समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
३१ विषयः पृष्ठम् ८२. रसद्दष्टिलक्षणाध्यायो व्यशीतितमः चित्रशास्त्रप्रसिद्धा, एकादश रसाः ... ६३२ तेषु शृङ्गाराद्यद्भुतान्तानां लक्षणम् ... ६३३ शान्तरसलक्षणम् ... ,, ललितादयोऽष्टादश दृष्टिविशेषाः ... ,, तेषु ललितादिविभ्रमान्तानां लक्षणम् ... ६३४ सङ्कुचितादिस्थिरान्तानां लक्षणम् ... ,, प्रतिमादिष्विष्टदृष्टीनामावश्यकताप्रतिपादनम् ... ६३५ ८३. पताकादिचतुष्षष्टिहस्तलक्षणाध्यायः त्र्यशीतितमः पताकादयश्चतुर्विंशतिरसंयुता हस्तविशेषाः ... ६३६ तेषु पताकस्य लक्षणं कर्माणि च ... ,, त्रिपताकस्य लक्षणं कर्माणि च ... ६३९ कर्तरीमुखार्धचन्द्रयोर्लक्षणं कर्माणि च ... ६४१ अरालस्य लक्षणं कर्माणि च ... ६४३ शुकतुण्डमुष्ट्योर्लक्षणं कर्माणि च ... ६४४ शिखरकपित्थखटकामुखानां लक्षणं कर्माणि च ... ,, सूचीमुखस्य लक्षणं कर्माणि च ... ६४६ पद्मकोशस्य लक्षणं कर्माणि च ... ६४७ सर्पशिरोमृगशीर्षकयोर्लक्षणं कर्माणि च ... ६४८ काङ्गूलालपद्मयोर्लक्षणं कर्माणि च ... ६४९ चतुरस्य लक्षणं कर्माणि च ... ,, भ्रमरहंसवक्त्रहंसपक्षाणां लक्षणं कर्माणि च ... ६५१ सन्दंशस्य लक्षणं कर्माणि च ... ६५३ मुकुलोर्णनाभताम्रचूडानां लक्षणं कर्माणि च ... ६५४ अथाञ्जल्यादयस्त्रयोदश संयुता हस्तविशेषाः ... ,, कर्कटस्वस्तिकखटकोत्सङ्गानां लक्षणं कर्माणि च ... ६५५ तेषु अञ्जलिकपोतयोर्लक्षणं कर्माणि च ... ,, दोललक्षणम् ... ६५६ पुष्पपुटस्य लक्षणं कर्माणि च ... ,, मकरलक्षणम् ... ६५७ गजदन्तलक्षणम् ... ,, अवहित्थस्य लक्षणं कर्माणि च ... ,, वर्धमानलक्षणम् ... ,, एषां प्रयोगाश्रिता नियमाः ... ,,
४२ विषयः पृष्ठम् चतुरश्रादय एकोनत्रिंशन्नृत्तहस्ताः ... ६५८ तेषु चतुरश्रविप्रकीर्णयोर्लक्षणम् ... ,, पद्मकोशलक्षणम् ... ६५९ अरालखटकामुखलक्षणम् ... ,, आविद्धवक्त्रकलक्षणम् ... ,, सूचीमुखलक्षणम् ... ,, रेचितहस्तलक्षणम् ... ,, उत्तानवञ्चितलक्षणम् ... ६६० अर्धरेचितलक्षणम् ... ,, पल्लवलक्षणम् ... ,, केशबन्धलक्षणम् ... ,, लताहस्तलक्षणम् ... ,, करिहस्तलक्षणम् ... ६६१ पक्षवञ्चितकलक्षणम् ... ,, पक्षप्रद्योतक लक्षणम् ... ,, गरुडपक्षलक्षणम् ... ,, दण्डपक्षोर्ध्वमण्डलिपाश्र्वमण्डलिनां लक्षणम् ... ,, उरोमण्डलिलक्षणम् ... ६६२ उरःपार्श्वार्धमण्डललक्षणम् ... ,,
॥ श्रीः ॥ श्रीगणेशाय नमः । महाराजाधिराजश्रीभोजदेवविरचितं समराङ्गणसूत्रधारापरनामधेयं वास्तुशास्त्रम् । महासमागमनो नाम प्रथमोऽध्यायः । देवः स पातु भुवनत्रयसूत्रधार- स्त्वां बालचन्द्रकलिकाङ्कितजूटकोटिः । एतत् समग्रमपि कारणमन्तरेण कात्स्न्यादसूत्रितमसूत्रयत येन विश्वम् ॥ १ ॥ सुखं धनानि ऋद्धिश्च सन्ततिः सर्वदा नृणाम् । प्रियाण्येषां तु संसिद्ध्यै सर्वं स्याच्छुभलक्षणम् ॥ २ ॥ यच्च निन्दितलक्ष्मा(च ? त्र)तदेतेषां विघातकृत् । अतः सर्वमुपादेयं (यद् ) भवेच्छुभलक्षणम् ॥ ३ ॥ देशः पुरं निवासश्च सभा वेश्मासनानि च । यद्यदीदृशमन्यच्च तत्तच्छ्रेयस्करं मतम् ॥ ४ ॥ वास्तुशास्त्रादृते तस्य न स्याल्लक्षणनिश्चयः । तस्माल्लोकस्य कृपया शास्त्रमेतदुदीर्यते ॥ ५ ॥ अथैकदा जगज्जन्महेतुमम्बुरुहासनम् । पृथ्वी पृथुभयभ्रान्ता चकिताक्षी समाययौ ॥ ६ ॥ प्रणम्य प्रणतिप्रह्वनिखिलत्रिदशेश्वरम् । सगद्गदमुवाचेति भूतधात्री पितामहम् ॥ ७ ॥
२ समराङ्गणसूत्रधारे भगवन्नहमेतेन पृथुना पृथुतेजसा । उप(ङ् ? द्रु)ता त्वां शरणं प्राप्ता त्रायस्व मां ततः ॥ ८ ॥ वदन्त्यामिति मेदिन्यामाविरासीदथो पृथुः । संरम्भमुक्तहृदयो ब्रह्माणं प्रणनाम च ॥ ९ ॥ जगादैनमथ स्निग्धध्वनिगम्भीरया गिरा । कुर्वंस्तद्यानहंसानां पयोदध्वनिशङ्कितम् ॥ १० ॥ त्वयास्मि जगतां नाथ ! जगतोऽधिपतिः कृतः । स्थापितानि च भूतानि सर्वाण्यपि वशे मम ॥ ११ ॥ तेष्वियं मम विश्वेश ! कदाचिद् वशवर्तिनी । समीकरोमि पाषाणजालान्यस्याः किलाधुना ॥ १२ ॥ व्यस्तानि धनुषा तावद् गौर्भूत्वेयं पलायिता । दोग्धुकामोऽहमप्येनां चिरमन्वगमं महीम् ॥ १३ ॥ यत्रक्वापि² प्रयात्येषा तत्र मामेव पश्यति । अपश्यन्त्यन्यतस्त्राणमदुग्धा त्वामुपस्थिता ॥ १४ ॥ अस्यां वर्णाश्रमस्थानविभागश्च विधास्यते । इयं च दुर्गमानेकक्षोणीधरकुलाकुला ॥ १५ ॥ विधास्येऽस्यां कथं त्वेतदिति मे शङ्कितं मनः । पृथुनेत्यथ विज्ञप्तो³ भगवानब्जसम्भवः ॥ १६ ॥ उवाच बोधयन्नेनं⁴ कृत्वा भूमिं च निर्भयाम् । इयं मही महीपाल ! विधिवत् पालिता सती ॥ १७ ॥ सस्यैरूत्पाद्य⁵ निष्पन्नैस्तव भोग्या भविष्यति । यच्च ते स्यादभिप्रेतं स्थानादिविनिवेशनम् ॥ १८ ॥ १ क. प्रतेरारम्भः । २ ख-द आदर्शौ अत आरभ्येते । ३ द. विज्ञप्ते । ४ द. ज्ञेवं विकीर्य विभयां भुवम् । ५ क. रद्यैव, द. रुपाय । गणपतिशास्त्रिभिः उपाय-इति पाठनिर्देशः कृतः अस्माभिः उत्पाद्य इति ।
विश्वकर्मणः पुत्रसंवादो द्वितीयोऽध्यायः । ३ तदेष त्रिदशाचार्यः सर्वसिद्धिप्रवर्तकः । १सुतः प्रभासस्य विभोः स्वस्त्रीयश्च बृहस्पतेः ॥ १९ ॥ २विश्वाभिसायीधीः सर्वं विश्वकर्मा करिष्यति । राजन्नसौ महेन्द्रस्य विदधावमरावतीम् ॥ २० ॥ ३अन्या अप्यमुना रम्याः पुर्यो लोकभृतां कृताः । त्वया क्षेत्रीकृतां मूर्त्तिं दृष्ट्वा साद्रिद्रुमामसौ ॥ २१ ॥ सन्निवेशान् पुरग्रामनगराणां विधास्यति । तद् गच्छ वत्स ! लोकानामितस्त्वं हितकाम्यया ॥ २२ ॥ भयोज्झिता त्वमप्युर्वि ! पृथोः प्रियकरी भव । काले स्मृतः स्मृतः पुण्यो राज्ञः प्रियचिकीर्षया ॥ २३ ॥ त्वमप्यखिलमेवैतद् ५विश्वकर्म(न्) ! करिष्यसि । इत्युक्तवा गमनमुपेयुषि प्रजेशे ६स्वं स्थानं क्षितिभुजि चाश्रिते मुदोर्व्याम् । प्रालेयावनिभृतमाजगाम खेलत्सिद्धस्त्रीपरिगतमाशु विश्वकर्मा ॥ २४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे 'महासमागमनो नाम प्रथमोऽध्यायः' ॥ अथ विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः । अथ पृष्ठे हिमगिरेः शशाङ्कशुचिरोचिषि । सिद्धामरवधूमुक्तमणि८मञ्जुगुहागृहे ॥ १ ॥ विस्तीर्णासनमासीनं सर्वज्ञमथ संस्मृताः । आययुर्विश्वकर्माणं चत्वारो मानसाः सुताः ॥ २ ॥ जयो विजयसिद्धार्थौ चतुर्थश्चापराजितः । तमुपागम्य शिरसा नेमुः प्राञ्जलयो मुनिम् ॥ ३ ॥ १ क. श्रुतप्रभावश्च विभो प्रीतये ते बृहस्पतिः । २ शा. विश्वातिशायि° । द. विश्वाभिसायी । ३ क. सुराणामपि चान्येषां । ४ द. ग्रामभगवादीनविं ५ क. विश्वकर्मा, द. विश्वकर्म । ६ द. यं । ७ द. पृथिव्याख्याना शास्त्रसंभवा° । ८ द. पाणिगुहा° । ९ द. स्मृताः । १० द. भूयो ।
४ समराङ्गणसूत्रधारे तानुवाच मुनिर्वत्सा ! विदितं वो यथा पुरा । १वास्तुब्रह्म सदा विश्वं व्याप्नोति सकलं जगत् ॥ ४ ॥ २धम्र्म्यं कर्म तदा स्वेष्ट३प्राप्त्यै लोकावनानि च । व्यवस्थाप्य चकारैष लोकपालश्च कल्पनाम् ॥ ५ ॥ अहमप्यमुना विश्वनाथेनाम्बुजजन्मना । लोकानां ४सन्निवेशार्थमादिष्टोऽस्मि स्वयम्भुवा ॥ ६ ॥ रम्याणि नगरोद्यानसभास्थानान्यथो मया । सुरासुरोरगादीनां निर्मितान्यात्मबुद्धितः ॥ ७ ॥ गत्वोर्वीं वैन्यनृपतेर्वत्साः ! प्रियचिकीर्षया । नगरग्रामखेटादीन् करिष्यामि पृथक् पृथक् ॥ ८ ॥ कार्ये त्वमुष्मिन् सकले मम विश्वसृजार्पिते । सम्यक्साहायकैर्भाव्यं भवद्भिरिति नः स्थितम् ॥ ९ ॥ यतस्त्रिभुवनालोकप्रोद्यतस्याब्जिनीपतेः । सहायतां तमश्छेदे कलयन्ति मरीचयः ॥ १० ॥ स्वयं करिष्येऽहमथो निवासाय पृथोः पुरीम् । विचित्रनगरग्रामखेटामतिमनोहराम् ॥ ११ ॥ भवन्तः पुनरागत्य चत्वारोऽपि चतुर्दिशम् । तांस्तान् निवेशान् कुर्वन्तु पृथग्जनकताश्रयान् ॥ १२ ॥ ६अन्तरेष्वध्वपाथोधीशैलानां सरितां तथा । विधातव्यानि दुर्गाणि नृपाणां भयशान्तये ॥ १३ ॥ वर्णप्रकृतिवेश्मानि संस्थानानि च लक्ष्मभिः । विधेयानि प्रतिग्रामं प्रतिपूर्ः प्रतिपत्तनम् ॥ १४ ॥ १ द. सपर्य्यादौ विश्वाप्यखिलं तथा; क....... व्याप्नोति सकलं जगत् । वास्तुब्रह्मेत्यादि मूल- स्थितः श्रष्ठः पाठः शास्त्रिभिः टिप्पण्यां प्रदत्तः, स तु पाटनप्रतेः प्रतीयते । २ द. धर्म्मं । ३ द. स्वेष्ट; क. श्रेष्ठच; ख. श्रेष्ठ । ४ ख. द. सत्रिवासार्थं । ५ द. प्रतौ मूलपाठः प्रोद्यत°, पश्चादिकृतः प्रद्योत° । क. त्रुटितः; ख. प्रद्योत° । ६ द. अन्तरेष्वध्वनाम्भोधि° । ७ ख. द. संजातभयशान्तये । ८ द. प्रतिष्टः ।
प्रश्नस्तृतीयोऽध्यायः । ५ तानित्थमात्मतनयानभिधाय सम्यक् सारार्थभूतमपरिस्फुटनोज्झितं च । १स्थानार्पितोरुभरनिर्वृतचित्तवृत्ति- स्तूष्णीं प्रभासतनयो नयविज्जगाम ॥ १५ ॥ इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे २विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः ॥ छ ॥ अथ प्रश्नो नाम तृतीयोऽध्यायः । अथ तेषु जयो नाम वाक्यं तद् विश्वकर्मणः । श्रुत्वा कृताञ्जलिः प्राह स्निग्धगम्भीरया गिरा ॥ १ ॥ ज्ञानैकनिधिरप्यस्मान् यत् सहायतया किल । वृणोषि तेन न वयमात्मानं बहु मन्महे ॥ २ ॥ तदिदानीं हितार्थे नः प्रजानामपि च प्रभो ! । अप्रमेयप्रभावस्त्वं सर्वमाख्यातुमर्हसि ॥ ३ ॥ पूर्वमेकार्णवे जाते जगति प्रलयं गते । महाभूतामरपुरीज्योतिषां कथमुद्भवः ॥ ४ ॥ किमाकारा किमाधारा किंप्रमाणा च मेदिनी । विस्तृतिः परिधिश्चास्या बाहुल्यमपि कीदृशम् ॥ ५ ॥ उच्छ्रायव्यासदीर्घत्वैः कैः केऽस्यां कुलभूभृतः । कति ख्यातानि वर्षाणि द्वीपा नद्योऽब्धयस्तथा ॥ ६ ॥ काः सूर्येन्दुग्रहर्क्षादिगतयश्च पृथक् पृथक् । भूमेरुपरि किं चैषामन्योन्यं प्रोक्तमन्तरम् ॥ ७ ॥ किमाधारं दिवि ज्योतिश्चक्रं भ्रमयते च कः । लोके कथं महाभूतान्यूर्ध्वाधो बिभ्रति स्थितिम् ॥ ८ ॥ १ क. स्थानार्पणातिशयनिं । २ क. ' जयविजयसिद्धार्थापराजितसुतागमनो नाम ' ।
६ समराङ्गणसूत्रधारे। युगधर्मव्यवस्थाभिः काश्चादौ लोकवृत्तयः। कश्चादिमस्ततो राज्ञां ग्रहाणां वर्णिनां कथम् ॥ ९ ॥ कति देशाः कति भुवः पृथक्त्वेन निरूपिताः। कार्यः क्व च कथं सन्निवेशो जनपदाश्रयः ॥ १० ॥ ˚व्यक्तचिह्नैः स्वनस्पर्शगन्धवर्णरसादिभिः। काः शस्ता निन्दिताः काश्च पुराणामपि भूमयः ॥ ११ ॥ कार्यं केन विधानेन भूभृत्पुरनिवेशनम्। किं फलं सुविविष्टेऽस्मिन् दुर्विशिष्टे च किं पुनः ॥ १२ ॥ कतिप्रकारं दुर्गं च दुर्गकर्मक्रमश्च कः। किमग्रपुरसंस्थानमनिन्द्यं किं च निन्दितम् ॥ १३ ॥ कश्चात्रानुक्रमविधिः प्रमाणैरुपपादितः। प्राकारगोपुराट्टालपरिखावप्रकर्म च ॥ १४ ॥ तमङ्गनिर्गमद्वारप्रतोल्यट्टालकादिभिः। कीदृशः प्रविभागश्च रथ्याचत्वरवत्मर्भिः ॥ १५ ॥ भूमिप्रमाणसंस्थानं सीमा चैं क्षेत्रदिक्पथैः। : नगरग्रामखेटानां निवेषाः स्युः पृथक् पृथक् ॥ १६ ॥ पुरस्याभ्यन्तरे पूर्वं कैर्द्रव्यैावयवक्रमैः। कस्मिन् स्थाने कथं कार्यं शक्रध्वजनिवेशनम् ॥ १७ ॥ प्रतिसंवत्सरं तस्य नियुक्तस्य कथं पुनः। हिताय नृपलोकानां विधातव्यो महोत्सवः ॥ १८ ॥ गृहेषु केषु केष्वत्र कासु कासु ककुप्सु च। भागैर्बाह्यान्तरैः कैः कैः कार्याः काः काश्च देवताः ॥ १९ ॥ कैः कैर्यानपरीवारवर्णरूपविभूषणैः। कार्याः कैः कैः सुरा वस्त्रवयोवेषायुधध्वजैः ॥ २० ॥ १ क. ख. द. व्यक्तिचिह्नैः। २ द. विनिन्दितम्। ३ क. ग. भू. पाठः, ख. द. च।
प्रमाणमिति संस्थानसङ्ख्यानोच्छ्रयलक्ष्मभिः । प्रासादाः कस्य के वा स्युः सुरराजद्विजातिषु ॥ २१ ॥ प्राकारपरिखागुप्तं पुरे स्याद् गोपुरं क्व च । युग्ममध्याम्बुवेश्मनि क्व च स्युः क्व महानसम् ॥ २२ ॥ कोष्ठागरायुधस्थानभाण्डागारनिवेशनैः । व्यायामवृत्तसङ्गीतस्नानधारागृहादिभिः ॥ २३ ॥ शय्यावासगृहप्रेक्षावेश्मादर्शगृहैः पृथक् । क्रीडादोलाश्रयारिष्टगृहान्तः पुरवेश्मभिः ॥ २४ ॥ विटङ्कभ्रमनिर्यूहकक्षासंयमनादिभिः । अशोकवनिकाभिश्च लतामण्डपवेश्मभिः ॥ २५ ॥ वापीभिर्दारुगिरिभिश्चित्रामिः पुष्पवीथिभिः । एतैर्विशेषैरन्यैश्च विचित्रैर्विपिनाश्रयैः ॥ २६ ॥ मानोन्मानक्रियायामद्रव्याकृतिविनिर्मितः । निकेतननिवेशः स्याद् राज्ञां भागाश्रितः कथम् ॥ २७ ॥ पुरोधःसैन्यभूश्रेष्ठदैवचिन्तकमन्त्रिणाम् । कं कं च भागं प्राप्य स्युर्निवेशा नृपवेश्मनः ॥ २८ ॥ पुरे स्युर्दिक्षु भागेषु पदभागेषु केषु च । विप्रराजन्यविट्शूद्रास्तज्जैरन्तरजैः समम् ॥ २९ ॥ तथा कृषितुलांशिल्पकलापण्योपजीविनः । हिंसाश्रिताश्च पुरुषा निवेश्याः स्युः कथं क्व च ॥ ३० ॥ निवेशाः कीदृशाश्चैषां कियन्तो वा भवन्ति ते । शस्यं लोकेन वा तेषां कैः प्रवेशजलभ्रमैः ॥ ३१ ॥ धिष्ण्यमात्रं कतिविधं द्रव्याण्याद्यानि कानि वा । हेतुरेषां च सर्वेषां स्याच्च किह्यनुक्रमः ॥ ३२ ॥ १ द. शिल्पकल्याणाद्योप॑ । २ द. सस्यां ( ? शस्यं ) लोकेन वा तेषां । क. शस्यन्ते केन वा तेषां ।
८ समराङ्गणसूत्रधारे भजन्ते योगमन्योन्यं कानि द्रव्याणि कैः सह । कानि योगं न गच्छन्ति कैर्वा कः क्व वसेत् पुमान् ॥ ३३ ॥ इष्टकाकर्म किं चेष्टं कीर्तिता कतिधा च भूः । परिकर्मक्रमस्तासां वह्नयम्बुपवनैश्च कः ॥ ३४ ॥ गुरुवर्णिध्वजोर्वीशत्तद्गलप्रतिमा पुराम् । वृक्षाः के के प्रशस्ताः स्युर्गृहार्थे के च गर्हिताः ॥ ३५ ॥ तच्छेदस्रावसंभूतं शब्ददिक्पातगर्भजम् । विज्ञायते कथं कर्तृकारकादिशुभाशुभम् ॥ ३६ ॥ प्रमाणं तक्षणच्छेदैः १शोधितानां कथं भवेत् । आहृत्य स्थापनं पूर्वं दारूणां स्थानके क्व च ॥ ३७ ॥ सामान्यतोऽखिलानां काः काश्च जातेर्विशेषतः । प्रशस्तैर्लक्ष्मभिर्युक्ता भूमयः परिकीर्तिताः ॥ ३८ ॥ शल्योद्धारविधिः कीदृक् कीदृशं भूमिकर्म च । २दिग्ग्रहः सूत्रणं चाधिवासनं च कथं भवेत् ॥ ३९ ॥ प्रमाणं मूलपादस्य शिलान्यासे च को विधिः । विभज्यते कथं वेश्म शालालिन्दविभाजनैः ॥ ४० ॥ मानानि कानि भित्तीनां पीठानामुच्छ्रयाश्च के । कथं तानि विकल्प्यानि वर्णानां मेखलादिभिः ॥ ४१ ॥ समस्तकानां स्तम्भानां द्वारस्तम्भासनैः सह । नागवीथ्युपधानानां समं कण्ठविनिर्गमैः ॥ ४२ ॥ जयन्तीसङ्ग्रहतुलाकार्याणां वास्तुनोऽपि च । कीदृशं फलकानां च प्रमाणं परिकीर्तितम् ॥ ४३ ॥ स्वमानात् सर्ववर्णानां तलोच्छ्रायास्तु कीदृशाः । का गवाक्षकपोतालिवेदिकाजालकक्रियाः ॥ ४४ ॥ १ द. ख. ग. साधितानां । २ द. दिग्वहसू० ।
प्रश्नस्तृतीयोऽध्यायः । ९ स्थूणा ^१निस्सृष्टिकोत्सूका मृगा(ल्यो ? ल्यु)पतुलास्तथा । सान्तःप्राणिशिरोवंशाः किंप्रमाणाः प्रकीर्तिताः ॥ ४५ ॥ छाद्योदयाः कियन्तः स्युर्वृत्तच्छाद्यक्रमश्च कः । त्र्यश्राणां खण्डवृत्तानां लुपानां च क्रियाः कथम् ॥ ४६ ॥ सीमालिन्दशिरस्तासां कीदृशी ^३चावलम्बना । कतिप्रकाराः प्रासादशिरसां च विकल्पनाः ॥ ४७ ॥ यच्चान्यदेवमादि स्यात् प्रासादभवनादिषु । द्रव्यकाष्ठकलासङ्गि प्रमाणं तस्य कीदृशम् ॥ ४८ ॥ शालालिन्दप्रमाणानि चतुःशालेषु धामसु । ज्यायोमध्ययवीयस्सु मूषाभिः काष्ठकल्पना ॥ ४९ ॥ एकद्वित्रिचतुःशालान्येषां संयोगतोऽपि च । कथं कति च वेश्मानि ^४कल्प्यन्ते प्रविभागशः ॥ ५० ॥ कथं च षोडशचतुःषष्ट्येकाशीतयः शतम् । संविभागाः पदानां स्युः कथमत्रामरस्थितिः ॥ ५१ ॥ आद्यो नवपदो वास्तुरन्त्यः साहस्रिकः कथम् । अङ्गप्रत्यङ्गभागेषु केषु केषु क्व तस्थुषः ॥ ५२ ॥ कथमेते सुराः सर्वे वास्तोरस्य व्यवस्थिताः । एतद्वंशशिरश्श्रोत्रुःकुक्षिहृन्मूर्धमर्मसु ॥ ५३ ॥ जायेत पीडा द्रव्येषु सन्निविष्टेषु कस्य का । वास्त्वारम्भप्रवेशेषु यात्रायां स्थापनेषु च ॥ ५४ ॥ दूतस्वप्ननिमित्ताद्यैः कथं ज्ञेयं शुभाशुभम् । दारुक्रियासु चित्रेषु तथा लेप्यक्रियासु च ॥ ५५ ॥ ^६योज्यं किं किमयोग्यं च किं भूपभवनादिषु । हस्तस्य लक्षणं मानसंज्ञा वै ज्ञायते कथम् ॥ ५६ ॥ १ द. णिमृष्टिकोत्सूकामृगाल्योपतुलास्तथा । २ द. लुमानां । ३ द. भावलम्बना । ४ द. कल्पन्ते । ५ द. शिरोकक्ष । ६ द. अंगप्रत्यंगयोज्यं किं किमयोग्यं च । वा. २
१० समराङ्गणसूत्रधारे किं हव्येष्वग्निलक्ष्म स्यात् किं च निर्युक्तलक्षणम् । अनुक्रमेण वर्णानां बलिकर्म च कीदृशम् ॥ ५७॥ विधेयं विधिना केन भवने च प्रवेशनम् । पतिते स्फुटिते जीर्णे प्लुष्टे वज्राशनिक्षते ॥ ५८ ॥ निमग्नभग्ननिर्भिन्नप्रशीर्णेषु च वास्तुषु । मधुवल्मीकसंभूतौ प्रविरूढे च दारुणि ॥ ५९ ॥ जायते किं फलं कुत्र प्रायश्चित्तेन को विधिः । इत्येवमादिकमनेकविधं विधानं वेश्मोपगं च पृथगाश्रयसंभृतं च । अस्मास्वनल्पकरुणार्द्रितचित्तवृत्तिर्व्याख्यातुमर्हसि समस्तमनु- क्रमेण ॥ ६० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रश्नाध्यायस्तृतीयः ॥ अथ महदादिसर्गश्चतुर्थोऽध्यायः । जयस्येति समाकर्ण्य विश्वकर्मा च तद् वचः । जगाद गर्जदम्भोदध्वनिगम्भीरया गिरा ॥ १॥ साधु वत्स ! त्वया सम्यक् प्रज्ञयातिविशुद्धया । प्रश्नोऽयमीरितो वास्तुविद्याब्जवनभास्करः ॥ २ ॥ स त्वं निधाय प्रश्नानां समुदायममुं हृदि । वदतो मेऽवधानेन शृणु यद् ब्रह्मणोदितम् ॥ ३ ॥ इदमासीद् युगान्ताग्निप्लुष्टं संवर्तकादिभिः । समुत्सृजद्भिरम्भांसि विश्वमेकार्णवीकृतम् ॥ ४ ॥ तमोभूते ततस्तस्मिन् भोगिपर्यङ्कमाश्रितः । हरिः सुष्याप सलिले कृत्वोदरगतं जगत् ॥ ५ ॥ अथास्य नाभावम्भोजमभूत् तस्मिन्नजायत । सर्वज्ञानाश्रयः श्रीमांश्चतुर्वक्त्रः सुरेश्वरः ॥ ६॥ स कदाचिद् दधच्चेतः प्रजासृष्टिं प्रति प्रभुः । महान्तमसृजत् तत्र पूर्वं विश्वस्य हेतवे ॥ ७ ॥
महदादिसर्गश्चतुर्थोऽध्यायः । ११ त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः । राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥ ८ ॥ तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात् । व्योमादीनि धरान्तानि स्वैः स्वैर्युक्तानि तैर्गुणैः ॥ ९ ॥ अधरोत्तरभावश्च सम्यगेषामथोच्यते । आदौ पृथ्वी ततोऽधस्तादापस्तासां च पावकः ॥ १० ॥ तस्याप्यधस्तात् पवनस्ततः खमवकाशदम् । भूतादिस्थं वियत् सोऽपि महता परिवारितः ॥ ११ ॥ महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः । ग्राह्यग्राहकभावेन व्यक्तो भूतसमुद्भवः ॥ १२ ॥ आधाराधार्यभावश्च यथार्थौ च स्थितिव्ययौ । महाभूतानि सगुणान्येवं सृष्ट्वा ततः प्रभुः ॥ १३ ॥ मनः पुनरसौ सर्गे भौतिके सम्यगादधौ¹ । सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान्² ॥ १४ ॥ ³नागान् मुनीनप्सरसो मनसा समजीजनत् । अर्केन्दू चक्षु (षी ? षो) जातौ गगनभ्रमणक्षमौ ॥ १५ ॥ गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत । इन्द्रियेभ्यश्च पञ्चभ्योऽभूत् ताराग्रहपञ्चकम् ॥ १६ ॥ ग्रहत्वं पुनरेतेषामिन्द्रियग्रहणाद् विदुः । सुरेन्द्रचापचिह्नानां विद्युद्वलयशालिनाम् ॥ १७ ॥ भीमाशनिभृतां चासीत् केशेभ्योऽम्बुमुचां भवः । विश्वमापूरयन् कृत्स्नमाविरासीत् तदिच्छया ॥ १८ ॥ त्रिलोकीपावनस्तिर्यग्गामी चण्डः समीरणः । ततश्चण्डानिलोद्भूतमुपर्यर्कांशुतापितम् ॥ १९ ॥ १ द. आदधे । २ द. राक्षसान् । ३ ख. ग. द. सावित्री पुनरप्सरसो ।
१२ समराङ्गणसूत्रधारे वायुभिः शोषमानीतं जगाम घनतां पयः । तस्योपरिष्टादम्भोधेरधः कुण्डलितं वपुः ॥ २० ॥ विष्णोः १सज्या( ? शय्या )त्वमभ्येत्य धत्तेऽनन्तोऽखिलां भुवम् । न तप्तं येषु येष्वम्भः प्रदेशेष्वर्करश्मिभिः ॥ २१ ॥ नीतं न वानिलैः शोषं तत्र तत्राब्धयोऽभवन् । महाम्भोवीचिसङ्घाता विक्षिप्ताश्चण्डमारुतैः ॥ २२ ॥ यत्र यत्रापुरैक्यं ते तत्र तत्राद्रयोऽभवन् । निश्चलत्वार्थमवनिंश्चर्मवद् वितताथ तैः ॥ २३ ॥ शैलैः कीलैरिव स्थानेष्वाचिता तेषु तेष्वियम् । वृद्धिं गताद्रिनिःष्यन्दैर्भूभृतां प्रविभाजगा ॥ २४ ॥ निम्नगाभूत् ततोऽम्भोधेः कान्ता निम्नानुसारिणी । मेदिन्यन्तेषु २जलधिपर्यन्तेषु विनिर्ययुः ॥ २५ ॥ अम्भांसि यत्र यत्रासंस्ते द्वीपाश्चित्ररूपिणः । सनिम्नगाम्बुधिद्वीपा विभक्ताखिलभूधरा३ ॥ २६ ॥ व्यक्ता बभूव कृत्स्नैवं भूमिर्भूतानि बिभ्रती । स चक्रे रौरवादीनां निरयाणामधः क्षितेः ॥ २७ ॥ स्वकर्मफलभुक्त्यर्थं स्थानं दुष्कृतकर्मणाम् । जरायुजाण्डजोद्भिज्जस्वेदजैः सह स प्रभुः ॥ २८ ॥ चतुर्धैत्यसृजल्लोके भूतग्रामं चराचरम् । द्वेधा जरायुजास्तत्र मनुष्याः पशवस्तथा ॥ २९ ॥ ग्राम्याः सप्ताभवंस्तेषु सप्तारण्यकृतालयाः । पुमान् गौस्तुरगच्छागौ मेषो वेगसरः खरः ॥ ३० ॥ ग्रामवासैकनिरताः सप्तैते परिकीर्तिताः । सिंहद्विपोष्ट्रमहिषाः शरभो गवयः कपिः ॥ ३१ ॥ १ द. सज्यात्व ( ? शय्यात्व ); ग. सच्याल । २ द. जलधेः । ३ द. भूधराः ।
भुवनकोशः पञ्चमोऽध्यायः । १३ अरण्यगोचरा जीवाः सप्तैते वत्स ! निर्मिताः । धर्माधर्मविवेक्तिंत्वाच्छ्रेयान् ग्राम्येषु पूरुषः ॥ ३२ ॥ अरण्यचारिषु श्रेष्ठः सिंहः शौर्यबलादिभिः । सुपर्णा भुजगाः कीटा येऽपि च स्युः पिपीलिकाः ॥ ३३ ॥ चतुर्धैत्यण्डजन्मानो जन्मनस्ते प्रकीर्त्तिताः । २क्लेद (केप ? केश) समुद्भूताः कृमियूकादिजन्तवः ॥ ३४ ॥ सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः । उद्भिज्जाः पञ्चधा भूत्वा निर्दिष्टाः स्थावराश्च ते३ ॥ ३५ ॥ द्रुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः । छन्नान्तःकरणत्वं च स्वस्थानात्यागितापि च ॥ ३६ ॥ छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम् । गायत्री भूतसंज्ञे(षां ? षा) चतुर्विंशतिपर्विका ॥ ३७ ॥ ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम् । भुवन'भूजलवह्निमरुद्वियत्प्रमुख एष भवस्तव कीर्त्तितः । वसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स ! मे ॥३८॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे महदादिस(ङ्गा ? र्गा )ध्यायश्चतुर्थः ॥ अथ भुवनकोशः पञ्चमोऽध्यायः । अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते । विष्कम्भपरिधी वत्स ! बाहुल्यमपि च स्फुटम् ॥ १ ॥ विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः । लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः । विष्कम्भत्रिगुणो यावद् विष्कम्भांशश्च पञ्चमः ॥ २ ॥ १ द. विवेक्तित्वा । २ द. केशकोषेषु (?) । ३ ख. ग. द. ये ।
१४ समराङ्गणसूत्रधारे मेदिन्याः परिधिस्तावद्योजनैः परिकीर्त्तितः । द्वात्रिंशत्कोटयः षष्टिलक्षाणि परिधिः क्षितेः ॥ ३ ॥ अशीतिश्च सहस्राणि योजनानां प्रकीर्त्तितः । योजनानां सहस्राणि विंशतिर्लक्षयोर्द्वयम् ॥ ४ ॥ इति बाहुल्यमेतस्याः क्षितेर्वत्स ! तवोदितम् । चतुर्णां सलिलादीनां भूतादेर्महतोऽपि च ॥ ५ ॥ उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः । तोयादिषु स्थितेयं भूश्चक्रवद् वृत्तशालिनी ॥ ६ ॥ पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात् । प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥ ७ ॥ द्वीपादीनां तु पाथोघिनिवेशः पुनरुच्यते । द्वीपानामम्बुधीनां च सप्तानामपि मध्यगः ॥ ८ ॥ जम्बूद्वीपो भवेद् वृत्त:^३ सहस्रशतविस्तृतः । हिमाद्रिर्हेमकूटाख्यो निषधो नीलसंज्ञितः ॥ ९ ॥ श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः । एतस्मादुत्तरेणाद्रेस्तुषाराङ्कितमेखलात् ॥ १० ॥ पूर्वापरायताः सर्वेऽप्यद्रयो यावदम्बुधि । अन्तरा नीलनिषधौ जम्बूद्वीपस्य नाभिगः ॥ ११ ॥ वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुर्महाचलः । उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥ १२ ॥ सेवितः सिद्धनारीभिरानीलनिषधायतः । सुमेरोः पश्चिमेनाद्रिर्गन्धर्वकुलसङ्कुलः ॥ १३ ॥ माल्यवत्सदृशायामो महीभृद् गन्धमादनः । पर्वतावुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥ १४ ॥ १ द. पात्रस्थापर; शास्त्रिभिः 'वर' पाठः टिप्पण्यां दत्तः । २ द. ख. ग. दीपावनीषु पाथोघेः । ३ क. सम ।
भुवनकोशः पञ्चमोऽध्यायः १९ योजनानां सहस्रे द्वे १सार्धे स्यादुच्छ्रयस्तयोः । श्वेतश्च हेमकूटश्चैत्यन्तयोः पृथिवीधरौ ॥ १५ ॥ योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः । निषधाचलनीलाद्रिमाल्यवद्गन्धमादनाः ॥ १६ ॥ सहस्रयोजनोच्छायाश्चत्वारोऽमी पृथक्पृथक् । एतेऽष्टावपि शैलेन्द्राः सहस्रद्वयविस्तृताः ॥ १७ ॥ उच्छ्रयार्धमधश्चापि विलग्नाः सह मेरुणा । मेरोः समुच्छ्रयोऽशीतिः सहस्राणि चतुर्युता२ ॥ १८ ॥ षोडशाधः सहस्राणि द्वात्रिंशन्मूर्ध्नि विस्तृतिः३ । जम्बूतरुर्महान् मध्ये सुमेरोर्निषधस्य च ॥ १९ ॥ द्वीपस्यामुष्य यद्योगाज्जम्बूद्वीप इति श्रुतिः । शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् ॥ २० ॥ महान्तो निवसन्त्यत्र पिशाचा यक्षराक्षसाः । कूटैर्हेममयैर्हेमकूट इत्यवनीधरः ॥ २१ ॥ यं सर्वतो निषेवन्ते सदा चारणगुह्यकाः । तरुणार्कप्रभाजालप्रतिमो निषधाचलः ॥ २२ ॥ निवसन्ति सुखं तत्र शेषवासुकितक्षकाः । हेमाब्जकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥ २३ ॥ अत्रामराः साप्सरसस्त्रयस्त्रिंशद् वसन्ति ते । वैदूर्यनद्धैः शिखरैर्नीलो नीलमहीधरः ॥ २४ ॥ कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम् । श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभिर्वृतः ॥ २५ ॥ दोर्दर्पशालिनां यत्र निवासस्त्रिदशद्विषाम् । महानीलमयो बर्हिपिच्छच्छायो बहिर्महान् ॥ २६ ॥ १ द. ख. ग द्वेद्वे सार्धे उच्छ्रं । २ द. चतुर्युताः । ३ द. विस्तृतः ।
१६ समराङ्गणसूत्रधारे। पितॄणामालयः शृङ्गैरूच्छ्रितैः शृङ्गवान् गिरिः। हिमाचलस्य याम्येन क्षारान्धिवृतमैन्यतः ॥ २७ ॥ वर्षं स्याद् भारतं नाम प्रथमं कार्मुकाकृति। तुषारनिलयस्याद्रेर्हेमकूटाचलस्य च ॥ २८ ॥ मध्ये किंपुरुषं नाम द्वितीयं वर्षमीरितम्। अन्तरे हेमकूटस्य निषधस्य च भूभृतः ॥ २९ ॥ हरिवर्षमिति प्रोक्तं तृतीयं वर्षमुत्तमम्। निषधाचलनीलाद्रिमाल्यवद्गन्धभूभृताम् ॥ ३० ॥ चतुर्णां मध्यगं वर्षं तुर्यमस्मिन्निलावृतम्। उत्तरे नीलशैलस्य याम्ये च श्वेतभूभृतः ॥ ३१ ॥ पञ्चमं वर्षमत्यर्थरम्यं रम्यकसंज्ञितम्। श्वेतशृङ्गवतोः शैलराजयोरनयोरिह ॥ ३२ ॥ मध्ये षष्ठं हिरण्यांशुरम्यं हैरण्यकाह्वयम्। अस्योत्तरे शृङ्गवतो याम्ये च क्षारवारिधेः ॥ ३३ ॥ कुरुवर्षाभिधं वर्षमुत्तरेण प्रचक्षते। अन्तरा नीलनिषधौ प्राग्भागे माल्यवद्गिरेः ॥ ३४ ॥ भद्राश्वमष्टमं वर्षं प्राक्समुद्रान्तमीरितम्। गन्धमादनशैलस्य प्रत्यक् प्राक् चापाम्बुधेः ॥ ३५ ॥ नवमं वर्षमाचार्याः केतुमालं प्रचक्षते। इति प्रोक्तानि वर्षाणि नवामूनि मया तव ॥ ३६ ॥ साम्प्रतं पुनरेतेषां प्रमाणमवधारय। प्रमाणेन सहस्राणि चतुस्त्रिंशच्चतुर्दिशम् ॥ ३७ ॥ योजनानामिहेच्छन्ति चतुरश्रमिलावृतम्। प्राक्प्रत्यग्भागगे वर्षे तस्योदग्याम्यतः समे ॥ ३८ ॥ १. द. ख. ग. मध्यतः।
भुवनकोशः पञ्चमोऽध्यायः । १७ एकत्रिशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते । यान्युक्तानि षडन्यानि वर्षाण्येभ्योऽवराणि ते ॥ ३९ ॥ तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता । वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥ ४० ॥ जीवन्त्ययुतमब्दानां जात्यजाम्बूनदत्विषः । हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥ ४१ ॥ १सायुतं च सहस्रं ते जीवन्ति रजतत्विषः । इलावृते नराः पद्मरागभासोद्गतास्तथा ॥ ४२ ॥ जम्बूफलरसाहाराः सपादायुतजीविनः । नास्मिन् मेरुतटच्छन्ने तारकार्केन्दुरश्मयः ॥ ४३ ॥ स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी । कैरवोदरसच्छाया भद्राश्वे साङ्गना नराः ॥ ४४ ॥ नीलाभ्रकफलाहारा भवन्त्यत्रायुतायुषः । दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥ ४५ ॥ शरदमयुतं तेषामायुः पनसभोजिनाम् । श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग् जनः ॥ ४६ ॥ हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुषः । श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्मये ॥ ४७ ॥ जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः । कुरुष्वभीष्टदैर्वृक्षैर्जीवन्ति स्त्रीयुता नराः ॥ ४८ ॥ सपादमयुतं देवगर्भाभा गौरकान्तयः । पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥ ४९ ॥ शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदा सुखी । वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥ ५० ॥ उद्भिन्नाद्रिनदीभिश्च तैस्तैस्तुङ्गैश्च पादपैः । उदश्वद्वीचिमालेन लावणेनाम्बुधिना बहिः ॥ ५१ ॥ १ द. अयुतं सहस्रान्ते । वा. ३
परिक्षिप्तोऽयमुक्तस्ते जम्बूद्वीपो मयाखिलः । द्वादशाम्बुनिधावत्र पृथग् भूमिभृतः स्थिताः ॥ ५२ ॥ त्रयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः । मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥ ५३ ॥ नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे । उदग्भागेऽपि च द्रोणकङ्कचन्द्रा इति त्रयः ॥ ५४ ॥ धूम्रको दुन्दुभिश्चैव सार्द्रकश्चेति पूर्वतः । सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ॥ ५५ ॥ मग्नास्तदर्धमम्भोद्यौ विस्तुताश्च धराधराः । जुष्टाः सर्वै सुरैः शृङ्गौढिलीढविहायसः ॥ ५६ ॥ ज्वलितौषधयः कान्तविचित्रद्रुमवीरुधः । द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ॥ ५७ ॥ गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः । क्षीराज्यदधिमद्येक्षुरसस्वाद्वम्भसोऽर्णवाः ॥ ५८ ॥ द्वीपान् शाकादिकानेते परिवार्य स्थिताः क्रमात् । खद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥ ५९ ॥ अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः । यथाक्रमं स्युर्द्विगुणास्तथाम्भोनिधयोऽपिच ॥ ६० ॥ शाके सप्ताद्रयस्तेषूदद्यो जलधरस्तथा । नारको रैवतः श्यामो राजतोऽर्थाम्बिकेयकः ॥ ६१ ॥ चतुःसाहस्रिकस्तेषां विष्कम्भोऽर्धं समुच्छ्रयः । तदर्धं भूप्रदेशश्च सेवितानां सुरर्षिभिः ॥ ६२ ॥ वृत्तानां द्वीपवत् तेषां बाह्यतोऽमूननुक्रमात् । वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥ ६३ ॥ जलदाख्यं कुमारं च सुकुमारं मणीचकम् । कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥ ६४ ॥
१ द. यांबिको जयः । ख. जांबिको॑ । जयः ग. पाठः ।