सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
९४ सात्वतसंहिता तथा च लक्ष्मीतन्त्रे— 'देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी' (३९।३०) इति । एतद्गोमात्रानन्तरं बीजमात्रा विनिवेदनीया । 'ओषधीः शालिपूर्वाश्च स्रक्फलाढ्यं वनस्पतिम् । मूर्तं निवेदयेत् पूर्वम्' (ई०सं० ५।७; पा०सं० ६।३७९-३८०) इतीश्वरादिषु प्रतिपादनात् प्रभूतं प्रचुरमित्यर्थः । नैवेद्यं = पायसान्नादि-हविरष्टकम् । भक्ष्याणि अपूपानि, भोज्यानि फलानि । तथा च पारमेश्वरे—'भक्ष्याण्यपूपपूर्वाणि भोज्यानि तु फलानि च । लेह्यानि मधुपूवार्णि चोध्याण्याम्रादिकान्यपि । पेयानि क्षीरपूर्वाणि अनुपानान्वितानि च ।' (१८।३८६-३८७) इति । मधुराद्या रसा सर्वे इत्यनेन षण्णामपि रसानां भगवन्निवेदनार्हत्वमुक्तं भवति । यद्यपि— अपक्वव्रीहिविहिततण्डुलेनैव साधितम् । भक्ष्यं दुग्धाज्यसंसिक्तं गुलखण्डफलान्वितम् । अक्षारलवणोपेतं देवानां हविरुच्यते ॥ —(ई० २५।८८-८९; पा० १८।१६४-१६५) इति मधुररसमात्रस्य देवतार्हत्वमुक्तम्, तथापि व्रतयज्ञादिविषयत्वमात्रं बोध्यम्; अन्यत्र सर्वेषामपि रसानां समर्पणीयत्वोक्तेः । तथा चेश्वरपारमेश्वरयोः— अक्षारलवणं सिद्धं गुलक्षीरफलान्वितम् । शान्तये व्रतयज्ञे च संसाध्यं हविरुत्तमम् ॥ इति । —(ई० २५।९०-९१; पा० १८।१६७) शाकफलमूलानां ग्राह्याग्राह्यत्वविवेचनं हविःसाधनविधानं पानकादिप्रकल्पनं तत्तन्निवेदनप्रकारादिकं सर्वमीश्वरादिषु विस्तरेणोक्तं द्रष्टव्यम् । सरलतिलमात्रा सुव- र्णादिपात्रेण निवेदनीया । तथा चेश्वरे— तिलान्यथ सुरत्नानि सुवर्णे वाथ राजते ॥ पात्रे कृत्वाऽथ मात्रार्थं देवाय विनिवेदयेत् । (५।२२-२३) इति । ताम्बूलम्— लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् । जातीपूगफलोपेतं ससुगन्धच्छदं बहु ॥ कर्पूरचूर्णसंमिश्रं मुक्ताचूर्णविमिश्रितम् । मातुलुङ्गफलोपेतं नालिकेलफलान्वितम् ॥ प्रदद्यात् प्रणतश्चान्ते ताम्बूलं जगतः पतेः । —(ई०सं० ५।२३-२५) इत्युक्तलक्षणं ज्ञेयम् । पूर्वमलङ्कारासने ताम्बूलस्य समर्पितत्वात् पुनरित्युक्तम् ॥ ६३-६९ ॥ रूई से परिपूर्ण गद्दे, जो क्षौम वस्त्र से आच्छन्न हो, ऐसा आसन प्रदान करे । फिर प्रधान अर्घ्यपात्र, जो स्वच्छ तथा सुगन्ध पूर्ण हो, उसे अलग पात्र में स्थापित कर समर्पण करे । इसके बाद दधि, मधु, घृत युक्त मधुपर्क, फिर शीतल तर्पण जल तथा पूर्व कथित उद्वर्तन चूर्ण प्रदान करे ॥ ६३-६५ ॥
षष्ठः परिच्छेदः ९५ तथा हस्तोद्वर्त्तनार्थ सुगन्धित द्रव्यं तदनन्तर भगवान् को आचमन देवे । तदनन्तर अलङ्कृत, सुरूपा एवं माल्यादि से शोभित गौ प्रदान करे ॥ ६६ ॥ तत्पश्चात् अनेक प्रकार के भक्ष्य भोज्य (अपूप फल पायसादि) सहित पर्याप्त नैवेद्य, मधुर आदि षड् रस सभी प्रकार के शाक, सभी प्रकार के फल सहित मूल पवित्र पानक (दुग्धादि) जो मधुपर्क के समान स्वादिष्ट हों, उसे निवेदन करे । फिर आचमन के लिये सब प्रकार का अर्हणोदक देवे । फिर रत्ननिर्मित पात्र में तिल, पुनः ताम्बूल निवेदन करे ॥ ६७-६८ ॥ गन्धदिग्धौ करौ कृत्वा मुद्राबन्धमथाचरेत् ॥ ६९ ॥ मध्यमानामिकाभ्यां तु द्वन्द्वयुक्तं करद्वयात् । पराङ्मुखं च सुस्पष्टं कृत्वा योज्यं परस्परम् ॥ ७० ॥ आमूलान्नखपर्यन्तं नैरन्तर्येण यत्नतः । समुत्ताने करतले शेषाश्चाङ्गुलस्तथा ॥ ७१ ॥ अधरोत्तरयोगेन वामदक्षिणतस्तथा । तर्जन्यामूर्ध्वतोऽङ्गुष्ठे सम्मुखे सम्प्रसार्य च ॥ ७२ ॥ निविष्टा हृदयोद्देशे कार्याऽथ जपमाचरेत् । मुद्राबन्धलक्षणमाह—गन्धदिग्धावित्यारभ्य कार्येत्यन्तम् । अत्र हस्तयोर्गन्धले- पनात् पूर्वं द्वितीयार्घ्योदकेन हस्तप्रक्षालनं गन्धलेपनानन्तरं तेनैवार्घ्येण हस्तयोः परस्पर- मर्चनं च कार्यम् । यतः—'मुद्राबन्धे कराभ्युक्षं तदर्चा क्षालनं तथा' (ई० ३।९६; पा० ६।१९७) इतीश्वरपारमेश्वरयोर्द्वितीयार्घ्यविनियोग उक्तः । तथैव मुद्राबन्ध- प्रकरणेऽपि— प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै । पाणियुग्मं यथा वै स्यात् स्वच्छमेत्यन्तानिर्मलम् ॥ नैवेद्यधूपपात्राद्यैः पात्रैश्चानिर्मलीकृतम् । कृत्वा सद्गन्धदिग्धौ तावर्येणार्च्य परस्परम् ॥ मुद्रा मूलादिमन्त्राणां दर्शयित्वा यथाक्रमम् । —(ई० ५।२६-२८; पा० ६।४००-४०२) इति व्यक्तमुक्तम् । मुद्राबन्धप्रकारस्तु—मध्यमानामिकायुगलं पराङ्मुखं सुस्पष्टम् आमूलान्नखपर्यन्तं निरन्तरं यथा तथा परस्परं संयोज्य समुत्तानयोः करतलयोस्तर्जनीद्वितयं कनिष्ठाद्वितयं चोत्तरोत्तरयोगेन वामदक्षिणतः कृत्वा तर्जनीयामूर्ध्वतः संमुखेऽङ्गुष्ठे सम्प्रसार्य इमां मुद्रां हृदये निविष्टां कुर्यात् । इयं व्यूहानां मूलमुद्रेति ज्ञेयम् ॥ ६९-७३ ॥ इसके बाद दोनों हाथों को इत्रादि सुगन्ध पदार्थों से अनुलिप्त करे । तदनन्तर मुद्रा बन्ध करे । मुद्राबन्धन का प्रकार कहते हैं—दोनों हाथ की मध्यमा
९६ सात्वतसंहिता और अनामिका अङ्गुलियों को पराङ्मुख करे । फिर मूल से लेकर नख पर्यन्त परस्पर संयुक्त कर उत्तान हाथकर दोनों तर्जनियों को और दोनों कनिष्ठाओं को उत्तरोत्तर योग से बायें तथा दक्षिण की ओर कर तर्जनी के ऊपर सामने दोनों अंगूठों को फैला देवे । फिर इस मुद्रा को हृदय पर स्थापित करे । तब यही व्यूहों की मूल मुद्रा कही जाती है ॥ ६९-७३ ॥ स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः ॥ ७३ ॥ यथाभिमतसंख्यं च जपान्ते स्रग्वरैः सह । सम्पूज्य गन्धधूपैश्च ततस्तु भगवन्मयान् ॥ ७४ ॥ यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च । तेषां मात्रावसानं चाप्यग्नौ सन्तर्पयेत् ततः ॥ ७५ ॥ जपमाह—अथेति । स्फाटिकेनाक्षसूत्रेणेत्यत्राक्षमालाप्रतिष्ठादिकं जयाख्यानु- सारेण ईश्वरादिषु प्रतिपादितं द्रष्टव्यम् । स्वकैर्वा करपर्वभिरित्यत्र पाञ्चरात्ररक्षायां (पृ० १०८) विशेष उक्तः— कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण तु । अनामिकान्तं देवेशं जपेत् कोटिसहस्रकम् ॥ (अर्च०, पृ०१९) इति। जपस्य वाचिकादिभेदेन फलभेद उक्तो लक्ष्मीतन्त्रे— वाचिकं क्षुद्रकर्मार्थमुपांशुः सिद्धिकर्मणि । मानसो मोक्षलक्ष्मीदो ध्यानात्मासर्वसिद्धिकृत् ॥ (३९।३५) इति । जपान्ते पुनर्भगवदुपचारानाह—स्रग्वरैरिति । कारिप्रदानविधिमाह—तत इति । भगवन्मयान् = भागवतानित्यर्थः पाञ्चरात्रिकानिति यावत् । अत्र बहुवचनेन चत्वारो विवक्षिताः । तथा वक्ष्यति चतुर्दशे परिच्छेदे— 'एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान्' (१४।३०) इति । समभ्यर्च्येत्यत्रार्घ्यगन्धपुष्पधूपैरिति बोध्यम् । तथा चोक्तं पारमेश्वरे—'अर्घ्या- लभनपुष्पैश्च धूपैरभ्यर्च्य वै ततः' इति । नैवेद्यं प्रतिपाद्य चतुर्धा विभक्तेष्वेकं भागं दत्वेत्यर्थः । तथा च पारमेश्वरे— प्राङ्निवेदनकाले तु चतुर्धा संविभज्य तम् । प्रापणं मधुपर्काद्यमन्यच्चाभ्यवहारिकम् ॥ तेभ्यो दद्यादेकभागमर्घ्योदकपुरस्सरम् । इति । मात्रावसानं = मात्रादानान्तमित्यर्थः । तथा च तत्रैव—'मात्रां चतुर्विधां चापि आचार्याय प्रदापयेत्' । चतुर्विधां शालितण्डुलबीजतिलभेदभिन्नामित्यर्थः । आदौ भगवन्निवेदितानामेव मात्राद्रव्याणाम्, इदानीं भागवतेभ्यः प्रदानं पार्थक्येनेति बोध्यम् । भगवन्निवेदनसमय एव आचार्याय मात्रादाने कृते पुनरिदानीं मास्त्वित्युक्तमीश्वरे— यद्वैभ्यो देवयज्ञान्ते तन्मात्रान्तं प्रदाय तु ।
षष्ठः परिच्छेदः ९७ अस्मिन् कालेऽर्हणाद्यं तु ताम्बूलान्तं निवेदयेत् ॥ (५।४५) इति । एवंकारिणां पूजनमपि भगवदर्चनवद् भगवन्मन्त्रैरेव कार्यम् । तथा च लक्ष्मीतन्त्रे— ततो गुरून् समानीय मन्मयान् वापि वैष्णवान् । प्रदद्यात् प्रापणार्थं तु तेभ्यो मन्मन्त्रमुच्चरन् ॥ —(४०।२९-३०) इति एवंकारिप्रदानस्य पञ्चमाङ्गत्त्वमुक्तं जयाख्ये— अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ तदाद्यमङ्गं यागस्य नाम्नाऽभिगमनं महत् । पूजनं चार्च्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ॥ बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद । मध्वाज्याक्तेन दध्ना च पूजा च पशुना च या ॥ तत्तृतीयं हि यागाङ्गं तुर्यमग्नेन पूजनम् । निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥ सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् । वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥ प्राणाग्निहवनं नाम्ना अनुयागस्तदष्टमम् ।—(२२।७५-८०) इति ॥ ७३-७५ ॥ अब जप का प्रकार कहते हैं—स्फटिक या अक्षसूत्र अथवा अपने हाथों के पर्व से जैसी सुविधा हो यथाभिमत संख्या में जप करे । फिर जप के पश्चात् माला के साथ भगवद् भक्तों की गन्ध धूप से पूजा करे ॥ ७३-७४ ॥ इस प्रकार विष्णु भक्तों की क्रमानुसार पूजा कर उन्हें नैवेद्य प्रतिपादन करे, उसके बाद मात्रावसान (विशेष बीज) द्वारा होम कर अग्नि को सन्तृप्त करे ॥ ७५ ॥ प्रमाणपरिशुद्धं च विभवानुगुणं शुभम् । चतुरावरणं कुण्डं कृत्वाऽङ्गुष्ठविभूषितम् ॥ ७६ ॥ त्र्यंशेनाधार्धंशतो वापि खाताद् व्यासो विधीयते । चक्रशङ्खाम्बुजाकारं वृत्तं वा चतुरश्रकम् ॥ ७७ ॥ गदाद्यैश्चक्रपर्यन्तैर्लाञ्छनैर्लाञ्छितं तु वा । अथ षष्ठमङ्गं वह्निसन्तर्पणं निरूपयन्नादौ कुण्डलक्षणमाह—प्रमाणपरिशुद्धमिति सार्धद्वाभ्याम् ॥ ७६-७८ ॥ अब षष्ठ अङ्गभूत वह्नि सन्तर्पण का निरूपण करते हुए कुण्ड लक्षण कहते हैं—प्रमाण से परिशुद्ध अपने विभव के अनुगुण चार आवरण वाले कुण्ड को अपने अंगूठे से विभूषित करे ॥ ७६ ॥
९८ सात्वतसंहिता खात के तीन अंश से, अथवा आधे अंश से व्यास निर्माण करे । वह चक्र, शङ्ख से युक्त अम्बुजाकार हो, अथवा गोला हो, अथवा चौकोर हो, जो गदा के आदि से चक्र पर्यन्त चिह्नों से संयुक्त हो ॥ ७७-७८ ॥ अग्निकार्योपयोगीनि तानि यानि महामते ॥ ७८ ॥ स्रुक्स्रुवादीनि भाण्डानि त्वङ्कितव्यानि तैरपि । सुधाद्यैर्वर्णकैः शुद्धैर्भूषयित्वोपलिप्य च ॥ ७९ ॥ सुगन्धैश्चन्दनाद्यैश्च पञ्चगव्यपुरस्सरैः । कुण्डवत् स्रुक्स्रुवादिपात्राणामपि चक्रशङ्खादिभगवल्लाञ्छनं कार्यमित्याह— अग्निकार्येति । कुण्डोल्लेखनादिकमाह—सुधाद्यैरिति । अत्रापेक्षिताः पुष्पताडनाद्यष्ट- विधकुण्डसंस्कारा जयाख्योक्ता ईश्वरपारमेश्वरयोः संगृहीता ग्राह्याः ॥ ७८-८० ॥ तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च ॥ ८० ॥ आरभ्य दक्षिणाशाया लिखेल्लेखामुदग्गताम् । तस्यामुपरि संलिख्य लेखानां त्रितयं स्फुटम् ॥ ८१ ॥ प्रागग्रं दक्षिणाशादि ह्युदीच्यन्तं च सान्तरम् । कुण्डमध्ये कुशाग्रेण प्राग्भागदक्षिणादि उत्तरान्तमेकामर्गलरेखां लिखेदित्याह— तन्मध्य इति । तदुपरि दक्षिणाद्युत्तरान्तं सान्तरालं प्रागग्रं रेखात्रयं कुर्यादित्याह— तस्यामिति । तद्रेखात्रयस्य सुषुम्नापिङ्गलेडादेवताकत्वमुक्तमीश्वर (५।६७-६८) पारमेश्वर-(७।२९)योर्ग्राह्यम् ॥ ८०-८२ ॥ हे महामते ! जो अग्नि कार्य के लिए सर्वथा उपयोगी हो ऐसे कुण्ड का निर्माण करे । कुण्ड के समान स्रुक् स्रुवादि पात्रों पर भी चक्र, शङ्ख, गदादिकों पर भी भगवान् के अस्त्र-शस्त्रों पर भी भगवद् चिह्न करे । पहले कुण्ड का लेपन करे, फिर चूना आदि वर्णकों से उसे लेप कर शुद्ध करे । उसके मध्य कुशों के अग्रभाग से पूर्व दिशा का ज्ञान कर, कुशा के अग्रभाग से दक्षिण दिशा से आरम्भ कर उत्तर दिशा पर्यन्त रेखाङ्कित करे । फिर उसके ऊपर दक्षिण से उत्तर तथा पूर्वाग्र से पश्चिम, इस प्रकार तीन रेखा स्पष्ट रूप से लिखे । (ध्यान रहे इन तीनों रेखा की सुषुम्ना, इडा, पिङ्गला ये तीन देवतायें हैं) ॥ ७८-८२ ॥ चतुर्धा प्रणवेनाथ प्रोक्षयेदर्घ्यवारिणा ॥ ८२ ॥ तदभ्यर्च्यर्घ्यपुष्पाद्यैर्ध्यायेत् तद् भद्रपीठवत् । प्रणवैस्तु प्रतिष्ठानं प्राग्वदस्य समाचरेत् ॥ ८३ ॥ प्रणवेनार्घ्यवारिणा चतुर्धा प्रोक्षणम्, प्रणवेन पुष्पैborderरभ्यर्चनम्, कुण्डमध्यस्य भद्र- पीठवद् ध्यानं चाह—चतुर्थेति सार्धेन ॥ ८२-८३ ॥ तदनन्तर चार बार प्रणव का उच्चारण कर अर्घ्य के जल से उन रेखाओं
षष्ठः परिच्छेदः ९९ का चार बार प्रोक्षण करे । प्रणव द्वारा पुष्प से अर्चन करे । फिर कुण्ड के मध्य भाग का भद्रपीठ के समान अर्चन करे तथा प्रणव द्वारा पूर्व की भाँति कुण्ड का ध्यान करे ॥ ८२-८३ ॥ चतुरश्रे स्थले कौण्डे दिग्विदिगष्टके बहिः । सम्पूर्णपात्रं कुम्भानामष्टकं विनिवेश्य च ॥ ८४ ॥ कुण्डस्याष्टदिक्षु पूर्णकुम्भाष्टकस्थापनमाह—चतुरश्र इति ॥ ८४ ॥ ऊर्ध्वाधो मेखलानां च चतुर्णां दिक्चतुष्टये । कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ॥ ८५ ॥ विदिक्ष्वप्यययोगेन ह्यूर्ध्वान्तमधरात् तु वै । तद्देवादर्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु ॥ ८६ ॥ कुण्डस्य बहिः प्रागादिचतुर्दिक्षु मेखलास्थकुशकूर्चेषु ऊर्ध्वाद्यधरान्तं प्रभव- क्रमेण वासुदेवादीनामर्चनम्, तथैवाग्नेयादिविदिक्ष्वप्ययक्रमेणाधराद्यूर्ध्वान्तमनिरुद्धा- दीनामर्चनं चाह—ऊर्ध्वाध इति द्वाभ्याम् । एवं द्वात्रिंशत्कुशकूर्चेष्वर्चनं चतुर्मेखल- कुण्डमात्रविषयकम्, अन्यत्रैवमनवकाशात् । अत्र विदिक्ष्वप्ययक्रमेणानिरुद्धादीनामर्चने ॐ पुरुषाय नमः, ॐ सत्याय नमः, ॐ अच्युताय नमः, ॐ भगवते वासुदेवाय नम इति पूर्वोक्तमन्त्रचतुष्टयं ज्ञेयम्, अप्ययावसरे प्राप्ते स्मरणे चार्चने विभोः । शृणु मन्त्रचतुष्कं तु पुनरन्यत् समासतः ॥—(५।६८-६९) इत्युक्तेः । प्रभवक्रमेणार्चने जाग्रद्व्यूहमन्त्रचतुष्टयं जागत्यैव ॥ ८५-८६ ॥ स्थल पर निर्मित चौकोर कुण्ड के चारों दिशाओं में और बाहर चार विदिशाओं में आठ कलश स्थापित करे । फिर मेखला के ऊपर नीचे और चारों दिशाओं के चारों ओर तथा कुशा के विष्टर पर स्थित वासुदेवादि देवताओं का यजन करे ॥ ८४-८५ ॥ फिर कोनों पर संहार क्रम से ऊपर से नीचे अर्घ्य, पुष्पादि से पुनः क्रम- पूर्वक उनकी पूजा करे ॥ ८६ ॥ मृदुदर्भसमूहं च नीरसं चाश्मकुट्टिमम् । शुष्कगोमयचूर्णेन युक्तं गन्धाश्मना सह ॥ ८७ ॥ कुण्डे द्रोणांशमात्रं तु समारोप्य प्रसार्य च । कुण्डे शीघ्रमग्निप्रज्वालसाधनदर्भचूर्णादिप्रक्षेपमाह—मृदुदर्भेति सार्धेन । गन्धा- श्मना = गन्धकेन, 'गन्धाश्मनि तु गन्धकः' (२।९।१०२) इत्यमरः ॥ ८७-८८ ॥ फिर पत्थर से कूट कर साधक शुष्क दर्भ समूह का चूर्ण, शुष्क गोमय का
१०० सात्वतसंहिता चूर्ण, जिसमें गन्धक मिला हुआ हो, उसको एक द्रोण परिमाण में कुण्ड में डाल कर फैला देवे ॥ ८७-८८ ॥ अग्न्यानयनकथनम् ताम्रपात्रेऽथवाऽन्यस्मिन् समादाय हुताशनम् ॥ ८८ ॥ आरण्यं लौकिकं वाथ मणिजं दर्पणोद्भवम् । अग्न्यानयनमाह—ताम्रपात्र इति । आरण्यम् = अर(ण्य?णि)संभवमित्यर्थः । अरणिन्निर्मथनप्रकार उक्तो लक्ष्मीतन्त्रे— ध्यायेत् सर्वात्मिकां शक्तिं तामेवत्वधरारणिम् । उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम् ॥ मथ्नीयात् तारया सम्यक् तथा चैवानुतारया । —(४०।४१-४२) इति एवमरणिजनितस्याग्नेरिदमेव जातकर्मेति ज्ञेयम् । इतः परं नामाद्यग्निसंस्काराः कार्याः, मणिजाद्यग्निस्तु गर्भाधानादिभिरेव संस्कार्यः । तथा च लक्ष्मीतन्त्रे— लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते । लौकिके वापि संस्कारं निषेकादि समाचरेत् ॥ (४०।४६) इति । अग्नेर्निषेकादिसंस्कारविधानं तु श्रीजयाख्यानुसारेश्वरपारमेश्वरयोः प्रतिपादि- तम् । तदर्थं कुण्डमध्ये लक्ष्म्यावाहनादिकमप्युक्तम्, अन्येऽपि बहवो विशेषास्तत्र तत्रापेक्षितास्तयोरेव संगृहीता ग्राह्याः ॥ ८९ ॥ कालवैश्वानराख्यस्य हृदयेशस्य वै प्रभोः ॥ ८९ ॥ मारुतानुगता भासा योज्या बाह्याग्निना सह । स्वहृदयस्थितभगवत्तेजसः पात्रस्थाग्निना संयोजनमाह—कालेति । प्रसिद्धं हि कालवैश्वानराख्यत्वं भगवतः । तथा च पौष्करे विष्वक्सेनार्चनप्रकरणे— कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः । स एव द्विज देवो हि विष्वक्सेनः प्रकीर्तितः ॥ स्थित आहवनीयादिभेदेन मखयाजिनाम् । ऋक्पूतं हुतमादाय तर्पयत्यखिलं जगत् ॥ —(२०।५४-५५) इति। मारुतानुगता = मारुतो रेचकरूप इत्यर्थः । मन्त्र एव मारुत इत्यर्थः, उभय- थाप्युक्तमीश्वरादिषु—‘मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम्’ (५।८६) इति, ‘विरेच्य विन्यसेत् तस्मिन् वह्निपात्रे पुरार्चिते’ (५।८७) इति । भासा = तेजस्संज्ञो भगवतः षष्ठो गुण इत्यर्थः । तथा वक्ष्यति नृसिंहकल्पपरिच्छेदे— व्यस्तो गुणगणात् षष्ठस्तेजो नाम गुणो हि यः ॥ परस्य ब्रह्मणः सोऽयं सामान्यं सर्वतेजसाम् ।
षष्ठः परिच्छेदः १०१ ध्यात्वैवं नेत्रमन्त्रेण निक्षिपेत् कुण्डमध्यतः ॥ —(१७।१११-११२) इति ॥ ९० ॥ तदनन्तर ताम्रपात्र में अथवा अन्य पात्र में अग्नि स्थापित करे । वह अग्नि अरणि से उत्पन्न हो, अथवा लौकिक हो, अथवा मणिजन्य हो, अथवा (सूर्य किरणों से) दर्पण जन्य हो, उसे अपने हृदय में स्थित काल वैश्वानर नामक अग्नि के साथ तथा फिर मन्त्र रूप वायु से निकली हुई बाह्याग्नि से युक्त करे ॥ ८८-९० ॥ भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत् ॥ ९० ॥ पूतं समिच्चतुष्कं तु प्रणवैरभिमन्त्रितम् । दत्वा तदूर्ध्वं तदनु कुर्यात् परिसमूहनम् ॥ ९१ ॥ प्रदक्षिणक्रमेणैव ह्यार्द्रपाणितलेन तु । तिर्यक् चाधोमुखस्तेन नखपृष्ठमदर्शयन् ॥ ९२ ॥ कुण्डेऽग्निस्थापनं तदूर्ध्वं प्रज्वालनार्थं समिच्चतुष्कप्रक्षेपं चाह—भ्रामयित्वेति । अत्र समिच्चतुष्कमिति याज्ञीयैन्धानानामुपलक्षणम् । तथा वक्ष्यति सप्तदशे परिच्छेदे— 'पावनैरिन्धनैः शुष्कैः कृत्वा निर्धूममेव तम्' (१७।१३३) । परिसमूहनमाह—तद- न्विति । परिसमूहनं नाम कुण्डमध्ये विशकलितानामग्नीनां पुञ्जीकरणम् ॥९०-९२॥ चार-चार बार घुमाकर अन्य कुण्ड में स्थापित करे । फिर पवित्र प्रणव से अभिमन्त्रित चार समिधायें उस पर रख कर परिसमूहन करे । यह परिस्तरण कार्य आर्द्र पाणि तल से एवं प्रदक्षिणक्रम से तिरछे तथा अधोमुख हो कर नख का पिछला भाग जिस प्रकार न दिखाई पड़े, वैसे करे ॥ ९०-९२ ॥ ततस्त्वभग्नमूलाग्रैः समैर्दद्यात् कुशैः स्तरम् । दिशि दिश्युत्तराशान्तं याम्याशादौ तु सान्तरम् ॥ ९३ ॥ चतुर्गुणैश्चतुर्धा तु अग्रच्छन्नैः परस्परम् । प्राक्प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम् ॥ ९४ ॥ परिस्तरणमाह—तत इति द्वाभ्याम् । अभग्नमूलाग्रैः समैः कुशैर्दिशि दिशि स्तरं परिस्तरणं दद्यादिति सामान्यमुक्तम् । याम्याशादौ तु उत्तराशान्तं दिक्त्रये च क्रमेण चतुर्भिर्श्चतुर्भिः सान्तरम् अन्तरसहितं स्तरं दद्यादिति विशेष उक्तः । अत्र याम्यादित्रये चतुर्धा सान्तरालपरिस्तरणकथनं द्वन्द्वप्रसङ्गेन करिष्यमाणपात्रासादनार्थमिति ज्ञेयम् । दक्षिणादित्रय एव द्वन्द्वक्रमेणासादनस्य वक्ष्यमाणत्वात् प्राग्दिशि तथासादनाभावान्नि- रन्तरालमेव षोडशदर्भैः परिस्तरणमिति च बोध्यम् । अत्र प्राक्प्रान्तैरित्यनेन पूर्वपश्चिमपरिस्तरणानामुत्तराग्रत्वमप्युपलक्ष्यते । दिशि दिशि स्तरं दद्यादिति पूर्वं सामान्यत उक्तत्वात् पुनः पूर्वभागाच्च यावदुत्तरगोचरमिति विशेषः प्रदर्शितः । एत एव श्लोका बहुशः पारमेश्वरादिषु प्रतिपादिताः ।
अत्र पारमेश्वरव्याख्याने—'याम्यादाौ तु वा इति विकल्पः' इत्युक्तम् । तद्बुद्धिविकल्प एव, तथा पाठवर्णनेऽन्तरपदस्यागतिकत्वात् प्राग्भागेऽपि वृथा चतुर्धा परिस्तरणप्रसक्तेः, पूर्वभागाच्च यावदुत्तरगोचरमित्यस्य पौनरुक्त्यापत्तेश्च ॥९३-९४॥ अभग्नमूल एवं अभग्न अणु भाग वाले तथा सम कुशाओं से प्रत्येक दिशा में परिस्तरण करे, दक्षिण दिशा से उत्तर दिशा में बिछाकर कुल तीन दिशाओं में अन्तर से चार-चार कुशाओं का परिस्तरण करे । शेष पूर्व दिशा से उत्तर दिशा तक १६ कुशाओं का परिस्तरण करे ॥ ९३-९४ ॥ होमोपकरणसन्निधापन विधानम् होमोपकरणं सर्वं होमभाण्डपुरस्सरम् । अवतार्य तदूर्ध्वं तु दक्षिणस्यां तथात्मनः ॥ ९५ ॥ द्वन्द्वद्वयप्रयोगेण द्रव्यस्थापनमाचरेत् । द्विरष्टसंख्यमिध्मं तु संयुक्तं च महामते ॥ ९६ ॥ द्वितीयेनाष्टसंख्येन मुक्तदर्भैस्तरण्डिकाम् । स्रुक्स्रुवौ च चतुष्कं यदेकत्र विनिवेश्य तत् ॥ ९७ ॥ स्रग् धूपं मधुपर्कं च बीजान्येकत्र वै ततः । कौशेयं धूतकेशं तु विष्टरं च घृतं चरुम् ॥ ९८ ॥ आज्यस्थालीचतुष्कं च निधाय तदनन्तरम् । अथ परिस्तरणोपरि होमोपकरणसन्निधापनमाह—होमेति । होमभाण्डपुरस्सरं = स्रुक्स्रुवपुरस्सरमित्यर्थः । ‘स्रुक्स्रुवादीनि भाण्डानि’ (६।७९) इति पूर्वमेवोक्त- त्वात् । प्रथमं दक्षिणपरिस्तरणे आसादनक्रममाह—दक्षिणस्यामित्यादिभिः । मुक्त- दर्भैः कूर्चादिरूपेणाग्रथितैः, केवलकुशैरित्यर्थः । तैरुपलक्षिता तरण्डिका । स्रुक्- स्रुवरजोमार्जनशोधनाद्युपयुक्तः कूर्चः । कौशेयं धूतकेशम् । कुण्डशोधनोपयुक्तः कुशः कूर्चः । विष्टरं = प्रागादिकलाशार्चनप्रणीतासंस्काराद्युपयुक्तकूर्चम् ॥ ९५-९९ ॥ अब होमोपकरण सन्निधापन की विधि कहते हैं—स्रुक्-स्रुवादि से युक्त सभी होमोपकरण ऊपर से उतार कर अपने दक्षिण ओर दक्षिण परिस्तरण पर दो-दो के क्रम से द्रव्य स्थापन करे । १६ संख्या में समिधायें एवं स्रुक स्रुवा के रजो मार्जन में काम आने वाले १६ कुशा को कुण्ड शोधन के लिये उपयुक्त कुशा और कलश मार्जन के काम में आने वाले कुशाओं को भी दक्षिण की ओर एकत्र स्थापित करे । इसी प्रकार विष्टर घृत, चरु एवं चार आज्य स्थली को भी दक्षिण दिशा में समूहन कुशा पर स्थापित करे ॥ ९५-९९ ॥ प्रणीतापात्रयुगलं करकं चार्घ्यभाजनम् ॥ ९९ ॥ चतुष्कमेतदपरमग्रतो विनिवेश्य च ।
षष्ठः परिच्छेदः १०३ प्रादेशमात्राः समिधः प्रभूतं शुष्कमिन्धनम् ॥ १०० ॥ पक्ष्मकं स्वेदहृद्वस्त्रं वामभागे निधाय च । अर्घ्यपात्रोदकेन प्राक् कृत्स्नं पावनतां नयेत् ॥ १०१ ॥ पश्चिमपरिस्तरणोपर्यासाद्यद्रव्याण्याह—प्रणीतेति । उत्तरपरिस्तरणे आसना- न्याह—प्रादेशमात्रा इति । पक्ष्मकं(वक्ष्य?पक्ष्य)तेऽग्निप्रज्वालनार्थं परिगृह्यत इति पक्ष्मकं व्यजनमित्यर्थः । 'पक्ष परिग्रहे' (चु० १७)इति धातोः । पारमेश्वरव्याख्याने पक्ष्मकं सूक्ष्ममिति स्वेदहृद्वस्त्रविशेषणं कृतम्, तदसङ्गतम्, द्वन्द्वक्रमेणासादनासम्भवात् । क्वचित् पारमेश्वरप्रयोगे समस्तपदभ्रान्त्या पक्ष्मस्थं कं बाष्पमित्यभिप्रायेण बाष्पस्वेद- हृद्वस्त्रद्वयमिति लिखितम्, तदपि विरुद्धम्, दीक्षापरिच्छेदे— प्रागुक्तं स्रुक्स्रुवाद्यं च होमोपकरणं च यत् ॥ सर्वं पक्ष्मकपपर्यन्तं बृहत्याद्रद्वयान्वितम् । —(१८।४६-४७) इति वक्ष्यमाणत्वात् । किञ्च, पारमेश्वरव्याख्यायामासादनविषये—'अत्रैवं विवेकः' इति प्रक्रम्य स्वच्छन्दमासादनमुक्तम् । तदविवेकोत्थापितम्, यतस्तत्र दक्षिणपरिस्तरणोपरि परिध्यादीनां स्रगादीनां धूतकेशादीनां चतुर्णां चतुर्णामासादनम्, अतः स्वाग्रतः पश्चिमपरिस्तरणोपरि प्रणीतादीनां चतुर्णामासादनम्, उत्तरपरिस्तरणोपरि समिदादीनां चासादनं कार्यमित्यर्थः सुस्पष्टमुपलभ्यते । आसादितानां प्रोक्षणमाह—अर्घ्येति । अस्मिन्नवसरे कुण्डस्य चतुर्दिक्षु परिधि- स्थापनं कार्यम्, 'पलाशपूर्वाः समिधः साग़्राः परिधयस्तु वै' (१८।४५) इत्यष्टादश- परिच्छेदे परिधीनां वक्ष्यमाणत्वात् । 'चतस्रो वै परिधयः शिखामन्त्रेण पूजयेत्' (५।१०२) इतीश्वराद्युपबृंहितत्वाच्च । एवं परिधिन्यासानन्तरं प्रागादिषु कुम्भेषु कूर्च- न्यासपूर्वकमिन्द्राद्यर्चनं च कार्यम्, विष्टराणि ततो दद्याद् हृदा कुम्भाष्टके ततः । तेषु क्रमात् पूजयेच्च लोकपालान् स्वदिक्स्थितान् ॥ (५।१०३) इतीश्वरोक्तेः । जयाख्यपारमेश्वरयोः परितः कुम्भानां केवलकूर्चेष्वेव लोक- पालार्चनमुक्तम् ॥ ९९-१०१ ॥ दो प्रणीता पात्र एवं कमण्डल तथा अर्घ्यपात्र इन चारों को अपने आगे पश्चिम दिशा में स्थापित करे ॥ ९९-१०० ॥ अब उत्तर परिस्तरण पर आसन का प्रकार कहते हैं—प्रादेश मात्र की समिधायें पर्याप्त शुष्क इन्धन, पङ्खा, देह का पसीना पोंछने वाला वस्त्र अपनी बायीं ओर स्थापित करे । इस प्रकार आसादित वस्तुओं के स्थापन के पश्चात् अर्घ्य पात्र के जल से उन्हें पवित्र करे ॥ १००-१०१ ॥ प्रणीतासंस्कारविधानम् आदाय सोदकं चाथ प्रणीताख्यं च भाजनम् ।
१०४ सात्वतसंहिता पवित्रकं तु तन्मध्ये चतुर्दर्भकृतं न्यसेत् ॥ १०२ ॥ उद्धृत्योद्धृत्य हस्तेन जलं तत्रैव निक्षिपेत् । चातुरात्मीयं मन्त्रं च जपमानो हि साधकः ॥ १०३ ॥ भूयस्तदम्भसा सर्वं प्रोक्षयेद् विष्टरेण तु । शेषस्यास्रावणं कुर्यात् सर्वदिक्षु स्तरोपरि ॥ १०४ ॥ पुनरेवाम्भसाऽऽपूर्य तन्मध्ये परमेश्वरम् । ध्यात्वाऽर्चयित्वा संस्थाप्य त्वग्रतस्तदनन्तरम् ॥ १०५ ॥ प्रणीतासंस्कारविधिमाह—आदायेति चतुर्भिः । चातुरात्मीयं मन्त्रं पूर्वोक्तं वासु- देवादिमन्त्रचतुष्टयमित्यर्थः ॥ १०२-१०५ ॥ अब प्रणीता संस्कार की विधि कहते हैं—अर्घ्यपात्र से पवित्रीकरण के पश्चात् जल सहित प्रणीता पात्र हाथ में ले कर, उसमें चार कुशों की पवित्री स्थापित करे। फिर हाथ से कुशा द्वारा उसका जल निकाल कर साधक चातुरात्मीय मन्त्र पढ़ते हुए उसी होमोपकरण सामग्री पर छिड़के। फिर उसी विष्टर से प्रणीता का जल लेकर सभी सामग्री का प्रोक्षण करे और शेष जल को संस्तरण के ऊपर समस्त दिशाओं में छिड़क देवे ॥ १०२-१०४ ॥ पुनः उस प्रणीता में जल भरे और उसके मध्य में परमेश्वर का ध्यान करे, उनका अर्चन करे, फिर उसे अपने आगे स्थापित कर देवे ॥ १०५ ॥ सम्प्रोक्ष्यार्घ्याम्भसा चेध्मांश्चतुर्धा संविभज्य च । पूजयेदर्घ्यपुष्पाभ्यां द्वादशाक्षरविद्यया ॥ १०६ ॥ प्रणीते चापरस्मिन् वै पात्रे चाग्रे कृते सति । सपवित्रं तु तत्रार्घ्यं दत्वा चक्रं तु विन्यसेत् ॥ १०७ ॥ चतुर्मूर्तिं तदूर्ध्वे तु ध्यात्वाऽभ्यर्च्य यथाक्रमम् । तत्पात्रमुत्तरस्यां च कृत्वा सम्पूज्य वै पुनः ॥ १०८ ॥ इध्मप्रक्षेपणिमाह—सम्प्रोक्ष्येति । द्वादशाक्षरविद्यया व्यापकद्वादशाक्षरमन्त्रेणे- त्यर्थः । अन्य प्रणीतासंस्कारमाह—प्रणीत इति द्वाभ्याम् ॥ १०६-१०८ ॥ अब इध्मप्रक्षेपण विधि कहते हैं—साधक अर्घ्य के जल से समिधाओं पर जल छिड़क कर उसे चार भागों में प्रविभक्त करे और द्वादशाक्षर मन्त्र से अर्घ्य पुष्प द्वारा उसकी पूजा करे। पहले जिस प्रणीता पात्र को आगे रखा गया था (द्र० ६.१०५) उसमें सपवित्रक अर्घ्य डाल कर चक्र न्यास करे ॥ १०६-१०७ ॥ फिर उसमें वासुदेवादि चतुर्मूर्ति का ध्यान कर यथाक्रम अर्चन करे। ध्यान, पूजन के पश्चात् उस पात्र को उत्तर दिशा में स्थापित कर देवे ॥ १०८ ॥
षष्ठः परिच्छेदः १०५ आज्यसंस्कारकथनम् आज्यस्थालीमथादाय त्वाज्यं यत्राग् द्रवीकृतम् । विनिक्षिप्याज्यभाण्डान्तमुच्चस्थेन करेण तु ॥ १०९ ॥ पुनरादाय कृत्वाय आधारोपरि यत्नतः । दार्भं काण्डचतुष्कं तु द्वादशाङ्गुलसम्मितम् ॥ ११० ॥ तिर्यगुत्तानपाणिभ्यामवष्टभ्य च सान्तरम् । अनामाङ्गुष्ठयुग्मेन यथा मध्यं नतं भवेत् ॥ १११ ॥ तैराज्यं चतुरो वारानानयेच्चतुरुन्नयेत् । अन्तरान्तरयोगेन ह्यात्मनोऽग्नेस्तु सम्मुखम् ॥ ११२ ॥ प्रणवेनोक्तसंख्येन कुण्डमध्येऽथ निक्षिपेत् । आज्यसंस्कारमाह—आज्यस्थालीमिति सार्धैश्चतुर्भिः । अत्र द्रवीकृतमाज्य- भाज्यस्थाल्यां विनिक्षिपेत्यनेन जयाख्योक्तदशविधाज्यसंस्कारेषु— 'उपाधिश्रयणं नाम यदाद्रावणमुच्यते । परिवर्तनमन्यस्मिन् भाण्डे दोषापनुत्तये ॥ प्रसादीकरणं ह्येतत्' —(१५।११७-११८) इत्युक्तसंस्कारद्वयमुक्तं भवति । तैराज्यं चतुरो वारान् आनयेच्चतुरुन्नयेदित्यनेन— नयेत्तच्चानयेद् विप्र प्रतपाग्नौ क्षिपेत् कुशम् । संप्लवोत्प्लवनावेतौ संस्कारौ परिकीर्तितौ ॥ (जया० १५।११६) इत्युक्तसंस्कारद्वयं चोक्तं भवति । अन्ये षड्विधसंस्काराश्च जयाख्योक्ता ईश्वरतन्त्रे संगृहीता ग्राह्याः । उक्तसंख्यानप्रणवेन = अष्टवारेणेत्यर्थः । चतुरो वारा- नानयेत्, चतुरुन्नयेदित्युक्तत्वात् ॥ १०९-११३ ॥ अब आज्य संस्कार कहते हैं—आज्य स्थाली लेकर पहले जिस घृत को पिघलाया गया था, उसे हाथ ऊपर उठा कर आज्यस्थाली में डाले । फिर उसे अपने आगे रख कर प्रयत्नपूर्वक आधार पर अधिश्रयण करे । फिर १२ अङ्गुल लम्बा चार काण्ड वाला कुशा (पवित्री) तिरछे उतान हाथ में पहन कर अङ्गुठे तथा अनामिका में पहने, फिर चार बार मध्य भाग को झुकाकर घी को चार बार ऊपर उठावे, फिर चार बार नीचे करे । बीच-बीच में अपने तथा अग्नि के सामने रख कर प्रणव मन्त्र पढ़ कर चार बार कुण्ड में घी का हवन करे ॥ १०९-११३ ॥ स्रुकस्रुवावथ चादाय दर्भपुञ्जीलकेन तु ॥ ११३ ॥ रजोपनयनं कुर्यात् प्रक्षाल्योष्णेन वारिणा । निर्मलीकृत्य कूर्चेन ज्वालाभिः सम्प्रताप्य च ॥ ११४ ॥ सा० सं० - 11
१०६ सात्वतसंहिता प्रोक्ष्यित्वाऽर्घ्यतोयेन पूजयित्वा निधाय च । स्रुक्स्रुवसंस्कारमाह—स्रुक्स्रुवाविति द्वाभ्याम् । पूजयित्वेत्यत्र स्रुक्स्रुवाधि- देवतास्तन्मन्त्राश्च जयाख्योक्ता ईश्वरपारमेश्वर्योरेव संगृहीताः ॥ ११३-११५ ॥ अब स्रुक्-स्रुवा का संस्कार कहते हैं—फिर स्रुक्स्रुवा हाथों में ले कर दर्भपुञ्ज से उसकी धूल पोछे । तदनन्तर जल द्वारा प्रक्षालन करे और दर्भकूर्च से पुनः साफ करे, फिर उत्तप्त अग्नि की ज्वाला में उसे प्रतप्त करे । तदनन्तर अर्घ्य जल से प्रोक्षण कर पूजन करे और स्थापित कर देवे ॥ ११३-११५ ॥ बहुशाखैरभग्नाग्रैः समूलैः सुसमैः कुशैः ॥ ११५ ॥ चतुर्भिर्वामहस्तेन त्वादायाथ पवित्रकम् । दक्षिणानामिकायां तु चतुष्काण्डविनिर्मितम् ॥ ११६ ॥ अङ्गुलीकरूपं च कृत्वा वै तदनन्तरम् । संस्कृताज्यस्य विप्रुड्भिः संस्पृशेदिन्धनादिकम् ॥ ११७ ॥ अथ वामहस्ते वलयपवित्रधारणं दक्षिणानामिकायां पवित्रधारणं चाह—बहु- शाखैरिति द्वाभ्याम् । पवित्रलक्षणं तु पारमेश्वरे— चतुरङ्गुलमात्रं तु सदा विष्ण्वधिदैवतम् । महाविष्ण्वधिदैवस्तु ग्रन्थिरेकाङ्गुलो भवेत् ॥ विष्ण्वधिदैवं वलयं द्वयमङ्गलमुच्यते । (३।२२-२३) इति । समिदादिषु संस्कृताज्यसेचनमाह— संस्कृतेति । विप्रुड्भिः = बिन्दुभिरित्यर्थः ॥ ११६-११७ ॥ जिस कुशा में बहुत शाखायें हों, जिसका अग्रभाग तथा मूल अभग्न हों, जो एक समान हों, ऐसे चार कुशाओं का वलय बना कर बायें हाथ में धारण करे तथा दक्षिण हाथ में चार गौंने वाले कुशा से अंगूठी के समान पवित्री बना कर उसे धारण करे और संस्कृत घी के बिन्दुओं को इन्धनादि पर छिड़क देवे ॥ ११५-११७ ॥ निःशेषदोषशान्त्यर्थमथाग्नेराहृतस्य च । शतं शतार्धं पादं वा त्वाहुतीनां स्वशक्तितः ॥ ११८ ॥ तिलानां घृतसिक्तानां शुद्धेन हविषा सह । होतव्यं कर्मसिद्ध्यर्थं यथा तदवधारय ॥ ११९ ॥ आहुत्यामुद्धृतायां च मूलमन्त्रावसानतः । प्रणवान्तं पदं ब्रूयादग्निं शोधय शोधय ॥ १२० ॥ यथावस्थितरूपेण ततस्तेनैव बुद्धिमान् । दद्यात् पूर्णाहुतिं पश्चात् कृतेन तु चतुष्प्लीम् ॥ १२१ ॥
षष्ठः परिच्छेदः १०७ अथाग्निशुद्धयर्थं होममाह—निःशेषेति चतुर्भिः । चतुष्पली = चतुष्पलमिता- मित्यर्थः । पलप्रमाणं तु पारमेश्वरे— चत्वारो व्रीहयः कुञ्जस्तेऽष्टौ माञ्जिष्ठमुच्यते ॥ तच्छतं षष्टिरधिकं निष्कं निष्काष्टकं पलम् । इति । —(पार० १८।१३१-१३२) अस्मिन्नवसरेऽग्नेर्निषेकादिविवाहान्तसंस्कारा जिह्वाकल्पनाश्चेश्वरपारमेश्वरादिषु संगृहीता ग्राह्याः ॥ ११८-१२१ ॥ अब अग्नि की शुद्धि के लिये होम कहते हैं—तदनन्तर समानीत अग्नि के समस्त दोषशान्ति के लिये शुद्ध हव्य के साथ मिले हुए घृत सिक्त तिलों का (जौ उसका आधा अथवा उसका आधा) अपनी शक्ति के अनुसार अपने कर्म की सिद्धि के लिये जिस प्रकार साधक हवन करे । हे सङ्कर्षण! अब उसे आप सुनिये । आहुति उठा लेने के बाद मूल मन्त्र के अन्त में प्रणव लगा कर 'अग्नि शोधय शोधय' इस प्रकार यथावस्थित रूप से कह कर बुद्धिमान साधक चार पल की पूर्णाहुति प्रदान करे ॥ ११८-१२१ ॥ तस्य संशुद्धदोषस्य पुनरेव समाचरेत् । सम्बोधजनकं होमं जडभावप्रशान्तिदम् ॥ १२२ ॥ उच्चार्य मूलमन्त्रं तु प्रणवद्वितयान्वितम् । जुहुयादाहुतीनां च सहस्रं शतमेव वा ॥ १२३ ॥ तद्वदाज्येन सन्तर्प्य दद्यात् पूर्णाहुतिं तथा । अथाग्नेः सम्बोधजनकहोममाह—तस्येति सार्द्धद्वाभ्याम् ॥ १२२-१२४ ॥ इस प्रकार अग्नि के दोष शान्त हो जाने पर पुनः जडभाव की शान्ति के लिये सम्बोधजनक होम करे ॥ १२२ ॥ अब सम्बोधजनक होम कहते हैं—दो प्रणव युक्त मूल मन्त्र का उच्चारण कर एक हजार अथवा एक सौ आहुतियाँ प्रदान करे । इस प्रकार घी की आहुति से अग्नि को तृप्त कर पूर्णाहुति करे ॥ १२३ ॥ तदा स लब्धसत्तः स्यात् पश्यत्यन्तर्गतं विभुम् ॥ १२४ ॥ प्राणभूतमजं विष्णुं तन्मयत्वमथाश्रयेत् । अथ सद्यज्ञनिष्ठस्य कर्मिणोऽस्यापवर्गिणः ॥ १२५ ॥ याति यागाङ्गभावित्वं स्वयमेव तदिच्छया । विभजत्यात्मनात्मानं चतुर्धा कुण्डमध्यतः ॥ १२६ ॥ अधिभूतस्वरूपेण समाश्रित्य च दिक्क्रमम् । पूर्वमाहवनीयाख्यस्वरूपेणाथ दक्षिणे ॥ १२७ ॥
१०८ सात्वतसंहिता समास्ते सभ्यवपुषा पश्चिमास्यामनन्तरम्। गार्हपत्याख्यभेदेन ततस्तिष्ठति चोत्तरे ॥ १२८ ॥ ओदनम्पचनात्मा तु सर्वात्मत्वेन मध्यतः। आधाराधेयभावेन त्वास्ते संवलिताकृतिः ॥ १२९ ॥ अनेन होमेनाग्निर्लब्धसत्ताको भूत्वाऽन्तर्गतं भगवन्तं दृष्ट्वा तन्मयत्वं प्राप्य स्वयमेव याजककर्तृकयागाङ्गत्वमाश्रित्य चातुरात्म्याराधनार्थं स्वयमपि चतुर्धा आहव- नीयसभ्य-गार्हपत्यौदनं पचनात्मभेदैः प्रागादिषु स्वात्मत्वेन मध्ये चाधाराधेय- भावसंवलिताकृतिस्तिष्ठतीत्याह—तदेति सार्धैः पञ्चभिः ॥ १२४-१२९ ॥ इस प्रकार अधिकार प्राप्त कर अग्नि के अन्तर्गत भगवान् विष्णु को देखकर एवं तन्मयत्व प्राप्त कर उनकी इच्छा से स्वयमेव याजक कर्तृत्व यागाङ्गत्व का आश्रय लेकर, चातुरात्म्य की आराधना के लिये स्वयं अपने को कुण्ड के मध्य से अधिभूत स्वरूप से दिशाओं के क्रम से प्रभागों में विभक्त हो कर स्थित हो जाता है ॥ १२४-१२७ ॥ पूर्वदिशा में आहवनीय रूप से और दक्षिण दिशा में सभ्यरूप से, पश्चिम में गार्हपत्य रूप से, उत्तर में ओदनंपच नाम से, सर्वात्मत्वेन मध्य से, इस प्रकार आधाराधेयभाव से संवलिताकृति हो कर स्थित हो जाता है ॥ १२७-१२९ ॥ अङ्गाराण्यर्चिषश्चैव शक्तिर्या दहनात्मिका। त्रिलक्षणोऽयमाधार आधेयो हुतभुग् विभुः ॥ १३० ॥ आत्मयोनिस्तु विश्वेशो वासुदेवः सनातनः। एवं ज्ञात्वा पुरा सम्यक् सत्तां वैश्वानरीं पराम् ॥ १३१ ॥ ततः कर्मणि वर्तेत नैष्ठिकः कृतनिश्चयः। आधाराधेयविवरणमाह—अङ्गाराणीति सार्धेन। एवं सम्यग्ज्ञानेन सत्तापरिज्ञाना- नन्तरमेव कर्मणि प्रवृत्तिमाह—एवमिति। अस्मिन्नवसरेऽग्न्यर्चनमीश्वराद्युपबृंहितं ग्राह्यम् ॥ १३०-१३२ ॥ अङ्गार, अर्चि और दहनात्मिका शक्ति यह तीन लक्षण आधार के हैं। स्वयं विभु अग्निदेव के आधार हैं। इस प्रकार उस वैश्वानरी परा-सत्ता को आत्मयोनि, विश्वेश, वासुदेव, सनातन समझकर नैष्ठिक कृतनिश्चय हो कर कर्म में प्रवृत्त होते हैं ॥ १३०-१३२ ॥ कुर्यादुदकपूर्वं तु प्राग्वदावाहनं ततः ॥ १३२ ॥ व्यक्तेर्विगलितेनैव तत्त्वेनाप्यव्ययात्मना। अथाग्निमध्ये भगवदावाहनमाह—कुर्यादिति। व्यक्तेर्विगलितेनेत्यनेन बिम्बादि- ष्वर्चितस्यैवात्रावाहनमित्यवगम्यते। तत्त्वेन = मान्त्ररूपेणेत्यर्थः ॥ १३२-१३३ ॥
षष्ठः परिच्छेदः १०९ सर्वेश्वरस्य वै यस्माद् यद्यन्मन्त्रं महद्वपुः ॥ १३३ ॥ वाच्यवाचकरूपं तद् विज्ञेयममलेक्षण । तत्पुनः शुद्धसामान्यमुपचारविधौ स्थितम् ॥ १३४ ॥ यद्भोगदानमन्त्रैस्तु रहितं मान्त्रमैश्वरम् । मन्त्रशरीरस्यैव मुख्यत्वं तस्य वाच्यवाचकरूपेण द्वैविध्यं चाह—सर्वेश्वरस्येति द्वाभ्याम् । अत्रावाहनमित्यनेन भद्रपीठपरिकल्पनादित्वभोगार्चनान्तविधयोऽप्युप- लक्ष्यन्ते । तथैवोपरुंहितमीश्वरादिषु च ॥ १३३-१३५ ॥ सर्वप्रथम जल द्वारा उनका पहले की तरह आवाहन करे । अब अग्नि मध्य में भगवान् का आवाहन कहते हैं । बिम्बादि में अर्चित भगवान् की तरह अव्यात्मा तत्त्व रूप मन्त्र से उस सर्वेश्वर का आवाहन करे क्योंकि जितने मन्त्र है, वही उसके महान् शरीर हैं । हे अमलेक्षण ! इसलिये मन्त्र और परमेश्वर में वाच्य वाचक भाव सम्बन्ध होता है, ऐसा समझना चाहिये । फिर उपचार विधि में वे सभी सामान्य हो जाते हैं ॥ १३२-१३४ ॥ प्राक् चतुर्धा विभक्तो यस्तमादायेध्मसञ्चयम् ॥ १३५ ॥ आज्येनोभयतः सिक्तं ब्रह्मक्षीरद्रुमोद्भवम् । कुण्डस्य ब्रह्मभित्तिभ्यां मध्ये भागचतुष्टये ॥ १३६ ॥ निदध्यादुत्तराशान्तं प्राग्भागादितः क्रमात् । ईशानाग्नेयपादाभ्यां पतितं प्राक् चतुष्टयम् ॥ १३७ ॥ आग्नेयनैर्ऋताशाभ्यां विश्रान्तमपरं न्यसेत् । नैर्ऋतानिलसंस्पर्शि तृतीयं विनिवेश्य च ॥ १३८ ॥ वाय्वीशपदसंरुद्धं चतुर्थं तु चतुष्टयम् । एवं चतुर्विभक्तेन सामिधेन समासतः ॥ १३९ ॥ कुण्डमेकं चतुर्धा वै चतुर्णां संविभज्य च । अग्नीनामेकदेहानां चातुरात्म्यव्यपेक्षया ॥ १४० ॥ यदा य उपयोग्यः स्यात् यस्मिन् यस्मिन् हि वस्तुनि । स्वमूर्तेस्तर्पणार्थं च कर्मणि स्थापनादिके ॥ १४१ ॥ तदा तदा स आदेयः स्वकात् स्थानाच्च यत्नतः । ततः पूर्वं प्रणीतासंस्कारकाले चतुर्धा विभक्तस्य षोडशेध्मस्येदानीं कुण्डमध्ये आ(वाह? हव)नीयादिविभागार्थं प्रागादिषु ब्रह्मस्थानभित्त्योर्मध्ये तत्तत्कोणद्वयसंरोधेनेध्मप्रक्षेपमाह—प्राक् चतुर्धेत्यादिभिः स्वकात् स्थानाच्च यत्नत इत्यन्तैः ॥ १३५-१४२ ॥
११० सात्वतसंहिता प्रणीता संस्कार काल में आज्य से सिक्त पलाश तथा दूध वाले वृक्षों से उत्पन्न जो १६ समिधायें कही गई हैं, उसका चार भाग आवहनीयादि विभाग के लिये करे। फिर उसे कुण्ड के ब्रह्मभित्ति के मध्य में चार भागों में, पूर्व से लेकर उत्तर दिशा तक स्थापित करे। ईशान-आग्नेय में पहला चतुष्टय, आग्नेय-नैर्ऋत्य कोण में दूसरा चतुष्टय, नैर्ऋत्य-वायव्य कोण में तीसरा, फिर वायु और ईशान में चतुर्थ चतुष्टय स्थापित करे ॥ १३५-१३९ ॥ द्वितीयमिध्ममादाय त्वष्टकाष्ठमयो हि यः ॥ १४२ ॥ द्विधा कृत्वा पुराज्येन पूर्ववत् सेचयेच्च तम्। इध्मविभागादिकमाह—द्वितीयमिति। इध्माष्टकं पुरा द्विधा कृत्वा तदनन्तरं पूर्ववदुभयत आज्येन सेचनीयम्। यद्यपीश्वरपारमेश्वरयोः—'आज्येनोभयतः सिक्तं ब्रह्मक्षीरद्रुमोद्भवम्। समादाय द्विधा कृत्वा' (ई०सं० ५।१८६; पा०सं० ७।१४८) इति चोक्तत्वाद् इध्मानामाज्यसेकानन्तरं द्वेधा विभजनं प्रतीयते, तथापि मूलाविरोधेनार्थस्य वर्णनीयत्वात्, मूले च द्विधा कृत्वा पुराज्येन पूर्ववत् सेचयेच्च तमित्युक्तत्वात्, षोडशेध्मप्रकरणेऽपि चतुर्धा विभजनानन्तरमेवाज्यसेकस्योक्तत्वाच्च पाठक्रमादर्थक्रमस्य बलीयस्त्वेन तयोरपि द्वेधाकरणानन्तरमेवाज्यसेचनमित्यर्थो वर्णनीयः। अत एवास्मत्तातपादैरीश्वरानुसारिण्यपि सात्वतामृते मूलाविरोधेनार्थो वर्णितः। कस्मिंश्चित् पारमेश्वरप्रयोगे—'आज्येन सर्वतः संसिच्य द्विधा कृत्वा' इत्युक्तम्, तद्विरुद्धम् ॥ १४२-१४३ ॥ निधाय दक्षिणस्यां च मध्य आग्नेयदिग्गतम् ॥ १४३ ॥ विश्रान्तं नैर्ऋतपदे चोत्तरस्यां तथाऽपरम्। वाय्वीशपदसंरुद्धमाज्यमादाय वै ततः ॥ १४४ ॥ इध्मप्रक्षेपक्रमपाह—निधायेति सपादेन। अग्नौ दक्षिणस्यां मध्ये नैर्ऋताग्नेय- को(ण)संरुद्धमिध्मचतुष्टयं निधाय तथैवापरं चतुष्कमृत्तरस्यां मध्ये वायव्येशानकोण- संरुद्धं निदध्यादित्यर्थः। एवं नैर्ऋताग्नेयसंरुद्धत्वोक्त्या वायव्येशानसंरुद्धत्वोक्त्या चाग्नौ दक्षिणस्यामुत्तरस्यां च पूर्वपश्चिमयतने वेध्मप्रक्षेपः कार्य इत्यर्थः सिद्ध्यति। ननु पूर्वपश्चिमन्तामिध्मप्रक्षेपः स्वतः सिद्ध इति चेन्न, पूर्वं षोडशेध्मप्रक्षेप- प्रकरणे—'ईशानाग्नेयपादाभ्यां पतितं प्राक्चतुष्टयम्' (६।१३७) इति, 'नैर्ऋतानल- संस्पर्शि तृतीयं विनिवेश्य' (६।१३८) इति च दक्षिणोत्तरायतमपीध्मप्रक्षेपस्योक्त- त्वात्। इममर्थमविज्ञाय कस्मिंश्चित् पारमेश्वरप्रयोगे वृथा पाण्डित्यं कृतम्। तथाहि— इध्माष्टकपक्षे कुण्डादन्तः दक्षिणभित्तौ मध्यत ऊर्ध्वाग्रमेकमिध्मं मूलेन संयोज्य तथा कुण्डमध्यत आग्नेये नैर्ऋते चेध्मत्रितयं निधाय तथापरचतुष्कमृत्तरभित्तिकुण्ड- मध्यवाय्वीशानकोणेषु निदध्यादिति ॥ १४३-१४४ ॥ चतुःसंख्येन मन्त्रेण प्रणवालङ्कृतेन च। दक्षिणे स्रुक्चतुष्कं तु जुहुयादुत्तरे तथा ॥ १४५ ॥
षष्ठः परिच्छेदः १२१ सूर्यसोमात्मकं चाग्नेर्विद्धि तल्लोचनद्वयम् । ततोऽग्नौ दक्षिणे उत्तरे चेध्मप्रक्षेपस्थाने तत्संख्यानुगुणमाज्यहोमं तत्स्थानद्वयस्य सूर्यसोमात्मकाग्निलोचनत्वं चाह—चतुःसंख्येनेति सार्धेन । जयाख्ये तु—सूर्यसोमयो- स्तत्तन्मन्त्राभ्यामाहुतिद्वाराऽग्नौ दक्षिणोत्तरयोः संयोजनमुक्तम् । तदपि संगृहीतमीश्वर- पारमेश्वरयोः । किञ्च, एवमाज्यभागाभ्यां पूर्वमाघारहोमोऽपि संगृहीतस्तत्रैव— ............ आघाराज्यं ततः क्षिपेत् । इध्ममूलादथाक्रान्तमिध्मेधोपरि संस्थितम् ॥ स्रुवमाज्येन सम्पूर्य सूर्यबीजेन चिन्तयेत् । सहस्रांशुं च तन्मध्ये दद्यात् कुण्डस्य दक्षिणे ॥ अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु । पूर्णं शशाङ्कबिम्बं च प्रदद्यात् तत उत्तरे ॥ इति ॥१४५-१४६॥ —(ई०सं० ५।१८८-१९०; पा०सं० ७।१५०-१५२) ॐ से संयुक्त चार संख्या वाले मन्त्र से दक्षिण में चार स्रुव से होम करे । इसी प्रकार उत्तर में भी होम करे । ये दोनों ही सूर्य सोमात्मक होने से अग्निदेव के नेत्र हैं ॥ १४५-१४६ ॥ एतयोरन्तरं यद् वै तदग्नेर्वदनं स्मृतम् ॥ १४६ ॥ तत्र वै जुहुयात् पूर्वं समिधां सप्तकं क्रमात् । घृतसिक्तां चतुःसंख्यामेकैकां हि सुपुष्कलाम् ॥ १४७ ॥ एतयोरन्तरालस्य वदनत्वं तत्र सप्तसमिधां होतव्यत्वं चाह—एतयोरिति । समिधां सप्तकं समित्-पुष्प-धूप-मधुपर्क-बीज-चरु-घृतानीत्यर्थः । समिध्यते दीप्यतेऽग्नि- रनयेति व्युत्पत्त्या समित्पुष्पादीनां सप्तानामपि समिदित्येव व्यवहारात् ॥ १४६-१४७ ॥ इनका मध्य भाग अग्नि का मुख है । तदनन्तर पुनः उसी में सात समिधाओं का होम करे । चार संख्या वाली समिधाओं में एक-एक को घी में सिक्त कर सर्वथा शुद्ध रूप में होम करे, जो आसादन काल में कुङ्कुमादि से लिप्त कर पहले स्थापित की गई थी ॥ १४६-१४७ ॥ प्राक् कुङ्कुमादिना लिप्तां काष्ठसंख्यां तु होमयेत् । स्रग्धूपं मधुपर्कं च बीजान्नाज्यं यथाक्रमम् ॥ १४८ ॥ तत्रान्नसमिधो दाने विशेषोऽयं विधीयते । साधितं संस्कृताऽग्नौ प्राक् तन्निधायाग्रतश्चरुम् ॥ १४९ ॥ समुद्घाट्यावलोक्यादौ सम्प्रोक्ष्यार्घ्याम्भसा ततः । दर्भकाण्डचतुष्केण साग्निना तदनुस्पृशेत् ॥ १५० ॥ तन्मध्ये स्रुवचतुष्कं तु मन्त्रैराज्यस्य निक्षिपेत् । अथादाय स्रुचं तत्र तद्वद् दद्याच्चतुष्टयम् ॥ १५१ ॥
चतुरङ्गुलमानेनाऽप्यन्नग्रासमथाहरेत् । तन्निधाय स्रुचा दर्भे तदूर्ध्वं पूर्ववत् घृतम् ॥ १५२ ॥ दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाहुतिं ततः । भूयोऽग्नौ स्रुक्चतुष्कं तु चाज्यस्यापाद्य यत्नतः ॥ १५३ ॥ ततोऽन्न माज्यसंसिक्तं प्राग्वत् कृत्वहुतिं पुनः । दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम् ॥ १५४ ॥ हुत्वाऽप्यन्नाहुतीनां च ह्याख्यां जुहुयात् ततः । तासां होमक्रममाह—घृतसिक्तां चतुःसंख्यामित्यारभ्य आज्याख्यां जुहुयात् तत इत्यन्तम् । घृतसिक्तां घृतेनोभयतः सिक्तामित्यर्थः, ‘आज्येनोभयतः सिक्तम्’ (६। १३६) इति पूर्वोक्तेः । एकैकाम् पूर्वमिध्महोमप्रकरणे चतुश्रुतस्समिधां युगपत् प्रक्षेप- स्योक्तत्वादत्रापि तादृशत्वशङ्काया निवृत्यथमेकैकामित्युक्तम् सुपुष्कलामित्यनेन कृमि- भक्षितत्वादिदोषराहित्यमुच्यते । प्राग् आसादनकाल इत्यर्थः । कुङ्कुमादिना आदि- शब्देन कर्पूरकस्तूर्यौ गृह्येते, स्रग्धूपमधुपर्कं स्रक् पुष्पमित्यर्थः । ‘ततः पुष्पमयीं दद्यात्’ (४०।६८) इति लक्ष्मीतन्त्रोक्तेः । धूपः = गुग्गुल्वादि । मधुप(र्क? र्कः) संमिलित- पयोदधिमध्वाज्यम् । बीजानि = मुद्गादीनि । अन्नानि = पायसादीनि । आज्यं = गोघृतम् । आहत्य सप्त समिधो ज्ञेयाः । यथाक्रमम् = उत्त्क्रममनतिक्रम्येत्यर्थः । पूर्वं काष्ठसमिधम्, ततः पुष्पम्, ततो धूपम्, ततो मधुपर्कम्, ततो बीजानि, ततश्चरुम्, तत- स्त्वाज्यं क्रमेण जुहुयादिति यावत् । क्वचित् सात्वतपुस्तकेषु ईश्वर(५।१९४) पारमेश्वरपुस्तकेषु च ‘बीजान्याज्यं यथाक्रमम्’ इत्यशुद्धपाठो लिखितः । तदनुसारेण केषुचित् पारमेश्वरप्रयोगेषु बीजाहु- त्यनन्तरमाज्याहुतिस्तदनन्तरं चर्वादुहतिरिति लिखितम्, तदसंगतम्, यतः पूर्वं सामा- न्यतोऽन्नसमिद्दानोक्तिमन्तरा तत्रान्नसमिधो दाने विशेषोऽयं विधीयत इत्युक्तेरवतरणा- संभवात्, आज्याख्यां जुहुयात् तत इति चर्वादुहुत्यनन्तरमाज्याख्यसमिद्दानस्योक्त- त्वाच्च । प्राक् संस्कृताग्नौ साधितमित्यत्र चरुसाधनप्रकारस्तु दीक्षाप्रकरणे वक्ष्यमाणो ज्ञेयः । तन्मध्ये चरुमध्ये । आज्यस्य स्रुक्चतुष्कं निक्षिपेत्, स्रुचाज्येन चतुर्वारमभि- घार्येदित्यर्थः । अन्नग्रासं कुक्कुटाण्डप्रमाणमन्नकबलमित्यर्थः । ‘कुक्कुटाण्डप्रमाणं तु ग्रास इत्यभिधीयते’ (अ०सं० १२१-१२२) इति स्मृतेः । अथादाय स्रुचं तत्र तद्वद् दद्याच्चतुष्टयमित्यत्र, तदूर्ध्वं पूर्ववद् घृतमित्यत्र, दद्यादग्नौ चतुष्कं तु इत्यत्र च स्रुवेणेति ज्ञेयम् । ततोऽन्नमाज्यसंसिक्तं प्राग्वत् कृत्वा स्रुचाऽज्येन चरुं चतुर्वारमभिघार्येत्यर्थः । पूर्वप्रयोगेणेत्यनेन स्रुचि स्रुवेण चतुरभिघारः, तत्र चरुनिक्षेपः, तदुपरि पुनश्चतुरभि- घारस्स्रुवेणाज्याहुतिचतुष्टयम्, चर्वाहुत्यनन्तरं पुनः स्रुचाऽज्याहुतिचतुष्टयं च संगृह्यते । एवमन्नाहुतीनां चतुष्टयं हुत्वेत्यनेनान्नाहुतीनामपि चतुःसंख्याकत्वमेव ज्ञेयम् । एवं काष्ठसमिधोऽन्नसमिधश्च चतुःसंख्याकत्वोक्त्या पुष्पादीनां पञ्चसमिधामपि चतुः- संख्यया होमो ज्ञायते ।
षष्ठः परिच्छेदः ११३ पारमेश्वरव्याख्याने तत्प्रयोगे च षोडशसंख्ययाऽन्नाहुतयस्तत्संख्ययाऽऽज्याहुत- यश्च प्रतिपादिताः । तद् भ्रान्तिमूलकम्, दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम् । हुत्वाप्यन्नाहुतीनां त्वित्यन्नाहुतिचतुष्टयस्य कण्ठरवेणोक्तत्वात्, एकैकान्नाहुतेः पुरस्तात् परस्ताच्च चतुश्चतुः संख्यक्रियमाणा-ज्याहुतीनां द्वात्रिंशत्संख्याकत्वाच्च । वस्तुतस्तु बहुशः पारमेश्वरपुस्तकेष्वस्मिन् प्रकरणे च चतुष्कं तु मन्त्रैराज्यस्य निक्षिपेदित्यादि दद्यादग्नावित्यन्तग्रन्थपातादेवं व्याख्यातारः प्रयोगकाराश्च बभ्रमुरिति ज्ञेयम् । अत एव पारमेश्वरव्याख्याने—'तत्रान्नसमिधविशेषमाह—तत्रान्नसमिधो दान इति पञ्चभिः' इति लिखितम् । मध्ये पतितं श्लोकद्वयं न किञ्चिदपि तेषामाकांक्षापद- वीमधिरूढम् ॥ १४८-१५५ ॥ पहले काष्ठ समिधा का, फिर पुष्प का, फिर धूप का, फिर मधु का, फिर बीज का, फिर चरु का, फिर घी का इस प्रकार से क्रमशः हवन करे ॥ १४८ ॥ उसमें अन्न समिधा (चरु) के हवन में इस प्रकार की विशेषता है अग्नि में सिद्ध चरु को अपने आगे स्थापित करे । फिर उसे उद्घाटित कर अच्छी प्रकार से अवलोकन करे । फिर अर्घ्य के जल से प्रोक्षण कर अग्नि युक्त चार गाँठ वाले कुशाओं से उसका स्पर्श करे ॥ १४९-१५० ॥ फिर उसके मध्य में चार स्रुवा घी डाले । फिर स्रुवा लेकर चार स्रुवा चरु अग्नि में डाले । फिर उसमें से चार अङ्गुल अन्न का ग्रास लेकर फिर स्रुवा से उसे दर्भ में स्थापित कर पूर्ववत् उसमें घृत डाले । इस प्रकार चार बार अन्नाहुति प्रदान करे । इसी प्रकार चार स्रुवा घृत की आहुति पुनः प्रदान करे । तदनन्तर आज्य संसिक्त अन्न की आहुति देने के पश्चात् अन्न की तथा आज्य की आहुति मिश्रित रूप से देवे ॥ १५१-१५५ ॥ तदन्ते तोयनिर्मुक्तैः कुसुमैरर्घ्यमिश्रितैः ॥ १५५ ॥ पूजयेच्चतुरो वारान् मन्त्रैर्वा प्रणवैः प्रभुम् । ततोऽग्निस्यदेवानां पुष्पैश्चतुर्वारमर्चनमाह—तदन्त इति । अर्घ्यमिश्रितैराज्यार्घ्य- मिलितैरित्यर्थः, अन्यथा तोयनिर्मुक्तैरित्यनेन विरोधात् । अत एवाज्येनैवार्घ्यदानादिक- मुक्तं पाद्मे—'अर्घ्यपूर्वं निवेद्यान्तं सर्पिषा जुहुयात् सकृत्' इति । मन्त्रैः = वासुदेवादि- मन्त्रैरित्यर्थः । यद्वा प्रणवैः, बहुवचनेन चतुर्वारमुच्चरितैरित्यर्थः । मूर्तिमन्त्राः प्रति- व्यक्तिविभिन्नाः, प्रणवस्तु व्यापकत्वात् सर्वेषामेक एवेति भावः । अत्र प्रणवैरि- त्यनेनाष्टाक्षरादयश्चत्वारो मन्त्रा अप्युपलक्ष्यन्ते, तेषामपि प्रणवार्थविवरणरूपतया व्यापकत्वात्, तेषु प्रणवपदमन्त्रत्वेनोक्तत्वाच्च । तथा च लक्ष्मीतन्त्रे— पदमन्त्रपाञ्चाश्योऽस्य स्युर्विधाने पाञ्चरात्रिके ॥ विष्णवे नम इत्येवं नमो नारायणाय च । नमो भगवते पूर्वं वासुदेवाय चेत्यपि ॥ जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।