् ॥ ( १ ) ‘अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्रमिश्राण्य सकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येत तृतीयं स्थानम्’ ( छा. ५-१०-८. ) इति गतिस्वात- त्कार इति गीताभाष्यप्रमेयदीपविरोधः । अत्रोभयत्राभिमानरूपसम्ब- न्धेन स्वीयतया सुखादिसाक्षात्कारो भोग इत्युक्तत्वादिति वाच्यम् । अस्य लक्षणान्तरपरत्वात्, एवकारेण च केवलसाक्षात्कारव्यावर्तना- त् । एवं जीवस्वरूपभूतसाक्ष्यनुभवप्रयोज्यत्वात् तयोरीश्वरे चाऽभा- वान्नासौ दुःखभुगिति । ततः किमित्यत आह—नेति । ‘असौ’ ईश्व- रः ‘पश्यति’ दुःखादिकं सर्वं, तथा च दुःखादिसाक्षात्कारमात्रस्य भोगत्वाभावान्नीचोच्चतायारेव भोगत्वात्तयोश्च दुःखादिविषयकजीव- स्वरूपभूतसाक्ष्यनुभवप्रयोज्यत्वादीश्वरे तदभावे तयोरप्यभावात् स- र्वगत्वेऽपीश्वरस्य न दुःखभोग इति भावः । जीवसहभूतस्यापीश्वर- स्य दुःखादिसाक्षात्कार एव, न तु भोग इत्यत्र हेतुमाह—प्रभुत्वत इति । भागवततन्त्र इत्यस्य सर्वे पश्यतीत्याद्युक्तमित्यध्याहृतेना- न्वयः ॥ १३ ॥ ॥ इति तत्राप्यधिकरणम् ॥ १४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवानां गतिस्वातन्त्र्यं निराक्रियते । पूर्वप- क्षयति—अथेति ॥ इतीत्यनन्तरं छन्दोगश्रुताविति शेषः । गतिः मार्ग- रूपं फलम् । तत्र स्वातन्त्र्यमित्यर्थः । ‘भूतानां’ जीवानां ‘प्रतीयते’ प्रतिपाद्यते यत इति शेषः । अस्य अतोऽस्त्येव भूतानां गतिस्वातन्त्र्य- मित्यनुवृत्तसाध्येनान्वयः । श्रुतौ गच्छन्तीति शेषः । तथा च ‘अथ’ यदि ‘एतयोः पथोः’ ‘तद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धा तप इत्यु- पासते तेऽर्चिषमभिसम्भवन्ति....अथ य इमे ग्राम इष्टापूर्ते दत्तम- त्युपासते ते धूममभिसम्भवन्ति’ ( छा. ५-१०-३. ) इति पूर्ववाक्ये प्र- कृतयोर्ज्ञानिकर्मिप्राप्ययोरर्चिरादिधूमादिमार्गयोर्मध्ये सिद्धान्तरीत्या
[ अधि- १४. - सू- १८. ] दीपिकासहितम्. ७२१ न्त्र्यं भूतानां प्रतीयत इति । ( २ ) अत आह— सू— ॐ ॥ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ ॐ ॥ १८ ॥ विद्याकर्मापेक्ष्यैतद्वचनम् । तयोरपि प्रकृतत्वात् । ( ३ ) विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ । ज्ञानकर्मणोर्मध्य इति वा यानि ' कतरेण च ' कतरेणापि पथा न ग- च्छन्ति, तदा तानीमानि ' क्षुद्रमिश्राणि ' क्षुद्राण्यल्पानि सुखदुःखा- भ्यां मिश्राणि च ' असकृदावृत्तीनि ' सदा गत्यादिमन्ति भवन्ति । ' जायस्व म्रियस्व ' क्रियासमभिहारे लोट्, पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः, लोटः स्वप्रत्ययः । तथा च पुनःपुनः जाय- न्ते म्रियन्ते चेत्यर्थः । ' इत्येतत् ' इत्येवंरूपं स्वर्गापवर्गयोरन्यत्तृतीयं स्थानं प्राणिनामावासस्थलमित्यर्थः । केचित्तु—' नैकतरेण च गच्छ- न्ति चेत् ' इति श्रुतिपाठमाहुः । तच्छान्दोग्यसम्प्रदायपाठविरुद्धम् । न गच्छन्ति चेदिति प्रयोगो युज्यत इति टीका तु अथशब्दस्य चेदर्थक- त्वं गच्छन्तीत्यध्याहारं चाभिप्रेत्य । अत एव छान्दोग्यव्यासतीर्थीये गच्छन्तीति शेष इत्युक्तमिति ध्येयम् ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ विद्येति सा- वधारणम् । ज्ञानकर्माख्यार्थमपेक्ष्यैवेत्यर्थः । 'एतद्वचनं' एतयोरिति प- दम् । यत इति शेषः । कुतोऽयमस्यार्थ इत्यत आह—तयोरिति । न केवलमर्चिर्धूमादिमार्गयोरित्यपिशब्दार्थः । अनेन सूत्रे विद्येत्यस्यावृ- त्तिः । इतिशब्दौ वचनविशेषद्योतकः । तुशब्द एवार्थोऽप्यर्थश्च । कर्म- णि च षष्ठी । साध्ये चाध्याहार्यम् । तथा च यतः देवयानपितृयाणरू- पफलयोरिव विद्याकर्माख्यसाधनयोरपि 'तद्य इत्थं विदुः' (छा. ५- १०-१०) इति पूर्ववाक्ये प्रकृतत्वादेतयोरिति पदं 'विद्याकर्मणोः स्या- त् ' तत्परामर्शकमेव भवेत्, न तु मार्गरूपफलपरामर्शकम् । अतो न तद्वलाद्भूतानां गतिस्वातन्त्र्यं मन्तव्यमिति सूत्रार्थ उक्तो भवति ॥ ( ३ ) नन्वेतयोरित्यस्य मार्गतत्साधनरूपार्थद्वये सम्भवति सति किं साधनमात्रार्थग्रहणे कारणमित्यतः श्रुतिस्मार्त्यैवेति भावेन वि- द्याकर्मपदसूचितां स्मृतिमाह—विद्येति ॥ 'विद्यापथो' विद्यामार्गः । 'कर्मपथः' कर्ममार्गः । तदुभयात्मकं साधनमिति यावत् । 'प्रकीर्ति- तौ' एतयोरितिशब्दबोध्याविति यावत् । यद्वा—'आत्मा वा अरे द्र-
७२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तमः ॥ इति ॥ १८ ॥ १५. अधिकरणम् ॥ ( १ ) यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते । अपि नीचगतौ किञ्चित्किमु मानुषदेहिनः ॥ इति वचनान्महातमस्यपि सुखप्राप्तिरिति । ष्टव्यः ' (बृ. ४-४-५.) 'तद्विजिज्ञासस्व' (तै. ३-१.) 'ज्योतिष्टोमेन यजेत' (आप. श्रौ. १०-२-१.) इत्यादौ विहितावित्यर्थः । विद्यापथः कर्मपथ इत्यकारान्तौ शब्दौ । 'तद्वर्जितः' तदुभयवर्जितो जनः 'त्रिधा' प्रकारत्रयेण 'याति' प्रकारत्रयोपेतं फलं प्राप्नोतीत्यर्थः । तानेव प्र कारानाह-तिर्यगिति । भावनिर्देशोऽयम् । जायस्व म्रियस्वेत्युक्तगति रित्यर्थः । उक्तं हि तत्त्वप्रदीपे-तिर्यङ्नरकं तम इति । तत्र प्रथमं स्पष्टमुक्तम्-जायस्व म्रियस्वेति । इतरे चोक्ते 'संयमने' इत्यादिने ति । अनेन नरकार्थतया यातनापदमपि व्याख्यातम् । वाशब्द उभ यत्र सम्बध्यते । भारते इत्यनन्तरं वचनादिति शेषः । अस्य विद्या कर्मापेक्षयेति पूर्वेणान्वयः । केचित्तु-सूत्रे इतिशब्दः सौत्रपदा र्थोक्तिपरः । अर्थशब्दश्चाध्याहार्यः । तथा चैतयोरित्यस्य 'विद्याकर्म णोरिति' तु विद्याकर्मणोरेवार्थः, न तु मार्गयोरित्यपीति सूत्रार्थमा हुः ॥ १४ ॥ ॥ इति विद्याधिकरणम् ॥ १५. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽन्धतमसस्य दुःखमात्रत्वं समर्थ्यते । पूर्वपक्ष यति-यत्रेति ॥ इति वचनादिति । इत्येतद्वचनगृहीतव्याप्तिकदुःखयु क्तत्वहेतोरित्यर्थः । तथा च परसुखदुःखयोरप्रत्यक्षत्वाद्व्याप्तिग्रहणा योग इति चोद्यानवकाशः । अत्र यस्मिन् यस्मिन् दुःखं तत्र स र्वत्रापि सुखमस्ति न तु क्वचिदिति नियतसहचारप्रतीतेरिति भावः । सर्वत्रेत्युक्तमुपपादयति-अपीति । विशेषणसमुच्चयार्थोऽपिः । तथा च यदा दुःखाकरत्वेन प्रसिद्धायामपि 'नीचगतौ' नरके किञ्चि त्सुखमस्ति तदा मानुषदेहिनो गतौ सुखमस्तीति किमु वक्तव्यमित्य र्थः । तथा च न कुत्रापि व्यभिचार इति भावः । महातमस्यपीति । त्रिविधाधोगतिषु मध्ये न केवलं मानुषादौ नरके च, किन्तु महादुः
[ अधि - १५. सू - २०. ] दीपिकासहितम्. ७२५ ( २ ) अत आह— सू—न तृतीये तथोपलब्धेः ॥ ॐ ॥ १९ ॥ 'अथाविद्वानकर्माऽवाग्गच्छति । त्रिधा ह वावाग्गति स्तिर्यग्यातना तम इति । द्वे वाव सुखानुवृत्ते न तम स्सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति' ( ) इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ १९ ॥ ( ३ ) सू— ॐ ॥ स्मर्यतेऽपि च लोके ॥ ॐ ॥ २० ॥ तिर्यक्षु नरके चैव सुखलेशो विधीयते । नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन ॥ खत्वेन प्रसिद्धे तमस्यपीत्यर्थः । प्राप्तिरिति । अस्ति तमोयोग्यस्येति शेषः । अनेनान्धं तमोऽपि सुखयुक्तमेवेति पूर्वपक्षसाध्यं दर्शितम् । सुखप्राप्तिरपीत्यन्वये सति दुःखयुक्तत्वादिति हेतुरपि दर्शितः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अर्थान्तरारम्भे ऽथशब्दः । 'अविद्वान्' मुक्तिहेतुज्ञानरहितः 'अकर्मा' स्वर्गाद्या पादककर्मरहितो दुष्कर्मा सात्त्विकतामसो राजसतामसश्च 'अ वाक्' अधोगतिं 'गच्छति' प्राप्नोति । तां विभजते—त्रिधेति । 'त्रिधा ह वाऽवाग्गच्छति' इति श्रुतिपाठः । हेति प्रसिद्धौ । वावेत्यवधारणे । तत्त्वप्रदीपोक्तरीत्या समाने लोप इति एकवकारलोपः । अवाग्गच्छती ति यत्तत्त्रिधैवेत्यर्थः । त्रैविध्यमेव दर्शयति—तिर्यगिति । तिर्यक्त्वमित्य र्थः । साच नानायोनिप्राप्तिरूपा 'जायस्व म्रियस्व' इत्युक्ता तृतीया ग तिः । 'यातना' नरको दुर्भरत्वं वा । यथोक्तं गीतातत्पर्ये—'दुर्भर त्वं च तिर्यक्त्वं तमश्चेति फलं क्रमात्' इति । इति त्रिधैवेत्यन्वयः । तासां लक्षणमाह—द्वे इति । 'अनुवृत्ते' युक्ते । न तमः सुखयुक्तमि त्यत्र हेतुमाह—'हि' यतः 'केवलं' अत्यन्तं 'अत्र' तमसि दुःखं 'भवति' प्राप्यते । इति श्रुतेरित्यनेन तथोपलब्धेरिति हेतुर्व्याख्यातः । न तृतीयेति । 'तिर्यग्वा नरकं तमः' इत्युक्ताधोगतिषु 'तृतीये' तम सि न सुखमस्तीत्यर्थः । अनेन सुखमस्तीत्यध्याहृतसाध्यभागो व्या ख्यातः ॥ ( ३ ) एतमेवार्थं स्मृत्यनुमानाभ्यां च साधयत्सूत्रमुपन्यस्य तां स्मृतिमुदाहरति—स्मर्यते इति ॥ तिर्यक्ष्विति । 'क्षुद्रमिश्राणि' इत्यु क्ततृतीयगतावित्यर्थः । 'विधीयते' अस्तीत्युच्यते आगमेषु । 'मग्ना