रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
अस्याद्यः प्रकारः—भूर्जपत्रे निघाय पारदं पोट्टलीकृत्य ससैन्धवे जले दोलया सप्तदिनं स्वदयेत् इति ॥ ८२-८४ ॥ भा. टी.—पूर्वोक्त पातनादि संस्कारयुक्त पारद को भोजपत्र में रख कपड़े की पोटली में बाँधे, अथ दोलायन्त्र में सैन्धानमक तथा जल डालकर इसमें पारद की पोटली को मन्द-मन्द अग्नि से पकायें । इस प्रकार से स्वेदित पारद पुनः पुष्ट होकर नपुंसकता दोष से रहित हो जाता है ॥ ८२-८३ ॥ एक काँच की शीशी में पारद, सैन्धानमक तथा जल भर इसको बन्द करके जमीन के अन्दर तीन दिन तक गाड़ देने से भी इसका क्लीबत्व-दोष दूर हो जाता है ॥ ८४ ॥ तृतीयः प्रकारः सैन्धवेनाम्लपिष्टेन रसेन्द्रं कूपिकागतम् । गर्ते निधाय चोध्वँन्तु देयो लघुपुटो बुधैः ॥८५॥ एवं सम्पुटितः शीघ्रं भृशमाप्यायते रसः । जातीवीर्यप्रकर्षश्च षण्ढभावं विमुञ्चति ॥८६॥ तृतीयः प्रकारः—अम्लपिष्टेन सैन्धवेन सह पारदं काचकुप्यां निधायोपरि लावकाख्यपुटदानम्, फलञ्च पूर्ववत्, शीघ्रतायां विशेषः ॥ ८५-८६ ॥ भा. टी.—सैन्धानमक को काञ्जी या नींबू के रस से पीसकर इसके साथ पारद मिलाकर इन सबको काँच की शीशी में बन्दकर एक गढ़े में गाड़कर इसके ऊपर पूर्वोक्त लावपुट देने से भी इसका षण्ढदोष नष्ट होकर वीर्यप्रकर्षता बढ़ जाती है ॥ ८५-८६ ॥ नियामनस्वरूपम् बोधनाल्लब्धवीर्यस्य रसस्य स्वेदनं हि यत् । चापल्यविनिवृत्त्यर्थं तन्नियामनमीरितम् ॥८७॥ नियामनलक्षणं सफलमाह—बोधनादिति ॥ ८७ ॥ भा. टी.—बोधन संस्कार द्वारा लब्धवीर्य पारद के चापल्य दोष को दूर करने के लिए पारद को जो निम्न विधि से स्वेदन किया जाता है उस कर्म को नियामनसंस्कार कहते हैं ॥ ८७ ॥ नियामनस्य प्रथमः प्रकारः अम्लिकानागिनीभृंगवन्ध्याऽब्दकितवोद्भवैः । रसैः संस्वेदितः सूतो नियतं नियतो भवेत् ॥८८॥
६४ रसतरङ्गिणी द्वितीयः प्रकारः रसोनभृंगराजाब्दचिञ्चिकानवसादरैः । भृशं संस्वेदितः सूतो नियतं नियतो भवेत् ॥८६॥ अस्याद्यः प्रकारः—अम्लिका चिञ्चा, नागिनी सर्पाक्षी, अब्दं मुस्तकम्, कितवः धत्तूरः । नियतः निरस्तचाञ्चल्यः ॥ ८८-८६ ॥ भा. टी.—इमली, नाकुली ( नाई ), भृङ्गराज, बाँझ ककोड़ा, नागर- मोथा तथा धतूरा इनके रस से दोलायन्त्र द्वारा स्वेदन करने पर पारद चाञ्चल्यरहित हो जाता है ॥ ८८ ॥ लहसुन, भाँगरा, नागरमोथा, इमली तथा नौसादर इनके क्वाथ तथा कल्क से अच्छी तरह स्वेदन करने से भी पारद नियमित हो जाता है ॥८६॥ तृतीयः प्रकारः नियामकगणोद्दिष्टैः समस्तव्यस्तभेषजैः । पूर्वदर्शितमार्गेण भिषक् कुर्यान्नियामनम् ॥६०॥ तृतीयः प्रकारः—कल्केः क्वाथैर्वा इति कल्कपक्षे काञ्जिकैः स्वेदनम् ॥६०॥ भा.टी.—निम्नलिखित नियामकगण की सम्पूर्ण अथवा एक-एक औषधि के रस या क्वाथ से पारद को स्वेदन करने से भी वह नियमित हो जाता है ॥ ६० ॥ रसस्य नियामको गणः महाबला नागबला यमचिञ्चा पुनर्नवा । आखुपर्णी सहचरा वासिका काकमाचिका ॥६१॥ गोक्षुरः शरपुङ्खा च विष्णुक्रान्ता घनध्वनिः । मण्डूकपर्णी तुलसी बला च गिरिकर्णिका ॥६२॥ शतावरी शङ्खपुष्पी श्वेतार्कः कनकाह्वयः । चक्रमर्दः करञ्जश्च ब्रह्मदण्डी शिखण्डिनी ॥६३॥ गुडूची सैन्धवं पाठा मृगाक्षी सोमवल्लिका । नियामकगणो ह्येष प्रोक्तो रसविशारदैः ॥६४॥ नियामकगणः—महाबला सहदेवी, नागबला गाङ्गेरुकी, यमचिञ्चा अपक्वा अम्लिका, सहचरा पीतझिण्टी, विष्णुक्रान्ता अपराजिता घनध्वनिः तण्डुली- यकः, तुलसी कृष्णा ज्ञेया, गिरिकर्णिका कृष्णापराजिता, कनकाह्वयः धत्तूरः, मृगाक्षी इन्द्रवारुणी, सोमवल्लिका मत्स्याक्षी । स्पष्टमन्यत् ॥ ६१-६४ ॥ भा.टी.—सहदेवी, गंगेरन, कच्ची इमली, पुनर्नवा, मूषाकानी, पियावांसा,
पञ्चमस्तरङ्गः ९५ अडूसा, मकोय, गोखुरू, शरपोंखा, सफेद कोयल ( अपराजित ), चौलाई, ब्राह्मी, काली तुलसी, खरेंटी, काली कोयल, शतावर, शंखपुष्पी, श्वेतपुष्प आक, धतूरा, पनवाढ़, करञ्ज, ब्रह्मदण्डी, गिलोय, सैन्धानमक, पाढ़, इन्द्रायण मछेछी इन औषधियों के समुदाय को रसशास्त्रज्ञ नियामकगण कहते हैं ॥६१-६४॥ दीपनस्वरूपम् दोलायन्त्रे स्थापयित्वा रसेन्द्रं क्षाराद्यैर्येत्पाचनं स्याद्यथायम् । ग्रासार्थी वा जारणे च प्रगल्भः शास्त्रज्ञैस्तद्दीपनं सम्प्रदिष्टम् ॥६५॥ अथ दीपनस्वरूपम्-दीपनं नाम "ग्रासार्थिताजारणाभृततासम्पादकं दोलया क्षाराद्यैः पारदपाचनम् । धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः। ग्रासार्थे त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ॥" इति प्राचीनोक्तिरत्रानुसन्धेया ॥ ६५ ॥ भा.टी.-दोलायन्त्र में क्षार अम्ल आदि औषधि द्रवों को भरकर उसमें पारद को इतना स्वेदन करें जिससे वह धातुओं का ग्रास कर सके अथवा गन्धक आदि को जीर्ण कर सके। इस क्रिया को दीपन संस्कार कहते हैं ॥६५॥ दीपनस्य प्रथमः प्रकारः काशीशं मरिचं तथैव तुवरी शोभाञ्जनं काञ्जिकं सौभाग्यं पटुपञ्चकञ्च दहनो राजी समं मेलयेत् । निक्षिप्याथ दिनद्वयं बुधवरो दोलाख्ययन्त्रे पचेत् ग्रासार्थी खलु जारणे च चतुरः सञ्जायते पारदः ॥६६॥ तत्प्रथमः प्रकारः-तुवरी स्फटिका, पटुपञ्चकं लवणपञ्चकम् , दहनश्चित्रकः, स्पष्टमन्यत् ॥ ६६ ॥ भा.टी.-दोलायन्त्र में कासीस, कालीमिर्च का चूर्ण, फिटकरी, सहजना, काञ्जी, सुहागा, पाँचों नमक, चित्रकमूलछाल, राई; सबको एकत्र मिलाकर इसमें पारदपोटली को लटका दें । इस प्रकार दो दिन तक मन्द-मन्द अग्नि से स्वेदन करने से पारद धातुओं को ग्रास तथा जीर्ण में अत्यन्त शक्तिशाली हो जाती है ॥ ६६ ॥ अथ द्वितीयः प्रकारः सौभाग्यं पटुपञ्चकञ्च मरिचं शोभाञ्जनं चासुरी काशीशं यवजोऽनलश्च तुवरी सेफालिका सर्जिका । तुल्यांशैः सुविचूर्णितैर्गृहजले यन्त्र तु दोलाह्वये स्विन्नो यामयुगं ततो रसवरो ग्रासाभिलाषी भवेत् ॥६७॥
९६ रसतरङ्गिणी द्वितीयः प्रकारः-यवजो यवक्षारः, अनलश्चित्रकः, शेफालिका “हरसिंगार” इति भाषायाम् ॥ ६७ ॥ भा.टी.-सुहागा, पाँचों नमक, काली मिर्च, सहंजना, राई, कसीस, जवाखार, चित्रक, फिटकरी, संभालू, सज्जीखार, इन सबको समभाग में लेकर दोलायंत्र में डालकर जल भर दें और पारद की पोटली लटकाकर इसे ६ घण्टे स्वेदन करें तो पारद धातुओं को ग्रास करने की शक्ति प्राप्त कर लेता है ॥ ६७ ॥ तृतीयः प्रकारः स्वेदयेदासवाम्लेन सहितं याममात्रकम् । भिषग्वरः सूतराजं शीघ्रं वीर्यविवृद्धये ॥६८॥ चतुर्थः प्रकारः अथवा दहनक्वाथैस्त्रिदिनं काञ्जिके पचेत् । एवं संस्वेदितः सूतो ग्रासार्थी जायते परम् ॥६६॥ आसवाम्लेन काञ्जिकेन ॥ ६८-६६ ॥ भा.टी.-पारद को केवल काञ्जी में दोलायन्त्र द्वारा एक पहर तक स्वेदन करने से भी इसकी शक्ति बढ़ जाती है ॥ ६८ ॥ अथवा चित्रक क्वाथ तथा काञ्जी में तीन दिन तक पारद को स्वेदन किया जाय तो भी उसमें धातुग्रास करने की शक्ति उत्पन्न हो जाती है ॥६६॥ जारणास्वरूपम् सूते गन्धादिनिक्षिप्तात्तत्तद्विधिविशेषतः । गन्धाद्यं जार्यते यत्तु जारणां तदिहोच्यते ॥१००॥ षड्गुणगन्धकजारणस्य प्रयोजनम् वसुविधविधिसंस्कृतोऽपि सूतो रसविबुधैरिह हिङ्गुलोत्थितो वा । रसगुणबलिजारणाविहीनो गदगणवारणतां तु नैति नूनम् ॥१०१॥ अथ जारणालक्षणम्-तत्तद्विधिविशेषतः वालुकायन्त्रकच्छपयन्त्रादिप्रका- रेण । जार्यते वह्न्यादि योगात् क्षीणं क्रियते । “द्रुतग्रासपरीणामो विडयन्त्रा- दियोगतः । जारणा इति” रसेन्द्रचूडामणौ, “जारणा नाम गालनपातनव्यतिरे- केण ग्रस्तघनहेमादिरसस्य पूर्वावस्थाप्रतिपन्नत्वम्” इति च-आयुर्वेदप्रकाशकारः॥ जारणाफलम्-वसुविधविधिसंस्कृतः अष्टविधसंस्कारयुक्तः रसविबुधैरिति
७ पञ्चमस्तरङ्गः ६७ रसशास्त्रामिज्ञैः रसगुणबलिजारणाविहीनः षड्गुणगन्धकजारणाविरहितः अत्र “रसगुणबलिजारणं विनाऽयं न खलु रुजाहरणक्षमो रसेन्द्रः। न जलदकलधौत- पाकहीनः स्पृशति रसायनतामिति प्रतिज्ञा ॥” इति प्राचीनोक्तिरप्यनुसन्धेया॥१००-१ भा. टी.—पारद में बालुकायन्त्र, कच्छपयन्त्र, जारणायन्त्र आदि यन्त्रों के द्वारा गन्धक आदि द्रव्यों का जारण (जीर्ण) करने को जारण संस्कार कहा जाता है ॥ १०० ॥ पारद चाहे अष्टसंस्कार से शुद्ध किया हो अथवा हिंगुल से निकाला गया. हो; परन्तु यदि वह छः गुना गन्धक-जीर्ण न किया हो तो उसमें रोगनाशक शक्ति पूर्णरूप से नहीं आती है । अतः पारद में षड्गुण गन्धकजारण अवश्य करना चाहिए जिससे उसमें रोगनाशक शक्ति उत्पन्न हो जाय ॥ १०१ ॥ षड्गुणबलिजारणस्य प्रथमः प्रकारः निधाय बालुकायन्त्रे चषकं सुदृढं भिषक् । रसतुल्यं बलिं तस्मिन्निक्षिपेत् खलु शोधितम् ॥ १०२ ॥ बलिं तु विद्रुतं दृष्ट्वा रसेशं तत्र दापयेत् । अर्द्धजीर्णं बलिं ज्ञात्वा पुनर्गन्धं प्रदापयेत् ॥ १०३ ॥ आषड्गुणं क्षिपेदेवमल्पमल्पं समाहितः । स्वतः शीतं ततो ज्ञात्वा रसेशं तु समाहरेत् ॥ १०४ ॥ अथ षड्गुणगन्धकजारणास्याद्यः प्रकारः—अर्द्धगन्धके जीर्णे पुनर्गन्धकं प्रदापयेत्, सर्वगन्धकक्षये पारदस्योड्डयनभयात् । अत एव च किञ्चित् गन्धक- शेष एव उत्तारणमस्य विधेयम् ॥ एवं षड्गुणगन्धकक्षयपर्यन्तमल्पमल्पं पुनः पुनर्द्यादिति प्रथमः कल्पः ॥ १०२–१०४ ॥ भा. टो.—षड्गुण गन्धकजारण करने के लिए बालुकायन्त्र के ऊपर एक मिट्टी अथवा लोहे का प्याला रखें, अब उसमें पहिले पारद समभाग शुद्ध गन्धक डाल दें । जब गन्धक पिघल जाय तो उसमें गन्धक के बराबर भाग शुद्ध पारद डाल दें और अग्नि देते जायँ। जब पहिले का गन्धक आधा जीर्ण हो जाय तो उसमें फिर पारद के बराबर भाग गन्धक डालें। इस क्रम से थोड़ा- थोड़ा करके छःगुना गन्धक उसमें डालकर जीर्ण कर लें ॥ १०२–१०४ ॥ षड्गुणबलिजारणस्य द्वितीयः प्रकारः कच्छपाख्येन यन्त्रेण रसत्तन्त्ररहस्यवित् । उक्तमार्गानुसारेण जारयेत् षड्गुणं बलिम् ॥ १०५ ॥
६८ रसतरङ्गिणी भा. टो.—रसशास्त्र में निपुण वैद्य कच्छपयन्त्र के द्वारा भी बालुकायन्त्र की विधि से पारद में षड्गुण गन्धक का जारण कर सकता है ॥ १०५ ॥ षड्गुणबलिजीर्णस्य रसराजस्य गुणाः समे तु गन्धके जीर्णे सामान्यगदनाशनः । द्विगुणे तु विशेषेण महारोगविधूननः ॥ १०६ ॥ त्रिगुणे तु विशेषेणाच्चयपुंस्त्वप्रकाशनः । चतुर्गुणे महोत्साहमेधास्मृतिविवर्धनः ॥ १०७ ॥ तथा पञ्चगुणेऽशेषगदसन्तापनाशनः । रसेश्वरः षड्गुणे तु विविधाद्भुतकार्य्यकृत् ॥ १०८ ॥ इति पारदस्याष्टसंस्कारविज्ञानीयो नाम पञ्चमस्तरङ्गः अथ गन्धकजारणगुणाः—महारोगविधूननः महारोगविनाशनः, विविधा- द्भुतकार्य्यकृत् ‘भवतीति’ शेषः । तथोक्तं शिवागमेऽपि—“तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः । द्विगुणे गन्धके जीर्णे सर्वथा सर्वकुष्ठहा ॥ त्रिगुणे गन्धके जीर्णे सर्वजाड्यविनाशनः । चतुर्गुणे तथा जीर्णे वलीपलितनाशनः ॥ गन्धके पञ्चगुणे जीर्णे क्षयक्षयकरो रसः । षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः । अवश्यमित्युवाचेदं श्रीदेवीं भैरवः स्वयम् ॥” इति । अथ व्याधिघात- कत्वेन परमावश्यका अष्टौ संस्कारा ग्रन्थकृता केवलमुक्ताः, रसतन्त्रप्रसिद्धा अव- शिष्टाश्च दश नोक्ता इति । वयन्तु जिज्ञासूनां मनोविनोदाय परिभाषाबोधाय च लक्षणतः फलतश्चावशिष्टानुदाहरामो मा भूच्छिन्नसम्प्रदायहानिरिति ॥ तत्र अनुवासन-गगनादिग्रासप्रमाण-चारणा-गर्भद्रुति-वाह्यद्रुति-जारणा-रञ्जन- सारणा-क्रामण-वेधनाख्या दशावशिष्टाः । केचित् शरीरयोगनामकम्परं संस्कारमिच्छन्ति, तन्मतेऽनुवासनं दीपनान्न पृथक् । तत्रादावनुवासनक्रमः— “दीपितं रसराजन्तु जम्बीररससंयुक्तम् । दिनैकं धारयेद् घर्मे मृत्पात्रे वा शिलो- द्भवे ॥” इति प्रथमः । तथा- “सहस्रनिम्बूफलतोयपिष्टो रसो भवेद् वह्निसम- प्रभावः । सव्योषराजीलवणः सचित्रः सरामठो विंशतिवासराणि ॥” इति रसचिन्तामणिप्रोक्तो द्वितीयः । अत्रेदमवधेयम्— “स्वेदनादिनवकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् । अष्टमांश इह शिष्यते यदा शुद्धसूत इति कथ्यते तदा ॥” इति रसरत्नाकरकारस्य नित्यनाथस्य वचनम् । अयमाशयः— सप्तभागाः सप्तकञ्चुकसम्बन्धिनोऽपयान्ति पारदस्याष्टमो भागोऽवशिष्यते ॥ अथ गगनादिग्रासप्रमाणम्—“यन्मानस्य सूतस्य भोजद्रव्यात्मिका मितिः ।
पञ्चमस्तरङ्गः ६६ इयतीत्युच्यते याऽसौ ग्रासमानं समीरितम् ॥ चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः । तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥” एतद्विस्तारो रसार्ण- वादावनुसन्धेयः । एतस्योपयोगो गर्भद्रुतिसंस्कारे वक्ष्यमाणे । चारणा यथा— “रसस्य जठरे ग्रासक्षेपरां चारणा मता ॥” तत्प्रकारो रसपद्धत्यां—“तप्ते तीक्ष्णसमुद्भवे सुविमले खल्वेऽथ सूतं क्षिपेत् पादांशं कनकं विमर्च्य शनकैर्दत्वाऽ म्लजम्बीरकम् । पात्रे जम्बलवारिणा सुविपुले काचोद्भवे पूरिते स्थाप्यं सूर्य- खरातपे पटुतरं वस्त्रं ततो मर्दितम् ॥ तस्मिन्नेव दिने पुनर्ददीत विमलं सा चारणा संस्मृता••••॥” इति । अथ गर्भद्रुतिः—“ग्रस्तस्य द्रवणं गर्भे गर्भद्रुति- रुदाहृता।” इति लक्षिता । “व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् । साकल्येन चरेद्देवि गर्भद्रावी भवेद्रसः ॥” गर्भद्रुतिमन्तरेण च व्योमसत्त्वादिजारणा- भावात् आवश्यकतैतस्याः । तथा च—“वह्निव्यतिरेकेणापि रसग्रासीकृतानां लोहादीनां द्रवत्वं गर्भद्रुतिः” इति रसमाधवो व्याजहार । “शिलया निहतं नागम् ताप्यं वा सिन्धुना हतम् । ताभ्यान्तु मारितं बीजं सूतके द्रवति क्षणात् ॥” इति च “बीजानां संस्कारः कर्तव्यः कोऽपि तादृशः प्रथमम् । येन द्रवन्ति गर्भे राज- राजस्याम्लयोगेन ॥” इति च श्री गोविन्दभगवत्पादाचार्याः । अयञ्च गर्भ- द्रावको योगोऽनुसन्धेयः—“सैन्धवेन समं ताप्यं घर्मे मर्च्यं पुटे पचेत् । पुनर्मर्च्यं पुनः पाच्यं यावद् द्वादशवारकम् ॥ अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् । अनेन वर्णपत्राणि लिप्तानि प्रधमेद् दृढम् ॥ द्रुतञ्च वापितं त्तत् सप्तवारं पुनः पुनः । एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥” तथा “शिला सौवर्चलं ताप्यं गन्धकासीसटङ्कणम् । मर्दयेच्चणकाम्लेन सर्वमेतद्दिनावधि ॥ रसस्यैतत् षोडशांशं दत्त्वा बीजं च दापयेत् । दीयते यत्र यत्रैवं तत्र द्रवति मर्दनात् ॥” इति । अथ बाह्या द्रुतिः—“बहिरेव द्रुतं कुर्यादभ्रसत्त्वादिकं खलु । जारणाय रसेन्द्रस्य सा बाह्या द्रुतिरुच्यते ॥” इत्युक्तरूपा, तद्दिङ्मात्रं यथा--“कपिति- न्दुवालफलैः समं धान्याभ्रकं दृढम् । मर्दयेद्दिनमेकन्तु काचकुप्यां निवेशयेत् ॥ नरकेशैर्मुखं रुध्वा कूपिकां लेपयेन्मृदा । पुटेत् पातालयन्त्रेण दिनान्ते द्रुतिमा- प्नुयात् ॥” इति । तथा “कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् । तिष्ठन्ति चिरकालन्तु प्राप्ते काले नियोजयेत् ॥” इति । एतत्फलन्तु—“बाह्यद्रुतिस्तु केवलं शुद्धमेव रसं मिलिता बध्नाति । फलमस्या दीर्घायुष्ट्वम् । पूर्वोक्तग्रासक्रम- जारणेन पूर्वोक्तफलप्रदत्वं वा ।” इत्यादिनोक्तं रसमाधवेन । केचित्तु लुप्तसम्प्र- दायत्वात्—“द्रुतयोऽपि न दृष्टास्ते शास्त्रे दृष्टा अपि ध्रुवम् । विना शम्भोः
१०० रसतरङ्गिणी प्रसादेन न सिद्ध्यन्ति कदाचन ॥” इत्याहुः । अत्र विशेषश्चिन्तनीय एवेति । जारणलक्षणा मुक्तम्प्राक् । तत्प्रकारस्त्वेवंविधः स्मृत आचार्यै रसरत्नाकरे--“स्वर्णं नागं समावर्त्य माषमात्रन्तु घर्षयेत् । तप्तखल्वे ततस्तस्मिन् पलमेकं रसं क्षिपेत् ॥ सिद्धमूलीद्रवं दत्वा मर्दयेत् काञ्जिकैर्दिनम् । घर्मे वा तप्तखल्वे वा ततो ग्रासन्तु दापयेत् ॥ चतुःषष्ट्यंशकं पूर्वं द्वन्द्वसत्त्वं सुभावितम् । दत्वा धर्मे दिनैकञ्च चारणायन्त्रके क्षिपेत् ॥ सजम्बीरे दिनं घर्मे धारितश्चरति ध्रुवम् । त्रिछारं पञ्च- लवणमम्लवर्गः स्नुहीपयः ॥ गोमूत्रैर्गोलयेत्सर्वं तेन वस्त्रं घनं दिहेत् । तन्मध्ये धारितं सूतं बद्ध्वा भूर्जेन वेष्टयेत् ॥ सिद्धमूल्यम्लसंयुक्ते दोलायन्त्रे त्र्यहं पचेत् । उद्धृत्योष्णारेनालेन क्षालयेल्लोहपात्रके ॥ वस्त्रपूतं ततः कृत्वा सोष्णे पात्रे विमर्दयेत् । हस्तेनैव भवेच्छुष्कं यावत्तं पारदं पुनः ॥ चतुर्गुणेन वस्त्रेण गाल- येन्निर्मलो भवेत् । अजीर्णांशे त्पुनर्मर्द्यमम्लं दत्वा दिनावधि ॥ दोलायां स्वेद- येत्तावद्द्रवेज्जीर्णान्न संशयः ॥” इति । अत्र च चरति ध्रुवमित्यन्तं चारणाप्रकारः, त्रिछारं पञ्चलवणमित्यारभ्य च जारणाप्रकारोऽनुसन्धेयः । अयञ्च बीजजारणा- प्रकारो मूलेऽनुक्तः कथितः । गन्धकजारणप्रकारस्तु मूल एवोक्त इति नेहोक्तो माभूत्कालस्य व्यत्यय इति । इयञ्च समुखा जारणा, बीजावापयोगात् । निर्मुखा जारणा तु दिव्यौषधिसमायोगात्प्राचीनपरम्पराप्रसिद्धा इदानीं लुप्तप्राया चेति॑ । अथ रञ्जनम्-“सुसिद्धबीजधात्वादिजारणेन रसस्य हि । पीतादिरागजननं रञ्जनं परिकीर्तितम् ॥” “केवलं निर्मलं ताम्रं वापितं दरदेन तु । कुरुते त्रिगुणं जीर्णे लाक्षारसन्निभं रसम् ॥” इत्यादिनाऽनुसन्धेयम् । विस्तरस्तु--“खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि तु । क्षिप्त्वाग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥ चतुर्थ्यामात्तु तद्भस्म जातं पात्रात्समुद्धरेत् । तद्भस्म गन्धकं तुल्यं याममम्लेन मर्दयेत् ॥ रुद्ध्वा गजपुटे पश्चात् पादांशं गन्धकं पुनः । दत्वाम्लैर्मर्दितं पश्चादेवं वारांश्चतुर्दश ॥ रक्तवर्णो भवेद्भस्म तद्भागं खर्परं क्षिपेत् । भागत्रयं शिलाचूर्णं पृथक्पात्रे विनिक्षिपेत् ॥ पञ्चाङ्गवासकाच्चूर्णं त्वक्चूर्णाञ्चार्जुनस्य च । शाककिंशुककोरटशिग्रूणां पुष्पमाहरेत् ॥ नागिनी नागकन्या च कुमारी चाहिमारकः । सर्वेषां प्रतिभागेकं शिलामध्ये विनिक्षिपेत् ॥ तेभ्यश्चतुर्गुणैर्मूत्रै- श्छागगैः क्वाथमाहरेत् । पूर्वोक्तं भस्म नागस्य खर्परस्य च संक्षिपेत् ॥ चालयन् पाचयेच्चुल्ल्यां यावत्सप्तदिनावधि । अनेन मृतनागेन वापो देयो द्रुतस्य च ॥ पञ्चबीजस्य भागांस्त्रीन् रञ्जितं जायते शुभम् ॥” इत्यादिना रसरत्नाकरादौ कण्ठोक्त्यावलोकनीयः । सारणा--“सूते सतैल-यन्त्रस्थे
[Header] पञ्चमस्तरङ्गः १०१
स्वर्णादिच्छेपणञ्च यत्। वेधाधिक्यकरं लोहे सारणा सा प्रकीर्त्तिता॥” तत्प्रकारश्च—"छिद्रान्वितान्धमूषा गम्भीरी स्यात् सारणोचिता। तस्यां सारणतैलं निधाय तप्तं सबीजसूतञ्च तत्तैलाक्तपटेनाच्छाद्य मुखं सारणं कुर्यात् ॥” इत्यादिनाऽऽकरेभ्योऽनुसन्धेया। विस्तरस्तु सारणातैलनिर्म्माणादेः रसरत्नाकरादिभ्योऽवधेयः। अपि च नैकधासारणाजारणापरम्परया वेधसम्भव- इत्यपि प्राचां मतम्। "सारितो जारितश्चैव क्रमात् सारितजारितः। सप्तशृङ्ग- लिकावेधात् कोटिवेधी भवेद्रसः॥” इति प्राचीनसंवादात्। अतोऽनन्तरं केचि- न्मुखबन्धनामानं संस्कारान्तरमप्यातन्यते, तत्प्रकारो रसपद्धत्यामवलोकनीयः, नेह प्रतन्यते माभूद् ग्रन्थविस्तर इति। अथ क्रामणम्—"स्वर्णतारादिधर्म्मान् यत् कामयेदन्यधातुषु। सारणोत्थेन सूतेन क्रामणन्तदुदाहृतम् ॥” तच्च— “शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन। क्रमशः पीते शुक्ले क्रामण- मेतत् समुद्दिष्टम् ॥” श्रीगोविन्दभगवत्पादान्तु—"क्रामति तीक्ष्णेन रसः" इत्याहुः। केचित्तु—"सौराष्ट्रीं भावयेद्धर्मे गवां पित्तैस्त्रिधा पुनः। तत्सत्त्वं व्योमवद् ग्राह्यं क्रामकं योजयेद्रसे ॥” इत्याहुः। अथः वेधः—"व्यवायिभेषजां- पेतो द्रव्ये क्षिप्तो रसः खलु। वेध इत्युच्यते ॥” स चानेकविधः—"लेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः ॥” तेषां लक्षणान्याकरेभ्योऽनुसन्धेयानि। विस्त- रभयादुपरम्यते। भक्षणसंस्कारस्तु क्षेत्रीकरणादौ वक्ष्यते। इति प्राचीनरसतन्त्र- प्रसिद्धा अवशिष्टाः सूतसंस्काराः साकल्येन भवन्त्युक्ताः॥ १०६-१०८॥ भा. टी.—पारद में यदि समभाग गन्धक जीर्ण किया जाय तो उसमें सामान्य रोगों का नाश करने की शक्ति आती है। द्विगुण गन्धक जीर्ण करने पर वह (पारद) महारोगों को दूर करनेवाला हो जाता है। त्रिगुण गन्धक जीर्ण करने पर शरीर में अत्यधिक पुंस्त्व शक्ति पैदा करता है। चतुर्गुण गन्धक जीर्ण होने पर वह शरीर में उत्साह, धारणा शक्ति तथा स्मृति शक्ति को बढ़ाता है। पञ्चगुण गन्धक जीर्ण होने पर सम्पूर्ण रोग तथा दुःखों को नष्ट करनेवाला हो जाता है। षड्गुण गन्धक जीर्ण होने पर तो उसमें अनेक अद्भुत कार्य करने की शक्ति आ जाती है॥ १०६-१०८॥ वक्तव्य—अष्टसंस्कार युक्त पारद तय्यार न होने पर सिंगरफ से निकाले हुए पारद को आक का दूध, थूहर का दूध, धत्तूरे का पत्रस्वरस, कलिहारी- मूलस्वरस या क्वाथ, कनेर के फूलों का स्वरस, श्वेत गुञ्जाफलों का क्वाथ, अहि- फेन का रस (अफीम से १६ गुना जल मिलाकर बना हुआ जल), इन सात
१०२ रसतरङ्गिणी उपविषों में यथासम्भव अन्य विषों को क्रमशः ७-७ दिन खरल करें । प्रत्येक विषोपविष में सात दिन तक खरलकर इस पारद को डमरूयन्त्र द्वारा ऊपर उड़ा लेवें । पश्चात् दूसरे विष में मर्दनकर उड़ा लेवें । अन्त में पारद से चतुर्थांश वीरबहूटी और सोलहवाँ भाग सैन्धानमक मिला नींबू के रस से सात दिन खरल करके डमरूयन्त्र द्वारा उड़ा लेने से पारद को सुवर्ण आदि धातुओं को भक्षण करने योग्य शक्ति प्राप्त हो जाती है । इसको बुभुक्षित पारद कहते हैं । इस प्रकार बुभुक्षित पारद से जो भी कूपीपक्व रसायन अथवा रस तय्यार किये जायेंगे उनमें सामान्य शुद्ध पारद से कई गुना शक्ति अधिक होती है । पारद के अवशिष्ट दश संस्कारों के विषय में रसरत्न समुच्चय, आयुर्वेद- प्रकाश, रसकामधेनु आदि रसग्रन्थों का अध्ययन-मनन आदि करना चाहिए । इति पारदस्याष्टसंस्कारविज्ञानीयो नाम पञ्चमस्तरङ्गः । अथ मूर्च्छनाविज्ञानीयः षष्ठस्तरङ्गः अथ मूर्च्छनायाः स्वरूपम् तत्तद्विधिप्रभेदेन रसस्याव्यभिचारतः । व्याधिघातकता या स्यात् सा मता मूर्च्छना बुधैः ॥१॥ आदौ मूर्च्छनास्वरूपं प्रयोजनसहितम्—तत्तद्विधयो वक्ष्यमाणाः सगन्धनि- र्गन्धादयः, तद्भेदेन या रसस्य अव्यभिचारतः अनैकान्तिकत्वं विना व्याधिघा- तकता रोगापनयनसामर्थ्यं सा मूर्च्छना । यदाह रसमाधवः—"अव्यभिचरित- व्याधिघातकत्वं मूर्च्छना" इति । एतावता च मूर्च्छनसंस्कारादस्याः भेदो बोधितः, मूर्च्छनसंस्कारस्य तथानुपयुक्तत्वात्, इत्यवधेयम् । यदुक्तम्—"मूर्च्छित्वा हरति रुजम्।" इति भगवद्गोविन्दपादैः । वस्तुतस्तु करणे नामकरणः तावता च तथाविधरोगावश्यंघातकशक्तिसाधकतमः क्रम एक एव स तादृशो मूर्च्छना- शब्दवाच्यः, अत एव मूर्च्छनाभेदाः सङ्गच्छन्ते । यत्तु "मूर्च्छना जारणा चेत्यनर्थान्तरं प्रायः" इति रसमाधवो व्याजहार, तत्र समीक्षामहे—"अत्र च सगन्धमूर्च्छनायाः कजलीरूपाया निर्गन्धमूर्च्छनायाश्च मुग्धत्वादेः जारणारूपा- भावात्—"प्रायः" शब्दसङ्गतिः । बन्धनस्यैवावस्थाविशेषो मूर्च्छनेति चेन्मैवं मंस्थाः, तथाऽभावात्—"बन्धनन्तु स्वाभाविकद्रवत्वे सति वह्निनाऽनुड्डीयमानत्वं मूर्तिबद्धत्वम् ।" इति रसमाधवस्यैवोक्तेः । अयमाशयः—"द्रुतग्रासपरीणामो जारणा" "अवश्यंव्याधिघातकत्वञ्च मूर्च्छना" इति गौणमेवेदं लक्षणयुगं फलत
उपचारात्, उपचर्य्यमाणं हि फलमेव तत्तत्क्रियया निर्देश्यम्, तथाच— सहकारिसंयोगविशेषद्रुतगन्धादिग्रासानां स्वरूपक्षयोत्तरं तथाविधः परिणामः फलं, तत्साधकङ्कर्म च जारणा, गन्धादिग्रासजारणसाधनत्वात् । अत एव गन्धकजी- र्णोऽभ्रजीर्णो हेमजीर्णो रस इति व्यवहारः । "ग्रस्तस्य चारणं गर्भे द्रावणं जारणन्तथा । इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः ॥” इत्यादिकन्तु पूर्वा- भिभूतं क्रियाकलापमपेक्ष्योक्तम् । चारणगर्भद्रावणयोः संस्कारान्तरत्वाच्च, अन्यथा संस्काराष्टादशत्वं भज्येत । तस्माद् “द्रुतग्रासपरीणामो जारणा" इति पुष्कलम् । तत्प्रकाराश्चानेके— "प्रकाराः शान्तिकोटिशः” इत्युक्तत्वात् । एता- वता च “गालनपातनव्यतिरेकेण" इत्यादिमाधवोक्तजारणलक्षणे गालनशब्दस्य वस्त्रादिगालनमर्थोऽनुसन्धेयः । अत्रच "द्रुतग्रासक्षय एव जारणा"। पूर्वावस्था- प्रतिपन्नत्वन्तु न लक्षणनिवेशायावश्यकं, तस्य ग्रासक्षयोत्तरं स्वतः सम्भवित्वात् । यच्च "मूर्च्छना जारणा चेत्यनर्थान्तरं प्रायः” इत्युक्तं तेन तदपि स्वोक्तिविरोधा- दुपेक्ष्यम् । “पूर्वावस्थाप्रतिपन्नात्वं जारण" इति तेनोक्तम् । मूर्च्छनायान्तु न पूर्वावस्थाप्रतिपन्नेतेति सुमहान् भेदः । मूर्च्छना च “भस्मभिन्नत्वे सति रसभक्ष- णयोग्यतापादकङ्कर्म ।” अवश्यव्याधिघातश्चास्याः फलमित्यलमधिकाम्रेडितेन ॥१॥ भा. टी.—गन्धक अथवा बिना गन्धक योग के ही पारद में जो निश्चित रोगनाशक शक्ति उत्पन्न करना है उसे मूर्च्छना कहा जाता है ॥ १ ॥ वक्तव्य—मूर्छना संस्कार से मूर्छना को भिन्न समझना चाहिए। क्योंकि मूर्छना संस्कार से पारद में निश्चित रोगनाशक शक्ति नहीं आती है; किन्तु मूर्च्छना संस्कार पारद की निश्चित रोगनाशक शक्ति की उत्पत्ति में सहायक है। मूर्च्छनाया द्वौः भेदौ निर्गन्धा च सगन्धा च मूर्च्छना द्विविधा मता । निर्गन्धा गन्धरहिता सगन्धा गन्धसंयुता ॥२॥ निर्गन्धा रसपुष्पादौ मूर्च्छना परिकीर्तिता । सगन्धा तु विशेषेण रससिन्दूरकादिषु ॥३॥ निर्गन्धसगन्धादिभेदेन मूर्च्छनाप्रकारा बहवः । रससिन्दूरकादिषु इत्यत्र आदिना पर्पट्यादिग्रहणम् । रसरत्नसमुच्चये पर्पट्यादयो बन्धभेदेपूक्ताः, वस्तु- तस्तु बन्धभेदविशेष एव फलविशेषान्मूर्च्छनाशब्दवाच्य इत्यवधेयम् ॥ २-३ ॥
१०४ रसतरङ्गिणी भा.टी.—सगन्धक मूर्च्छना अथवा गन्धकरहित मूर्च्छनाभेद से पारद की मूर्च्छना दो प्रकार की मानी जाती है । निर्गन्ध मूर्च्छना में गन्धक का योग नहीं होता है। किन्तु सगन्ध मूर्च्छना में गन्धक का योग (मिश्रण) होता है। रसपुष्प (रसकर्पूर) आदि में निर्गन्ध मूर्च्छना होती है और रस- सिन्दूर रसपर्पटी आदि में विशेष रूप से सगन्ध मूर्च्छना होती है ॥ २-३ ॥ सगन्धाया ( मूर्च्छनायाः) द्वौ भेदौ सगन्धा मूर्च्छना ह्यत्र रसतन्त्रविचक्षणैः । अन्तर्धूमबहिर्धूमभेदेनापि द्विधा मता ॥ ४ ॥ अन्तर्धूममूर्च्छनायाः स्वरूपम् निरुध्यारम्भतः कूपीमुखं यद्गन्धजारणम् । मूर्च्छना सा भिषग्वर्यैरन्तर्धूमाभिधा मता ॥ ५॥ जीर्णेगन्धे तु यत्कूपीवक्त्ररोधनपूर्वकम् । पाचनं मूर्च्छना सा तु बहिर्धूमाभिधा मता ॥६॥ अन्तर्धूमभेदेन सगन्धा द्विविधा—आरम्भादवरुद्धमुखपाकान्तर्धूमा। गंधक जारणोत्तरमल्पशेषे मुखरोधपूर्वकं जाता बहिर्धूमा मूर्च्छना इति भेदः ॥४-६॥ भा.टी.—रसतन्त्रकारों ने अन्तर्धूम और बहिर्धूम भेद से सगन्ध मूर्च्छना के दो भेद माने हैं। अतः इनका स्वरूप यहाँ बताया जाता है ॥ ४ ॥ भा.टी.—पारद गन्धक की कज्जली को एक सात कपड़मिट्टी की हुई मजबूत कांच की शीशी में भरकर पहिले ही उसमें डाट लगाकर वालुकायन्त्र से पकाने को अन्तर्धूम मूर्च्छना कहते हैं। और वालुकायन्त्र में रखकर अग्नि देने पर जब शीशी का गन्धक धुआँ निकलकर धीरे-धीरे जीर्ण हो जाय तब डाट लगा कर बनाये गये रससिन्दूर आदि को बहिर्धूम मूर्च्छना कहते हैं ॥ ५-६ ॥ सगन्धमूर्च्छितः सूतः सुचिरं परिशीलितः । न जातु प्रकरोतीह विकारान् पारदोत्थितान् ॥ ७ ॥ निर्गन्धमूर्च्छितः सूतो गदसंक्षयकालतः । अनन्तरं शीलनेन विकारान् जनयेद् भृशम् ॥८॥ अथ सगन्धनिर्र्गन्धयोः फले विशेषः—सगन्धमूर्च्छितः रससिन्दूरादिरूपः कज्ज लीरूपो वा सूतः सुचिरं सेवितोऽपि कदाचित् पारदोत्थितान् विकारान् मुखशोथ- लालास्रावादीन् न करोति । गन्धप्रभावेण विकारमजनयता मलमूत्रस्वेदादिमा-
गैभ्यः सूतस्य स्वत एव निर्गमात् । अतस्तस्य मात्रया सुचिरं सेवनेऽपि न हानिसंभावना । निर्गन्धमूर्च्छितः रसपुष्पकर्पूरादिरूपः सूतः रोगक्षयकालानन्तरं सेवनेन अवश्यं विकारान् जनयेत् । अतश्च फिरङ्गादिरोगक्षयोत्तरं रसपुष्पादेः सेवनन्न कार्यम् । अपितु निर्गन्धमूर्च्छितसूतसेवनोत्तर रोगशान्तौ सत्यां काकमा- चीकूष्माण्डशारिवादिपारददोषसारकौषधिरससेवनेन शरीरात् पारदनिःसारणं कार्यम् । “रसत्यागविधौ पुनः भक्षयेद् बृहतीं बिल्वम्” इति रसवाग्भट्टोक्तेः ॥७,८॥ भा.टी.—गन्धकयुक्त मूर्छित पारद को यदि बहुत देर तक भी सेवन किया जाय तो उसके द्वारा शरीर में कोई भी पारदविकार नहीं होने पाते हैं । किन्तु गन्धकरहित मूर्च्छित पारद को उपदंश आदि रोगों के अच्छी तरह शान्त होने के बाद कुछ देर भी और सेवन किया जाय तो भयंकर पारद- विकार उत्पन्न हो जाते हैं ॥ ७, ८ ॥ अथ मुग्धरसस्य निर्माणप्रकारः [ गीतिका ] युगतालकप्रमाणं विमलीकृतं रसेशम् । द्विगुणां खटीञ्च शुद्धां निदधोत खल्वमध्ये ॥६॥ परिपेषयेत्तु तावत् विधिनेतदीयचूर्णम् । अवलोक्यते न यावत्खलु चन्द्रिकाविहीनम् ॥१०॥ हतचन्द्रिकं तु चूर्णं ह्यवबुध्यैः योजयेद्वै । विबुधैः स्मृतो रसोऽयं खलु मुग्धनामधेयः ॥ ११ ॥ अथ मुग्धरसनिर्माणप्रकारः—पारदं विमलीकृतं पूर्वोक्तसंस्कारशुद्धं चतुस्तो- लकमितमादायाष्टतोलकमितां शुद्धां पाषाणांशरहितां वस्त्रगालितां खटीं कठिनौं खल्वे मर्दयेत् । विनष्टपारदकणं हतचन्द्रिकमेतच्चूर्णं मुग्धरसन्नाम ॥६-११॥ भा. टी.—दो तोला शुद्ध पारद चार तोले विशुद्ध खरिया मिट्टी लेकर दोनों को एक खरल में अच्छी तरह खूब घोटें, जब इसमें बिलकुल चन्द्रिका न रहे तो इसका प्रयोग करें । इसे “मुग्धरस” कहा जाता है ॥ ६-११ ॥ वक्तव्य—यह हलका सा भूरे रंग का चूर्ण होता है जो बाजार में बना बनाया मिलता है और इसे अंगरेजी में Grey Powder कहते हैं। मुग्धरसस्य गुणाः उदरामयनुत् वमिहृन्नियतं सहजोत्थफिरंगकुरंगहरिः । शिशुरोगहरस्तु विशेषतया विबुधैरूदितः खलु मुग्धरसः॥१२॥
१०६ रसतरङ्गिणी अथ मुग्धरसः—उदरामयः अतीसारः सहजोत्थः शरीरारम्भकबीजभाग- दुष्टिजन्यः फिरङ्गतदाख्यपापरोग एव कुरङ्गो मृगस्तन्नाशाय हरिः सिंह इव, बलात् तन्नाशक इत्यर्थः ॥१२॥ भा.टी.—मुग्धरस अन्तःप्रयोग में अतीसारनाशक, वमननिवारक, सहज- फिरंगरोगघातक रस है। विशेष रूप से यह बालकों के उदर रोगों में काम आता है ॥ १२ ॥ वक्तव्य—इसका प्रयोग बच्चों के अतिसार अर्थात् हरे-पीले या मृत्तिका वर्णवाले दुर्गन्ध युक्त दस्तों में होता है। यह दही के जैसे फटे दस्त, कामला, मन्दाग्नि और कण्ठशालूक आदि रोगों में भी लाभकारक है। मुग्धरसस्य मात्रानिरूपणम् गुञ्जार्धतः समारभ्य सार्धगुञ्जद्वयोन्मिता । पूर्णमात्रा मता मुग्धरसस्य तरुणोचिता ॥ १३ ॥ गुञ्जाष्टमांशतश्चास्य गुञ्जापादांशसंमिता । पूर्णमात्रा मता विज्ञैर्वार्षिकस्यार्भकस्य तु ॥ १४ ॥ मात्रानिरूपणं व्यवहारार्थम् । ३ गुञ्जातः २॥ गुञ्जा पर्यन्तं युवयोग्या- १/८ गुञ्जातः १/४ गुञ्जापर्यन्तं वार्षिकलकयोग्याऽस्य मात्रा ॥ १३, १४ ॥ भा.टी.—एक तरुण अवस्थावाले मनुष्य के लिए इसकी आधी रत्ती से ढाई रत्ती तक पूर्ण मात्रा होती है। और एक वर्ष के बालक के लिए एक चावल से चौथाई रत्ती तक इसकी पूर्ण मात्रा होती है ॥ १३, १४ ॥ मुग्धरसस्य आमयिकप्रयोगः गुञ्जैकसंमितो मुग्धरसस्तु सलिलान्वितः । मासमेकं द्वयं वापि यत्नतः परिशीलितः ॥ १५ ॥ गर्भिणीनां चिरोद्भूतां नवजातामथापि वा । फिरंगजनितां बाधां नाशयत्यविलम्बितम् ॥ १६ ॥ गुञ्जापादोन्मितो मुग्धरसो नीरेण शीलितः । शिशूनां विनिहन्त्याशु फिरङ्गं सहजोत्थितम् ॥ १७ ॥ रक्तिकांऽघ्रिमितो मुग्धरसो वारा नियोजितः । विनिहन्त्याशु बालानामतीसारं सुनिश्चितम् ॥ १८ ॥ विज्ञाय रोगोपशमं प्राणाचार्यो भिषग्वरः । न योजयेन्मुग्धरसं रससिन्दूरवद् भृशम् ॥ १६ ॥
षष्ठस्तरङ्गः १०७ रक्तिकाङ्घ्रिमितः गुञ्जाचतुर्थांशः । वारा जलेन । शिष्टं सुगमम् ॥१५-१६॥ भा.टी.-एक रत्ती मुग्धरस को जल के साथ एक मास या दो मास तक निरन्तर अच्छी तरह सेवन कराने से गर्भिणी स्त्री का नवीन तथा पुरातन फिरंग रोग नष्ट हो जाता है । १/४ रत्ती मात्रा में जल के साथ इस रस को बालकों को देने से उनका सहज फिरंग रोग नष्ट हो जाता है । १/४ रत्ती मात्रा में जल के साथ बच्चों को सेवन कराने से उनके दस्तों में निश्चित आराम आता है। परन्तु इसके प्रयोग से उक्त रोगों की शांति होने पर फिर इसे रससिन्दूर आदि गन्धक युक्त पारद की तरह सेवन नहीं कराना चाहिए । क्योंकि फिर सेवन कराने से इसके द्वारा पारदविकार उत्पन्न होने का भय रहता है ॥ १५-१६ ॥ अथ रसपुष्पस्य नामानि रसपुष्पं रससुमं कुसुमं रसपूर्वकम् । मतं, निरुच्यते कैश्चित्सुधानिधिरसाह्वया ॥ २० ॥ रसपुष्पनामानि शास्त्रे व्यवहाराय । केचिदिमं सुधानिधिनाम्ना ख्याप- यन्ति ॥ २० ॥ भा.टी.-रसकपूर के रसपुष्प, रससुम, रसकुसुम, इतने नाम कहे गये हैं । कोई-कोई वैद्य इसे सुधानिधिरस के नाम से भी कहा करते हैं ॥ २० ॥ अथ रसपुष्पस्य प्रथमो निर्माणप्रकारः विशुद्धं रसराजन्तु पञ्चतालकसंमितम् । तत्समं लवणाञ्चैव काशीसं विमलं तथा ॥२१॥ खल्वे सम्पेव्य यत्नेन श्लक्ष्णचूर्णं च कारयेत् । अथ चूर्णं समादाय हण्डिकायां विनिक्षिपेत् ॥२२॥ मध्ये सच्छिद्रया काचलिप्तयाऽऽयतवक्त्रया । आच्छादयेद्धण्डिकया रसकर्मविशारदः ॥२३॥ सन्धिन्तु वाससाऽऽच्छाद्य लेपयेत्स्वल्पया मृदा । न लेपयेदूर्ध्वपात्रं भानुतापेऽथ शोषयेत् ॥२४॥ चुल्ल्यां निधाय विपचेदत्यल्पानलयोगतः । ऊर्ध्वपात्रस्थच्छिद्रेण बाष्पमुद्याति वेगतः ॥२५॥ निर्याते जलबाष्पे तु विधिना परिपाकतः । खटीपिधानपिहितं छिद्रं खट्या प्रलेपयेत् ॥२६॥
१०८ रसतरङ्गिणी अतिमन्दानलेनैव यामद्वितयमादितः । विपाचयेत्प्रयत्नेन स्वाङ्गशीतमथोद्धरेत् ॥२७॥ न्युब्जं कृत्वा समुत्तार्य सन्धिदेशं विलिख्य च । शशिप्रभं लम्बमानं रसपुष्पं समाहरेत् ॥२८॥ अथ रसपुष्पस्य प्रथमो निर्माणप्रकारः—विशुद्धं संस्कारशुद्धं हिंगुलोत्थं वा पारदं ५ तोलकं, लवणं सैन्धवं ५ तो०, शुद्धं काशीसं ५ तो०, आनिश्चन्द्रिकं खल्वे पेषयेत्, न्युब्जीकृत्य हण्डिकां रसपुष्पोद्धरणं तस्याधःपातनिवृत्तये । शशिप्रभमतिश्वेतम् ॥ २१-२८ ॥ भा.टी.—विशुद्ध पारद पाँच तोला, लवण पाँच तोला, स्वच्छ कसीस पाँच तोला लेकर इन तीनों को एकत्र खरल में पीसकर बहुत सूक्ष्म चूर्ण बना लें। अब इस चूर्ण को एक दृढ़ हाँडी में डालकर उस (हाँडी) के मुख पर एक चौड़े मुखवाली बीच पेंदे में छिद्रवाली, कांचलित दूसरी हाँडी टिकाकर सन्धिस्थान पर कपड़मिट्टी करके धूप में सुखा लें। अब इस हांडी को चूल्हे पर रख मन्द-मन्द अग्नि से पकायें। पाक के समय ऊपरी हाँडी के छिद्र में से बड़ी तेजी के साथ वाष्प निकलने लगेगी। जब वाष्प निकलना बन्द हो जाय तो ऊपरी हाँडी के छिद्र को खड़ियामिट्टी के डाट से बन्दकर लेप कर दें और मन्द-मन्द अग्नि दें। उक्त परिमाण में ली हुई औषधियों को पकाने के लिए प्रारंभ से अन्त तक छः घण्टे की अग्नि देनी चाहिए। स्वांग शीत होने पर इस यन्त्र को नीचे उतार लें और ऊपर की हाँडी की सन्धि को खोलकर हाँडी को उलटाकर उसके तलप्रदेश में लगे हुए चन्द्रमा के सदृश लगे हुए रसकपूर को सावधानी से निकाल लें ॥ २१-२८ ॥ रसपुष्पस्य द्वितीयो निर्माणप्रकारः शुद्धं तोलकपञ्चकं रसवरं काशीसकं सैन्धवं दत्वा चैव समं समं सुमस्तृणे खल्वे ततः पेषयेत् । कूपीमध्यगतं पचेत्तु सिकतायन्त्रेऽथ यामद्वयम् नीहारप्रभमूर्ध्वभागनिचितं पुष्पं रसाद्यं हरेत् ॥२९॥ जलीयबाष्पे निष्क्रान्ते पिधानेन पिधाय वै । कूपिकाकण्ठदेशस्थां वालुकामपसारयेत् ॥३०॥ पुष्पवच्छोभते यस्मात्कूपीकण्ठप्रलम्बितम् । रसपुष्पमिदं तस्मात्प्राणाचार्यैर्निगद्यते ॥३१॥
षष्ठस्तरङ्गः १०६ अथ द्वितीयः प्रकारः—शुद्धपारदसैन्धवकाशीसानां प्रत्येकं ५ तोलकम् आनिश्चन्द्रिकं मर्दयित्वा काचकूप्यां निधाय बालुकायन्त्रेण यामद्वयं पाको विधेयः । जलीयबाष्पे निष्क्रान्ते पिधानकेन मुखमाच्छाद्य मृदा सन्धिं विलिप्य कूपिकागलाद् बालुकापसारणीया । तथा सति कण्ठदेशे शैत्यापादनेन रसपुष्प- सङ्ग्रहः सम्यक् सम्भवति ॥ २६-३१ ॥ भा. टी.—शुद्ध पारद पाँच तोला, सैन्धानमक पाँच तोला, साफ कसीस पाँच तोला लेकर इन सबको खरल में एकत्र अच्छी तरह मर्दनकर एक कपड़मिट्टी की हुई काँचकूपी में भर दें। अब इस काँचकूपी को बालुकायन्त्र में रखकर छः घण्टे अग्नि दें तो कांच की शीशी के ऊपरी प्रदेश में बर्फ के सदृश उज्ज्वल श्वेत वर्ण का रसकर्पूर लगा हुआ मिलेगा । अग्नि देते समय जब कि बाष्प निकल जाय तो कूपीमुख में डाट लगाकर इसके (कूपी) कण्ठ- प्रदेश की दो अंगुल बालुका को हटा दें जिससे वहाँ शीतलता प्राप्तकर रस- कर्पूर जमा हो सके । शीशी के कण्ठ में यह औषधि पुष्प के समान लगी हुई पाई जाती है, अतः इसे रसपुष्प नाम से कहा जाता है ॥ २६-३१ ॥ रसपुष्पस्य तृतीयो निर्माणप्रकारः पुष्पकाशीसजं चूर्णं त्वतिमन्दाग्नियोगतः । किञ्चिद् भृष्टं नष्टनीरं पञ्चतोलकसंमितम् ॥३२॥ तन्वितामेव दहने पुष्पितां स्फटिकारिकाम् । रसेश्वरं सैन्धवं च पृथक्तुल्यं समाहरेत् ॥३३॥ खल्वे सम्पेष्य यत्नेन श्लक्ष्णचूर्णं तु कारयेत् । निश्चन्द्रिकं वीक्ष्य चूर्णं यन्त्रे डमरुकाह्वये ॥३४॥ अतिमन्दानलेनैव द्वियामं यत्नतः पचेत् । भिषग्वरो विधानज्ञः स्वाङ्गशीतमथोद्धरेत् ॥३५॥ भास्वद्विभुं ततो युक्त्या शरदिन्दुमनोहरम् । पुष्पवल्लम्बमानं तु रसपुष्पं समाहरेत् ॥३६॥ रसतन्त्रमहाम्भोधिकर्णधारधुरन्धरैः । मित्रवंशावतंसैस्तु गुरुवर्यमहोदयैः ॥३७॥ श्रीमन्नरेन्द्रनाथाख्यैस्स्वयमाविष्कृतो विधिः । प्रकाशितः खलु मया लोकानुग्रहकाम्यया ॥३८॥
११० रसतरङ्गिणी अथ तृतीयः—पुष्पकाशीसचूर्णमतिमन्दानलेन नष्टजलांशं ५ तोलकं, वह्नि- भर्जिता स्फटिका ५ तो०, पारदः सैन्धवञ्च तावदेव । ततः खल्वे यावन्निश्चन्द्रिकं पिष्ट्वा डमरुयन्त्रेण पातयेत् । सुगमोऽयम्प्रकारः । रसतन्त्रमेव महाम्भोधिः तत्र कर्णधारेषु पारोत्तारकेषु धुरन्धरैः अग्रगण्यैः प्रधानैः मित्रवंशे विश्वामित्राख्ये कुले अवतंसैः शिरोभूषणरूपैः गुरुवर्य्यैः सद्गुरुभिः महोदयैः श्रीमन्नरेन्द्रनाथाख्यैः तादृशसुगृहीतनामभिः आविष्कृतः प्रकाशित इति श्रद्धाधिक्यसूचनम् ॥३२-३८॥ भा. टी.—पहिले पुष्प कसीस को मन्द-मन्द अग्नि में कुछ भूनकर उसके जलीयांश को सुखा लें, इस प्रकार भुनी हुई कासीस पाँच तोले और पाँच तोले फिटकरी की खील, शुद्ध पारा तथा सैन्धानमक पाँच-पाँच तोले लेकर सबको एकत्र खरल में खूब बारीककर निश्चन्द्र चूर्ण बना लें, उसे डमरूयन्त्र में डालकर बन्द करके अत्यन्त मन्द-मन्द अग्नि से छः घण्टे तक पकावें । जब स्वांग शीत हो जाय तो यन्त्र को नीचे उतारकर सावधानी से उसे खोलें और ऊपर के पात्र में लगे हुए शरत्कालीन चन्द्रमा के समान सुन्दर श्वेतवर्ण चमकीले रसपुष्प को निकाल लें । यह रसशास्त्र के धुरन्धर विद्वान् रसयनाचार्य्य सिद्धकर्म्माभ्यास युक्त मान- नीय वैद्य श्री नरेन्द्रनाथ की अनुभूत रसकर्पूर निर्माणविधि है, जिसे आतुर प्राणियों की भलाई के लिए शुद्धरूप से यहाँ प्रकट कर दिया गया है ॥३२-३८॥ रसपुष्पस्य परीक्षणम् महोज्ज्वले लोहपात्रे जलबिन्दुं तु विन्यसेत् । रसपुष्पं समादाय जलबिन्दौ विनिक्षिपेत् ॥३६॥ क्षणादूर्ध्वं जलं क्षिप्त्वा यदि काष्ण्यं न लभ्यते । रसपुष्पं तदा शुद्धं जानीयाद्भिषजां वरः ॥ ४० ॥ अथ परीक्षणस्य—अत्यन्तनिर्मले लोहपात्रे जलबिन्दुं निक्षिप्य तदुपरि किञ्चित् रसपुष्पं प्रक्षिप्य क्षणं धारयेत् । ततः तत्स्थानस्य वस्त्रेण प्रोञ्छनं विधायावलोकयेत् , यदि लोहपात्रे कृष्णता न स्यात्तदा शुद्धमिदमिति व्यव- स्येत् ॥ ३६-४० ॥ भा.टी.—शुद्ध रसकर्पूर की परीक्षा के लिए एक स्वच्छ चमकीला लोह- फलक लें । इसमें एक स्थान पर एक बूँद जल को डालें, अब इस बूँद में बहुत सूक्ष्म रसकर्पूर का टुकड़ा डाल दें । और थोड़ी देर बाद इस जल को फेंक दें । यदि जलबिन्दुवाले स्थान पर कोई काला चिह्न न बने तो समझें कि यह रसकर्पूर शुद्ध अर्थात् लवणांशरहित है ।
षष्ठस्तरङ्गः ११५ लोहफलक में से जल को फेंककर उस स्थान को वस्त्र से पोंछकर काला दाग मिलता हो तो उसे अशुद्ध रसकर्पूर समझना चाहिए ॥ ३६-४० ॥ रसपुष्पस्य गुणाः रसपुष्पं पित्तहरं मूत्रलं व्रणदोषहृत् । परं विरेचनकरं तथा भूतविषापहम् ॥४१॥ स्वस्थ्यीकरणमत्यन्तं जलीयांशविशोषणम् । पित्ताशयं तु विक्षोभ्य मलपित्तापसारकम् ॥४२॥ कृमीन् विषूचिकोद्भूतान् हिक्काञ्चैव फिरङ्गकम् । जलोदरादिकान् रोगान् नाशयत्यविलम्बितम् ॥४३॥ अथ गुणाः—पित्तहरं विरेकद्वारा पित्तहरम् , व्रणदोषाः कृम्यादयः, तीव्र- रेचकम् , भूतानि संङ्क्रामकस्रोगबीजानि । पित्ताशयो यकृदधोवर्ति पाचकपित्त- स्थानम् । स्पष्टमन्यत् ॥ ४१-४३ ॥ भा.टो.—शुद्ध रसकर्पूर अन्तःप्रयोग करने में यकृत् सञ्चित मूलभूत पित्त को बाहर निकालता है, मूत्र अधिक लाता है । व्रण के कृमि पूय आदि विकृतियों को दूर करता है और तीव्र पित्तविरेचक है । यह संक्रामक जन्तु- विषनाशक है जिससे शरीर में संक्रामक रोगों का प्रभाव नहीं रहने पाता है । इसके प्रयोग से शरीर में बढ़ा हुआ जलीय भाग सूख जाता है । यह पित्ता- शय को क्षुब्ध करके मूलभूत पित्त को बाहर निकाल देता है । विसूचिका, कृमि, हिक्का, फिरंग रोग और जलोदर आदि अनेक रोगों को यह शीघ्र ही नष्ट करता है ॥ ४१-४३ ॥ रसपुष्पस्य मात्रानिरूपणम् गुञ्जाद्वैतः समारभ्य सार्द्धगुञ्जद्वयोन्मता ॥४४॥ रसपुष्पस्य मात्रा हि सार्द्धगुञ्जद्वयोन्मिता । गुञ्जाष्टमांशप्रमिता मात्रा हिक्कामये हिता ॥४५॥ फिरङ्गरोगाय मता गुञ्जा पादांशसंमिता । इयमैव मता मात्रा शिशूनां तु विरेचने ॥४६॥ अथ रसपुष्पमात्रानिरूपणम्—१ गुञ्जातः २॥ गुञ्जां यावन्मात्रास्य । अत्र विशेषः—सार्द्धद्विगुञ्जामात्रास्य रेचनाय दातव्या । गुञ्जाष्टमांशो हिकारोगे । गुञ्जाचतुर्थांशः फिरङ्गरोगे च । युवयोग्या चेयं मात्रा । बालकानान्तुगुञ्जा- चतुर्थांशं यावत् रेचनाय मात्रा । अन्यत्र कर्मण्यतोऽपि लघीयसी गुञ्जा- विंशांशा त्रिंशांशा वा यथायोग्यम् ॥ ४४-४६ ॥
११२ रसतरङ्गिणी भा.टी.—साधारणतः रसकर्पूर की अन्तःप्रयोग के निमित्त ३/२ रत्ती से लेकर २॥ ढाई तक मात्रा मानी जाती है। यदि रसकर्पूर को विरेचन होने के लिए देना हो तो पूरी ढाई रत्ती मात्रा देनी चाहिए। हिचकी के लिए इसकी एक चावलभर मात्रा देनी चाहिए। फिरंगरोग को दूर करने के लिए इसकी १/८ रत्ती मात्रा देनी चाहिए। यदि छोटे-छोटे बच्चों को विरेचनार्थ इसको देना हो तो भी ३/४ रत्ती मात्रा में प्रयोग करना चाहिए ॥ ४४-४६ ॥ रसपुष्पस्य आमयिकः प्रयोगः रसपुष्पं सार्द्धगुञ्जद्वितयं स्वर्जिकान्वितम्। शीलितं रेचयत्येव कामं यामद्वयोत्तरम् ॥४७॥ शीलितं रसपुष्पन्तु वारिणा गुञ्जपादिकम्। विसूच्यास्तु समारम्भे विसूचीकृमिसंघनुत् ॥४८॥ रसागमपरिज्ञानविहीनो भिषगल्पधीः। निरन्तरं विशेषेण रसपुष्पं न योजयेत् ॥४९॥ अथास्य रोगप्रयोगः--रसपुष्पं २॥ गुञ्जामितं, स्वर्जिकाक्षारो माषार्द्धमितः, मिलितयोः सेवनाद् यामद्वयोत्तरं रेचनं स्यात्। अनुपानं जलम्। उपलक्षणञ्चै- तत् लवङ्गचूर्णादिना सहापि रेचनं करोत्येव। गुञ्जाचतुर्थांशो विषूचिकायाः प्रारम्भे। अनुपानं शृतशीतमुदकम्। रसपुष्पस्य च निरन्तरं प्रयोगो निषिद्धः। अत्रोपपत्तिः पूर्वमुक्तैवेति ॥ ४७-४९ ॥ भा.टी.—ढाई रत्ती रसकर्पूर को पाँच या सात रत्ती सज्जीखार (सोडा बाइ कार्ब) में मिलाकर जल या दूध के साथ सेवन करने से ६ घण्टे के बाद विरेचन होने लगता है। यदि विसूचिका रोग के आरम्भ में ही १/४ रत्ती रस- कर्पूर धो जल के साथ सेवन कराया जाय तो विसूचिका के कृमि मर जाने से रोग बढ़ जाने का डर नहीं रहता है। रसशास्त्र को पूर्ण रूप से न समझनेवाले अल्पबुद्धि वैद्यों को रसकर्पूर का बिना सोचे समझे सेवन नहीं करना चाहिए॥४७-४९ चन्दनादिवटिका रक्तचन्दनमथोषणां सिता कुङ्कुमं रससुमं लवङ्गकम्। तोलकैकमित मेव वै पृथक् त्वाददीत रसतन्त्रकोविदः ॥५०॥ रक्तिकैकमित वटी कृता प्रत्यहं तु नवनीतयोजिता। चन्दनादिवटिकेषमुत्तमा हन्ति दुर्जयफिरङ्गजां व्यथाम् ॥५१॥