भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

१८६ सात्वतसंहिता परत्वमनिरुद्धस्य प्राप्ते चावसरे स्मरेत् ॥ ११३ ॥ तदाकारं हृषीकेशं पद्मोदरगतं स्मरेत् । इष्ट्वा सम्यग्विधानेन चक्रारस्थं यथा पुरा ॥ ११४ ॥ अत्र राजोपचारैस्तु षट्पदाभैस्तु चाऽर्चनम् । पुष्पौदनाम्बरैः कुर्यादभावादञ्जनादिना ॥ ११५ ॥ पिञ्जरीकृत्य यत्नेन देवाय विनिवेद्य च । कृष्णागुरुविमिश्रं च लेपनं चात्र कुङ्कुमम् ॥ ११६ ॥ धौतायसमयं पात्रं मणिभिश्चासितैश्चितम् । सम्पूर्णं च तिलैः कृष्णैः पूजान्ते विनिवेद्य च ॥ ११७ ॥ सम्यक् तदर्चनं कृत्वा यथासम्पत्ति भक्तितः । तृतीयं प्रीणयेत् प्राग्वत् प्रद्युम्नो मेऽस्तु वै गतिः ॥ ११८ ॥ अथ त्रिविक्रमादिमन्त्रत्रयेण भाद्रपदशुक्लदशम्यन्तं व्रतानुष्ठानम्, तदारभ्य हृषीकेशमन्त्रेण व्रतारम्भम्, हृषीकेशादित्रिककारणभूतानिरुद्धस्य कृष्णवर्णत्वे कृष्ण- वर्णैरेव गन्धपुष्पवस्त्ररत्नफलादिभिरर्चनम्, केषाञ्चित् कृष्णवर्णानामलाभेऽप्यञ्जनादिना तत्कृष्णीकरणम्, कृष्णतिलपूरितधूपपात्रमात्रादानम्, गुर्वर्चनम्, ततः पूर्वोक्तरीत्या प्रद्युम्नप्रीणनं चाह—(अत्र राजोपचारैरिति चतुर्भिः ? अथ त्रिविक्रममिति सप्तभिः) । सम्यक् तदर्चनं कृत्वेत्यत्र तदर्चनं गुर्वर्चनमित्यर्थः ॥ ११२-११८ ॥ अब त्रिविक्रमादि मन्त्र त्रय के साथ भाद्र शुक्ल दशमी पर्यन्त व्रतानुष्ठान कहते हैं—इसके बाद त्रिविक्रम, वामन एवं श्रीधर का तीन महीने तक, जब तक आगे वाली शुक्ल पक्ष की दशमी न आ जाय तब तक पूजन करे ॥ ११२ ॥ उसके आदि में हृषीकेश मन्त्र से समस्त कार्य करे । फिर परस्वरूप अनिरुद्ध का और अवसर प्राप्त होने पर उनके आकार वाले हृषीकेश का कमल के मध्य में ध्यान करे ॥ ११३ ॥ पूर्व की भाँति विधानपूर्वक पूजन कर चक्र के अरे में सपत्नीक उनका ध्यान करे और राजोपचार से काले पदार्थों द्वारा उनका अर्चन करे । काले पुष्प, काला ओदन और काले वस्त्रों से उनका पूजन करे । इनके अभाव में गन्ध, पुष्पादि वस्तुओं से अञ्जनादि से रंग कर उसे काला बना कर पूजन करे । फिर कृष्णागुरु विमिश्रित लेपन, कुङ्कुम एवं घृत को तथा काले मणियों को और काले तिलों को किसी काले लौह पात्र में स्थापित कर दान देवें । इस प्रकार भक्तिपूर्वक अपनी सम्पत्ति के अनुसार पूजन करे । फिर 'प्रद्युम्नो मेऽस्तु वै गतिः' इस मन्त्र से प्रद्युम्न से प्रार्थना करे ॥ ११३-११८ ॥ ततो मासानुमासं च हृषीकेशादनन्तरम् ।

अष्टमः परिच्छेदः १८७ पद्मनाभं समभ्यर्च्य ततो दामोदरं तु वै ॥ ११९ ॥ गते मासत्रये ह्येवं सम्प्राप्य पुनरेव हि । दशमीं मार्गशीर्षस्य तदा कर्मणि कर्मणि ॥ १२० ॥ चतुर्षु चातुरात्मीयं मन्त्राणां विनियोज्य च । चतुर्मूर्त्यभिधानं च समालम्व्य यजेच्च तत् ॥ १२१ ॥ कर्णिकोपरि पत्रेषु प्रागादि हृदयादिकम् । विदिक्ष्वस्त्रं विभोरग्रे नेत्रं वै केशराश्रितम् ॥ १२२ ॥ अरान्तरे ततः स्वे स्वे दश द्वौ केशवादिकान् । चतुर्वर्णैस्तु कुसुमैस्तथा वस्त्रानुलेपनैः ॥ १२३ ॥ तद्वद् भक्ष्यैश्च नैवेद्यैः पानकैः पावनैः फलैः । अथान्यैर्विविधैर्भोगैर्ध्वजाद्यैर्यानवाहनैः ॥ १२४ ॥ मात्राभिः सहिरण्याभिस्ताम्बूलेनात्मना ततः । अथ हृषीकेशादिमन्त्रत्रयेण मार्गशीर्षशुक्लदशम्यन्तं मासत्रयं व्रतानुष्ठानम्, तदारम्भे द्वादश्यन्तं दिनत्रये कर्णिकामध्ये वासुदेवादीनां चतुर्णामप्यर्चनम्, प्राग्दलादिषु हृन्मन्त्राद्यर्चनम्, अरुषु केशवादिद्वादशमूर्तीनामर्चनं च पूर्वोक्तैश्चतुर्वर्णचन्दन कुसुमादिभिश्चतुर्विधमात्राभिश्च तत्तन्मूर्त्यनुसारेण कार्यमित्याह—ततो मासानुमासं चेत्यादिभिः ॥ ११९-१२५ ॥ इस प्रकार हृषीकेशादि मन्त्र से मार्गशीर्ष शुक्ल दशमी पर्यन्त तीन मास तक क्रमशः हृषीकेश एवं पद्मनाभ तदनन्तर दामोदर का अर्चन करे ॥ ११९ ॥ इस प्रकार तीन मास बीत जाने पर मार्गशीर्ष शुक्ल द्वादशी पर्यन्त तीन दिन तक कर्णिका के मध्य में वासुदेवादि चारों व्यूह का अर्चन करे । कर्णिका के बाद पूर्वादिक पत्रों पर हृन्मन्त्रादि का अर्चन करे, विदिक् में विभु के अस्त्र का तथा केशर पर स्थित नेत्र का अर्चन करे । बारह अरों पर अपने-अपने स्थान में बारह केशवादि का अर्चन करे । पूर्वोक्त कहे गये चारों प्रकार के (श्वेत, लाल, पीत और काले) वर्ण वाले व्यूह देवता का चन्दन, पुष्प, वस्त्र, अनुलेपन, भक्ष्य, नैवेद्य, दुग्धादि, पानक, पवित्र फल तथा अन्य प्रकार के भोग, ध्वजादि, वाहनों से तथा मात्रा (तिलादि विभिन्न अन्न) हिरण्यादि ताम्बूलादि से अर्चना करे । तदनन्तर पूर्वोक्त कहे गये वह्निमध्यस्थ मन्त्र-ग्रामों का अर्चन करे ॥ १२०-१२५ ॥ तर्पयेद् वह्निमध्यस्थं मन्त्रग्रामं यथोदितम् ॥ १२५ ॥ ततोऽर्चनं गुरोः कुर्याद् विशेषेण पुरोदितम् । ब्राह्मणान् भोजयेत् पश्चात्तेभ्यो दद्याच्च दक्षिणाम् ॥ १२६ ॥ प्रीणनं च पठेत् प्राग्वदनिरुद्धोऽस्तु मे गतिः ।

१८८ सात्वतसंहिता ततः पूर्णाहुतिं दद्यात् पश्चादिदमुदाहरेत् ॥ १२७ ॥ व्रतोत्तमेनानेनाद्य मया भक्त्या कृतेन च। चत्वारो वासुदेवाद्या मूर्तयः शक्तिभिः सह ॥ १२८ ॥ प्रयान्तु प्रीतिमतुलां दिशन्तु भविनोऽभयम्। धन्यं व्रतमिदं पुण्यं संसाराध्वनिवर्तनम् ॥ १२९ ॥ एषां सर्वेषामपि वह्निमध्ये सन्तर्पणम्, ततो गुर्वर्चनम्, ब्राह्मणभोजनम्, अनि- रुद्धप्रीणनम्, पूर्णाहुतिम्, वासुदेवादीनां चतुर्णामपि युगपत् प्रीणनं चाह—तर्पयेदिति चतुर्भिः ॥ १२५-१२९ ॥ इसके बाद गुरु का अर्चन, विशेष रूप से जो पहले कहा गया है उसके अनुसार, करे। फिर ब्राह्मणों को भोजन करावे और उन्हें दक्षिणा प्रदान करे। तदनन्तर 'अनिरुद्धोऽस्तु मे गतिः' यह प्रीणन मन्त्र पढ़कर अनिरुद्ध से प्रार्थना करे। फिर पूर्णाहुति दे कर उसके बाद चारों व्यूह को प्रीणन के लिये यह प्रार्थना करे ॥ १२६-१२७ ॥ भक्तिपूर्वक मेरे द्वारा किये गये इस व्रत से अपनी-अपनी शक्तियों के साथ चारों वासुदेवादि मूर्त्तियाँ अत्यन्त प्रसन्न हो जावें, संसारी मनुष्यों को अभय करें, यह व्रत अनन्त फल देने वाला है। इसमें विघ्न आने पर भी अभय ही रहना चाहिये क्योंकि यह व्रत धन्य है, पुण्यावह है, संसार रूपी मार्ग से निवृत्त करने वाला है ॥ १२८-१२९ ॥ अल्पक्लेशमसङ्कीर्णमनन्तफलदं नृणाम्। नावसादस्त्वतः कार्य एतदाचरणे तु वै॥ १३० ॥ अस्य व्रतस्यासम्पूर्णत्वेऽप्यनन्तफलप्रदत्वान्मध्ये विघ्नान्न भेतव्यमित्याह—धन्य- मिति सार्धेन ॥ १२९-१३०॥ यथोपसदनैः कार्यमध्यमैर्मध्यमैर्जनैः। अशाठ्येन यथाशक्ति त्वारण्यैः कुसुमादिकैः ॥ १३१ ॥ अद्भिर्दूर्वाङ्कुरैः पत्रैर्जपजागरणादिना। दीपेनाभ्युक्षणेनैव मार्जनेनोपलेपनैः ॥ १३२ ॥ इदं व्रतं यथाशक्ति मध्यमकल्पेनाधमकल्पेन वा केवलं पत्रपुष्पफलतोयादिभिर्वा जपजागरणदीपारोपणमार्जनानुलेपनादिकैङ्कर्येण वाऽनुष्ठेयमित्याह—यथोपसदनैरिति द्वाभ्याम् ॥ १३१-१३२ ॥ इस व्रत में क्लेश किञ्चिन्मात्र है। यह व्यापक है और मनुष्यों को अनन्त फल देने वाला है। इसमें दुःख रञ्चमात्र भी नहीं है। यह व्रत यथाशक्ति मध्यम

अष्टमः परिच्छेदः १८९ कल्प एवं अधम कल्प वाले मनुष्यों के द्वारा केवल पत्र, पुष्प, फल और जलादि यथोपलब्ध स्वल्प सामग्री से भी अनुष्ठेय है । यथाशक्ति आरण्यक पुष्पों से, दूर्वाङ्कुरों से, जल से, पत्र, जप, जागरणादि से, दीपारोपण, मार्जन, अनुलेपनादि, कैङ्कर्यों से अनुष्ठेय है ॥ १३०-१३२ ॥ व्रीहीन् सक्तूनथाज्यं च तिलान्यन्नान्यथाहरेत् । संवत्सरस्य पूजार्थं दानार्थं प्राशनाय च ॥ १३३ ॥ व्रतार्थं पूर्वं चतुर्विधमात्रा (द्या?) र्जनमाह—व्रीहीनिति ॥ १३३ ॥ सम्पूर्ण संवत्सर तक पूजा के लिये, दान के लिये, प्राशन के लिये, सर्वप्रथम इस व्रीहि व्रत में सूक्त घृत, तिल एवं अन्न एकत्रित करे ॥ १३३ ॥ पूर्वं मासत्रयं दद्याद् व्रीहीन् वै विनिवेद्य च । द्वादश्यां भोजनात् पूर्वं हितं तत्प्राशनं सदा ॥ १३४ ॥ अपरं सक्तवश्चैव तृतीयं त्रितयं घृतम् । तिलानां त्रितयं चान्यत् प्राशनं चैवमेव हि ॥ १३५ ॥ मार्गशीर्षादिमासत्रयेऽपि द्वादश्यां भोजनात् पूर्वं व्रीहिमात्रादानम्, ततो व्रीह्यन्न- भोजनम्, फाल्गुनादित्रये सक्तुदानम्, तत्प्राशनम्, ज्येष्ठादित्रये आज्यदानम्, तत्प्राशनम्, भाद्रपदादित्रये तिलदानम्, तिलप्राशनं चाह—पूर्वमिति द्वाभ्याम् ॥ १३४-१३५ ॥ मार्गशीर्ष से लेकर तीन मास तक द्वादशी में भोजन से पूर्व व्रीहिपात्र का दान करे । तदनन्तर ब्रहि अन्न का भोजन तथा फाल्गुनादि तीन मास तक समुदान एवं तत्प्राशन करे । फिर ज्येष्ठादि तीन मास तक आज्यदान एवं आज्यप्राशन और भाद्रपदादि तीन मास तक तिलदान तथा तिलप्राशन करे ॥ १३४-१३५ ॥ द्वादशीनिर्णयकथनम् स्याद् यद्येकादशी पूर्णा द्वादश्यथ तया सह । परेऽहनि तदा कुर्याद् द्वादश्यामर्चनादिकम् ॥ १३६ ॥ द्वादशीनिर्णयमाह—स्यादिति । एकादशी पूर्णा स्याद्यदि द्वादशीदिनेऽप्यवशिष्टा चेदित्यर्थः । तया सह एकादश्या सह द्वादशी च पूर्णा स्याद्यदि त्रयोदशीदिनेऽप्य- वशिष्टा चेदित्यर्थः । तदा परेऽहनि द्वादश्यां त्रयोदशीदिनावशिष्टद्वादश्यामेवार्चनादिकं पूर्वोक्तव्रतार्चनपारणादिकं कुर्यादित्यर्थः । तथा च दर्शनिर्णये चन्द्रिकायाम्— सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते ॥ गृहस्थोऽपि परां कुर्यात् पूर्वा नोपवसेद् गृही । इति पूर्णशब्दार्थ उक्तः । अत्रैकादश्याः पूर्णशब्दविशेषणेनैव दशमीवेधराहित्य- मप्युच्यते, यतो दर्शनिर्णये—

१९० सात्वतसंहिता उदयात् प्राग् यदा विप्र मुहूर्त्तद्वयसंयुता । सम्पूर्णैकादशी नाम तत्रैवोपवसेद् गृही ॥ इति पूर्णशब्दार्थ उक्तः ॥ १३६ ॥ अब द्वादशी के निर्णय के विषय में कहते हैं—यदि एकादशी पूरे रात दिन हो और द्वादशी के दिन भी कुछ शेष हो । एकादशी के साथ यदि द्वादशी पूर्ण हो तथा दूसरे दिन भी त्रयोदशी के साथ शेष द्वादशी हो, तब दूसरे दिन, जिस दिन द्वादशी हो, अथवा जिस दिन त्रयोदशी के साथ अवशिष्ट द्वादशी हो, उसी में पूर्वोक्त व्रतार्चन एवं पारणादिक कर्म करे ॥ १३६ ॥ संवत्सरस्य वै मध्याद् यस्त्वेकां कर्तुमिच्छति । तस्यामपि स्वमन्त्रेण कर्म पूजान्तमाचरेत् ॥ १३७ ॥ यथाप्राप्तैस्तु पुष्पाद्यैः प्रागुक्ताङ्गैः सहार्चनम् । पररूपस्य मध्ये तु पूजनं स्वेऽन्वगेव हि ॥ १३८ ॥ केवलस्य तु तस्यैव स्वनाम्ना प्रीणनं हितम् । पारणं प्राग्विधानेन त्वेकं भूरिफलप्रदम् ॥ १३९ ॥ तस्माद् द्वे त्रीणि वा कुर्यात् स्वशक्त्या श्रद्धयान्वितः । एवमेकं वत्सरं प्रतिद्वादशीव्रतानुष्ठानाशक्तावेकस्यां वा द्वादश्यां तन्मासेश- मन्त्रेण तदनुगुणवर्णफलपुष्पादिवस्तुभिस्तत्कारणभूतवासुदेवाद्यन्यतमाकारस्य केवलस्य = कर्णिकामध्येऽर्चनम्, बहिररस्थाने तद्देव्या सहार्चनम्, एकस्य त्रयाणां वा ब्राह्मणानां भोजनम्, तेन तन्मासेशप्रीणनं च कार्यमित्याह—संवत्सरस्येति सार्धैस्त्रिभिः ॥ १३७-१४०॥ यदि कोई एक वर्ष तक प्रतिद्वादशी के व्रतानुष्ठान में अशक्त है तब वह किसी भी एक द्वादशी को उस मासेश के मन्त्र से यथाप्राप्त पुष्पादि से, प्रागुक्त अङ्गों के साथ वासुदेवादि किसी एक आकार का, केवल कर्णिका के मध्य में अर्चन करे, बाहर अरा के स्थान में देवी के साथ अर्चन करे । एक अथवा तीन ब्राह्मणों को भोजन करावे तथा उस मासेश को प्रसन्न रखे । केवल उसी एक का नाम ही प्रीतिकारक तथा हितकारी है । पूर्व के विधानानुसार केवल एक ही पारण भूरि फल देने वाला कहा गया है । इस कारण साधक श्रद्धा से संयुक्त होकर अपनी शक्ति के अनुसार एक, दो अथवा तीन द्वादशी का व्रत करे ॥ १३७-१४० ॥ नारी ह्यनन्यशरणा यद्येवं हि समाचरेत् ॥ १४० ॥ निःस्वामिका वानुज्ञाता पत्या साऽथाप्नुयाच्च तत् । इदं व्रतं स्त्रीभिरपि सुमङ्गलाभिः पूर्वसुमङ्गलाभिर्वाऽनुष्ठेयमित्याह—नारीति । तद् व्रतफलमित्यर्थः । सुमङ्गलायाः स्त्रियः पत्युरनुज्ञां विना व्रतानुष्ठानानौचित्यात्

अष्टमः परिच्छेदः १९१ पत्याऽनुज्ञातेत्युक्तम् । तथा च गारुडे— नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा । निष्फलं तु भवेत् तस्या यत् करोति व्रतादिकम् ॥ अनापृच्छ्य तु भर्तारमुपोष्य व्रतमाचरेत् । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ नास्ति स्त्रीणां पृथक् कर्म न व्रतं नाप्युपोषणम् । पतिशुश्रूषणं तासां तेन स्वर्गो विधीयते ॥ इति ॥ १४०-१४१ ॥ यह व्रत सुमङ्गला नारी अथवा पूर्वसुमङ्गला (= विधवा) दोनों को करना चाहिये । सुमङ्गला स्त्री पति की आज्ञा से यदि व्रत करे तो उसे भी इसका फल प्राप्त होता है ॥ १४०-१४१ ॥ चातुर्मास्यविधानम् अथापवर्गदं वक्ष्ये चातुर्मास्यं व्रतोत्तमम् ॥ १४१ ॥ यत्कृत्वाऽभिमतान् कामानिहैव लभते नरः । गृहमासाद्य निर्बाधं देशे वा न जनाकुले ॥ १४२ ॥ यथाविभवविस्तीर्णं तुर्याश्रं वा यथायतम् । धूमनिर्गमनोपेतं गवाक्षगणभूषितम् ॥ १४३ ॥ इष्टकाद्यैश्चितं कुर्यात् तन्मध्ये पिण्डिकात्रयम् । चतुरश्रं च विच्छिन्नं भूमेः किञ्चित् समुन्नतम् ॥ १४४ ॥ ततो दक्षिणदिग्वेदेरूर्ध्वे कुण्डं तु पूर्ववत् । मध्ये चन्दनमिश्रेण रोचनाकुङ्कुमेन च ॥ १४५ ॥ गोक्षीरमर्दितेनैव मासि मासि लिखेच्छुभम् । चक्रं षट्पत्रगर्भं तु स्नानपीठमुदग्दिशि ॥ १४६ ॥ ततस्त्वाषाढमासस्य दशम्यामुदितेन्दुना । वासुदेवाख्यमन्त्रेण तोयमादाय पाणिना ॥ १४७ ॥ भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत । व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये ॥ १४८ ॥ ततोऽर्चयेद् वासुदेवं द्वादश्यां कमलोदरे । प्रागादावथ पत्राणां त्रयं सङ्कर्षणादिकम् ॥ १४९ ॥ प्रादक्षिण्‍येन विन्यस्य यावद्रक्षःपदच्छदम् । ईशानपदपत्रात् तु अनिरुद्धादिकत्रयम् ॥ १५० ॥

१९२ सात्वतसंहिता अप्ययेन तु सम्पूज्य यावत् पश्चिमदिग्दलम् । भूतावासं पुनर्मध्ये ततश्चक्रारकेषु च ॥ १५१ ॥ क्रमेण पूर्वदारभ्य न्यासं पूजनमाचरेत् । वामनं चाथ तद्देवीं हृन्मन्त्रं च ततः शिरः ॥ १५२ ॥ श्रीधरस्त्वथ तत्कान्ता शिखा कवचमेव च । हृषीकेशश्च तत्पत्नी ह्यस्त्रं तदनु लोचनम् ॥ १५३ ॥ ध्यानं स्नानं तथा पूजां होमं जपसमन्वितम् । क्रमेणानेन सर्वेषां सर्वदैव समाचरेत् ॥ १५४ ॥ द्वादश्यां श्रावणस्याथ मध्ये सङ्कर्षणं यजेत् । तत्पत्राभ्यां वासुदेवं चक्रारेष्वथ पूर्ववत् ॥ १५५ ॥ त्रितयं पद्मनाभाद्यं तथा देवीं हृदादि यत् । ततो नभस्यद्वादश्यां प्रद्युम्नः कर्णिकागतः ॥ १५६ ॥ आद्यस्तत्पत्रगोऽराणां त्रयं नारायणादिकम् । देव्यश्चैवाङ्गषट्कं तु पूर्ववच्चारकान्तरे ॥ १५७ ॥ ततस्तदग्रद्वादश्यामनिरुद्धं यथा पुरा । पत्रयुग्मे तदीये तु आदिदेवं यजेत् क्रमात् ॥ १५८ ॥ त्रिविक्रमान्तं विष्ण्वाद्यं शक्तिरङ्गान्यथादिवत् । एवं तावद् यजेद् यावद् द्वादशी कार्तिकस्य तु ॥ १५९ ॥ तत्राखिलैर्मन्त्रवरैः कर्म निश्शेषमाचरेत् । द्वादश्यां पूर्ववन्मध्ये षडङ्गं तुल्यरूपधृक् ॥ १६० ॥ मूर्तयोऽरान्तरस्थाश्च नेमिस्थो देवतागणः । पूजाहोमं विशेषेण पूर्णान्तं पूर्वचोदितम् ॥ १६१ ॥ इत्येतत् सविशेषं च व्रतमुक्तं समासतः । यत्कृत्वा पुनरप्यत्र जायते न पुनर्भवे ॥ १६२ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां समन्त्रकव्रतविधिर्नाम अष्टमः परिच्छेदः ॥ ८ ॥ — ൡ ॐ ൹ — अथ चातुर्मास्याविधिमाह—'अथापवर्गदं वक्ष्ये' इत्यारभ्य यावत्परिच्छेदपरि- समाप्ति । सुखबोधनायैतद्व्याख्या प्रयोगरूपेण विलिख्यते ।

अष्टमः परिच्छेदः १९३ निर्बाधे स्वगृहे विजनेऽन्यत्र वा देशे यथाविभवविस्तारायां धूमनिर्गमनार्थ- मूर्ध्वगवाक्षान्वितं परितश्च गवाक्षोपशोभितं यागमण्डपं परिकल्प्य तन्मध्ये इष्टकाभि- र्विरचितं चतुरश्रं भूमेः किञ्चिदुन्नतं वेदिकात्रयं निर्माय तत्र दक्षिणदिग्वेदेरूर्ध्वं पूर्वोक्तं कुण्डं कल्पयेत् । मध्यवेद्यां गोक्षीरमर्दितेन चन्दनमिश्रेण रोचनासहितेन कुङ्कुमेन प्रतिमासं षड्दलपद्मगर्भं द्वादशारं चक्रं विलिखेत् । उत्तरवेदेरूर्ध्वं स्नानपीठं स्थापयेत् । अथाषाढशुक्लदशम्यां सायं वासुदेवमन्त्रेण दक्षिणपाणिना तोयमादाय, भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत । व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये ॥ (८।१४८) इत्युदकप्रक्षेपपूर्वकं संकल्प्य, एकादश्यां समुपोष्य, द्वादश्यां प्रातः कर्णिकामध्ये वासुदेवं प्रागाग्नेयनैर्ऋतदलेषु प्रादक्षिण्येन सङ्कर्षणप्रद्युम्नानिरुद्धान्, ऐशान्यवायव्य- पश्चिमदलेष्वप्ययक्रमेणानिरुद्धप्रद्युम्नसङ्कर्षणांश्च सम्पूज्य, पुनर्मध्ये वासुदेवमभ्यर्च्य, चक्रस्य प्रागाद्यरेषु वामनं प्रीतिसंज्ञां तद्देवी हृन्मन्त्रं शिरोमन्त्रम्, श्रीधरं रतिसंज्ञां तद्देवी शिखामन्त्रं कवचमन्त्रम्, हृषीकेशं मायाख्यां तद्देवीमस्त्रमन्त्रं नेत्रमन्त्रं च क्रमेणाभ्यर्च्य, ध्यानार्चनस्नपननिवेदनहोमजपादिभिः सर्वान् सन्तोष्य, अथ श्रावण- शुक्ल द्वादश्यां कर्णिकामध्ये सङ्कर्षणं दलेषु सङ्कर्षणस्थानयोर्वासुदेवमरेषु पद्म- नाभादामोदरकेशवान् धीमहिमाश्रीदेवीत्रयं हृन्मन्त्रादिष्टकं चाभ्यर्च्य, भाद्रपदशुक्ल- द्वादश्यां मध्ये प्रद्युम्नं दलेषु प्रद्युम्नस्थानयोर्वासुदेवमरेषु नारायणमाधवगोविन्दान् वागीश्वरीकान्तिक्रियाख्यदेवीत्रयं हृन्मन्त्रादिष्टकं चाभ्यर्च्य, आश्वयुजशुक्लद्वादश्यां मध्येऽनिरुद्धं दलेष्वनिरुद्धस्थानयोर्वासुदेवमरेषु विष्णुमधुसूदनत्रिविक्रमान् शक्तिविभू (तिच्छाया? तीच्छाख्य)देवीत्रयं हृन्मन्त्रादिष्टकं च क्रमेणाभ्यर्च्य, कार्तिकशुक्ल- द्वादश्यां कर्णिकामध्ये वासुदेवादिमूर्तिचतुष्टये दलेषु हृन्मन्त्रादिष्टकमरेषु केशवादि- मूर्तिद्विष्टकं नेमिस्थाने श्रियादिदेवी-द्विष्टकं च यथाविधि विशेषेणाभ्यर्च्य होमं पूर्णाहृत्यन्तं कुर्यात् ॥ १४१-१६२ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये अष्टमः परिच्छेदः ॥ ८ ॥ हे सङ्कर्षण! अब मोक्ष देने वाला सर्वोत्तम 'चातुर्मास्य व्रत' कहता हूँ जिसके करने से मनुष्य अपनी सभी अभीष्ट कामनायें इसी लोक में प्राप्त कर लेता है । निर्बाध अपने गृह में, अथवा किसी निर्जन प्रदेश में, जो अपने विभव के अनुकूल लम्बा-चौड़ा हो, चौकोर हो, उस स्थान में धुआँ निकालने के लिये अपर गवाक्ष हो तथा चारों ओर भी गवाक्ष हो, ऐसे याग मण्डप का निर्माण करे । उसके मध्य में चौकोर भूमि में, भूमि से ऊपर ईंटों से तीन वेदी निर्माण करावे । उसमें दक्षिण वेदी के ऊपर पूर्वोक्त कुण्ड निर्माण करावे । मध्य वेदी में गोक्षीर से मर्दित चन्दन

१९४ सात्वतसंहिता मिश्रित रोचना सहित कुङ्कुम से प्रतिमास षड्दलगर्भ वाले द्वादशार चक्र को लिखे। उत्तर दिशा की वेदी में स्नान पीठ स्थापित करे। फिर आषाढ मास की शुक्ल दशमी को सायङ्काल के समय वासुदेव मन्त्र से हाथ में जल ले कर, 'भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत। व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये॥' इस मन्त्र को पढ़कर संकल्प करे फिर जल प्रक्षिप्त कर देवे। तदनन्तर एकादशी को उपवास करे, द्वादशी के दिन प्रातःकाल कर्णिका मध्य में वासुदेव का और पूर्व, अग्नि एवं नैर्ऋत दलों में प्रदक्षिण क्रम से सङ्कर्षण, प्रद्युम्न तथा अनिरुद्ध का अर्चन करे। ईशान, वायव्य तथा पश्चिम दिशा में संहार क्रम से अनिरुद्ध, प्रद्युम्न तथा सङ्कर्षण का पूजन करे। फिर मध्य में वासुदेव की अर्चना कर चक्र के पूर्व स्थित पहले अरे में वामन एवं प्रीति संज्ञक उनकी देवी का हृन्मन्त्र और शिरो मन्त्र से, फिर श्रीधर एवं रति संज्ञक उनकी देवी का शिखा मन्त्र और कवच मन्त्र से, फिर हृषीकेश एवं माया नामक उनकी देवी का अस्त्र मन्त्र एवं नेत्र मन्त्र से क्रमशः अर्चन कर ध्यान करे। इस प्रकार अर्चन, स्नपन, निवेदन, होम एवं जपादि से सबको सन्तुष्ट करे ॥ १४१-१५४ ॥ फिर श्रावण शुक्ल द्वादशी के दिन कर्णिका के मध्य में सङ्कर्षण का और उन सङ्कर्षण के दलों में एवं सङ्कर्षण स्थान में वासुदेव का, अरों में पद्मनाभ, दामोदर और केशव का तथा धी, महिमा और श्रीदेवी का, फिर ६ हृन्मन्त्रादि का अर्चन करे। फिर भाद्रपद शुक्ल द्वादशी को मध्य में प्रद्युम्न की, प्रद्युम्न स्थान में वासुदेव की, अरों में नारायण, माधव, गोविन्द की तथा वागीश्वरी कान्ति और क्रिया, उनकी तीनों देवियों की हृन्मन्त्रादि षटकों से पूजा करे। फिर आश्विन शुक्ल द्वादशी को मध्य में अनिरुद्ध तथा अनिरुद्ध स्थान में वासुदेव की, अरों में विष्णु, मधु-सूदन, त्रिविक्रम की तथा शक्ति, विभूति, छाया उनकी देवियों की हृन्मन्त्रादि षटकों से क्रम से अर्चना करे। कार्तिक शुक्ल द्वादशी को कर्णिका के मध्य में वासुदेवादि मूर्त्ति चतुष्टय की दलों पर हृन्मन्त्रादि षटकों से, अरों पर केशवादि द्वादश मूर्त्तियों की, नेमि स्थान में द्वादश श्रियादि देवियों की यथाविधि विशेष रूप से अर्चना कर होमपूर्वक पूर्णाहुति करे। हे सङ्कर्षण! यहाँ सविशेष किन्तु संक्षेप में यह व्रत कहा गया है। जिसे सम्पादन करने पर मनुष्य फिर इस लोक में जन्म नहीं लेता। इस प्रकार यहाँ चातुर्मास्य याग का विधान और फल कहा गया ॥ १५५-१६२ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के समन्त्रकव्रतविधि नामक अष्टम परिच्छेद की हिन्दी समाप्त हुई ॥ ८ ॥ — ❦ ❀ ❦ —

नवमः परिच्छेदः विभवदेवतान्तर्यागविधिः नारद उवाच अथ लाङ्गलिना देवश्चक्रधृक् परिचोदितः । यत् तच्छृणुत विप्रेन्द्राः कथ्यमानं मयाऽधुना ॥ १ ॥ अथ नवमो व्याख्यास्यते । सङ्कर्षणपरिपृष्टेन वासुदेवेन यदुक्तं तच्छृण्वध्वमिति नारदो मुनीन् प्रत्याह—अथेति ॥ १ ॥ नारद ने कहा—हे विप्रेन्द्रगण ! इसके बाद सङ्कर्षण द्वारा पूछे जाने पर चक्रधारी भगवान् विष्णु ने जो कहा अब उसे मैं कह रहा हूँ, उसे आप लोग सुनिए ॥ १ ॥ सङ्कर्षण उवाच सूक्ष्मव्यूहविभागेन सबाह्याभ्यन्तरं हि यत् । परस्य ब्रह्मणः सम्यग् ज्ञातमाराधनं मया ॥ २ ॥ इदानीं श्रोतुमिच्छामि विभोः सद्भिभवात्मनः । आराधनं यथावच्च भविनामीप्सितप्रदम् ॥ ३ ॥ प्रश्नप्रकारमाह—सूक्ष्मेति द्वाभ्याम् । सूक्ष्मव्यूहविभागेन परव्यूहभेदेनेत्यर्थः । सबाह्याभ्यन्तरं मानसयागबाह्ययागभेदभिन्नमित्यर्थः ॥ २-३ ॥ सङ्कर्षण ने कहा—हे भगवन् ! आपने सूक्ष्म विभाग के साथ उस परब्रह्म का बाह्यान्तर सहित सम्यग् आराधना का निरूपण, उसे मैंने सुन लिया । अब मैं उस विभवान्तर विभु की आराधना जिस प्रकार की जाती है उसे सुनना चाहता हूँ जो संसारी मनुष्यों के लिये कल्याणकारी है ॥ २-३ ॥ स्थूलसूक्ष्मपरत्वभेदेन विभवावतारस्य त्रैविध्यकथनम् भगवानुवाच वैभवीयो महाबुद्धे देवतानिश्चयो महान् ।

१९६ सात्वतसंहिता य उक्तस्ते मया पूर्वमेकैकं विद्धि तन्त्रिधा ॥ ४ ॥ चतुर्णां युगसन्धीनां युगानां च तथैव हि । विश्वविप्लवदोषाणां विनाशाय समुद्यतम् ॥ ५ ॥ सितरक्तादिरूपेण ज्वलदस्त्रकराङ्कितम् । कार्यारम्भे तथा मध्ये ह्यवसाने तु सर्वदा ॥ ६ ॥ सन्धत्ते रूपमात्मीयमेक एव त्वनेकधा । श्रेयसे सर्वलोकानां स्थूलं तत् कामरूपधृक् ॥ ७ ॥ अनुद्यतेन वपुषा कुन्देन्दुधवलेन च । वीरासनादिना चैव स्थितं मुदितमानसम् ॥ ८ ॥ लीलाविधृतसर्वास्त्रं सौम्यवक्त्रमनाकुलम् । धिया दोषगणं सर्वं ध्वंसयन्तं च मोक्षिणाम् ॥ ९ ॥ तद्व्यक्तं शान्तसंज्ञं च रूपं रूपवतांवरम् । प्रकाशयति सन्मार्गं समाधिनिरतात्मनाम् ॥ १० ॥ तेजोमयं यत् तद्रूपं वैभवं शान्तसंज्ञकम् । उपासकानां भक्तानां सर्वे सर्वफलप्रदाः ॥ ११ ॥ एवं पृष्टो भगवान् स्थूलसूक्ष्मपरत्वभेदेन विभवावतारस्य त्रैविध्यमाह—वैभवीय इत्यारभ्य आमोक्षात्रिर्विचारेणेत्यन्तम् । अत्र युगानां युगसन्धीनामिति षष्ठ्या अधिक- रणत्वमर्थः । विश्वविप्लवदोषाणां विनाशाय समुद्यतम् । युगेषु तत्सन्धिकालॆषु च ये ये दोषाः संभवन्ति, तेषां प्रशमायाविर्भूतमित्यर्थः । अनेन— परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ — (गी० ४।८) इत्यर्थः स्मारितो भवति । सितरक्तादिरूपेण तत्तद्युगानुकारिवर्णभेदेनेत्यर्थः । तथा च श्रीभागवते— आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ इति । —(श्रीमद्भा० १०।८।१३) कार्यारम्भे मध्येऽवसाने च सृष्टिस्थितिसंहारकालेष्वित्यर्थः । एक एवानेकधा रूपं सन्धत्ते । सृष्टिकाले रक्तं रूपम्, रक्षणकाले शुक्लं रूपम्, संहारकाले कृष्णं रूपं बिभर्तीत्यर्थः । स्थूलं जाग्रत्पदस्थितमित्यर्थः । कामरूपधृक् = स्वेच्छया नाना- रूपधरमित्यर्थः । 'तद्व्यक्तं शान्तसंज्ञं च रूपम्' इत्यत्र व्यक्तमित्यनेन स्वप्नसुषुप्ति- पदाश्रितत्वम्, शान्तसंज्ञमित्यनेन तुर्यपदाश्रितत्वं चोच्यते । यतो लक्ष्मीतन्त्रे— त्रिविधं चातुरात्म्यं तु सुषुप्यादिपदत्रिके ।

नवमः परिच्छेदः १९७ सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ॥-(१०।४२) इति स्वप्नसुषुप्तिपदस्थस्य सुव्यक्तत्वं तुर्यपदस्थस्य शान्तत्वं चोक्तम् । एवं स्वप्नसुषुप्तितुर्यपदाश्रितत्वादिना विभिन्नस्यापि रूपस्यैक्यकथनं हृदयान्तःस्थितत्वेन सूक्ष्मत्वेन चाविशेषादिति बोध्यम् । रूपं सूक्ष्मरूपमित्यर्थः । तथा च जयाख्ये चतुर्थे पटले- स्रष्टा पालयिता चाहं संहर्ता पुनरेव च । स्वकीययोगयुक्त्या तु स्थूलरूपेण नारद ॥ सूक्ष्मेण सर्वभूतानां निवसामि हृदन्तरे । करोम्यनुग्रहं चापि भक्तानां भावितात्मनाम् ॥ परेणानन्दरूपेण व्यापकेनामलेन च । व्यास्याम्यखिलं विप्र रसेनेव तरूत्तमम् ॥ (४।२३-२५) इति । नन्वत्र व्यूहस्यैव तुर्यसुषुप्तिस्वप्नजाग्रत्पदाश्रितत्वेन चातुर्विध्यमुक्तम्, तद्विभवा- वतारेऽपि भवता कथमुच्यत इति चेत्, ब्रूमः- स्वप्नाद्यवस्थाभेदस्तु ध्यायिनां खेदशान्तये । तत्तत्पदस्थजीवानां तन्निवृत्त्यर्थमेव च ॥ स्वप्नाद्यवस्थाजीवानामधिष्ठातार एव ते । कर्मात्मनां च सेनेश तत्पदस्थो ममेच्छया ॥ उपास्योऽहं महाभाग पदभेदप्रयोजनम् ॥ -(तत्त्व०, पृ० १३३-१३४) इत्युक्तस्य फलस्य विभवावतारेऽप्यपेक्षितत्वाद् व्यूहवद् विभवस्यापि तुर्यादि- पदभेदेन चातुर्विध्यमुपपन्नम् । अत एवोक्तं जगज्जनन्या- पराद्यर्चावतारेऽस्मिन् मम रूपचतुष्टये ॥ तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः । -(लक्ष्मी० २।६०-६१) इति । वैभवं शान्तसंज्ञकमित्यत्र शान्तसंज्ञकं परात्परमित्यर्थः ॥ ४-१२ ॥ श्री भगवान् ने कहा—हे महाविभो ! वैभवीय देवताचित्य महान् है, जिसे मैंने आपसे पूर्व में कह दिया है । वह एक होते हुए भी स्थूल, सूक्ष्म एवं पर भेद से तीन प्रकार का है और चारों युग सन्धियों में चारों युगों में वह विश्वविप्लव दोषों की शान्ति के लिये समुद्यत रहता है ॥ ४-५ ॥ वह युगानुकारी सित एवं रक्तादि वर्ष भेद से स्थित तथा संहार काल में जलते हुए अस्त्र के तेजों से सर्वदा देदीप्यमान रहता है ॥ ६ ॥ वह एक होते हुए भी अपने एक रूप को अनेक रूपों में धारण करता है उसका जो स्थूल एवं कामरूपधृक् स्वरूप है वह सारे लोक का कल्याणकारी है । उसका वह स्वरूप कुन्द इन्दु के समान धवल है, अनुपम है, वीरासनादि से

१९८ सात्वतसंहिता संयुक्त है और वह प्रसन्नचित्त वाला है । वह लीला करने के लिये ही समस्त अस्त्रों को धारण करता है । उसका मुख सौम्य तथा आकुलता से रहित है । वह मात्र अपनी बुद्धि से समस्त मुमुक्षुओं के पापों को नष्ट करता रहता है ॥ ७-९ ॥ उसका स्वरूप स्वप्नसुषुप्ति पद में सुव्यक्त रहता है तथा तुर्य पद में शान्त रहता है । इस प्रकार एक होते हुए भी वह अनन्त रूप वाला है । उसका तेजोमय जो रूप है वही वैभव शान्तसंज्ञक है और वही समाधि निरत भक्तों में सन्मार्ग प्रकाशित करता है । उसके सभी वैभवीय रूप अपने उपासकों को सब प्रकार का फल प्रदान करते हैं ॥ १०-११ ॥ आमोक्षान्निर्विचारेण एकैकस्य महामते । आराधनार्थं विहितो वाचको हि चतुर्विधः ॥ १२ ॥ संज्ञानानापदमयः पिण्डाख्यो बीजलक्षणः । एभ्यो मध्यात् त्वथैकेन वाच्यमामन्त्र्य भक्तितः ॥ १३ ॥ अथ संज्ञापदपिण्डबीजभेदेन मन्त्राणां चातुर्विध्यं तेष्वेकतमेन भगवदावाहनाद्य- र्चनं चाह—एकैकस्य महामते इत्यादिना सार्धेन । वाच्यं भगवन्तमामन्त्र्य समावाह्य, अर्चयेदिति शेषः ॥ १२-१३ ॥ हे महामते ! उसके एक-एक स्वरूप मोक्ष पर्यन्त आराधन के लिये विहित हैं, वह उसके वाचक संज्ञा, पद, पिण्ड और बीज भेद से चार प्रकार के कहे गये हैं । अतः साधक बीज एवं पिण्ड इन दोनों मन्त्रों में से एक, अथवा संज्ञा एवं पद इन दोनों के मध्य में से एक, अथवा दोनों प्रकार के मन्त्रों में उभयात्मना दोनों मन्त्रों से अभिन्न एक भगवान् का अर्चन करे ॥ १२-१३ ॥ यत्रैकपिण्डवाक्योत्थमन्त्रेणाथोभयात्मना । अभिन्नलक्षणो वाच्य एक एवोपचर्यते ॥ १४ ॥ तत्र वै विधिनानेन कुर्यात्ताभ्यां हि कल्पनाम् । कृत्वादौ नाममन्त्रस्य बीजपिण्डाक्षरं तु वा ॥ १५ ॥ नयेत् तेनाभिमुख्यं च वाच्यमाद्यन्तकेन वा । सन्तन्त्य पदमन्त्रं तु विधिनानेन वै ततः ॥ १६ ॥ कुर्यात् प्रणवपीठस्थं नमस्कारध्वजान्वितम् । आभ्यां शान्तस्वरूपत्वादेकत्वमत एव हि ॥ १७ ॥ संज्ञाख्यं पदमन्त्रं च विद्धि संसिद्धिलक्षणम् । बीजपिण्डमन्त्रयोरन्यतरेण संज्ञापदमन्त्रयोरन्यतरेण चोभयेनाप्यभिन्नरूपस्यैक- स्यैव भगवतोऽर्चनं यत्र कार्यम्, तत्र तन्मन्त्रद्वयस्यापि संमेलनप्रकारम्, तदाद्यन्तयोः प्रणवनमःसंयोजनमन्त्रं चाह—यत्रेति सार्धैश्चतुर्भिः । आद्यन्तकेन वा आदिबीजमन्ते

नवमः परिच्छेदः १९९ यस्य तत् तथोक्तेन, अन्तेऽपि बीजसहितेनेत्यर्थः । यद्वा अन्त एवं बीजसहितेनेत्यर्थः । उभयथाऽप्युक्तं लक्ष्मीतन्त्रे— आदौ मध्ये तथान्ते च त्रिषु वान्यतरत्र वा ॥ येषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः ।—(२१।२२-२३) इति ॥ १४-१८ ॥ जहाँ पिण्ड मन्त्र से उत्पन्न एक ही बीज से वहाँ उभयात्मना योजना करे । मन्त्र के आदि में बीज जोड़ देवे, अथवा मन्त्र के अन्त में बीज जोड़ देवे, कोई अन्तर नहीं आएगा क्योंकि दोनों ही अभिन्न हैं । इस प्रकार दोनों प्रकारों से मन्त्र की कल्पना कर अर्चन करे । किन्तु नाम मन्त्र के आदि में ही पिण्डाक्षर अथवा बीज का संयोजन करे ॥ १४-१५ ॥ इसी प्रकार पद मन्त्र में भी आदि में बीजाक्षर अथवा पिण्डाक्षर की योजना करे । फिर प्रणव पीठ पर नमस्कार युक्त ध्वज लगावे । दोनों ही शान्त स्वरूप हैं, अतः एक ही हैं । संज्ञा मन्त्र और पद मन्त्र संसिद्धि लक्षण वाले हैं ॥ १६-१८ ॥ स्वरोत्थं व्यञ्जनोत्थं वा बीजमेकाक्षरं स्मृतम् ॥ १८ ॥ स्वरव्यञ्जनसंयोगाद् बह्वर्णः पिण्डमन्त्रराट् । बीजस्वरूपं पिण्डस्वरूपं चाह—स्वरोत्थमिति । स्वरोत्थम् अकारादिस्वरेष्व- न्यतमेन द्वाभ्यां बहुभिर्वा, उत्थम् = उत्पन्नमित्यर्थः । तथा चोपबृंहितं लोकमात्रा— एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम् ॥ बीजं बहुस्वरं वापि विज्ञेयं बहुधेश्वर । (लक्ष्मी० २१।११-१२) इति ॥ १८-१९ ॥ स्वर से उत्पन्न एक अक्षर तथा व्यञ्जन से उत्पन्न एक अक्षर बीज कहे जाते हैं । एक में मिले हुए स्वर और व्यञ्जन से जो बहुत वर्ण बन जाते हैं, वह पिण्ड मन्त्रराट् है ॥ १८-१९ ॥ द्वाभ्यामाद्यात् तथान्ताच्च स्वरवर्गान्महामते ॥ १९ ॥ स्वरूपेण हि मन्त्रत्वमन्येषां सह बिन्दुना । अकारादिषोडशस्वरेष्वाद्यस्वरद्वयस्यान्त्यस्वरद्वयस्य च स्वरूपेणैव मन्त्रत्वम्, अन्येषां स्वराणामनुस्वारसहितत्वे मन्त्रत्वमित्याह—द्वाभ्यामिति । आद्यद्वाभ्याम् अका- राकाराभ्याम्, अन्त्यद्वाभ्याम् अनुस्वारविसर्गाभ्यामित्यर्थः । इदं बीजचतुष्टयं पूर्व स्वप्नव्यूहमन्त्रचतुष्के च प्रतिपादितं ज्ञेयम् ॥ १९-२० ॥ स्वर वर्ण के आदि के तथा अन्त के दो-दो अक्षर अनुस्वार युक्त हों तो उनमें स्वाभाविक मन्त्रता सिद्ध है ॥ १९-२० ॥ स्वरेणैकेन युक्तस्य स्वरयुग्मान्वितस्य च ॥ २० ॥ सानुस्वारस्य बीजत्वं व्यञ्जनस्यापि लाङ्गलिन् ।

२०० सात्वतसंहिता ककारादिव्यञ्जनस्यापि बिन्दुसहितत्वेनैव मन्त्रत्वमाह—स्वरेणेति ॥ २०-२१ ॥ अनुस्वार सहित एक स्वर से युक्त व्यञ्जन अथवा अनुस्वार सहित दो स्वर से युक्त ककारादि व्यञ्जन की भी बीज संज्ञा होती है ॥ २१ ॥ य ओंकाराख्यशब्दस्य विवर्तो दीधितिप्रभः ॥ २१ ॥ चिल्लक्षणस्त्वनाकारो विद्धि तद्वाचकं त्रिधा । क्वचित् पिण्डं क्वचिद्बीजं क्वचिच्छब्दमनाहतम् ॥ २२ ॥ तस्य चोद्गीर्यमाणस्य परिणामः स्फुटो हि यः । बह्वक्षरो बहुपदः स्तुतिसम्बोधलक्षणः ॥ २३ ॥ बीजपिण्डसंज्ञापदमन्त्राश्चत्वारोऽपि प्रणवस्य परिणामाः । तत्राद्यास्त्रयः सूक्ष्म- परिणामाः, अन्त्यः स्थूलपरिणाम इत्याह—य ओंकाराख्यशब्दस्येति सार्द्धद्वाभ्याम् । आकारभेद इति यावत्, दीधितिप्रभः केवलतेजोरूप इत्यर्थः । चिल्लक्षणः = चिद्रूपः । अनाकारो गुणलक्ष्य इत्यर्थः । एवमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि— शब्दब्रह्मविवर्तोऽयं किरणायुतसंकुलः ॥ चिल्लक्षणः सद्गुणात्मा तस्य भेदश्चतुर्विधः । क्वचिद्बीजं क्वचित्पिण्डं क्वचित्संज्ञा क्वचित्पदम् ॥ तुर्यं सुषुप्तिः स्वप्नं च जाग्रद्व्यूहादयः क्रमात् ॥ (२१।९-११) एवं च मन्त्रप्रतिपाद्यस्य भगवतः पूर्वं परसूक्ष्म(स्य?)स्थूलभेदेन त्रैविध्यम्, तत्र सूक्ष्मस्य तुर्यसुषुप्तिस्वप्नभेदेन त्रैविध्यं च यथा प्रतिपादितम्, तद्वदिहापि प्रणवस्य परत्वम्, बीजपिण्डसंज्ञामन्त्राणां तुर्यसुषुप्तिस्वप्नक्रमेण सूक्ष्मत्वम्, पदमन्त्रस्य स्थूलत्वं चोक्तं भवतीति ज्ञेयम् ॥ २१-२३ ॥ ॐकार शब्द का विवर्त्त सूर्य की किरणों के समान अनेक है अर्थात् ओंकार पर है तथा बीज, पिण्ड एवं संज्ञा मन्त्र क्रमशः तुर्य, सुषुप्ति और स्वप्न के क्रम से सूक्ष्म है । पदमन्त्र वैखरी होने से स्थूल है ॥ २१-२२ ॥ उसी ॐकार के उच्चारण करने से परिणाम स्पष्ट जाना जाता है । वह कभी स्तुति सम्बोधन लक्षण वाला तथा बहुत अक्षरों वाला होता है और कहीं बहुत पदों वाला बन जाता है ॥ २३ ॥ अविनाशी स ओंकारो बीजादीनां महर्द्धिदः । प्राग् दद्यात् प्रणवेनातः सत्याख्येनासनं महत् ॥ २४ ॥ तस्माद् वै सत्यभिन्नं तु बीजं तदुपरि न्यसेत् । स्वविवर्तेन बीजस्य मूर्त्युत्थानं प्रकल्पयेत् ॥ २५ ॥ प्राप्तेज्यावसरे नित्यं सम्पन्ने यजने सति । तप्तोपले जलं यद्वत् तद्वत् विप्रलयं स्मरेत् ॥ २६ ॥

नवमः परिच्छेदः २०१ एवं प्रणवस्य नित्योदित्वात् सर्वमन्त्राणामप्याधारत्वेनादौ निवेशनम्, तदुपरि तद्विवृत्तस्य बीजस्य न्यासम्, प्रत्यहमाराधनकाले बीजात् तत्परिणामाकारेण संज्ञापद- मन्त्रयोरन्यतरस्योत्थानम्, समाप्ते यजने पुनस्तत्रैव लयं चाह—अविनाशीति त्रिभिः । बीजस्य क्षेत्रज्ञरूपत्वात् तदुपरि स्थितानां वर्णानां क्षेत्ररूपत्वाच्च मूर्त्युत्थानमुक्तम् । विप्रलयं स्मरेदित्यनेन मूर्तिरूपस्य मन्त्रस्य बीजे उपसंहारः, बीजस्य तत्कारणे प्रणवे चोपसंहारो बोध्यः । तथा च जयाख्ये— भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ॥ मुख्यमन्त्रशरीरं तु सम्प्रविष्टांश्च संस्मरेत् । ज्वाला ज्वालान्तरे यद्वत् समुद्रस्येव निम्नगाः ॥ तं मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज । प्रविष्टं भावयेत् सूक्ष्मे बुद्धयक्षे ह्युभयात्मके ॥ परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् । तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥ सन्धिमार्गेण हृत्पद्मे सम्प्रविष्टं तु भावयेत् । (१५।२३३-२३७) इति ॥ २४-२६ ॥ वह ॐकार अविनाशी है और बीजों को महान् समृद्धि देने वाला है । अतः साधक सर्वप्रथम सत्य नामक प्रणव से आसन प्रदान करे ॥ २४ ॥ इस प्रकार प्रणव के नित्योदित होने के कारण तथा सभी मन्त्रों का आधार होने के कारण पहले प्रणव का आसन सन्निविष्ट करे । उसके बाद उसके विवर्त्तभूत बीज मन्त्र को आसन देवे । प्रतिदिन आराधन काल में बीज से उसके परिणाम स्वरूप संज्ञामन्त्र, अथवा पदमन्त्र में किसी एक का उत्थान करे । फिर यजन समाप्त होने पर उसी में लय करे । इसलिये वह अविनाशी है । याग का अवसर प्राप्त होने पर पुनः उसकी समाप्ति हो जाने पर मन्त्र उस ॐकार में इस प्रकार सन्निहित हो जाते हैं, जैसे तप्त पत्थर पर जल डालने से जल उसमें लीन हो जाते हैं ॥ २५-२६ ॥ भानुप्रसरसंकोचतुल्यमेतद् महामते । क्रियावशात्तु किन्वत्र भेदमात्रोपलक्षणम् ॥ २७ ॥ (पृथिवीभिन्नस्य?) संज्ञापदमन्त्रयोरन्यतरस्य पूजाकाले बीजात् प्रसरणं तत्समाप्तौ तत्र संकोचश्च कथमुपपद्यत इति शङ्कां किरणसादृश्येन परिहरति— भानुप्रसरेति ॥ २७ ॥ संज्ञा एवं पदमन्त्र में से कोई एक पूजाकाल में कैसे बीज से फैल जाते हैं और कैसे संकुचित हो जाते हैं? इसे किरणों के सादृश्य से कहते हैं—जिस प्रकार सूर्य की किरणें सूर्य से ही विकसित हो कर उसी में लीन हो जाती हैं । यह भेद मात्र उपलक्षण है जो क्रियावश किया जाता है ॥ २७ ॥ सा० सं० - 17

२०२ सात्वतसंहिता न यत्र बीजं पिण्डं वा तत्र वै प्रणवादनु । प्राग्वर्णं पदमन्त्रस्य यत् तदालोकवाचकम् ॥ २८ ॥ तच्छिष्टं विग्रहं वर्णैस्तस्मादुत्थाप्य वृक्षवत् । बीजेन पिण्डेन वा विरहिते मन्त्रे प्रथमाक्षरस्यैव बीजत्वम्, तदवशिष्टानां वर्णानां तद्विग्रहत्वेन तस्मादुत्पादनं चाह— न यत्रेति सार्धेन । उत्थाप्येत्यत्राऽर्चयेदिति शेषः । एवमेवोपबृंहितं हरिवल्लभायापि— बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम् ॥ निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम् । इति । (लक्ष्मी० २१ । १७-१८) आदि प्रथमवर्णमित्यर्थः ॥ २८-२९ ॥ जहाँ बीज अथवा पिण्ड न हो वहाँ प्रणव के बाद 'पद वर्ण' का पहला अक्षर ही बीज का वाचक हो जाता है उससे शेष वर्णाक्षर रूप विग्रह को उसी बीज से वृक्ष की तरह उत्पन्न कर लेवे फिर उसकी अर्चा करे ॥ २८-२९ ॥ केवलं यत्र वै बीजं पिण्डं वा पदवर्जितम् ॥ २९ ॥ तत्राकाराख्यवर्णस्य क्षेत्रज्ञत्वं विधीयते । क्षेत्रत्वमवशिष्टानां वर्णानां पिण्डरूपिणाम् ॥ ३० ॥ संज्ञापदमन्त्ररहिते बीजे पिण्डे वाऽकारस्य बीजत्वम्, तदवशिष्टानां वर्णानां विग्रहत्वं चाह—केवलमिति सार्धेन । एवमेवोक्तं कमलवासिन्यापि— बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते ॥ शिष्टं तु क्षेत्रमुद्दिष्टम्........... (लक्ष्मी० २१ । १८-१९) इति । बीजानां पिण्डानां पदवर्जितकेवलबीजपिण्डानामित्यर्थः । अस्तु अकारस्त्वि- त्यर्थः ॥ २९-३०॥ केवलस्य हि बीजस्य स्वस्थितिर्ब्रह्मवर्णता । स्वभावप्रच्युतिर्बीजं बीजोच्चारस्तथाकृतिः ॥ ३१ ॥ बीजवत् पिण्डमन्त्राणां परिज्ञेयः सदोदयः । अकारेणापि रहितं बीजपिण्डविषयमाह—केवलस्येति सार्धेन । केवलस्य बीजस्य स्वस्थितिरेव ब्रह्मवर्णता स्वस्य स्थूलरूपा सूक्ष्मरूपा च स्थितिरेव ब्रह्मता वर्णता च । ब्रह्मता स्थूलता, मूर्तत्वमिति यावत् । वर्णता बीजत्वमित्यर्थः । क्षेत्रत्वं क्षेत्रज्ञत्वमप्यवस्थाभेदेनेकनिष्ठमिति भावः । तथाहि—स्वभावप्रच्युतिः स्थूलता- विरहः, मध्यमावस्थेति यावत् । सैव बीजं जीव इत्यर्थः । बीजोच्चारो बीजस्य स्थूल- रूपेण स्फुटोच्चारणमेव आकृतिः, क्षेत्रमित्यर्थः । एवमेव पिण्डमन्त्राणामप्युदयः परि- ज्ञेयः, क्षेत्रक्षेत्रज्ञभावो बोध्य इत्यर्थः । लक्ष्मीतन्त्रे त्वेवं क्षेत्रक्षेत्रज्ञभाव एकमात्रबीज- विषये प्रतिपादितः । अकाररहितबीजविषये तु स्वरस्यैव क्षेत्रज्ञत्वमुक्तम् । तथाहि—

नवमः परिच्छेदः २०३ ... ... ... ... ... ... ...अकाररहिते पुनः । क्षेत्रज्ञः स्वर उद्दिष्टः केवले च स्वरे पुनः ॥ जीवः स्यात् प्रथमा मात्रा द्वितीयादि तनुर्भवेत् । एकमात्रे तु जीवः स्यात् संस्कारो भूतलक्षणम् ॥ उच्चार्यमाणं क्षेत्रं स्यान्त्रिःस्वरे पिण्डके पुनः । प्रथमो जीव उद्दिष्टः शिष्टं क्षेत्रं प्रचक्षते ॥ —(२९।१९-२१) इति । संस्कारः शब्दस्य मध्यमावस्थेत्यर्थः । उक्तं खलु तत्रैव— ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः । मध्यमा सा दशा तत्र संस्कारयति संगतिम् ॥ वाच्यवाचकभेदस्तु तदा संस्कारतामयः ॥ (१८।२५-२६) इति । भूतलक्षणं स्थूलरूपम्, उच्चार्यमाणं वैखर्यवस्थापन्नमित्यर्थः । तथा चोक्तं तत्रैव —‘‘वैखरी नाम सावस्था वर्णवाक् संस्कृतोदया (१८।२७) इति ॥ ३१-३२ ॥ जहाँ केवल बीज हो, अथवा जहाँ केवल पिण्ड हो, पद न हो, वहाँ केवल अकार वर्ण को बीज समझे । उससे शेष वर्ण को विग्रह समझे ॥ २९-३० ! जहाँ अकार भी न हो वहाँ केवल बीज की स्वस्थिति ब्रह्मवर्णता तथा स्वभाव प्रच्युति बीज समझनी चाहिये । बीज का स्पष्ट रूप (बैखरी रूप) से उच्चारण करना क्षेत्र है । इसी प्रकार क्षेत्र-क्षेत्रज्ञ भाव समझना चाहिये । बीज के समान पिण्ड मन्त्रों का भी क्षेत्र-क्षेत्रज्ञ भाव समझना चाहिये । जितने भी बीज लक्षण वैष्णव मन्त्र हैं उनमें महान् शक्ति है ॥ ३१-३२ ॥ यद्बीजलक्षणं मन्त्रं सामर्थ्यं वैष्णवं महत् ॥ ३२ ॥ असंख्येयमसंख्यानां वाच्यानां भिन्नरूपिणाम् । तद्यथावत् परिज्ञानाज्जपाद् ध्यानात् समर्चनात् ॥ ३३ ॥ हवनात् तन्मयत्वाच्च निर्बीजं पदमृच्छति । सहाभिमतसिद्धिः स्यात् साधकानां सदैव हि ॥ ३४ ॥ बीजमन्त्रफलमाह—यदिति सार्द्धद्वाभ्याम् । वैष्णवं सामर्थ्यं = भगवत्सामर्थ्य- रूपमित्यर्थः । असंख्येयं = मन्त्रप्रतिपाद्यस्य नानारूपतयाऽसंख्यातत्वात् तत्प्रतिपादक- मपि तथा नानाविधाकारमित्यर्थः । तद्यथावत् परिज्ञानात् तस्य बीजस्य सप्रकार- ज्ञानादित्यर्थः । निर्बीजं पदम् = अनाद्यन्तं परमं धामेत्यर्थः । ऋच्छति = प्राप्नोति, साधक इति शेषः । सहाभिमतसिद्धिः स्यादिति तेन मोक्षरूपफलेन सहाभिमतार्थ- सिद्धेरुक्तत्वान्मोक्षस्य प्राधान्यमन्येषामानुषङ्गिकत्वमुक्तं भवति ॥ ३२-३४ ॥ जिस प्रकार मन्त्र से प्रतिपाद्य के अनेक रूप होने से वह असंख्यात है उसी प्रकार उसका प्रतिपादक भी अनेक रूप होने से असंख्यात है । उस बीज के

२०४ सात्वतसंहिता यथावत् परिज्ञान से, ध्यान से, अर्चन से, हवन से एवं तन्मयता से साधक भी निर्बीज (अनाद्यन्त परम धाम) प्राप्त कर लेता है। ऐसा करते रहने से साधक के अभिमत की सिद्धि हो जाती है ॥ ३३-३४ ॥ पिण्डादिभगवन्मन्त्रमूर्तीनामेवमेव हि । परिज्ञानाद् भवेत् किन्तु पिण्डात् तत्स्थैर्यमुत्तमम् ॥ ३५ ॥ नानात्वं नाममन्त्राच्च नानालोकान्तरोत्थितम् । भवेत् सर्वपदप्राप्तिः परिज्ञानात् पदाभिधात् ॥ ३६ ॥ पिण्डसंज्ञापदमन्त्राणामप्येवमेव चतुर्विधपुरुषार्थप्रदत्वमस्ति, किन्तु तत्र मोक्षेतर- फलस्थैर्यादिकं भवेदित्याह—पिण्डादीति सार्द्धद्वाभ्याम् । तत् स्थैर्यं मोक्षेतरभि- मतार्थस्थैर्यमित्यर्थः । नानात्वं तेषामेव नानाविधत्वमित्यर्थः ॥ ३५-३६ ॥ पिण्ड, संज्ञा, पद, मन्त्रों में भी यद्यपि चतुर्विध पुरुषार्थ प्रदत्व है किन्तु उसमें मोक्षेतर फल देने का निश्चय है। मोक्ष के विषय में कोई निश्चय नहीं क्योंकि मोक्षफल प्राप्ति के लिये दृढ़ निश्चय की आवश्यकता होती है ॥ ३५-३६ ॥ सबीजं वा सपिण्डं वा मन्त्राणां यत्परं द्वयम् । विदधाति फलं स्वं स्वं किन्त्वाद्यं भावयेत् परम् ॥ ३७ ॥ मन्त्रक्षेत्रज्ञरूपत्वाद् यस्मात् सर्वेश्वरोऽच्युतः । व्याप्यव्यापकरूपेण वर्ततेऽनुग्रहेच्छया ॥ ३८ ॥ बीजपिण्डाभ्यां सह संज्ञापदमन्त्रयोः संयोजनमुक्तम् । तत्र फलप्रदत्वं पूर्वस्य वा परस्य वोभयोर्वेत्याकाङ्क्षायां परस्यैव स्वफलप्रदत्वम्, पूर्वस्य तु क्षेत्रज्ञरूपेण भावनामात्रं चाह—सबीजमिति सपादेन ॥ ३७-३८ ॥ बीज, पिण्ड तथा संज्ञा पद इनका संयोजन पहले कह दिया गया है। किन्तु पूर्वद्वय की अपेक्षा संज्ञा पद (द्विक) मन्त्र में फल देने की शक्ति है। इतर द्वय क्षेत्रज्ञ रूप से भावना मात्र है ॥ ३६-३७ ॥ यद्यपि सर्वेश्वर अच्युत क्षेत्र एवं क्षेत्रज्ञ दोनों रूप से स्थित हैं तथापि भक्तों पर अनुग्रह करने के लिये वे व्याप्य-व्यापक (= क्षेत्र-क्षेत्रज्ञ) रूप भी धारण करते हैं ॥ ३८ ॥ व्याप्यरूपेण भूलोकाद् भोगादारभ्य चाखिलात् । षाड्गुण्यमहिमान्तं च ददाति फलमुत्तमम् ॥ ३९ ॥ स्वपदं भोगखिन्नस्य दिव्यदेहस्य कर्मिणः । क्षेत्रज्ञबीजपिण्डात्मा निरावरणलक्षणः ॥ ४० ॥ ज्ञानं यदमलं शुद्धं संयच्छत्यात्मलाभदम् ।

नवमः परिच्छेदः २०५ पुनरिममेवार्थं सहेतुकं द्रढयन् क्षेत्रक्षेत्रज्ञयोरुभयोरपि भगवद्रूपत्वात् क्षेत्रस्यैव भोगमोक्षप्रदत्वं क्षेत्रज्ञभूतस्य बीजपिण्डान्यतरस्य तु मोक्षसाधकज्ञानप्रदत्वं चाह— यस्मादिति सपादैस्त्रिभिः । व्याप्यव्यापकरूपेण = क्षेत्रक्षेत्रज्ञरूपेणेत्यर्थः । निरावरण- लक्षणो व्यापकरूप इत्यर्थः ॥ ३८-४१ ॥ वह सर्वेश्वर भगवान् व्याप्य रूप से समस्त भूलोक से ‘भोग से आरम्भ कर षाड्गुण्य महिमा पर्यन्त समस्त उत्तम फल प्रदान करते हैं । भोग से खिन्न दिव्य देह वाले संसारी मनुष्यों के लिये वह क्षेत्रज्ञ, बीज, पिण्डात्मा एवं निरावरण लक्षण अर्थात् व्यापक स्वरूप वाले अपना पद प्रदान कर देते हैं और आत्म कल्याण करने वाले निर्मल विशुद्ध ज्ञान को भी देते हैं ॥ ३०-४१ ॥ शक्तिव्यक्तिमयत्वं च जाग्रद्वृत्तेः पदात्मनः ॥ ४१ ॥ एवं संज्ञात्मनः स्वप्नवृत्तेरेकत्वमस्ति च । सुषुप्तिवृत्तेः पिण्डाख्यमन्त्रस्यैव महामते ॥ ४२ ॥ बीजात्मनस्तुर्यवृत्तेः शक्तिव्यक्तिवमस्ति वै । जाग्रत्स्वप्नसुषुप्तितुर्यावस्थानां पदसंज्ञापिण्डबीजानां च क्रमेण परस्परं शक्ति- व्यक्तित्वमाह—शक्तीति द्वाभ्याम् ॥ ४१-४३ ॥ व्यक्तिर्ज्ञानफलोपेता नियता यद्यपि स्मृता ॥ ४३ ॥ भगवन्मन्त्रमूर्तीनां तथापि परमात्मनः । आद्यस्य चातुरात्म्यस्य केवलस्याथवा विभोः ॥ ४४ ॥ चतुष्प्रकारं यन्मन्त्रं विद्धि तन्मोक्षभूतिदम् । अतोऽन्यथा यदुद्दिष्टममिश्रं मिश्रमेव हि ॥ ४५ ॥ फलं भाववशाच्चैव तत्तथा विद्धि नान्यथा । यद्यपि बीजादिभगवन्मन्त्रव्यक्तेर्ज्ञानप्रदत्वं भोगमोक्षफलप्रदत्वं च नियमेनोक्तम्, तथापि तत्सुषुप्तिव्यूहादिमन्त्रव्यक्तिविषयम्, परमन्त्राणां तु चतुर्विधानामपि मोक्षप्रदत्व- मेवेत्याह—व्यक्तिरिति त्रिभिः । आद्यस्य चातुरात्म्यस्य = तुर्यव्यूहस्येत्यर्थः । केवलस्य विभोः = परात्परस्येत्यर्थः । अतोऽन्यथा यदुद्दिष्टं = सुषुप्तिव्यूहादि- क्रमेणोक्तं मन्त्रजातमित्यर्थः । अमिश्रं फलं केवलमोक्षमित्यर्थः । मिश्रं फलं भोग- सहितं मोक्षमित्यर्थः । भाववशात् तत्तदभिसन्ध्यनुसारेणेत्यर्थः । ददातीति शेषः । एवं च द्वितीयपरिच्छेदोक्तस्य परमन्त्रस्य पदमन्त्रत्वेऽपि मुख्यतो मोक्षप्रदत्वात्, अत एव तन्मन्त्रस्य योगिभिरूपास्यत्वेन पूर्वमुक्तत्वाच्चेदानीं संज्ञापदमन्त्रसामान्यस्य भोगप्रदातृ- त्वोक्तिर्विरुद्ध्येतेत्यभिप्रायेणैवं विषयव्यवस्था कृतेति बोध्यम् ॥ ४३-४६ ॥ जाग्रत्, स्वप्न, सुषुप्ति एवं तूर्य अवस्था वाले पद, संज्ञा, बीज एवं पिण्ड मन्त्रों में क्रम से परस्पर शक्ति की व्यक्ति होती है । इस प्रकार संज्ञा वाले मन्त्र और